ब्रह्मसूत्र2 (टीका सहित) · अध्याय 52
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां तृतीयस्याध्यायस्य द्वितीयः पादः ॥
॥ इति तृतीयाध्यायस्य तत्त्वंपदार्थपरिशोधनाख्यो द्वितीयः पादः ॥
एन्द् ब्स्चोम्_3,2.8.41
तृतीयाध्याये तृतीयः पादः ।
मार्तण्डं ध्वान्तनाशाय तिलकस्वामिनं मुदे ।
विघ्नेशं विघ्नविध्वस्त्यै प्रणमामि मुहुर्मुहुः ॥
स्तर्त् ब्स्चोम्_3,3.1.1
तृतीयाध्याये तृतीयः पादः ।
[अत्र परापरब्रह्मविद्यागुणोपसंहारविवरणम्]
1 सर्ववेदान्तप्रत्ययाधिकरणम् । सू. 1-4
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ब्ब्स्_3,3.1 ।
व्याख्यातं विज्ञेयस्य ब्रह्मणस्तत्त्वम् ।
इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते ।
ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवघनवदवधारितं तत्र कुतो विज्ञानभेदाभेदचिन्तावतारः ।
नहि कर्मबहुत्ववद्ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ।
ब्रह्मण एकवाक्यत्वादेकरूपत्वाच्च ।
नचैकूपे ब्रह्मण्यनेतरूपाणि विज्ञानानि संभवन्ति ।
नह्यन्यथार्थो ऽन्यथा ज्ञानमित्यभ्रान्तं भवति ।
यदि पुनरेकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तान्तरेषु प्रतिपिपादयिषितानि तेषामेकमभ्रान्तं भ्रान्तानीतराणीत्यनाश्वासप्रसङ्गो वेदान्तेषु ।
तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते ।
नाप्यस्य चोदनाद्यविशेषादभेद उच्यते ।
ब्रह्मविज्ञानस्याचोदनालक्षणत्वात् ।
अविधिप्रधानैर्हि वस्तुपर्यवसायिभिर्ब्रह्मवाक्यैर्ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ऽतत्तु समन्वयात्ऽ (ब्र.सू. 1.1.4) इत्यत्र ।
तत्कथमिमां भेदाभेदचिन्तामारभत इति ।
तदुच्यते - सगुणब्रह्मविषया प्राणादिविषया चेयं विज्ञानभेदाभेदच्न्तेत्यदोषः ।
अत्र हि कर्मवदुपासनानां भेदाभेदौ संभवतः कर्मवदेव चोपासनानि दृष्टफलानि चोच्यन्ते ।
क्रममुक्तिफलानि च कानिचित्सम्यग्ज्ञानोत्पत्तिद्वारेण ।
तेष्वेषा चिन्ता संभवति ।
किं प्रतिवेदान्तं विज्ञानभेद आहोस्विन्नेति ।
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते ।
नाम्नास्तावद्भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु ।
अस्ति चात्र वेदान्तान्तरविहितेषु विज्ञानेष्वन्यदन्यन्नाम तैत्तिरीयकं वाजसनेयकं कौथुमकं शाट्यायनकमित्येवमादि ।
तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनऽ मित्येवमादिषु ।
अस्ति चात्र रूपभेदः ।
तद्यथा - केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्यत्परे पुनः पञ्चैव पठन्ति ।
तथा प्राणसंवादादिषु केचिदूनान्वागादीनामनन्ति केचिदधिकान् ।
तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु ।
अस्ति चात्र धर्मविशेषः ।
यथाथर्वणिकानां शिरोव्रतमिति ।
एवं पुनरुक्त्यादयो ऽपि भेदहेतवो यथासंभवं वेदान्तान्तरेषु योजयितव्याः ।
तस्मात्प्रतिवेदान्तं विज्ञानभेद इति ।
एवं प्राप्ते ब्रूमः - सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिंस्तस्मिन्वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
कुतः - चेदनाद्यविशेषात् ।
आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते ।
संयोगरूपचोदनाख्याविशेषादित्यर्थः ।
यथैकस्मिन्नग्निहोत्रे शाखाभेदे ऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति ।
एवम् ऽयो ह वै ज्योष्ठं च श्रेष्ठं च वेदऽ (बृ.6.1.1, छा. 5.1.1) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना ।
प्रयोजनसंयोगो ऽप्यविशिष्ट एव ऽज्येष्ठश्च श्रेष्ठश्च स्वानां भवतिऽऽ (बृ. 6.1.1) इति ।
रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् ।
यथा च द्रव्यदेवते यागस्य रूपमेवं विज्ञेयं रूपं विज्ञानस्य तेन हि तद्रूप्यते ।
समाख्यापि सैव प्राणविद्येति ।
तस्मात्सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् ।
एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् ।
ये तु नामरूपादयो भेदहेत्वाभासास्ते प्रथम एव काण्डे न नाम्ना स्यादचोदनाभिधानत्वात् इत्यारभ्य परिहृताः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0