ब्रह्मसूत्र2 (टीका सहित) · अध्याय 54
fन्: इतो ऽस्माल्लोकान् दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः ।
तर्हि शाखान्तरन्यायेनैव कर्मैक्यवद्विद्यैक्यसिद्धैः पुनरुक्तिरित्यत आह- इहापीति ।
रूपस्योत्पत्तिशिष्टत्वं विशेषः ।
पञ्चाग्नीन्वेदेत्याद्युपासनोत्पत्तिविधिस्थपञ्चाग्न्यादिरूपभेदादुपासनाभेदः स्यादामिक्षावाजिनरूपभेदात्कर्मभेदवादित्यधिकाशङ्कानिरासार्थत्वान्न पौनरुक्त्यमस्याधिकरणस्येति मत्वा शङ्कां व्याचष्टे- स्यादित्यादिना ।
अस्य पृथक्शास्त्रत्वात्कर्मन्यायानां मानसविद्यासु विना सूत्रं दुर्योजत्वाच्च पुनरुक्तिगन्धो ऽपि नास्तीति मन्तव्यम् ।
ननु तस्य मृतस्य दाहार्थमग्निरन्त्येष्टिगतः षष्ठो यः प्रसिद्धवद्वाजिभिरुक्तः स छान्दोग्ये उपसंहार्य इति न रूपभेदः, तत्राह- न चात्रेति ।
अस्तु प्रजननगुणवतो रेतसो वाजिनामावापश्छन्दोगानां च तस्योद्वापस्ततः किमित्यत आह- आवापेति ।
छान्दोग्ये षष्ठाग्न्यभावमङ्गीकृत्याल्परूपभेदो न विद्यैक्यविरोधीति परिहरति- नैष इत्यादिना ।
अङ्गीकारं त्यजति- पठ्यते ऽपीति ।
इतो ऽस्माल्लोकादिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः ।
ननु छान्दोग्ये ऽग्निमात्रं श्रुतं वाजिभिस्तु समिदादिविशेषः पठ्यते इति रूपभेदस्तदवस्थः, तत्राह- वाजसनेयिनस्त्विति ।
षष्ठाग्नेस्तद्विशेषस्य चानुवादमात्रत्वेनानुपास्यत्वात्पञ्चाग्नय एवोपास्या उभयत्रेति न रूपभेद इत्यर्थः ।
सविशेषस्य षष्ठाग्नेरूपास्यत्वे ऽपि न रूपभेद इत्याह- अथापीति ।
द्युलोकादीनां पञ्चानामनग्नीनामग्नित्वसंपत्तिविधिनैवार्थात्पञ्चत्वं संपत्तिकल्पिताग्नीनां सिद्धमनूद्यते न ध्येयत्वेन विधीयत इत्यर्थः ।
छन्दोगैर्वाजिशाखास्थं रेत उपसंहर्तव्यमित्युक्त्वानुपसंहारे ऽपि न विद्याभेद इत्याह- न चावापेति
एन्द् ब्स्चोम्_3,3.1.2
स्तर्त् ब्स्चोम्_3,3.1.3
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः । ब्ब्स्_3,3.3 ।
यदप्युक्तमाथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणादन्येषां च तदनपेक्षणाद्वद्याभेद इति तत्प्रत्युच्यते ।
स्वाध्यायस्यैष धर्मो न विद्यायाः ।
कथमिदमवगम्यते ।
यतस्तथात्वेन स्वाद्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्त आथर्वणिका इदमपि वेदव्रतत्वेन व्याक्यातमिति समामनन्ति ।
ऽनैतदचीर्णव्रतो ऽधीतेऽ (मु. 3.2.11) इति चादिकृतविषयादेच्छब्दादध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एवैष इति निर्दार्यते ।
ननु च ऽतेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्ऽ (मुण्ड. 3.2.10) इति ब्रह्मविद्यासंयोगश्रवणादेकैव सर्वत्र ब्रह्मविद्येति संकीर्येतैष धर्मः ।
न ।
तत्राप्येतामिति प्रकृत्यप्रत्यवमर्शात् ।
प्रक-तत्वं च ब्रह्मविद्याया ग्रन्थविशेषापेक्षमिति ग्रन्थविशेषसंयोग्येवैष धर्मः ।
सववच्च तन्नियम इति निदर्शननिर्देशः ।
यथाच सवाः सप्त सौर्यादयः सथौदनपर्यन्ता वेदान्तरोदितत्रेताग्न्यनभिसंबन्धादथर्वणोदितैकाग्न्यभिसंबन्धाच्चाथर्वणिकानामेव नियम्यन्ते तथैवायमपि धर्मः स्वाध्यायविशेषसंबन्धात्तत्रैव नियम्यते ।
तस्मादप्यनवद्यं विद्यैकत्वम्
एवं रूपभेदो न विद्याभेदक इत्युक्त्वा धर्मविशेषो ऽपि न भेदक इत्याह- स्वाध्यायस्येति ।
गोदानवदध्ययनाङ्गत्वेन शिरोव्रतमाथर्वणिकानां सूत्रे विहितं न विद्याङ्गमित्यर्थः ।
अधिकाराच्चेति व्याचष्टे- नैतदिति ।
एतत्प्रकृतं मुण्डकमननुष्ठितशिरोव्रतो नरो नाधीत इति श्रुतेर्मुण्डकाध्ययनाङ्गमेव शिरोव्रतमित्यर्थः ।
ननु विद्याङ्गत्वेनापि इदं व्रतं श्रुतमिति शङ्कते- नन्विति ।
सर्वशाखासु ब्रह्मविद्यैकैव चेद्विद्यासंयुक्तं व्रतमपि सर्वत्र संबध्येत ।
नच संबध्यत इति विद्याभेद इत्यर्थः ।
प्रकृतग्रन्थवाच्यैतच्छब्दबलाद्ब्रह्मप्रकाशग्रन्थपरो ब्रह्मविद्याशब्द इति परिहरति- नेति ।
तस्य शिरोव्रतस्य मुण्डकाध्ययने नियम इत्यत्र सववदिति निदर्शननिर्देशः ।
सवा होमाः ।
अथर्वणैः स्वसूत्रे उदित एको ऽग्निरेकर्षिसंज्ञया प्रसिद्धस्तस्मिन्नग्नौ कार्या इति यथा नियम्यन्ते तथेत्यर्थः
एन्द् ब्स्चोम्_3,3.1.3
स्तर्त् ब्स्चोम्_3,3.1.4
दर्शयति च । ब्ब्स्_3,3.4 ।
दर्शयति च वेदो ऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् सर्वे वेदा यत्परमामनन्ति (क. 2.15) इति ।
तथा एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य एतं महाव्रते छन्दोगाः इति च ।
तथा ऽमहद्भयं वज्रमुद्यतम्ऽ (क.6.2) इति काठक उक्तस्येश्वरगुणस्य भयहेतुकस्य तैत्तिरीयके भेदर्शननिन्दायै परामर्शो दृश्यते ऽयदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवति ।
तत्त्वेव भयं विदुषो ऽमन्वानस्यऽ (तै. 2.7.1) इति ।
तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्वानरस्य छान्दोग्ये सिद्धवदुपादानम् ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्तेऽ (छा. 5.18.1) इति ।
तथा सर्ववेदान्तप्रत्ययत्वेनान्यत्र विहितनामुक्थादीनामन्यत्रोपासनविधानायोपादानात्प्रायदर्शनन्यायेनोपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः
किञ्च वेद्यैक्येन निर्गुणब्रह्मविद्यैक्यं तावच्छ्रुतिर्दर्शयति, तत्संनिधिपाठात्सगुणविद्यानामपि सर्वशाखास्वैक्यसिद्धिरित्याह सूत्रकारः- दर्शयति चेति ।
सगुणमप्येकं वेदत्रये वेद्यं दर्शयतीत्याह- तथेति ।
किञ्च शाखान्तरोक्तपादार्थस्य शाखान्तरे सिद्धवत्परामर्शो विद्यैक्यं दर्शयतीत्याह- तथा महद्भयमित्यादिना ।
एष नर एतस्मिन्नद्वये ऽल्पमप्यन्तरं भेदं यदा पश्यत्यथ तदा तस्य संसारभयं भवत्येव, यस्माद्विदुषो नरस्य भेददर्शिनस्तदेव ब्रह्म भयङ्करं भवति, ब्रह्मैवाहमित्यमन्वानस्येत्यर्थः ।
प्रादेशमात्रमुपास्त इति सिद्धवदुपासनं वैश्वानरविद्यैक्यं दर्शयतीत्याह- तथेति ।
किञ्च सर्वेषु वेदान्तेषूक्थादीनां प्रतीयमानत्वेन हेतुनैतदवगम्यते-अन्यत्रोक्तानां तेषामन्यत्रोपास्त्यर्थमुपादानमिति ।
ततस्तदुपास्तीनामपि सर्ववेदान्तप्रमाणकत्वेनैक्यं बाहुल्येन सिध्यतीत्याह- तथेति ।
ब्रह्मविद्यैक्यवदुक्थादिविद्यैक्यमित्यर्थः
एन्द् ब्स्चोम्_3,3.1.4
स्तर्त् ब्स्चोम्_3,3.2.5
2 उपसंहाराधिकरणम् । सू. 5
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च । ब्ब्स्_3,3.5 ।
इदं प्रयोजनसूत्रम् ।
स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानामन्यत्रोदितानां विज्ञानगुणानामन्यत्रापि समाने विज्ञान उपसंहारो भवति ।
अर्थाभेदात् ।
य एव हि तेषां गुणानामेकत्रार्थो विशिष्टविज्ञानोपकारकः स एवान्यत्रापि ।
उभयत्रापि हि तदेवैकं विज्ञानं तस्मादुपसंहारः ।
विधिशेषवत् ।
यथाहि विधिशेषाणामग्निहोत्रादिधर्माणां तदेवैकमग्निहोत्रादि कर्म सर्वत्रेत्यर्थाभेदादुपसंहरणमेवमिहापि ।
यदि हि विज्ञानभेदो भवेत्ततो विज्ञानान्तरनिबद्धत्वाद्गुणानां प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः ।
विज्ञानैकत्वे तु नैवमस्ति ।
अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः सर्वाभेदादित्यारभ्य भविष्यति
सर्वशाखासु विद्यैक्यचिन्तायाः फलमाह- उपसंहार इति ।
शाखाभेदे समानविद्यायां श्रुता गुणा यथाश्रुति व्यवस्थिता उत एकत्राश्रुता इतरशाखात उपसंहर्तव्या इति संदेहे विद्यैक्ये ऽपि तत्र तत्रोक्तैरेव गुणैर्विद्योपकारसिद्धेः शाखाभेदेन गुणा व्यवस्थिता इति पूर्वपक्षः, तत्र प्रकृतविद्यैक्यचिन्तानैष्फल्यमिति फलम् ।
सिद्धान्तत्वेन सूत्रं व्याचष्टे- स्थिते चेत्यादिना ।
गुणानां गुण्यविनाभावादेतच्छाखास्था विद्या शाखान्तरोक्ततद्विद्यागुणवती, तदभिन्नत्वात्, तद्विद्यावदित्यनुमानद्विद्यैक्ये गुणोपसंहारसिद्धिरित्यर्थः ।
प्रधानैक्ये तत्तदुपकारकाणमङ्गानामुपसंहारे दृष्टान्तमाह- विधिशेषवदिति ।
उक्तमेव व्यतिरेकमुखेनाह- यदिहीति ।
नन्वाग्नेययागावरुद्धानां गुणानां ततो ऽभिन्ने सौर्ये प्राप्तिवद्विद्यान्तरस्थगुणानां विद्यान्तरे प्राप्तिः किं स्यादित्यत आह- प्रकृतीति ।
प्रकृतिगुणानां विकारे प्राप्तिर्युक्ता विद्यानां तु प्रकृतिविकृतिभावासिद्धेर्न तत्प्राप्तिरित्यर्थः ।
नैवमिति गुणानुपसंहारो नेत्यर्थः ।
उत्तरसूत्राणामनेन सूत्रेण पौनरुक्त्यं वारयति- अस्यैवेति
एन्द् ब्स्चोम्_3,3.2.5
स्तर्त् ब्स्चोम्_3,3.3.6
3 अन्यथात्वाधिकरणम् । सू. 6-8
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् । ब्ब्स्_3,3.6 ।
वाजसनेयके ऽते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेतिऽ (बृ. 1.3.1) ऽते ह वाचमुचुस्त्वं न उद्गायऽ (बृ.
1.3.2) इति प्रक्रम्य वागादीन्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ऽ (बृ. 1.3.7) इति ।
तथा छान्दोग्ये ऽपि - ऽतद्धदेवा उद्गीथमाजग्मुरनेनैनानभिभविष्यामःऽ (छा. 1.21) इति प्रक्रम्येतरान्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा तथैव मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरेऽ (छा. 1.2.7) इति ।
उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते ।
तत्र संशयः - किमत्र विद्याभेदः स्यादाहोस्विद्विद्यैकत्वमिति ।
किं तावत्प्राप्तं पूर्वेण न्यायेन विद्यैकत्वमिति ।
ननु न युक्तं विद्यैकत्वं प्रक्रमभेदात् ।
अन्यथा हि प्रक्रमन्ते वाजसनेयिनो ऽन्यथा छन्दोगाः ऽत्वं न उद्गायऽ (बृ. 1.3.2) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति ।
छन्दोगास्तूद्गीथत्वेन ऽतमुद्गीथमुपासंचक्रिरेऽ (छा. 1.2.7) इति ।
तत्कथं विद्यैकत्वं स्यादिति चेत् ।
नैष दोषः ।
न ह्येतावता विशेषेण विद्यैकत्वमपगच्छति ।
अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् ।
तथाहि - देवासुरसंग्रामोपक्रमत्वमसुरात्ययाभिप्राय उद्गीथोपन्यासो वागादिसंकीर्तनं तन्निन्दया मुख्यप्राणव्यपाश्रयस्तद्वीर्याच्चासुरविध्वंसनमश्मलोष्टनिदर्शनेनेत्येवं बहवोर्ऽथा उभयत्राप्यविशिष्टाः प्रतीयन्ते ।
वाजसनेयके ऽपिचोद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् - ऽएष उ वा उद्गीथःऽ (बृ. 1.3.23) इति ।
तस्माच्छान्दोग्ये ऽपि कर्तृत्वं लक्षयितव्यम् ।
तस्माच्च विद्यैकत्वमिति
fन्: आसन्यं आस्ये भवम् ।
असुरात्ययाभिप्रायो ऽसुरजयार्थं संवादः ।
पूर्वं चोदनाद्यविशेषादुत्सर्गतो विद्यैक्यमुक्तं तस्यापवादं वक्तुमाह- अन्यथात्वमिति ।
अत्र वाजिनामुद्रीयब्राह्मणं छन्दोगानामुद्गीथाध्यायं च विषयमाह- वाजेत्यादिना ।
ऽते ह देवाः सात्त्विकवृत्तयः प्राणा अन्योन्यमुचूर्हन्तेदानीमस्मिन्यज्ञे उद्गीथेनौद्गात्रेण कर्मणा रजस्तमोवृत्तिरूपानसुरानतीत्य देवत्वं गच्छामःऽइति ते चैवं निर्देषमुद्गीथकर्तारमुपास्यं निर्धारयितुं कृतसंवादाः प्रथमं वाच्यं परीक्षितवन्तस्त्वमौद्गात्रं नो ऽस्माकं कुर्विति तया त्वनृतं कृतं तथा घ्राणचक्षुःश्रोत्रमनांस्यपि कामेनासुरपाप्मना ग्रस्तानीति निन्दित्वा आसन्यमास्ये भवं मुखमध्यस्थं प्राणमुपास्यं निर्धारितवन्त इत्यर्थः ।
तत्तत्रान्योन्यभिभवात्मकयुद्धे प्रवृत्ते देवाः पूर्ववदुद्गीथमाहृतवन्तः अनेनोद्गीथेनैनानसुराञ्जयेमेत्यर्थः ।
भेदाभेदमानाभ्यां संशयमाह- तत्रेति ।
अत्र पूर्वाधिकरणसिद्धान्तन्यायेनोद्गीथविद्येति संज्ञैक्येन विद्यैक्यमिति पूर्वपक्षे मिथो गुणोपसंहारः फलं, सिद्धान्ते संज्ञैक्ये ऽपि विद्यैक्यापवादादनुपसंहार इति ।
एवं यत्र पूर्वन्यायेन पूर्वपक्षः तत्रापवादिकी संगतिरिति मन्तव्यम् ।
सूत्रस्थसिद्धान्तिशङ्काभागं व्याचष्टे- ननु न युक्तमिति ।
संपूर्णोद्गीथकर्मकर्ता प्राणो वाजिनामुपास्यः, उद्गायेति कर्तृशब्दाच्छन्दोगानां तूद्गीथावयव ओङ्कारः प्राणदृष्ट्योपास्यः, ओंमित्येतदक्षरमुद्गीथमित्युपक्रम्य प्राणमुद्गीथमिति कर्मरूपत्वशब्दात्, तथाच कर्तृकर्मणोरूपास्ययोर्भेदाद्विद्ययोरन्यथात्वं भेद इति शङ्कार्थः ।
उद्गीथत्वेनेति ओङ्कारत्वेनेत्यर्थः ।
अल्परूपभेदो न विद्यैक्यविरोधीत्युक्तन्यायेन पूर्वपक्षी परिहरति- नैष इति ।
असुरात्ययाभिप्रायः असुरजयार्थं संवादः, यथाश्मानं प्राप्य लोष्टो विध्वंसते तथा प्राणं हन्तुमागता असुरास्तस्य वीर्येण स्वयमेव ध्वस्ता इति श्रुतमुभयत्रेत्यर्थः ।
अल्परूपभेदमङ्गीकृत्यापि विद्यैक्यमुक्तं सो ऽपि नास्तीत्याह- वाजेति ।
उद्गीथकर्तृरूपत्वेन प्राणस्योभयत्र श्रुतत्वादेकत्र श्रुतं कर्तृत्वमप्युभयत्र द्रष्टव्यमित्यर्थः
एन्द् ब्स्चोम्_3,3.3.6
स्तर्त् ब्स्चोम्_3,3.3.7
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् । ब्ब्स्_3,3.7 ।
न वा विद्यैकत्वमात्र न्याय्यं विद्याभेद एवात्र न्याय्यः ।
कस्मात् ।
प्रकरणभेदादिति ।
प्रक्रमभेदादित्यर्थः ।
तथाहि - इह प्रक्रमभेदो दृश्यते ।
छान्दोग्ये तावत् - ओमित्येतदक्षरमुद्गीथमुपासीत (छा. 1.1.1) इत्येवमुद्गीथावयवस्योङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानं तत्र कृत्वा अथ खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति (छा. 1.1.10) इति पुनरपि तमेवोद्गीथावयवमोङ्कारमनुवर्त्य देवासुराख्यायिकाद्वारेण तम् प्राणमुद्गीथमुपासांचक्रिरे (छा. 1.2.2) इत्याह ।
तत्र यद्युद्गीथशब्देन सकला भक्तिरभिप्रेयेत तस्याश्च कर्तोद्गातर्त्विक्तत उपक्रमश्चोपरपध्येत लक्षणा च प्सज्येत ।
उपक्रमानुरोधेन चैकस्मिन्वाक्य उपसंहारेण भवितव्यम् ।
तस्मादत्र तावदुद्गीथावयव ओङ्कारे प्राणदृष्टिरुपदिस्यते ।
वाजसनेयके तद्गीथशब्देनावयवग्रहणे कारणाभावात्सकलैव भक्तिरावेद्यते ।
त्वं न उद्गाय (बृ. 1.3.2) इत्यपि तस्याः कर्तोद्गातर्त्विक्प्राणत्वेन निरूप्यत इति प्रस्थानान्तरम् ।
यदपि तत्रोद्गीथसामानाधिकरण्यं प्राणस्य तदप्युद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति ।
सकलभक्तिविषय एव च तत्राप्युद्गीथशब्द इति वैषम्यम् ।
नच प्राणस्योद्गातृत्वमसंभवेन हेतुना परित्यजत उद्गीथभाववदुद्गातृभावस्याप्युपासनार्थत्वेनोपदिश्यमानत्वात् ।
प्राणवीर्येणैव चोद्गातौद्गात्रं करोतीति नास्त्यसंभवः ।
तथाच तत्रैव श्रावितम्- वाचा च ह्येव स प्राणेन चोदगायत् (बृ. 1.3.24) इति ।
नच विवक्षितार्थभेदे ऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् ।
तथाह्यभ्युदयवाक्ये पशुकामवाक्ये च त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् इत्यादिनिर्देशसाम्ये ऽप्युपक्रमभेदादभ्युदयवाक्ये दवतापनयो ऽध्यवसितः, पशुकामवाक्ये तु यागविधिः ।
तथेहाप्युपक्रमभेदाद्विद्याभेदः ।
परोवरीयस्त्वादिवत् ।
यथा परमात्मदृष्ट्यध्याससाम्ये ऽपि ऽआकोशो ह्येवैभ्यो ज्यायानाक्शः परायणम्ऽ (छा. 1.9.1) ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छा. 1.9.2) इति परोवरीयस्त्वगुणविशिष्टमुद्गीथोपासनमक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनाद्भिन्नम् ।
नचेतरेतरगुणोपसंहार एकस्यामपि शाखायां तद्वच्छाखान्तरस्थेष्वप्येवञ्जातीयकेषूपासनेष्विति
fन्: वैषम्यमुभयत्र विद्यानानात्वम् ।
अपनयो वियोगः ।
परस्मात्परो वराच्च वरतरः परोवरीयान् ।
बहुविरुद्धरूपभेदात् न विद्यैक्यमिति सिद्धान्तयति- न वेति ।
अक्षरं विशिनष्टि- उद्गीथमिति ।
तदवयवमित्यर्थः पृथिव्यादिरसानां रसतम ओङ्कारः, आप्तिः समृद्धिरिति गुणानुक्त्वा गुणवत्योङ्कारे प्राणदृष्टिविधानायाख्यायिका प्रस्तुतेत्याह- रसतमेति ।
ननु वाजिवाक्यैकवाक्यत्वार्थं छान्दोग्योपक्रमस्थमुद्गीथपदं संपूर्णसामभक्तिपरमस्तु, प्राणमुद्गीथमित्यत्राप्युद्गीथकर्ता प्राण उपास्य इति व्याख्यायतामित्यत आह- तत्र यद्युद्गीथेति ।
ओङ्कारोपास्त्युपक्रमसङ्ग उद्गीथपदे कर्तृलक्षणा चेति दोषद्वयं स्यादित्यर्थः ।
ननु सिद्धान्ते ऽपि तत्पदे ऽवयवलक्षणा स्वीकार्या ततो वरं कर्तृलक्षणा श्रुत्यन्तरानुग्रहात्तथा चोपसंहारे कर्तृप्राणोपास्तिनिश्चयादुपक्रमे ऽपि तन्निश्चय इत्यत आह- उपक्रमेति ।
संदिग्धोपक्रमो हि वाक्यशेषान्निश्चीयते ।
यथा ऽअक्ताः शर्कराःऽइत्यत्राञ्जनद्रव्यसंदेहे ऽतेजो घृतम्ऽइति शेषान्निश्चयः ।
इह तूपक्रमे ऽक्षरस्योपास्यत्वं निश्चितं, तत्समानाधिकारणोद्गीथपदस्यावयवलक्षणा च विनिश्चितेति प्राणमुद्गीथमित्युपसंहारस्तदेकार्थतया नेय इत्यर्थः ।
एवं छान्दोग्ये ओङ्कार उपास्य उक्त इतरत्र तु प्राण इत्युपास्यभेदाद्विद्याभेद इत्याह- वाजेति ।
यदुक्तं वाजिश्रुतावपि प्राणस्योद्गीथरूपत्वश्रुतेरूपास्यैक्यमिति तद्दूषयति- यदपीत्यादिना ।
तत्रोद्गीथ उपास्यतया नोक्तः किन्तु प्राणस्योपास्यस्य गुणतयेत्यर्थः ।
किञ्चोद्गीथ ओङ्कारश्छान्दोग्ये ऽत्र तु भक्तिरित्युपास्यभेद इत्याह- सकलेति ।
प्राणस्य जडत्वान्नोद्गातृत्वं किन्तूद्गीथत्वमेव वाजिभरपि ग्राह्यमित्यैक्यमाशङ्क्याह- नचेति ।
स उद्गाता वाग्विशिष्टप्राणेनौद्गात्रं कृतवानिति श्रुतेरसंभवो ऽपि नेत्यर्थः ।
यदुक्तं बहुतरार्थाविशेषाद्धि विद्यैक्यमिति, तत्राह- नचेति ।
एकत्रोद्गाता प्राण उपास्यो ऽन्यत्रोङ्कार इत्यन्तरङ्गोपास्यरूपभेदे स्पष्टे सति बहिरङ्गार्थवादसाम्यमात्रेण नोपासनैक्यं युक्तमित्यर्थः ।
वाक्यसाम्यमात्रेणार्थैक्यं नास्तीत्यत्र दृष्टान्तमाह- तथाहीति ।
ऽवि वा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्याद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये ऽणिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्ऽइत्यभ्युदयवाक्यम् ।
अस्यार्थः-यस्य यजमानस्य चतुर्दश्यामेवामावास्याभ्रान्त्यादर्शकर्मार्थं प्रवृत्तस्य पुरस्तात्पूर्वं हविस्तण्डुलदधिपयोरूपं निरुप्तं दर्शदेवताभ्यो ऽग्न्यादिभ्यः सङ्कल्पितं चन्द्रमाश्च पश्चादभ्युदेति तमेतं यजमानं कालव्यत्ययापराधात्तदेव निरुप्तं हविः प्रजादिनार्धयति वियोजयति शत्रुं चास्य वर्धयति यस्मात्कालभ्रान्तिमान्यजमानः, ये मध्यमादिभावेन त्रेधा भूतास्तण्डुला दध्यादिसहिता निरुप्तास्तान्विभजेदग्न्यादिभ्यो वियोजयद्वियोज्य च दातृत्वादिगुणकानग्न्यादिभ्यो दर्शदेवाभिन्नेभ्यो निर्वपेदिति दधन् दधनि स्थविष्ठतण्डुलचरुं शृते दुग्धे ऽणिष्ठचरुमित्यर्थः ।
अत्र कालापराधे देवान्तरयुक्तं प्रायश्चित्तरूपं दर्शाद्भिन्नं कर्म विधीयत इति प्राप्ते तण्डुलत्रेधात्वाद्यनुवादेन विभजेदिति हविषः प्रकृतदेववियोगेन तस्मिन्नेव दर्शकर्मणि देवतान्तरसंबन्धमात्रविधानं न कर्मान्तरमिति सिद्धान्तितम् ।
एवमभ्युदयवाक्ये कालापराधेनोपक्रमाद्दर्शकर्मण्येव हविषः पूर्वदेवताभ्यो ऽपनयो वियोगो ऽध्यवसितः, पशुकामवाक्ये तु यद्यपि ये स्थविष्ठास्तानग्नये सनिमते ऽष्टाकपालं निर्वपेद्ये मध्यमास्तान् विषणवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुमिति निर्देशो ऽभ्युदयवाक्येन समो ऽस्ति, तथापि यः पशुकामः स्यात्सो ऽमावास्यामिष्ट्वा वत्सानपाकुर्यादिति नित्यं दर्शकर्म समाप्य पुनर्देहार्थं वत्सापाकरणविध्युपक्रमात्पशुकामस्य यागान्तरविधिरेव नाभ्युदयवाक्येनार्थैक्यमिति तथा प्रकृते ऽपि निर्देशसाम्यं न विद्यैक्यप्रयोजकमित्यर्थः ।
वत्सानापाकुर्यान्मातृदेशाद्देशान्तरं नयेदित्यर्थः ।
सूत्रोक्तं दृष्टान्तं व्याचष्टे- परोवरीयस्त्वादिवदिति ।
पर इति सकारान्तं परस्मात् परश्चासौ वराच्च वरतर इति परोवरीयानित्येकं पदम् ।
अनन्तश्च आकाशाख्यः परमात्मा तद्दृष्ट्यालम्बनत्वादुद्गीथस्तथोक्त इत्यर्थः ।
आकाशात्मना हिरण्यश्मश्रुपुरुषात्मना चोद्गीथोपास्तिसाम्ये ऽपि विद्याभेदवदिहापि भेद इत्यर्थः
एन्द् ब्स्चोम्_3,3.3.7
स्तर्त् ब्स्चोम्_3,3.3.8
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि । ब्ब्स्_3,3.8 ।
अथोच्यते संज्ञैकत्वाद्विद्यैकत्वमत्र न्याय्यमुद्गीथविद्येति ह्युभयणाप्येका संज्ञेति ।
तदपि नोपपद्यते ।
उक्तं ह्येतत् - ऽन वा प्रकरणभेदात्परोवरीयस्त्वादिवत्ऽ (ब्र. सू. 3.3.7) इति ।
तदेव चात्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत्संज्ञैकत्वं तु श्रुत्यक्षरबाह्यमुद्गीथशब्दमात्रप्रयोगाल्लौकिकैर्व्यहर्तृभिरुपचर्यते ।
अस्ति चैतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषूद्गीथविद्येति ।
तथा प्रसिद्धभेदानामप्यग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञकत्वं दृश्यते तथेहापि भविष्यति ।
यत्र तु नास्ति कश्चिदेवञ्जातीयको भेदहेतुस्तत्र भवतु संज्ञैकत्वाद्विद्यैकत्वं यथा संवर्गविद्यादिषु
संज्ञैक्यं पूर्वपक्षबीजमुद्भाव्य दूषयति- संज्ञात इति ।
उपास्यरूपभेदाद्विद्यानानात्वं यदुक्तं तच्छ्रुत्यक्षरानुगतं बलवत्, संज्ञा तु पौरुषेयी दुर्बलेत्यर्थः ।
संज्ञैक्यं कर्मैक्यव्यभिचारि चेत्याह- अस्ति चेति ।
किं संज्ञैक्यं सर्वत्राप्रमाणमेव नेत्याह- यत्र त्विति ।
असति बाधके संज्ञैक्यमपि मानं यथा संवर्गविद्येति संज्ञैक्यात्सर्वशाखासु तद्विद्यैक्यं, तथा पञ्चाग्न्यादिविद्यैक्यमित्याद्यसूत्रे दर्शितमित्यर्थः
एन्द् ब्स्चोम्_3,3.3.8
स्तर्त् ब्स्चोम्_3,3.4.9
4 व्याप्त्यधिकरणम् । सू. 9
व्याप्तेश् च समञ्जसम् । ब्ब्स्_3,3.9 ।
ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) इत्यत्राक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे ऽध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात्कतमो ऽत्र पक्षो न्याय्यः स्यादिति विचारः ।
तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते ।
यस्मिन्नितरबुद्धिरध्यस्यते ऽनुवर्तत एव तस्मिंस्तद्बुद्धिरध्यस्तेतरबुद्धावपि ।
यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामप्यनुवर्तत एव नामबुद्धिर्न ब्रह्मबुद्ध्या निवर्तते ।
यथावा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः ।
एवमिहाप्यक्षर उद्गीथबुद्धिरध्यस्यत उद्गीथे वाक्षरबुद्धुरिति ।
अपवादो नाम यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति ।
यथा देहेन्द्रियसंघात आत्मबुद्धिरात्मन्येवात्मबुद्ध्या पश्चाद्भाविन्या ऽतत्त्वमसिऽ (छा. 6.8.7) इत्यनया यथार्थबुद्ध्या निवर्तते ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते ।
एवमिहाप्यक्षरबुद्ध्योद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्ध्या वाक्षरबुद्धिरिति ।
एकत्वं त्वक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् ।
यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति ।
विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्ग औद्गात्रविशेषस्य समर्पणम् ।
यथा नीलं यदुत्पलं तदानयेति ।
एवमिहाप्युद्गीथो य ओङ्कारस्तमुपासीतेति ।
एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमान एते पक्षाः प्रतिभान्ति तत्रान्यतमनिर्धारणकारणाभावादनिर्दारणप्राप्ताविदमुच्यते - व्याप्तेश्च समञ्जसमिति ।
चशब्दो ऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजन- ।
तदिह क्षयः पक्षाः सावद्या इति पर्युदस्यन्ते ।
विशेषणपक्ष एवैको निरवद्य इत्युपादीयते ।
तत्राध्यासे तावद्या बुद्धिरितरत्राध्यस्यते तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत तत्फलं च कल्प्येत ।
श्रूयत एव फलम् ऽआपयिता ह वै कामानां भवतिऽ (छा. 1.1.7) इत्यादीति चेत् ।
न ।
तस्यान्यफलत्वात् ।
आप्त्यादिदृष्टिफलं हि तन्नोद्गीथाध्यासफलम् ।
अपवादे ऽपि समानः फलाभावः ।
मिथ्याज्ञाननिवृत्तिः फलमिति चेत् ।
न ।
पुरुषार्थोपयोगानवगमात् ।
नच कदाचिदप्योङ्कारादोङ्कारबुद्धिर्निवर्तत उद्गीथाद्वेद्गीथबुद्धिः ।
नचेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् ।
उपासनाविधिपरत्वात् ।
नाप्येकत्वपक्षः संगच्छते निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् ।
एकेनैव विवक्षितार्थसमर्पणात् ।
नच हौत्रविषय आध्वर्यवविषये वाक्षर ओङ्कारशब्दवाच्य उद्गीथशब्दप्रसिद्धिरस्ति ।
नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दप्रसिद्धिरस्ति ।
नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दवाच्यायामोङ्कारशब्दप्रसिद्धिर्येनानतिरिक्तार्थता स्यात् ।
परिशेषाद्विशेषणपक्षः परिगृह्यते ।
व्याप्तेः सर्ववेदसाधारण्यात् ।
सर्वव्याप्यक्षरमिह मा प्रसञ्जीत्यत उद्गीथशब्देनाक्षरं विशेष्यते कथं नामोद्गीथावयवभूत ओङ्कारो गृह्येतेति ।
नन्वस्मिन्नपि पक्षे समाना लक्षणा ।
उद्गीथशब्दस्यावयवलक्षणार्थत्वात् ।
सत्यमेतत् ।
लक्षणायामपि तु संनिकर्षविप्रकर्षो भवत एव ।
अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा विशेषणपक्षे प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु ।
अतश्च व्याप्तेर्हेतोरोमित्येतदक्षरमित्येतस्योद्गीथमित्येतद्विशेषणमिति समञ्जसमेतन्निरवद्यमित्यर्थः
व्याप्तेश्च समञ्जसम् ।
सामानाधिकरण्यं विषयीकृत्य संशयमाह- ओमित्येतदिति ।
अध्यासादिपदार्थान्व्याचष्टे- तत्राध्यास इत्यादिना ।
बुद्धिपूर्वकाभेदारोपो ऽध्यासः, बाधो ऽपवादः, एकत्वं वास्तवाभेदः, विशेषणं व्यावर्तकमिति विवेकः ।
पूर्वमुद्गातृकर्मात्मकोद्गीथावयवत्वमोङ्कारस्य ध्येयस्य विशेषणं सिद्धवत्कृत्य ध्येयभेदाद्विद्याभेदः सिद्धान्तितः स न युक्त इत्याक्षेपसंगत्या पूर्वपक्षयति- तत्रेति ।
अत्र पूर्वपक्षे पूर्वोक्तसिद्धान्तासिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तसूत्रं व्याचष्टे- चशब्द इत्यादिना ।
पक्षत्रयस्य दुष्टत्वं प्रतिज्ञायाध्यासपक्षे दोषमाह- तत्राध्यास इति ।
यस्योद्गीथस्य बुद्धिरोङ्कारे ऽध्यस्यते तद्वाचकोद्गीथशब्दस्योङ्कारे लक्षणा स्यात्तद्बुद्धिविषयत्वगुणपरत्वात्तथा संबन्धो ऽप्यसिद्धः कल्पनीयः, प्रतीकोपास्तेः फलं च कल्प्यमिति गौरवं स्यादित्यर्थः ।
फलं न कल्प्यमिति शङ्कते- श्रूयत इति ।
आप्त्यादीति ।
ऽओङ्कार आप्तिः समृद्धिरितिऽ ऽय उपास्ते स कामानाप्नोतिऽइति श्रुतं फलं नाध्यासस्येत्यर्थः ।
उद्गीथोङ्कारयोरन्यतरबुद्यान्यतरबुद्यपवादमङ्गीकृत्यान्यतरमिथ्याबुद्धिनिवृत्तिवैफल्यमुक्तं संप्रत्यन्यतरबुद्धेरभ्रान्तित्वान्नापवाद इत्याह- नच कदाचिदपीति ।
भ्रान्तिश्चेत् निवर्तेत न तु निवर्तत इत्यभ्रन्तिरित्यर्थः ।
किञ्च तत्त्वबोधकाद्वाक्याद्भ्रान्त्यपवादो भवति नेदं वाक्यं तत्त्वपरमित्याह- नचेति ।
घटकुम्भशब्दयोरिवोङ्कारोद्गीयशब्दयोः पर्यायत्वपक्षं दूषयति- नापीति ।
पर्यायत्वमपि नास्तीत्याह- नचेति ।
परिशिष्टविशेषणपक्षे सूत्रं योजयति- व्याप्तेरिति ।
ऽओमित्यक्षरमुपासीतऽइत्युक्ते सर्ववेदव्याप्योङ्कार इहोपास्तौ प्रसज्येत तन्निरासार्थमुद्गीथावयवत्वं विशेषणं समञ्जसमित्यर्थः ।
अध्यासपक्षे तद्बुद्धिविषयत्वगुणयोगरूपः संबन्धः कल्प्य इति विप्रकृष्टा लक्षणा अवयवलक्षणा तु संनिकृष्टा अवयवावयविसंबन्धस्य कॢप्तत्वात्, पटावयवे दग्धे पटो दग्ध इति लोके प्रयोगाच्च ।
नामादौ ब्रह्मशब्दस्य त्वगत्या ब्रह्मबुद्धिग्राह्यत्वगुणलक्षणाश्रिता तत्र प्रतीकोपास्तेर्विवक्षितत्वात् ।
इह तु प्रतीकोपास्तिविधिकल्पने आप्त्यादिगुणकोङ्कारे प्राणदृष्टिविधाने च वाक्यभेदः स्यादतः सर्ववेदव्याप्योङ्कारनिरासेनोङ्कारे प्राणदृष्टिविधानार्थं विशेषणमेव समञ्जसं कल्प्नालाघवादिति सिद्धम्
एन्द् ब्स्चोम्_3,3.4.9
स्तर्त् ब्स्चोम्_3,3.5.10
5 सर्वाभेदाधिकरणम् । सू. 10
सर्वाभेदादन्यत्रेमे । ब्ब्स्_3,3.10 ।
वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्योपास्यत्वमुक्तम् ।
वागादयो ऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः ते च प्राणे पुनः प्रत्यर्पिताः - ऽयद्वा अहं वसिष्ठो ऽस्मि त्वं तद्वसिश्षो ऽसिऽ (बृ. 6.1.14) इत्यादिना ।
अन्येषामपि तु शाखिनां कौषीतकि प्रभृतीनां प्राणसंवादेषु अथातो निःश्रेयसादानम् ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ (कौ. 2.14) इत्येवञ्जातीयकेषु प्राणस्य श्रैःष्टमुक्तं न त्विमे वसिष्ठत्वादयो ऽपि गुणा उक्ताः ।
तत्र संशयः - किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्राप्यस्येरन्नुत नास्येरन्निति ।
तत्र प्राप्तं तावन्नास्येरन्निति ।
कुतः - एवंशब्दसंयोगात् ।
ऽअथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वाऽ इति तत्रतत्रैवंशब्देन वेद्यं वस्तु निवेद्यते ।
एवंशब्दश्च संनिहितावलम्बनो न शाखान्तरपरिपठिमेवञ्जातीयकं गुणजातं शक्नोति निवेदयितुम् ।
तस्मात्स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमिति ।
एवं प्राप्ते प्रत्याह - अस्येतन्नियमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयो ऽन्यत्रापि ।
कुतः - सर्वाभेदात् ।
सर्वत्रैव हि तदेवैकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते ।
प्राणसंवादादिसारूप्यात् ।
अभेदे च विज्ञानस्य कथमिमे गुणाः क्वचिदुक्ता अन्यत्र नास्येरन् ।
नन्वेवंशब्दस्तत्र तत्र भेदेनैवञ्जातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम् ।
अत्रोच्यते - यद्यपि कौषीतकिब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातमसंशब्दितमसंनिहितत्वात्तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनैवंशब्देन तत्संशब्दितमिति न परशाखागतमप्यभिन्नविज्ञानावरुद्धं गुणजातं स्वशाखागताद्विशिष्यते ।
नचैवं सति श्रुतहानिरश्रुतकल्पना वा भवति ।
एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति गुणवतो भेदाभावात् ।
नहि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धो देशान्तरं गतस्तद्देश्यैरविभावितशौर्यादिगुणो ऽप्यतद्गुणो भवति ।
यथाच तत्र परिचयविशेषाद्देशान्तरे ऽपि देवदत्तगुणा विभाव्यन्ते ।
एवमभियोगविशेषाच्छाखान्तरे ऽप्युपास्या गुणाः शाखान्तरे ऽप्यस्येरन् ।
तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैवोपसंहर्तव्या इति
fन्: निःश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणम् ।
अहंश्रेयसे स्वश्रैष्ठ्याय ।
सर्वाभेदादन्यत्रेमे ।
विषयं वक्तुं संमतमर्थमाह- वाजिनामिति ।
वाचो वसिष्ठत्वं गुणो वाग्मिनः सुखवासदर्शनात् ।
चक्षुषः प्रतिष्ठा गुणः चक्षुष्मतः पादप्रतिष्ठादर्शनात् ।
श्रोत्रं संपद्गुणकं श्रवणात्सर्वार्थसंपत्तेः ।
मन आयतनत्वगुणं तस्य वृत्तिद्वारा सर्वभोग्याश्रयत्वात् ।
ते च गुणाः प्राणस्य श्रैष्ठ्यं निश्चित्य वागादिभिस्तस्मिन्नर्पिता इति शाखाद्वयसंमतोर्ऽथः ।
विषयमाह- अन्येषामित्यादिना ।
निश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारमं प्रस्तूयतल इत्यर्थः ।
देवता वागादयो ऽहंश्रेयसे स्वश्रैष्ठ्यायेत्यर्थः ।
एवंशब्दाच्छैष्ठ्यगुणकप्राणप्रत्यभिज्ञानाच्च संशयमाह- तत्रेति ।
गुणानामनुपसंहारोपसंहारावेव पूर्वोत्तरपक्षयोः फलम् ।
उद्गीथत्वविशेषणादोङ्कारस्य सर्ववेदव्याप्तिव्यावृत्तिवत्प्रकृतगुणमात्रग्राहकैवंशब्दाच्छाखान्तरगुणव्यावृत्तरिति दृष्टान्तेन पूर्वपक्षयति- तत्र प्राप्तमिति ।
यथा वागादिभ्यः प्राणश्रैष्ठ्यं सिद्धमथो तथा य एवं श्रैष्ठ्यगुणं विद्वानुपास्ते स प्राणे श्रैष्ठ्यं विदित्वा श्रेष्ठो भवतीति श्रुत्यर्थः ।
एवं जातीयकविद्यैक्यात्प्राप्तमार्थिकं वसिष्ठत्वादिगुणजातमेवंशब्दो न गृह्णाति श्रुतावलम्बित्वादिति प्राप्ते सिद्धान्तयति- अस्येरन्निति ।
वाजसनेयिब्राह्मणे तावदेवंशब्देन वसिष्ठत्वादिगुणजातस्य प्राणविद्यासंबन्धः सिद्धः सैव विद्या कौषीतकिश्रुतौ प्रत्यभिज्ञायते, तथाच गुणानां गुण्यविनाभावेनार्थतः प्राप्तानामपि श्रुतगुणैरविरोधात्सहैव श्रुतमार्थं च गुणजातं श्रुत्यर्थाभ्यां संनिहितत्वाविशेषात्कौषीतकिगतेनैवंशब्देन परामृश्यत इत्याह- तथापीति ।
कौषीतकिश्रुतिस्थः प्राणो वसिष्ठत्वादिगुणकः, श्रेष्ठप्राणत्वात्, वाजिश्रुतिस्थप्राणवदित्यश्रुतगुणानुमाने सति श्रुतहानिर्नास्ति, अविरोधादित्युक्तं, स्पष्टयति- न चैवं सतीति ।
अपरिगणिता अपि गुणाः श्रुता एवेत्यत्र दृष्टान्तमाह- नहीति ।
फलितमाह- तस्मादिति
एन्द् ब्स्चोम्_3,3.5.10
स्तर्त् ब्स्चोम्_3,3.6.11
6 आनन्दाद्यधिकरणम् । सू. 11-13
आनन्दादयः प्रधानस्य । ब्ब्स्_3,3.11 ।
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिष्वानन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवञ्जातीयका ब्रह्मणो धर्माः क्वचित्केचिच्छ्रूयन्ते ।
तेषु संशयः - किमानन्दादयो ब्रह्मधर्मा यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः किंवा सर्वे सर्वत्रेति ।
तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायामिदमुच्यते - आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः ।
कस्मात् ।
सर्वाभेदादेव ।
सर्वत्र हि तदेवैकं प्रधानं विशेष्यं ब्रह्म न भिद्यते ।
तस्मात्सार्वत्रिकत्वं ब्रह्मधर्माणां तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यदिनिदर्शनेन
नन्वेवं सति प्रियशिरस्त्वादयो ऽपि धर्माः सर्वत्र संकीर्येरन् ।
तथाहि - तैत्तिरीयक आनन्दमयमात्मानं प्रक्रम्याम्नायते - ऽतस्य प्रियमेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः ।
आनन्द आत्मा ।
ब्रह्म पुच्छं प्रतिष्ठाऽ (तै. 2.5) इति ।
आनन्दादयः प्रधानस्य ।
ब्रह्मणो ज्ञेयस्यैक्यान्निर्विशेषत्वाच्च संशयमाह- तेषु संशय इति ।
पूर्वपक्षे सत्यादिपदानुपसंहाराद्वाक्यार्थानवधारणं, सिद्धान्ते त्ववधारणमिति फलम् ।
प्राणस्यसविशेषत्वाद्युक्तः शाखान्तरीयवसिष्ठत्वाद्युपसंहारः, ब्रह्मणस्तु निर्विशेषत्वात्स्वशाखागतपदैरेव प्रमितिसिद्धेर्व्यर्थः पदान्तरोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः ।
सिद्धान्तमाह- इदमिति ।
आनन्दत्वसत्यत्वज्ञानत्वादिसामान्यानि ब्रह्मणि कल्पिता धर्मास्तेषां सर्वशाखासूपसंहारो नाम तद्वाचकानन्दादिपदानामेकवाक्यतयोच्चारणं आनन्दः सत्यं ज्ञानमनन्तं ब्रह्म शुद्धमद्वयमात्मेति ।
तानि च समानाधिकरणानि पदानि विरुद्धधर्मत्यागेन सर्वाधिष्ठानभूतामेकामखण्डव्यक्तिं क्षयन्ति ।
न चैकेनैव पदेन लक्ष्यसिद्धेः पदान्तरं व्यर्थमिति वाच्यं, एकस्मिन्पदे विरोधाभावेन लक्षणानवतारात् ।
यद्यपि पदद्वये ऽपि लक्षणावतरति तथाप्यानन्दो ब्रह्मेत्युक्ते दुःखत्वाल्पत्वभ्रन्तिनिरासे ऽप्यसत्त्वजडत्वादिभ्रमो भवेदतस्तन्निरासार्थं सत्यज्ञानादिपदानि प्रयोक्तव्यानि ।
नच भ्रमस्यानवधित्वाद्वाक्यमपर्यवसितं स्यादिति वाच्यम् ।
सच्चिदानन्दात्मकं सर्वधर्मशून्यमद्वयमविकल्पं ब्रह्माहमिति विशेषदर्शने सर्वभ्रमनिरासात् ।
तच्च विशेषदर्शनं यावद्भिः पदैर्भवति तावन्ति पदान्युपसंहर्तव्यानीति भावः
एन्द् ब्स्चोम्_3,3.6.11
स्तर्त् ब्स्चोम्_3,3.6.12
अत उत्तरं पठति -
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे । ब्ब्स्_3,3.12 ।
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयक आम्नातानां नास्त्यन्यत्र प्राप्तिः ।
यत्कारणं प्रियं मोदः प्रमोद आनन्द इत्येते परस्परापेक्षया भोक्त्रन्तरापेक्षया चोपचितापचितरूपा उपलभ्यन्ते ।
उपचयापचयौ च सति भेदे संभवतः ।
निर्भेदं तु ब्रह्म ऽएकमेवाद्वितीयम्ऽ (छा. 6.2.1) इत्यादिश्रुतिभ्यः ।
नचैते प्रियशिरस्त्वादयो ब्रह्मधर्माः, कोशधर्मास्त्वेत इत्युपदिष्टमस्माभिः ऽआनन्दमयो ऽभ्यासात्ऽ (ब्र.सू. 1.1.12) इत्यत्र ।
अपिच परस्मिन्ब्रह्मणि चित्तावतारोपायमात्रत्वेनैते परिकल्प्यन्ते न द्रष्टव्यत्वेन ।
एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् ।
ब्रह्मधर्मास्त्वेतान्कृत्वा न्यायमात्रमिदमाचार्येण प्रदर्शितं प्रियशिरस्त्वाद्यप्राप्तिरिति ।
स च न्यायो ऽन्येषु निश्चितेषु ब्रह्मधर्मेषूपासनायोपदिश्यमानेषु नेतव्यः संयद्वामादिषु सत्यकामादिषु च ।
तेषु हि सत्यप्युपास्यस्य ब्रह्मण एकत्मे प्रक्रमभेदादुपासनाभेदे सति नान्योन्यधर्माणामन्योन्यत्र प्राप्तिः ।
यथा च द्वे नार्यावेकं नृपतिमुपासते छत्रेणैका चामरेणान्या तत्रोपास्यैकत्वे ऽप्युपासनाभेदो धर्मव्यवस्था च भवेत्येवमिहापीति ।
उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते न निर्गुणे परस्मिन्ब्रह्मणि ।
अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः
ब्रह्मैक्याच्चेदानन्दत्वादिधर्माणां सर्वत्र प्राप्तिस्तर्हि सगुणब्रह्मविद्यागतधर्मप्राप्तिरपि स्यादिति शङ्कानिरासार्थं सूत्रं व्याचष्टे- प्रियेति ।
पुत्रदर्शनसुखं प्रियं तद्वार्तादिना मोदस्तस्य विद्याद्यतिशये प्रमोद इत्येवं तारतम्यवन्तो धर्मास्त्वद्वये ज्ञेये न प्राप्नुवन्ति तेषामब्रह्मस्वरूपाणां ब्रह्मज्ञानानुपयोगादिति भावः ।
तेषां ब्रह्म धर्मत्वं चासिद्धमित्याह- न चैत इति ।
ब्रह्मणि चित्तावतारोपायत्वे ऽपि तेषां प्राप्तिः स्यादित्याशङ्क्याह- एवमपीति ।
अज्ञेयत्वादेषां न ज्ञेये ब्रह्मणि प्राप्तिरित्यर्थः ।
किमर्थं तर्हि सूत्रमित्यत आह- ब्रह्मधर्मानिति ।
कृत्वाचिन्ताफलमाह- स चेति ।
ज्ञेये बाह्यधर्माणामनुपयोगादप्राप्तिरिति न्यायात्संयद्वामत्वादीनामप्राप्तिरिति सूत्रं व्याख्येयमित्यर्थः ।
ज्ञानानुपयोगे ऽपि ध्याने तेषां धर्माणामुपयोगादुपास्यब्रह्मैक्यात्प्राप्तिरन्योविद्यासु स्यादित्याशङ्क्याह- तेषु हीति ।
ध्यानविधिपरतन्त्राणां धर्माणां यथाविधि व्यवस्थेत्यर्थः
एन्द् ब्स्चोम्_3,3.6.12
स्तर्त् ब्स्चोम्_3,3.7.13
इतरे त्वर्थसामान्यात् । ब्ब्स्_3,3.13 ।
इतरे त्वानन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैवोच्यमाना अर्थसामान्यात्प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात्सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यं प्रतिपत्तिमात्रप्रयोजना हि त इति
संयद्वामत्वादिधर्मेभ्य आनन्दादीनां वैषम्यं ज्ञानोपयोगित्वादितयाह- इतरे त्विति ।
सत्यज्ञानानन्दात्मब्रह्मशब्दाः पञ्च सर्वत्रोपसंहर्तव्या इति सिद्धम्
एन्द् ब्स्चोम्_3,3.7.13
स्तर्त् ब्स्चोम्_3,3.8.14
7 आध्यानाधिकरणम् । सू. 14-15
आध्यानाय प्रयोजनाभावात् । ब्ब्स्_3,3.14 ।
काठके हि पठ्यते - ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिःऽ (क. 3.10) इत्यारभ्य ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (क. 3.11 ) इति ।
तत्र संशयः - किमिमे सर्व एवार्थादयस्ततस्ततः परत्वेन प्रतिपाद्यन्त उत पुरुष एवैभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति ।
तत्र तावत्सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः ।
तथाहि श्रूयते -
इदमस्मात्परमिदमस्मात्परम् इति ।
ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् ।
नैष दोषः ।
वाक्यबहुत्वोपपत्तेः ।
बहून्येवह्येतानि वाक्यानि प्रभवन्ति बहुविषयान्परत्वोपेतान्प्रतिपादयितुम् ।
तस्मात्प्रत्येकमेषां परत्वप्रतिपादनमिति ।
एवं प्राप्ते ब्रूमः - पुरुष एव ह्येभ्यः सर्वेभ्यः परः प्रतिपाद्य इति युक्तं न प्रत्येकमेषां परत्वप्रतिपादनम् ।
कस्मात् ।
प्रयोजनाभावात् ।
नहीतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते प्रयोजनं मोक्षसिद्धिः ।
तथाच श्रुतिः - ऽनिचाय्य तं मृत्युमुखात्प्रमुच्यतेऽ (क. 3.15) इति ।
अपिच परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन्पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति - आध्यानायेति ।
आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः ।
सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते न त्वाध्यानमेव स्वप्रधानम्
आध्यानाय वाक्यभेदाभेदानवधारणात्संशयमाह- तत्रेति ।
पूर्वपक्षे वाक्यभेदाद्विद्याभेदः, सिद्धान्ते वाक्यैक्याद्विद्यैक्यमिति फलम् ।
पूर्वत्र ब्रह्मस्वभावानामानन्दादीनामुपसंहार्याणां ब्रह्मज्ञानफलोपायत्वमुक्तम्, अत्रत्वब्रह्मस्वभावस्यार्थादिपरत्वस्यानुपसंहार्यस्य तदुपायत्वमुच्यत इत्येकफलकत्वं संगतिः तत्तत्परत्वविशिष्टत्वेनार्थादीनामपूर्वतया प्रतिपाद्यानां भेदाद्वाक्यभेदो न दोष इति पूर्वपक्षः ।
उत्सूत्रसिद्धान्तं प्रतिज्ञाय सौत्रं हेतुं व्याचष्टे- पुरुष एवेति ।
फलवत्त्वे सत्यपूर्वत्वात्पुरुषस्यैव प्राधान्येन प्रतिपाद्यत्वमफलार्थादीनां परत्वं तु तच्छेषत्वेनोच्यत इत्यर्थः ।
किञ्च ऽपुरुषान्न परं किञ्चित्सा काष्ठाऽइति वेदः परनिषेधलिङ्गेन सर्वबाधावधित्वलिङ्गेन च पुरुषे तात्पर्यं दर्शयन्पूर्वस्मात्पूर्वस्मादपरस्यापरस्य परत्वोक्तिस्तदर्थेति दर्शयतीत्याह- अपिचेति ।
अर्थादीनामत्रोक्तिराध्यानाय तत्तत्परत्वाध्यानपूर्वकं पुरुषदर्शनायैव स्वतः प्रयोजनाभावादिति सूत्रं योजयति- आध्यानायेति
एन्द् ब्स्चोम्_3,3.8.14
स्तर्त् ब्स्चोम्_3,3.7.15
आत्मशब्दाच् च । ब्ब्स्_3,3.15 ।
इतश्च पुरुषप्रतिपत्त्यर्थैवेयमिन्द्रियादिप्रवाहोक्तिः ।
यत्कारणम् ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ (कठ. 3.12) इति प्रकृतं पुरुषमात्मेत्याह ।
अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते ।
तस्यैव च दुर्विज्ञानतां संस्कृतमितिगम्यतां च दर्शयति ।
तद्विज्ञानायैव ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ (कठ. 3.13) इत्याध्यानं विदधाति ।
तद्व्याख्यतम् ऽआनुमानिकमप्येकमप्येकेषाम्ऽ (ब्र.सू. 1.4.1) इत्यत्र ।
एवमनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते नेतरेषु ।
अपिच ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ (क. 3.9) इत्युक्ते किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायामिन्द्रियाद्यनुक्रमणात्परमपदप्रतिपत्त्यर्थ एवायमायाम इत्यवसीयते
आत्मत्वादिलिङ्गैश्च पुरुष एव प्रतिपाद्य इत्याह- आत्मशब्दाच्चेति ।
किञ्च ऽतद्विष्णोः परमं पदं, पुरषान्न परं किञ्चित्ऽइत्युपक्रमोपसंहारयोरैकरूप्यात्कॢप्तफलवदेकपुरुषपरत्वेनैकवाक्यत्वनिश्चये सति वाक्यभेदफलभेदकल्पना न युक्ता गौरवादित्याह- अपिचेति
एन्द् ब्स्चोम्_3,3.7.15
स्तर्त् ब्स्चोम्_3,3.8.16
8 आत्मगृहीत्यधिकरणम् । सू. 16-17
आत्मगृहीतिर् इतरवद् उत्तरात् । ब्ब्स्_3,3.16 ।
ऐतरेयके श्रूयते - ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजाऽ (ऐ. 1.1) इति ऽस इमांल्लोकानसृजताम्भो मरीचीर्मरमापःऽ (ऐ. 1.2) इत्यादि ।
तत्र संशयः - किं पर एवात्मशब्देनाभिलप्यत उतान्यः कश्चिदिति ।
किं तावत्प्राप्तं न परमात्मेहात्मशब्दाभिलप्यो भवितुमर्हतीति ।
कस्मात् ।
वाक्यान्वयदर्शनात् ।
ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते प्रागुत्पत्तेरात्मैकत्वावधारणात् ।
ईक्षणपूर्वकस्रष्टृवचनाच्च ।
नेत्युच्यते ।
लोकसृष्टिवचनात् ।
परमात्मनि हि स्रष्टरि परिगृह्यमाणे महाभूतसृष्टिरादौ वक्तव्या लोकसृष्टिस्त्विहादावुच्यते ।
लोकाश्च महाभूतसंनिवेशाविशेषाः ।
तथाचाम्भःप्रभृतींल्लोकत्वेनैव निर्ब्रवीति - ऽअदो ऽम्भः परेण दिवम्ऽ (ऐ. 1.2) इत्यादिना ।
लोकसृष्टिश्च परमेश्वराधिष्ठितेनापरेण केनचिदीश्वरेण आसीत्पुरुषविधःऽ (बृ. 1.4.1) इत्याद्या ।
स्मृतिरपि ऽस वै शरीरी प्रथमःस वै पुरुषः उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्ततऽ इति ।
ऐतरेयिणो ऽपि अथातो रेतसः प्रजापते रेतो देवाः इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति ।
आत्मशब्दो ऽपि तस्मिन्प्रयुज्यमानो दृश्यते - आत्मैवेदमग्र आसीत्पुरुषविधिःऽ (बृ. 1.4.1) इत्यत्र ।
एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते ।
ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् ।
अपिच ताभ्यो गामानयत्ताभ्यो ऽश्वमानयत्ताभ्योः पुरुषमानयत्ता अब्रुवन्नित्येवञ्जातीयको भूयान्व्यापारविशेषो लौकिकेषु विशेषवत्स्वात्मसु प्रसिद्ध इहानुगम्यते ।
तस्माद्विशेषावानेव कश्चिदिहात्मा स्यादिति ।
एवं प्राप्ते ब्रूमः - ऽपर एवात्मेहात्मशब्देन गृह्यत इतरवत् ।
यथेतरेषु सृष्टिश्रवणेषु तस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1.1) इत्येवमादिषु परस्यात्मनो ग्रहणम् ।
यथा चेतरस्मिंल्लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति यत्र तु ऽआत्मैवेदमग्र आसीत्ऽ (बृ. 1.4.1) इत्येवमादौ ऽपुरुषविधःऽ (बृ. 1.4.1) इत्येवमादि विशेषणान्तरं श्रूयते भवेत्तत्र विशेषत आत्मनो ग्रहणम् ।
अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमप्युत्तरमुपलभ्यते ऽस ईक्षत लोकान्नु सृजा इतिऽ (ऐ. 1.1) ऽस इमांल्लोकानसृजतऽ (ऐ. 1.2) इत्येवमादि ।
तस्मात्तस्यैव ग्रहणमिति न्याय्यम्
fन्: अम्भः स्वर्गः , मरीचयो ऽन्तरिक्षलोकः , मरो मर्त्यलोकः , आपः पाताललोकः ॥
पुरुषविधो नराकारः ।
आत्मा हिरण्यगर्भः ।
रेतः रेतःकार्यम् ।
आत्मगृहीतिः ।
मिषत् चलत् ।
लोकानाह- अम्भ इति ।
अम्भः स्वर्गः, मरीचयो ऽन्तरिक्षलोकः, मरो मर्त्यलोकः, आपः पाताललोक इत्यर्थः ।
आत्मशब्दस्य ब्रह्मणि सूत्रात्मनि च प्रयोगात्संशयमाह- तत्रेति ।
अत्र पूर्वपक्षे वाक्यस्य सूत्रोपास्तिपरत्वात्परब्रह्मधर्माणामानन्दादीनामैतरेयके ऽनुपसंहारः, सिद्धान्ते ब्रह्मपरत्वादुपसंहार इति फलम् ।
पुरुषवाक्याद्भेदप्रसङ्गादर्थादिवाक्यानां नार्थादिप्रतिपादकत्वमित्युक्तं तद्वदिहापि प्रजापते रेतो देवा इति पूर्वस्मात्प्रजापतिवाक्याद्भेदप्रसङ्गादात्मा वा इत्यादिवाक्यस्य न ब्रह्मपरत्वमिति दृष्टान्तेन पूर्वपक्षयति- न परमात्मेत्यादिना ।
वाक्यस्य प्रजापतौ तात्पर्यदर्शनादित्यर्थः ।
पूर्वपक्षमाक्षिप्य लोकस्रष्टृत्वलिङ्गान्न प्रजापतौ वाक्यान्वय इत्याह- नन्वित्यादिना ।
लोका एव महाभूतानीत्यत आह- लोकाश्चेति ।
लोकशब्दस्य महाभूतेष्वरूढात्वाद्भौतिका एव लोकाः ।
निर्वचनाच्चेत्याह- तथाचेति ।
अम्भो मरीचीर्मरमाप इति सूत्रयित्वा स्वयमेव श्रुतिर्व्याचष्टे-परेण दिवं दिवः परस्ताद्दिवि प्रतिष्ठितश्चन्द्राम्भसा व्याप्तो यो लोकः तदम्भः, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अधस्तात्ता आप इति ।
ननु लोकसृष्टिरपीश्वरादेवास्तु नेत्याह- लोकेति ।
पुरुषविधो नराकारः ।
आत्मा हिरण्यगर्भः, आपिपीलिकाभ्यः सर्वमसृजतेत्यर्थः ।
भूतानां लोकानामित्यर्थः ।
प्रकरणादपि लोकस्रष्टा प्रजापतिरित्याह- ऐतरेयिणो ऽपीति ।
रेतः कार्यमिति यावत् ।
ब्रह्मलिङ्गानि प्रजापतौ योजयति- आत्मशब्दो ऽपीत्यादिना ।
किञ्च प्रजाः सृष्ट्वा ताः प्रति भोगार्थं गामानयल्लोकस्रष्टा तथाश्वमानयत् ।
तास्तु गवाश्वप्राप्त्या न तृप्तास्ततः पुरुषशरीरे आनीते ता अब्रुवंस्तृप्ताः स्म इति ।
अयं च व्यवहारो लोकस्रष्टुः प्रजापतित्वे लिङ्गमित्याह- अपिचेति ।
आत्मशब्दस्य चिदात्मनि मुख्यत्वान्मुख्यग्रहे बाधकाभावादुत्तरस्येक्षणादेरनुकूलत्वात्परमात्मग्रहणमिति सिद्धान्तयति- एवं प्राप्त इति ।
महाभूतसृष्टिपूर्वकं लोकानासृजतेति श्रुतिर्व्याख्येयेति भावः
एन्द् ब्स्चोम्_3,3.8.16
स्तर्त् ब्स्चोम्_3,3.8.17
अन्वयाद् इति चेत् स्याद् अवधारणात् । ब्ब्स्_3,3.17 ।
वाक्यान्वयदर्शनान्न परमात्मग्रहणमिति पुनर्यदुक्तं तत्परिहर्तव्यमिति ।
अत्रोच्यते ।
स्यादवधारमादिति ।
भवेदुपपन्नं परमात्मनो ग्रहणम् ।
कस्मात् ।
अवधारणात् ।
परमात्मग्रहणे हि प्रागित्पत्तेरात्मैकत्वावधारणमाञ्जमसवकल्पते ।
अन्यथा ह्यनाञ्जसं तत्परिकल्पेत ।
लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि ।
यथा तत्तेजो ऽसृजत (छा. 6.2.3) इत्येतच्छ्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमित्ययूयुजमेवमिहापि ।
श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषूपसंहर्तव्यो भवति ।
यो ऽप्ययं व्यापारविशेषानुगमस्ताभ्यो गामानयदित्येवमादिः सो ऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः ।
नह्ययं सकलः कथाप्रबन्धो विवक्षत इति शक्यते वक्तुम, तत्प्रतिपत्तौ पुरुषार्थाभावात् ।
ब्रह्मात्मत्वं त्विह विवक्षितम् ।
तथाह्यमभःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्टावा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टा ऽकथं न्विदं मदृते स्यात्ऽ (ऐ. 3.11 इति वीक्ष्येदं शरीरं प्रविवेशेति दर्शयति - ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ (ऐ. 3.12) इति ।
पुनश्च ऽयदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्ऽ (ऐ. 3.12) इत्येवमादिना करणव्यापारविवेचनपूर्वकम् ऽअथ को ऽहम्ऽ (ऐ. 3.11) इति वीक्ष्य ऽस एतमेव पुरुषं ब्रह्म ततममपश्यत्ऽ (ऐ. 3.13) इति ब्रह्मात्मत्वदर्शनमवधारयति ।
तथोपरिष्टात् एष ब्रह्मैष इन्द्रः (ऐ. 5.3) इत्यादिना समस्तभेदजातं सह महाभूतैरमुक्रम्य ऽसर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मऽ (ऐत. 5.3) इति ब्रह्मात्मत्वदर्शनमेवावधारयति ।
तस्मादिहात्मगृहीतिरित्यनपवादम् ।
अपरा योजना - आत्मगृहीतिरितरवदुत्तरात् ।
वाजसनेयके ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. 4.3.7) इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रहामात्मतामवधारयति ।
तथाह्युपसंहरति - ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.25) इति ।
छान्दोग्ये तु ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) इत्यन्तरेणैवात्मशब्दमुपक्रम्योदर्के ऽस आत्मा तत्त्वमसिऽ (छा. 6.8.7) इति तादात्म्यमुपदिशति ।
तत्र संशयः - तुल्यार्थत्वं किमनयोराम्नानयोः स्यादतुल्यार्थत्वं वेति ।
अतुल्यार्थत्वमिति तावत्प्राप्तमतुल्यत्वादाम्नानयोः ।
नह्याम्नानवैषम्ये सत्यर्थसाम्यं युक्तं प्रतिपत्तुमाम्नानतन्त्रत्वादर्थपरिग्रहस्य ।
वाजसनेयके चात्मशब्दोपक्रमादात्मतत्त्वोपदेश इति गम्यते ।
छान्दोग्ये तूपक्रमविपर्ययादुपदेशविपर्ययः ।
ननु छन्दोगानामप्यस्त्युदर्के तादात्म्योपदेश इत्युक्तम् ।
सत्यमुक्तम् ।
उपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपत्तिः सेति मन्यते ।
तथा प्राप्ते ऽभिधीयते - ऽआत्मगृहीतिः सदेव सोम्येदमग्रासीत्ऽ (छा. 6.2.1) इत्यत्र छन्दोगानामपि भवितुमर्हतीतरवत् ।
यथा ऽकतम आत्माऽ (बृ. 4.3.7) इत्यत्र वाजनेयिनामात्मगृहीतस्तथैव ।
कस्मात् ।
उत्तरात्तादात्म्योपदेशात् ।
अन्वयादिते चेत्स्यादवधारणात् ।
यदुक्तमुपक्रमान्वयादुपक्रमे चात्मशब्दश्रवणाभावान्नात्मगृहीतिरिति तस्य कः परिहार इति चेत्सो ऽभिधीयते स्यादवधारणादिति ।
भवेदुपपन्नेहात्मगृहीतिः ।
अवधारणात् ।
तथाहि - ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ ((छा. 6.1.1) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य तत्संपिपादयिषया ऽसदेव-ऽ इत्याह ।
तच्चात्मगृहीतौ सत्यां संपद्यते ।
अन्यथा हि यो ऽयं मिख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्येत ।
तथा प्रागुत्पत्तेरेकत्वावधारणं जीवस्य चात्मशब्देन परामर्शः स्वापावस्थायां च तत्स्वभावसंपत्तिकथनं परिचोदनापूर्वकं च पुनः पुनः ऽतत्त्वमसिऽ (छा. 6.8.7) इत्यवधारणमिति च सर्वमेतत्तादात्म्यप्रतिपादनायामेवावकल्पते न तादात्म्यसंपादनायाम् ।
नचाज्ञोपक्रमतन्त्रत्वोपन्यासो न्याय्यः ।
नह्युपक्रम आत्मत्वसंकीर्तनमनात्मत्वसंकीर्तनं वास्ति ।
सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकाङ्क्षित्वात्सामान्यस्य ।
सच्छब्दार्थो ऽपि च पर्यालोच्यमानो न मुख्यादात्मनो ऽन्यः संभवत्यतो ऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्यो ऽनृतत्वोपपत्तेः ।
आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति ।
आहर पात्रं पात्रमाहरेत्येवमादिष्वर्थसाम्ये ऽपि तद्दर्शनात् ।
तस्मादेवञ्जातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदे ऽपि प्रतिपाद्यार्थाभेद इति सिद्धम्
fन्: ततमं व्याप्ततमम् ।
तकारलोपश्छान्दसः ।
उदर्क उपसंहारः ।
पूर्वपक्षबीजमनूद्य दूषयति- अन्वयादिति ।
ऽआत्मा वा इदमेक एवाग्र आसीत्ऽइति ऽप्रज्ञानं ब्रह्मऽइति चोपक्रमोपसंहारस्थात्मब्रह्मश्रुतिभ्यामेकत्वावधाराणात्प्रवेशादिलिङ्गैश्च लोकस्रष्टृत्वादिलिङ्गबाधेन प्रत्यग्ब्रह्म ग्राह्यमिति भावः ।
स परमेश्वरः ।
एतमेव सीमानं मूर्ध्नः केशविभागावसानं विदार्य छिद्रं कृत्वा एतया ब्रह्मरन्ध्राख्यया द्वारा लिङ्गविशिष्टः प्रविष्टवानित्यर्थः ।
मां विना यदि वागादिभिः स्वस्वव्यापारः कृतः, अथ तदाहं क इति त्वंपदार्थं विचार्य स्वयमेतदेव शोधितमात्मानं ब्रह्म ततमं व्याप्ततममपश्यत् ।
तकारलोपश्छान्दसः ।
प्रज्ञा चिदात्मा नेत्रं नीयते ऽनेनेति नियामकं यस्य तत् प्रज्ञानेत्रं चिदात्मनियम्यमित्यर्थः ।
उक्तव्याख्याने गुणोपसंहारस्यास्फुटत्वान्न पादसंगतिरिति मत्वैव व्याख्यान्तरमाह- अपरेति ।
उदर्क उपसंहारः ।
सच्छब्दस्यात्मानात्मसाधारण्यात्संशयमाह- तत्रेति ।
पूर्वपक्षे सत्तासामान्ये ब्रह्मात्मत्वसंपदुपास्तिश्छान्दोग्ये, वाजश्रुतौ निर्गुणविद्येति भेदान्मिथोगुणानुपसंहारः ।
सिद्धान्ते तूभयत्र निर्गुणविद्यैक्यादुपसंहार इति फलभेदः ।
पदानां जातौ शक्तिग्रहात्सच्छब्दो ऽपि सत्ताजातिवाचीत्युपक्रमस्य निश्चितार्थत्वादसंजातविरोध्युपक्रमबलेन तादात्म्योपदेशः संपत्तिपरतया नेय इति पूर्वपक्षनिष्कर्षः ।
पूर्वत्र वाक्यैक्यादर्थादिपरत्वं त्यक्त्वा विद्यैक्यमुक्तमिह तु सदात्मशब्दाभ्यां जात्यात्मवाचिभ्यामुपक्रमभेदाद्वाक्यभेदे सति विद्याभेद इति प्रत्युदाहरणसंगतिः ।
न चात्मशब्दो जातिवाचकः, आत्मव्यक्त्यैक्याज्जात्यभावात्किन्तु सर्वान्तरवस्तुवाचकः ।
कल्पितजातिवाचित्वे ऽप्युपक्रमभेदः स्फुट एव सत्तात्मत्वयोर्भेदादिति मन्तव्यम् ।
सिद्धान्तयति- तथेत्यादिना ।
उपक्रमान्वयादिति ।
उपक्रमाधीनत्वादुपसंहारस्येत्यर्थः ।
तच्चावधारणं सत्पदेनात्मगृहीतौ सत्यां युज्यत इत्याह- तच्चेति ।
सदेकमेवेत्यवधारणं, अनेन जीवेनात्मनेति सद्देवताकर्तृको जीवस्यात्मशब्देन परामर्शः ।
सुप्तौ जीवः सता संपन्नौ भवतीति कथनं ।
भूय एव मा भगवान् विज्ञापयत्विति परिचोदना ।
सदितिपदेन सत्ताश्रया उच्यते न जातिमात्रं, कर्तृवाचिशतृप्रत्ययान्तत्वात् ।
तथा चोपक्रमे सत्ताश्रयसामान्योक्तौ क आश्रय इत्याकाङ्क्षायां वाक्यशेषादात्मेति निश्चीयत इत्याह- नचेति ।
सच्छब्दस्यात्मानात्मसाधारण्यमुपेत्योक्तं तदपि नास्ति आत्मपदवत्सत्पदस्य व्यक्तिवाचित्वाद्व्यक्तिश्च बाधायोग्य चिदात्मैवेति न वाचिछन्दोगयोरूपक्रमवैषम्यमित्याह- सच्छब्देति ।
वैषम्यमुपेत्याप्याह- आम्नानेति ।
वाजिवाक्ये त्वमर्थस्य तदर्थपर्यन्तस्य लक्ष्यस्य प्रतिपादनं छान्दोग्यवाक्ये तु तदर्थस्य त्वमर्थपर्यन्तस्य प्रतिपादनमिति प्रकारभेदे ऽपि वाक्यार्थैक्याद्विद्यैक्यमिति फलितमाह- तस्मादिति
एन्द् ब्स्चोम्_3,3.8.17
स्तर्त् ब्स्चोम्_3,3.9.18
9 कार्याख्यानाधिकरणम् । सू. 18
कार्याख्यानादपूर्वम् । ब्ब्स्_3,3.18 ।
छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिसंवादे श्वादिमर्यादं प्राणस्यान्नमाम्नान्य तस्यैवापो वास आमनन्ति ।
अनन्तरं च छन्दोगा आमनन्ति -ऽतस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोष्टाच्चाद्भिः परिदधातिऽ (छा. 5.2.2) इति ।
वाजसनेयिनस्त्वामनन्ति - ऽतद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ. 6.1.14) ऽतस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुतेऽ इति ।
तत्र त्वाचमनमनग्नताचिन्तनं त प्राणस्य प्रतीयते त्किमुभयमपि विधीयत उताचमनमेवोतानग्नताचिन्तनमेवेति विचार्यते ।
किं तावत्प्राप्तम् ।
उभयमपि चैतदपूर्वत्वाद्विध्यर्हम् ।
अथवाचमनमेव विदीयते ।
विस्पष्टा हि तस्मिन्विधिविभक्तिस्तस्मादेवंविदश्ष्यन्नाचामेदशित्वा चाचामेदिति ।
तस्यैव स्तुत्यर्थमनग्नतासंकीर्तनमिति ।
एवं प्राप्ते ब्रूमः - नाचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात् ।
प्राप्तमेव हीदं कार्यत्वेनाचमनं प्रायत्यार्थं स्मृतिप्रसिद्धमन्वाख्यायते ।
नन्वियं श्रुतिस्तस्याः स्मृतेर्मूलं स्यात् ।
नेत्युच्यते ।
विषयनानात्वात् ।
सामान्यविषया हि स्मृतिः पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयति ।
श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्वषयमेवाचमनं विदधती विदध्यात् ।
नच भिन्नविषययोः श्रुतिस्मृत्योर्मूलमूलिभावो ऽवकल्पते ।
नचेयं श्रुतिः प्राणविद्यासंयोग्यपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् ।
पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्येह प्रत्यभिज्ञायमानत्वात् ।
अत एव च नोभयविधानम् ।
उभयविधाने च वाक्यं भिद्येत ।
तस्मात्प्राप्तमेवाशिसिषतामशितवतां चोभयत आचमनमनूद्य ऽएतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ. 6.1.14) इति प्राणस्यानग्नताकरणसंकल्पो ऽनेन वाक्येनाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्व उपदिश्यते ।
नचायमनग्नतावाद आचमनस्तुत्यर्थ इति न्याय्यम् ।
आचमनस्याविधेयत्वात् ।
स्वयं चानग्नतासंकल्पस्य विधेयत्वप्रतीतेः ।
नचैवं सत्येकस्याचमनस्योभयार्थताभ्युपगता भवति प्रायत्यार्थता परिधानार्था छेति ।
क्रियान्तरत्वाभ्युपगमात् क्रियान्तरमेव ह्याचमनं नाम प्रायत्यार्थं पुरुषस्याभ्युपगम्यते, तदीयासु त्वप्सु वासःसंकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्याभ्युपगम्यत इत्यनवद्यम् ।
अपिच ऽयदिदं किञ्चाश्वस्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्ते ऽन्नम् (बृ. 6.1.14) इत्यत्र सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् ।
अशब्दत्वादशक्यत्वाच्च ।
सर्वं तु प्राणस्यान्नमितीयमन्नदृष्टिश्चोद्यते तत्साहचर्याच्चापो वास इत्यत्रापि नापामाचमनं चोद्यते प्रसिद्धास्वेवत्वाचमनीयास्वप्सु परिधानदृष्चिश्चोद्यत इति युक्तम् ।
नह्यर्धवैशसं संभवति ।
अपिचाचामन्तीति वर्तमानापदेशित्वम् शब्दो विधिक्षमः ।
ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम् ।
सत्यमेवमेतत् ।
अवश्यविधेये त्वन्यतरस्मिन्वासःकार्याख्यानादपां वासःसंकल्पनमेवापूर्वं विधीयते नाचमनं पूर्ववद्धि तदित्युपपादितम् ।
यदप्युक्तं विस्पष्टा चाचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैवाचमनस्य प्रत्युक्तम् ।
अत एवाचमनस्याविधित्सितत्वादेतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्रैव काण्वाः पर्यवस्यन्ति नामनन्ति तस्मादेवंविदित्यादि ।
तस्मान्माध्यन्दिनानामपि पाठ आचमनानुवादेनैवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।
यो ऽप्ययमभ्युपगमः क्वचिदाचमनं विधीयते क्वचिद्वासोविज्ञानमिति सो ऽपि न साधुः ।
आपो वास इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् तस्माद्वासोविज्ञानमेवेह विधीयते नाचमनमिति न्याय्यम्
कार्याख्यानादपूर्वम् ।
ऽमे किमन्नं किं वासःऽइति प्राणेन पृष्टा वागादयः ऊचुः, ऽयदिदं किं चाश्वभ्य आ कृमिभ्यस्तत्ते ऽन्नमापो वासःऽइति सर्वप्राणिभिर्भुज्यमानं यदिदं प्रसिद्धं श्वादिपर्यन्तमन्नं तत्प्राणस्य तवान्नमाप आच्छादनमित्युपासकेन चिन्तनीयमित्यर्थः ।
शाखाद्वये ऽप्यविशेषश्रुतिमुक्त्वा विशेशषश्रुतिभेदमाह- अनन्तरं चेति ।
तस्मादपां प्राणवस्त्रत्वादशिशष्यन्तो ऽशनं कुर्वन्तः श्रोत्रिया एतत्कुर्वन्ति ।
किं तत्, भोजनात्पूर्वमूर्ध्वं चाचामन्तीति यत्तदद्भिः प्राणं परिदधत्याच्छादयन्तीत्यर्थः ।
पूर्वोत्तराचमनसंबन्धिनीष्वप्सु प्राणवासस्त्वचिन्तनरूपमनग्नताध्यानं कार्यमिति भावः ।
तत् तस्मादित्युक्तार्थं यतः पूर्वे विद्वांसो ऽशनात्प्रागूर्ध्वं चाचामन्त एतमेवानां प्राणं तत्तेनाचमनेनानग्नमाच्छादितं कुर्वन्तो मन्यन्ते चिन्तयन्ति, तस्मादेवंविदिदानीन्तनो ऽप्युपासक एवं कुर्यादिति वाजिश्रुत्यर्थः ।
अत्रोभयोरप्यपूर्वत्वात्संशयमाह- तत्किमिति ।
संदिग्धसदुपक्रमस्य वाक्यशेषान्निर्णयवदाचामन्तीति पदस्य विधित्वसंदेहे आचामेदिति वाक्यशेषाद्विधित्वनिर्णय इति दृष्टान्तसंगत्या पूर्वपक्षमाह- किं तावदिति ।
ज्ञानसाधनोपासनाङ्गविधिविचारात्पादसङ्गतिर्बोध्या ।
पूर्वपक्षे प्राणविद्याङ्गत्वेनापूर्वाचमनं विहितमन्यत्रोपसंहर्तव्यमिति फलं सिद्धान्ते तस्याविधेयत्वान्नाङ्गत्वेनोपसंहार इति विवेकः उभयविधाने वाक्यभेदः स्यादित्यरुच्यापक्षान्तरमाह- अथवेति ।
प्रशस्तं हीदमाचमनं यस्मादनेन प्राणमनग्नं मन्यन्त इति स्तुतिः ।
प्रसिद्धानुवादेनाप्रसिद्धं विधेयमिति न्यायेन सिद्धान्तयति- एवमिति ।
प्रयतस्य प्रयत्नवतो भावः प्रायत्यंशुद्धिस्तदर्थमित्यर्थः ।
स्मृत्या शुद्यर्थं कार्यत्वेन विहितसकलकर्माङ्गतया प्राप्ताचमनानुवादेनापूर्वमनग्नताध्यानमेव विधीयत इति सूत्रार्थः ।
स्मार्तमाचमनं श्रुत्या नानूद्यते किं त्वनया श्रुत्या विहितं समृत्यानूद्यत इति शङ्कते- नन्विति ।
श्रुतिस्मृत्योरनयोर्न मूलमूलिभावो भिन्नविषयत्वादिति परिहरति- नेति ।
ऽद्विजो नित्यमुपस्पृशेत्ऽइत्याद्या स्मृतिः आचमनान्तरविधिमुपेत्य मूलमूलित्वं निरस्तं, संप्रति विधिरसिद्ध इत्याह- नचेयं श्रुतिरिति ।
अत एवेति आचमनविध्यभावादेवेत्यर्थः ।
अप्सु प्राणवासस्त्वध्यानाख्यः संकल्पः प्राणविद्याङ्गत्वेन विधीयत इत्याह- तस्मादिति ।
स्वयं चेति अपूर्वत्वादित्यर्थः ।
शुद्यर्थं विनियुक्तस्याचमनस्य प्राणाच्छादनार्थत्वं विरुद्धमित्याशङ्क्याह- न चैवं सतीति ।
आचमनस्याच्छादनार्थत्वमसिद्धमित्यर्थः ।
किञ्च यथा पूर्ववाक्ये प्राणस्यान्नध्यानमङ्गं विहितं तथात्राप्सु वासोध्यानं विधीयते अन्यथाचमनविधौ पूर्वत्र ध्यानविधिरुत्तरत्र क्रियाविधिरित्यर्धवैशसं स्यादित्याह- अपिचेति ।
भक्षयेदिति शब्दाभावाच्छ्वाद्यन्नस्य सर्वस्य मनुष्वेणेपासकेन भोक्तुमशक्यत्वाच्च न पूर्ववाक्ये क्रियाविधिरित्यर्थः ।
इतश्चाचमनमत्र न विधेयमित्याह- अपिचेति ।
अनग्नं मन्यन्त इत्यत्र वासस्त्वध्यानमपि न विधेयं दोषसाम्यदिति शङ्कते- नन्विति ।
उभयोरप्यनुवादत्वे वैफल्यादवश्यमेकानुवादेनैकं विधेयं तच्च विधेयं वासोध्यानमेव वासः कार्यस्यानग्नत्वस्याख्यानादपूर्वत्वाच्चेति समाधानार्थः ।
पूर्ववदिति स्मृत्या प्राप्तमित्यर्थः ।
आचामेदिति न विधिः किन्तु विष्णुरूपांशु यष्टव्य इतिवदनुवाद इत्यत्र लिङ्गमाह- अत एवेति ।
तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदिति वाक्यस्याविधित्वे काण्वैरपठनं लिङ्गमित्यर्थः ।
तर्हि पाठबलान्माध्यन्दिने आचमनविधिः काण्वे ध्यानविधिरिति कस्यचिन्मतं निराकरोति- यो ऽपीति
एन्द् ब्स्चोम्_3,3.9.18
स्तर्त् ब्स्चोम्_3,3.10.19
10 समानाधिकरणम् । सू. 19
समान एवं चाभेदात् । ब्ब्स्_3,3.19 ।
वाजसनेयिशाखायमगिनिरहस्ये शाण्डुल्यनामाङ् किता विद्या विज्ञाता ।
तत्र च गुणाः श्रूयन्ते - स आत्मानमुपासीत मनमयं प्राणशरीरं भारूपम् इत्येवमादयः. तस्यामेव शास्त्रायां बृहदारण्यके पुनः पठ्यते - ऽमनोमयो ऽयं पुरुषो भाः सत्यस्मिन्नन्तर्हदये यदा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्चऽ (बृ. 5.6.1) इति ।
तत्र संशयः - किमियमेका विद्याग्निरहस्यबृहदारण्यकयोर्गुणोपसंहारश्चोत द्वे इमे विद्ये गुणानुपसंहारश्चेति ।
किं तावत्प्राप्तम् ।
विद्याभेदो गुणव्यवस्था चेति ।
कुतः - पौनरुक्त्यप्रसङ्गात् ।
भिन्नासु हि शाखास्वध्येतृभेदात्पौनरुक्तस्यपरिहारमालोच्य विद्यैकत्वमध्यवसायैकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिष्वत्युक्तम् ।
एकस्यां पुनः शाखायामध्येतृवेदितृभेदाभावादशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्थैका विद्या भवितुमर्हति ।
नचात्रैकमाम्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति विभागः संभवति ।
तदा ह्यतिरिक्ता एव गुणा इतरत्रेतरत्र चाम्नायेरन्न समाना अपि तूभयत्राम्नायन्ते मनोमयत्वदयः ।
तस्मान्नान्योन्यं गुणोपसंहार इति ।
एवं प्राप्ते ब्रूमहे - यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवत्येवमेकस्यामपि शाखायां भवितुमर्हति ।
उपास्याभेदात् तदेव हि ब्रह्म मनोमयत्वादिगुणकमुभयत्राप्युपास्यमभिन्नं प्रत्यभिजानीमः ।
उपास्यं च रूपं विद्यायाः ।
नच विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः ।
नापि विद्याभेदे गुणव्यवस्थानम् ।
ननु पौनरुक्त्यप्रसङ्गद्विद्याभेदो ऽध्यवसितः ।
नेत्युच्यते ।
अर्थविभागोपपत्तेः ।
एकं ह्याम्नानं विद्याविद्याविधानार्थमपरं गुणविधानार्थमिति न किञ्चिन्नोपपद्यते ।
नन्वेवं सति यदुपठिमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् स एष सर्वस्येशानः इत्यादि ।
यत्तु पठितमेव मनोमय इत्यादि चेन्न पठितव्यम् ।
नैष दोषः ।
तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् ।
मसानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्यामीशानत्वाद्युपदिश्यते ।
अन्यथा हि कथं तस्यामयं गुणविधिरभिधीयते ।
अपिचाप्राप्तांशोपदेशेनार्थवति वाक्ये संजाते प्राप्तांशपरामर्शस्य नित्यानुवादतयाप्युपपद्यमानत्वान्न तद्बलेन प्रत्यभिज्ञोपोदितुं शक्यते ।
तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम्
समान एवञ्चाभेदात् ।
शाण्डिल्येन दृष्टा तन्नाम्नाङ्किता, अन्तर्हृदये व्रीह्यादिवत्सूक्ष्मस्तिष्ठतीत्यर्थः ।
अभ्यासप्रत्यभिज्ञाभ्यां संशयमाह- तत्रेति ।
गुणानुपसंहारोपसंहारौ पूर्वोत्तरपक्षयोः फलम् ।
पूर्वत्र प्राप्ताचमनानुवादेनानग्नताध्यानविधिरुक्तः ।
इह त्वेकशाखायां विप्रकृष्टदेशस्थवाक्ययोरेकस्य विधित्वमन्यस्यानुवादत्वमित्यनिश्चयाद्द्वयोरपि विद्याविधित्वमिति प्रत्युदाहरणेन पूर्वपक्षयति- किं तावदिति ।
यत्पुनरुक्तं, तद्विद्यान्तरमिति न व्याप्तिः प्राणपञ्चाग्न्यादिविद्यासु व्यभिचारदित्याशङ्क्य शाखाभेदे पुनरुक्तिरसिद्धेत्युक्तमित्याह- भिन्नास्विति ।
यथाग्निहोत्रवाक्ये कर्मविधिः, ऽदध्ना जुहोतिऽइति वाक्ये गुणविधिस्तथात्राप्यस्तु न विद्यामेद इत्याशङ्क्याह- नचात्रैकमिति ।
उक्तगुणानां पुनरुक्तिर्वृथास्यादतो ऽभ्यासाद्विद्याभेदः प्रयाजभेदवदिति भावः ।
उक्तगुणोक्तिर्न वृथा कतिपयगुणविशिष्टोपास्याभेदप्रत्यभिज्ञानार्थत्वादत उपास्यरूपाभेदाद्भिन्नशाखास्विव समानशाखायामपि विद्यैक्यमिति सिद्धान्तसूत्रं योजयति- यथेति ।
सौत्रश्चकारो ऽप्यर्थो व्याख्यातः ।
यत्र बहवो गुणाः श्रुतास्तत्र प्रधानविधिरन्यत्र तदनुवादेन गुणविधिरिति निश्चयादग्निरहस्ये प्रधानविधिवदुत्तरत्र गुणविधिरिति भावः
एन्द् ब्स्चोम्_3,3.10.19
स्तर्त् ब्स्चोम्_3,3.11.20
11 संबन्धाधिकरणम् । सू. 20-21
संबन्धादेवमन्यत्रापि । ब्ब्स्_3,3.20 ।
बृहदारण्यके ऽसत्यं ब्रह्मऽ (बृ. 5.5.1) इत्युक्रम्य ऽतद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ. 55.2) इति तस्यैव सत्यस्य ब्रह्मणो ऽधिदैवतमध्यात्मं चायतनविशेषमुपदिश्य व्याहृतिशरीरत्वं च संपाद्य द्वे उपनिषदावुपदिश्येते ।
तस्योपनिषहरित्यधिदैवतम् ।
तस्योपनिषदहमित्यध्यात्मम् ।
तत्र संशयः - किमविभागेनैवोभे अप्युपनिषदावुभयत्रानुसंगातव्ये उत विभागेनैकाधिदैवमेकाध्यात्ममिति ।
तत्र सूत्रेणैवोपक्रमते ।
यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्त एवमन्यत्राप्येवञ्जातीयके विषये भवितुमर्हति ।
एकविद्याभिसंबन्धात् ।
एका हीयं सत्यविद्याधिदैवमध्यात्मं चाधीता ।
उपक्रमाभेदाद्व्यतिषक्तपाठाच्च ।
कथं तस्यामुदितो धर्मस्तस्यामेव न स्यात् ।
योह्याचार्यो कश्चिदनुगमनादिराचारश्चोदितः स ग्रामगते ।
रण्यगते च तुल्यवदेव भवति ।
तस्मादुभयोरप्युपनिषदोरुभयत्र प्राप्तिरिति
संबन्धादेवमन्यत्रापि ।
सद्भूतत्रयं त्यद्वाय्वाकाशात्मकं, सत्य परोक्षभूतात्मकं हिरण्यगर्भाख्यं ब्रह्मोपक्रम्य, तदुक्तं यत्सत्यं तत् स यो ऽसावादित्यः किं मण्डलं न तत्र स्थाने पुरुषः करणात्मकः स एवाध्यात्ममक्षिस्थानस्थ इत्युपदिश्य ऽतस्य भूरिति शिरो भुव इति बाहुः स्वरिति पादौऽइति व्याहृतिरूपं शरीरमुक्त्वा द्वे उपनिषदो रहस्यदेवतानामनी उपदिश्येते तस्यादित्यमण्डलस्थस्याहरिति नाम प्रकाशकत्वात्तस्याक्षिस्थस्याहमिति नाम प्रत्यक्त्वादिति ।
इदं नामद्वयं विषयस्तत्र नामिनः सत्याख्यस्य ब्रह्मण एकत्वात्स्थानभेदोक्तेश्च संशयमाह- तत्रेति ।
पूर्वपक्षे प्रतिस्थानं नामद्वयानुष्ठानं सिद्धान्ते यथाश्रुत्यैकैकनामानुष्ठानमिति फलम् ।
दृष्टान्तसंगत्या पूर्वपक्षसूत्रं व्याचष्टे- यथेति ।
यथा विद्यैक्यादुपसंहार उक्त एवमन्यत्राप्येकाविद्यामुपसंहारो भवितुमर्हतीत्यर्थः ।
सत्यं ब्रह्मेत्युपक्रमाभेदस्तावेतावक्ष्यादित्यपुरुषावन्योन्यस्मिन्प्रतिष्ठितौ, आदित्यरश्मीनां चक्षुष चक्षुषश्चादित्ये प्रतिष्ठानादिति व्यतिषक्तपाठो मिथः संश्लेषपाठस्ताभ्यां विद्यैक्यसिद्धिः ।
विद्यैक्ये ऽपि किं स्यात्तत्राह- कथमिति ।
विद्यैक्ये ऽपि स्थानभेदादुपनिषदोरसंकरः स्यादित्याशङ्कां दृष्टान्तेन परिहरति- यो हीति
एन्द् ब्स्चोम्_3,3.11.20
स्तर्त् ब्स्चोम्_3,3.11.21
एवं प्राप्ते प्रतिविधत्ते -
न वा विशेषात् । ब्ब्स्_3,3.21 ।
न वोभयोरुभयत्र प्राप्तिः ।
कस्मात् ।
विशेषात् ।
उपासनस अतानविशेषोपनिबन्धादित्यर्थः ।
कथं स्थानविशेषोपनिबन्ध इत्युच्यते - ऽय एष एतस्मिन्मण्डले पुरुषःऽ (बृ. 5.5.3) इति ह्याधिदैवकं पुरुषं प्रकृत्य तस्योपनिषदहरिति श्रावयति ।
ऽयो ऽयं दक्षिणे ऽक्षन्पुरुषःऽ (5.5.4) इति ह्यध्यात्मिकं पुरुषं प्रकृत्य तस्योपनिषदमिति ।
तस्येति चैतत्संनिहितावलम्बनं सर्वनाम, तस्मादायतनविशेषव्यपाश्रयेणैवैते उपनिषदावुपदिश्येते ।
कुत उभयोरुभयत्र प्राप्तिः ।
नन्वेक एवायमधिदैवतमध्यात्मं च पुरुष एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् ।
सत्यमेवेतत् ।
एकस्यापि त्ववस्थाविशेषोपादानेनैवोपनिषद्विशेषोपदेशात्तदवस्थास्यैव सा भवितुमर्हति ।
अस्ति चायं दृष्टान्तः सत्यप्याचार्यस्वरूपापानपाये यदाचार्यस्यासीनस्यनुवर्तनमुक्तं न तत्तिष्ठतो भवति ।
यच्च तिष्ठत उक्तं न तदासीनस्येति ।
ग्रामारण्ययोस्त्वाचार्यस्वरूपानापायात्तत्स्वरूपानुबुद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावादुभयत्र तुल्यवद्भाव इत्यदृष्टान्तः सः ।
तस्माद्व्यवस्थानयोरुपनिषदोः
नाम्यैक्यात् नामसंकरो युक्तः, तथा चाक्षिस्थो ऽहरिति नामवान् सत्यब्रह्मत्वादादित्यस्थवदिति प्राप्ते सिद्धान्तसूत्रं योजयति-नवेति ।
नाम्नोरूपासनस्थानविशिष्टसंबन्धित्वादित्यर्थः ।
तस्यो ऽपनिषदहरहमिति च वाक्यद्वयेन तच्छब्दपरामृष्टयोः संनिहितस्थानविशिष्टयोः पुरुषयोर्नामसंबन्धपरेणोपसंहारानुमानं बाध्यमिति भावः ।
विशेष्यैक्यान्नामसंकर इत्याशङ्क्य स्थानभेदेन विशिष्टपुरुषभेदान्नामव्यवस्थामाह- नन्वित्यादिना ।
विशिष्टसंबन्धे दृष्टान्तमाह- अस्तीति ।
प्रतिदृष्टान्तस्य स्वरूपसंबन्धित्वाद्विशिष्टे ध्येये प्रकृते दृष्टान्तं नास्तीत्याह- ग्रामेति
एन्द् ब्स्चोम्_3,3.11.21
स्तर्त् ब्स्चोम्_3,3.11.22
दर्शयति च । ब्ब्स्_3,3.22 ।
अपि चैवञ्जातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति - ऽतस्यैतस्य तदेव रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामऽ (छा. 1.7.5) इति ।
कथमस्यलिङ्गत्वमिति तदुच्यते ।
अक्ष्यादिनित्यस्थानभेदभिन्नान्धर्णानन्योन्यस्मिन्ननुपसंहार्यान्पश्यन्निहातिदेशेनादित्यपुरुषगतान्रूपादीनक्षिपुरुष उपसंहरति - ऽतस्यैतस्य तदेव रूपम्ऽ (छा. 1.7.5) इत्यादिना ।
तस्माद्व्यवस्थिते एवैते उपनिषदाविति निर्णयः
उक्तनामव्यवस्थायामतिदेशो लिङ्गमित्याह- दर्शयति चेति ।
विद्यैक्यादेवोपसंहारसिद्धावतिदेशो वृथा स्यात्तस्मादेकविद्यायामपि स्थानभेदेनोक्तगुणानां विनातिदेशमनुपसंहार इति सिद्धम्
एन्द् ब्स्चोम्_3,3.11.22
स्तर्त् ब्स्चोम्_3,3.12.23
12 संभृत्यधिकरणम् । सू. 23
संभृतिद्युव्याप्त्यपि चातः । ब्ब्स्_3,3.23 ।
ब्रह्मज्येष्ठा विर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते ।
तेषामेव चोपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते ।
तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन्न वेति विचारणायां ब्रह्मसंबन्धादुपसंहारप्राप्तावेवं पठति ।
संभृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः ।
अत एव चायतनविशेषयोगात् ।
तथाहि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् - ऽएष म आत्मान्तर्हृदयेऽ (छा. 3.14.3) इति ।
तद्वदेव दहरविद्यायामपि ऽदहरं पुण्डरीके वेश्म दहरो ऽस्मिन्नन्तराकाशःऽ (छा. 8.1.1) इति ।
उपकोसलविद्यायां त्वक्ष्यायतनत्वम् ऽय एषो ऽक्षणि पुरुषो दृश्यतेऽ (छा. 4.15.1) इति ।
एवं तत्र तत्रत् तदाध्यात्मिकमायतनमेतासु विद्यासु प्रतीयते ।
आधिदैविक्यस्त्वेता विभूतयः संभृतिद्युव्याप्तिप्रभृतयस्तासां कुत एतासु प्राप्तिः ।
नन्वेतास्वप्याधिदैविक्यो विभूतयः श्रूयन्ते - ऽज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छा. 3.14.3) ऽएष उ एव भामनीरेष हि सर्वेषु लोकेषु भातिऽ (छा. 4.15.4) ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहितेऽ (छा. 8.1.3) इत्येवमाद्याः ।
सन्ति चान्या आयतनविशेषहीना अपीह ब्रह्मविद्याः षोडशकलाद्याः ।
सत्यमेतत् ।
तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहारहेतुः ।
समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशा गुणा उपसंह्रियेरन्निति युक्तम् ।
संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वान्न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते विद्याभेदे ऽपि तदुपपत्तेः ।
एकमपि हि ब्रह्म विबूतिभेदैरनेकधोपास्यत इति स्थितिः ।
परोवरीयस्तवादिवद्भेददर्शनात् ।
तस्माद्वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिष्वनुपसंहार इति
fन्: ब्रह्मज्येष्ठा ब्रह्मज्येष्ठानि निलोपश्छान्दसः ।
वीर्या वीर्याणि पराक्रमभेदाः ।
संभृतिद्युव्याप्त्यपि चातः ।
ब्रह्मैव ज्येष्ठं कारणं येषां तानि ब्रह्मज्येष्ठानि, निलोपश्चान्दसः, वीर्याणि पराक्रमविशेषा आकाशोत्पादनादयः, तानि च वीर्याणि संभृतानि निर्विघ्नं समृद्धानि, सर्वनियन्तुः कार्ये विघ्नकर्तुरसत्त्वात् ।
तच्च ज्येष्ठं ब्रह्माग्ने देवाद्युत्पत्तेः प्रागेव दिवं स्वर्गमाततान व्याप्तवत्सदा सर्वव्यापकमित्यर्थः ।
सर्वप्राथम्यं स्पर्धानर्हत्वमिति वाक्यशेषस्था गुणाः प्रभृतिपदग्राह्याः ।
खिलेष्विति विधिनिषेधशून्यवाक्येष्वित्यर्थः ।
ब्रह्मसंबन्धाद्विद्याभेदभानाच्च संशयमाह- तास्विति ।
अनारभ्याधीतब्रह्मविभूतीनां ब्रह्मसंबन्धेन सर्वब्रह्मविद्यासु प्रत्यभिज्ञानादुपसंहार इति पूर्वपक्षः ।
सिद्धान्तमाह- संभृतीति ।
संभृतिश्च द्युव्याप्तिश्च संभृतिद्युव्याप्ति तदपि सर्वत्र नोपसंहर्तव्यमुपनिषदोरिव व्यवस्थापकविशेषयोगादिति सूत्रयोजना ।
आध्यात्मिकायतनविशेषयुक्तासु विद्यास्वाधिदैविकविभूतीनां प्रत्यभिज्ञाने हेत्वभावान्न प्राप्तिरित्युक्ते हेतुं शङ्कते- नन्वेतास्विति ।
आधिदैविकत्वसाम्यादाध्यात्मिकायतनहीनत्वसाम्याद्वा तत्तद्विद्यासु संभृत्यादीनां प्राप्तिरिति शङ्कार्थः ।
उक्तहेतुद्वयं न गुणप्रापकमाधिदैविकविद्यानां शाण्डिल्यदहरादीनामायतनहीनविद्यायां च मिथोगुणसांकर्यप्रसङ्गात्, तस्मात् कतिपयसमानगुणविशिष्टोपास्यरूपैक्यं विद्यैक्यमावहद्गुणप्राप्तिहेतुस्तदभावान्न प्राप्तिरिति परिहरति- सत्यमित्यादिना ।
स्थानविशिष्टभेदान्नाम्नोर्व्यवस्थावत्संभृत्याद् इगुणविशिष्टस्य ब्रह्मणः शाण्डिल्यादिविद्योक्तगुणविशिष्टब्रह्मणश्च मिथो भेदेन रूपभेदात्संभृत्यादीनां नोपसंहार इत्युक्तन्यायातिदेशत्वादस्य न संगत्याद्यपेक्षा यथैकस्मिन्नुद्गीथे परोवरीयस्त्वादिगुणोपास्तेर्हिरण्यश्मश्रुत्वाद्युपास्तिर्भिद्यते तथैकस्मिन्नपि ब्रह्मणि विद्याभेदोपपत्तेः ब्रह्मप्रत्यभिज्ञा न गुणप्रापिकेत्याह- परोवरीयस्त्वादिवदिति ।
तस्मात्संभृत्यादिगुणविशिष्टविद्यान्तरविधिरिति सिद्धम्
एन्द् ब्स्चोम्_3,3.12.23
स्तर्त् ब्स्चोम्_3,3.13.24
13 पुरुषाद्यधिकरणम् । सू. 24
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात् । ब्ब्स्_3,3.24 ।
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या ।
तत्र पुरुषो यज्ञः कल्पितः ।
तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् ।
अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ।
अन्ये च धर्मस्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः ।
तैत्तिरीयका अपि कञ्चित्पुरुषयज्ञं कल्पयनव्ति - ऽतस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नीऽ (नारा. 80) इत्येतेनानुवाकेन ।
तत्र संशयः - किं य इतरत्रोक्ताः पुरुषयज्ञस्य धर्मास्ते तैत्तिरीयकेषूपसंहर्तव्याः किंवा नोपसंहर्तव्या इति ।
पुरुषयज्ञत्व्विशेषादुपसंहारप्राप्तावाचक्ष्महे - नोपसंहर्तव्या इति ।
कस्मात् ।
तद्रूपप्रत्यभिज्ञानाभावात् ।
तदाहाचार्यः - पुरुषविद्यायामिवेति ।
यथैकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानं नैवमितरेषां तैत्तिरीयाणामाम्नानमस्ति ।
तेषां हूतरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यश्वृत्विगाद्यनुक्रमणात् ।
यदपि सवनसंपादनं तदपीतरविलक्षणमेव ऽयत्प्रातर्मध्यन्दिनंसायं च तानिऽ (नारा. 80) इति ।
यदपि किञ्चिन्मरणावभृथत्वादिसाम्यं तदप्यल्पीयस्तवाद्भूयसा वैलक्षण्येनाभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।
नच तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते ।
विदुषो यज्ञस्येति हि नचैते समानाधिकरणे षष्ठ्यौ विद्वानेव योयज्ञस्तस्येति ।
नहि पुरुषस्य मुख्यं यज्ञत्वमस्ति ।
व्यधिकरणे त्वेते षष्ठ्यौ विदुषो यो यज्ञस्तस्येति ।
भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः ।
सत्यां च गतौ मुख्य एवार्थ आश्रयितव्यो न भाक्तः ।
आत्मा यजमान इति च यजमानत्वं पुरुषस्य निर्ब्रुवन्वैयधिकरण्येनैवास्य यज्ञसंबन्धं दर्शयति ।
अपिच तस्यैवंविदुषैति सिद्धवदनुवादश्रुतौ सत्यां पुरुषस्य यज्ञभावमात्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् ।
अपिच संसन्यासामात्मविद्यां पुरस्तादुपदिश्यानन्तरं तस्यैवंविदुष इत्याद्यनुक्रमणं फस्यन्तः पूर्वशेष एवैष आम्नायो न स्वतन्त्र इति प्रतीमः ।
तथाचैकमेव फलमुभयोरप्यनुवाकयोरुपलबामहे ऽब्रह्मणो महिमानमाप्नोतिऽ (नारा. 80) इति ।
इतरेषां त्वनन्यशेषः पुरुषविद्याम्नायः ।
आयुरभिवृद्धिफलो ह्यसौ ऽस ह --षोडशं वर्षशतं जीवति य एवं वेदऽ (छा. 3.16.7) इति समभिव्याहारात् ।
तस्माच्छाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके
पुरुषविद्यायां छान्दोग्यस्थां विद्यामाह- अस्तीति ।
ऽपुरुषो वाव यज्ञस्तस्य यानि चतुर्विशति वर्षाणि तत्प्रातः सवनमथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यन्दिनं सवनमथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनम्ऽइति प्रसिद्धयज्ञसाम्यार्थं सवनत्रयं कल्पितं, ऽस यदशिशिषति यत्पिपासति यन्न रमते ता दीक्षा अथ यदश्नाति यत्पिबति यद्रमते ता उपसदः अथ यद्धसति यज्जक्षति यन्मैथुनं चरति तानि स्तुतशस्त्राणि अथ यत्तपोदानादि सा दक्षिणा मरणमेवावभृथः वस्वादिरूपा मे प्राणा इदं सवनत्रयं यावदायुरनुसंतनुतेऽइत्याशीः ऽअक्षितमस्यच्युतमसि प्राणं संशितमसिऽइति मन्त्रत्रयप्रयोगः ।
षोडशाधिकशतवर्षजीवित्वं फलमिति दर्शितम् ।
संशयार्थं शाखान्तरीयपुरुषविद्यामाह- तैत्तिरीयका इति ।
अत्र विदुषो यज्ञस्येति षष्ठ्योःसामानाधिकरण्यवैयधिकरण्यानिश्चयात्संशयमाह- तत्रेति ।
उपसंहारानुपसंहारावेव फलम् ।
पूर्वत्रासाधारणगुणप्रत्यभिज्ञानाभावात्संभृत्यादौ विद्याभेद उक्तः ।
इह त्वसाधारणमरणावभृथगुणविशिष्टपुरुषयज्ञरूपैक्यप्रत्यभिधानाद्वि द्यैक्यमिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तयति- नोपसंहर्तव्या इति ।
तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदः शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपो ऽग्निर्दमः शमयिता दक्षिणा वाग्घोता प्राण उद्गाता चक्षुरध्वर्युर्मनो ब्रह्माऽइति बहुतरधर्मवैलक्षण्यान्न रूपैक्यप्रत्यभिज्ञेत्यर्थः ।
वेदः कुशमुष्टिः शमयिता दमो दक्षिणेत्यन्वयः ।
किञ्च छान्दोग्ये त्रिधाविभक्तायुषि सवनत्वकल्पना, अत्र तु सायङ्कालादाविति वैरूप्यमाह- यदपीति ।
यन्मरणं तदवभृथो यद्रमते तदुपसद इति तित्तिरिश्रुतौ सारूप्यमपि भातीत्यत आह- यदपि किञ्चिदिति ।
गजोष्ट्रयोश्चतुष्पात्त्वसारूप्यवदिदं सारूप्यं नैक्यप्रयोजकमित्यर्थः ।
किञ्च छान्दोग्ये पुरुषयज्ञयोरैक्यं श्रुतमत्र तु भेद इति वैरूप्यान्तरमाह- नचेति ।
यद्यपि निषादस्थपतिन्यायेन सामानाधिकरण्यं षष्ठ्योर्युक्तं तथाप्यप्रसिद्धैक्यकल्पनागौरवाद्यज्ञस्यात्मेति भेदोक्तेरेकस्यैव यज्ञत्वयजमानत्वविरोधादात्मविदो यो यज्ञः प्रसिद्धस्तस्येति वैयधिकरण्यमेव युक्तम् ।
किञ्च विद्वत्संबन्धियज्ञरूपविशेष्यानुवादेन विद्वदङ्गैरङ्गसंपद्विधावेकवाक्यता प्रतीयते तस्यां सत्यां विशेष्यस्याङागानां च पृथग्विधिवादिनस्तव वाक्यभेददोषः स्यादित्यर्थः ।
किञ्च सत्यादिभ्यो न्यास एवापरे च यदिति संन्यासमुक्त्वा सर्वैः सर्वमिदं जगदित्येवं तमात्मानं ज्ञात्वा भूयो न मृत्युमुपयाति विद्वानिति संन्याससाध्यात्मविद्यां पुरस्तात्प्राजापत्यानुवाके उपदिश्यानन्तरानुवाके तस्यैवं विदुष इत्युक्तात्मविद्यानुवादेन प्रशंसार्थत्वेन, तच्छेषतयायज्ञसंपत्तिः क्रियते फलैक्यश्रुतेः, छन्दोगानां तु स्वतन्त्रविद्याविधिरित्याह- अपिच ससंन्यासामिति ।
चिन्ताफलमाह- तस्मादिति
एन्द् ब्स्चोम्_3,3.13.24
स्तर्त् ब्स्चोम्_3,3.13.25
14 वेधाद्यधिकरणम् । सू. 25
वेधाद्यर्थभेदात् । ब्ब्स्_3,3.25 ।
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः - ऽसर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरो ऽभिप्रवृज्यत्रिधा विपृक्तःऽ इत्यादिः ।
ताण्डिनाम् - ऽदेव सवितः प्रसुव यज्ञम्ऽ इत्यादिः ।
शाठ्यायनिनाम् - ऽश्वेताश्वो हरितनीलो ऽसिऽ इत्यादिः ।
कठानां तैत्तिरीयाणां - ऽशं नो मित्रः शं वरुणःऽ (तै. 1.1.1) इत्यादिः ।
वाजसनेयिनां तूपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते - ऽदेवा ह वै निषेदुःऽ इत्यादि ।
कौषीतकिनामप्यग्निष्टोमब्राह्मणम् - ऽब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति ते ऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्तिऽ इति ।
किमिमे सर्वे प्रविध्यमादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासूपसंह्रियेरन्किंवा नोपसंह्रियेरन्निति मीमांसामहे ।
किं तावन्नः प्रतिभाति उपसंहार एवैषां विद्यास्विति ।
कुतः ।
विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् ।
नन्वेषां विद्यार्थतया विधानं नोपलबामहे ।
बाढम् ।
अनुपलभमाना अपि त्वनुमास्यामहे संनिधिसामार्थ्यात् ।
नहि संनिधेरर्थवत्त्वे संभवत्यकस्मादसावनाश्रयितुं युक्तः ।
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः ।
कथं च प्रवर्ग्यादीनि कर्माण्यन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति ।
नैष दोषः ।
सामर्थ्यं तावन्मन्त्राणां विद्याविषयमपि किञ्चिच्छक्यं कल्पयितुं हृदयादिसंकीर्तनात् ।
हृदयादीनि हि प्रयेणोपासनेष्वायतनादिभावेनोपदिष्टानि तद्द्वारेण च हृदयं प्रविध्येत्येवञ्जातीयकानां मन्त्राणामुपपन्नमुपासनाङ्गत्वम् ।
दृष्टश्चोपासनेष्वपि मन्त्रविनियोगः ऽभूः प्रपद्ये ऽमुनामुनामुनाऽ (छा. 3.15.3) इत्येवमादिः ।
तथा प्रवर्ग्यादीनां कर्मणामन्यत्रापि विनियुक्तानां सतामविरुद्धो विद्यासु विनियोगो वाजपेय इव बृहस्पतिसवस्येति ।
एवं प्राप्ते ब्रूमः -
नैषामुपसंहारो विद्यास्विति ।
कस्मात् ।
वेधार्थभेदात् ।
हृदयं प्रविध्येत्येवञ्जातीयकानां हि मन्त्राणां येर्ऽथा हृदयवेधादयो भिन्ना अनभिसंबद्धास्त उपनिषदुदिताभिर्विद्याभिः ।
न तेषां ताभिः संगन्तुं सामर्थ्यमस्ति ।
ननु हृदयस्योपासनेष्वप्युपयोगात्तद्द्वारक उपासनसंबन्ध उपन्यस्तः ।
नेत्युच्यते ।
हृदयमात्रसंकीर्तनस्य ह्येवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत नच हृदयमात्रमत्र मन्त्रार्थः ।
हृदयं प्रविध्य धमनीः प्रवृज्येत्येवञ्जातीयको हि न सकलो मन्त्रार्थे विद्याभिरभिसंबध्यते ।
आभिचारिकविषयो ह्येषोर्ऽथस्तस्मादाभिचारिकेण कर्मणा सर्वं प्रविध्येत्येतस्य मन्त्रस्याभिसंबन्धः ।
तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः ।
एवमन्येषामपि मन्त्राणां केषाचिल्लिङ्गेन केषाञ्चिद्वचनेन केषाञ्चित्प्रमाणान्तरेणात्येवमर्थान्तरेषु विनियुक्तानां रहस्यपठितानामपि सतां न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः ।
दुर्बलो हि संनिधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै. सू. 3.3.13) इत्यत्र ।
तथाकर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः ।
नह्येषां विद्याभिः सहैकार्थ्यं किञ्चिदस्ति ।
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् - ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति ।
अपि चैको ऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेनान्यत्र विनियुक्तो न दुर्बलेन प्रमाणेनान्यत्रापि विनियोगमर्हति ।
अगृह्यमाणविशेषत्वे हि प्रमाणयोरेतदेवं स्यान्नतु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता संभवति बलवदबलवत्त्वविशेषादेव ।
तस्मादेवञ्जातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् ।
अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतोष्टव्यम्
वेधाद्यर्थभेदात् ।
देवतामभिचारकर्ता प्रार्थयते- सर्वमिति ।
हे देवते, मद्रिपोः सर्वमङ्गं प्रविध्य विदारय विशेषतश्च हृदयं भिन्धि धमनीः शिराः प्रवृञ्जय त्रोटय शिरश्चाभितो नाशय, एवं त्रिधा विपृक्तो विश्लिष्टो भवतु मे शत्रुरित्यर्थः ।
हे देव सवितः, यज्ञं तत्पतिं च प्रसुव निर्वर्तयेत्यर्थः ।
उच्चैः श्रवाः श्वेतो ऽश्वो यस्येन्द्रस्य स त्वं हरितमणिवन्नीलो ऽसीत्यर्थः ।
नो ऽस्माकं शं सुखकरो भवत्वित्यर्थः ।
अग्निष्टोमो ब्रह्मैव स यस्मिन्नहनि क्रियते तदपि ब्रह्म तस्माद्य एतदहः साध्यं कर्मोपयन्त्यनुतिष्ठिन्ति ते ब्रह्मणैव साधनेन ब्रह्मोपयन्ति ते च क्रमेणामृतत्वमाप्नुवन्तीति योजना ।
मन्त्रादिषु तत्तदुपनिषद्विद्याशेषत्वे प्रमाणभावाभ्यां संशयमाह- किमिति ।
फलं पूर्ववत् ।
ननु तेषां शेषत्वे मानाभावान्नोपसंहार इति शङ्कते- नन्वेषामिति ।
मन्त्रादयस्तत्तद्विद्याशेषाः फलवद्विद्यासंनिहितत्वात्तैत्तिरीयकगतपुरुषयज्ञवदिति समाधत्ते- बाढमिति ।
तथाच दृष्टान्तसंगतिः ।
सिद्धान्तिपक्षे संनिधिवैयर्थ्यं बाधकमाह- नहीति ।
अफलमन्त्रादीनां फलवच्छेषत्वबोधनं संनिधेरर्थवत्त्वं तत्संभवे सत्यकस्मादर्थशून्यत्वेनासौ संनिधिराश्रयितुं नहि युक्त इत्यर्थः ।
नञ्पाठेत्वकस्माद्धेतुं विनासावर्थो नाश्रयितुं नहि युक्त इत्यर्थः ।
ननु मन्त्राणां विद्यासमवेतार्थप्रकाशनसामर्थ्याभावान्न विद्याशेषत्वमिति शङ्कते- नन्विति ।
पुरस्तादुपसदां प्रवर्ग्येण प्रचरन्तीति वाक्येन प्रवर्ग्यस्य क्रतुशेषत्वं श्रुतं, अग्निष्टोमादेश्च तत्तद्वाक्येन स्वर्गाद्यर्थत्वमतो न विद्यार्थत्वमित्याह- कथं चेति ।
मन्त्राणां विद्यासमवेतहृदयनाड्यादिप्रकाशकत्वमस्तीत्याह- नैष इति ।
उपास्तिषु मन्त्रप्रयोगः क्वापि न दृष्ट इत्यत आह- दृष्टश्चेति ।
पुत्रस्य दीर्घायुष्यार्थं छान्दोग्ये त्रैलोक्यस्य केशात्वेनोपास्तिरुक्ता तत्र पितुरयं प्रार्थनामन्त्रः ।
तत्रामुनेति पुत्रस्य त्रिर्णाम गृह्णाति अमुना पुत्रेण सह भूरितीमं लोकममुं च प्रपद्ये न मे पुत्रवियोगः स्यादित्यर्थः ।
तत्तद्वाक्येनान्यत्र विनियुक्तानामपि कर्मणां संनिधिना विद्यासु विनियोगो न विरुध्यत इत्यत्र दृष्टान्तमाह- वाजपेय इति ।
ऽब्रह्मवर्चसकामो बृहस्पतिसवेन यजेतऽइति वाक्येन ब्रह्मवर्चसफले विनियुक्तस्यापि बृहस्पतिसवस्य ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽइति वाजपेयप्रकरणप्रकरणस्थ वाक्येन वाजपेयोत्तराङ्गतया विनियोगवदविरोध इत्यर्थः ।
यद्यप्येकेन वाक्येन प्रकरणान्तरस्थबृहस्पतिसवस्य प्रत्यभिज्ञानमङ्गत्वविधानं च कर्तुमयुक्तं वाक्यभेदप्रसङ्गादतो मासाग्निहोत्रवत्कर्मान्तरमेव बृहस्पतिसवाख्यमङ्गतया विधीयत इति न विनियुक्तस्य विनियोग इति भट्टगुरुतन्त्रद्वयसिद्धं, यथापि यथा नित्याग्निहोत्रस्याश्वमेधप्रकरणे वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोतीति नाम्ना प्रत्यभिज्ञा, यथावा दर्शपूर्णमासविकृतीष्टावाज्यभागौ यजतीत्येकस्मिन्वाक्ये प्रकृतिस्थाज्यभागयोः पदेन प्रत्यभिज्ञानं वाक्येन विधानं तथात्रापि बृहस्पतिसवपदेन प्रत्यभिज्ञानं वाक्येनाङ्गताविधानं किं न स्यात् ।
नच साध्यभावार्थविधायकाख्यातपरतन्त्रं नामपदं न सिद्धकर्मप्रत्यभिज्ञाक्षममिति वाच्यं, सिद्धस्याप्यङ्गतया पुनः साध्यत्वसंभवे ऽन्यथासिद्धाख्यातस्यैव प्रसिद्धार्थकनामपारतन्त्र्योपपत्तेः ।
नचैवं सति कुण्डपायिसत्रे ऽप्यङ्गत्वेन नित्याग्निहोत्रस्यैव विधिः स्यादिति वाच्यं, इष्टत्वात् ।
नच पूर्वतन्त्रविरोधः उत्तरतन्त्रस्य बलीयस्त्वात् ।
पूर्वतन्त्रस्य स्वतन्त्रपरतन्त्रभावनाभेदे तात्पर्याच्च ।
तस्मादेकस्यैव बृहस्पतिनामकस्य धात्वर्थस्य ब्रह्मवर्चसे विनियुक्तस्यापि वाजपेयाङ्गतया विनियोग इति भगवत्पादतात्पर्यम् ।
अस्तिच विनियुक्तस्य विनियोगे सर्वसंमतमुदाहरणं खादिरत्वादिकं तस्य क्रतौ विनियुक्तस्य वीर्यादिफले ऽपि विनियोगात् ।
तथा मन्त्रकर्मणामन्यत्र विनियुक्तानां विद्याशेषत्वमिति प्राप्ते सिद्धान्तयति- नैषामित्यादिना ।
विद्यासु हृदयादिसंबन्धे ऽपि वेधाद्यर्थानामसंबन्धात्कृत्स्नमन्त्रार्थानामभिचारादिसंबन्धलिङ्गेन संनिधेर्बलीयसाभिचारादावेव मन्त्राणां विनियोग इत्यर्थः ।
ऽदेव सवितः प्रसुवऽइति प्रदक्षिणतो ऽग्निं पर्युक्षेदिति वाक्यादग्निपर्युक्षणे ऽसावित्रं जुहोति कर्मणः पुरस्तात्सवने सवने जुहोतिऽइति वाक्याद्वाजपेये कर्मविशेषे संबन्धो ऽस्य मन्त्रस्येत्याह- तद्विशेषेति ।
उक्तन्यायं श्वेताश्व इत्यादिष्वतिदिशति- एवमन्येषामिति ।
प्रमाणान्तरं प्रकरणादिकम् ।
ननु लिङ्गादिभरन्यत्र विनियुक्तानामपि संनिधिना विद्यास्वपि विनियोगो ऽस्त्वविरोधादित्युक्तं, तत्राह- दुर्बलो हीति ।
समवाये समानविषयत्वेन द्वयोर्विरोधे, परस्य दौर्बल्यं, कुतः अर्थविप्रकर्षात्, स्वार्थबोधने परस्य पूर्वव्यवधानेन प्रवृत्तेरित्यर्थः ।
अयमाशयः-एकत्र विनियुक्तस्य निराकाङ्क्षत्वादन्यत्र विनियोगो विरुद्ध एव परन्तु विनियोजकप्रमाणयोः समबलत्वे ऽन्यतरविनियोगत्यागायोगादगत्याकाङ्क्षोत्पादनेन विनियुक्तविनियोगः स्वीक्रियते ऽयथा खादिरो यूपो भवतिऽऽखादिरं वीर्यकामस्य यूपं कुर्यात्ऽइति वाक्याभ्यां क्रतौ विनियुक्तस्य खादिरत्वस्य वीर्यफले विनियोगः ।
यत्र तु प्रमाणयोरतुल्यत्वं तत्र न स्वीक्रियते प्रबलप्रमाणेन दुर्बलविनियोगबाधात् ।
यथा ऽकदाचन स्तरीरसिऽइत्यस्या ऋच ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति तृतीयाविभक्तिश्रुत्यान्यनिरपेक्षतया गार्हपत्योपस्थानशेषत्वबोधिकयेन्द्रप्रकाशनसामार्थ्यरूपलिङ्गप्राप्तमिन्द्रशेषत्वं बाध्यते ।
लिङ्गं हि न साक्षाच्छेषत्वं बोधयति किन्त्विन्द्रप्रकाशनमात्रं करोति, तेन च लिङ्गेनानेन मन्त्रेण इन्द्र उपस्थापयितव्य इति श्रुतिः कल्पनीया,
तया शेषत्वबोध इति श्रुतिव्यवधानेन शेषत्वबोधकं लिङ्गं झटिति स्वार्थबोधकश्रुत्या बाध्यम् ।
तथा लिङ्गेन वाक्यं बाध्यं यथा ऽस्यो ऽनं ते सदनं करोमि घृतस्य धारया कल्पयामिऽ, ऽतस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानःऽइति मन्त्राभागयोः प्रत्येकं सदनकरणे पुरोडाशासादने च तत्प्रकाशनसामर्थ्यलिङ्गेन श्रुतिद्वारा विनियोगे सति प्रतीतमेकवाक्यत्वं बाध्यते, तस्य कृत्स्ने ऽपि मन्त्रे सदनकरणप्रकाशनसामर्थ्यं पुरो ऽडाशासादनप्रकाशनसामर्थ्यं च लिङ्गं कल्पयित्वा श्रुतिकल्पनयोभयत्र कृत्स्नमन्त्रविनियोगबोधने द्वाभ्यां लिङ्गश्रुतिभ्यां व्यवधानेन श्रुत्येकव्यवहितकॢप्तलिङ्गाद्दुर्बलत्वात् ।
नच सामर्थ्यं न कल्प्यमिति वाच्यं, असमर्थस्य विनियोगायोगात् अत एव गङ्गापदस्य तीरबोधविनियोगे लक्षणारूपं सामर्थ्यं कल्प्यते ।
तथा वाक्येन प्रकरणं बाध्यं यथा साह्नप्रकरणाम्नातद्वादशोपसदां द्वादशाहीनस्येति वाक्येनाहीनाङ्गत्व बोधकेन प्रकरणप्राप्तसाह्नाङ्गत्वबाधादुत्कर्षः ।
प्रधानस्याङ्गाकाङ्क्षारूपं प्रकरणं तस्याङ्गप्रधानवाक्यैकवाक्यतासामर्थ्यश्रुतिभिः कल्प्यमानाभिः स्वार्थविनियोगप्रमितौ व्यवधानेनाङ्गसामर्थ्यश्रुत्योर्द्वयोः कल्पकवाक्याद्दुर्बलत्वात् ।
तथा प्रकरणेन संनिधिर्बाध्यः ।
यथा राजसूयप्रकरणेन तदन्तर्गताभिषेचनीयाख्यसोमयागविशेषसंनिधिपाठप्राप्तं शुनः शेपोपाख्यानादेरभिषेचनीयशेषत्वं बाधित्वा कृत्स्नराजसूयशेषत्वमापादितं संनिधेः प्रकरणादिकल्पकत्वेन कॢप्तप्रकरणाद्दुर्बलत्वात् तथा संनिधिना समाख्या बाध्यते ।
तथाहि-पौरोडाशिकसमाख्याके काण्डे आग्नेयपुरोडाशादिकर्मणां क्रमेण मन्त्रा आम्नातास्तत्र दधिपयोरूपसान्नाय्यसन्निधौ ऽशुन्धध्वं दैव्याय कर्मणेऽइति मन्त्र आम्नातस्तत्र समाख्याबलेनास्य मन्त्रस्य पुरोडाशपात्रशुन्धनशेषत्वं प्राप्तं संनिधिना बाधित्वा सान्नाय्यपात्रशुन्धनशेषत्वमापाद्यते ।
पुरोडाशसंबन्धिकाण्डं पौरोडाशिकमिति पौरुषसमाख्यायाः काण्डान्तर्गतमन्त्रस्य पुरोडाशसंबन्धसामान्यबोधकत्वे ऽपि शेषशेषिभावरूपविनियोगबोधकत्वे संनिध्याद्यपेक्षत्वेन दुर्बलत्वादिति ।
एवं विरोधे सति श्रुतिर्बाधिकैव समाख्या बाध्यैव, मध्यस्थानां तु चतुर्णां पूर्वबाध्यत्वं परबाधकत्वं चेति श्रुतिलिङ्गसूत्रार्थः ।
तस्माल्लिङ्गादिनान्यत्र विनियुक्तानां मन्त्राणां दुर्बलसंनिधिना न विद्यासु विनियोग इति सिद्धम् ।
तथा कर्मणामिति ।
कर्मणां विद्योपकारत्वे ताभिः सहैकफलत्वे च मानं किञ्चिन्नास्तीत्यर्थः ।
अपिचेत्युक्तार्थम् ।
ननु तर्हि वेधादिवाक्यानामुपनिषद्भिः सह पाठस्य का गतिस्तामाह- अरण्येति ।
तस्माद्वेधादिमन्त्रकर्मणां विद्यास्वनुपसंहार इति सिद्धम्
एन्द् ब्स्चोम्_3,3.14.25
स्तर्त् ब्स्चोम्_3,3.15.26
15 हान्यधिकरणम् । सू. 26
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम् । ब्ब्स्_3,3.26 ।
अस्ति ताण्डानां श्रुतिः - ऽअश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामिऽ (छा. 8.13.1) इति ।
तथाथर्णिकानाम ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. 3.2.8) इति ।
तथा शाट्यायनिनः पठन्ति ऽतस्य पुत्रा दायमुपयन्ति सिहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति ।
तथैव कौषीतकिनः ऽतत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपन्त्यप्रिया दुष्कृतम्ऽ (कौ. 1.4) इति ।
तदिह क्वचित्सुकृतदुष्कृतयोर्हानं श्रूयते क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनं क्वचित्तूभयमपि हानमुपायनं च तद्यत्रोभयं श्रूयते तत्र तावन्न किञ्चिद्वक्तव्यमस्ति ।
यत्राप्युपायनमेव श्रूयते न हानं तत्राप्यर्थादेव हानं संनिपतति ।
अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोरावश्यकत्वात्तद्धानस्य ।
यत्र तु हानमेव श्रूयते नोपायनं तत्रोपायनं सनिपतेद्वा न वेति विचिकित्सायामश्रवणादसंनिपातः ।
विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य ।
अपिचात्मकर्तृकं सुकृतदुष्कृतयोर्हानं परकर्तृकं तूपायनं तयोरसत्यावश्यकभावे कथं हानेनोपायमाक्षिप्येत ।
तस्मादसंनिपातो हानावुपायनस्येति ।
अस्यां प्राप्तौ पठति - हानौ त्विति ।
हानौ त्वेतस्यां केवलायामपि श्रूयमाणायामुपायनं संनिपतितुमरपहति ।
तच्छेषत्वात् ।
हानशब्दशेषो ह्युपायनशब्दः समधिगतः कौषीतकिरहस्ये ।
तस्मादन्यत्र केवलहानशब्दश्रवणे ऽप्युपायनानुवृत्तिः ।
यदुक्तमश्रवणाद्विद्यन्तरगोचरत्वादनावश्यकत्वाच्चासंनिपात इति,
तदुच्यते ।
भवेदेषा व्यवस्थोक्तिर्यद्यनुष्ठेयत्वेन संकीर्त्यते ।
विद्यास्तुत्यर्थं त्वनयोः संकीर्तनम् ।
इत्थं महाभागा विद्या यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयते ते चास्य सुहृद्विषत्सु निविशेते इतै ।
स्तुत्यर्थे चास्मिन्संकीर्तने हानानन्तरभावित्वेनोपायस्य क्वचिच्छ्रुतत्वादन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते स्तुतिप्रकर्षलाभाय ।
प्रसिद्धा चार्थवादान्तरापेक्षार्थवादान्तरप्पवृत्तिः - ऽएकविंशो वा इथो ऽसावादित्यःऽ (छा. 2.10.5) इत्येवमादिषु ।
कथं हीहैकविंशतादित्यस्याभिधीयतानपेक्ष्यमाणेर्ऽथवादान्तरे द्वादश मासाःपञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः इत्येतस्मिन् ।
तथा त्रिष्टुभौ भवतः सेन्द्रियत्वाय इत्येवमादिषु इन्द्रियं वै त्रिष्टुप् इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्य कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् ।
उपायनशब्दशेषत्वादिति तु शब्दशब्दं समुच्चारयन्स्तुत्यर्थमेव हानावुपायनानुवृत्तिं सूचयति ।
गुणोपसंहारविवक्षायां ह्युपायनार्थस्यैव हानावृत्तिं ब्रूयात् ।
तस्माद्गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् ।
कुशाच्छन्दस्तुत्युपगानवदित्युपमोपादानम् ।
तद्यथा भाल्लविनाम् - ऽकुशा वानस्पत्याः स्थ ता मा पातऽ इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे शाट्यायनिनामौदुम्बराः कुशा इति विशेषवचनादौदुम्बर्यः कुशा आश्रीयन्ते ।
यथाच क्वचिद्देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे ऽदेवच्छन्दांसि पूर्वाणिऽ इति पैङ्ग्याम्नानात्प्रतीयन्ते ।
यथाच षोडशुस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ ऽसमयाध्युषिते सूर्येऽ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः ।
यथैव चाविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः ।
यथैतेषु कुशादिषु श्रुत्यन्तरगतविशेषैरन्वय एवं हानावप्युपायनान्वय इत्यर्थः ।
श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरे ऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् ।
स चान्याय्यः सत्यां गतौ ।
तदुक्तं द्वादशलक्षणायाम् - ऽअपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्ऽ इति ।
अथवैतास्वेव विधूनवश्रुतिष्वेतेन सूत्रेणैतच्चिन्तयितव्यम् ।
किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते किंवार्ऽथान्तरमिति ।
तत्र चैवं प्रापयितव्यम् ।
न हानं विधूननमभिधीयते ऽधञ् कम्पनेऽ इति स्मरणात् ।
दोधूयन्ते ध्वजाग्राणीति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् ।
तस्माच्चालनं विधूननमभिधीयते ।
चालनं तु सुष्कृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनादित्येवं प्रापय्य प्रतिवक्तव्यम् ।
हानावेवैष विधूयननशब्दो वर्तितुमर्हति ।
उपायनशब्दशेषत्वात् ।
नहि परपरिग्रहभूतयोः सुकृतदुष्कृतयोरप्रहीणयोः परैरुपायनं संभवति ।
यद्यपीदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं नाञ्जसं संभाव्यते तथापि तत्सर्न्तनात्तावत्तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते ।
क्वचिदपि चेदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाछन्दस्तुत्युपगानवद्विधनूनश्रुत्या सर्वत्रापेक्षामाणं सार्वत्रिकं निर्णयकारणं संपद्यते ।
नच चालनं ध्वजाग्रवत्सुकृतदुष्कृतयोर्मुख्यं संभवति ।
अद्रव्यत्वात् ।
अश्वश्च रोमाणि विधून्वानस्त्यजन्रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा. 8.13.1) इति च ब्राह्मणम् ।
अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः ।
तदुक्तमिति व्याख्यातम् ।
हानौ तूक्तम् ।
यथाश्वो रजोयुक्तानि जीर्णरोमाणि त्यक्त्वा निर्मलो भवति तथाहमपि पापं विधूय कृतात्मा निर्मलीकृतचित्तः सन् यथा वा राहुग्रस्तश्चन्द्रो राहुमुखात्प्रमुच्य स्पष्टो भवति तथा शरीरं धूत्वा त्यक्त्वा देहाभिमानान्मुक्तः सन्नकृतं कूटस्थं ब्रह्मात्मकं लोकं अभि प्रत्यक्त्वेन संभवामीत्यर्थः ।
यथा नद्यः समुद्रं प्राप्य नामरूपे त्यजन्ति तथा विद्वानित्यर्थः ।
तस्य मृतस्य विदुषः, दायं धनं, तत्तेन विद्याबलेन सुकृतदुष्कृते त्यजतीत्यर्थः ।
उपायनं ग्रहणं तस्य त्यागपूर्वकत्वात्, अत्यक्तयोर्ग्रहणायोगात्त्यागोर्ऽथादायति ।
यत्र तु त्याग एव श्रुतः तत्र हानोपायनयोः सहभावस्यावश्यकत्वानावश्यकत्वाभ्यां संशयमाह- यत्र त्विति ।
अत्र पूर्वपक्षे स्तुतिप्रकर्षासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।
यद्यपि ताण्ड्याथर्वणश्रुत्योर्निर्गुणविद्यार्थयोः कर्महानमेव श्रुतं नोपायनं तथापि कौषीतकिश्रुतौ पर्यङ्कस्थसगुणब्रह्मविद्यायामुपायनं श्रुतमत्रोपसंहर्तव्यमित्याशङ्क्य विद्याभेदान्नोपसंहार इत्याह- विद्यान्तरेति ।
किञ्च यथा मन्त्रकर्मणामनावश्यकत्वाद्विद्यास्वनुपसंहार उक्तः तथा परैरुपादानं विनापि हानसंभवेनोपादनस्यानावश्यकत्वान्न प्राप्तिरिति दृष्टान्तसंगत्या प्राप्ते सिद्धान्तयति- हानौ त्वियादिना ।
उपायनशब्दस्य शेषत्वाद्धानशब्देनापेक्षितत्वादिति सूत्रार्थः ।
अश्वरोमदृष्टान्तेन विधूतयोः पुण्यपापयोः परत्रावस्थानसापेक्षत्वात्परैरूपादानं वाच्यमिति भावः ।
विद्याभेदे गुणानुपसंहार इति व्यवस्थानुष्ठानविषया न स्तुतिविषयेत्याह- यदुच्यत इति ।
मन्यते सूत्रकार इत्यर्थः ।
ननु श्रुतहानार्थवादेनापि स्तुतिसिद्धौ किमर्थमुपायनार्थवाद आनीयते, तत्राह- स्तुतिप्रकर्षलाभायेति ।
नन्वर्थवादस्य विधिना संबन्धः प्रसिद्धो नार्थवादान्तरेणेत्यत आह- प्रसिद्धा चेति ।
इतो भूलोकादित्यर्थः ।
हेमन्तशिशिरयोरैक्यात्पञ्चर्तवः ।
यज्ञस्य पुरुषरूपकल्पनायां सेन्द्रियत्वाय त्रिष्टुभौ भवत इत्युक्तं बह्वृचब्राह्मणे, तत्र त्रिष्टुभश्छन्दोमात्रत्वात्कथमिन्द्रियत्वकल्पनेत्याकाङ्क्षायां यजुर्वाक्यं संवाद्यत इत्यर्थः ।
नन्वमूर्तयोः पुण्यपापयोः उपादानस्यासंभवादनुपसंहार इत्यत आह- विद्यास्तुत्यर्थत्वाच्चेति ।
विद्वन्निष्ठयोरेव तयोः फलं परे प्राप्नुवन्ति विद्यासामर्थ्यादित्युपयन्तिपदेनोच्यत इत्यर्थः ।
नन्वन्यनिष्टकर्मणोरन्यत्र फलसंचारः कथम् ।
ननु वचनबलादिति चेत् ।
न ।
फलमुपयन्तीत्यश्रुतेः ।
नच यथा पुत्रकृतश्राद्धस्य पितृषु फलं तथात्रेति वाच्यं, यस्य फलमुद्दिश्य यत्कर्म विहितं तस्य तत्फलमिति न्यायेन पितृणां तृप्त्युद्देशेन कृतकर्मणो व्यधिकरणफलत्वे ऽपि विदुषः कर्मकाले ऽनुद्दिष्टव्यधिकरणफलायोगात् ।
किञ्च विदुषो देहपाते कर्मणो ऽसत्त्वाद्यावज्जीवं विद्वत्सेवकस्य तद्द्वेषिणो वा फलं स्यादित्यत आह- नातीवाभिनिवेष्टव्यमिति ।
विद्वत्सेवाद्वेषाभ्यां विद्वन्निष्ठपुण्यपापतुल्ये पुण्यपापे सेवकद्वेषिणोर्जायेते जातयोः फलतः स्वीकार उपायनमिति परिहारस्य सुलभत्वादनाग्रह इत्यर्थः ।
उपायनादेः स्तुतित्वे लिङ्गमाह- उपायनेति ।
उपायनविवक्षायामुपायनस्यैवोपसंहारं सूत्रकारो ब्रूयादतः शब्दस्य तं ब्रूवन्स्तुतिं सूचयतीत्यर्थः ।
विद्याविचारात्मके पादे स्तुतिविचारस्य का संगतिरित्यत आह- तस्मादिति ।
शाखान्तरस्थो विशेषः शाखान्तरे ऽपि ग्राह्य इत्यत्र दृष्टान्तमाह- कुशेति ।
कुशा उद्गातृणां स्तोत्रगणनार्थाः शलाका दारुमय्यः, भो कुशाः, यूयं वानस्पत्याः वनस्थमहावृक्षो वनस्पतिः तत्प्रभवाः स्थ ता इत्थंभूता यूयं मा पात मां रक्षतेति यजमानप्रार्थना ।
अत्र ता इति स्त्रीलिङ्गनिर्देशादौदुम्बर्य इति भाष्याच्च शलाकासु कुशशब्दस्य स्त्रीत्वं मन्तव्यं दर्भविषयस्य न स्त्रीत्वं, अस्त्री कुशमित्यनुशासनात् ।
छन्दोदृष्टान्तं व्याचष्टे- यथाचेति ।
नवाक्षराणि छन्दांसि आसुराण्यन्यानि दैवानि तेषां क्वच्छिन्दोभिः स्तुवत इत्यत्राविशेषप्राप्तौ पैङ्गिवाक्याद्विशेषग्रह इत्यर्थः ।
स्तुतिं विवृणोति- यथेति ।
आतिरात्रे षोडशिनो ग्रहस्याङ्गभूतं स्तोत्रं कदेति छन्दोगादीनामाकाङ्क्षायामुदयसमयाविष्टे सूर्ये षोडशिनः स्तोत्रमित्यार्चश्रुतेः कालविशेषग्रह इत्यर्थः ।
ऋचो ऽधीयत इत्यार्चाः ।
उपगानं विभजते- यथेति ।
ऽऋत्विज उपगायन्तिऽइत्यविशेषश्रुतेः ऽनाध्वर्युरूपगायतिऽइति श्रुत्यन्तरादध्वर्युभिन्ना ऋत्विज उपगायन्तीति विशेषग्रह इत्यर्थः ।
ननु कुशादिवाक्यानामपि किमिति विशेषश्रुत्यन्तरैकवाक्यताभ्युपगम्यते, तत्राह- श्रुत्यन्तरकृतं हीति ।
सामान्यविशेषयोरेकवाक्यतारूपायां गतौ सत्यां वाक्यभेदं कृत्वा नाध्वर्युरिति निषेधादविशेषश्रुतेश्चाध्वर्युरुपगायति नोपगायति चेत्येवं सर्वत्र विकल्पो न युक्तः, व्रीहियवयोस्त्वगत्या विकल्प आश्रित इत्यर्थः ।
विकल्पस्यान्याय्यत्वमष्टदोषदुष्टत्वात् ।
तथाहि-यदि व्रीहिवाक्यमाश्रीयते तदा यववाक्यस्येष्टप्रामाण्यत्यागः, अनिष्टाप्रामाण्यस्वीकारः, कदाचिद्यववाक्याश्रयणे त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामाण्यत्यागश्चेत्येकस्मिन्यववाक्ये चत्वारो दोषा भवन्ति ।
एवं व्रीहिवाक्येपि चत्वारो दोषा इत्येवं दुष्टविकल्पपरिहाराय भिन्नशाखश्रुत्योरप्येकवाक्यता जैमिनिसंमतेत्याह- तदुक्तमिति ।
ज्योतिष्टोमप्रकरणे ऽदीक्षितो न जुहोतिऽ, इति श्रुतं ऽयावज्जीवमग्निहोत्रं जुहुयात्ऽइति चान्यत्र श्रुतं तत्र यदि नदीक्षितवाक्यं होमप्रतिषेधकं स्यात्तदा क्रत्वर्थत्वान्निषेधो ऽनुष्ठेयः, यावज्जीवविधिना होमो वानुष्ठेय इति विकल्पः स्यात्, स चान्याय्यः ।
अपि तु यावज्जीववाक्यं प्रति नदीक्षितवाक्यस्य शेषत्वान्नकार इतरपर्युदासार्थकः स्याद्दीक्षितान्यलक्षकः स्यात्, न होमप्रतिषेधकः, तस्माददीक्षितो यावज्जीवं जुहुयादित्येकवाक्यतेति नदीक्षिताधिकरणसिद्धान्तसूत्रार्थः ।
अत्र भगवत्पादैः सूत्रमेव पठितं, मिश्रैस्तु पर्युदासाधिकरणसिद्धान्तसूत्रं ऽअपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात्ऽइति स्थितमत्रार्थतः पठितमित्युक्तं तच्चिन्त्यम् ।
सूत्रार्थस्तु यज्ञमात्रे येयजामहे इति प्रयोक्तव्यमिति श्रुतं, नानुयाजेषु येयजामहं करोतीत्यपि श्रुतं, तत्र नकारस्य निषेधकत्वे ऽप्यतिरात्रे षोडशिग्रहणाग्रहणयोरिवानुयाजेषु यज्ञत्वाविशेषात्प्रयोक्तव्यं निषेधान्न प्रयोक्तव्यमिति विकल्पः स्यात्, तस्यान्याय्यत्वात् येयजामहविधेरेव नानुयाजवाक्यमेकदेशः स्यात्, पर्युदासवृत्त्या विधिवाक्यशेषः स्यादिति यावत् ।
तथा चानुयाजभिन्नेषु यागेषु येयजामह इति प्रयोक्तव्यमित्येकवाक्यतेति ।
वर्णकान्तरमाह- अथवेति ।
पूर्वत्रविधूननं कर्महानिरिति सिद्धवत्कृत्य उपायनोपसंहार उक्तः, अत्र सैव साध्यत इति भेदः ।
उभयत्र लक्षणासाम्यात्संशयमाह- किमिति ।
विधूननस्य हि फलद्वयमश्वरोमादिषु दृष्टं पूर्वस्वभावात् च्युतिरन्यत्र संक्रान्तिश्चेति ।
तत्र संक्रान्तिरूपहानिर्लक्षणीया किंवा च्युतिरिति संशयार्थः ।
तत्र विधूननशब्दस्य कम्पनं मुख्यार्थ इति तावत्सर्वसंमतम् ।
तच्चामूर्तयोः पुण्यपापयोर्न संभवति ।
अतस्तयोर्यः स्वभावः फलदातृत्वशक्तिस्ततश्चालनं विद्यया प्रतिबन्धाच्च्युतिः सा लक्षणीया न हानिरमूर्तयोरन्यत्र संक्रान्त्ययोगादन्यसापेक्षत्वाच्चेति पूर्वपक्षार्थः ।
सिद्धान्तयति- हानावेवेति ।
यदि च्युतिमात्रं लक्ष्यं तदोपयन्तीत्यनन्वितं स्यात् ।
नच यत्र धुनोतेरूपायनशब्दसांनिध्यं तत्र हानिर्लक्ष्यते न केवलधुनोतेर्हानिश्चान्यत्र विदुषः सेवकादौ तुल्यकर्मसंक्रान्तिरिति नासंभव इति वाच्यं, केवलधुनोतेरपि मुख्यार्थासंभवेनान्यत्र लक्ष्यतया बुद्धिस्थहानिलक्षणाया एव युक्तत्वादिति भावः ।
उपायनस्यामुख्यत्वान्न क्वापि हानिलक्षणाबीजत्वमिति शङ्कित्वा पुण्यपापयोः फलतः स्वीकारात्मकमुपायनं हानिं विनानुपपन्नं सल्लक्षणानिर्णायकमिति परिहरति- यद्यपीत्यादिना ।
यथान्यत्रश्रुतमौदुम्बरत्वादिकं कुशादिनिर्णायकं तथेदमुपायनं विधूननस्य हानत्वे निश्चायकमित्याह- क्वचिदपीति ।
विधूननं मुख्यं किमिति नोच्यते, तत्राह- नचेति ।
तथापि हानं कथं लक्ष्यत इत्याशङ्क्य मुख्यसंबन्धादित्याह- अश्वश्चेति ।
अनुपपत्तिसंबन्धौ लक्षणाबीजरूपामुक्त्वा लक्षकं पदं निर्दिशति- अश्व इवेति ।
विधूयेति पदं दृष्टान्ते हानपर्यन्तं सद्दार्ष्टान्तिके ऽपि हानलक्षकमित्यर्थः ।
यद्वा हानवाचकमेवास्तु नच धूञ् कम्पन इति धातुपाठविरोधस्तस्योपलक्षणार्थत्वादित्याह- अनेकेति ।
शाखान्तरस्थमुपायनं विधूननस्य हानत्वनिश्चायकमित्यत्र जैमिनिसूत्रं तदुक्तमिति गृहीतपूर्वं व्याख्यातमित्यर्थः ।
एवं विधृननस्य हानित्विसिद्धेः केवलहानावुपायनोपसंहार इति सिद्धम्
एन्द् ब्स्चोम्_3,3.15.26
स्तर्त् ब्स्चोम्_3,3.16.27
16 सांपरायाधिकरणम् । सू. 27-28
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये । ब्ब्स्_3,3.27 ।
देवयानेन पथा पर्यङ् कस्थं ब्रह्माभिप्रस्तितस्य व्यध्वनि सुकृतदुष्कृतयोर्विभागं कौषीतकिनः पर्यङ् कविद्यायाममनन्ति ऽस एतं देवयानं पन्तानमासाद्याग्निलोकमागच्छतिऽ (कौ. 1.3) इत्युपक्रम्य ऽस आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुतेऽ (कौ. 1.4) इति ।
तत्किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यमाहोस्विदादावेव देहादपसर्पण इति विचारणायां श्रुतिप्रामाण्याद्यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति - सांपराय इतै ।
सांपराये गमन एव देहादपसर्पण इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवतीति प्रतिजानीते ।
हेतुं चाचष्टो तर्तव्याभावादिति ।
नहि विदुषः संपरेतस्य विद्यया ब्रह्म संप्रेप्सतो ऽन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम् ।
विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति ।
तस्मात्प्रागेव सन्नयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते ।
तथा ह्यन्ये ऽपि शिखिनस्ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा. 8.13.1) इति, ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति च
संपराये अन्ये ।
व्यध्वनि अर्धमार्गे ।
पूर्वोक्तं विधूननस्य हानत्वमुपजीव्य हानस्य नदीतरणानन्तर्यश्रुतेरश्वैव रोमाणि इत्यादौ देहत्यागात्प्राक्कालत्वश्रुतेश्च संशयमाह- तत्किमिति ।
ब्रह्मलोकमार्गमध्ये विरजाख्यां नदीमत्येति तत्सुकृतदुष्कृते विधूनुते, इत्यत्र तदितिसर्वनामश्रुत्यास्तेनेत्यर्थतया संनिहितनदीतरणस्य कर्महानिहेतुत्वोक्तेरर्धपथे कर्मक्षय इति पूर्वपक्षः ।
तत्र विद्यायाः कर्मक्षयहेतुत्वासिद्धेः पूर्वपक्षे, सिद्धान्ते तत्सिद्धिरिति मत्वा सिद्धान्तयति- सांपराय इति ।
मरणात्प्रागित्यर्थः ।
संपरेतस्य मृतस्य कञ्चित्कालं कर्मसत्त्वे फलाभावाद्देवयानमार्गप्रवेशायोगाच्चादावेव क्षय इत्यर्थः ।
क्षयहेतोर्विद्याया मध्येमार्गमसत्त्वाच्चेत्याह- विद्याविरुद्धेति ।
नदीतरणानन्तरपाठस्तु बाध्यः, अर्थविरोधादित्याह- तस्मादिति ।
तदिति सर्वनाम्नापि प्रकृतविद्यैवोच्यत इति भावः
एन्द् ब्स्चोम्_3,3.16.27
स्तर्त् ब्स्चोम्_3,3.16.28
छन्दत उभयाविरोधात् । ब्ब्स्_3,3.28 ।
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्यार्धपथे सुकृतदुष्कृतक्षयो ऽभ्युपगम्येत ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषप्रयत्नस्येच्छातो ऽनुष्ठानानुपपत्तेरनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् ।
तस्मात्पूर्वमेव साधकावस्थायां छन्दतो ऽनुष्ठानं तस्यस्यात् ।
तत्पूर्वकं च सुकृतदुष्कृतहानमिति द्रष्टव्यम् ।
एवं निमित्तनैमित्तिकयोरुपपत्तिस्ताण्डिशाट्यायनिश्रुत्योश्च संगतिरिति
किञ्च मृतस्य छन्दतो यथाकामं विद्यानुष्ठानानुपपत्तेरुभ्योर्विद्याकर्मक्षययोः श्रुतो हेतुफलभावो विरुध्यते ।
किञ्च सति पुष्कलहेतौ न कार्यविलम्ब इति न्यायोपेतताण्ड्यादिश्रुतिविरोधस्तव स्यादस्मत्पक्षे त्वविरोध इत्याह- छन्दत इति ।
तस्मात्कर्महानस्य विद्याफलत्वात्केवलहानावुपायनोपसंहारो विद्यास्तुतय इति सिद्धम्
एन्द् ब्स्चोम्_3,3.16.28
स्तर्त् ब्स्चोम्_3,3.17.29
17 गतेरर्थवत्त्वाधिकरणम् । सू. 29-30
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः । ब्ब्स्_3,3.29 ।
क्वचित्पुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते क्वचिन्न ।
तत्र संशयः - किं हानावविशेषेणैव देवयानः पन्थाः संनिपतेदुत विभागेन क्वचित्संनिपतेत् क्वचिन्नेति ।
यथा तावद्धानावविशेषेणैवोपायनानुवृत्तिरुक्तैवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तावाचक्ष्महे ।
गतेर्देवयानस्य पथोर्ऽथवत्त्वमुभयथा विभागेन भवितुमर्हति क्वचिदर्थवती गतिः क्वचिन्नेति नाविशेषेण ।
अन्यथा ह्यविशेषेणैवैतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् ।
ऽपुण्यपारपे विधूय निरञ्जनः परमं साम्यमुपैतिऽ (मु. 3.1.3) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत ।
कथं हि निरञ्जनो ऽगन्ता देशान्तरं गच्छेत् ।
गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तमित्यानर्थक्यमेवात्र गतेर्मन्यामहे
गतेरर्थवत्त्वङ् क्वचित्सगुणविद्यायां मार्गः श्रूयते निर्गुणविद्यायां न श्रूयते ।
तत्र हानसंनिधौ मार्गस्य श्रुतत्वादनपेक्षितत्वाच्च संशये दृष्टान्तसंगत्या पूर्वपक्षमाह- यथा तावदिति ।
उपायनवन्मर्गस्यापि क्वचिच्छ्रुतत्वात्सर्वत्रोपसंहार इत्यर्थः ।
अत्र निर्गुणविदो ऽपि मुक्त्यर्थं मार्गापेक्षा पूर्वपक्षे, सिद्धान्ते त्वनपेक्षेति फलम् ।
देशादिव्यवहितवस्तुप्राप्तौ मार्गस्यापेक्षेतिन्यायानुगृहीतश्रुतिविरोधान्नोपसंहार इति सिद्धान्तः ।
निरञ्जनो ऽसङ्गः, साम्यं ब्रह्म
एन्द् ब्स्चोम्_3,3.17.29
स्तर्त् ब्स्चोम्_3,3.17.30
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत् । ब्ब्स्_3,3.30 ।
उपपन्नश्चायमुभयथाभावः क्वचिदर्थवती गतिः क्वचिन्नेति ।
तल्लक्षणार्थोपलब्धेः ।
गतिकारणभूतो ह्यर्थः पर्यङ् कविद्यासु सगुणेषूपासनेषूपलभ्यते ।
यत्र हि पर्यङ् कारोहणं पर्यङ् कस्तेन ब्रह्मणा संवदनं विशिष्टगन्धादि प्राप्तिश्चेत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते तत्रार्थवती गतिः ।
नहि सम्यग्दर्शने तल्लक्षणार्तोपलब्धिरस्ति ।
नह्यात्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेशबीजानामारब्धभोगकर्माशयक्षपणव्यतिरेकेणापेक्षितव्यं किञ्चिदस्ति तत्रानर्थिका गतिः ।
लोकवच्चैष विभागो द्रष्टव्यो यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते नारोग्यप्राप्तावेवमिहापीति ।
भूयश्चैनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः
ननु तर्हि सगुणविद्यायामपि मार्गो व्यर्थ इत्यत आह- उपपन्न इति ।
सा गतिर्लक्षणं कारणं यस्यार्थस्य स तल्लक्षणार्थः
एन्द् ब्स्चोम्_3,3.17.30
स्तर्त् ब्स्चोम्_3,3.18.31
18 अनियमाधिकरणम् । सू. 31
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम् । ब्ब्स्_3,3.31 ।
सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायामित्युख्तम् ।
सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते यथा पर्यङ् कविद्यायामुपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति ।
नान्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडषकलविद्यायां वैश्वानरविद्यायामिति ।
तत्र संशयः - किं यास्वेवैषा गतिः श्रूयते तास्वेव नियम्येतोतानियमेन सर्वाभिरेवञ्जातीयकाभिर्विद्याभिरभिसंबध्यतेति ।
किं तावत्प्राप्तं नियम इति ।
यत्रैव श्रूयते तत्रैव भवितुमर्हति ।
प्रकरणस्य नियामकत्वात् ।
यद्यन्यत्र श्रूयमाणापि गतिर्विद्यान्तरं गच्छेच्छ्रुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात् ।
अपिचार्चिरादिकैकैव गतिरुपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते तत्सर्वार्थत्वे ऽनर्थकं पुनर्वचनं स्यात् ।
तस्मान्नियम इत्येवं प्राप्ते पठति - अनियम इति ।
सर्वासामेवाभ्युदयप्राप्तिफलानां सगुणानां विद्यानामविशेषेणैषा दवयानाख्या गतिर्भवितुमर्हति ।
नन्वनियमाभ्युपगमे प्रकरणविरोध उक्तः ।
नैषो ऽस्ति विरोधः शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः ।
तथाहि श्रुतिः - ऽतद्य इत्थं विदुःऽ (छा. 5.10.1) इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽ (छा. 5.10.1) इति विद्यान्तरशीलिनामपि प्चाग्निविद्याविद्भिः समानमार्गतां गमयति ।
कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति ।
ननु श्रद्धातपःपरायणानामेव स्यात्तन्मात्रश्रवणात् ।
नैष दोषः ।
नहि केवलाभ्यां श्रद्दातपोभ्यामन्तरेण विद्याबलमेषा गतिर्लभ्यते ऽविद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनःऽ इति श्रुत्यन्तरात् ।
तस्मादिह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् ।
वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारे ऽधीयते - ऽय एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ. 6.2.15) इति ।
तत्र श्रद्धलवो ये सत्यं ब्रह्मोपासत इति व्याख्येयम् ।
सत्यशब्दस्य ब्रह्मण्यसकृत्प्रयुक्तत्वात् ।
पञ्चाग्निविद्याविदां चेत्थंवित्तयैवोपात्तत्वाद्विद्यान्तरपरायणानामेवैतदुपादानं न्याय्यम् ।
ऽअथ य एतौ पन्थानौ न विदुस्ते पतङ्गा यदिदं दन्दशूकम्ऽ (बृ. 6.2.16) इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनानन्तर्भावयति ।
तत्रापि विद्याविसेषादेषां देवयानप्रतिपत्तिः ।
समृतिरपि - ऽशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यानावृत्तिमन्ययावर्तते पुनःऽ (भ.गी. 8.23) इति ।
यत्पुनर्देवयानस्य पथो द्विराम्नानमुपकोसलविद्यायां पञ्चाग्निविद्यायां च तदुभयत्राप्यनुचिन्तनार्थम् ।
तस्मादनियमः
fन्: श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति ।
दन्दशूकः सर्पः ।
अनियमः सर्वासां ।
अत्राप्यर्चिरादिमार्ग एव विषयस्तत्र विद्याविशेषप्रकरणादविशेषश्रुतेश्च संशये पूर्वपक्षमाह- किं तावदिति ।
सगुणनिर्गुणविद्यासु मार्गस्य भावाभावव्यवस्थावत्सगुणास्वपि व्यवस्थेति दृष्टान्तेन प्राप्तौ सिद्धान्ते व्यवस्थापवादाद्गतिनियमो ऽनियम उभयत्र फलम् ।
नियमे प्रकरणमुक्त्वा पुनरुक्तिं लिङ्गमाह- अपिचेति ।
एकत्रोक्तगतेरन्यत्र प्राप्तौ पुनरुक्तिर्वृथा स्यादित्यर्थः ।
सिद्धान्तयति- सर्वासामिति ।
अभ्युदयो ब्रह्मलोकः ।
अविशेषश्रुत्यादिना प्रकरणबाधो न दोष इत्याह- नैष इति ।
तत्तत्र अधिकृतानां मध्ये य इत्थं पञ्चाग्नीन्विदुर्ये चामी अरण्ये श्रद्धातप इत्युपासते श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति ते ऽर्चिषमभिसंभवन्तीत्यन्वयः ।
ननु श्रद्धातपोमात्रश्रुतेस्ताभ्यामेवार्चिरादिगमनं स्यान्न वैश्वानरादिविद्याशीलानामिति शङ्कते- कथं पुनरिति ।
अविदुषां गतिनिषेधाच्छ्रद्धातपःशब्दाभ्यां तत्साध्यब्रह्मविद्यालक्षणेति परिहरति- नैष दोष इति ।
तत् ब्रह्मलोकस्थानं, परागताः परावृत्ताः, कामक्रोधदोषा न सन्तीति यावत् ।
दक्षिणाः केवलकर्मिणस्तपस्विनो ऽप्यविद्वांसो न गच्छन्तीत्यर्थः ।
लक्षणादोषहीनं वाक्यमाह- वाजसनेयिनस्त्विति ।
किञ्च विद्याकर्मलक्षणमार्गद्वयभ्रष्टानामधोगतिश्रुतेः वैश्वानराद्युपासकानामर्चिरादिमार्गप्राप्तिरित्याह- अथ य एताविति ।
दन्दशूकः सर्पः ।
किञ्च ऽअग्निर्ज्योतिराह-शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःऽइत्यविशेषेणोपसकानामर्चिरादिगतिमुक्त्वोपसंहारस्मृतेश्च तेषां तत्प्राप्तिरित्याह- स्मृतिरिति ।
शुक्ल गतिरार्चिरादिका, कृष्णा धूमादिका, जगतो विद्याकर्माधिकृतस्य, शाश्वते ध्रुवे संमते ।
तत्रैकया शुक्लया पुनरावृत्तिवर्जं कार्यं ब्रह्म गच्छति अन्यया स्वर्गे गत्वा पुनरायातीत्यर्थः ।
पुनरुक्तिदोषं दूषयति- यत्पुनरिति ।
तत्र तत्र मार्गश्रुतिरन्वहं मार्गचिन्तनार्थं, प्रकरणेन मार्गध्यानस्य विद्याङ्गत्वावगमात् ।
तथाच वक्ष्यति सूत्रकारः-ऽतच्छेषगत्यनुस्मृतियोगाच्चऽइति ।
येषां न श्रुतो मार्गस्ते मार्गध्यानं विनापि विद्यासामर्थ्यान्मार्गं लभन्त इति ज्ञापनार्था पुनरुक्तिरित्यर्थः ।
तस्मात्सर्वोपासनासु प्रतीकभिन्नास्वर्चिरादिप्राप्तिरिति सिद्धम्
एन्द् ब्स्चोम्_3,3.18.31
स्तर्त् ब्स्चोम्_3,3.19.32
19 यावदधिकाराधिकरणम् । सू. 32
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् । ब्ब्स्_3,3.32 ।
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते ।
ननु विद्यायाः साधनभूतायाः संपत्तौ कैवल्यनिर्वृत्तिः स्यान्न वेति ।
नेयं चिन्तोपपद्यते ।
नहि पाकसादनसंपत्तावोदनो भवेन्न वेति चिन्ता संभवति ।
नापि भुञ्जानस्तृप्येन्न वेति चिन्त्यते ।
उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् ।
तथाह्यपान्तरतमा नाम वेदाचार्यः पुराणर्षिर्विष्णुनियोगात्कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति ।
वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां संबभूवेति ।
भृग्वादिनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते ।
सनत्कुमारो ऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात्स्कन्दत्वेन प्रादुर्बभूव ।
एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ ।
श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते ।
ते च केचित्पतिते पूर्वदेहे देहान्तरमाददत्ते केचित्तु स्थित एव तस्मिन्योगैश्वर्यवशादनेकदेहादानन्यायेन ।
सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते ।
तदेतेषां देहान्तरोत्पत्तिदर्शनात्प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेति ।
अत उत्तरमुच्यते ।
न ।
तेषामपान्तरतमप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारततन्त्रत्वास्थितेः ।
यथासौ भगवान्सविता सह्स्रयुगपर्यन्तं जगतो ऽधिकारं चरित्वा तदवसान उदयास्तमयवर्जितं कैवल्यमनुभवति ऽअथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाताऽ (छा. 3.11.1) इति श्रुतेः ।
यथाच वर्तमाना ब्रह्मविद आरब्धभोगक्षये कैवल्यमनुभवन्ति ।
ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा. 6.14.2) इति श्रुतेः ।
एवमपान्तरमप्रभृतयो ऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्माणो यावदधैकारमवतिष्ठन्ते, तदवसाने चापवृज्यन्त इत्यविरुद्धम् ।
सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येणैव गृहादिव गृहान्तरमन्यमन्यं देहं संचरन्तः स्वाधिकारनिवर्तनायापरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वान्निर्माय देहान्युगपत्क्रमेण वाधितिष्ठन्ति ।
नचैते जातिस्मरा इत्युच्यन्ते ऽत एवैतेऽ इति स्मृतिप्रसिद्धेः ।
यथाहि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामाख्युदस्य स्वं देहं जानकं देहमाविश्य व्युद्य तेन पश्चात्स्वमेव देहमाविवेशेति स्मर्यते ।
यदि ह्यपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्ततो ऽन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत, नत्वियमाशह् का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् ।
तथाहि श्रुतिः - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड. 2.2.8) इति ।
ऽस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षःऽ (छा. 7.26.2) इति चैवमाद्या ।
स्मृतिरपि - ऽयथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुतेर्ऽजुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाऽ (भ.गी. 4.37) ऽबीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनःऽ इति चैवमाद्या ।
नचाविद्यादिक्लेशदाहे सति क्लेशबीजस्य सर्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते ।
नह्यग्निदग्धस्य शालिबीजस्यैकदेशप्ररोहो दृश्यते ।
प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयान्निवृत्तिः ।
ऽतस्य तावदेव चिरम्ऽ (छा. 6.14.2) इति शरीरपातावधि क्षेपकरणात् ।
तस्मादुपपन्ना यावदधिकारमाधिकारिणामवस्थितिः ।
नच ज्ञानफलस्यानैकान्तिकता ।
तथाच श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्ऽ (बृ. 1.4.10) इति ।
ज्ञानान्तरेषु चैश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ।
ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते ।
ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽ इति स्मरणात् ।
प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः ।
कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति ।
अनुभवारूढं तु ज्ञानफलम् ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ. 3.4.1) इति श्रुतेः ऽतत्त्वमसिऽ (6. 8.7) इति च सिद्धवदुपदेशात् ।
नहि ऽतत्त्वमसिऽ इत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः ।
ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृ. 1.4.10) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति ।
तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः
fन्: ऊर्ध्वो विलक्षणः ब्रह्मरूपः सन् उद्गम्य ।
तेन जनकेन , व्युद्य विवादं कृत्वा ।
निर्विण्णा विरक्ताः ।
प्रतिसंचरः प्रलपः ।
यावदधिकारम् ।
निर्गुणविद्यायां गतिर्व्यर्था मुक्तिफलत्वात्, सगुणविद्यासु सर्वत्रार्थवती ब्रह्मलोकफलत्वादिति व्यवस्था कृता, सा न युक्ता, तत्त्वज्ञानिनामपीतिहासादौ पुनर्जन्मदर्शनेन ज्ञानस्य मुक्तिफलत्वाभावादित्याक्षेपात्संगतिः ।
ज्ञानिनां पुनर्जन्मदर्शनं संशयबीजं भाष्ये दर्शितम् ।
पूर्वपक्षे ज्ञानान्मुक्तिश्रुतीनां ज्ञानस्तुतिमात्रत्वेन ज्ञानस्य मुक्तिफलत्वाभावे सति ब्रह्मलोकफलत्वाविशेषादर्चिरादिमार्गोपसंहारः फलं, सिद्धान्ते तूक्तव्यवस्थासिद्धिरिति विवेकः ।
श्रुतावपीति ।
मेधातिर्थेर्मेषेतिमन्त्रे इन्द्रस्य मेषजन्मोपलभ्यते ।
वसिष्ठ उर्वशीपुत्रे जात इत्येवमर्थो बह्वृचार्थवाद इत्यर्थः ।
पाक्षिकमित्यापाततः ।
अहेतुत्वमेवेति पूर्वपक्षः ।
ज्ञानस्य मुक्त्यहेतुत्वं नेति सिद्धान्तयति- ते चेति ।
लोकव्यवस्थासु स्वामित्वमधिकारः, तत्प्रापकं प्रारब्धं यावदस्ति तावत्कालं जीवन्मुक्तत्वेनाधिकारिकाणामवस्थितिः, प्रारब्धक्षये प्रतिबन्धकाभावाद्विदेहकैवल्यमित्यत्र मानमाह- अथेति ।
अथ प्रारब्धक्षयानन्तरम् ।
ततः पश्चादूर्ध्वो विलक्षणः केवलः ब्रह्मस्वरूपः सन् उदेत्योद्गम्य देहं त्यक्त्वेति यावत् ।
एकल एव अद्वितीयः, मध्ये उदासीनात्मकस्वरूपे तिष्ठतीत्यर्थः ।
ननु ज्ञानिनामपि जन्मान्तरं चेत्कथं मुक्तिरित्यत आह- सकृत्प्रवृत्तमिति ।
यदि ज्ञानिनां प्रारब्धातिरिक्तकर्माधीनां जन्मान्तरं स्यात्तदा ज्ञानान्मुक्त्यभावः स्यात् ।
नैतदस्ति ।
किन्तु बहुजन्मफलाय सकृदुद्भूतं प्रारब्धं ते क्षपयन्ति, जन्मग्रहणे ऽपि ज्ञानयोगबलान्न शोचन्ति प्रारब्धसमाप्तौ मुच्यन्त इत्यर्थः ।
ज्ञानिनां जन्मान्तरस्य पूर्वजन्महेतुप्रारब्धाधीनतायामलुप्तस्मृतित्वं हेतुः ।
यो ह्यजातिस्मरत्वे सति कर्मान्तराधीनजन्मान्तरवान्, स लुप्तस्मृतिरिति व्याप्तेः ।
ज्ञानिषुव्यापकाभावाद्विशिष्टव्याप्याभावसिद्धिः ।
ननु तेषां जातिस्मरत्वादलुप्तस्मृतित्वमन्यथासिद्धिमित्यत आह- न चैत इति ।
तथाच तेषामजातिस्मरत्वरूपविशेषणे सति विशेष्याभावादेव विशिष्टाभावसिद्धिरित्यर्थः ।
पूर्वदेहेनामप्रत्यभिज्ञानहीनाः परतन्त्राः साभिमाना जातिस्मराः, आधिकारिकास्तु पूर्वनामानः स्वतन्त्रा निरभिमाना इति वैषम्यम् ।
तेन जनकेन सह व्युद्य विवादं कृत्वेत्यर्थः ।
विदुषः प्रारब्धातिरिक्तकर्माभावान्न बन्धः ।
निमित्ताभावे नैमित्तिकाभाव इति न्यायानुगृहीतानां ज्ञानान्मुक्तिश्रुतीनां न स्तुतिमात्रत्वमितिममर्थमुपपादयति- यदि ह्युपयुक्त इत्यादिना ।
श्रुतिस्मृत्युक्तार्थे युक्तिमप्याह- न चाविद्येति ।
विद्यया क्लेशदाहात्तत्कार्यकर्मक्षयश्चेत्तर्हि प्रारब्धस्य कथं स्थितिः, तत्राह- प्रवृत्तफलस्येति ।
विदुषो देहपातावधिश्रुतेरनुभवाच्च ज्ञानस्यावरकाज्ञानांशनिवर्तकस्य प्रारब्धविक्षेपस्थित्यनुकूलाज्ञानांशनिवर्तनसामर्थ्याभावसिद्धेर्भोगेनैव प्रारब्धक्षय इति भावः ।
ज्ञानिनामधिकारिकत्वं कथमित्याशङ्क्य ज्ञानात्प्राक्कृतोपासनादिवशादित्याह- ज्ञानान्तरेषु चेति ।
प्रतिसंचरो महाप्रलयः, परस्य हिरण्यगर्भस्य, अधिकारान्ते साक्षात्कृतात्मानो मुच्यन्ते इत्यर्थः ।
ब्रह्मभावफलस्यापि भावित्वमाशङ्क्य तत्त्वमसीति श्रुतिबाधमाह- नहीति ।
तस्मान्निर्गुणविद्यायां मार्गानुपसंहार इति सिद्धम्
एन्द् ब्स्चोम्_3,3.19.32
स्तर्त् ब्स्चोम्_3,3.20.33
20 अक्षरध्यधिकरणम् । सू. 33
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ब्ब्स्_3,3.33 ।
वाजसनेयके श्रूयते - ऽएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्ऽ (बृ. 3.8.8) इत्यादि ।
तथाथर्वणे श्रूयते - ऽअथ परा यया तदक्षरमदिगम्यते ।
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्ऽ (मु. 1.1.5) इत्यादि ।
तथैवान्यत्रापि विशेषनिराकरणद्वारेणाक्षरं परं ब्रह्मश्राव्यते ।
तत्र च क्वचित्केचिदतिरिक्ता विशेषाः प्रतिपद्यन्ते ।
तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिरुत व्यवस्थेति संशये श्रुतिविभागाद्व्यवस्थाप्राप्तावुच्यते - अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः सामान्यतद्भावाभ्याम् - समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः ।
तदेव च सर्वत्र प्रतिपाद्यं ब्रह्माभिन्नं प्रत्यभिज्ञायते ।
तत्र किमित्यन्यत्र कृता बुद्धयो ऽन्यत्र न स्युः ।
तथाच ऽआनन्दादयः प्रधानस्यऽ (ब्र.सू. 3.3.11) इत्यत्र व्याख्यातम् ।
तत्र विधिरूपाणि विशेषणानि चिन्तितानीह प्रतिषेधरूपाणीति विशेषः ।
प्रपञ्चार्थश्चायं चिन्ताभेदः ।
औपसदवदिति निदर्शनम् ।
यथा जामदग्न्ये ऽहीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रदानमन्त्राणाम् अग्नेर्वेर्हेत्रं वेरध्वरम् इत्येवमादीनामुद्गातृवेदोत्पन्नानामप्यध्वर्युभिरभिसंबन्धो भवति ।
अध्वर्युकर्तृत्वातत्पुरोडाशप्रदानस्य प्रधानतन्त्रत्वाच्चङ्गानाम् ।
एवमिहाप्यक्षरतन्त्रत्वात्तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानामक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः ।
तदुक्तं प्रथमे काण्डे - ऽगुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगःऽ (जै. सू. 3.3.8) इत्यत्र
अक्षरधियाम् ।
अत्राक्षरब्रह्मप्रमापका निषेधशब्दा विषयाः, तेषु यत्र यावन्तः श्रुतास्तत्र तावतामशेषद्वैतनिषेधकत्वसंभवासंभवाभ्यां संशयमाह- तासामिति ।
यथा निर्गुणविद्यायां मार्गस्यानपेक्षितत्वादनुपसंहारस्तथा श्रुतनिषेधानामुपलक्षणतया सर्वद्वैतनिषेधसंभवाच्छाखान्तरीयनिषेधशब्दानामनपेक्षितत्वादनुपसंहार इति दृष्टान्तेन पूर्वपक्षस्तत्र लाघवं फलम् ।
सिद्धान्ते तु दोषद्वयाभावः फलम् ।
तथाहि-यदि श्रुतशब्दैरश्रुतनिषेधा लक्ष्यन्ते तदा लक्षणादोषः, यदि न लक्ष्यन्ते तदा सर्वद्वैतनिषेधासिद्धेर्निर्विशेषप्रमित्यभावदोष इति विवेकः ।
अक्षरे धर्मिणि द्वैतनिषेधधियो ऽक्षरधियस्तद्धेतवः शब्दा इति यावत्, तासामवरोध उपसंहार इति सूत्रयोजना ।
शेषिब्रह्मणाः सर्वशाखासु भावात्तत्प्रमितेः समानत्वाच्छेषाणामुसंहारः इति चेत्तर्हि न्यायसाम्यात्पुनरुक्तितावदवस्थ्यमित्यत आह- प्रपञ्चार्थ इति ।
आनन्दादीनां स्वरूपत्वादस्तूपसंहारः निषेधानामनात्मत्वादानन्त्याच्चानुपसंहार इत्यधिकारशङ्कायां तेषामनात्मवे ऽपि निर्विशेषब्रह्मप्रमित्यर्थत्वादविद्यातज्जनिषेधत्वेन संग्रहसिद्धेश्च निरपेक्षास्थूलानणुवाक्यस्थातया कॢप्तनिषेधशब्दानामन्यत्रश्रुतिनिषेधवाक्यैकवाक्यतयोपसंहार इति चिन्ता युक्तेत्यर्थः ।
अन्यत्रश्रुतशेषाणामन्यत्रस्थशेषिसंबन्धे दृष्टान्तं व्याचष्टे- यथेति ।
ऽजमदग्निः पुष्टिकामश्चतूरात्रेणायजतऽइत्युपक्रम्य विहितो जमदग्निना कृतो जामदग्न्यः, अहीनश्चतूरात्रः क्रतुस्तस्मिन्पुरोडाशिन्य उपसदो भवन्तीति पुरोडाशसाध्या इष्टयस्तैत्तिरीयके विहिताः, तासामध्वर्युकर्तृकत्वात्सामवेदोत्पन्नमन्त्राणां तात्सु विनियोगादध्वर्युणैव प्रयोगो नोद्गात्रेत्यर्थः ।
वेर्देवगणस्य होत्रं अध्वरं च कर्माग्नेस्त्वत्त एवेत्यग्न्यामन्त्रणमन्त्रार्थः ।
उत्पत्तिविधिर्गुणः फलापेक्षत्वादुत्पन्नस्य फले विनियोगविधिर्मुख्यः सफलत्वात् ।
तथाच मन्त्रणामुद्गातृवेदेत्पन्नत्वादुदेगात्रा प्रयोगः, विनियोगविधनाध्वर्युणा प्रयोग इति गुणमुख्ययोर्व्यतिक्रमे विरोध सति मुख्येन बलीयसा मन्त्रात्मकवेदस्याध्वर्युणा संप्रयोग उत्पत्तेर्विनियोगार्थत्वादिति जैमिनिसूत्रार्थः ।
यद्यपि शाबरभाष्ये वारवन्तीयादिसाम्नामुच्चैः स्वरकसामवेदोत्पन्नत्वादाधानाङ्गत्वेनोच्चैः स्वरप्रयोगः ऽय एवं विद्वान्वारवन्तीयं गायति यज्ञायज्ञीयं गायति वामदेव्यं गायतिऽइत्याधाने तेषां विनियोगविधिना याजुषेण याजुषस्योपांशुस्वरस्य प्रयोग इति गुणमुख्ययोर्विरोधे सत्त्युत्पत्तेर्विनियोगार्थत्वान्मुख्यविनियोगबलेन साम्नां यजुर्वेदस्वरसंयोग इति सूत्रं व्याख्यातं, तथापि न्यायसाम्यादौपसदमन्त्राः सूत्रविषयत्वेनोदाहृता इत्यविरोधः
एन्द् ब्स्चोम्_3,3.20.33
स्तर्त् ब्स्चोम्_3,3.21.34
21 इयदधिकरणम् । सू. 34
इयदामननात् । ब्ब्स्_3,3.34 ।
ऽद्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (मु. 3.1.1) इत्यध्यात्माधिकारे मन्त्रमाथर्वमिकाः श्वेताश्वतराश्च पठन्ति ।
तथा कठाः ऽऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताःऽ (क. 3.1) इति ।
किमत्र विद्यैकत्वमुत विद्यानानात्वमिति संशयः ।
किं तावत्प्राप्तं, विद्यानानात्वमिति ।
कुतः ।
विशेषदर्शनात् ।
द्वा सुपर्णेत्यत्र ह्येकस्य भोक्तृत्वं दृश्यते ।
एकस्य चाभोक्तृत्वं दृश्यते ।
ऋतं पिबन्तावित्यत्रोभयोरपि भोक्तृत्वमेव दृश्यते तद्वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति विद्यैकत्वमिति ।
कुतः - यत उभयोरप्यनयोर्मन्त्रयोरियत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यरूपमभिन्नमामनन्ति ।
ननु दर्शितो रूपभेदः ।
नेत्युच्यते ।
उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतो नार्थान्तरम् ।
द्वा सुपर्णा इत्यत्र तावत् अनश्नन्नन्यो अभिचाकशीति इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते ।
वाक्यशेषे ऽपि च स एव प्रतिपाद्यम्नो दृश्यते ।
ऽजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्ऽ (श्वे. 4.7) इति ।
ऋतं पिबन्तौ इत्यत्र तु जीवे पिबत्यशनायाद्यतीतः परमात्मापि साहचर्याच्छत्रिन्यायेन पिबतीत्युपचर्यते ।
परमात्मप्रकरणं ह्येतत् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. 2.14) इत्युपक्रमात् ।
तद्विषय एव चात्रापि वाक्यशेषो भवति ऽयः सेतुरीजानानामक्षरं ब्रह्म यत्परम्ऽ (क. 3.2) इति ।
ऽगुहां प्रविष्टावात्मानौ हिऽ (ब्र.सू. 1.2.11) इत्यत्र चैतत्प्रपञ्चितम् ।
तस्मान्नास्ति वेद्यभेदस्तस्माच्च विद्यैकत्वम् ।
अपिच त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यलोचने परमात्मविद्यैवावगम्यते तादात्म्यविवक्षयैव जीवोपादानं नार्थान्तरविवक्षया ।
नच परमात्मविद्यायां भेदाभेदविचारावतारो ऽस्तीत्युक्तम् ।
तस्मात्प्रपञ्चार्थ एवैष योगः ।
तस्माच्चाधिकधर्मोपसंहार इति
इयदामननात् ।
मन्त्रद्वये ऽपि प्रतिपादनप्रकारभेदात् ज्ञेयैक्यभानाच्च संशयमाह- किमत्रेति ।
ऋतपानवाक्ये ऽअक्षरं ब्रह्म यत्परम्ऽइति गुणाः श्रुताः, सुपर्णवाक्ये ऽनश्नत्वादयस्तेषां मिथो ऽनुपसंहार इति पूर्वपक्षफलं, सिद्धान्ते तूपसंहारे ब्रह्मस्वरूपवाक्यार्थैक्यादुपसंहार इति विवेकः ।
अस्तु वेद्यैक्यादक्षरधियामुपसंहारः ।
इह तु वेद्यभेदान्नोपसंहार इति प्रत्युदाहरणेन पूर्वपक्षः ।
नन्वयं गुणाधिकरणे निरस्त इति चेत्, सत्यं, किन्तु पिबत्पदस्य मुख्यार्थत्वाय स्वतः कल्पनया च पानकृत्याश्रयौ बुद्धिजीवौ पिबन्तौ ग्राह्यौ, सुपर्णौ तु जीवेश्वराविद्याधिकाशङ्कायां मन्त्रद्वये ऽपि द्विवचनशब्दसामान्यादौत्पत्तिकद्वित्वविशिष्टतया तुल्यवस्तुद्वयप्रत्यभिज्ञानस्य बाधकाभावात्प्रकरणाद्यनुग्रहाच्च जीवानुवादेनासंसारिब्रह्मणि मन्त्रद्वयतात्पर्यमिति प्रपञ्चार्थमिदं सूत्रमिति भावः
एन्द् ब्स्चोम्_3,3.21.34
स्तर्त् ब्स्चोम्_3,3.22.35
22 अनन्तराधिकरणम् । सू. 35-36
अन्तरा भूतग्रामवत्सात्मनः । ब्ब्स्_3,3.35 ।
ऽयत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरःऽ (बृ. 3.4.1 - 3.5.1)इत्येवं द्विरुष्स्तकहोलप्रश्नयोर्नैरल्तर्येण वाजसनेयिनः समामनन्ति ।
तत्र संशयः - विद्यैकत्वं वा स्याद्विद्यानानात्वं वेति ।
विद्यानानात्वमिति तावत्प्राप्तम् ।
अभ्याससामर्थ्यात् ।
अन्यथा ह्यन्यूनानातिरिक्तार्थे द्विराम्नानमर्थकमेव स्यात् ।
तस्माद्यथाभ्यासात्कर्मभेद एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते प्रत्याह - अन्तराम्नानाविशेषात्स्वात्मनो विद्यैकत्वमिति ।
सर्वान्तरो हि स्वात्मोभयत्राप्यविशिष्टः पृच्छ्यते च प्रत्युच्यते च ।
नहि द्वावात्मानावेकस्मिन्देहे सर्वान्तरौ संभवतः ।
तदा ह्येकस्याञिजसंसर्वान्तरत्वमवकल्प्येत ।
एकस्य तु भूतग्रामवन्नैव सर्वान्तरत्वं स्यात् ।
यथाच पञ्चभूतसमूहे देहे पृथिव्या आपोन्तरा अद्भ्यस्तेजो ऽन्तरमिति सत्यप्यापेक्षिके ऽन्तरत्वे नैव मुख्य सर्वान्तरत्वं भवति तथेहापीत्यर्थः ।
अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति ।
यथा ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे.
6.11) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्राम्येष्वेक एव सर्वान्तर आत्माम्नायते ।
एवमनयोरपि ब्राह्मणयोरित्यर्थः ।
तस्माद्वेद्यैक्याद्विद्यैकत्वमिति
अन्तरा भूतग्रामवत्स्वात्मनः ।
घटादिकं चिद्विषयत्वेनापरोक्षं, ब्रह्म तु साक्षादविषयत्वेनापरोक्षमिति ।
प्रथमार्थे पञ्चमि ।
अत्र श्रुतावात्मधर्मो ऽपरोक्षत्वं ब्रह्मणयुक्तं, ब्रह्मधर्मः सर्वान्तरत्वमात्मन्युक्तं, तेन तयोरैक्यं दृढीकृतं मन्तव्यं, तन्मे व्याचक्ष्वेत्युषस्तप्रश्ने याज्ञवल्क्येन प्राणादिप्रेरको दृष्ट्यादिसाक्षी प्रतिपादितः ।
तथैव ऽयदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्वऽइति कहोलप्रश्ने ऽशनायाद्यतीतः प्रतिपादितः ।
तत्र ब्राह्मणद्वये ऽपि प्रश्नादभ्यासात्सर्वान्तरत्वप्रत्यभिज्ञानाच्च संशये मन्त्रयोर्वेद्यैक्यादस्तु विद्यैक्यं, इह तु ब्राह्मण्योर्वेद्यैक्ये ऽपि अभ्यासाद्विद्याभेदः, यजत्यभ्यासात्प्रयाजभेदवदिति प्रत्युदाहरणेन पूर्वपक्षः, तत्र मिथो धर्मानुपसंहारः फलं, सिद्धान्ते तूपसंहार इति विवेकः ।
द्वयोः सर्वान्तरत्वानुपपत्त्या तावद्ब्रह्माणयोरेकवस्तुपरत्वं सिद्धम् ।
तथाच वेद्यैक्यान्निर्गुणविद्यैक्ये न विवादः
एन्द् ब्स्चोम्_3,3.22.35
स्तर्त् ब्स्चोम्_3,3.22.36
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत् । ब्ब्स्_3,3.36 ।
अथ यदुक्तमनभ्युपगम्यमाने विद्याभेद आम्नानभेदानुपपत्तिरिति तत्परिहर्तव्यम् ।
अत्रोच्यते - नायं दोषः ।
उपदेशान्तरवदुपपत्तेः ।
यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके - ऽस आत्मा तत्त्वमसि श्वेकतेतोऽ (छा. 6.8.7) इति नवकृत्वो ऽप्युपदेशे न विद्याभेदो भवत्येवमिहापि भविष्यति ।
कथं न नवकृत्वो ऽप्युपदेशे विद्याभेदो न भवति ।
उपक्रमोपसंहाराभ्यामेकार्थतावगमात् ।
ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. 6.5.4) इति चैकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितव्यत्वेनोपक्षेपात् ।
आशङ्कान्तरनिराकरणेन चासकृदुपदेशोपपत्तेः ।
एवमिहापि प्रश्नरूपाभेदात् अतो ऽन्यदार्तम्ऽ (बृ. 3.4.2 - 3.5.1) इति च परिसमाप्त्यविशेषादुपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्यते ।
ऽयदेव साक्षादपरोक्षाद्ब्रह्मऽ (बृ. 3.5.1) इति द्वितीये प्रश्न एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थमुत्तरत्रानुकृष्यमाणं दर्शयति ।
पूर्वस्मिन्श्च ब्राह्मणो कार्यकरणव्यतिरिक्तस्यात्मनः सद्भावः कथ्यते ।
उत्तरस्मिंस्तु तस्यैवाशनायादिसंसारधर्मातीतत्वं कथ्यते ।
इत्येकार्थतोपपत्तिः ।
तस्मादेका विद्येति
ननु अन्यथा विद्यैक्याङ्गीकारे अभ्यासानुपपत्तिरिति चेदुच्यते-स एवाभ्यासः कर्मभेदको यो निरर्थकः, इह तूषस्तब्राह्मणोक्तात्मन एवाशनायाद्यत्ययरूपविशेषकथनार्थत्वादभ्यासो ऽन्यथासिद्धो न विद्याभेदक इति समुदायार्थः
एन्द् ब्स्चोम्_3,3.22.36
स्तर्त् ब्स्चोम्_3,3.23.37
23 व्यतिहाराधिकरणम् । सू. 37
व्यतिहारो विशिंषन्ति हीतरवत् । ब्ब्स्_3,3.37 ।
तथा - ऽतद्यो ऽहं सो ऽसौ यो ऽसौ सो ऽहम्ऽ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः त्वं वा अहमस्मि भगवो देवते ऽहं वै त्वमसिऽ इति ।
तत्र संशयः - किमिह व्यतिहारेणोभयरूपा मतिः कर्तव्योतैकरूपैवेति ।
एकरूपैवेति तावदाह ।
नह्यत्रात्मन ईश्वरेणैकत्वं मुक्त्वान्यत्किञ्चिच्चिन्तयितव्यमस्ति ।
यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत संसारिणस्तावदीश्वरात्ममीश्वरस्य संसीर्यात्मत्वमिति ।
तत्र संसारिणस्तावदीश्वरात्मत्व उत्कर्षो भवेदीश्वरस्य तु संसार्यात्मत्वे निकर्षः कुतः स्यात् ।
तस्मादैकारूप्यमेव मतेः ।
व्यतिहाराम्नायस्त्वेकत्वदृढीकारार्थ इति ।
एवं प्राप्ते प्रत्याह - व्यतिहारो ऽयमाध्यानायामनायते इतरवत् ।
यथेतरं गुणाः सर्वात्मत्वप्रभृतय आध्यानायाम्नायन्ते तद्वत् ।
तथाहि विशिंषन्ति समाम्नातार उभयोच्चारणेन ऽत्वमहमस्म्यहं च तत्त्वमसिऽ इति ।
तच्चोभयरूपायां मतौ कर्तव्यायामर्थवद्भवति ।
अन्यथा हीदं विशेषेणोभयाम्नानमनर्थकं स्यात् ।
एकेनैव कृतत्वात् ।
ननूभयाम्नानस्यार्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेर्निकर्षः प्रसज्येतेत्युक्तम् ।
नैष दोषः ।
ऐकात्म्यस्यैवानेन प्रकारेणानुचिन्त्यमानत्वात् ।
नन्वेवं सति स एवैकत्वदृढीकार आपद्येत ।
न वयमेकत्वदृढीकारं वारयामः ।
किं तर्हि व्यतिहारेणेह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यान्नैकरूपेत्येतावदुपपादयामः ।
फलतस्त्वेकत्वमपि दृढीभवति ।
यथाध्यानार्थो ऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिद्ध्यति तद्वत् ।
तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषय उपसंहर्तव्यो भवतीति
fन्: जीवेशयोर्मिथो विशेषणविशेश्याभावो व्यतिहारः ।
व्यतिहारः ।
जीवेशयोर्मिथो विशेषणविशेष्यभावो व्यतिहारः, तस्य श्रुतत्वात्, उत्कृष्टदृष्टिर्निकृष्टे कृता फलवतीति न्यायाच्च संशये जीवे ईश्वरत्वमतिरेव कार्या उक्तन्यायात्, व्यतिहारश्रुतिस्तु तस्या एव दृढीकरणार्थत्वेनाभ्यासवदन्यथासिद्धेति दृष्टान्तेन पूर्वपक्षः ।
तत्र लाघवं फलं लिद्धान्ते तु श्रुत्यर्थवत्त्वमिति विवेकः ।
एकेनैव त्वमहमस्मीत्युच्चारणेनैकत्वमतेः कृतत्वादहं त्वमसि इति वृथा स्यादित्यर्थः ।
उक्तदोषं स्मारयति- नन्विति ।
संदिग्धेर्ऽथे न्यायः सावकाशः, इह तु श्रुतत्वादन्योन्यात्मत्वं, ध्येयं, ब्रह्मणि मनोमयत्वादिवज्जीवात्मत्वस्य ध्यानार्थमारोपे ऽपि निकर्षप्रसक्त्यभावादिति परिहरति- नैष दोष इति ।
ब्रह्मणि निकर्षं हित्वा जीवतादात्म्यध्याने मदुक्तमेवागतमिति शङ्कते- नन्वेवमिति ।
मतेर्द्विरूपत्वं त्वदनुक्तमस्माभिरुच्यते ध्यानपरं वाक्यमिदमेकत्वं तु मानान्तराविरोधात्सिध्यतीति समाधत्ते- न वयमिति ।
अहङ्ग्रहोपास्तिष्वयं व्यतिहार उपसंहर्तव्य इत्याह- तस्मादिति
एन्द् ब्स्चोम्_3,3.23.37
स्तर्त् ब्स्चोम्_3,3.24.38
24 सत्याद्यधिकरणम् । सू. 38
सैव हि सत्यादयः । ब्ब्स्_3,3.38 ।
ऽस यो हैतं महद्यक्षं प्रथमजं वेद ब्रह्मऽ (बृ. 5.4.1) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधायानन्तिमाम्नायते - ऽतद्यत्तत्सत्यमसो स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ. 5.5.2) इत्यादि ।
तत्र संशयः -ऽ किं द्वे एते सत्यविद्ये किंवैकैवेति ।
द्वे इति तावत्प्राप्तम् ।
भेदेन हि फलसंयोगो भवति जयतीमांल्लोकान्ऽ (बृ. 5.4.12) इति पुरस्तात् ।
हन्ति पाप्मानं जहाति च (बृ. 5.5.3,4) इत्युपरिष्चात् ।
प्रकृताकर्षणं तूपास्यैकत्वादिति ।
एवं प्राप्ते ब्रूमः - एकैवेयं सत्यविद्येति ।
कुतः - ऽतद्यत्तत्सत्यम्ऽ (बृ. 5.5.2) इति प्रकृताकर्षणात् ।
ननु विद्याभेदे ऽपि प्रकृताकर्षणमुपास्यैकत्वादुपपद्यत इत्युक्तम् ।
नैतदेवम् ।
यत्र तु विस्पष्टात्कारणान्तराद्विद्याभेदः प्रतीयते तत्रैतदेवं स्यात् ।
अत्र तूक्षया संभवे तद्यत्तत्सत्यमिति प्रकृताकर्षणात्पूर्वविद्यासंबद्दमेव सत्यमुत्तरत्राकृष्यत इत्येकविद्यात्वनिश्चयः ।
यत्पुनरुक्तं फलान्तरश्रवणाद्विद्यान्तरमिति ।
अत्रोच्यते - तस्योपनिषदहरहमिति चाङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः ।
अपिचार्थवादादेव फले कल्पयितव्ये सति विद्यैकत्वे चावयवेषु श्रूयमाणानि बहून्यपि फलान्यवयविन्यामेव विद्यायामुपसंहर्तव्यानि भवन्ति ।
तस्मात्सैवेयमेका सत्यविद्या तेन तेन विशेषणोपेताम्नातेत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेव प्रयोग उपसंहर्तव्याः ।
केचित्पुनरस्मिन्सूत्र इदं च वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यं, छान्दोग्ये च - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा. 1.6.6) ऽअथ य एषो ऽक्षिणि पुरुषो दृश्यतेऽ (छा. 4.15.1) इत्युदाह-त्य सैवेयमक्ष्यादित्यपुरुषविषया विद्योभयत्रैकैवेति कृत्वा सत्यादीन्गुणान्वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान्मन्यन्ते ।
तन्न साधु लक्ष्यते ।
छान्दोग्ये हि ज्योतिष्टोमकर्मसमबन्धिनीयमुद्गीथव्यपाश्रया विद्या विज्ञायते तत्र ह्यदिमध्यावसानेषु हि कर्मसंबन्धचिह्नानि भवन्ति ऽइयमेवर्गग्निः सामऽ (छा. 1.6.1) इत्युपक्रमे, ऽतस्यर्क्क साम च गेष्णौ तस्मादुद्गीथःऽ (छा. 1.6.8) इति मध्ये, ऽय एवं विद्वान्साम गायतिऽ (छा. 1.7.9) इत्युपसंहारे ।
नैवं वाजसनेयके किञ्चित्कर्मसंबन्धि चिह्नमस्ति ।
तत्र प्रक्रमभेदाद्विद्याभेदे सति गुण्यवस्थैव युक्तेति
fन्: गेष्णौ गायकौ ।
तस्मादृक्सामगेष्णत्वात् ।
सैव हि सत्यादयः ।
स यः कश्चिदधिकारी महद्व्यापकं यक्षं पूज्यं भौतिकेषु प्रथमजमेतत्सच्च त्यच्चेति सत्त्यं ब्रह्म हिरण्यगर्भाख्यं वेदोपास्ते तस्य लोकजयः फलमित्यर्थः ।
सत्यमिति नाम त्र्यक्षरं सतियमिति, तत्र प्रथमोत्तमे अक्षरे सत्यं, मध्यस्थमक्षरमनृतमुभयतः सत्येन संपुटितत्वात्सत्त्यप्रायमेव भवतीति नामाक्षरोपासना सत्यविद्याङ्गत्वेनोक्ता ।
यत्तत्पूर्वप्रकृतं हृदयाख्यं तत्संप्रत्युक्तयक्षत्वादिगुणकं, सो ऽसावादित्यमण्डले ऽक्षिणि च पुरुषस्तस्याहरित्यहमिति च नामद्वयज्ञानात्पापक्षयः फलमित्यर्थः ।
अत्र पूर्वोत्तरवाक्ययोः फलभेदश्रुतेः प्रकृताकर्षणाच्च संशयमाह- तत्रेति ।
पूर्वपक्षे गुणानां व्यवस्थयानुष्ठानं, सिद्धान्ते त्वनुष्ठानैक्यमिति फलम् ।
यथा जीवेशयोरन्येन्यात्मत्वश्रुतिभेदान्मतिद्वैरूप्यमुक्तं, तथात्र फलश्रुतिभेदाद्विद्याभेद इति दृष्टान्तेन पूर्वपक्षयति- द्वे इति ।
विशेष्यब्रह्ममात्राकर्षणमयुक्तं, तद्यत्तदिति सर्वनामभिः पूर्वोक्तगुणविशिष्टं ब्रह्म आकृष्यादित्याक्षिस्थानादिगुणविधानात्, तथाच वाक्यादेव विद्यैक्यसिद्धिरिति सिद्धान्तयति- एकैवेति ।
यथा दहरशाण्डिल्यविद्ययोर्ब्रह्मैक्यप्रत्यभिज्ञानमात्रं तथात्र नेत्याह- नैतदिति ।
कारणान्तरं प्रकरणभेदादिकम् ।
एवं विद्याभेदे ऽप्येतदुपास्यैक्यज्ञानं स्यादत्र तूभयथासंभवे विद्यैक्यनानात्वसंशये सत्यमित्युपास्यरूपैक्यज्ञानाद्विद्यैक्यनिश्चय इत्यक्षरार्थः ।
असत्यपवादकारणे रूपैक्याद्विद्यैक्योत्सर्गसिद्धिर्न च फलभेदादपवादः ।
अङ्गे फलश्रुतेः श्रुतिमात्रतया फलभेदासिद्धिरित्याह- यत्पुनरित्यादिना ।
किञ्च यत्र प्रधानविधावेवङ्काम इति फलं श्रुतं, तत्र प्रधानफलेनैवाङ्गानां फलाकाङ्क्षानिवृत्तेरङ्गे फलश्रुतेः स्तुतिमात्रत्वं, इह तु प्रथमज सत्यं ब्रह्मेति वेदेति प्रधानविद्याविधिस्थत्वं लोकजयफलस्याभ्युपेत्यास्माभिर्नामरूपाङ्गस्य फलश्रुतेः स्तुतित्वमुक्तम् ।
वस्तुतस्तु प्रधानविधावप्येवङ्कामपदाभावाद्रात्रिसत्रन्यायेन फले कल्पनीये सति प्रधाने तदङ्गे वा यत्किञ्चित्फलं श्रुतं तस्य सर्वस्यापि श्रुतत्वाविशेषाज्जातेष्टिफलन्यायेन समुच्चित्यैकप्रधानफलत्वभेदो ऽसिद्ध इत्याह- अपिचेति ।
सूत्रं योजयति- तस्मादिति ।
एकदेशिव्याख्यामुद्भाव्य दूषयति- केचिदित्यादिना ।
छान्दोग्ये कर्माङ्गोद्गीथे हिरण्यमयपुरुषदृष्टिरित्यत्र लिङ्गमाह- तत्रेति ।
पृथिव्यग्न्यात्मना दृष्टे ऋक्सामे गेष्णौ, तस्मादृक्सामगेष्णत्वात्, पुरुष उद्गीथ इत्येवं विद्वानुद्गाता कर्मफलसमृद्धिसमर्थ इति श्रुत्यर्थः ।
सत्यविद्या तु न कर्माङ्गश्रितेत्याह- नैवमिति ।
अङ्गविद्यातः स्वतन्त्रहिरण्यगर्भविद्याया भेदान्न गुणोपसंहार इत्यर्थः
एन्द् ब्स्चोम्_3,3.24.38
स्तर्त् ब्स्चोम्_3,3.25.39
25 कामाद्यधिकाराधिकरमम् । सू. 39
कामादीतरत्र तत्र चायतनादिभ्यः । ब्ब्स्_3,3.39 ।
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः (छा. 8.1.1) इति प्रस्तुत्य छन्दोगा अधीयते ऽएष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पःऽ (छा. 8.1.5) इत्यादि ।
तथा वाजसनेयिनः - स वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु य एषो ऽन्तर्हदय आकाशस्तस्मिञ्छेते सर्वस्य वशी (बृ. 4.4.22) इत्यादि ।
तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये विद्यैकत्वमिति ।
तत्रेदमुच्यते - कामादीति ।
सत्यकामादित्यर्थः ।
यथा देवदत्तो दत्तः सत्यभामा भामेति ।
यदेतच्चान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुलभ्यते तदितरत्र वाजसनेयके वशित्वाद्युपलभ्यते तदपीतरत्र छान्दोग्ये एष आत्मापहतपाप्मा (छा. 8.1.5) इत्यत्र संबध्यते ।
कुतः - आयतनादिसामान्यात् ।
समानं ह्युभयमत्रापि हृदयमातनं समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनमित्येवमादि बहु सामान्यं दृश्यते ।
ननु विशेषो ।
ञपि दृश्यते छान्दोग्ये हृदयाकाशस्य गुणयोगो वाजसनेयके त्वाकाशाश्रयस्य ब्रह्मण इति ।
न ।
ऽदहर उत्तरेभ्यःऽ (ब्र.सू. 1.3.14) इत्यत्र छान्दोग्ये ऽप्याकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् ।
अयं त्वत्र विद्यते विशेषः ।
सगुणा हि ब्रह्मविद्या छान्दोग्य उपदिश्यते ऽअथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्ऽ (छा. 8.1.6) इत्यात्मवत्कामानमपि वेद्यत्वश्रवणात् ।
वाजसनेयके तु निर्गुणमेव परं ब्रह्मोपदिश्यमानं दृश्यते ऽअत ऊर्ध्वं विमोक्षाय ब्रूहिऽ (बृ. 4.3.14) असङ्गो ह्ययं पुरुषः (बृ. 4.3.15) इत्यादिप्रश्नप्रतिवचनसमन्वयात् ।
वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीर्त्यते ।
तथाचोपरिष्टात् ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.26) इत्यादिना निर्गुणमेव ब्रह्मोपसंहरति ।
गुणवतस्तु ब्रह्मण एकत्वाद्विभूतिप्रदर्शनायायं गुणोपसंहारः सूत्रितो नोपासनायेति द्रष्टव्यम्
कामादीतरत्र ।
सगुणनिर्गुणविद्ययोः श्रुताः सत्यकामादयो वशित्वादयश्च गुणा मिथ उपसंहर्तव्या न वेत्युपसंहारस्य फलभावाभावाभ्यां संदेहे सत्यविद्याया एकत्वाद्गुणसांकर्ये ऽप्यत्र विद्ययोः सगुणनिर्गुणरूपभेदेन भेदान्निर्गुणविद्यायां गुणोपसंहारस्य फलाभावाच्चानुपसंहार इति बहिरेव प्राप्ते सिद्धान्तयति- तत्रेदमित्यादिना ।
एवं विद्याभेदे स्फुटे कथं गुणोपसंहारः, तत्राह- गुणवतस्त्विति ।
भिन्नाविद्यास्थानामपि गुणानामायतनादिसाम्येन निर्गुणस्थले बुद्धिस्थानां स्तुत्यर्थमुपसंहारो युक्तः, ज्ञानस्तुतिप्रकर्षस्याकाङ्क्षितत्वात्, यत्र क्वचिद्दृष्टगुणैः स्तुतेः कर्तुं योग्यत्वात् ।
यद्यपि सगुणस्थसत्यकामादिषु निर्गुणस्थगुणा अन्तर्भूता एव तथापि नोपसंहारोक्तेर्वैयर्थ्यं निर्गुणस्तावकत्वेन श्रुतगुणानामन्यत्राप्यध्येयत्वमिति शङ्कनिरासेनान्तर्भावदार्ढ्यात्वादित्यनवद्यम्
एन्द् ब्स्चोम्_3,3.25.39
स्तर्त् ब्स्चोम्_3,3.26.40
26 आदराधिकरणम् । सू. 40-41
आदरादलोपः । ब्ब्स्_3,3.40 ।
छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणस्य स्वाहाऽ (छा. 5.19.1) इत्यादि ।
तत्र पञ्च प्राणाहुतयो विहिताः ।
तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ऽय एतदेवं विद्वानग्निहोत्रं जुहोतिऽ (छा. 5.24.2) इति ऽयथेह क्षुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽ (छा. 5.24.5) इति च ।
तत्रेदं विचार्यते - किं भोजनलोपे लोपः प्राणाग्निहोत्रस्योतालोप इतै ।
तद्यद्भवति भक्तागमनसंयोगश्रवणाद्भक्तागमनस्य च बोजनार्थत्वाद्भोजनलोपे लोपः प्राणाग्निहोत्रस्येति ।
एवं प्राप्ते न लुप्येतेति तावदाह ।
कस्मात् ।
आदरात् ।
तथाहि वैश्वारविद्यायामेव जाबालानां श्रुतिः - ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात् ।
यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्ऽ इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्र आदरं करोति ।
या हि न प्राथम्यलोपं सहते नेतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहतेति मन्यते ।
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रथितः ।
न ।
तस्य द्रव्यविशेषविधानार्थत्वात् ।
प्राकृते ह्यग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वादिहाप्यग्निहोत्रशब्दात्कौण्डपायिनामयनवत्तद्धर्मप्राप्तौ सत्यां भक्तद्रव्यैकतागुणविशेषविधानार्थमिदं वाक्यं तद्यद्भक्तमिति ।
अतो गुणलोपे न मुख्यस्येत्यें प्राप्तम् ।
भोजनलोपे ऽप्यद्भिर्वान्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति
आदरादलोपः ।
अत्र यच्छब्दाग्निहोत्रशब्दाभ्यां संशयमाह- तत्रेदं विचार्यत इति ।
वैश्वानरोपासकेनातिथिभोजनात्प्राक्कार्यात्वेन विद्याङ्गप्राणाग्निहोत्रविचारात्पादसंगतिः ।
पूर्वपक्षे भोजनलोपे ऽपि द्रव्यान्तरेण प्राणाग्निहोत्रानुष्ठानं, सिद्धान्ते तल्लेप इति भेदः ।
ननु यद्भक्तमिति यच्छब्देन भोजनाक्षिप्तं भक्तमनूद्य यद्धोमीयमिति होमसंयोगविधिनादाक्षेपकभोजनलोपे तदाक्षिप्तभक्ताश्रितहोमलोप इति सिद्धान्ती शङ्कते- तद्यदिति ।
निर्गुणस्योपास्तिलोपे ऽपि स्तुत्यर्थगुणस्थैर्यवद्भोजनलोपे ऽपि प्राणाग्निहोत्रस्यादरेण स्तुतिनिर्वाहार्थमलोप इति दृष्टान्तेन पूर्वपक्षसूत्रेण परिहरति- एवं प्राप्त इति ।
एवं तदिति स्वयं प्राणाग्निहोत्रमकृत्वातिथीनां तत्करणमित्यर्थः ।
उक्तं स्मारयित्वा परिहरति- नन्वित्यादिना ।
यथा कुण्डपायिसत्रगते मासाग्निहोत्रे ऽग्निहोत्रशब्दाद्गौणान्नित्याग्निहोत्रवाचकान्नित्याग्निहोत्रधर्माणां पयोद्रव्यादीनां प्राप्तिस्तथेहापि प्राणाहुतिष्वग्निहोत्रशब्दवशात्पयोद्रव्यादीनामुत्सर्गतः प्राप्तौ सत्यां भोजनार्थभक्तद्रव्यविधिनापवादः कृतः, अतो भक्तविधेरपवादार्थत्वाद्भोजनलोपे भक्ताख्यगुणस्याङ्गस्य लोपे ऽपि न मुख्यस्याग्निहोत्रस्य लोपः, अपवादाभावे उत्सर्गप्राप्तपयादिना तस्य निष्पत्तिसंभवादिति प्राप्तमित्यर्थः ।
ऽगुणलोपे न मुख्यस्यऽइति जैमिनिसूत्रम् ।
आधाने सन्ति पवमानेष्ट्यस्तत्राग्नये पवमानाय पुरोडाशमष्टाकपालं निर्वपेदिति निर्वापः श्रुतस्तदङ्गत्वेनाग्निहोत्रहवण्यां हवींषि निर्वपेदिति दर्शपूर्णामासाख्यप्रकृतौ विहिताग्निहोत्र हवण्यतिदेशेन प्राप्त आधानकाले चाग्निहोत्राभावात्तस्या गुणभूताया लोपे ऽपि मुख्यस्य निर्वापस्य न लोप इत्यर्थः ।
आरब्धनित्यादिकर्मणो ऽवश्यानुष्ठेयत्वाच्छ्रुतद्रव्यालाभे प्रतिनिहितद्रव्येणापि कर्म कर्तव्यमिति प्रतिनिधिन्यायः
एन्द् ब्स्चोम्_3,3.26.40
स्तर्त् ब्स्चोम्_3,3.26.41
अत उत्तरं पठति -
उपस्थिते ऽतस्तद्वचनात् । ब्ब्स्_3,3.41 ।
उपस्थिते भोजने ऽतस्तस्मादेव भोजनद्रव्यात्प्रथमोपनिपतितात्प्राणाग्निहोत्रं निर्वर्तयितव्यम् ।
कस्मात् ।
तद्वचनात् ।
तथाहि - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्ऽ (छा. 5.19.1) इति ।
सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति ।
ता अप्रयोजकलक्षणापन्नाः सत्यः कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः ।
नचात्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति ।
कुण्डपायिनामयने हि मासाग्निहोत्रं जुहोतीति विध्युद्देशगतो ऽग्निहोत्रशब्दस्तद्वद्भावं विदापयेदिति युक्ता तद्धर्मप्राप्तिः ।
इह पुनरर्तवादगतो ऽग्निहोत्रशब्दो न तद्वद्भावं विधापयितुमर्हति ।
तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामग्न्युद्धरणादयोष-पि प्राप्येरन् ।
नचास्ति संभवः ।
अग्न्युद्धरणं तावद्धोमाधिकरमभावाय ।
नचायमग्नौ होमो भोजनार्थताव्याघातप्रसङ्गात् ।
भोजनोपनीतद्रव्यसंबन्धाच्चास्य एवैष होमः ।
तथाच जाबालश्रुतिः पूर्वो ऽतिथिभ्यो ऽश्नीयादित्यास्याधारामेवेमां होमनिर्वत्तिं दर्शयति ।
अत एव चेहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति - ऽउर एव वेदिर्लोमानि बहुर्हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यमाहवनीयःऽ (छा. 5.18.2) इति ।
वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या ।
मुख्याग्निहोत्रे वेद्याभावात् ।
तदङ्गानां चेह संपिपादयिषितत्वात् ।
भोजनेनैव च कृतकालेन संयोगान्नाग्निहोत्रकालावरोधसंभवः ।
एवमन्ये ऽप्युपस्थानादयो धर्माः केचित्कथञ्चिद्विरुध्यन्ते ।
तस्माद्भोजनपक्ष एवैते मन्त्रद्रव्यदेवतासंयोगात्पञ्च होमा निर्वर्तयितव्याः ।
यत्त्वादरदर्शनवचनं तद्भोजनपक्षे प्राथम्यविधानार्थम् ।
नह्यस्ति वचनस्यातिभारः ।
न त्वनेनास्य नित्यता शक्यते दर्शयितुम् ।
तस्माद्भोजनलोप एव प्राणाग्निहोत्रस्येति
सिद्धान्तयति- उपस्थिते ऽतस्तद्वचनादिति ।
तद्धोमीयमिति तच्छब्देन भोजनार्थसिद्धभक्तमाश्रित्य होमविधानादित्यर्थः ।
सिद्धवद्भक्तोपनिपातः प्रकृतभक्तागमनं, तस्य तच्छब्देन परामर्शेनेत्यर्थः ।
आश्रित्य विहिताहुतीनामाश्रयलोपे लोप एव न द्रव्यान्तराक्षेपकत्वं, यथा क्रतुप्रयुक्तात्प्रणयनाश्रितस्य गोदोहनस्य क्रतुलोपे लोपे न त्वाश्रयान्तरप्रयोजकत्वं तथेति फलितमाह- ता इति यदुक्तमग्निहोत्रशब्दाद्द्रव्यान्तरप्राप्तिरिति, तत्राह- न चात्रेति ।
तद्वद्भावो नित्याग्निहोत्रसादृश्यमर्थवादस्थशब्दस्य स्तुतित्वेनोपपत्तेरित्यर्थः ।
धर्मप्रापकत्वे दोषमाह- तद्धर्मप्राप्तौ चेति ।
अव एवेति तद्धर्मप्राप्त्यभावादेवेत्यर्थः ।
प्राप्तौ संपादनं वृथा स्यादिति भावः ।
मुख्याग्निहोत्राङ्गानि संपाद्यन्ते चेत्कथं तदनङ्गं वेदिरत्र संपाद्यते तत्राह- वेदिश्रुतिश्चेति ।
मुख्याग्निहोत्रस्याग्न्युद्धरणवत्सायंप्रातःकालद्वयस्यापि न प्राप्तिरिति- भोजनेनेति ।
उपस्थानपरिस्तरणादयो ऽप्यग्न्यभावान्न प्राप्नुवन्तीत्याह- एवमिति ।
यस्मात्तद्धर्मप्राप्त्यभावस्तस्माद्भोजनद्रव्येणैव होम इत्युसंहारः ।
प्राणाय स्वाहा इत्यादयो मन्त्राः ।
ननु स्वामिभोजनस्योत्तरकालत्वं श्रुत्यादिविहितं कथं पूर्वो ऽतिधिभ्यो ऽश्नीयादितिवचने बाध्यते तत्राह- न ह्यस्तीति ।
उपासकान्यस्वामिविषयमुत्तरकालत्वविधानमित्यर्थः ।
न त्विति प्राथम्यमात्रेणेत्यर्थः ।
प्राणोपासकस्य प्राप्ते भोजने प्राथम्यार्थतयादरस्यान्यथासिद्धौ फलितमाह- तस्मादिति
एन्द् ब्स्चोम्_3,3.26.41
स्तर्त् ब्स्चोम्_3,3.27.42
27 तन्निर्धारणाधिकरणम् । सू. 42
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् । ब्ब्स्_3,3.42 ।
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि - ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) इत्येवमादीनि ।
किं तानि नित्यान्येव स्युः कर्मसु पर्णमयीत्वादिवदुतानित्यानि गोदोहनादिवदिति विचारयामः ।
किं तावत्प्राप्तं - नित्यानीति ।
कुतः - प्रयोगवचनपरिग्रहात् ।
अनारभ्याधीतान्यपि ह्येतान्युद्गीथादिद्वारेण क्रतुसंबन्धात्क्रतुप्रयोगवचनेनैवाङ्गान्तरवत्संस्पृश्यन्ते ।
यत्त्वेषां स्ववाक्येषु फलश्रवणम् ऽआपयिता ह वैकामानां भवतिऽ (छा. 1.1.7) इत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेवापापश्लोकश्रवणादिवन्न फलप्रदानम् ।
तस्माद्यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति इत्येवमादीनामप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात्प्रकरणपठितवन्नित्यतैवमुद्गीथाद्युपासनानामपीति ।
एवं प्राप्ते ब्रूमः - तन्निर्धारणनियम इति ।
यान्येतान्युद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतम आप्तिः समृद्धिर्मुख्यप्राण आदित्य इत्येवमादीनि नैतानि नित्यवत्कर्मसु नियम्येरन् ।
कुतः - तद्दृष्टेः ।
तथाह्यनियतत्वमेवञ्जातीयकानां दर्शयति श्रुतिः - ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा. 1.110) इत्यविदुषो ऽपि क्रियाभ्यनुज्ञानात् ।
प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्सनात् ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसिऽ (छा. 1.10.9) ऽतां चेदविद्वानुद्गास्यसिऽ (छा. 1.10.10) ऽतां चेदविद्वान्प्रतिहरिष्यसिऽ (छा. 1.10.11) इति च ।
अपि चैवञ्जातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलमुपलभ्यते कर्मफलसिद्धिद्द्यप्रतिबन्धस्तत्समृद्धिरतिशयविशेषः कश्चित् ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. 1.1.10) इति ।
तत्र नाना त्विति विद्वदविद्वत्प्रयोगयोः पृथक्करणाद्वीयर्वत्तरमिति च तरप्प्रत्ययप्रयोगाद्विद्याविहीनमपि कर्मविर्यवदिति गम्यते ।
तच्चानित्यत्वे विद्याया उपपद्यते ।
नित्यत्वे तु कथं तद्विहीनं कर्मविर्यवदित्यनुज्ञायेत ।
सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः ।
तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते ऽकल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चऽ (छा. 2.2.3) इत्येवमादीनि, नचेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ।
तथाहि गुणवाद आपद्येत ।
फलोपदेशे तु मुख्यवादोपपत्तिः ।
प्रयाजादिषु त्वितिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात्तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् ।
तथानारभ्याधीतेष्वपि पर्णमयीत्वादिषु ।
नहि पर्णमयीत्वादीनामक्रियात्मकानामाश्रयमन्तरेण फलसंबन्धो ऽवकल्पते ।
गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः ।
तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः ।
नतु पर्णमयीत्वादिष्वेवंविधः कश्चिदाश्रयः प्रकृतो ऽस्ति ।
वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फले ऽपि विधिं विवक्षतो वाक्यभेदः स्यात् ।
उपासनानां तु क्रियात्मत्वाद्विशिष्टविधानोपपत्तेरुद्गीथाद्याश्रयाणां फले विदानं न विरुध्यते ।
तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यान्येवमुद्गीथाद्युपासनान्यपीति द्रष्टव्यम् ।
अत एव च कल्पसूत्रकारा नैवञ्जातीयकान्युपासनानि क्रतुषु कल्पयाञ्चक्रुः
तन्निर्धारणा ।
उभयथा दृष्टान्तदर्शनात्संशयमाह- किं तानीति ।
यथानाराभ्याधीतपर्णमयीत्वं जुहूद्वारा क्रत्वङ्गतया कर्मसु नित्यं प्रयुज्यते, तथाङ्गाश्रितोपासनान्युद्रीथादिद्वाराङ्गतया नित्यानि, उत क्रत्वङ्गाप्प्रणयनश्रयो गोदोहनसंयोगः पशुफलार्थत्वादनित्यत्वेन यथा प्रयुज्यते यथा वा पश्वङ्गयूपाश्रयं बैल्वत्वमन्नाद्यफलत्वादनित्यं तथा कर्मसमृद्यादिफलकत्वादुपासनान्यनङ्गत्वेनानित्यानीति संशयार्थः ।
पूर्वपक्षे उपासनानां प्रयोगनित्यत्वं, सिद्धान्ते त्वनित्यत्वमिति फलभेदः ।
अनित्यभोजनाश्रयप्राणाग्निहोत्रस्यानित्यत्ववन्नित्यकर्माङ्गोपास्तीनां नित्यत्वमिति प्रत्युदाहरणदृष्टान्तेन पूर्वपक्षमाह- किं तावदिति ।
उपासनानि कर्माङ्गानि, अफलत्वे सति कर्माङ्गाश्रितत्वात्पर्णमयीत्वादिवत् ।
तथा चाङ्गतया प्रयोगविधिना नित्येन प्रयुज्यन्त इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे- यानीत्यादिना ।
उद्गीथादयः कर्मणां गुणाः अङ्गानि तेषां याथात्मयं रसतमत्वादिकं तन्निर्धारणान्युपासनानि यानि तानि कर्मसु नित्यपर्णमयीत्वादिवन्न नियम्येरन्नित्यर्थः ।
एषां कर्माङ्गत्वे तद्धीनस्याविदुषः कर्म न स्यादङ्गलोपात्, तस्मादविदुषो ऽपि कर्मकर्तृत्वश्रुतिलिङ्गैरङ्गत्वानुमानबाध इत्याह- तद्दृष्टेरिति ।
तस्यानियमस्य दर्शनादित्यर्थः ।
तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते व्यपतिष्यतीति चाक्रायणेनर्त्विजामाक्षिप्तत्वादनुपासकानामपि कर्मप्रयोगो ऽस्तीत्याह- प्रस्तावादीति ।
उपास्तीनां कर्मफलात् पृथक्फलश्रुतेर्न कर्माङ्गत्वमित्याह- अपिचेति ।
तेनोमित्यक्षरेण यश्चैतदक्षरमेवं रसतमत्वादिरूपेण वेदोपास्ते यश्च न वेद तावुभौ कर्म कुरुत एव यद्यपि तु विद्याविद्ययोर्नानात्वं भिन्नफलत्वम् ।
दृष्टं हि मणिविक्रये ज्ञानाज्ञानाभ्यां वणिक्शबरयोः फलवैषम्यं, तस्माद्यदेव कर्म विद्ययोद्गीथाद्युपास्त्या श्रद्धयास्तिक्यबुद्ध्योपनिषदा रहस्यदेवताध्यानेन करोति तदेव कर्म फलातिशयवदित्यर्थः ।
कर्मणो वीर्यवत्त्वं नाम फलवत्त्वं विद्याहीनस्यापि गम्यमानं विद्याया अनङ्गत्वे लिङ्गमिति भावः ।
साम्नि लोकादिदृष्ट्युपासनेषु कर्मसमृद्यतिरिक्तलोकादिफलश्रुतेश्च नाङ्गत्वमित्याह- तथेति ।
अस्मै विदुषे कल्पन्ते भोगाय समर्था भवन्ति भूमेरूर्ध्वा लोका आवृत्ता अधस्तनाश्चेत्यर्थः ।
तथाहि गुणवाद इति ।
फलश्रुतेरर्थवादमात्रत्वे स्तुतिलक्षणा स्यात्, सा न युक्ता, मुख्यवृत्त्या फलपरत्वसंभवात् ।
प्रयाजानुयाजकर्मणां तु प्रकरणाद्दर्शाद्यङ्गत्वलाभाद्भातृव्याभिभूतिफलश्रुतेरगत्या स्तुतिलक्षकत्वं, यद्यपि पर्णमयीत्वादीनामङ्गत्वबोधकं प्रकरणं नास्ति तथापि तेषु फलश्रुतेः स्तुतित्वं, तेषामक्रियात्वेन क्रियासंबन्धं विना फलहेतुत्वानुपपत्तेरतस्तेषां फलार्थं क्रियापेक्षित्वात्क्रतोश्च जुहूप्रकृतिद्रव्याकाङ्क्षित्वात् पर्णमयी जुहूरित्यादिवाक्येनैव प्रकृतिद्रव्यार्पकेण जुहूद्वारा संनिहितक्रत्वङ्गत्वसिद्धेर्युक्तं फलश्रुतेरर्थवादत्वमिति भावः ।
अक्रियात्मकगोदोहनादेरपि फलश्रुतिरर्थवादः स्यादत आह- गोदोहनादीनां हीति ।
यदपः प्रणयेत्तत् पशुकामस्य सतो गोदोहनेन ब्रह्मवर्चसकामस्य कंस्न्येति फलार्थविधिरेव नार्थवादः गोदोहनादेः क्रत्वनाकाङ्क्षितत्वेनाङ्गत्वाभावात्, चमसेन निराकाङ्क्षक्रियासंबन्धितया स्वफलसाधकत्वसंभवात् ।
तथा खादिरत्वेन निराकाङ्क्षक्रत्वङ्गयूपमाश्रित्य बैल्वमन्नाद्यकामस्य खादिरं वीर्यकामस्येति फलार्थविधिरेवार्थः ।
पर्णमयीत्वादिषु फलविधिः किं न स्यादत आह- न त्विति ।
एवंविधो यूपादिवन्निराकाङ्क्ष इत्यर्थः ।
जुहुरेवाश्रय इत्यत आह- वाक्येनेति ।
जुह्वाः प्रकृतिद्रव्यापेक्षित्वादनेनैव वाक्येन क्रत्वङ्गतया जुहूप्रकृतिद्रव्यसंबन्धो विधेयः पश्चान्निराकाङ्क्षजुहूमाश्रित्य तस्यैव प्रकृतिद्रव्यस्य फलसंयोगो विधेय इति वाक्यभेद इत्यर्थः ।
पर्णतादिवैलक्षण्यमुपासनानामाह- उपासनानां त्विति ।
स्वयं क्रियात्वाद्यागादिवत्फलविशिष्टत्वेन विधानोपपत्तिरित्यर्थः ।
तस्मादिति अङ्गत्वावेदकमानाभावादित्यर्थः ।
अत एवेति अनङ्गत्वादेवेत्यर्थः ।
तस्मादङ्गोपास्त्यभावे ऽपि कर्माधिकार इति सिद्धम्
एन्द् ब्स्चोम्_3,3.27.42
स्तर्त् ब्स्चोम्_3,3.28.43
28 प्रदानाधिकरणम् । सू. 43
प्रदानवदेव तदुक्तम् । ब्ब्स्_3,3.43 ।
वाजसनेयके - ऽवदिष्याम्येवाहमीति वाग्दध्रेऽ (बृ. 1.5.21) इत्यत्राध्यात्मं वागादीनां श्रेष्ठो ऽवधारितो ऽधिदैवतमग्न्यादीनां वायुः तथा छान्दोग्ये - ऽवायुर्वाव संवर्गःऽ (छा. 4.3.1) इत्यत्राधिदैवतमग्न्यादीनां वायुः सर्ङ्गो ऽवधारितः ऽप्राणो वाव संवर्गःऽ (छा. 4.3.2) इत्यत्राध्यात्मं वागादीनां प्राणः ।
तत्र संशयः - किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्यातामपृथग्वेति ।
अपृथगेवेति तावत्प्राप्तं तत्त्वभेदात् ।
नह्यभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् ।
दर्शयति च श्रुतिरध्यात्ममधिदैवतं च तत्त्वाभेदम् - ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ. 2.4) इत्यारभ्य ।
तथा ऽत एते सर्व एव समाः सर्वो ऽनन्ताःऽ (बृ. 1.5.13) इत्याध्यात्मिकानां प्रामानामाधिदैविकीं विबूतिमात्मभूतां दर्शयति ।
तथान्यत्रापि तत्र तत्राध्यात्ममधिदैवतं च बहुधा तत्त्वभेददर्शनं भवति ।
क्वचिच्च ऽयः प्राणः स वायुः इति स्पष्टमेव वायुं प्राणं चैकं करोति ।
तथोदाहृते ऽपि वाजसनेयिब्राह्मणे यतश्चेदेति सूर्यः (बृ. 1.5.23) इत्यस्मिन्नुपसंहारश्लोके ऽप्राणाद्वा एष उदेति प्राणे ऽस्तमेतिऽ (बृ. 1.5.23) इति प्राणेनैवोपसंहरन्नेत्वं दर्शयति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापायान्याच्चऽ (बृ. 1.5.23) इति च प्राणव्रतेनैकेनोपसंहरेन्नेतदेव द्रढयति ।
तथा छान्दोग्ये ऽपि परस्तात् ऽमहात्मनश्चतुरो देव एकः कः स जागर भुवनस्य गोपाःऽ (छा. 4.3.6) इत्येकमेव संवर्गं गमयति न ब्रवीत्येक एकेषां चतुर्णां संवर्गो ऽपरो ऽपरेषामिति ।
तस्मादपृथक्त्वमुपगमनस्येति ।
एवं प्राप्ते ब्रूमः - पृथगेव वायुप्राणावुपगन्तव्याविति ।
कस्मात् ।
पृथगुपदेशात् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेशः सो ऽसत्याध्यानपृथक्त्वे ऽनर्थक एव स्यात् ।
ननूक्तं न पृथगनुचिन्तनं तत्त्वाभेदादिति ।
नैष दोषः ।
तत्त्वाभेदे ऽप्यवस्थाभेदादुपदेशभेदवशेनानुचिन्तनभेदोपपत्तेः ।
श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणाप्युपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् ।
ऽस यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुःऽ (बृ. 1.5.22) इति चोपमानोपमेयकरणात् ।
एतेन व्रतोपदेशो व्याख्यातः ।
ऽएकमेव व्रतम्ऽ (बृ. 1.5.23) इति चैवकारो वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः ।
भग्नव्रतानि हि वागादीन्युक्तानि ऽतानि मृत्युः श्रमो भूत्वोपयेमेऽ (बृ. 1.5.21) इति श्रुतेः ।
ऽन वायुव्रतनिवृत्त्यर्थः अथातो व्रतमीमांसाऽ (बृ. 1.5.21) इति प्रस्तुत्य तुल्यवद्वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् ।
ऽएकमेव व्रतं चरेत्ऽ (बृ. 1.5.23) इति चेक्त्वा ऽतेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति (बृ. 1.5.23) इति वायुप्राप्तिं फलं ब्रुवन्वायुव्रतमनिवर्तितं दर्शयति ।
द्वतेत्यत्र वायुः स्यादपरिच्चिन्नात्मकत्वस्य प्रेप्सितत्वात् ।
पुरस्तात्प्रयोगाच्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ. 1.5.22) इति ।
तथा ऽतौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषुऽ (छा. 4.3.4) इति भेदेन व्यपदिशति ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ (छा. 4.3.8) इति च भेदेनैवोपसंहरति ।
तस्मात्पृथगेवोपगमनम् ।
प्रदानवत् ।
यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ सर्वेषामभिगमयन्नवद्यत्यछंबट्कारमिति ।
अतो वचनादिन्द्राभेदाच्च सहप्रदानाशङ्कायां राजादिगुणभेदाद्याज्यानुवाक्यव्यत्यासविधानाच्च यथान्यसमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति ।
एवं तत्त्वाभेदे ऽप्याध्येयांशपृथक्त्वादाध्यानपृथक्त्वमित्यर्थः ।
तदुक्तं संकर्षे ऽनाना वा देवता पृथग्ज्ञानात्ऽ इति ।
तत्र तु द्रव्यदेवताभेदाद्यागभेदो विद्यते नैवमिह विद्याभेदो ऽस्ति ।
उपक्रमोपसंहाराभ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीतेः ।
विद्यैकस्थे ऽपि त्वध्यात्माधिदैवभेदात्प्रवृत्तिभेदो भवति अग्निहोत्र इव सायंप्रातःकालभेदात् ।
इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम्
प्रदानवदेव तदुक्तम् ।
वायुप्राणयोर्भेदाभेदवाक्याभ्यां संशयमाह- तत्रेति ।
अस्तु कर्माङ्गानां तत्संबद्धोपास्तीनां च फलभेदान्नित्यत्वानित्यत्वरूपः प्रयोगभेदः, इह तु वायुप्राणयोः स्वरूपाभेदात्तत्स्वरूपप्राप्तिलक्षणफलैक्याच्च ध्यानप्रयोगैक्यमिति पूर्वपक्षयति- अपृथगिति ।
ऽअग्निर्वाग्भूत्वाऽइत्यारभ्यः ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽइत्यभेदं दर्शयतीत्यर्थः ।
ऽयतश्चोदेति सूर्यस्तं वदऽइति प्रश्ने सूत्रात्मकवायुर्वाच्यो वायुस्थाने प्राणं वदन्नेकत्वं तयोर्दर्शयतीत्याह- तथेति ।
किञ्च यदि वायुप्राणयोः पृथग्ध्यानं स्यात्तर्हि ध्यानाङ्गव्रतभेदो ऽपि स्यादिह तु प्राणापाननिरोधात्मकव्रतैक्यश्रुतेर्ध्यानैक्यमित्याह- तस्मादिति ।
व्रतैक्यस्य प्रशस्तत्वादित्यर्थः ।
किञ्च वायुप्राणो संवर्गौ भेदेनोपक्रम्य परस्ताद्वाक्यशेषे संवर्गदेवैक्यश्रुतेः प्रयोगैक्यमित्याह- तथेति ।
महात्मन इति द्वितीयाबहुवचनम् ।
चतुरश्चतुः संख्याकानग्निसूर्योदकचन्द्रानपरांश्च वाक्चक्षुःश्रोत्रमनोरूपानेको देवः कः प्रजापतिः जगार गीर्णवानुपसंहृतवानित्यर्थः ।
न ब्रवीति भेदमिति शेषः ।
यथा ऽअग्निहोत्रं जुहोतिऽइत्युत्पन्नाग्निहोत्रस्यैकस्यैव दधितण्डुलादिगुणभेदेन सायंप्रातःकालभेदेन प्रयोगभेदस्तथा ऽअन्नादो भवति य एवं वेदऽइत्युत्पन्नायाः संवर्गविद्याया एकत्वे ऽप्युत्पन्नशिष्टवायुप्राणाख्यगुणभेदात्प्रयोगभेद इत्युत्सूत्रं सिद्धान्तयति- पृथगेवेति ।
ऽतौ वा एतौ द्वौ संवर्गौऽइत्युपास्यभेदवाक्यस्य प्रयोगभेदपरत्वाद्वाक्यादेव भेदसिद्धिरित्यर्थः ।
पूर्वपक्ष्युक्तमनूद्य प्रत्याह- ननूक्तमित्यादिना ।
उपास्यतया प्रधानभूतसंवर्गगुणविशिष्टोपास्यभेदवाक्यप्राणात्तावुक्तौ ।
ततो ऽध्यात्माधिदैवावस्थाभेदेनोक्तस्य ध्येयभेदस्य निरासे ऽयतश्चोदेतिऽइति श्लोकस्य न शक्तिरित्याह- श्लोकेति ।
असामर्थ्ये लिङ्गमाह- स यथेति ।
श्लोकोपन्यासवद्ब्रतैक्योपन्यासो ऽपि तत्त्वाभेदाभिप्रायेणेत्याह- एतेनेति ।
नन्वेवकाराद्वायुव्रतनिवृत्तेः प्राण एवैको ध्येयो भातीत्यत आह- एकमेवेति ।
वदनदर्शनादीनि वाक्चक्षुरादीनां व्रतानि श्रमरूपमृत्युना भग्नानीत्युक्त्वा प्राणस्याभग्नव्रतत्वं निर्धारितं, तथा ज्वलनतापादीन्यग्न्यादित्यादीनां व्रतानि भग्नानीत्युक्त्वा वायोरभग्नव्रतत्वं निर्धारितं, ऽस यथैषां प्राणानां मध्यमः प्राणः स्थिरव्रत एवमेतासां देवनां वायुर्लोचन्ति ह्यन्या देवता न वायुःसैषानस्तमिता देवता यद्वायिःऽइति श्रुतेः ।
अतो भग्नवतनिरासार्थ एवकारो न वायुव्रतनिवृत्त्यर्थ इत्यर्थः ।
अत्रैवार्थे लिङ्गमाह- एकमिति ।
उकारश्चार्थः ।
तेन व्रतेन वायोः सायुज्यं समानदेहत्वं सलोकतां च जयतीत्यर्थः ।
नन्वत्र वायुप्राप्तिर्न श्रुतेत्यत्राह- देवतेति ।
तस्मात्तत्त्वाभेददृष्ट्या व्रतैक्यमिति स्थितं, संप्रति पूर्वोक्तं पृथगुपदेशं विवृणोति- तथा तौ वा इति ।
सौत्रं दृष्टान्तं व्याचष्टे- प्रदानवदिति ।
त्रयः पुरोडाशा अस्यां सन्तीति त्रिपुरोडाशिनीष्टिस्तस्यां किं सहप्रदानमुत भेदेनेति संदेहे पूर्वपक्षमाह- सर्वेषामिति ।
सर्वेषां देवानामाभिमुख्येन प्राप्यन्हविरवद्यति गृह्णाति, अच्छंवट्कारं वषट्काराख्यदेवभागमित्यर्थः ।
यद्वा सर्वदेवार्थं युगपदवदानं कार्यमित्यत्र हेतुरच्छंवट्कारमिति अव्यर्थत्वायेत्यर्थः ।
एकार्थमवत्ते हविषि शेषो यागानर्हतया वृथा स्यादिति भावः ।
एवं सहावदानश्रुतेर्देवैक्याच्च पुरोडाशानां सहप्रक्षेपे प्राप्ते पृथक्प्रक्षेप इति सिद्धान्तमाह- राजेति ।
राजाधिराजस्वराजगुणभेदेन विशिष्टदेवताभेदादित्यर्थः ।
किञ्चाध्वर्युणा यजेति प्रैषे कृते होत्रा यो मन्त्रः पठ्यते सा याज्या, अनुब्रूहीति प्रैषानन्तरमन्त्रः पुरोनुवाक्येति भेदो ऽस्ति, तत्रास्यामिष्टौ प्रथमपुरोडाशप्रदाने या कॢप्ता याज्या स द्वितीयप्रदाने पुरोनुवाक्य, या च पूर्वमनुवाक्य, स पश्चाद्याज्येति व्यत्यासमन्वाहेति श्रुत्या विधानात्, यथाश्रुति प्रक्षेपपृथक्त्वमित्याह- याज्येति ।
संकर्षो देवताकाण्डम् ।
वाशब्दो ऽवधारणे, नानैव देवता राजादिगुणभेदेन भेदावगमादिति सूत्रार्थः ।
दृष्टान्ते देवताभेदात्कर्मभेदवद्विद्याभेदः स्यादित्यत आह- तत्र त्विति ।
कर्मोत्पत्तिवाक्यस्थदेवताभेदः कर्मभेदे हेतुरिह त्वन्नादो भवति य एवं वेदेत्युत्पत्तावेकत्वेन ज्ञातविद्यायाः पश्चाच्छ्रुतवायुप्राणभेदो न भेदकः, अग्निहोत्रस्येव दध्यादिद्रव्यभेद इत्यर्थः ।
तर्हि केनांशेन प्रदानस्य दृष्टान्तत्वमित्यत आह- विद्यैक्ये ऽपीति ।
अवस्थाभेदाद्देवताभेदः प्रयोगभेदश्चेत्यंशेनायं दृष्टान्त इत्यर्थः
एन्द् ब्स्चोम्_3,3.28.43
स्तर्त् ब्स्चोम्_3,3.29.44
29 लिङ्गभूयस्त्वाधिकरणम् । सू. 44-52
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि । ब्ब्स्_3,3.44 ।
वाजसनेयिनो ऽग्निरहस्ये - ऽनैव इदमग्रे सदासीत्ऽ इत्येतस्मिन्ब्राह्मणे मनो ऽधिकृत्याधीयते ऽतत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयामनश्चितःऽ इत्यादि ।
तथैव ऽवाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितो ऽग्निचितःऽ इति पृथगगमनीनामनन्ति सांपादिकान् ।
तेषु संशयः - किमेते मनश्चिदादयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति ।
तत्र प्रकरणाक्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभयस्त्वादिति ।
भूयांसि हिलिङ्गान्यस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इति, ऽतान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति चैवञ्जातीयकानि ।
तद्धि लिङ्गं प्रकरणाद्बलीयः ।
तदप्युक्तं पूर्वस्मिन्काण्डे - ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै.सू. 3.3.13) इति
लिङ्गभूयस्त्वात् ।
उत्पत्तेः प्रागिदं सर्वं नैव सदासीन्नाप्यसदित्युपक्रम्य मनः सृष्टिमुक्त्वा तन्मन आत्मानमैक्षतेतीक्षणपूर्वकमग्नीनपश्यदिति मनो ऽधिकृत्य पठन्तीत्यर्थः ।
पुरुषायुष्ट्वेन कॢप्तशतवर्षान्तर्गतैः षट्रत्रिंशत्सहस्रैरहोरात्रैरवच्छिन्नतया मनोवृत्तीनामसङ्ख्येयानामपि षट्त्रिंशत्सहस्रत्वम् ।
ताभिरिष्टकात्वेन कल्पिताभिर्मनसैव संपादिता अग्नयो मनश्चितस्थानर्कान्पूज्यान्मनोवृत्तिषुसंपादितानात्मनः स्वस्य संबन्धित्वेन मनो ऽपश्यत्, तथा वाक्प्राणादयो ऽपि स्वस्ववृत्तिरूपानग्नीनपश्यन्नित्याह- तथेति ।
प्राणो घ्राणं कर्मेन्द्रियेण हस्तादिना चितः कर्मचितः अग्निस्त्वक् पूर्वत्राग्निचयनप्रकरणात्किमेते ऽग्नयः क्रत्वर्था उत प्राधान्यज्ञापकलिङ्गादिभूयस्त्वात्पुरुषार्था वेति संशयमाह- तेष्विति ।
केवलविद्यात्मकाः क्रियाङ्गत्वं विना भावनामया इत्यर्थः ।
एकप्रयोगासंभवाद्वायुप्राणयोर्ध्यानप्रयोगभेदो ऽस्तु, इह तु मनश्चिदाद्यग्नीनां प्रकरणात्कर्माङ्गत्वेनैकप्रयोगत्वमिति प्रापय्य सिद्धान्तमुपक्रमते- तत्रेत्यादिना ।
पूर्वपक्षे भावनाग्नीनां क्रत्वङ्गत्वमिष्टं तेषां क्रियाङ्गत्वं विकल्पः समुच्चयो वास्तु ।
सिद्धान्ते पुरुषार्थत्वमिति फलम् ।
तत्तत्र सर्वप्राणिमनोवृत्तिभिर्मम सदाग्नयः चीयन्त इति ध्यानदार्ढ्ये सति सर्वभूतानि यत्किञ्चित् मनसा संकल्पयन्ति तेषामेवाग्नीनां सा कृतिः करणमित्येकं लिङ्गं, क्रियाङ्गस्य यत्किञ्चित्करणेन सिद्यदर्शनादित्याह- तद्यदिति ।
एवंविदे स्वपते जाग्रते ऽपि तदीयाग्नीन्भूतानि सर्वदा चिन्वन्तीति लिङ्गान्तरं, क्रियाङ्गस्य चोदितकालानुष्ठेयस्य सदा सर्वैरनुष्ठीयमानत्वायोगादित्यर्थः ।
षट्त्रिंशत्सहस्रसंख्याप्यनङ्गत्वे लिङ्गं एवञ्जातीयकपदेनोक्तम्
एन्द् ब्स्चोम्_3,3.29.44
स्तर्त् ब्स्चोम्_3,3.29.45
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत् । ब्ब्स्_3,3.45 ।
नैतदुक्तं स्वतन्त्रा एते ऽग्नयो ऽनन्यशेषभूता इति ।
पूर्वस्य क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायं विकल्पविशेषोपदेशः स्यान्न स्वतन्त्रः ।
ननु प्रकरणाल्लिङ्गं बलीयः ।
सत्यमेतत् ।
लिङ्गमपि त्वेवञ्जातीयकं न प्रकरणाद्बलीयो भवति ।
अन्यार्थदर्शनं ह्येतत् ।
सांपादिकाग्निप्रशंसारूपत्वात् ।
अन्यार्थदर्शनं चासत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ।
तस्मातसांपादिका अप्येते ऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः ।
मानसवत् ।
यथा दशरात्रस्य दसणे ऽहन्यविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गुह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येवाम्नायन्ते ।
स च मानसो ऽपि ग्रहकल्पः क्रियाप्रकरणात्क्रियाशेष एव भवत्येवमयमप्यग्निकल्प इत्यर्थः
fन्: अविवाक्यमिति दशमस्याह्नो नामधेयम् ।
एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति- पूर्वेति ।
पूर्वस्येष्टकाभिरग्निं चिनुत इत्युक्तस्य स एष त्विष्टकाग्निरिति संनिहितस्यायं विकल्पविशेषोपदेशः संकल्पमयत्वाख्यप्रकारभेदोपदेशः क्रियाग्निवत्सांकल्पिकाग्नयो ऽप्यङ्गमिति यावत् ।
किं विधिवाक्यस्थं लिङ्गं प्रकरणाद्बलीयः, अर्थवादस्थं वा ।
आद्यमङ्गीकरोति- सत्यमिति ।
न द्वितीय इत्याह- लिङ्गमिति ।
मानसाग्निविध्यर्थवादस्थलिङ्गानां स्वार्थप्रापकमानाभावाद्दौर्बल्यमित्यर्थः ।
सूत्रस्थक्रियापदं व्याचष्टे- तस्मादिति ।
ननु अक्रियारूपाग्नीनां ध्यानमयानां कथं क्रियाङ्गत्वं तत्राह- मानसवदिति ।
द्वादशाहस्याद्यन्ताहर्द्वयं त्यक्त्वा मध्यस्थदशरात्रस्यैव द्विरात्रादिषु प्रकृतित्वं, तद्धर्ममाणामेव तेष्वतिदेशात्तस्य मध्यदशरात्रस्य दशमे ऽहन्यर्थादेकादशे ऽहनि मानसग्रहः श्रूयते-ऽअनया त्वा पात्रेण समुद्रं रसया प्राजापत्यं मनोग्रहं गृह्णातिऽइति ।
अनया रसया पृथिव्या पात्रेण समुद्रं त्वां प्रजापतिदेवताकं मनोग्रहं गृह्यते इति ग्रहः सोमरसः, मनसा रसत्वेन भावितमध्वर्युर्गृह्णातीत्यर्थः ।
अत एवर्त्विजां ध्यायितया विविधवाक्योच्चारणाभावादविवाक्यसंज्ञा अह्नः प्राप्तः ।
ग्रहणं नाम सोमपात्रस्योपादानं, गृहीतस्य स्वस्थाने स्थापनमासादनं सोमस्य होमो हवनं हुतशेषादानमाहरणं शेषभक्षणायर्त्विजां मिथो ऽनुज्ञानकरणमुपह्वानं ततो भक्षणमित्येतानि मानसान्येवेत्यर्थः ।
स च मानसो ग्रहो द्वादशाहादहरन्तरं स्वतन्त्रमित्याशङड्क्य द्वादशाहसंज्ञाविरोधान्नाहरन्तरं किन्तु प्रकरणादविवाक्यस्याह्नो ऽङ्गमिति सिद्धान्तमाह- स चेति ।
कल्पः कल्पनाप्रकारः ।
केचित्त्वत्र भाष्ये दशरात्रशब्दो विकृतिपरः, तत्रापि दशमे ऽहन्यविवाक्यसंज्ञके मानसग्रहस्यातिदेशप्राप्ततयाङ्गत्वादित्याहुः
एन्द् ब्स्चोम्_3,3.29.45
स्तर्त् ब्स्चोम्_3,3.29.46
अतिदेशाच् च । ब्ब्स्_3,3.46 ।
अतिदेशश्चैषामग्नीनाङ्क्रियानुप्रवेशमुपोद्बलयति - ऽषट्त्रिंशत्सहसस्राण्यग्नयोर्ऽकास्तेषामेकैक एव तावन्यावानसौ पूर्वःऽ इति ।
सति हि सामान्ये ऽतिदेशः प्रवर्तते ।
ततश्च पूर्वेणेष्टकाचितेन क्रियानुप्रवेशिनाग्निना संपादिकानग्नीनतिदिशन्क्रियानुप्रवेशमेवैषां द्योतयति
मनश्चिदादीनां क्रियाङ्गत्वे प्रकरणमुक्त्वा लिङ्गमाह- अतिदेशाच्चेति ।
क्रियाङ्गत्वसादृश्यादतिदेश इत्यर्थः
एन्द् ब्स्चोम्_3,3.29.46
स्तर्त् ब्स्चोम्_3,3.29.47
विद्यैव तु निर्धारणात् । ब्ब्स्_3,3.47 ।
तुशब्दः पक्षं व्यावर्तयति ।
विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयो ऽग्नयः स्युर्न क्रियाशेषभूताः ।
तथाहि निर्धारयति - ऽते हैते विद्याचित एवऽ इति ।
विद्यया हैवैत एवंविदश्चिता भवन्ति इति च
सिद्धान्तमाह- विद्येति
एन्द् ब्स्चोम्_3,3.29.47
स्तर्त् ब्स्चोम्_3,3.29.48
दर्शनाच् च । ब्ब्स्_3,3.48 ।
दृश्यते चैषां स्वातन्त्र्ये लिङ्गम् ।
तत्पुरस्ताद्दर्शितम् लिङ्गभूयस्त्वात् (ब्र. सू. 3.3.44) इत्यत्र
न श्रुतिलिङ्गवाक्यैः प्रकरणं बाध्यमिति सूत्रत्रयार्थः
एन्द् ब्स्चोम्_3,3.29.48
स्तर्त् ब्स्चोम्_3,3.29.49
ननु लिङ्गमप्यसत्यांमन्यस्यां प्राप्तावसाधकं कस्यचिदर्थस्येत्यपास्य तत्प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसितमित्यत उत्तरं पठति -
श्रुत्यादिबलीयस्त्वाच् च न बाधः । ब्ब्स्_3,3.49 ।
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्रयपक्षो बाधितव्यः ।
श्रुत्यादेर्बलीयस्त्वात् ।
बलीयांसि हि प्रकरणाच्छ्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे ।
तानि चेह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते ।
कथम् ।
श्रुतिस्तावत् ऽते हैते विद्याचित एवऽ इति ।
तथा लिङ्म् ऽसर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति ।
तथा वाक्यमपि ऽविद्यया हैवैत एवंविदाश्रिताभवन्तिऽ इति ।
ऽविद्याचित एवऽ इति हि सावधारणेयं श्रुतिः क्रियानुप्रवेशे ऽमीषामभ्युपगम्यमाने पीडिता स्यात् ।
नन्वबाह्यसाधनत्वाभिप्रायमिदवधारणं भविष्यति ।
नेत्युच्यते ।
तदभिप्रायतायां हिविद्योचित इतीयता स्वरूपसमकीर्तनेनैव कृतत्वादनर्थकमवधारणं भवेत् ।
स्वरूपमेव ह्येषामबाह्यसाधनमिति ।
अबाह्यसाधनत्वे ऽपि तु मानसग्रहवत्क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलमवधारणर्थवद्भविष्यति ।
तथा ऽस्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतान्येतानग्निंश्चिन्वन्तिऽ इति सातत्यदर्शनमेषां स्वातन्त्र्ये ऽवकल्पते ।
यथा सांपादिके वाक्यप्राणमये ऽग्निहोत्रे ऽप्राणं तदा वाचि जुहोति - वाचं तदा प्राणे जुहोतिऽ (कौ. 2.5) इति चोक्त्वोच्यते - ऽएते अनन्ते आहुती जाग्रच्च स्वपंश्च सततं - जुहोतिऽ (कौषी. 2.5) इति ।
तद्वत् ।
क्रियानुप्रवेशे तु क्रियाप्रयोगस्याल्पकालत्वेन न सातत्येषां प्रयोगः कल्पेत ।
नचेदमर्थवादमात्रमिति न्याय्यम् ।
यत्र हि विस्पष्टो विधायको लिङ्गादिरुपलभ्यते युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् ।
इह हि विस्पष्टोविध्यन्तरानुपलब्धेः संकीर्तनादेवैषां विज्ञानविधानं कल्पनीयम् ।
तच्च यथासंकीर्तनमेव कल्पयितुं शक्यत इति सातत्यदर्शनात्तथाभूतमेव कल्प्यते ।
ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः ।
एतेन तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इत्यादि व्याख्यातम् ।
तथा वाक्यमपि एवंविदे इति पुरुषविशेषसंबन्धमेवैषामाचक्षणं न क्रतुसंबन्धं मृष्यते ।
तस्मात्स्वातन्त्र्यपक्ष एव ज्यायानिति
तत्रावधारणश्रुतेरन्यथासिद्धिं शङ्कते- नन्वबाह्येति ।
विद्याचित इतिपदेनैवाबाह्यसाधनत्वस्य लब्धत्वादवधारणं व्यर्थमित्याह- नेति ।
तर्हि कथमस्यार्थवत्त्वं तत्राह- अबाह्येति ।
लिङ्गं व्यनक्ति- तथेति ।
अग्नीनां सर्वकालव्यापित्वेनानङ्गत्वे दृष्टान्तरमाह- तथेति ।
तदा ध्यानकाल इत्यर्थः ।
होमे यथा सातत्यमुच्यते तद्वदग्नीनां सातत्यदर्शनमित्यन्वयः ।
यदुक्तमर्थवादस्थत्वाल्लिङ्गं दुर्बलमिति तन्न ।
सर्वदा सर्वभूतानि मदर्थमग्नीन् चिन्वन्तीति ध्यायेदित्यपूर्वार्थतया विधिकल्पनात् ।
तथाच विधिवाक्यस्थत्वाल्लिङ्गं प्रकरणाद्बलवादित्याह- न चेदमित्यादिना ।
एतेनेति विधित्वेनेत्यर्थः ।
वाक्यं विवृषोति- तथेति
एन्द् ब्स्चोम्_3,3.29.49
स्तर्त् ब्स्चोम्_3,3.29.50
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम् । ब्ब्स्_3,3.50 ।
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् ।
यत्क्रियावयवान्मन-आदिव्यापारेष्वनुबध्नाति ऽते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियतेऽ इत्यादिना ।
संपत्फलो ह्ययमनुबन्धः ।
नच प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः ।
नचात्रोद्गीथाद्युपासनवत्क्रियाङ्गसंबन्धात्तदनुप्रवेशित्वमाशङ्कितव्यं श्रुतिवैरूप्यात् ।
नह्यत्र क्रियाङ्गं किञ्चिदादाय तस्मिन्नदो नामाध्यवसितव्यमिति वदति ।
षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदानादाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति पुरुषयादिवत् ।
संख्या चेयं पुरुषायुषस्याहःसु दृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् ।
एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् ।
आदिशब्दादतिदेशाद्यपि यथासंभवं योजयितव्यम् ।
तथाहि - ऽतेषामेकैक एव तावान्यानानसौ पूर्वःऽ इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्यातिदिशन्किरियायामनादरं दर्शयति ।
नच सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् ।
नहि येन व्यापारेणाहनीयधारणादिना पूर्वः क्रियायामुपकरोति तेनोत्तर उपकर्तुं शक्नुवन्ति ।
यत्तु पूर्वपक्षे ऽप्यतिदेश उपोद्बलक इत्युक्तं सति हि सामान्ये ऽतिदेशः प्रवर्तत इति तदस्मात्पक्षे ऽग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् ।
अस्ति हि सांपादिकानामप्यग्नीनामग्नित्वमिति ।
श्रुत्यादीनि च कारणानि दर्शितानि ।
एवमनुबन्धादिभ्यः कारणेभ्यः स्वतान्त्र्यं मनश्चिदादीनाम ।
प्रज्ञान्तरपृथक्त्ववत् ।
यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेनानुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्त्येवमिति ।
दृष्टश्चावेष्टे राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षो वर्णत्रयानुबन्धाद्राजयज्ञत्वाच्च राजसूयस्य ।
तदुक्तं प्रथमे काण्डे - ऽक्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्ऽ (जै.सू. 11.4.7) इति
fन्: अवेष्टिरेतन्नाम्नी इष्टिः ।
संपदुपास्त्यै मनोवृत्तिषु क्रियाङ्गानां योजनमनुबन्धः श्रुत्या क्रियते तदन्यथानुपपत्त्याप्यग्नीनां पुरुषार्थत्वं क्रत्वर्थत्वे ऽङ्गानां सिद्धत्वेन संपादनानुपपत्तेरित्याह- इतश्चेत्यादिना ।
ते अग्नयः, अधीयन्त तेषामाधानं मनसैव कुर्यादित्यर्थः ।
कालस्य छन्दस्यनियमात् ।
अचीयन्त इष्टकाश्चेतव्या इत्यर्थः ।
ग्रहाः पात्राणि, अस्तुवन्, उद्गातारः स्तुवन्ति, अशंसन् होतारः शंसन्ति, किं बहूक्त्या यत्किञ्चिद्यज्ञे कर्मारादुपकारकं यज्ञियं यज्ञस्वरूपोत्पादकं च तत्सर्वं मनोमयं कुर्यादिति श्रुत्यर्थः ।
वृत्तिष्वग्निध्यानस्य क्रियानङ्गत्वे ऽप्युद्गीथध्यानवत्क्रियाङ्गाश्रितत्वं स्यान्नेत्याह- न चात्रोद्गीथेति ।
अङ्गावबद्धश्रुतितो ऽस्याः श्रुतेर्वैरूप्यं स्फुटयति- नहीति ।
अनङ्गवृत्तिषु साङ्गक्रतुसंपादनं पुरुषस्य यज्ञत्वध्यानवत् स्वतन्त्रमित्यर्थः ।
अनादरार्थो ऽतिदेशो न भवति किन्तु विकल्पार्थ इत्यत आह- नचेति ।
एकस्मिन्माध्ये निरपेक्षसाधनयोर्विकल्पो भवति यथा व्रीहियवयोरत्र तु क्रियाग्नेर्ध्यानाग्नीनां साध्यभेदान्न विकल्प इत्यर्थः ।
अत एव समुच्चयो ऽपि निरस्तः ।
यदुक्तं क्रियाङ्गत्वसामान्येनातिदेश इति तन्नेत्याह- यत्त्विति ।
सूत्रे बहुवचनार्थमाह- श्रुत्यादीनि चेति ।
अनुबन्धातिदेशश्रुतिलिङ्गवाक्येभ्य इत्यर्थः ।
एवमिति ।
अर्थ इति शेषः मनश्चिदादीनां स्वातन्त्रये क्रियाप्रकरणादुत्कर्षः स्यादित्याशङ्क्य स इष्ट इत्याह- दृष्टश्चेति ।
एकादशे चिन्तितं ऽराजा स्वाराज्यकामो राजसूयेन यजेतऽइति प्रकृत्यावेष्टिर्नाम काचिदिष्टिराम्नाता-ऽआग्नेयो ऽष्टाकपालो हिरण्यं दक्षिणाऽ,बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणाऽ, ऽऐन्द्रमेकादशकपालमृषभो दक्षिणाऽइति ।
तस्यां वर्णभेदेन प्रयोगभेदः, श्रूयते-ऽयदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेद्यदि वैश्यो वैश्वदेवं चरुं मध्ये निदध्याद्यदि राजन्यस्तदैन्द्रम्ऽइति ।
आग्नेयैन्द्रपुरोडाशयोर्मध्ये बार्हस्पत्यं चरुं निधायेत्यर्थः ।
तत्राग्नेयादिचरुषु अङ्गानां तन्त्रेण प्रयोगो भवति मध्येनिधानलिङ्गात्प्रयोगभेदे मध्ये निधानायोगादेतयान्नाद्यकामं याजयेदित्येकवचनाच्च ।
स च तन्त्रप्रयोगो राजसूयक्रतुबाह्यायामन्नाद्यकामवर्णत्रयकर्तृकायामेवावेष्टौ ज्ञेयो न तु क्रत्वन्तर्गतायाम् ।
ननु किमत्र नियामकं क्रत्वर्थायामप्यवेष्टौ तन्त्रप्रयोगः किं न स्यादिति चेत् ।
न ।
वर्णत्रयसंयुक्तानां काम्यायामेवाङ्गतन्त्रैक्यसाधकस्य मध्ये नधानादिलिङ्गस्य सत्त्वादतो लिङ्गैकवचनाभ्यां तन्त्रैक्ये सति हिरण्यादिका मिलितैकैवा दक्षिणाधेया, अन्यथा प्रयोगैक्यायोगात् ।
राजमात्रकर्तृकक्रत्वन्तर्गतेष्टौ तु वर्णत्रयसंयोगाभावान्मध्ये निधानादिलिङ्गं नास्ति ततश्च तन्त्रैक्यसाधकाभावाद्दक्षिणाभेदेन तन्त्रभेद इत्यङ्गानामावृत्तिरेव चरुष्विति सूत्रार्थः ।
अत्र चैकप्रयोगलिङ्गस्य क्रत्वर्थेष्टावसंभवं काम्येष्टौ च संभवं वदतानेन सूत्रेण काम्येष्टेः क्रत्वर्थेष्टिविलक्षणत्वात्क्रतुप्रकरणादुत्कर्ष इति सूचितम् ।
स चोत्कर्षो युक्त एव, राजमात्रकर्तृकराजसूयक्रतौ वर्णत्रयकर्तृकेष्टेरन्तर्भावायोगादिति स्थितं, तथा मनश्चिदादीनामुत्कर्ष इति भावः
एन्द् ब्स्चोम्_3,3.29.50
स्तर्त् ब्स्चोम्_3,3.29.51
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः । ब्ब्स्_3,3.51 ।
यदुक्तं मानसावदिति तत्प्रत्युच्यते ।
न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् ।
पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः ।
नहि किञ्चित्कस्यचित्केनचित्सामान्यं न संभवति ।
नच तावता यथात्वं वैषम्यं निवर्तते ।
मृत्युवत् ।
यथा ऽस वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषःऽ इति ऽअग्निर्वै मृत्युःऽ (बृ. 3.2.10) इति चाग्न्यादित्यपुरुषयोः समाने ऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्तिः ।
यथा च ऽअसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्ऽ (छा. 5.4.1) इत्यत्र न समिदादिसामान्याल्लोकस्याग्निभावापत्तिस्तद्वत्
एवं दृष्टान्तं विघटयति- न सामान्यादिति ।
क्रत्वर्थत्वपुरुषार्थत्ववैषम्ये ऽपि मानसत्वसामान्यं न विरुध्यते विषमयोरपि साम्यदर्शनादित्यर्थः
एन्द् ब्स्चोम्_3,3.29.51
स्तर्त् ब्स्चोम्_3,3.29.52
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः । ब्ब्स्_3,3.52 ।
परस्तादपि ऽअयं वाव लोक एषो ऽग्निश्चित्तःऽ इत्यस्मिन्ननन्तरे ब्राह्मणे तावद्वध्यं केवलविद्याविधित्वं शब्दस्य प्रयोजनं लक्ष्यते न शुद्धकर्माङ्गविधित्वम् ।
तत्र हि -ऽ विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षीणा यन्ति नाविद्वांसस्तपस्विनःऽ इत्यनेन श्लोकेन केवलं कर्मनिन्दन्विध्यां च प्रशंसन्निदं गमयति ।
तथा पुरस्तादपि यदेतन्मण्डलं तपति इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते सो ऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति इति विद्याफलेनैवोपसंहारान्न कर्मप्रधानता तत्सामान्यादिहापि तथात्वम् ।
भूयांसस्त्वग्न्यवयवाः संपादयितव्या विद्यायामित्येतस्मात्कारणादग्निनानुबध्यते विद्या न कर्माङ्गत्वात् ।
तस्मान्मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः
किञ्च पूर्वोत्तरब्राह्मणयोः स्वतन्त्रविद्याविधानात्तन्मध्यस्थस्यापि ब्राह्मणस्य स्वतन्त्रविद्याविधिपरत्वमित्याह- परेण चेति ।
चिते ऽग्नौ लोकदृष्टिविधानं स्वतन्त्रमुत्तरत्र गम्यते पूर्वत्र मण्डलपुरुषोपास्तिस्तत्सांनिध्यान्मध्ये ऽपि मानसाग्नयः स्वतन्त्रा इत्यर्थः ।
तर्हि क्रियाग्निना सह पाठः किमर्थमित्यत आह- भूयांसस्त्विति
एन्द् ब्स्चोम्_3,3.29.52
स्तर्त् ब्स्चोम्_3,3.30.53
30 ऐकात्म्याधिकरणम् । सू. 53-54
एक आत्मनः शरीरे भावात् । ब्ब्स्_3,3.53 ।
इह देहव्यतिरिक्तस्यात्मनः सद्भावः समर्थ्यते बन्धमोक्षाधिकारसिदमधयो ।
नह्यसति देहव्यतिरिक्तात्मनि परलोकाश्चोदना उपपजद्येरन्कस्य वा ब्रह्मात्मत्वमुपदिश्येत ।
ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोग्यस्य देहाव्यतिरिक्तस्यात्मनो ऽस्तित्वमुक्तम् ।
सत्यमुक्तं भाष्यकृचा नतु तत्रात्मास्तित्वे सूत्रमस्ति ।
इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् ।
इत एव चाकृष्याचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् ।
अत एव च भगवतोपवर्षेण प्रथमे तन्त्र आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्यमाः इत्युद्धारः कृतः ।
इह चेदं चोदनालक्षणेषूपासनेषु विचार्यमाणेष्वात्मास्तित्वं विचार्यते कृत्स्नशास्त्रशेषत्वप्रदर्शनाय ।
अपिच पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितं को ऽसौ पुरुषो यदर्था एते मनश्चिदादय इत्यस्यां प्रसक्ताविदं देहव्यतिरिक्तस्यात्मनो ऽस्तित्वमुच्यते ।
तदस्तित्वाक्षेपार्थं चेदमादिमं सूत्रम् ।
आक्षेपपूर्विका हि परिहारोक्तिर्विवक्षितेर्ऽथे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयति ।
अत्रैके देहमात्रात्मदर्शिनो लोकायतिका देहव्यतिरिक्तस्यात्मनो ऽभावं मन्यमानाः समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति संभावयन्तस्तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानं चैतन्यविशिष्टः कायः पुरुष इति चाहुः ।
न स्वर्गगमनायापवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मास्ति ।
हेतुं चाचक्षतशरीरे भावादिति ।
यद्धि यस्मिन्सति भवत्यसति च न भवति तत्तद्धर्मत्वेनाध्यवसीते यथाग्निधर्मावौष्ण्यप्रकाशौ ।
प्राणचेष्टाचैतन्यस्मृत्याश्चात्मधर्मत्वेनाभिमता आत्मवादिनां ते ऽप्यन्तरेव देह उपलभ्यमाना बहिश्चानुपलभ्यमाना असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति ।
तस्मादव्यतिरिक्तो देहादात्मन इति
fन्: उद्धारः उपरमः ।
मनश्चिदादीनां पुरुषार्थत्वमुक्तं तदयुक्तं देहातिरिक्तपुरुषाभावादित्याक्षिपति- एक आत्मनः शरीरे भावात् ।
सिद्धान्तफलमाह- बन्धेति ।
पूर्वपक्षे तु परलोकार्थकर्मसु मोक्षार्थविद्यायां चाप्रवृत्तिरिति व्यतिरेकमुखेन फलमाह- न ह्यसतीति ।
व्यतिरिक्तात्मविचारस्य पूर्वतन्त्रे कृतत्वात्पौनरुक्त्यमित्याशङ्क्य तत्रत्यविचारस्यापीदमेव सूत्रं मूलं जैमिनिसूत्राभावादतः क्व पुनरुक्तिरित्याह- ननु शास्त्रेत्यादिना ।
ऽयज्ञायुधी यजमानः स्वर्गं लोकमेतिऽइत्यादिवाक्यस्य भोक्तुरभावादप्रामाण्यप्राप्तावित एवाकृष्य भोक्तुर्विचारः कृत इत्यत्र वृत्तिकारवचनं लिङ्गमाह- अत एवेति ।
तत्र सूत्राभावादेवेत्यर्थः ।
उद्धार उपरमः ।
अस्याधिकरणस्यास्मिन्पादे प्रसङ्गसंगतिरित्याह- इह चेति ।
आमुष्मिकफलोपासनानिर्णयप्रसङ्गेन तदपेक्षितात्मास्तित्वमुच्यत इत्यर्थः ।
एतत्सिद्धवत्कृत्य प्रथमसूत्रे ऽथशब्देनाधिकारी चिन्तितस्तस्मादिदमधिकरणं सर्वशास्त्राङ्गमिति शास्त्रसंगतिमाह- कृत्स्नेति ।
आक्षेपलक्षणामवान्तरसंगतिमाह- अपिचेति ।
देहातिरिक्त आत्मास्ति न वेति वादिविप्रतिपत्तेः संशये पूर्वपक्षमाह- अत्रैक इति ।
यद्यपि समस्तेषु मिलितेषु भूतेषु चैतन्यं न दृष्टं तप्तोदकुम्भस्य ज्ञानाभावाद्व्यस्तेषु तु नास्त्येव तथापि देहात्मकभूतेषु स्यादिति तेभ्यो भूतेभ्यश्चैतन्यं संभावयन्तो मदशक्तिवद्विज्ञानं संघातजं तद्विशिष्टसंघात आत्मेत्याहुरित्यन्व्यः ।
यथा मादकद्रव्येषु ताम्बूलपत्रादिषु प्रत्येकमदृष्टापि मदशक्तिस्तत्संघाताज्जायते तद्वदित्यार्थः ।
ननु देहः स्वयं न चेतनः घटवद्भौतिकत्वात् किन्तु चेतनः कश्चित्स्वर्गादिभोक्तास्ति तत्सांनिध्याद्देहस्य चैतन्यविभ्रम इत्यत आह- न स्वर्गेति
एन्द् ब्स्चोम्_3,3.30.53
स्तर्त् ब्स्चोम्_3,3.30.54
एवं प्राप्ते ब्रूमः -
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् । ब्ब्स्_3,3.54 ।
नत्वेदमस्ति यदुक्तमव्यतिरेको देहादात्मन इति ।
व्यतिरेक एवास्य देहाद्भवितुमर्हति तद्भावाभ्वित्वात् ।
यदि देहभावे भावाद्देहधर्मत्वमात्मधर्माणां मन्येत ततो देहभावे ऽप्यभावादतद्धर्मत्वमेवैषां किं न मन्येत ।
देहधर्मवैलक्षण्यात् ।
येहि देहधर्मा रूपादयस्ते यावद्देहं भवति ।
प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न बवन्ति ।
देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते नत्वात्मधर्माश्चैतन्यस्मृत्यादयः ।
अपिच सति हि तावद्देहे जीवदवस्थायामेषां भावः शक्यते निश्चेतुं नत्वसत्यभावः ।
पतिते ऽपि कदाचिदस्मिन्देहे देहान्तरसंचारेणात्मधर्मा अनुवर्तेरन् ।
संशयमात्रेणापि परपक्षः प्रतिषिध्यते ।
किमात्मकं च पुनरिदं चैतन्यं मन्यते यस्य भूतेभ्य उत्पत्तिमिच्छतीति परः पर्यनुयोक्तव्यः ।
नहि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित्तत्त्वं प्रत्येति ।
यदनुभवनं भूतभौतिकानां तच्चैतन्यमिति चेत् ।
तर्हि विषयत्वात्तेषां न तद्धर्मत्वमश्नुवीत स्वात्मनि क्रियाविरोधात् ।
नह्यग्निरुष्णः सन्स्वात्मानं दहति ।
नहि नटः शिक्षितः सन्स्वस्कन्धमधिरोक्ष्यति ।
नहि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् ।
नहि रूपादिभिः स्वरूपं पररूपं वाविषयीक्रियते ।
विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन ।
अतश्च यथैवास्या भूतभौतिकविषयाया उपलब्धेर्भावो ऽभ्युपगन्तव्यः ।
उपलब्धिस्वरूप एव च न आत्मेत्यात्मनो देहव्यतिरिक्तत्वम् ।
नित्यत्वं चोपलब्धेरैकरूप्यात् ।
अहमिदमद्राक्षमिति चावस्थान्तरयोगे ऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् ।
स्मृत्याद्युपपत्तेश्च ।
यत्तूक्तं शरीरे भावाच्छरीरधर्म उपलब्दैरिति तद्वर्णितेन प्रकारेण प्रत्युक्तम् ।
अपिच सत्सुप्रदीपादिषूपकरणेषूपलब्धिर्भवत्यसत्सु न भवति ।
नचैतावता प्रदीपादिधर्म एवोपलब्धिर्भवति ।
एवं सति देह उपलब्धिर्भवत्यसति च न भवतीति न देहधर्मौ भवितुमर्हति ।
उपकरणत्वमात्रेणापि प्रदीपादिवद्देहोपयोगोपपत्तेः ।
नचात्यन्तं देहस्योपलब्धावुपयोगो ऽपि दृश्यते निश्चेष्टे ऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् ।
तस्मादनवद्यं देहव्यतिरिक्तस्यात्मनो ऽस्तित्वम्
मनुष्यो ऽहं जानामिति देहस्य ज्ञातृतायाः प्रत्यक्षत्वादात्मधर्मत्वेन प्रसिद्धानां धर्माणां देहान्व्यव्यतिरेकानुभवात्तदन्यात्मनि प्रत्यक्षाभावादप्रत्यक्षस्याप्रामाणिकत्वाद्देह एवात्मेति प्राप्ते सूत्रस्थनत्वितिपदेन सिद्धान्तं प्रतिजानीते- नत्वेतदिति ।
अनुमानस्य तावत्प्रामाण्यमनिच्छिताप्यास्थेयमन्यथा व्यवहारासिद्धेः ।
न ह्यनागतपाकादाविष्टसाधनतानुमितं विना प्रवृत्तिः संभवति ।
तथाच ज्ञानादयो देहव्यतिरिक्ताश्रया देहसत्त्वे ऽप्यसत्त्वाद्व्यतिरेकेण देहरूपादिवदित्याह- व्यतिरेक एवास्येति ।
नचादौ श्यामदेहस्य पश्चाद्रूपान्तरे व्यभिचारः, गुणत्वसाक्षाद्व्याप्यजात्यवच्छेदेन असत्त्वस्य विवक्षितत्वात् देहे ऽवस्थिते सदा रूपत्वावच्छिन्नमस्त्येव ।
ज्ञानत्वावच्छिन्नं तु नास्तीति न ज्ञानं देहधर्मः ।
किञ्च एते न देहगुणाः परैरदृश्यत्वादित्याह- देहधर्माश्चेति ।
किञ्च देहव्यतिरिके तेषामभावस्य संदिग्धत्वान्न देहधर्मत्वनिश्चय इत्याह- अपिचेति ।
न चानुपलम्भात्तेषामभावनिश्चयस्तवानुपलब्धेरमानत्वात्, तद्धर्म्यात्मनो देहान्तरप्राप्त्याप्यनुपलम्भोपपत्तेश्चेति भावः ।
उपलब्धिवदिति सूत्रस्थं पदं व्याख्यातुमुपक्रमते- किमात्मकमिति ।
तत्किं भूतातिरिक्तं तत्त्वमुत रूपादिवद्भूतधर्मः ।
नाद्यः, अपसिद्धान्तादित्युक्त्वा द्वितीयमाशङ्क्य निषेधति- यदनुभवनमित्यादिना ।
देहात्मकभूतानां चैतन्यं प्रति विषयत्वात्कर्तृकर्मविरोधेन विषयस्य कर्तृत्वा योगान्न भूतकर्तृकत्वं चैतन्यस्येत्यर्थः ।
किञ्च ज्ञानस्य भूतधर्मत्वे रूपादिवज्जाड्यापत्तेर्न तद्धर्मत्वमित्याह- नहीति ।
फलितं सूत्रपदार्थमाह- अतश्चेति ।
या देहातिरिक्ता सद्रूपोपलब्धिः स एवात्मा चेदनित्यः स्यादुपलब्धेरनित्यत्वादित्यत आह- नित्यत्वं चेति ।
घटः स्फुरति पटः स्फुरतीति सर्वत्र स्फूर्तेरभेदान्नित्यत्वं विषयोपरागनाशे तु नाशभ्रम इत्यर्थः ।
एवमात्मा देहाद्भिन्न उपलब्धिरूपत्वादुपलब्धिवदित्युक्तम् ।
किञ्च जाग्रत्स्वप्नयोर्देहभेदे ऽप्यात्मैकत्वप्रत्यभिज्ञानादात्मभेदे चान्यानुभूते ऽन्यस्य स्मृतीच्छानुपपत्तेः स्वप्नस्मृत्यादिमानात्मा देहाद्भिन्न इत्याह- अहमिति ।
निरस्तमप्यधिकाभिधित्सयानुवदति- यत्तूक्तमिति ।
उपलब्धेर्देहान्वयव्यतिरेकौ न देहधर्मत्वसाधकौ तन्निमित्तत्वेनान्यथासिद्धेरित्यधिकमाह- अपिचेति ।
उपलब्धिमात्रे देहस्य निमित्तत्वमप्यसिद्धमित्याह- न चात्यन्तमिति ।
स्वप्नोपलब्धिर्न देहजन्या, देहव्यापारं विनापि भावाद्वृक्षवत् ।
अत एव तन्वभावे ऽपि स्वप्नवद्योगिनां भोगं सूत्रकृद्वक्ष्यति ।
जाग्रदुपलब्धेर्देहजत्वमस्तीत्यत्यन्तमित्युक्तम् ।
तस्मादुक्तानुमानुगृहीतान्मम शरीरमिति भेदानुभावादहं मनुष्य इत्यभेदज्ञानं भ्रम इत्युपसंहरति- तस्मादिति
एन्द् ब्स्चोम्_3,3.30.54
स्तर्त् ब्स्चोम्_3,3.31.55
31 अङ्गावबद्धाधिकरणम् । सू. 55-56
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् । ब्ब्स्_3,3.55 ।
समाप्ता प्रासङ्गिकी कथा, संप्रति तु प्रकृतामेवानुवर्तामहे - ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा.
1.1.1) ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा. 2.1.1), ऽउक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम्ऽ, ऽइयमेव पृथिवीऽ, ऽअयं वाव लोक एषो ऽग्निश्चितःऽ इत्येवमाद्या य उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहितास्ते तत्तच्छाखागतेष्वेवोद्गीथादिषु भवेयुरथवा सर्वशाखागतेष्विति विशयः ।
प्रतिशाखं न स्वरादिबेदादुद्गीथादिषु विधीयेरन्निति ।
कुतः - संनिधानात् ।
ऽउद्गीथमुपासीतऽ (छा. 1.1.1) इति हि सामान्यविहितानां विश्षाकाङ्क्षायां संनिकृष्टेनैव स्वशाखागतेन विशेषणाकाङ्क्षादिनिवृत्तेः ।
तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति ।
तस्मात्प्रतिशाखं व्यवस्थेति ।
एवं प्राप्ते ब्रवीत्यङ्गावबद्धास्त्विति ।
तुशब्दः पक्षं व्यवर्तयति ।
नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् ।
अपितु सर्वशाखास्वनुवर्तेरन् ।
कुतः - उद्गीथादिश्रुत्यविशेषात् ।
स्वशाखाव्यवस्थायां ह्युद्गीथमुपासीतेति साम्न्यश्रुतिरविशेषप्रवृत्ता सती संनिधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् ।
नचैतन्न्याय्यम् ।
संनिधानात्तु श्रुतिर्बलीयसी ।
नच सामान्याश्रयः प्रत्ययो नोपपद्यते ।
तस्मात्स्वरादिभेदे सत्यप्युद्गीथत्वाद्यविशेषात्सर्वशाखागतेष्वेवोद्गीथादिष्वेवञ्जातीयकाः प्रत्ययाः स्युः
अङ्गावबद्धाः ।
उद्गीथावयवोङ्कारे प्राणदृष्टिः, ऽपृथिवी हिङ्कारे ऽग्निः प्रस्तावो ऽन्तरीक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधनम् ।
ऽइति हिङ्कारादिपञ्चविधे साम्नि पृथिव्यादिलोकदृष्टिः, उक्थाख्यशस्त्रे पृथिवीदृष्टिः, इष्टकाचिताग्नौ लोकदृष्टिरित्येवं कर्माङ्गाश्रितोपास्तयः सन्ति, तासूद्गीथादिसाधारणश्रुत्या विशेषसंनिधिना च संशयः ।
ननूद्गीथादीनां सर्वशाखास्वेकत्वादुपास्तयः सर्वत्रेति वेद्यैक्यान्निश्चये कथं संशय इत्यत आह- प्रतिशाखं चेति ।
यथा देहात्मनोर्भेदादात्मधर्मा देहे न संभवन्ति तथा प्रतिवेदमुद्गीथादीनां भिन्नत्वादेकस्मिन्वेदे विहितोद्गीथाद्युपास्तयो वेदान्तरस्थोद्गीथादिषु न संभवन्तीति दृष्टान्तेन पूर्वपक्षयति- स्वशाखेति ।
उद्गीथमुपासीतेति विधिवाक्यस्थोद्गीथत्वासामान्यस्य व्यक्त्यपेक्षत्वास्त्वशाखासंनिहितव्यक्तिग्रह इत्यर्थः ।
सामान्यश्रुतेः संनिहितव्यक्तिग्रहाख्यसंकोचस्तत्र कर्तव्यो यत्र व्यक्तिमात्रग्रहो नोपपद्यते, यथा शुक्लं गामानयेत्यत्र गोश्रुतेः संनिहितशुक्लव्यक्तिपरतया संकोचः, अत्र नानुपपत्त्यभावाद्व्यक्तिमात्रसंबन्धसामान्यमुपास्यमिति सिद्धान्तयति- एवमित्यादिना
एन्द् ब्स्चोम्_3,3.31.55
स्तर्त् ब्स्चोम्_3,3.31.56
मन्त्रादिवद्वाविरोधः । ब्ब्स्_3,3.56 ।
अथवा नैवात्र विरोधः शङ्कितव्यः ।
कथमन्यशाखागतेषूद्गीथादिष्वन्यशाखाविहिता प्रत्यया भवेयुरिति ।
मन्त्रादिवविरोधोपपत्तेः ।
तथाहि मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तर उपसंग्रहो दृश्यते ।
येषामपि हि शाखिनां कुटरुरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामप्यसौ विनियोगो दृश्यते कुक्कुटरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामप्यसौ विनियोगो दृश्यते कुक्कुटो ऽसीत्यश्मादानमादत्ते कुदरुरसीति वेति ।
येषामपि समिदादयः प्रयाजडा नाम्नातस्तेषामपि तेषु गुणविधिराम्नायते - ऋतवो वै प्रयाजाः समानत्र होतव्याः इति ।
तथा येषामपि अजो ऽग्नीषोमीयः इति जातिविशेषोपदेशो नास्ति तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते - छागस्य वपाया मेदसो ऽनुर्ब्रूहि इति ।
तथा वेदान्तरोत्पन्नानामपि ऽअग्नेर्वेर्हेत्रं वेरध्वरम्ऽ इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः ।
तथाबह्वृचपठितस्य सूक्तस्य यो जात एव प्रथमो मनस्वान् (ऋ.सं 2.6.7) इत्यस्य अध्वर्यवे सजनीयं शस्यम् इत्यत्र परिग्रहो दृष्टः ।
तस्माद्यथाश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिरेवमाश्रितानामपि प्रत्ययानामित्यविरोधः
पूर्वं शाखान्तरविहितोपास्तीनां शाखान्तरस्थाङ्गसंबन्धे यः प्रतीतो विरोधस्तमङ्गीकृत्य संबन्ध उक्तः, संप्रति विरोध एव नास्ति, शाखान्तरविहिताङ्गानां शाखान्तरस्थाङ्गिसंबन्धवदुक्तसंबन्धोपपत्तेरित्याह- अथवेत्यादिना ।
यजुर्वेदिनां कुक्कुटो ऽसीति मन्त्रो ऽस्ति कुटरुरसीति नास्ति तथापि तण्डुलपेषणार्थाश्मादाने मन्त्रद्वयस्य विकल्पेन विनियोगात्सो ऽपि प्राप्नोतीत्यर्थः ।
सूत्रस्थादिपदोपात्तकर्मणामुदाहरणमाह- येषामिति ।
मैत्रायणीयानामित्यर्थः ।
हेमन्तशिशिरयोरैक्यादृतवः पञ्च तद्वत्पञ्चसंख्याकाः प्रयाजाःप्ढ.द.1-समानदेशे ।
फ्समानत्रतुल्यकर्मस्थले होतव्या इति पञ्चत्वगुणविधानाद्गुणिनः शाखान्तरविहिताः संबध्यन्त इति भावः ।
गुणमुदाहरति- तथा येषामिति ।
यजुर्वेदिनामग्नीषोमीयः पशुः श्रुतो नाज इति जातिविशेषस्तथापि प्रैषमन्त्रलिङ्गाज्जातिविशेषसंग्रह इत्यर्थः ।
मन्त्राणमुदाहरणान्तरमाह- तथेति ।
सामवेदस्थानां यजुर्वेदे परिग्रह इत्यर्थः ।
तथेति ऽस जनास इन्द्रऽइत्यनेनोपलक्षितं सूक्तं सजनीयं तस्य याजुषाध्वर्युकर्तृकप्रयोगे शंसनं दृष्टमित्यर्थः ।
यो जातो बाल एव प्रथमो गुणैः श्रोष्ठो मनस्वान्विवेकवान्स इन्द्र एवंविधो हे जानसो जना इति श्रुत्यर्थः
एन्द् ब्स्चोम्_3,3.31.56
स्तर्त् ब्स्चोम्_3,3.32.57
32 भूमज्यायस्त्वाधिकरणम् । सू. 57
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति । ब्ब्स्_3,3.57 ।
ऽप्राचीनशाल औपमन्यवःऽ (छा. 5.11.1) इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्योपासनं श्रूयते ।
व्यस्तोपासनं तावत् ऽऔपमन्यव कं त्वमात्मानमुपाःस इति देवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपाःसेऽ (छा. 5.12.1) इत्यादि ।
तथा समस्तोपासनमपि ऽतस्य ह वा एतस्यात्मनो वैश्वानरस्यमूर्धैव सुतेजाश्चक्षुर्विश्वरूप प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौऽ (छा. 5.18.2) इत्यादि ।
तत्र संशयः - किमिहोभयथाप्युपासनं स्याद्व्यस्तस्य समस्तस्य चोत स्मस्तस्यैवेति ।
किं तावत्प्राप्तम् ।
प्रत्यवयवं सुतेजःप्रभृतिषूपाःस इति क्रियापदश्रवणात् ऽतस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यतेऽ (छा. 5.12.1) इत्यादिफलभेदश्रवणाच्च व्यस्तान्यप्युपासनानि स्युरिति प्राप्तम् ।
ततो ऽबिधीयते - भून्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यमस्मिन्वाक्ये विवक्षितं भवितुमर्हति न प्रत्येकमवयवोपासनानामपि ।
क्रतुवत् ।
यथा क्रतुषु दर्शपूर्णमासाप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एवैकोविवक्ष्यते न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् ।
नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य तद्वत् ।
कुत एतद्भूमैव ज्यायानिति ।
तथाहि श्रुतिर्भूम्नो ज्यायस्त्वं दर्शयति एकवाक्यतावगमात् ।
एकं हीदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते ।
तथाहि - प्राचीनशालप्रभृतय उद्दालकावसानाः षडृषयो वैश्वानरविद्यायां परिनिष्ठमप्रतिपद्यमाना अश्वपतिं कैकेयं राजानमभ्याजग्मुरित्युपक्रम्यैकैकस्यर्षेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा ऽमूर्धा त्वेष आत्मन इति होवाचऽ (छा. 5.12.2) इत्यादिना मूर्धादिभावं तेषां विदधाति ।
ऽमूर्धा तेव्यपतिष्यद्यन्मां नागमिष्यःऽ (छा. 5.12.2) इत्यादिना च व्यस्तोपासनमपवदति ।
पुनश्च व्यस्तोपासनं व्यावर्त्य समस्तोपासनमेवानुवर्त्य ऽस सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिऽ (छा. 5.18.1) इति भूमाश्रयमेव फलं दर्शयति ।
यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणं तदेवं सत्यङ्गफलानि प्रधान एवाभ्युपगतानीति द्रष्टव्यम् ।
तथोपाःस इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थं न व्यस्तोपासनविधानार्थम् ।
तस्मात्समस्तोपासनपक्ष एव श्रेयानीति ।
केचित्त्वत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारो ऽनुमन्यत इति कथयन्ति तदयुक्तम् ।
एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् ।
ऽमूर्धा ते व्यपतिष्यत्ऽ (छा. 5.12.2) इति चैवमादिनिन्दावचनविरोधात् ।
स्पष्टो चोपासंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् ।
सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणाप्युपपद्यमानत्वात्
भूम्नः क्रतुवत् ।
द्युलोकादिषु प्रत्येकं वैश्वानरत्वोपास्तिर्व्यस्तोपास्तिस्तदवयव्युपास्तिः समस्तोपास्तिरिति भेदः ।
आख्यायिका पूर्वमेव व्याख्याता ।
अत्रोभयत्र विधिफलयोः श्रवणादेकवाक्यत्वोपपत्तेश्च संशयमाह- तत्रेति ।
ऽसैव हि सत्यादयःऽइत्यत्र तद्यत्तत्सत्यमिति प्रकृताकर्षाद्विद्यैक्यमुक्तं तद्वदत्रैक्यहेत्वभावादगतार्थत्वं मत्वा पूर्वत्रोद्गीथादिश्रुत्या संनिधिबाधेनोद्गीथाद्युपास्तीनां सर्वशाखासूपसंहारवद्व्यस्तोपास्तीनां विधिश्रुतेः फलश्रवणस्य च समस्तोपास्तिसंनिधिप्राप्तं स्तुत्यर्थत्वं बाधित्वा तद्विधेयत्वमिति पूर्वपक्षमाह- प्रत्यवयवमिति ।
फलानुक्तौ पूर्वोत्तरपक्षसिद्धिरेव फलं मन्तव्यम् ।
सुतं खण्डितं सोमद्रव्यं तस्यैव प्रस्तुत्वमासमन्तात् सुतत्वमवस्थाभेदः ।
सोमयागसंपत्तिस्तव कुले दृश्यत इति यावत् ।
आत्मनो वैश्वानरस्य मूर्धेव सुतेजा इति वाक्यप्रकरणाभ्यां व्यस्तोपास्तीनां समस्तोपास्त्यन्तर्भावेन प्रयाजदर्शवदेकप्रयोगत्वे सिद्धे प्रधानतदङ्गफलानामर्थवादगतानामेकप्रधानफलतयोपसंहाराद्वाक्यभेदो न युक्त इति सिद्धान्त्याशयः ।
एकदेशिव्याख्यामनूद्य दूषयति- केचिदिति ।
यद्युभयथोपासनं सिद्धान्तस्तर्हि व्यस्तोपासमेवेति पूर्वपक्षो वक्तव्यः, स च न संभवतीत्याह- स्पष्टे चेति ।
कथं तर्हि सूत्रे ज्यायस्त्वोक्तिस्तत्राह- सौत्रस्योति ।
व्यस्तोपास्तीनामप्रामाणिकत्वद्योतनार्थं तदुक्तिरिति भावः
एन्द् ब्स्चोम्_3,3.32.57
स्तर्त् ब्स्चोम्_3,3.33.58
33 शब्दादिभेदाधिकरणम् । सू. 58
नाना शब्दादिभेदात् । ब्ब्स्_3,3.58 ।
पूर्वस्मिन्नधिकरणे सत्यमपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम् ।
अतः प्राप्ता बुद्धिरन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्योपाशिष्यन्त इति ।
अपिच नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते ।
वेद्यं हि रूपं विद्याया द्रव्यदैवतमिव यागस्य ।
वेद्यश्चैक एवेस्वरः श्रुतिनानत्वे ऽप्यवगम्यते ऽमनोमयः प्राणशरीरःऽ (छा. 3.14.2) ऽकं ब्रह्म खं ब्रह्मऽ (छा. 4.10.5) ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8.1.5) इत्येवमादिषु ।
तथा एक एव प्राणः प्राणो वाव संवर्गःऽ (छा. 4.3.3) ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. 5.1.1) ऽप्राणो ह पिता प्राणो माताऽ (छा. 7.15.1) इत्येवमादिषु ।
वैद्यैकत्वाच्चविद्यैकत्वम् ।
श्रुतिनानात्वमप्यस्मिन्पक्षे गुणान्तरपरत्वान्नानार्थकम् ।
तस्मात्स्वपरशाखाविहितमेकद्यव्यपाश्रयं गुणजातंमुपसंहर्तव्यं विद्याकार्त्स्न्यायेति ।
एवं प्राप्ते प्रतिपद्यते नानेति ।
वेद्याभेदे ऽप्येवञ्जातीयकाविद्या भिन्ना भवितुमर्हति ।
कुतः शब्दादिभेदात् ।
भवति हि शब्दभेदः ऽवेदऽ ऽउपासीतऽ ऽस क्रतुं कुर्वतिऽ (छा. 3.14.1) इत्येवमादिः ।
शब्दभेदाश्च कर्मभेदहेतुः समधिगतः पुरस्ताच्छब्दान्तरे कर्मभेदः कृतानुबन्धत्वादिति ।
आदिग्रहणाद्गुणादयो ऽपि यथासंभवं भेदहेतवो योजयितव्याः ।
ननु वेदेत्यादिषु शब्दभेद एवावगम्यते न यजतीत्यादिवदर्थभेदः सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् अर्थान्तरासंभवाच्च ।
तत्कथं शब्दभेदाद्विद्याभेद इति ।
नैष दोषः ।
मनोवृत्त्यर्थत्वाभेदे ऽप्यनुबन्धभेदाद्वेद्यबेदे सति विद्याभेदोपपत्तेः ।
एकस्यापीश्वरस्योपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते ।
तथैकस्यापि प्राणस्य तत्र तत्रोपास्यस्यभेदे ऽप्यन्यादृग्गुणो ऽन्यत्रोपासितव्यो ऽन्यादृग्गुणश्चान्त्रेत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते ।
नचात्रैको विद्याविधिरितरे गुणविधय इति शक्यं वक्तुम् ।
विनियोगमनायां हेत्वभावात् ।
अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः ।
नचास्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः ।
प्रतिप्रकरणं चेदङ्कामेनेदमुपासितव्यमिदङ्कामेन चेदमिति नैराकाङ्क्ष्यावगमान्नैकवाक्यतापत्तिः ।
नचात्र वैश्वानरविद्यायामिव समस्तचोदनापरास्ति यद्बलेन प्रतिप्रकरणवर्तिन्यवयवोपासनानि भूत्वैकवाक्यतामियुः ।
विद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ् कुशे प्रतिज्ञायमाने समस्तगुणोपसंहारो ऽशक्यः प्रतिज्ञायेत ।
तस्मात्सुष्ठूच्यते नाना शब्दादिभेदादिति ।
स्थिते चेतस्मिन्नधिकरणे सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम्
नाना शब्दादिभेदात् ।
शाण्डिल्यादिब्रह्मविद्यैका नाना वा तथा संवर्गादि प्राणविद्यैका नाना वेति रूपैक्यभावाभावाभ्यां संशये दृष्टान्तसंगत्या पूर्वपक्षमाह- पूर्वस्मिन्निति ।
रूपैक्याच्च विद्यैक्यमित्याह- अपिचेति ।
विद्यैक्यं चेदेकश्रुत्युक्तविद्यायाः श्रुत्यन्तरे ऽप्युक्तिर्वृथेत्यत आह- श्रुतिनानात्वमपीति ।
पूर्वपक्षफलमाह- तस्मादिति ।
सिद्धान्ते तु गुणानुपसंहार इति मत्वा सूत्रं योजयति- वेद्याभेदे ऽपीति ।
ननु भिन्नभावार्थवाचकशब्दः शब्दान्तरं यथा ऽयजति ददाति जुहोतिऽइति तस्मिञ्शब्दभेदे कर्मशब्दितविध्यर्थभावानाया भेदो युक्तस्तस्याः कृतानुबन्धत्वाद्भेदेन स्वीकृतविषयत्वाद्भावार्थभेदादिति यावत् ।
प्रकृते तु वेदोपासीतेत्यादिशब्दार्थोपास्तेर्यागदानहोमवत्स्वतो भेदाभावात्सिद्धगुणकब्रह्मणा एकत्वेन विषयतो ऽपि भेदाभावात्कथमुपास्तिभेद इति शङ्कते- नन्विति ।
अत्र सूत्रे शब्दभेदो ऽभ्युच्चयमात्रतयोक्तः, विद्यानानात्वे सम्यग्घेतवस्त्वादिपदोपात्ता गुणादय एव ।
तथाहि सिद्धस्यापि गुणस्य कार्यान्वयितया कार्यत्वमस्ति ।
यथा आरुण्यादिगुणानां क्रयणभावनान्वयितया कार्यत्वं तथाच तत्तत्प्रकरणेषूत्पत्तिशिष्टैरुपास्तिभावनान्वयितया साध्यैस्तत्तद्गुणैर्विशिष्टतयोपास्यरूपाभेदादुपासनाभेदः ।
यथा छत्रचामरादिगुणभेदेन राजोपास्तिभेदः, यथावामिक्षावाजिनगुणभेदेन यागभेदस्तद्वत् ।
तथा प्रतिविद्यं फलसंयोगभेदाद्दहरशाण्डिल्यादिसमाख्याभेदाद्भेद इति समाधत्ते- नैष दोष इत्यादिना ।
यदुक्तं श्रुतिनानात्वं गुणान्तरविध्यर्थमिति तन्नेत्याह- न चात्रैक इति ।
किञ्च प्राप्तविद्यानुवादेनाप्राप्तानेकगुणविधाने वाक्यभेदः स्यादित्याह- अनेकत्वाच्चेति ।
किञ्च विद्यैक्यपक्षे गुणानां पुनरुक्तिर्वृथा, नच प्रत्यभिज्ञानार्था ब्रह्मैक्यादेव तत्सिद्धेः, विद्यानानात्वपक्षे तु गुणानामप्राप्तेः सा प्राप्यर्थेत्याह- न चास्मिन्पक्ष इति ।
फलभेदाच्चोदनैक्याभावात्सर्वगुणध्यानस्याशक्यत्वाच्च विद्या नानेत्याह- प्रतिप्रकरणं चेत्यादिना ।
दहरध्यातुः सर्वेषु लोकेषु कामचारो भवति वैश्वानरध्याता सर्वत्रान्नमत्तीत्यादिफलभेद इत्यर्थः ।
ननु विद्यानानात्वे सिद्धे पश्चाद्दहरादिविद्या प्रतिवेदान्तमेकानेका वेति चिन्तोचिता तत्कथमादौ सा कृतेत्यत आह- स्थिते चेति ।
विद्यानानात्वाधिकरणं पादादावेव संगतमत्र प्रासङ्गिकमिति भावः
एन्द् ब्स्चोम्_3,3.33.58
स्तर्त् ब्स्चोम्_3,3.34.59
34 विकल्पाधिकरमम् । सू. 59
विकल्पो ऽविशिष्टफलत्वात् । ब्ब्स्_3,3.59 ।
स्थिते विद्याभेदे विचार्यते किमासामिच्छया समुच्चयो विकल्पो वा स्यात्, अथवा विकल्प एव नियमेनेति ।
तत्र स्थितत्वात्तावद्विद्याभेदस्य न समुच्चयनियमे किञ्चित्कारणमस्ति ।
ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते ।
नैष दोषः ।
नित्यताश्रुतिर्हि तत्र कारणं नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति ।
तस्मान्न समुच्चयनियमः ।
नापि विकल्पनियमः ।
विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् ।
पारिशेष्याद्याथाकाम्यमापद्यते ।
नन्वविशिष्टफलत्वादासां विकल्पो न्याय्यः ।
तथाहि - मनोमयः प्राणशरीरः (छा. 3.14.2) ऽकं ब्रह्म खं ब्रह्मऽ (छा.4.105) ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8 1.5) इत्येवमाद्यास्तुल्यवदीश्वरप्राप्तिफला लक्ष्यन्ते ।
नैष दोषः ।
समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु यताकाम्यदर्शनात् ।
तस्माद्यथाकाम्यप्राप्तावुच्यते विकल्प एवासां भवितुमर्हति न समुच्चयः ।
कस्मात् ।
अविशिष्टफलत्वात् ।
अविशिष्टं ह्यासां फलमुपास्यविषयसाक्षात्करणम् ।
एकेन चोपासनेन साक्षात्कृ उपास्ये विषय ईश्वरादौ द्वितीयमनर्थकम् ।
अपि चासंभवः ।
साक्षात्करणस्य समुच्चयपक्षे चित्तविक्षेपहेतुत्वात् ।
साक्षात्करणसाद्यं च विद्याफलं दर्शयन्ति श्रुतयः -
ऽयस्य स्यादद्धा न विचिकित्सास्तिऽ (छा. 3.14.4) इति ऽदेवो भूत्वा देवानप्येतिऽ (बृ. 4.1.2) इति चैवमाद्याः ।
तस्मादविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्याद्यावदुपास्यविषयसाक्षात्करमेन तत्फलं प्राप्तमिति
विकल्पः ।
विद्यानां स्वरूपमुक्त्वानुष्ठानप्रकारो ऽत्र निरूप्यत इत्युपजीव्यत्वसंगतिमाह- स्थित इति ।
विद्यास्त्रिविधाः अहङ्ग्रहास्तटस्था अङ्गाश्रिताश्चेति ।
तत्राहङ्ग्रहविद्यासु याथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यात्संशयमाह- किमिति ।
पूर्वपक्षे यथेच्छमनुष्ठानमित्यनियमः सिद्धान्ते विकल्पेनानुष्ठानमिति नियम इति फलभेदः तत्रानियमं साधयति- तत्र स्थितत्वादित्यादिना ।
एकपुरोडाशफलत्वाद्यथा व्रीहियवयोर्विकल्पस्तथा विकल्पनियम एवासां विद्यानां न्याय्यः, तुल्यफलत्वात् ।
नच फलभूयस्त्वार्थिनः काम्यकर्मसमुच्चयो ऽपि दृष्ट इति वाच्यम्, ईश्वरसाक्षात्कारात्परं फलभेदे ऽप्यासामहङ्ग्रहोपास्तीनां साक्षात्कारात्मकफलस्य तुल्यत्वात्, तस्य चैकयाकृतत्वे अन्यस्याः कृत्याभावाच्चित्तविक्षेपकतया तद्विघातकत्वाच्चेति सिद्धान्तभाष्यार्थः ।
मास्तु साक्षात्कार इत्यत आह- साक्षात्करणसाध्यं चेति ।
यस्य पुंसः, अद्धा ईश्वरो ऽहमिति साक्षात्कारः स्याद्विचिकित्सा च नास्ति अहमीश्वरो न वेति तस्यैवेश्वरप्राप्तिरित्यर्थः ।
जीवन्नेव भावनया देवत्वं साक्षात्कृत्य देहपातोत्तरकालं देवान्प्राप्नोतीति श्रुत्यन्तरार्थः ।
अहङ्ग्रहाणामनुष्ठानप्रकारमुपसंहरति- तस्मादिति
एन्द् ब्स्चोम्_3,3.34.59
स्तर्त् ब्स्चोम्_3,3.35.60
35 काम्याधिकरणम् । सू. 60
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ब्ब्स्_3,3.60 ।
अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम् ।
यासु पुनः काम्यासु विद्यासु ऽस य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितिऽ (छा. 3.15.2) ऽस यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यताकामचारो भवतिऽ (छा. 7.1.5) इति चैवमाद्यासु क्रियावददृष्टेनात्मनात्मीयं फलं साधयन्तीषु साक्षात्करणापेक्षा नास्ति ।
ता यताकामं समुच्चीयेरन्न वा समुच्चीयेरन्पूर्वहेत्वाभावात् ।
पूर्वस्याविशिष्टफलत्वादित्यस्य विकल्पहेतोरभावात्
36 यथाश्रयभावादिकरणम् । सू. 61-66
काम्यास्तु ।
तटस्थोपास्तयो ऽत्र विषयस्तासु किं विकल्प उत यथाकाममनुष्ठानमिति पूर्ववत्संशये सत्युपास्तित्वाविशेषादहङ्ग्रहवद्विकल्प इति प्राप्तावपवादं सिद्धान्तयति- अविशिष्टेति ।
स यः कश्चिदेतं वायुमेवं गोत्वेन कल्पितानां दिशां वत्सं वेदोपास्ते नासौ पुत्रमरणनिमित्तं रोदनं रोदिति लभते नित्यमेव जीवत्पुत्रो भवतीत्यर्थः ।
अहङ्ग्रहदृष्टान्ते साक्षात्कारद्वारत्वमुपाधिरिति भावः
एन्द् ब्स्चोम्_3,3.35.60
स्तर्त् ब्स्चोम्_3,3.36.61
अङ्गेषु यथाश्रयभावः । ब्ब्स्_3,3.61 ।
कर्माङ्गेषूद्गीथादिषु य आश्रिताः प्रत्यया वेदत्रयविहिताः किं ते समुच्चीयेरन्किंवा यथाकामं स्युरिति संशये यथाश्रयभाव इत्याह ।
यतैवैषामाश्रयाः स्तोत्रादयः संभूय भवन्त्येवं प्रत्यया अपि आश्रयतन्त्रत्वात्प्रत्ययानाम्
संप्रत्यङ्गावबद्धोपास्तीनामनुष्ठानक्रमं वक्तुं पूर्वपयति- अङ्गेष्विति ।
अङ्गाश्रितत्वात्सफलत्वाच्च संशयमाह- किमिति ।
यथा क्रत्वनुष्ठाने तदाश्रिताङ्गानां समुच्चित्यानुष्ठाननियमस्तथाङ्गानुष्ठाने तदाश्रितोपास्तीनां तन्नियम इति सूत्रार्थः ।
ननु तन्निर्धारणानियम इत्यत्राङ्गाश्रितानां गोदोहनवदनङ्गत्वमुक्तं तत्कथमनङ्गानामङ्गवत्समुच्चयशङ्केत्युच्यते ।
अङ्गान्यनुष्ठापयन्प्रयोगविधिर्यद्युपासनानि नानुष्ठापयेत्तर्हि तेषां तदाश्रितत्वं व्यर्थमिति मन्वानस्य शङ्केति भावः
एन्द् ब्स्चोम्_3,3.36.61
स्तर्त् ब्स्चोम्_3,3.36.62
शिष्टेश् च । ब्ब्स्_3,3.62 ।
यथा वाश्रयाः स्तोत्रादयस्त्रिषु शिष्यन्त एवमाश्रिता अपि प्रत्ययाः ।
नोपदेशकृतो ऽपि कश्चिद्विशेषो ऽङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः
तर्हि गोदोहनस्यापि समुच्चयः स्यादित्यत आह- शिष्टेश्चेति ।
शिष्टिः शासनं विधानमिति यावत् ।
विहितत्वाविशेषात्समुच्चयो ऽङ्गत्वादित्यर्थः ।
गोदोहनस्य तु नानुष्ठाननियमः, चमसस्थाने विहितत्वात्तन्नियमे चमसविधिवैयर्थ्यात् ।
उपासनानां तु न कस्यचिदङ्गस्य स्थाने विहितत्वमिति समुच्चयनियमो न विरुध्यत इति भावः
एन्द् ब्स्चोम्_3,3.36.62
स्तर्त् ब्स्चोम्_3,3.36.63
समाहारात् । ब्ब्स्_3,3.63 ।
होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति (छा. 1.5.5) इति च प्रणवोद्गीथैकत्वाविज्ञानमाहात्म्यादुद्गातास्वकर्मणयुत्पन्नं क्षतं होत्रात्कर्मणः प्रतिसमादधातीति ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात्स्रववेदोदितप्रत्ययोपसंहारसूचयतीति लिङ्गदर्शनम्
समुच्चये लिङ्गम्- समाहारादिति ।
ऽऋग्वेदिनां यः प्रणवः स सामवेदिनामुद्गीथःऽइति छान्दोग्ये प्राणवोद्गीथयोरैक्यध्यानविधिरस्ति, तस्य फलार्थवादो होतृषदनादित्यादिः ।
होतुः शंसनस्थलवाचिना होतृषदनशब्देन शंसनं लक्ष्यते-उद्गाता स्वरादिप्रमादाद्दुष्टमप्युद्गीथं सम्यक्कृताद्धोतृशंसनादनुसमाहारत्येव निर्देषं करोत्येव किल, शंस्यमानप्रणवेन स्वीयोद्गीथस्यैक्यध्यानबलादित्यर्थः ।
ततः किं तत्राह- इति ब्रुवन्निति ।
सामवेदस्थोद्गीथध्यानस्य ऋग्वेदोक्तप्रणवसंबन्धो यो दृष्टः स एवाङ्गानां सर्ववेदान्तविहितोपास्तिसमुच्चये लिङ्गं प्रणवरूपपदार्थस्योपास्तीनां च वेदान्तरोक्तत्वसादृश्याद्वेदान्तरोक्ताङ्गसंबन्धस्यापि समानत्वादित्यर्थः
एन्द् ब्स्चोम्_3,3.36.63
स्तर्त् ब्स्चोम्_3,3.36.64
गुणसाधारण्यश्रुतेश् च । ब्ब्स्_3,3.64 ।
विद्यायां च विद्याश्रयं सन्तमोङ्कारं वेत्रयसाधारणांश्रावयति- ऽतेनेयं त्रयी विद्या वर्तत ओमित्याश्रायत्योमिति शंसत्योमित्युद्गायतिऽ (छा. 1.1.9) इति च ।
ततश्चाश्रयसादारण्यादाश्रितसाधारम्यमिति लिङ्गदर्शनमेव ।
अथवा गुणसाधारण्यश्रुतेश्चेति ।
यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युर्न स्यात्ततस्तदाश्रयाणां प्रत्ययानां सहभावः ।
ते तूद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते ।
तथश्चाश्रयसहभावात्प्रत्ययसहभाव इति
ओङ्कारस्य ध्येयस्य साधारण्यादपि तदाश्रितध्यानानां समुच्चित्यानुष्ठानं गम्यत इति लिङ्गान्तरमाह- गुणेति ।
तेनोङ्कारेण, वेदत्रयोक्तं कर्म प्रवर्तत इत्यर्थः अन्वयमुखेनोक्तमेवार्थं व्यतिरेकतो ऽपि व्याचष्टे- अथवेति
एन्द् ब्स्चोम्_3,3.36.64
स्तर्त् ब्स्चोम्_3,3.36.65
न वा तत्सहभावाश्रुतेः । ब्ब्स्_3,3.65 ।
न वेति पक्षव्यावर्तनम् ।
न यताश्रयभाव आश्रितानामुपासनानां भवितुमर्हति ।
कुतः - तत्सहभावाश्रुतेः ।
यथा हि त्रिवेदीविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते - ऽग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति स्तोत्रमनुशंसति प्रस्तोतः साम गाय होतरेतद्यजऽ इत्यादिना ।
नैवमुपासनानां सहभावश्रुतिरस्ति ।
ननु प्रयोगवचन एषां सहभावं प्रापयेत् ।
नेति ब्रूमः - पुरुषार्थत्वादुपासनानाम् ।
प्रयोगवचनो हि ऋत्वर्तानामुद्गीथादीनां सहभावं प्रापयेत् ।
उद्गीथाद्युपासनानि ऋत्वर्थाश्रयाण्यपि गोदोहनादिवत्पुरुषार्थनीत्वोचाम ऽपृथग्घ्यप्रतिबन्धः फलम्ऽ (ब्र.सब. 3.3.42) इत्यत्र ।
अयमेव चोपदेशाश्रयो विसेषो ऽङ्गानां तदालम्बनानां चोपासनानां यदेकेषां क्रत्वर्थत्वमेकेषां पुरुषार्थत्वमिति ।
परं च लिङ्गद्वयमकारणमुपासनसहभावस्य श्रुतिन्यायाबावात् ।
नच प्रतिप्रयोगमाश्रयकार्त्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् ।
अतत्प्रत्युक्तत्वादुपासनानाम् ।
आश्रयतन्त्राण्यपि ह्युपासनानि काममाश्रयाभावे मा भूवन्न त्वाश्रयसहभावेन सहभावनियममर्हन्ति तत्सहभावाश्रुतेरेव ।
तस्माद्यथाकाममेवोपासनान्यनुष्ठीयेरन्
फलेच्छाया अनियमादुपास्त्यनियम एव युक्तः, अङ्गत्समुच्चयनियमे मानाभावादिति सिद्धान्तयति- न वेति ।
प्रयोगविधिः खलु साङ्गप्रधानानुष्ठाननियामको न त्वनङ्गानां संग्रहक इत्याह- नेति ब्रूम इति ।
विमतोपास्तयः क्रतौ न समुच्चित्यानुष्ठोयाः, भिन्नफलत्वाद्गोदोहनवदिति भावः ।
शिष्टेश्चेत्युक्तं निरस्यति- अयमेवेति ।
समाहाराद्गुणसाधारण्यश्रुतेश्चेत्युक्तं लिङ्गद्वयमपि मानान्तरप्राप्तस्य द्योतकं न स्वयं साधकमर्थवादस्थत्वादित्याह- परं चेति ।
गुणसाधारण्यसूत्रस्य द्वितीयां व्याख्यां दूषयति- नचेति ।
तत्प्रयुक्तत्वाभावे तदाश्रितत्वं कथमित्यत आह- आश्रयेति ।
इदमेव तेषां अङ्गाश्रितत्वं यदङ्गाभावे सत्यसत्त्वं न त्वङ्गव्यापकत्वमित्यर्थः
एन्द् ब्स्चोम्_3,3.36.65
स्तर्त् ब्स्चोम्_3,3.36.66
दर्शनाच् च । ब्ब्स्_3,3.66 ।
दर्शयति च श्रुतिसहभावं प्रत्ययानम् - ऽएवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजो ऽभिरक्षतिऽ
(छा. 4.17.10) इति ।
सर्वप्रत्ययोपसंहारे हि सर्वे सर्वविदः इति न विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां संकीर्त्येत ।
तस्माद्यथाकाममुपासनानां समुच्चयो विकल्पो वेति
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाद्यायस्य तृतीयः पादः
किञ्च विदुषा ब्रह्मणान्येषामृत्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह- दर्शनाच्चेति ।
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मण इत्यर्थः
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकव्याख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य तृतीयः पादः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0