भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 53

53.1

fन्: चोद्यत इति चोदना पुरुषप्रयत्नः स हि पुरुषव्यापारः ।
ब्रह्मस्वरूपं निर्धार्य तज्ज्ञानसाधनोपासनास्वरूपमाह- सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषादिति ।
पादसंगतिमाह- व्याख्यातमिति ।
पूर्वपादे तत्त्वंपदार्थविवेकः कृतः ।
इह तत्फलं वाक्यार्थज्ञानमानन्दादयः प्रधानस्येति सूत्रेणापुनरुक्तापेक्षिततत्पदद्वाच्यार्थोपसंहारेण निर्धार्यत इति फलफलिभावः संगतिः ।
सगुणवाक्यार्थविद्याचिन्ता तु तद्विद्यानां चित्तैकाग्र्यद्वारा निर्गुणज्ञानसाधनत्वात्क्रियत इति मन्तव्यम् ।
संप्रतिः ।
निर्गुणज्ञानं भेदाभेदविचारविषयत्वेनोक्तमिति मन्वान आक्षिपति- नन्विति ।
वेद्यभेदे विद्याभेदचिन्ता स्यात् ब्रह्मणस्तु वेद्यस्यैक्यान्न चिन्तावसर इत्यर्थः ।
ब्रह्मैक्ये ऽपि धर्मभेदाच्चिन्तेत्यत आह- एकरूपत्वाच्चेति ।
निर्धर्मत्वादित्यर्थः ।
एकरूपे ऽपि ब्रह्मण्यनेकप्रकारसंभवाद्भेदशङ्का इत्यत आह- नचेत्यादिना ।
पूर्वपक्षे ज्ञानभेदशङ्कानुपपत्तिमुक्त्वा चोदनाद्यभेदाज्ज्ञानाभेद इति सिद्धान्तो ऽप्ययुक्त इत्याह- नाप्यस्येति ।
एवं पादारम्भमाक्षिप्य समाधत्ते- तदुच्यत इति ।
सगुणविद्यास्वेव भेदाभेदचिन्ता क्रियते निर्गुणविद्यायां त्वैक्यं सिद्धमिति वाच्यार्थरूपगुणोपसंहारमात्रं क्रियते वाक्यार्थनिर्णयायेति भावः ।
पञ्चाग्निप्राणदहरशाण्डिल्यवैश्वानरादिविद्या मिथोभिन्ना इति ऽनानाशब्दादिभेदात्ऽइत्यत्र वक्ष्यते ।
अत्र तु मिथोभिन्नास्ताः किं प्रतिशाखं भिद्यान्ते न वेति नामादिभेदाच्चोदनाद्यविशेषाच्च संशयः ।
पूर्वपक्षे विद्याभेदाद्गुणानुपसंहारः सिद्धान्ते त्वभेदादुपसंहार इति फलभेदः ।
पूर्वतन्त्रे शाखान्तराधिकरणपूर्वपक्षसूत्रं नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यादिति ।
तत्रोक्ता हेतवो नामादयो विद्याभेदार्थमिहोच्यन्ते ऽअथैष ज्योतिरथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतऽइत्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणाख्यगुणविधिमाशङ्क्य ज्योतिरितिपदस्य कर्मान्तरनामत्वसंभवे ज्योतिष्टोमलक्षकत्वायोगादथेति प्रकरणविच्छेदाच्च ज्योतिष्टोमात्कर्मान्तरं विशिष्टदक्षिणाकं विधीयत इति नाम्नः कर्मभेदकत्वमुक्तम ।
ज्योतिरादिष्वित्यादिपदेनाध्वर्यवं हौत्रमिति संज्ञाभेदात्कर्मभेदो ग्राह्यः ।
तप्तं क्षीरं दध्ना कठिनमामिक्षा, तत्र द्रवं जलरूपं वाजिनमिति भेदः, ऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽइत्यत्र वैश्वदेव्यामिक्षायागे वाजिनाख्यगुणविधिः वाजिभ्य इति विश्वेदेवानुवादादित्याशङ्क्यामिक्षां पर्युपसर्जनत्वेनोक्तविश्वदेवानां वाजिभ्य इत्यनुवादायोगादुत्पत्तिशिष्टामिक्षावरुद्धे कर्मणि वाजिनद्रव्यस्यानाकाङ्क्षितस्य विध्ययोगाद्वाजिदेवताको वाजिनयागः कर्मान्तरमिति द्रव्यदेवताख्यरूपभेदात्कर्मभेदः सिद्धान्तितः ।
आदिपदात् ऽऐन्द्रं दध्यैन्द्रं पयःऽइति द्रव्यभेदाद्यागभेदो ग्राह्यः ।
एवमिहापि पञ्चाग्निषडग्निरूपभेदाद्विद्याभेदो वाजिच्छन्दोगयोः ।
तथा रेतोन्यूना वागादयश्छान्दोग्ये तत्सहिता वाजिनामिति प्राणविद्याभेदः, कारीरिवाक्याध्ययने तैत्तिरीयकाणां भूमौ भोजनं धर्मविशेषो नान्येषां, अग्न्यध्ययने केषाञ्चिदुपाध्यायार्थमुदकाहरणं धर्मो नान्येषां, अश्वमेधाध्ययने ऽश्वघासानयनं केषाञ्चिदेव नान्येषां, नच तान्येव कारीर्यादीनि कर्माणि धर्मविशेषमपेक्षन्ते नापेक्षन्ते चेति युक्तं, अतो धर्मविशेषाच्छाखान्तरे कर्मभेदः शङ्कितस्तथात्रापि मुण्डकाध्ययेन केषाञ्चिदेव शिरस्यङ्गारपात्रधारणरूपं व्रतं नान्येषामिति विद्याभेदः स्यात् पुनरुक्तिरभ्यासः ।
यथा ऽसमिधो यजति तनूनपातं यजतिऽइति यजत्यभ्यासात्प्रयाजानां भेद उक्तस्तथा शाखान्तरे ऽभ्यासाद्विद्याभेदः ।
आदिपदान्निन्दादिग्रहः, ऽप्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति ये ऽग्निहोत्रम्ऽइत्यनुदितहोमस्य ऽयदुदिते सूर्ये प्रातर्जुहुयाद्यथातिथये प्रद्रुताय शून्यायावसाथायाहार्यं हरन्ति तादृगेव तत्ऽइत्युदितहोमस्य च निन्दाश्रुतेर्भेदः, एकस्यैवोदिते ऽनुदिते चानुष्ठानायोगात्, तथोदितानुदितहोमातिक्रमकृतप्रायश्चित्तादप्यग्निहोत्रभेदः शङ्कितः ।
एते निन्दाप्रयश्चित्ते वेदान्तविद्यासु न विद्येते इति नोदाह्रियेते ।
यथा सर्वशाखाविहितस्य कर्मणो ज्ञातुं कर्तुं चाशक्तेर्भेदस्तथा सर्ववेदान्ताध्ययनज्ञानाद्यशक्तेस्तत्तद्वेदान्तविद्याभेदः स्यात् तथा शाखानां सर्वासामेकरूपा समाप्तिर्नोच्यते किन्तु कस्याश्चित्क्वचित्कर्मणि समाप्तिरतः समाप्तिवचनभेदात्प्रतिशाखं कर्मभेदः शङ्कितः, तथा कस्यचिद्वेदान्तस्योङ्कारसार्वात्म्ये समाप्तिः कस्यचिदन्यत्रेति विद्याभेदः, अन्यार्थदर्शनमर्थवादस्तद्भेदात्कर्मभेदवद्विद्याभेद इति पूर्वपक्षसूत्रोक्ता हेतवो दर्शितास्ते केचित्सिद्धान्ते पूर्वपक्षे चात्रोपयुञ्जन्त इति ।
तथा शब्दान्तराभ्याससंख्यागुणप्रक्रियानामधेयानि कर्मभेदकानि, तत्र नामधेयं गुणो रूपमभ्यासश्चेति त्रयं व्याख्यातं, यजेद्दद्याज्जुहुयादिति प्रकृतिशब्दभेदेन धात्वर्थभेदात्तदवच्छिन्नभावनाख्यकर्मभेद उक्तस्तथात्र वेदोपास्त इत्यादिशब्दभेदाद्विद्याभेदः, ऽतिस्र आहुतीर्जुहोतिऽइति संख्यया कर्मभेदवत् ऽवायुप्राणौऽइति द्वित्वसंख्यया संवर्गविद्याभेदः स्यात् ।
नित्याग्निहोत्रप्रकरणात्प्रकरणान्तरे कुण्डपायिनामयने ऽमासमग्निहोत्रं जुह्वतिऽइति श्रुतमग्निहोत्रं प्रकरणान्तरस्थत्वात्कर्मान्तरमिति सिद्धान्तितम् ।
तथात्र वेदान्तभेदे प्रकरणभेदादुभास्तिभेद इति पूर्वपक्षः ।
सिद्धान्तयति- एवमिति ।
सर्वैर्वेदान्तैः प्रतीयन्त इति सर्ववेदान्तप्रत्ययानि तैर्विहितानीत्यर्थः ।
उक्तनामादिभिरग्निहोत्रादिकर्मणां प्रतिशाखं भेदे प्राप्ते शाखान्तराधिकरणसिद्धान्तसूत्रं ऽएकं वा संयोगरूपचोदनाख्याविशेषात्ऽइति ।
तत्र चोदनाविधायकः शब्दश्चोदितः प्रयत्नो वा ।
तस्या अविशेषमाह- यथैकस्मिन्निति ।
एकधात्वर्थहोमावच्छिन्नप्रयत्नैक्यादुपास्तियत्नैक्यमित्यर्थः ।
यथा ज्येष्ठत्वादिगुणकप्राणविद्या सर्वशाखास्वेका तथा पञ्चाग्निविद्याप्येका फलसंयोगाद्यविशेषात्, तथान्यापि विद्याभिन्नेत्याह- एवं पञ्चाग्नीति ।
पूर्वपक्षहेतून्निराचष्टे- ये त्विति ।
काठकमित्यादिनाम्ना कर्मभेदो न युक्तः, कुतः अचोदनाभिधानत्वात्काठकादिशब्दानां ग्रन्थनामतया कर्मवाचित्वाभावादतो भिन्ननामकशाखाग्रन्थभेदे ऽपि ताद्विहितं कर्मैकमेव, अल्परूपभेदो ऽपि न कर्मैक्यविरोधी, धर्मविशेषस्त्वध्ययनाङ्गं न कर्माङ्गमतो न कर्मभेदकः शाखाभेदे पुनरुक्तिरसिद्धा,
निन्दान्यार्थदर्शनयोरपि न भेदकत्वं तत्तद्विधिस्तुतिमात्रत्वाद्बहुशाखाध्ययनाशक्तावपि स्वशाखनुक्तविशेषस्यापेक्षितस्यान्यतो ग्रहणसंभवादशक्तिरभेदिका, एकस्मिन्नपि कर्मण्यङ्गलोपादिना प्रायश्चित्तं संभवति ।

एवं समाप्तिवचनभेदो ऽप्यप्रयोजक इत्यैवं कर्माभेदप्रमाणप्राबल्ये भेदहेतवः परिहृता इत्यर्थः

53.2

एन्द् ब्स्चोम्_3,3.1.1
स्तर्त् ब्स्चोम्_3,3.1.2
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति -
भेदान् नेति चेन् नैकस्याम् अपि । ब्ब्स्_3,3.2 ।
स्यादेतत् ।
सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते ।
तथाहि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्यः ष्ठमपरमग्निमामनन्ति - ऽतस्याग्निरेवाग्निर्भवतिऽ (बृ. 6.2.14) इत्यादिना ।
छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्ति ऽअथ ह य एतानेवं पञ्चाग्नीन्वेदऽ (छा. 5.10.10) इति ।
योषां च स गुणो ऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत ।
नचात्र गुणोपसंहारः शक्यते प्रत्येतुं, पञ्चसंख्याविरोधात् ।
तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुरः प्राणान्वाक्चक्षुः श्रोतमनांसि छन्दोगा आमनन्ति ।
वाजसनेयिनस्तु पञ्चममप्यामनन्ति ऽरेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेदऽ (बृ. 6.1.6) इति ।
आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्येति चेत् ।
नैष दोषः ।
यत एकस्यामपि विद्यायामेवञ्जातीयको गुणभेद उपपद्यते ।
यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायामानत्वान्न विद्याभेदो भवितुमर्हति ।
नहि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते ।
पठ्यते ऽपि च षष्ठो ऽग्निश्छन्दोगैः - ऽतं प्रेतं दिष्टमितो ऽग्नय एवं हरन्तिऽ
(छा. 5.9.2) इति ।
वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ऽतस्याग्निरेवाग्निर्भवति समित्समित्ऽ (बृ. 6.2.14) इत्यादि समामनन्ति स नित्यानुवादः ।
अथाप्युपासनार्थ एष वादस्तथापि स गुणः शक्यतेछन्दोगैरप्युपसंहर्तुम् ।
नचात्र पञ्चसंख्याविरोधे आशङ्क्यः ।
सांपादिकाग्न्यभिप्राया ह्येषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनीत्यदोषः ।
एवं प्राणसंवादेष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते ।
नचावापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्चाशङ्क्यः ।
कस्यचिद्वेद्यांशस्यावापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् ।
तस्मादैकविद्यमेव

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc