भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 5

5.1

fन्: उपबृंहणीयाश्चत्वारो वेदाः तत्र ।
पुराणानि सृष्ट्यादिप्रतिपादकवाक्यानि परकृतिपुराकल्परूपानर्थवादांश्च प्राधान्येनोपबृंहयन्ति प्रसङ्गादद्वैतभागं कर्मभागं च ।
न्यायशास्त्रं तु प्रमाणप्रमेयलक्षणानिरूपणेन पदार्थान्विविच्य ज्ञापयदुपबृंहयति ।
पूर्वोत्तरमीमांसे तु तात्पर्यनिर्णयद्वारोपयुक्ते ।
धर्मशास्त्रं श्रुतमनुस्मृतिं वा विधिभागमुपबृंहयति ।
शिक्षा स्थानकरणादिनिरूपणद्वारा स्वाध्यायो ऽध्येतव्य इति विध्यर्थमुपबृंहयति ।
कल्पास्तु प्रयोगनिरूपणार्थमुपयुक्ताः ।
व्याकरणं तावदस्मिन्नर्थे इदं पदं साध्विति पदार्थान्व्याकरोति ।
निरुक्तं तेषु तेषु पदेषु यौगिकमर्थं प्रदर्शयति ।
छन्दःशास्त्रं वेदगतान्गायत्र्यादिछन्दान् लक्षणमुखेन विशदयति ।
ज्योतिषं पौर्णमास्यां जयेद्देतामावास्यायाममावास्यया यजेतेत्यादिनोपात्तं कालविशेषं व्यवस्थापयति ।
तथाच तत्तद्देशव्याख्यानाय बहवो महर्षयः पुराणादिनिबन्धप्रणेतारो यत्र प्रवृत्तास्तस्य महत्त्वं व्यक्तमेव ।
विस्तररूपोर्ऽथो धर्मो यस्येति विग्रहः ।
विस्तृतमित्यर्थः ।
यस्य निश्वसितं वेदाः सर्वार्थज्ञानशक्तयः ।
श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे

5.3

वृत्तानुवादेन संगतिं वदन्नुत्तरसुत्रमवतारयति- जगदिति ।
चेदनस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात्प्रतिज्ञातं सूत्रकृता, चेतनसृष्टेर्ज्ञानपूर्वकत्वात् ।
तथा च ब्रह्म सर्वज्ञं, सर्वकारणत्वात्, यो यत्कर्ता स तज्ज्ञः, यथा कुलाल इति स्थितम् ।
तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः ।
हेतुद्वयस्यैकार्थसाधनत्वात्, एकविषयत्वमवान्तरसंगतिः ।
यद्वा वेदस्य नित्यत्वाद्ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसंगत्या वेदहेतुत्वमुच्यते ऽअस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरसःऽ
इति वाक्यं विषयः तत्किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञत्वं साधयति उत न साधयति इति संदेहः ।
तत्र व्याकरणादिवद्वेदस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्धेतोश्चेतनत्वात्सिद्धिः फलम् ।
सिद्धान्ते तत्सिद्धिः ।
अस्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसंगतयः ।
एवमापादं श्रुत्यादिसंगतय ऊह्याः ।
वेदे हि सर्वार्थप्रकाशनशक्तिरुपलभ्यते, सा तदुपादानब्रह्मगतशक्तिपूर्विका तद्गता वा, प्रकाशनशक्तित्वात् ।
कार्यगतशक्तित्वाद्वा, प्रदीपशक्तिवदितिवेदोपादानत्वेन ब्रह्मणः स्वसंबद्धाशेषार्थप्रकाशनसामर्थ्यरूपंसर्वसाक्षित्वं सिध्यति ।
यद्वा यथा अध्येतारः पूर्वक्रमं ज्ञात्वा वेदं कुर्वन्ति, तथा विचित्रगुणमायासहायो ऽनावृतानन्तस्वप्रकाशचिन्मात्रः परमेश्वरः स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं तदर्थांश्च युगपज्जानन्नेव करोतीति न वेदस्य पौरुषेयता ।
यत्र ह्यर्थज्ञानपूर्वकं वाक्यज्ञानं वाक्यसृष्टौ कारणं तत्र पौरुषेयता, अत्र च यौगपद्यान्न सा, अतो वेदकर्ता वेदमिव तदर्थमपि स्वसंबद्धं नान्तरीयकतया जनातीति सर्वज्ञ इति सिद्धान्तयति -शास्त्रेति ।
शास्त्रं प्रति हेतुत्वात्, ब्रह्म सर्वज्ञं सर्वकारणं च इति संगतिद्वयानुसारेण सूत्रयोजनामभिप्रेत्य पदानि व्याचष्टे-- महत इति ।
हेतोः सर्वज्ञत्वसिद्धये वेदस्य विशेषणानि ।
तत्र ग्रन्थतोर्ऽथतश्च महत्त्वं, हितशासनात् शास्त्रत्वम् ।
शास्त्रशब्दः शब्दमात्रोपलक्षणार्थ इति मत्वाह-- अनेकेति ।
पुराणन्यायमीमांसाधर्मशास्त्राणि शिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषाणि षडङ्गानि इति दश विद्यास्थानानि वेदार्थज्ञानहेतवः ।
तैरुपकृतस्येत्यर्थः ।
अनेन मन्वादिभिः परिगृहीतत्वेन वेदस्य प्रामाण्यं सूचितम् ।
अबोधकत्वाभावादपि प्रामाण्यमित्याह-- प्रदिपवदिति ।
सर्वार्थप्रकाशनशक्तिमत्वे ऽप्यचेतनत्वात् सर्वज्ञकल्पत्वं योनिरुपादानं कर्तृ च ।
ननु सर्वज्ञस्य यो गुणः सर्वार्थज्ञानशक्तिमत्वं वेदस्य तदन्वितत्वे ऽपि तद्योनेः सर्वज्ञत्वं कुत इत्यत आह-- न हीति ।
उपादाने तच्छक्तिं विना कार्ये तदयोगाद्वेदोपादानस्य सर्वज्ञत्वम्, अनुमानं तु पूर्वं दर्शितम् ।
न चाविद्यायास्तदापत्तिः ।
शक्तिमत्वे ऽप्यचेतनत्वादिति भावः ।
वेदः स्वविषयादधिकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात्, व्याकरणरामायणादिवदित्यनुमानान्तरम् ।
तत्र व्याप्तिमाह--यद्यदिति ।
विस्तरः शब्दाधिक्यम्, अनेनार्थतो ऽल्पत्वं वदन् कर्तृर्ज्ञानस्यार्थाधिक्यं सूचयति, दृश्यते चार्थवादाधिक्यं वेदे ।
अत्रैषा योजना--यद्यच्छास्त्रं यस्मादाप्तात्संभवति स ततः शास्त्रादधिकार्थज्ञान इति प्रसिद्धं यथा शब्दसाधुत्वादिर्ज्ञेयैकदेशोर्ऽथो यस्य तदपि व्याकरणादि पाणिन्यादेरधिकार्थज्ञात्संभवति ।
यद्यल्पार्थमपि शास्त्रमधिकार्थज्ञात् संभवति तदा ऽअस्य महतःऽइत्यादिश्रुतेर्यस्मान्महतो ऽपरिच्छिन्नाद्भूतात्सत्याद्योनेः सकाशात् अनेकशाखेत्यादिविशिष्टस्य वेदस्य पुरुषनिश्वासवदप्रयत्नेनैव संभवः तस्य सर्वज्ञत्वं सर्वशक्तिमत्वं चेति किमु वक्तव्यमिति ।
तत्र वेदस्य पौरुषेयत्वशङ्कानिरसार्थं श्रुतिस्थनिःश्वसितपदार्थमाह-- अप्रयत्नेनेति ।
प्रमाणान्तरेणार्थज्ञानप्रयासं विना निमेषादिन्यायेनेत्यर्थः ।
अत्रानुमानेन ऽयः सर्वज्ञः ऽइति श्रुत्युक्तसर्वज्ञत्वदार्ढ्याय पाणिन्यादिवद्वेदकर्तरि अदिकार्थज्ञानसत्तामात्रं साध्यते न त्वर्थज्ञानस्य वेदहेतुत्वं निःश्वसितश्रुतिविरोधात्, वेदज्ञानमात्रेणाध्येतृवद्वेदकर्तृत्वोपपत्तेश्च ।
इयान् विशेषः--अध्येता परापेक्षः ईश्वरस्तु स्वकृतवेदानुपूर्वीस्वयमेव स्मृत्या तथैव कल्पादौ ब्रह्मादिप्वाविर्भावयन् अनावृतज्ञानत्वात्तदर्थमत्यवर्जनीयतया जानातीति सर्वज्ञ इत्यनवद्यम् ॥
अधुना ब्रह्मणो लक्षणानन्तरं प्रमाणजिज्ञासायां वर्णकान्तरमाह-- अतवेति ।
लक्षणप्रमाणयोर्ब्रह्मनिर्णयार्थत्वादेकफलकत्वं संगतिः ।
ऽतं त्वौपनिषदं पुरुषम्ऽइति श्रुतिर्ब्रह्मणो वेदैकवेद्यत्वं ब्रूते न वेति शंशये, कार्यलिङ्गेनैवलाघवात् कर्तुरेकस्य सर्वज्ञस्य ब्रह्मणः सिद्धेर्न ब्रूते इति प्राप्ते वेदप्रमाणकत्वात् ब्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति-- शास्त्रयोनित्वादिति ।
तद्व्याचष्टे- यथोक्तमिति ।
सर्वत्र पूर्वोत्तरपक्षयुक्तिद्वयं संशयबीजं द्रष्टव्यम् ।
अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धिः फलं सिद्धान्ते वेदान्तानामिति भेदः ।
अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्निरस्ता ।
किञ्च विचित्रप्रपञ्चस्य प्रासादादिवदेककर्तृकताबाधान्न लाघवावतारः ।
न च सर्वज्ञत्वात्कर्तुरेकत्वसंभवः ।
एकत्वज्ञानात् सर्वज्ञत्वज्ञानं ततस्तदित्यन्योन्याश्रयमभिप्रेतेयाह- -शास्त्रादेवेति ।
किं तच्छास्त्रमिति तदाह- शास्त्रमिति ।
पृथगारम्भमाक्षिपति- किमर्थमिति ।
येन हेतुना दर्शितं ततः किमर्थमित्यर्थः ।
जन्मादिलिङ्गकानुमानस्य स्वातन्त्र्येणोपन्यासशङ्कानिरासार्थं पृथक्सूत्रमित्याह-- उच्यत इति

5.4

एन्द् ब्स्चोम्_1,1.3.3
स्तर्त् ब्स्चोम्_1,1.4.4
4 समन्वयाधिकरणम् । सू. 4
कथं पुनर्ब्रह्मणः सास्त्रप्रमाणकत्वमुच्यते, यावता, ऽ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्ऽ ।
(जै.सू. 1.2.1) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितिम् ।
अतो वेदान्तानामानर्थक्यं, अक्रियार्थत्वात् ।
कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वं, उपासनादिक्रियान्तविधानार्थत्वं वा ।
नहि परिनिष्ठितवस्तुप्रतिपादनं संभवति, प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनः ।
तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात् ।
अत एव ऽसो ऽरोदीत्ऽ इत्येवमादिनामानर्थक्यं मा भूदिति ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधिना स्युःऽ ।
(जै.सू. 1.2.7) इति स्तावकत्वेनार्थवत्त्वमुक्तम् ।
मन्त्राणां च ऽइषे त्वाऽ इत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम् ।
न द्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा ।
न च परिनिष्ठिते वस्तुस्वरूपे विधिः संभवति, क्रियाविषयत्वाद्विधेः ।
तस्मात्कर्मापेक्षितकर्तृस्वरूपदेवतादिप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् ।
अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् ।
तसामान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते-
fन्: आम्नायस्येति पूर्वपक्षम् ।
अस्यार्थः - आम्नायस्य वेदस्य क्रियाप्रतिपादनपरत्वादतदर्थानामक्रियार्थानां ऽसो ऽरोदीऽ दित्यादिवाक्यानामानर्थकत्वं ।
तस्मादनित्यमनियतं वेदानां प्रामाण्यमुच्यते ।
तद्भूतानां क्रियार्थेन समन्वय इति सिद्धान्तः ।
तत्तेषु वेदवाक्येषु भूतानां सिद्दार्थप्रतिपादकवाक्यानां क्रियार्थेन क्रियाप्रतिपादकवाक्येन ऽबर्हिषि रजतं न देयं, पशुना यजेतेऽ त्यादिना सहान्वयः ।
तथाच निन्द्यत्वाद्यर्थपूरणेनान्वये कृते क्रियापरत्वसिद्ध्या प्रामाण्यं सिद्धम् ।
सिद्धवस्तुज्ञानात्फलभावादेवेत्यर्थः ।
तत् तु समन्वयात् । ब्ब्स्_1,1.4 ।
तु शब्दः पूर्वपक्षव्यावृत्त्यर्थः ।
तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्ति स्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते ।
कथम्, समन्वयात् ।
सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि ।
ऽसदेव सोम्येदमग्र आसीत्ऽ ।
ऽएकमेवाद्वितायम्ऽ ।
(छान्दो. 6.2.1) ऽआत्मावा इदमेक एवाग्र आसीत्ऽ ।
(ऐत. 2.1.1.1) ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ ।
ऽअयमातमा ब्रह्म सर्वानुभूःऽ ।
(बृह. 2.5.19) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ ।
(मुण्ड. 2.2.11) इत्यादीनि ।
नच तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये ऽवगम्यमानेर्ऽथान्तरकल्पना युक्ता, श्रुतिहानन्यश्रुतकल्पनाप्रसङ्गात् ।
नच तेषां कर्तृस्वरूपप्रतिपादनपरतावसीयते, ऽतत्केन कं पयेत्ऽ (बृह. 2.4.13) इत्यादि क्रियाकारकफलनिरीकरणश्रुतेः ।
नच परिनिष्ठितवस्तुस्वरूपत्वे ऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, ऽतत्त्वमसिऽ (छान्दो. 6.8.7) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् ।
यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नैष दोषः, हेयोपादेयाशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्राहाणात्पुरुषार्थसिद्धेः ।
देवतादिप्रतिपादनास्य तु स्ववाक्यगतोपासनार्थत्वे ऽपि न कश्चिद्विरोधः ।
नतु तथा ब्रह्मण उपासनाविधिशेषित्वं संभवति, एकत्वे हेयोपादेयाशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्देपपत्तेः ।
नह्येकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः संभवो ऽस्ति, येनोपासनाविधिशेषित्वं ब्रह्मणः प्रतिपद्येत ।
यद्यप्यन्यत्र वेदवाक्यानां वीधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टं, तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् ।
न चानुमानगम्यं शास्त्रप्रामाण्यं, येनान्यत्र दृष्टं निदर्शनमपेक्षेत ।
तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम् ।
अत्रापरे प्रत्यवतिफष्ठन्ते- यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतैव शास्त्रेण ब्रह्म समर्प्यते ।
यथा यूपाहवहनीयादीन्यलौकिकान्यपि विधिशषतया शास्त्रेण समर्प्यन्ते तद्वत् ।
कुत एतत् ।
प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य ।
तथाहि शास्त्रतात्पर्यविद आहुः- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति ।
ऽचोदनेति क्रियायाः प्रवर्तकं वचनम्ऽ ।
ऽतस्य ज्ञानमुपदेशःऽ- (जै.सू. 1.1.5) ऽतद्भूतानां क्रियार्थेन समाम्नायःऽ- (जै.सू. 1.1.25) ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्-ऽ
(जै.सू. 1.2.1) इतिच ।
अतः पुरुषं द्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् ।
तच्छेषतया चान्यदुपयुक्तम् ।
तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् ।
सति च विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयत एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् ।
नन्विह जिज्ञास्यवैलक्षण्यमुक्तम्- कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति ।
तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति ।
नार्हत्येवं भवितुम् ।
कार्यविधिप्रयुक्त्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् ।
ऽआत्मा वा अरे द्रष्टव्यःऽ (बृह. 2.4.5) इति ।
ऽय आत्मापहतपाप्मा-सो ऽन्वेव्यः स विजिज्ञासितव्यःऽ (छान्दो. 8.7.1) ऽआत्मेत्योवोपासीतऽ (बृह.1.4.7) ऽआत्मानमेव लोकमुपासतऽ (बृह. 1.4.15) ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. 3.2.9) इत्यादिविधानेषु सत्सु को ऽसावात्मा किं तद्ब्रह्म इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः- ऽनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्याशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म. इत्येवमादयः ।
तदुपासनाच्च शास्त्रदृष्टो ऽपि मोक्षः फलं भविष्यतीति ।
कर्तव्यविध्यननुप्रवेशे वस्तुमात्रकथने हानोपादानसंभवात्, सप्तद्वीपा वसुमती, राजासौ गच्छतीत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् ।
ननु वस्तुमात्रकथने ऽपि रजुरियं नायं सर्प इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टं तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् ।
स्यादेतदेवं, यदि रजुस्वरूपश्रवण इव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत ।
नतु निवर्तते, श्रुतब्रह्मणो ऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्, ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृह. 2.4.5) इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिर्दर्शनात् ।
तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति ।
अत्राभिधीयते- न ।
कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।

शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यं, यद्विषया जिज्ञासा ऽअथातो धर्मजिज्ञासाऽ (जै.सू. 1.1.1) इति सूत्रिता, अधर्मो ऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहाराय ।
तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे ।
मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते ।
ततश्च तद्धेतोर्धर्मस्य तारतम्यं गम्यते ।
धर्मतारतम्यादधिकारितारतम्यम् ।
प्रसिद्धं चार्थित्वसार्मथ्यादिकृतमधिकारितारतम्यम् ।
तथाच यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनं, केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनं, तत्रापि सुखतारतम्यं तत्साधनतारतम्यं च शास्त्रात् ऽयावत्संपातमुषित्वाऽ (छान्दो. 5.10.5)
इत्यस्माद्गम्यते ।
तथा मनुष्यादिषु नारकस्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः ।
तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यर्दानात्तद्धेतोरधर्मस्य प्रतिषेधचोदनाक्षणस्य तदनुष्ठायिनां च तारतम्ये गम्यते ।
एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यनिमित्तं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् ।
तथाच स्मृतिः- ऽन ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिऽ इति यथावर्णितं संसाररूपमनुवदति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो. 8.12.1) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते ।
धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्यते ।
अशरीरत्वमेव धर्मकार्यमितिचेन्न, तस्य स्वाभाविकत्वात् ।
ऽअशरीरं शरीरेश्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचतिऽ (काठ. 1.2.21) ऽअप्राणो ह्यमनाः शुभ्रःऽ (मुण्ड. 2.1.2) ऽअसङ्गो ह्ययं पुरुषःऽ (बृह. 4.3.15) इत्यादिश्रुतिभ्यः ।
अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् ।
तत्र किञ्चित्परिणामि नित्यं यस्मिन्विक्रियमाणे ऽपि तदेवेदमिति बुद्धिर्न विहन्यते ।
यथा पृथिव्यादिजगन्नित्यत्ववादिनाम् ।
यथा च सांख्यानां गुणाः ।
इदं तु पारमार्थिकं, कूटस्थनित्यं, व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयञ्ज्योतिःस्वभावम् ।
यत्र धर्माधर्मी सह कार्येण कालत्रयं च नोपावर्तेते ।
तदेदारीरत्वं मोक्षाख्यम् ।
ऽअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्चऽ (क. 2.14)
इत्यादिश्रुतिभ्यः ।
अतस्तद्ब्रह्म यस्येयं जिज्ञासा प्रस्तुता, तद्यदि कर्तव्योषत्वेनोपदियेत, तेन च कर्तव्येन साध्यश्चेन्मोक्षो ऽभ्युपगम्येत, अनित्य एव स्यात् ।
तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत, नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते, अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः ।
अपिच ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. 3.2.9) ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परापरेऽ (मुण्ड. 2.2.8) ।
ऽआनन्दं ब्रह्मणो विद्वान् ।
न बिभेति कुतश्चयनऽ (तैत्ति. 2.9) ।
ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृह. 4.2.4) ऽतदात्मानमेवावेदेहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽ ।
(वाजसनेयब्राह्मणोप. 1.4.10) ऽतत्र को मोहः कः शोक एकत्वमनुपयतःऽ (ई(?). 7) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ।
तथा ऽतद्वैतत्पशयन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृह. 1.4.10)इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम् ।
यथा तिष्ठन्गायतीति तिष्ठतिगायत्ययोर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते ।
ऽत्वं हि नः पिता यो ऽस्माकमविद्यायाः परं पारं तारयसिऽ (प्र. 6.8) ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि त्वं मा भगवच्छोकस्य पारं तारयतुऽ (छान्दो. 7.1.3) ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छान्दो. 7.26.2) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्ति ।
तथाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्- ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽ (न्या. सू. 1.1.2) इति ।
मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति ।
नचेदं ब्रह्मात्मैकत्वविज्ञानं संपद्रूपम् ।
यथा ऽअनन्तं वै मनो ऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयतिऽ (बृह. 3.1.9) इति ।
न चाध्यासरूपम् ।
यथा ऽमनो ब्रह्मेत्युपासीतऽ (छान्दो. 3.18.1) ऽआदित्यो ब्रह्मेत्यादेःशःऽ (छान्दो. 3.19.1) इति च मन आदित्यादिषु ब्रह्मदृष्टध्यासः ।
नापि विशिष्टक्रियायोगनिमित्तं ऽवायुर्वाव संवर्गःऽ ऽप्राणो वाव संवर्गःऽ (छान्दो. 4.3.1) इतिवत् ।
नाष्वाज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् ।
संपदादिरूपे हि ब्रह्मात्मैकत्वविज्ञाने ऽभ्युपगम्यमाने ऽतत्वमसिऽ (छान्दो. 6.8.7) ऽअहं ब्रह्मास्मिऽ (बृह. 14.10) ऽअयमात्मा ब्रह्मऽ (बृह. 2.5.19) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत ।
ऽभिद्यते हृदयग्रन्थिशिछद्यन्ते सर्वसंशयाःऽ (मुण्ड. 2.2.8) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. 3.2.9) इति चैवमादीनि तद्भावापत्तिवचनानि संपदादिपक्षे न सामञ्जस्येनोपपद्येरन् ।
तस्मान्न संपदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् ।
अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या ।
किं तर्हि प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रा ।
एवंभूतस्य ब्रह्मणस्तज् ज्ञानस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् ।
नच विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः, ऽअन्यदेव तद्विदितादथो अविदितादधिऽ (केन. 1.3) इति विदिक्रियाकर्मत्वप्रतिषेधात्, ऽयेनेदं सर्वं विजानाति तं केन विजानीयात्ऽ (बृह. 2.4.13) इति च ।
तथोपास्तिक्रियाकर्मत्वप्रतिषेधो ऽपि भवति- यद्वाचानभ्युदितं येन वागभ्युद्यते इत्यविषयत्वं ब्रह्मण उपन्यस्य, ऽतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासतेऽ (केन. 1.4) इति ।
अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरितिचेत् ।
न ।
अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य ।
नहि शास्त्रमिदन्तया विषयभूतं ब्रह्म प्रतिपिपादयिषति ।
किं तर्हि, प्रत्यगात्मत्वेनाविषयतया प्रतिपादयविद्याकल्पितं वेद्य-वेदितृ-वेदनादिभेदमपनयति ।
तथाच शास्त्रम्- ऽयस्यामतं तस्य मतं, मतं यस्य न वेद सः ।

अविज्ञातं विजानतां विज्ञातमविजानताम्ऽ (केन. 2.3) ऽन दृष्टेर्द्रष्टारं पश्येःऽ, ऽन विज्ञातेर्विज्ञातारं विजानीयाःऽ (बृह. 3.4.2) इति चैवमादि ।
अतो ऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः ।
यस्य तूत्पाद्यो मोक्षस्तस्य मानसं, वाचिकं, कायिकं वा कार्यमपेक्षत इति युक्तम् ।
तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् ।
नहि दध्यादि विकार्यं, उत्पाद्यं वा धटादि, नित्यं दृष्टं लोके ।
नचाप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् ।
स्वरूपव्यतिरिक्तत्वे ऽपि ब्रह्मणो नाप्यत्वं, सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मणः, आकाशस्येव ।
नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत ।
संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याद्दोषापनयनेन वा ।
न तावद्गुणाधानेन संभवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।
नापि दोषापनयनेन, नित्याशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य ।
स्वात्मधर्म एव संस्थिरोभीतो मोक्षः क्रिययात्मनि संस्क्रियमाणे ऽभिव्यज्यते, यथाऽदर्शे निघर्षणक्रियया संस्क्रयमाणे भास्वरत्वं धर्म इतिचेत् ।
न ।
क्रियाश्रयत्वानुपपत्तेरात्मनः ।
यदाश्रया क्रिया तमविकुर्वती नैवात्मानं लभते ।
यद्यात्मा क्रियया विक्रियेतानित्यत्वमात्मनः प्रसज्येत ।
ऽअविकार्यो ऽयमुच्यतेऽ इति चैवमादीनि वाक्यानि बाध्येरन् ।
तच्चानिष्टम् ।
तस्मान्न स्वाश्रया क्रियाऽत्मानः संभवति ।
अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते ।
ननु देहाश्रयया स्नानाचमनयज्ञोपवीतादिकया क्रियया देही संस्क्रियमाणो दृष्टः ।
न ।
देहादिसंहतस्यैवाविद्यागृहीतस्यात्मानः संस्क्रियमाणत्वात् ।
प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम् ।
तया देहाश्रयया तत्संहत एव कश्चिदविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् ।
यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलं, अहमरोग इति यत्र बुद्धिरुत्पद्यते ।
एवं स्नानाचमनयज्ञोपवीतादिना अहं शुद्धः संस्कृत इति यत्र बुद्धिरुत्पद्यते स संस्क्रियते ।
स च देहेन संहत एव ।
तेनैव ह्यहङ्कर्त्राहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते ।
तत्फलं च स एवाश्नाति, ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनाश्नन्नन्यो अभिचाकाशीतिऽ (मुण्ड. 3.1.1) इति मन्त्रवर्णात् ।
ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणःऽ (काठ. 1.3.4) इति च ।
तथाच ऽएको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्चऽ (श्वेता. 6.11) इति ।
स पर्यगाच्छुक्रमकायमन्त्रणमस्त्राविरंशुद्धमपापविद्धम् ।
(ई(?). 8) इति च ।
एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः ।
ब्रह्मभावश्च मोक्षः ।
तस्मान्न संस्कार्यो ऽपि मोक्षः ।
अतो ऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् ।
तस्मात् ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते ।
ननु ज्ञानं नाम मानसी क्रिया ।
न ।
वैलक्षण्यात् ।
क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना च ।
यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्व्षट्करिष्यन् इति ।
ऽसंध्यां मनसा द्यायेत्ऽ (ऐ.ब्रा. 3.8.1) इति चैवमादिषु ।
ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं, पुरुषतन्त्रत्वात् ।
ज्ञानं तु प्रमाणजन्यम् ।
प्रमाणं च यथाभूतवस्तुविषयमतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यं, केवलं वस्तुतन्त्रमेव तत् ।
न चोदनातन्त्रम् ॥
नापि पुरुषतन्त्रम् ।
तस्मान्मानसत्वे ऽपि ज्ञानस्य महद्वैलक्षण्यम् ।
यथाच ऽपुरुषो वाव गौतमाग्निःऽ, ऽयोषा वाव गौतमाग्निः (छान्दो. 5.7,8.1) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवति ।
केवचोदनाजन्यत्वात्क्रियैव सा पुरुषतन्त्रा च ।
या तु प्रसिद्धे ऽग्नावग्निबुद्धिर्न सा चोदनातन्त्रा ।
नापि पुरुषतन्त्रा ।
किं तर्हि प्रत्यक्षवस्तुतन्त्रैवेति ज्ञानमेवैतन्न क्रिया ।
एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् ।
तत्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् ।
तद्विषये लिङागादयः श्रूयमाणा अप्यनियोज्यविषयत्वात्कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वात् ।
किमर्थानि तर्हि ऽआत्मा वारे द्रष्यव्यः श्रोतव्यःऽ इत्यादीनि विधिच्छायानि वचनानि ।
स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः ।
यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयाददनिष्टं माभूदिति, नच तत्रात्यन्तिकं पुरुषीर्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविककार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ऽआत्मा वा अरे द्रष्टव्यःऽ
इत्यादीनि ।
तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यते ।
ऽइदं सर्वं यदयमात्माऽ (बृह. 2.4.6) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् केन कं विजानीयात् वीज्ञातारमरे केन विजानीयात्ऽ (बृह. 4.5.15) ऽअयमात्मा ब्रह्मऽ (बृह. 2.5.19) इत्यादिभिः ।
यदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति, तत्तथैवेत्यभ्युपगम्यते ।
अलङ्कारो ह्ययमस्माकं यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति ।
तथाच श्रुतिः- ऽआत्मानं चेद्विजानीयादयमस्तीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्ऽ ॥
(बृह. 4.4.12) इति ।
ऽएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारतऽ ।
(भ.गी. 15.20) इति स्मृतिः ।
तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम् ।
यदपि केचिदाहुः- ऽप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तिऽ इति तन्न, औपनिषदस्य पुरुषस्य पुरुषस्यानन्यशेषत्वात् ।
यो ऽसावुपनिषत्स्वेवाधिगतः पुरुषो ऽसंसारी ब्रह्म उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थो ऽनन्योशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम्, ऽस एष नेति नेत्यात्माऽ (बृह. 3.9.26) इत्यामशब्दात्, आत्मनश्च प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात् ।
नन्वात्माहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम् ।
न ।
तत्साक्षित्वेन प्रत्युक्तत्वात् ।
नह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा, अतः स न केनचित्प्रत्याख्यातुं शक्यो विधिशेषत्वं वा नेतुम् ।
अस्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः ।
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।
पुरुषो विनाशहेत्वाभावादविनाशी, विक्रियाहेत्वभावाच्च, कूटस्थनित्यः, अत एव नित्याशुद्धबुद्धमुक्तस्वभावः ।

तस्मात् ऽपुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिःऽ (काठ. 1.3.11) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृह. 3.9.23) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्व उपपद्यते ।
अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् ।
यदपि शास्त्रतात्पर्यविदामनुक्रमणम्- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इत्येवमादि, तद्धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधाशास्त्राभिप्रायं द्रष्टव्यम् ।
अपिच ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतर्थानाम्ऽ इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानार्थक्यप्रसङ्गः ।
प्रवृत्ति निवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः ।
नहि भूतमुपदिश्यमानं क्रिया भवति ।
अक्रियात्वे ऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थं एव भूतोपदेश इति चेत् ।
नैष दोषः ।
क्रियार्थत्वे ऽपि क्रियातिवर्तनशक्तिमद्वस्तूपदिष्टमेव ।
क्रियार्थत्वं तु प्रयोजनं तस्य ।
न चैतावता वस्त्वनुपदिष्टं भवति ।
यदि नामोपदिष्टं किं तव तेन स्यादिति ।
उच्यते- अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति ।
तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यवाशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन ।
अपिच ऽब्राह्मणो न हन्तव्यःऽ इति चैवमाद्या निवृत्तिरुपदिश्यते ।
नच सा क्रिया ।
नापि क्रियासाधनम् ।
अक्रियार्थानामुपदेशो ऽनर्थकश्चेत् ऽब्राह्मणो न हन्तव्यःऽ इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् ।
तच्चानिष्टम् ।
नच स्वाभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं, हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण ।
नञश्चैष स्वभावो यत्स्वसंबन्धिनो ऽभावं बोधयतीति ।
अभावबुद्धिश्चौदासीन्यकारणम् ।
सा च दग्धेन्धनाग्निवत्स्वयमेवोपाशाम्यति ।
तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ऽब्राह्मणो न हन्तव्यःऽ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतित्रातादिभ्यः ।
तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् ।
यदप्युक्तं- कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमानर्थकं स्यात् ऽसप्तद्वीपा वसुमतीऽ त्यादिवदिति, तत्परिहृतम् ।
रजुरियं नायं सर्प इति वस्तुमात्रकथने ऽपि प्रयोजनस्य दृष्टत्वात् ।
ननु श्रुतब्रह्मणो ऽपि यथापूर्वं संसारित्वर्दानान्न रजुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् ।
अत्रोच्यते- नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुं व वेदप्रमाणजनितब्रह्मात्मभावविरोधात् ।
नहि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् ।
नहि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापह्रनिमित्तं दुःखं भवति ।
नच कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमाननिमित्तं सुखं भवति ।
तदुक्तं श्रुत्या- ऽआरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो. 8.12.1) इति ।
शरीरे पतिते ऽशरीरत्वं स्यात्, न जीवत इति चेन्न, सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्त्वात् ।
न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वान्यतः सशरीरत्वं शक्यं कल्पयितुम् ।
नित्यमशरीरत्वमकर्मनिमित्तत्त्वादित्यवोचाम ।
तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेन्न, शरीरसंबन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः ।
शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैषानादित्वकल्पना ।
क्रियासमवायाभावाच्चाम्तनः कर्तृत्वानुपपत्तेः ।
संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तव्यमिति चेन्न, धनदानाद्युपार्जितभृत्यसंबन्धत्वात्तेषां कर्तृत्वोपपत्तेः ।
न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिसंबन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् ।
मिथ्याभिमानस्तु प्रत्यक्षः संबन्धहेतुः ।
एतेन यजमानत्वमात्मनो व्याख्यातम् ।
अत्राहुः- देहादिव्यतिरिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो न मिथ्येति चेन्न, प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः ।
यस्य हि प्रसिद्धो वस्तुभेदः, यथा केसरादिमानाकृतिविशेषो ऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्यो ऽन्यः प्रसिद्धः ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः संपन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतो नाप्रसिद्धवस्तुभेदस्य ।
तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतो न गौणौ ।
यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथावा शुक्तिकायामकस्माद्रजतमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसंघाते ऽहमिति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् ।
आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः ।
तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव न गौणः ।
तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतो ऽपि विदुषो ऽशरीरत्वम् ।
तथाच ब्रह्मविद्विषया श्रुतिः- ऽ तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते ।
अथायमशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एवऽ (बृह. 4.4.7) इति ।
ऽसचक्षुरचक्षुरिव सकर्णो ऽकर्ण इव सवागवागिव समना अमना इव सप्राणो ऽप्राण इवऽ इति च ।
स्मृतिरपि च- ऽस्थितप्रज्ञस्यका भाषाऽ (भ.गी. 2.54) इत्याद्या स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसंबन्धं दर्शयति ।
तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् ।
यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् ।
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्वधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति ।
न ।
अवगत्यर्थत्वान्मनननिदिध्यासनयोः ।
यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषित्वम् ।
नतु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् ।
तस्मान्न प्रतपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः संभवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् ।
एवञ्च सति ऽअथातो ब्रह्मजिज्ञासाऽ इति तद्विषयः पृथक्शास्त्रमारम्भ उपपद्यते ।
प्रतिपत्तिविधिपरत्वे हि ऽअथातो धर्मजिज्ञासेऽत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत ।
आरभ्यमाणं चैवमारभ्येत - ऽअथातः परिशिष्टधर्मजिज्ञासेतिऽ ऽ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासाऽ (जै. 4.1.1) इतिवत् ।

ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः- ऽअथातो ब्रह्मजिज्ञासाऽ इति ।
तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विषयः सर्वाणि चेतराणि प्रमाणानि ।
नह्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति ।
अपिचाहुः- ऽगौणमिथ्यात्मनो ऽसत्त्वे पुत्रदेहादिबाधनात् ।
सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥
अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।
अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वाऽत्मनिश्चयात्ऽ
इति

5.4

इति चतुःसूत्री समाप्ता ।
fन्: पूर्वपक्षिणा क्रियाशेषतया ब्रह्म प्रतिपाद्यत इत्युक्तं तद्व्यावृत्त्यर्थमिति भावः ।
पूर्णतया जुहूद्वारा क्रतुशेषतावादात्मनो ऽपि ज्ञानद्वारा कर्मशेषत्वात्तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्तीत्याशङ्क्याह तत्केनेति ।
प्रतिपत्तिकर्म प्रधानकर्मशेषाङ्गं ।
यथ प्रधानचरुहोमोत्तरं तेनैव द्रव्येण स्विष्टकृद्बलिदानादि ।
यथावा श्राद्धे पिण्डप्रदानपूजोत्तरं पिण्डानां गङ्गादिप्रवाहे प्रक्षेपः ।
अनुनप्रवेशो ऽसंबन्धः ।
प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिप्रत्यवच्छेदकत्वेम विषयतयेत्यर्थः ।
अग्न्यादिदेवतोद्देशेन पुरोडाशादिद्रव्योत्सर्गो यागः ।
अशरीरं विदेहं, प्रियाप्रिये सुखदुःखे ।
कृताकृतादिति ।
कृतात् कार्यात्, अकृतात् कारणात् ।
तत् ब्रह्म, अवेत् विदितवत् ।
वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितः विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै ।
अध्यासः शास्त्रतो ऽतस्मिंस्तद्धीः ।
आदेश उपदेशः ।
प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्गः ।
तत् विदिताज्ज्ञानविषयादन्यद्भिन्नम् ।
अथो अपि अविदितादज्ञानविषयादपि अधि अन्यत् ।
यद्वाचा शब्देनानभ्युदितमप्रकाशितं, येन भ्मणा सा वागभ्यद्यते प्रकाश्यते ।
ऽनिवृत्तिविषयत्वात्ऽ भा.पा. ।
स्वात्मनो धर्मानाश्रयत्वे ऽपि नित्यो धर्मो मोक्षाख्यो भविष्यतीत्यभिप्रायेण धर्मशब्दः, स्वरूपपरो वा ।
अन्यो जीवात्मा ।
पिप्पलङ्कर्मफलम् ।
अभिचाकशीति प्रकाशते ।
कर्माध्यक्षः कर्मफलप्रदाता ।
शुक्रमिति बाह्याशुद्धिविरह उक्तः ।
अव्रणमस्नाविरमित्येव कायनिषेधे सिद्धे पुनस्तन्निषेधो लीलाधृतविषण्वादिविग्रहस्याप्यनृतताप्रतिपादनार्थः ।
तथाच - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं मैवं मां द्रष्टुमर्हसीऽ ति ।
शरीरोपादानभूताविद्याराहित्याय शुद्धमिति ।
तन्निमित्तराहित्यायापापविद्धमिति ।
अत्रानुप्रवेशः संबन्धः ।
मयेदं कार्यमित्यवगतिमान् हि नियोज्यो भवति ।
कृतिसाध्यश्च विधिविषयो भवति ।
ज्ञानस्य च कृत्यसाध्यत्वान्नोभयमात्मज्ञानं भवतीति भावः ।
विधिच्छायानि प्रसिद्धयागादिविधितुल्यानि ।
प्रत्यगात्मनि स्रोतश्चित्तवृत्तिप्रवाहः ।
ऽकृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यतिऽ पञ्च. ।
अनुसंज्वरेत् शरीरं परितप्यमानमनुतप्येत ।
प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः ।
आ. ।
ऽयच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य संततो भावस्तस्मादात्मेति भण्यतेऽ इति ।
अहंप्रत्ययविषय औपनिषदः पुरुषः ।
अहंप्रत्ययविषयो यः कर्ता कार्यकरणसंघातोपहितो जीवात्मा तद्व्यतिरेकेण ।
ऽइत्येवमाद्याऽ भा.पा. ।
बटोर्व्रतमित्युपक्रान्तं ऽनेक्षेतोद्यन्तमादित्यंऽ इत्यादि प्रजापतिव्रतम् ।
विध्यनुप्रवेशो विधिसंबन्धः ।
कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।
शब्दः शाब्दवोधश्चेत्यर्थः ।
निरुपचारेण गुणज्ञानंविना ।
श्रवणमननकुशलतामात्रेण पण्डितानां अनुत्पन्नसाक्षात्काराणामितियावत् ।
अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तत एवमित्याद्यूह्यम् ।
ब्रह्मसाक्षात्कारो ऽवगतिस्तदर्थत्वात् ।
विधिशेषत्वेन ब्रह्मार्पणे ऽपि ।
अथात इति तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसंभवात्कोनाम क्रतवे कोवा पुरुषार्तायेति जिज्ञासा प्रवृत्ता चतुर्थादौ ।
तस्मात् ज्ञानस्य प्रमेयप्रमातृबाधकत्वाभावात् ।
गौमेति ।
पुत्रदारादिष्वात्माभिमानो गौणः तत्र भेदानुभवात् ।
देहेन्द्रियादिषप त्वभेदानुभवान्न गौणः किन्तु मिथ्या ।
तदुभयात्मनो ऽसत्वे पुत्रदेहादिबाधनात्- गौणात्मनो ऽसत्वे पुत्रकलत्रादिबाधनं, मिथ्यात्मनो ऽसत्वे देहेन्द्रियादिबाधनं च ।
तथाच लोकयात्रकार्यं सद्ब्रह्माहमिति बोधकार्यं- अद्वैतसाक्षात्कारश्च कथं भवेत् ।
अन्वेष्टव्यात्मविज्ञानात्- ऽय आत्मापहतपाप्माऽ, सो ऽन्वेष्टव्यः इति तद्विज्ञानात्पूर्वमात्मनो मातृत्वं प्रमाप्रमेयप्रमाणविभागश्च ।
तेन तदभावे कार्यं नोत्पद्यत इत्यर्थः ।
आत्मनिश्चयात् आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।
वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वितीयवर्णकेनाक्षेपसंगत्या पूर्वपक्षमाह-- कथं पुनरित्यादिना ।
ऽसदेव सोम्यऽइत्यादीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्यादिसंगतयः ।
पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
कथमित्याक्षेपे हेतुः- यावतेति ।
यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतो ऽक्रियार्थत्वाद्वेदान्तनामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः ।
सूत्रस्यायमर्थः-प्रथमसूत्रे तावद्वेदस्याध्ययनकरणकभावनाविधिभाव्यस्य फलवदर्थपरत्वमुक्तम् ।
ऽचोदनालक्षणोर्ऽथो धर्मःऽइति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम् ।
तत्रऽवायुर्वै क्षेपिष्ठाऽइत्याद्यर्थवादानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वात् अर्थवादेषु धर्मस्याप्रतीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् ।
न चाध्ययनविध्युपात्तानां निष्फले सिद्धेर्ऽथे प्रामाण्यं युक्तं, तस्मादनित्यमेषां प्रामाण्यमुच्यते ।
व्यापकाभावाद्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् ।
एवं पूर्वपक्षे ऽपि ऽविधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युःऽइति सूत्रेण सिद्धान्तमाह-- क्रियापरत्वमिति ।
अनित्यमिति प्राप्ते दर्शितमित्यर्थः ।
वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ऽवायव्यं श्वेतमालभेतऽइत्यादि विधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः ।
स्तुतिलक्षणया सफलकार्यपरत्वात् प्रमाणमर्थवादा इति यावत् ।
नन्वध्ययनविधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह- कर्त्रिति ।
न वयं वेदान्तानामानर्थक्यं साधयामः किन्तु लोके सिद्धस्य मानाभावान्तरवेद्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्षत्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात्, कार्यशेषकर्तृदेवताफलानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः ।
तत्र त्वन्तत्पदार्थवाक्यानां कर्तृदेवतास्तावकत्वं, विविदिषादिवाक्यानां फलस्तावकत्वम् ।
ननु कर्मविशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषकत्वं, मानाभावादित्यरुच्या पक्षान्तरमाह- -उपासनेति ।
मोक्षकामो ऽसद्ब्रह्माभेदमारोप्य अहं ब्रह्मास्मीत्युपासीत इत्युपासनाविधिः, आदिशब्दाच्छ्रवणादयः ।
तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः ।

ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह-- नहीति ।
परितः समन्तान्निश्चयेन स्थितं परिष्ठितं कृत्यनपेक्षम् ।
सिद्धमिति यावत् ।
तस्य प्रतिपादनमज्ञातस्य वेदेन ज्ञापनं, तन्न संभवति, मानन्तरयोग्येर्ऽथे वाक्यस्य संवादे सत्यनुवादकत्वात्, ऽअग्निर्हिमस्य भेषजम्ऽइति वाक्यवत् ।
विसंवादे तु बोधकत्वात्, ऽआदित्यो यूपःऽइति वाक्यवदित्यर्थः ।
सिद्धो न वेदार्थः, मानान्तरयोग्यत्वाद्घटवदित्युक्त्वा निष्फलत्वाच्च तथेत्याह -तथेति ।
सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न संभवतीत्यर्थः ।
फलं हि सुखव्याप्तिर्दुःखहानिच्च ।
तच्च प्रवृत्ति निवृत्तिभ्यां साध्यम् ।
ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेयस्यनिवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः ।
तर्हि सिद्धबोधिवेदवादानां साफल्यं कथसित्याशङ्य ऽआम्नायस्यऽइत्यादिसंग्रहवाक्यं विवृणोति- अत एवेति ।
सिद्धवस्तुज्ञानात्फलाभावादेवेत्यर्थः ।
ऽदेवैर्निरुद्धः सो ऽग्निररोदीत्ऽइति वाक्यस्याश्रुजत्वेन रजतस्य निन्दाद्वारा ऽबर्हिषि न देयंऽइति सभलनिषेधशेषत्ववत् वेदान्तानां विधयादिशेषत्वं वाच्यमित्यर्थः ।
ननु तेषां मन्त्रवत् स्वातन्त्र्यमस्तु नार्थवादवद्विध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह -मन्त्राणां चेति ।
प्रथमाध्याये प्रमाणलक्षणेर्ऽथवादचिन्तानन्तरं मन्त्रचिन्ता कृता-ऽइषे त्वाऽइति मन्त्रे ऽछिनद्मिऽइत्यध्याहाराच्छाखाच्छेदनक्रियाप्रतीतेः, ऽअग्निर्मूर्धाऽइत्यादौ च क्रियासाधनदेवतादिप्रतीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्ति उत दृष्टेनैवार्थस्मरणेनेति संदेहे चिन्तादिनाप्यध्ययनकालावगतमन्त्रार्थस्य स्मृतिसंभवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः-ऽअविशिष्टस्तु वाक्यार्थःऽइति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्रवाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन क्रतूपकारकत्वसंभवात्, दृष्टे संभवति अदृष्टकल्पनानुपपत्तेः, फलवदनुष्ठानापेक्षितेन क्रियातत्साधनस्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् ।
ऽमन्त्रैरेवार्थः स्मर्तव्यःऽइति नियमस्त्वदृष्टार्थ इति ।
तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्यार्थज्ञानद्वारा तैर्वाक्यैकवाक्यत्वमिति विभागः ।
नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवाक्यत्वं,
वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह- न क्वचिदिति ।
वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः, सिद्धार्थावेदकत्वात्, मन्त्रार्थवादादिवदित्यर्थः ।
अन्यत्रादृष्टापि वेदान्तेषु कल्प्यतामिति तत्राह- उपपन्ना वेति ।
नेत्यनुषङ्गः ।
सिद्धे फलाभावास्योक्तत्वादिति भावः ।
तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कृतं वेदान्तानां विध्यनतरशेषत्वेनेत्यत आह-- न चेति ।
ननु ऽदध्ना जुहोतिऽइति सिद्धे दधनि विधिर्दृष्टस्तत्राह- क्रियेति ।
दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्यत्वाद्विधेयता, निष्क्रियब्रह्मणः कथमप्यसाध्यत्वान्न विधेयत्वमित्यर्थः ।
भाट्टमतमुपसंहरति-- तस्मादिति ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह-- अथेति ।
सिद्धान्तसूत्रं व्याचष्टे-- तुशब्द इति ।
तद्ब्रह्म वेदान्तप्रमाणकमिति प्रतिज्ञातेर्ऽथे हेतुं पृच्छति-- कथमिति ।
हेतुमाह-- समिति ।
अन्वयतात्पर्यविषयत्वं तस्मादित्येव हेतुः ।
तात्पर्यस्य सम्यक्त्वं अखण्डार्थविषयकत्वं सूचयितुं सम्-पदं प्रतिज्ञान्तर्गतमेव ।
तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः, वेदान्ततात्पर्यविषयत्वात्, यो यद्वाक्यतात्पर्यविषयः स तद्वाक्यप्रमेयः, यथा कर्मवाक्यप्रमेयो धर्म इति प्रयोगः ।
वाक्यार्थस्याखण्डत्वं-असंसृष्टत्वम् ।
वाक्यस्य चाखण्डार्थकत्वं-स्वपदोपस्थिता ये पदार्थास्तेषांयः संसर्स्तद्गोचरप्रमाजनकत्वम् ।
न चेदमप्रसिद्धम् ।
प्रकृष्टप्रकाशश्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् ।
सर्वपदलक्षणा चाविरुद्धा सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वङ्गीकारात् ।
तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः ।
नापि हेत्वसिद्धिः, उपक्रमादिलिङ्गैर्वेदान्तानामद्वितीयाखण्डब्रह्मणि तात्पर्यनिर्णयात् ।
छान्दोग्यषष्ठे उपक्रमं दर्शयति-- सदेवेति ।
उद्दालकः पुत्रमुवाच-हे सोम्य प्रियदर्शन, इदं सर्वं जगत्, अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् ।
एवकारेण जगतः पृथक्सत्ता निषिध्यते ।
सजातीयविजातीयस्वगतभेदनिरासार्थं ऽएकमेवाद्वितीयंऽइति पदत्रयम् ।
एवमद्वितीयं ब्रह्मोपक्रम्य ऽऐतदात्म्यमिदं सर्वम्ऽइत्युपसंहरति ।
इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गं, यथा ऽतत्त्वमसिऽ
इति नवकृत्वो ऽभ्यासः ।
रूपादिहीनाद्वितीयब्रह्मणो मानान्तरायोग्यत्वदपूर्वत्वमुक्तम्-ऽअत्र वाव किल सत् सोम्य न निभालयसेऽइति ।
संघाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः ।
ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्येऽइति ब्रह्मज्ञानात्फलमुक्तं विदुषः ।
तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः ।
अथ देहपातानन्तरं विद्वान् ब्रह्म संपत्स्यते ।
विदेहकैवल्यमनुभछवन्तीत्यर्थः ।
ऽअनेन जीवेनात्मनानुप्रविश्यऽइत्याद्यद्वितीयज्ञानार्थोर्ऽथवादः ।
मृदादिदृष्टानतैः प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता ।
एवं षङ्विधानि तात्पर्यलिङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयोपक्रमवाक्यं पठति- आत्मा वा इति ।
बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सतात्मनो निर्विशेषत्वार्थमाह-- तदेतदिति ।
मायाभिर्बहुरूपं तद्ब्रह्म ।
एतदपरोक्षम् ।
अपूर्वं कारणशून्यम् ।
अनपरं कार्यरहितम् ।
अनन्तरं जात्यन्तरमस्य नास्तीत्यनन्तरम् ।
एकरसमित्यर्थः ।
अबाह्यम् अद्वितीयम् ।
तस्यापरोक्षत्वमुपपादयति-- अयमिति ।
सर्वमनुभवतीति सर्वानुभूः ।
चिन्मात्रमित्यर्थः ।
ऋग्यजुःसामवाक्यानुक्त्वा आथर्वणवाक्यमाह-- ब्रह्मैवेदमिति ।
यत्पुरस्तात्पूर्वदिग्वस्तुजातमिदमब्रह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः ।
आदिपदेन ऽसत्यं ज्ञानम्ऽइत्यादिवाक्यानि गृह्यन्ते ।
नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वं, वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह-- न चेति ।
वेदान्तानां ब्रह्मणि तात्पर्येनिश्चीयमाने कार्यार्थत्वं न युक्तं ऽयत्परः शब्दः स शब्दार्थःऽइति न्यायादित्यर्थः ।
यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रादिस्तावकत्वमिति तत्राह-- न च तेषामिति ।
तेषां कर्मशेषस्तावकत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्साधननाशकत्वमेव ।
तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः ।
अर्थवादानां तु स्वार्थे फलाभावात्स्तुतिलक्षणतेति भावः ।

यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह-- न च परीति ।
ऽतत्त्वमसिऽइति शास्त्रमन्तरेणेति संबन्धः ।
धर्मो न वेदार्थः, साध्यत्वेन पाकवन्मानान्तरवेद्यत्वात् ।
यदि वेदं विना धर्मस्यानिर्णयान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् ।
यच्चोक्तं निष्फलत्वाद्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति-- यत्त्वित्यादिना ।
रहितत्वाद्भिन्नत्वात् ।
ब्रह्मण इति शेषः ।
यदप्युक्तम्--ऽउपासनापरत्वं वेदान्तानाम्ऽइति तत्र किं प्राणपञ्चाग्न्यादिवाक्यानामुत सर्वेषामिति ।
तत्राद्यमङ्कीकरोति-- देवतादीति ।
ज्येष्ठत्वादि गुणः फलं चादिशब्दार्थः ।
न द्वितीयः, विधिशून्यानां ऽसत्यं ज्ञानम्ऽइत्यादीनां स्वार्थे फलवतामुपासनापरत्वकल्पनायोगात् ।
किञ्च तदर्थस्य ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा ।
आद्ये, अध्यस्तगुणवतस्तस्य तच्छेषत्वे ऽपि न द्वितीय इत्याह-- नतु तथेति ।
प्राणादिदेवतावदित्यर्थः ।
ऽअहं ब्रह्मास्मिऽ
इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्मनः फलाभावात्, उपास्योपासकद्वैतज्ञानस्य कारणस्य नाशाच्च नोपासनाशेषत्वमित्याह-- एकत्व इति ।
द्वैतज्ञानस्य संस्कारबलात्पुनरुदये विधानमिति नेत्याह-- नहीति ।
दृढस्येति शेषः ।
भ्रान्तित्वानिश्चयो दार्ढ्यं, संस्कारोत्थं तु भ्रान्तित्वेन निश्चिते न विधिनिमित्तम् ।
येनेति ।
उपासनायां कारणस्य सत्वेनेत्यर्थः ।
वेदप्रामाण्यस्य व्यापकं क्रीयार्थकत्वमनुवदति-- यद्यपीति ।
कर्मकाण्डेर्ऽथवादादीनामित्यर्थः ।
तथा च व्यापकाभावाद्वेदान्तेषु व्याप्याभावानुमानमिति भावः ।
वेदान्ता न स्वार्थे मानं, अक्रियार्थत्वात् ऽसो ऽरोदीत्ऽइत्यादिवदित्यनुमाने निष्फलार्थकत्वमुपाधिरित्याह- तथापीति ।
अर्थवादानां निष्फलस्वार्थामानत्वे ऽपीत्यर्थः ।
तद्विषयस्य तत्करणस्य ।
स्वार्थे ब्रह्मात्मनीति शेषः ।
सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थकत्वं तद्व्यापकमिति भावः ।
ननु माभूद्वेदप्रामाण्यस्य व्यापकं क्रियार्थकत्वं, व्याप्यं तु भविष्यति, तदभवाद्वेदान्तानां प्राण्यंम्यं दुर्ज्ञानमिति, नेत्याह-- न चेति ।
येन वेदप्रामाण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद्दृष्टं दृष्टान्तमपेक्षेत तदेव नास्तीत्यर्थः ।
चक्षुरादिवद्वेदस्य स्वतःप्रामाण्यज्ञानान्न तद्व्याप्तिलिङ्गाद्यपेक्षा ।
प्रामाण्यसंशये तु फलवदज्ञाताबाधितार्थतात्पर्यात् प्रामाण्यनिश्चयो न क्रियार्थत्वेन ।
कूपे पतेदिति वाक्ये व्यभिचारादिति भावः ।
वर्णकार्थमुपसंहरति-- तस्मादिति ।
समन्वयादित्यर्थः ।
विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् ।
एवं पदानां सिद्धेर्ऽथे व्युत्पत्तिमिच्छतां ब्रह्मनास्तिकानां मतं, ब्रह्मणोमानान्तरायोग्यत्वात्, सफलत्वाच्च वेदान्तैकमेयत्वमित्युक्त्या निरस्तम् ।
संप्रति सर्वेषां पदानां कार्यान्वितार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदान्तैर्बोध्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते ।
तत्र वेदान्ताः किमुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वातन्त्र्येणेति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षमाह-- अत्रापर इति ।
ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्तीत्यर्थः ।
उपासनातो मुक्तिः पूर्वपक्षे, तत्त्वज्ञानादेवेति सिद्धान्ते फलम् ।
विधिर्नियोगः तस्य विषयः प्रतिपत्तिरुपासना ।
अस्याः को विषय इत्याकाङ्क्षायां सत्यादिवाक्यैर्विधिपरैरेव ब्रह्मसमर्प्यत इत्याह-- प्रतिपत्तीति ।
विधिविषयप्रतिपत्तिविषयतयेत्यर्थः ।
विधिपराद्वाक्यात्तच्छेषलाभे दृष्टान्तमाह-- यथेति ।
ऽयूपे पशुं बध्नातिऽ ऽआहवनीये जुहोतिऽ ऽइन्द्रं यजेतऽइति विधिषु के यूपादय इत्याकाङ्क्षायां ऽयूपं तक्षति, अष्टाश्रीकरोतिऽइति तक्षणादिसंस्कृतं दारु यूपः ।
ऽअग्नीनादधीतऽइत्याधानसंस्कृतो ऽग्निराहवनीयः ।
ऽवज्रहस्तः पुरन्दरःऽइतिविधिपरैरेव वाक्यैः समर्प्यन्ते तद्वद्ब्रह्मेत्यर्थः ।
विधिपरवाक्यस्यापि अन्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः ।
मानान्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः ।
प्रधानार्थभेदस्यैव वाक्यभेदकत्वादिति भावः ।
ननूक्तषड्विधलिङ्गैस्तात्पर्यविषयस्यब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते-- कुत इति ।
वृद्धव्यवहारेण हि शास्त्रतात्पर्यनिश्चयः ।
वृद्धव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दिश्यापूर्वप्रयोगो दृश्यते ।
अतः शास्त्रस्यापि ते एव प्रयोजने ।
ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य ।
ततः कार्यशेषत्वं ब्रह्मण इत्याह-- प्रवृत्तीति ।
शास्त्रस्य नियोगपरत्वे वृद्धसंमतिमाह-- न तथाहीत्यादिना ।
क्रिया, कार्यं, नियोगो, विधिः धर्मो ऽपूर्वमित्यनर्थान्तरम् ।
को वेदार्थ इत्याकाङ्क्षायां शाबरभाष्यकृतोक्तम्-- दृष्टो हीति ।
तस्य वेदस्य ।
कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह-- चोदनेति ।
क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः ।
शबरस्वामिसंमतिमुक्त्वा जैमिनिसंमतिमाह-- तस्य ज्ञानमिति ।
तस्य धर्मस्य ज्ञापकमपौरुषेयविधिवाक्यमुपदेशः ।
तस्य धर्मेणाव्यतिरेकादित्यर्थः ।
पदानां कार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति-- तद्भूतानामिति ।
तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङ्गादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् ।
पदार्थज्ञानस्य वाक्यार्थरूपकार्यधीनिमित्तत्वादित्यर्थः ।
कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदार्थस्मृतिद्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः ।
फलितमाह-- अत इति ।
यतो वृद्धा एवमाहुः, अतो विधिनिषेधवाक्यमेव शास्त्रम् ।
अर्थवादादिकं तु तच्छेषतयोपक्षीणम् ।
तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् ।
तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थोः ।
ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति ।
तत्राह-- सति चेति ।
ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्वयेर्ऽथभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः ।
तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्ष्यण्यं वाच्यम् ।
तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्तेर्विधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादविशेषे जिज्ञास्यभेदासिद्धेः ।
अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्तेस्तद्व्यञ्जकज्ञानविधिरयुक्त इत्याशङ्कते-- नन्विहेति ।
मुक्तेः कर्मफलाद्वैलक्षण्यमसिद्धमिति तदर्थं ज्ञानं विधेयम् ।
न च तर्हि सफलं कार्यमेव वेदानतेष्वपि जिज्ञास्यमिति तद्भेदासिद्धिरिति वाच्यं, इष्टत्वात् ।
न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकृता ब्रह्मप्रतिपादनादिति परिहरति-- नेति ।
ब्रह्मणो विधिप्रयुक्तत्वं स्फुटयति-- आत्मा वा इति ।

ऽब्रह्म वेदऽइत्यत्र ब्रह्मभावकामो ब्रह्मवेदने कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् ।
लोकं ज्ञानस्वरूपम् ।
वेदान्तानेवार्थतो दर्शयति-- नित्य इति ।
ननु किं विधिफलमिति तदाह-- तदुपासनादिति ।
प्रत्यग्ब्रह्मोपासनात् ऽब्रह्मविदाप्नोति परम्ऽइति शास्त्रोक्तो मोक्षः स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः ।
ब्रह्मणः कार्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह-- कर्तव्येति ।
विध्यसंबद्धसिद्धबोधे प्रवृत्त्यादिफलाभावाद्वेदान्तानां वैफल्यं स्यादित्यर्थः ।
नन्विति शङ्का स्पष्टार्था ।
दृष्टान्तवैषम्येण परिहरति-- स्यादिति ।
एतदर्थवत्वमेवञ्चेत् स्यादित्यर्थः ।
एवं शब्दार्थमाह-- यदिति ।
किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानान्तरं मननादिविधिर्न स्यात्, तद्विधेश्च कार्यसाध्या मुक्तिरित्याह-- श्रोतव्य इति ।
शब्दानां कार्यान्वितशक्तेः, प्रवृत्त्यादिफलस्यैव शास्त्रत्वात्, सिद्धे फलाभावात्, मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति-- तस्मादिति ।
वेदान्ता न विधिपराः स्वार्थे फलवत्वे सतिनियोज्यविधुरत्वात्, न अयं सर्प इति वाक्यवत् ।
ऽसो ऽरोदीत्ऽ ऽस्वर्गकामो यजेतऽइति वाक्ययोर्निरासाय हेतौ विशेषणद्वयमिति सिद्धान्तयति-- अत्रेति ।
यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह-- नेति ।
मोक्षो न विधिजन्यः, कर्मफलविलक्षणत्वात्, आत्मवदित्यर्थः ।
उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति-- शारीरम् इत्यादिना वर्णितं संसारमनुवदति इत्यन्तेन ।
अथ--वेदाध्ययनानन्तरं, अतो--वेदस्य फलवदर्थपरत्वाते, धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः ।
न केवलं धर्माख्यं कर्म किन्तु अथर्मो ऽपीत्याह-- अधर्मो ऽपीति ।
निषेधवाक्यप्रमाणादित्यर्थः ।
कर्मोक्त्वा फलमाह-- तयोरिति ।
मोक्षस्तु अतीन्द्रियोविशोकः शरीराद्यभोग्यो विषयाद्यजन्यो ऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षादीनि विशेषणानि ।
सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति-- मनुष्यत्वादीति ।
ऽस एको मानुष आनन्दःऽततःशतगुणो गन्धर्वादीनामिति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः ।
ततश्च ।
सुखतारतम्यादित्यर्थः ।
मोक्षस्तु निरतिशयः, तत्साधनं च तत्वज्ञानमेकरूपमिति वैलक्षण्यम् ।
किं च साधनाचतुष्टयसंपन्न एकरूप एव मोक्षाविद्याधिकारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह-- धर्मेति ।
गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः ।
अर्थित्वं फलकामित्वम् ।
सामर्थ्यं लौकिकं पुत्रादि ।
आदिपदाद्विद्वत्त्वं शास्त्रानिन्दितत्वं च ।
किं च कर्मफलं मार्गप्राप्यं, मोक्षस्तु नित्याप्त इति भेदमाह-- तथेति ।
उपासनायां चित्तस्थैर्यप्रकर्षादर्चिरादिमार्गेण ब्रह्मलोकगमनं ऽते ऽर्चिषम्ऽइत्यादिना श्रूयत इत्यर्थः ।
ऽअग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
वापीकूपतडाकादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
शरणागतसंत्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते ॥
ऽतत्रापि ।
चन्द्रलोके ऽपीत्यर्थः ।
संपतति गच्छति अस्माल्लोकादमुं लोकमनेनेति संपातः कर्म ।
यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुनरायान्तीत्यर्थः ।
मनुष्यत्वादूर्ध्वङ्गतेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषुतदाह-- तथेति ।
इदानीं दुःखतधेतुतदनुष्ठायिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति-- तथोर्ध्वमिति ।
द्विविधं कर्मफलं मोक्षस्य तद्वैवलक्षण्यज्ञानाय प्रपञ्चितमुपसंहरति-- एवमिति ।
अस्मिताकामक्रोधभयान्यादिशब्दार्थः ।
ऽते तं मुक्त्वा स्वर्गलोकं विशालम्ऽइत्याद्या स्मृतिः ।
काष्ठोपचयाज्ज्वालोपचयदर्शनात्, फलतारतम्येन साधनतारतम्यानुमानं न्यायः ।
श्रुतिमाह- तथाचेति ।
मोक्षो न कर्मफलं, कर्मफलविरुद्धातीन्द्रियत्वविशोकत्वशरीराद्यभोग्यत्वादिधर्मवत्वात्, व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह-- अशरीरमिति ।
वावेत्यवधारणे ।
तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः ।
मोक्षश्चेदुपासनारूपधर्मफलं, तदेव प्रियमस्तीति तन्निषेधायोग इत्याह- धर्मकार्यत्वे हीति ।
ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तुधर्मफलमेव, कर्मणां विचित्रदानसामर्थ्यादिति शङ्कते-- अशरीरत्वमेवेति ।
आत्मनो देहासङ्गित्वमशरीरत्वं, तस्यानादित्वान्न कर्मसाध्यतेत्याह-- नेति ।
अशरीरं स्थूलदेहशून्यं, देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितं, महान्तं व्यापिनम् ।
आपेक्षिकमहत्त्वं वारयति-- विभुमिति ।
तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।
सूक्ष्मदेहाभावे श्रुतिमाह-- अप्राण इति ।
प्राणमनसोः क्रियाज्ञानशक्त्योर्निषेधात्, तदधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः ।
देहद्वयाभावे श्रुतिः--ऽअसङ्गो हिऽइति ।
निर्देहात्मस्वरूपमोक्षस्यानादिभावत्वे सिद्धे फलितमाह-- अत एवेति ।
नित्यत्वे ऽपि परिणामितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्य नित्यं द्वेधा विभजते-- तत्र किञ्चिदिति ।
नित्यवस्तुमध्य इत्यर्थः ।
परिणामि च तन्नित्यं चेति परिणामिनित्यम् ।
आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह-- इदं त्विति ।
परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव ।
कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकम् ।
कूटस्थत्वसिध्यर्थं परिस्पन्दाभावमाह- -व्योमवदिति ।
परिणामाभावमाह-- सर्वविक्रियारहितमिति ।
फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह-- नित्यतृप्तमिति ।
तृप्तिरनपेक्षत्वं, विशोकं सुखं वा ।
निरवयवत्वान्न क्रिया ।
तस्य भानार्थमपि न क्रिया, स्वयञ्ज्योतिष्ट्वात् ।
अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् ।
कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह-- यत्रेति ।
कालानवच्छिन्नत्वाच्चेत्याह-- कालेति ।
कालत्रयं च नोपावर्तत इति योग्यतया संबन्धनीयम् ।
धर्माद्यनवच्छेदे मानमाह-- अन्यत्रेति ।
अन्यदित्यर्थः ।
कृतात्कार्यात्, अकृताच्च कारणात्, भूताद्भव्याच्च, चकाराद्वर्तमानाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः ।
ननु उक्ताः श्रुतयो ब्रह्मणः कूटस्थासङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह-- अत इति ।
तत्कैवल्यं ब्रह्मैव ।
कर्मफलविलक्षणत्वादित्यर्थः ।
ब्रह्माभेदान्मोक्षस्य कूटस्थात्वं धर्माद्यसङ्गित्वं चेति भावः ।
यद्वा तज्जिज्ञास्यं तद्ब्रह्म अतः पृथग्जिज्ञास्यत्वाद्धर्माद्यस्पृष्टमित्यर्थः ।
अतः शब्दाभावपाठे ऽप्ययमेवार्थः ।
ब्रह्मणो विधिस्पर्शो शास्त्रपृथक्त्वं न स्यात्, कार्यविलक्षणानधिगतविषयलाभात् ।
नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् ।
न वा तद्विना विधेरनुपपत्तिः ।
योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः ।

अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह-- अत इति ।
यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदान्तैरुपदिश्यते ।
समन्वयादित्यर्थः ।
विवक्षे दण्डं पातयति-- तद्यदीति ।
तत्रैवं सतीति ।
मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः ।
अत इति ।
मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभात् ।
कर्तव्यनियोगाभावादित्यर्थः ।
प्रदीपात्तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह-- अपिचेति ।
यो ब्रह्माहमिति वेद स ब्रह्मैव भवति ।
परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टुरनारब्धभलानि कर्माणि नश्यन्ति ।
ब्रह्मणः स्वरूपमानन्दं विद्वान् निर्भयो भवति, द्वितीयाभावात् ।
अभयं ब्रह्म प्राप्तो ऽसि, अज्ञानहानात् तज्जीवाख्यं ब्रह्म गुरूपदेशादात्मानमेव अहं ब्रह्मास्मीत्यवेत् विदितवत् ।
तस्माद्वेदनात्तद्ब्रह्म पूर्णमभवत् ।
परिच्छेदभ्रान्तिहानादेकत्वम्, अहं ब्रह्म इत्यनुभवतस्तत्रानुभवकाले मोहशोकौ न सति श्रुतीनामर्थः ।
तासां तात्पर्यमाह-- ब्रह्मेति ।
विद्यातत्फलयोर्मध्य इत्यर्थः ।
मोक्षस्य विधिफलत्वे स्वर्गादिवत्कालान्तरभावित्वं स्यात्, तथा च श्रुतिबाध इति भावः ।
इतश्चमोक्षो वैधो नेत्याह-- तथेति ।
तद्ब्रह्मैतत्प्रत्यगस्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् ऽअहं मनुःऽइत्यादीन्ददर्शेत्यर्थः ।
यद्यपि स्थितिर्गानक्रियाय लक्षणं, ब्रह्मदर्शनं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमस्ति तथापि ऽलक्षणहेत्वोः क्रियायाःऽइति सूत्रेण क्रियां प्रति लक्षणहेत्वोरर्थयोर्वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहितशतृप्रत्ययसामर्थ्यात् तिष्ठन्गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये नभातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह-- यथेति ।
किं च ज्ञानादज्ञाननिवृत्तिः श्रूयते ।
ज्ञानस्य विधेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तं, अतो बोधका एव वेदान्ता न विधायका इत्याह-- त्वं हीति ।
भारद्वाजादयः षड् ऋषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे--त्वं खल्वस्माकं पिता ।
यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्म विद्याप्लवेनास्मांस्तारयसि प्रापयसि ।
ज्ञानेनाज्ञानं नाशयसीति यवत् ।
प्रश्नवाक्यमुक्त्वा छान्दोग्यमाह-- श्रुतमिति ।
अत्र ऽतारयतुऽइत्यन्तमुपक्रमस्थं, शेषमुपसंहारस्थमिति भेदः ।
आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टं, सो ऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषायनारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शितवानित्यर्थः ।
ऽएतद्यो वेद--सो ऽविद्याग्रन्थिं विकिरतिऽइति वाक्यमादिशब्दार्थः ।
एवं श्रुतेस्तत्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् ।
तत्राक्षपादगौतममुनिसंमतिमाह-- तथा चेति ।
गौरो ऽहमिति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माधर्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात्पुनर्देहप्राप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्तरस्य कार्यस्य जन्मनो ऽपायादुःखध्वंसरूपो ऽरवर्गो भवतीत्यर्थः ।
ननु पूर्वसूत्रे ऽतत्वज्ञानान्निःश्रेयसाधिगमःऽइत्युक्ते सतीतरपदार्थभिन्नात्मतत्त्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्क्षायां मिथ्याज्ञाननिवृत्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम् ।
तथाच्च भिन्नात्मज्ञानान्मुक्तिं वदत्सूत्रं संमतं चेत् परमतानुज्ञा स्यादित्यत आह-- मिथ्येति ।
तत्त्वज्ञानान्मुक्तिरित्यंशे संमतिरुक्ता भेदज्ञानं तु ऽयत्र हि द्वैतमिवभवतिऽइति श्रुत्या भ्रान्तित्वात् ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽइति श्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः ।
ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, संपदादिरूपत्वेन भ्रान्तित्वादित्यत आह- न चेदमित्यादिना ।
अल्पालम्बनतिरस्कारेणोत्कृष्टवस्त्वभेदध्यानं संपत्, यथा मनःस्ववृत्त्यानन्त्यादनन्तं,
तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्यात् विश्वेदेवा एव मन इति सम्पत्तयानन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभेदः संपदिति न चेत्यर्थः ।
आलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यासः ।
यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा ।
तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह - न चेति ।
आदेश उपदेशः ।
क्रियाविशेषो विशिष्टक्रिया तथा योगो निमित्तं यस्य ध्यानस्य तत्तथा ।
यथा प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्ग इति ध्यानं छान्दोग्ये विहितं, तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह- नापीति ।
यथा पत्न्यवेक्षितमाज्यं भवति इति उपांशुयाजाद्यङ्गस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह- नाप्याज्येति ।
प्रतिज्ञाचतुष्टये हेतुमाह- संपदादीति ।
उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत ।
किं च एकत्वज्ञानादाज्ञानिकहृदयस्यान्तःकरणस्य यो रागादिग्रन्थिश्चिन्मयस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफलवाक्यबाधः स्यात्, सम्पदादिज्ञानस्याप्रमत्वेनाज्ञानानिवर्तकत्वात् ।
किञ्च जीवस्य ब्रह्मत्वसंपदा कथं तद्भावः ।
पूर्वरूपे स्थिते नष्टे वान्यस्यान्यात्मतायोगात् ।
तस्मान्न संपदादिरूपमित्यर्थः ।
संपदादिरूपत्वाभावे फलितमाह- अत इति ।
प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव ।
न प्रमाणसाध्येत्यर्थः ।
उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसाध्यत्वादित्याह- एवंभूतस्येति ।
ननु ब्रह्म कार्याङ्गं, कारकत्वात् पत्न्यवेक्षणकर्मकारकाज्यवदिति चेत्, किं ज्ञाने ब्रह्मणः कर्मकारकत्वं उतोपासनायाम् ।
नाद्य इत्याह- न चेति ।
शाब्दज्ञानं विदिक्रियाशब्दार्थः-विदितं कार्यं अविदितं कारणं तस्मादधि अन्यदित्यर्थः ।
येनात्मना इदं सर्वं दृश्यं लोको जानाति तं केन करणेन जानीयात् ।
तस्मादविषय आत्मेत्यर्थः ।
न द्वितीय इत्याह- तथेति ।
ऽयन्मनसा न मनुतेऽइति श्रुत्या लोको मनसा यद्ब्रह्म न जानातीत्यविषयत्वमुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि ।
तत्तूपाधिविशिष्टं देवतादिकमित्युपासते जना नेदं ब्रह्मेत्यर्थः ।
ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कते- अविषयत्व इति ।

वेदान्तजन्यवृत्तिकृताविद्यानिवृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वे ऽपि स्वप्रकाशब्रह्मणो वृत्त्यभिव्यक्तस्फुरणाविषयत्वादप्रमेयत्वमिति परिहरति- नेति ।
परत्वात् फलत्वादित्यर्थः ।
निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः ।
उक्तं विवृणोति- नहीति ।
चिद्विषयत्वमिदन्त्वम् ।
अविषयता अनिदन्तया ।
अदृश्यत्वे श्रुतिमाह- तथाचेति ।
यस्य ब्रह्मामतं चैतन्यविषय इति निश्चयस्तेन सम्यगवगतम् ।
यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद ।
उक्तमेव दार्ढ्यार्थमनुवदति- अविज्ञातमिति ।
अविषयतया ब्रह्म विजानतामविज्ञातमदृश्यमिति पक्षः ।
अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः ।
दृष्टेर्द्रष्टारं चाक्षुषमनोवृत्तेः साक्षिणं, अनया दृश्यया दृष्ट्या न पश्येर्विज्ञातेर्बुद्धिवृत्तेर्निश्चयरूपायाः साक्षिणं तथा न विषयीकुर्यादित्याह- नेति ।
नन्वविद्यादिनिवर्तकत्वेन शास्त्रस्य प्रामाण्ये ऽपि निवृत्तेरागन्तुकत्वान्मोक्षस्यनित्यत्वं स्यादिति नेत्याह- अत इति ।
तत्त्वज्ञानादित्यर्थः ।
ध्वंसस्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः ।
उत्पत्तिविकाराप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपासनासाध्यत्वमित्याह- यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन ।
तथा उत्पाद्यत्ववत् विकार्यत्वे चापेक्षत इति युक्तमित्यन्वयः ।
दूषयति- तयोरिति ।
स्थितस्यावस्थान्तरं विकारः ।
नन्वनित्यत्वनिरासाय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु, नेत्याह- नचेति ।
ब्रह्म जीवाभिन्नं न वा ।
उभयथाप्याप्तत्वान्न क्रियापेक्षेत्याह- स्वात्मेत्यादिना ।
यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह- नापीत्यादिना ।
गुणाधानं व्रीहीषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः ।
शङ्कते- स्वात्मधर्म इति ।
ब्रह्मात्मस्वरूप एव मोक्षो ऽनाद्यविद्यामलाकृत उपासनया मले नष्टे ऽभिव्यज्यत इत्यत्र दृष्टान्तः- यथेति ।
संस्कारो मलनाशः ।
कियात्मनि मलः सत्यः कल्पितो वा ।
द्वितीये ज्ञानादेव तन्नाशो न क्रियया ।
आद्ये क्रिया किमात्मनिष्टा अन्यनिष्टा वा ।
नाद्य इत्याह- न, क्रियेति ।
अनुपपत्तिं स्फुटयति- यदिति ।
क्रिया हि स्वाश्रये संयोगादिविकारमकुर्वती न जायत इत्यर्थः ।
तच्च वाक्यबाधनम् ।
न द्वितीय इत्याह- अन्येति ।
अविषयत्वात् ।
क्रियाश्रयद्रव्यासंयोगित्वादिति यावत् ।
दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात्संस्क्रियत इति भावः ।
अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते- नन्विति ।
आत्मनो मूलाविद्याप्रतिबिम्बितत्वेन गृहीतस्य नरो ऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रियाश्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह- नेति ।
कश्चिदिति ।
अनिश्चितब्रह्मस्वरूप इत्यर्थः ।
यत्रात्मनि विषये आरोग्यबुद्धिरुत्पद्यते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः ।
ननु देहाभिन्नस्य कथं संस्कारः, तस्यामुष्मिकफलभोक्तृत्वायोगादित्यत आह- तेनेति ।
देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः ।
मनोविशिष्टस्यामुष्मिकभोक्तुः संस्कारो युक्त इति भावः ।
विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह- तयोरिति ।
प्रमातृसाक्षिणोर्मध्ये सत्त्वसंसर्गमात्रेण कल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः ।
आत्मा देहः ।
देहादियुक्तं प्रमात्रात्मानमित्यर्थः ।
एवं सोपाधिकस्य चिद्धातोर्मिथ्यासंस्कार्यत्वमुक्त्वा निरुपाधिकस्यासंस्कार्यत्वे मानमाह- एक इति ।
सर्वभूतेष्वद्वितीय एको देवः स्वप्रकाशः ।
तथापि मायावृतत्वान्न प्रकाशत इत्याह- गूढ इति ।
ननु जीवेनासंबन्धाद्भिन्नत्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह-सर्वव्यापी सर्वभूतान्तरात्मेति ।
देवस्य विभुत्वात्सर्वप्राणिप्रत्यक्त्वाच्चावरणादेवाभानमित्यर्थः ।
प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः ।
क्रियासाक्षीत्यर्थः ।
तर्हि साक्ष्यमस्तीति द्वैतापत्तिः ।
न सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति ।
साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः ।
साक्षिशब्दार्थमाह- चेता केवल इति ।
बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् ।
चकारो दोषा भावसमुच्चयार्थः ।
निर्गुणत्वान्निर्देषत्वाच्च गुणो दोषनाशो वा संस्कारो नोत्यर्थः ।
ऽसःऽइत्युपक्रमाच्छ्रुक्रादिशब्दाः पुंस्त्वेन वाच्याः ।
स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान्, अकायो लिङ्गशून्यः, अव्रणो ऽक्षतः, अस्राविरः शिराविधुरः अनश्वर इति वा ।
आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् ।
शुद्धो रागादिमलशून्याः ।
अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः ।
अत इति ।
उत्पत्त्याप्तिविकारसंस्कारेभ्यो ऽन्यत्पञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः ।
ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा ।
न ।
ज्ञानार्थत्वादित्याह- तस्मादिति ।
द्वाराभावादित्यर्थः ।
व्याघातं शङ्कते- नन्विति ।
तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहृतमिति भावः ।
मानसमपि ज्ञानं-न विधियोग्या क्रिया, वस्तुतन्नत्वात्,
कृत्यसाध्यत्वाच्चेत्याह- नेति ।
वैलक्षण्यं प्रपञ्चयति- क्रिया हीति ।
यत्र विषये तदनपेक्षयैव या चोद्यते तत्र सा हि क्रियेति योजना ।
विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह- यथेति ।
गृहीतमध्वर्युणेति शेषः ।
वषट्करिष्यन्होता, सन्ध्यां देवतामिति चैवमाधिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वानपेक्षा, पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः ।
ध्यानमपि मानसत्वाज्ज्ञानवन्न क्रियेत्यत्र आह- ध्यानमित्यादिना ।
तथापि क्रियैवेति शेषः ।
कृत्यसाध्यत्वमुपाधिरिति भावः ।
ध्यानक्रियमुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति- ज्ञानं त्विति ।
अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः ।
पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रं, तस्माद्वस्त्वव्यभिचारादपुन्तन्त्रत्वाच्च ध्यानाज्ज्ञानस्य महान्भेद इत्यर्थः ।
भेदमेव दृष्टान्तान्तरेणाह- यथा चेति ।
अभेदसत्त्वे ऽपि विधितो ध्यानं कर्तुं शक्यं, न ज्ञानमित्यर्थः ।
ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वे ऽपि शाब्दबोधस्य तदभावाद्विधेयक्रियात्वमिति नेत्याह- एवं सर्वेति ।
शब्दानुमानाद्यर्थेष्वपि ज्ञानमविधेयक्रियात्वेन ज्ञातव्यम् ।
तत्रापि मानादेव ज्ञानस्य प्राप्तेर्विध्ययोगादित्यर्थः ।
तत्रैवं सति ।
लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः ।
यथाभूतत्वमबाधितत्वम् ।
ननु ऽआत्मानं पश्येतऽ ऽब्रह्म त्वं विद्धिऽ ऽआत्मा द्रष्टव्यःऽइति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायताः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह- तद्विषय इति ।
तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रवर्तयितुमशक्ता भवन्ति ।

अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः ।
ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः ।
तर्हि ज्ञेयं ब्रह्म विधीयतां, नेत्याह- अहेयेति ।
वस्तुस्वरूपो विषयस्तत्त्वात् ।
ब्रह्मणो निरतिशयस्याध्यत्वान्न विधेयत्वमित्यर्थः ।
उदासीनवस्तुविषयकत्वाच्च ज्ञानं न विधेयं, प्रवृत्यादिफलाभावादित्यर्थः ।
विधिपदानां गतिं पृच्छति-- किमर्थानीति ।
विधिच्छायानि प्रसिद्धयागादिविधितुल्यानीत्यर्थः ।
विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधनमिति स्तूयते ।
स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिरात्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह-- स्वाभाविकेति ।
विवृणोति-- यो हीत्यादिना ।
तत्रविषयेषु ।
संघातस्य या प्रवृत्तिः तद्गोचराच्छब्दादेरित्यर्थः ।
स्रोतश्चित्तवृत्तिप्रवाहः ।
प्रवृत्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः ।
श्रवणस्वरूपमाह-- तस्येति ।
अन्वेषणं ज्ञानम् ।
यदिदं जगत्तत्सर्वमात्मैवेत्यनात्मबोधेनात्मा बोध्यते ।
अद्वितीयादृश्यात्मबोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्तास्यतीति भावः ।
आत्मज्ञानिनः कर्तव्याभावे मानमाह-- तथा चेति ।
अयं स्वयं परमानन्दः परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन्, कस्य वा भोक्तुः प्रितये, शरीरं तप्यमानमनुसंज्वरेत् तप्येत ।
भक्तृभोग्यद्वैताभावात्कृतकृत्य आत्मविदित्यभिप्रायः ।
ज्ञानदौर्लभ्यार्थश्चेच्छब्दः ।
एतद्गुह्यतमं तत्त्वम् ।
वृत्तिकारमतनिरासमुपसंहरति-- तस्मादिति ।
प्राभाकरोक्तमुपन्यस्यत् इ-- यदपि केचिदिति ।
कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः ।
तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन मनाभवादित्यर्थः ।
मानाभावे ऽसिद्ध इत्याह-- तन्नेति ।
अज्ञातस्य फलस्वरूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात् कृत्स्नवेदस्य कार्यपरत्वमप्रसिद्धम् ।
न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तधेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्धस्यापदार्थस्य वाक्यार्थत्वमिति वाच्यम्, पुत्रस्ते जात इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे संगतिग्रहात्, कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गीकारे लाघवात्, सिद्धस्यापि वाक्यार्थत्वादित्यलम् ।
किञ्च ब्रह्मणो नास्तीत्वादेव कृत्स्नवेदस्य कार्यपरत्वं उत वेदान्तेषु तस्याभानात्, अथ वा कार्यशेषत्वात्, किं वा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् ।
तत्राद्यं पक्षत्रयं निराचष्टे-- यो ऽसाविति ।
अनन्यशेषत्वार्थं ऽअसंसारीऽइत्यादि विशेषणम् ।
नास्तीत्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्त्वा हेत्वन्तरमात्मत्वमाह-- स एष इति ।
इतिरिदमर्थे ।
इदं न इदं न इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः ।
चतुर्थं शङ्कते-- नन्वात्माहमिति ।
आत्मनो ऽहङ्कारादिसाक्षित्वेनाहन्धीविषयत्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह-- नेति ।
यं तीर्थकारा अपि न जानन्ति तस्यालैकिकत्वं किमु वाच्यमित्याह-- नहीति ।
समस्तारतम्यवर्जितः ।
तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि ।
पञ्चमं निरस्यति-- अत इति ।
केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः ।
अगम्यात्वान्न मानान्तरविरोध इति भावः ।
साक्षीकर्माङ्गं चोतनत्वात्, कर्तृवदिति, तत्राह-- विधीति ।
अज्ञातसाक्षिणो ऽनुपयोगाज्ज्ञातस्य व्याघातकत्वान्न कर्मशेषत्वमित्यर्थः ।
साक्षिणः सर्वशेषित्वादहेयानुदेयत्वाच्च न कर्मशेषत्वमित्याह-- आत्मत्वादिति ।
अनित्यत्वेनात्मनो हेयत्वमाशङ्क्याह-- सर्वं हीति ।
परिणामित्वेन हेयतां निराचष्टे-- विक्रीयेति ।
उपादेयत्वं निराचष्टे--- अत एवेति ।
निर्विकारित्वादित्यर्थः ।
उपादेयत्वं हि साध्यस्य न त्वात्मनः ।
नित्यसिद्धत्वादित्यर्थः ।
परप्राप्त्यर्थं आत्मा हेया इत्यत आह- तस्मात्, पुरुषान्न परं किञ्चिदिति ।
काष्ठा सर्वस्यावधिः ।
एवमात्मनो ऽनन्यशेषत्वात्, अबाध्यत्वात्, अपूर्वत्वात्, वेदान्तेषु स्फुटभानाच्च ।
वेदान्तैकवेद्यत्वमुक्तम् ।
तत्र श्रुतिमाह-- तं त्वेति ।
तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः ।
अत इति ।
उक्तलिङ्गैः श्रुत्या च वेदान्तानामात्मवस्तुपरत्वनिश्चयादित्यर्थः ।
पूर्वोक्तमनुवदति-- यदपीति ।
वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम्-- दृष्टो हीति ।
तत्र ऽफलवदर्थावबोधनम्ऽइति वक्तव्ये धर्मविचारप्रक्रमात् ऽकर्मावबोधनंऽइत्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः ।
अत एव ऽअनुपलब्धेर्ऽथे तत्प्रमाणम्ऽइति सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां दर्शयति तच्चावशिष्टं ब्रह्मण इति न वृद्धवाक्यैर्विरोध इत्याह- तद्धर्मेति ।
निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत्सूत्रभाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः ।
वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यं, लिङर्थश्च, लोके प्रवर्तकज्ञानगोचरत्वेन कॢप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातो ऽतिरिक्तं कार्यं तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविलक्षणे सिद्धे प्रामाण्यं किमुद ज्ञानकाण्डस्येति मन्तव्यम् ।
किं च वेदान्ताः सिद्धवस्तुपराः,फलवद्भूतशब्दत्वात्, दध्यादि शब्दवदित्याह-- अपि चेति ।
किमक्रीयार्थकशब्दानामानर्थक्यमभिधेयाभावः,
फलाभावो वा ।
आद्य आह-- आम्नायस्येति ।
इति न्यायेन एतदभिधेयराहित्यं नियमेनाङ्गीकुर्वतां ऽसोमेन यजेतऽ ऽदध्ना जुहोतिऽइत्यादि वाक्येषु दधिसोमादिशब्दानामर्थशून्यत्वं स्यादित्यर्थः ।
ननु केनोक्तमभिधेयराहित्यमित्याशङ्क्याह-- प्रवृत्तीति ।
कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत्, तर्हि सत्यादिशदब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूटस्थस्याक्रियत्वादुताक्रियाशेषत्वाद्वेति प्रश्नः ।
ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः, न कूटस्थस्याकार्यत्वादित्याद्यमाशङ्क्य निरस्यति-- नहीति ।
दध्यादेः कार्यत्वे कार्यशेषत्वहानिः ।
अतो भूतस्य कार्याद्भिन्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः ।
द्वितीयंशङ्कते-- अक्रियात्वे ऽपीति ।
कार्यशेषपरः कूटस्थस्य त्वकार्यशेषत्वान्नोपदेशव इति भावः ।
भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह-- नैष दोष इति ।
दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः ।
अन्वितार्थमात्रे शब्दानां शक्तिरित्यर्थः ।
द्वितीयमङ्गीकरोति-- क्रियार्थत्वं त्विति ।
तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः ।
नतु ब्रह्मण इति तुशब्दार्थः ।
ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह-- न चेति ।

फलार्थं शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गे नास्ति शेषत्वस्य शब्दार्थतायामप्रवेशादित्यर्थः ।
आनर्थक्यं फलाभाव इति पक्षं शङ्कते-- यदिति ।
यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं तथापि कूटस्थब्रह्मवादिनः क्रियाद्वाराभावात् तेन दृष्टान्तेन कि फलं स्यादित्यर्थः ।
भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाःज्ञानमात्रेण साफल्यदर्शनादित्याह-- उच्यत इति ।
तथैव ।
दध्यादिवदेवेत्यर्थः ।
दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसाम्यमित्यनवद्यम् ।
इदानिं वेदान्तानां निषेधवाक्यवत्सिद्धार्थपरत्वमित्याह-- अपि चेति ।
नञः प्रकृत्यर्थेन संबन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तदिप्रत्ययार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभावा इति निषेधवाक्यार्थः ।
हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्तते ।
नात्र नियोगः कश्चिदिति, तस्य क्रियातत्साधनदध्यादिविषयत्वात् ।
न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् ।
नापि क्रियासाधनम् ।
अभावस्य भावार्थाहेतुत्वाद्भावार्थासत्त्वाच्चेत्यर्थः ।
अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः ।
विपक्षे दण्डमाह-- अक्रियेति ।
ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञ्संबन्धेन हेतुना हननविरोधिनी संकल्पक्रीया बोध्यते, सा च नञर्थरूपा तत्रप्राप्तत्वाद्विधीयते, अहननं कुर्यादिति ।
तथा च कार्यार्थकमिदं वाक्यमित्याशङ्क्य निषेधति- न चेति ।
औदासीन्यं पुरुषस्य स्वरूपं तच्च हननक्रियानिवृत्त्युपलक्षितं निवृत्त्यौदासीन्यं हननाभाव इति यावत् ।
तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना ।
मुख्यार्थस्याभावस्य नञर्थत्वसंभवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्यार्थकत्वे विधिनिषेकभेदविप्लवापत्तेश्चेति भावः ।
ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात्, अब्राह्मणः अधर्म इति प्रयोगदर्शनादिति चेन्न, अनेकार्थत्वस्यान्याय्यत्वादित्याह- नञश्चेति ।
गवादिशब्दानां तु अगत्या नानार्थकत्वं, स्वर्गेषुवाग्वज्रादीनां शक्यपशुसंबन्धाभावेन लक्षणानवतारात् ।
अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तम्, शक्यसंबन्धात् ।
ब्राह्मणादन्यस्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्रह्मणाद्यभावस्य नञ्शक्यस्य संबन्धात् ।
प्रकृते च आख्यातयोगान्नञ् प्रसज्यप्रतिषेधक एव न पर्युदासलक्षकः इति मन्तव्यम् ।
यद्वा नञः प्रकृत्या न संबन्धः प्रकृतेः प्रत्ययार्थो ऽसपर्जनत्वात्, प्रधानसंबन्धाच्चाप्रधानानां किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन संबन्धो नञः, इष्टं च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रं, विषसंयुक्तान्नभोगस्यापि इष्टत्वापत्तेः ।
तथा च न ऽहन्तव्यःऽहननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः ।
अत्र च ऽहन्तव्यःऽइति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्वेन विशिष्टाभावाबुद्धेर्विशेषणाभावपर्यवसानात् ।
विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नञर्थं इति पर्यवसन्नम् ।
तद्बुद्धिरौदासीन्यपरिपालिकेत्याह- अभावेति ।
चो ऽप्यर्थः पक्षान्तरद्योती ।
प्रकृत्यर्थाभावबुद्धिवत्प्रत्ययार्थाभावबुद्धिरपीत्यर्थः ।
बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात्प्रच्युतिरूपा हननादौ प्रवृत्तिः स्यादिति, अत्राह- सा चेति ।
यथाग्निरिन्दनं दग्ध्वा श्याम्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः ।
रागनाशे कृते प्रच्युतिरिति भावः ।
यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः ।
परपक्षे तु हननविरोधिक्रिया कार्येत्युक्ते ऽपि हननस्येष्टसाधनत्वभ्रान्त्यनिरासात् प्रच्युतिर्दुर्वारा ।
तस्मात्तदभाव एव नञर्थ इत्युपसंहरति-- तस्मादिति ।
भावार्थाभावेन तद्विषयककृत्यभावात् कार्याभावस्तच्छब्दार्थः ।
यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यस्माद्विशिष्टाभावायत्तमेवेति व्याख्येयम् ।
स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् ।
ऽतस्य बटोर्व्रतम्ऽइत्यनुष्ठेयक्रियावाचिव्रतशब्देन कार्यमुपक्रम्य ऽनेक्षेतोद्यन्तमादित्यम्ऽइति प्रजापतिव्रतमुक्तम् ।
अत उपक्रमबलात्तत्र नञ ईक्षणविरोधिसंकल्पक्रियालक्षणाङ्गीकृता ।
एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् ।
एतेभ्यः प्रजापतिव्रतादिभ्यो ऽन्यत्राभावमेव नञर्थं मन्यामह इत्यर्थः ।
दुःखाभावफलके नञर्थे सिद्धे निषेधशास्त्रमानत्ववद्वेदान्तानां ब्रह्मणि मानत्वमिति भावः ।
तर्ह्यक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति, तत्राह- तस्मादिति ।
वेदान्तानां स्वार्थे फलवत्वाद्व्यर्थकथाविषयं तदित्यर्थः ।
यदपीत्यादि स्पष्टार्थम् ।
श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नयेति सदृष्टान्तमाह- अत्रोच्यत इत्यादिना ।
ब्रह्माहमिति साक्षीत्कारविरोधादित्यर्थः ।
तत्त्वविदो जीवन्मुक्तौ मानमाह- तदुक्तं श्रुत्येति ।
जीवतो ऽशरीरत्वं विरुद्धमिति शङ्कते- शरीर इति ।
आत्मनो देहसंबन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह- नेत्यादिना ।
असङ्गात्मरूपं त्वशरीरत्वं तत्वधिया जीवतो व्यज्यत इत्याह- नित्यमिति ।
देहात्मनोः संबन्धः सत्य इति शङ्कते- तत्कृतेति ।
तन्नाशार्थं कार्यापेक्षेति भावः ।
आत्मनः शरीरसंबन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां संबन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति- नेत्यादिना ।
नन्वेतद्देहजन्यधर्माधर्मकर्मण एतदेहसंबन्धहेतुत्वे स्यादन्योन्याश्रयः ।
पूर्वदेहकर्मण एतद्देहसंबन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह- अन्धेति ।
अप्रामाणिकीत्यर्थः ।
न हि बीजाङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसंबन्धः पूर्वकर्मकृतः प्रत्यक्षः ।
नाप्यस्ति कश्चिदागमः ।
प्रत्युत ऽअसङ्गो हिऽइत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः ।
तत्र युक्तिमाह- क्रियेति ।
कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।
स्वतो निष्क्रियस्यापि कारकसंनिधिना कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति- नेति ।
राजादीनां स्वक्रीतभृत्य कर्तृत्वं युक्तं नात्मन इत्यर्थः ।

देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना संबन्धो भ्रान्तिकृत एवेत्याह- मिथ्येति ।
ननु ऽयजेतऽइति विध्यनुपपस्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह- एतेनेति ।
भ्रान्तिकृतेन देहादिसंबन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः ।
अत्राहुः ।
प्राभाकरा इत्यर्थः ।
भ्रान्त्यभावाद्देहसंबन्दादिकं सत्यमिति भावः ।
भेदज्ञानाभावान्न गौण इत्याह- नेति ।
प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्व प्रसिद्धेरित्यर्थः ।
यस्य तस्य पुंसो गौणौ भवता इत्यन्वयः ।
शौर्यादिगुणविषयावित्यर्थः ।
तस्य त्विति ।
भेदज्ञानशून्यस्य पुंस इत्यर्थः ।
शब्दप्रत्ययाविति ।
शब्दः शाब्दबोधश्चेत्यर्थः ।
संशयमूलौ तावुदाहरति- यथा मन्देति ।
यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह- यथा वेति ।
अकस्मादिति ।
अतर्कितादृष्टादिनां संस्कारोद्बोधे सतीत्यर्थः ।
निरुपचारेण गुणज्ञानं विनेत्यर्थः ।
देहादिव्यतिरिक्तात्मवादिनामिति ।
देहात्मवादिनां तु प्रमेत्यभिमान इति भावः ।
जीवन्मुक्तौ प्रमाणमाह- तथा चेति ।
तत्तत्र जीवन्मुक्तस्य देहे ।
यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वाल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति ।
अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थो ऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः ।
वस्तुतो ऽचक्षुरपि बाधितचक्षुराद्यनिवृत्या सचक्षुरिवेत्यादि योज्यम् ।
इत्यनवद्यमिति ।
ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यं, हितशासनाच्छास्त्रत्वं च निर्देषतया स्थितमित्यर्थः ।
ब्रह्मज्ञानमुद्दिश्य श्रवणवन्मनननिदिध्यासनयोरप्यवान्तरवाक्यभेदेन विध्यङ्गीकारान्न ब्रह्मणो विधिशेषत्वं उद्देश्यज्ञानलभ्यतया प्राधान्यादित्याह- नेति ।
श्रवणं ज्ञानकरणवेदान्तगोचरत्वात्प्रधानं, मनननिदिध्यासनयोः प्रमेयगोचरत्वात्तदङ्गत्वं, नियमादृष्टस्य ज्ञान उपयोगः सर्वापेक्षान्यायादिति मन्तव्यम् ।
तर्हि ज्ञाने विधिः किमिति त्यक्तः, तत्राह- यदि हीति ।
यदि ज्ञाने विधिमङ्गीकृत्य वेदानतैरवगतं ब्रह्म विधेयज्ञाने कर्मकारकत्वेन विनियुज्येत तदा विधिशेषत्वं स्यात् ।
न त्ववगतस्य विनियुक्तत्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः ।
तस्मात् --विध्यसंभवात् ।
अतः -शेषत्वासंभवात् ।
सत्यादिवाक्यैर्लब्धज्ञानेनाज्ञाननिवृत्तिरूपफललाभे सतीत्यर्थः ।
सूत्रं योजयति- स्वतन्त्रमिति ।
एवं च सतीति ।
चो ऽवधारणे ।
उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् ।
वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः ।
ननु मानसधर्मविचारार्थं पृथगारम्भ इत्याशङ्क्याह- आरभ्यमाणं चेति ।
अथ बाह्यसाधनधर्मविचारानन्तरम् ।
अतो बाह्यधर्मस्य शुद्धिद्वारा मानसोपासनाधर्महेतुत्वात्परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति ।
अत्र दृष्टान्तमाह- अथेति ।
तृतीयाध्याये श्रुत्यादिभिःशेषशेषित्वनिर्णयानन्तरं शेषिणाशेषस्य प्रयोगसंभवात् कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः ।
एवमारभ्येत ।
नत्वारब्धं, तस्मादवान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः ।
स्वमते सूत्रानुगुण्यमस्तीत्यह- ब्रह्मेति ।
जैमिनिना ब्रह्म न विचारितमिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यरथः ।
वेदान्तार्थश्चेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह- तस्मादिति ।
ज्ञानस्य प्रमेयप्रमातृबाधकत्वादित्यर्थः ।
ब्रह्म न कार्यशेषः, तद्बोधात्प्रागेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति- अपिचेति ।
सदबाधितं ब्रह्म पूर्वमात्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवंबोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् मायामात्रत्वनिश्ययात् पुत्रदारादिभिरहमिति स्वीयदुःखसुखभावत्वगुणयोगाद्गौणात्माभिमानस्य नरो ऽहं कर्ता मूढ इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसत्वे कार्यं विधिनिषेधादिव्यवहारः कथं भवेत् हेत्वभावान्न कथञ्चिद्भवेदित्यर्थः ।
नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोघादित्याशङ्क्या प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकृतत्वान्न बाध इत्यह- अन्वेष्टव्येति ।
ऽय आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः सो ऽन्वेष्टव्यऽइति श्रुतेः
ज्ञातव्यपरमात्मविज्ञानात्प्रागेवाज्ञानाच्चिद्धातोरात्मानः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्मरागद्वेषमरणविवर्जितः परमात्मा स्यादित्यर्थः ।
प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्य कथमित्यत आह- देहेति ।
देहात्मत्वप्रत्ययः कल्पितो भ्रमो ऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामाण्यमिष्यतां, वेदान्तानां तु कालत्रयाबाध्यबोधित्वात् तत्वावेदकं प्रामाण्यमिति तु शब्दार्थः ।
आऽत्मनिश्चयात् ।
आत्मनिशचयादित्याङ्मर्यादायाम् ।
प्रमातृत्वस्य कल्पितत्वे ऽपि विषयाबाधात् प्रामाण्यमितिभावः ॥
रामनाम्निपरे धाम्नि कृत्स्नाम्नायसमन्वयः ।
कार्यतात्पर्यबाधेन साधितः शुद्धबुद्धये

5.5

इति चतुसूत्री समाप्ता ॥
एन्द् ब्स्चोम्_1,1.4.4
स्तर्त् ब्स्चोम्_1,1.5.5
5 ईक्षत्यधिकरणम् । सू. 5 - 11
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं, ब्रह्मणि पर्यवसानमुक्तम् ।
ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् ।
सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति ।
सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् ।
प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते ।
काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते अणूंश्च समवायिकारणम् ।
एवमन्ये ऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्टन्ते ।
तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वदर्शनाय वाक्याभासयुक्ताभासविप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ।
तत्र सांख्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना आहुः- यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्तीत्यवोचस्तानि प्रधानकारणपक्षे ऽपि योजयितुं शक्यन्ते ।
सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते ।
एवं सर्वज्ञत्वमप्युपपद्यते ।
कथम् ।
यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः , ऽसत्त्वात्संजायते ज्ञानम्ऽ (गी. 14.17) इति स्मृतेः ।
तेन च सत्त्वधर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः ।
सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् ।
न केवलस्याकार्यकारणस्य पुरुषोपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् ।
त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते ।
वेदान्तवाक्येष्ववश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमुपगन्तव्यम् ।
नहि सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते ।
तथाहि- ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत ।
अथानित्यं तदिति ज्ञानक्रियाया उपरमेतापि ब्रह्म, तदा सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमापतति ।
अपिच प्रागुत्पत्तेः सर्वकारकाशून्यं ब्रह्मेष्यते त्वया ।
नच ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना ।
अपिच प्रधानस्यनेकात्मकस्य परिणामासंभवात्कारणत्वोपपत्तिर्मृदादिवत्, नासंहतस्यैकात्मकस्य ब्रह्मण इत्येवं प्राप्तं इदं सूत्रमारभ्यते-
fन्: कार्यसंबन्धंविनापि अनुमेया इति ।
बुद्धौ यः प्रतिबिम्बः स तादृशबिम्बपूर्वकः प्रतिबिम्बत्वात् ।
दर्पणे मुखाभासादित्यनुमानम् ।
व्याकरणमीमांसान्यायाः पदवाक्यप्रमाणानि ।
वाक्याभासेषु युक्त्याभासेषु च विप्रतिपत्तिर्येषां ते ।
ज्ञानक्रियांप्रति ज्ञाधात्वर्थंप्रति, स्वातन्त्र्यं कर्तृत्वम् ।
आदिपदेन ज्ञेयज्ञात्रादिसंग्रहः ।
प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति ।
ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते ।
ईक्षतेर् नाशब्दम् । ब्ब्स्_1,1.5 ।
न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् ।
अशब्दं हि तत् ।
कथमशब्दत्वं, ईक्षतेः- ईक्षितृत्वश्रवणात्कारणस्य ।
कथम् ।
एवंहि श्रूयते- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ ।
(छान्दो. 6.2.1) इत्युपक्रम्य ऽतदैक्षत बहु स्यां प्रजायेयेति तत्तेजो ऽसृजतऽ (छान्दो. 6.2.3) इति ।
तत्रेदंशब्दवाच्यं नामरूपव्याकृतं जगत्प्रागुत्पत्तेः सदात्मनावधार्य तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति ।
तथान्यत्र- ऽआत्मा वा इदमेक एवाग्र आसीत् ।
नान्यत्किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ।
स इमांलोकानसृजतऽ (ऐत. 1.1.1) इतीक्षापूर्विकामेव सृष्टिमाचष्टे ।
द्वचिच्च षोडषकलं पुरुषं प्रस्तुत्याह- ऽस ईक्षाञ्चक्रे ।
स प्राणमसृजतऽ (प्रश्न. 6.3) इति ।
ईक्षतेरिति च धात्वर्थनिर्देशो ऽभिप्रेतः, यजतेरितिवत् ।
न धातुनिर्देशः ।
तेन ऽयः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं न जायतेऽ (मुण्ड. 1.1.9) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यानुदाहर्तव्यानि ।
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते ।
नहि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति ।
ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति ।
तदपि नोपपद्यते ।
यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानाक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत ।
अपिच नासाक्षिका सत्त्ववृत्तिर्जानातिनाभिधीयेते ।
न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति ।
तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् ।
योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् ।
अथ पुनः साक्षिनिमित्तमीक्षितृत्वं कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् ।
तथासति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति युक्तम् ।
यत्पुनरुक्तं ब्रह्मणो ऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियांप्रति स्वातन्त्र्यासंभवादिति ।
अत्रोच्यते- इदं तावद्भवान्प्रष्टव्यः, कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति ।
यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति सो ऽसर्वज्ञ इति विप्रतिषिद्धम् ।
अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्नजानातीत्यसर्वज्ञत्वमपि स्यात् ।
नासौ ज्ञाननित्यत्वे दोषो ऽस्ति ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यत इति चेन्न, प्रततौष्ण्यप्रकाशे ऽपि सवितरि दहति प्रकाशयतीति स्वातन्त्र्यव्यपदेशदर्शनात् ।
ननु सवितुर्दाह्यप्रकाशसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात्, नतु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगो ऽस्तीति विषमो दृष्टान्तः ।
न ।
असत्यपि कर्मणि सविता प्रकाशत इति कर्तृत्वव्यपदेशदर्शनात् ।
एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः ऽतदैक्षतऽ इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम् ।
कर्मापेक्षायां तु ब्रह्मणीक्षितृत्वश्रुतयः सुतरामुपपन्नाः ।
किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति ।
तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः ।
यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति ।

यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, न तच्चोद्यमवतरति, सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः ।
अपिचाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यान्न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य ।
मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः- ऽन तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चऽ (श्वेता. 6.8) इति ।
ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्ऽ (श्वेता. 3.19) इति च ।
ननु नास्ति तावज् ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी, ऽनान्यो ऽस्ती द्रष्टा नान्यो ऽतो ऽस्ती विज्ञाताऽ (बृह. 3.7.23) इति श्रुतेः ।
तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति ।
अत्रोच्यते - सत्यं, नेश्वरादन्यः संसारी ।
तथापि देहादिसंघातोपाधिसंबन्ध इत्यत एव, घटकरकगिरिगुहाद्युपाधिसंबन्ध इव व्योम्नः ।
तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टो घटच्छिद्रं करकादिच्छिद्रमित्यादिराकाशाव्यतिरेके ऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा ।
तथेहापि देहादिसंघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः ।
दृश्यते चात्मन एव सतो देहादिसंघाते ऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण ।
सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः ।
यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम् ।
यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानादीनां तथा प्रपञ्चयिष्यति- ऽन विलक्षणत्वादस्यऽ- (ब्र. 2.1.4) इत्येवमादिना

5.5

वृत्तमनूद्याक्षेपलक्षणामवान्तरसंगतिमाह- सांख्यादयस्त्विति ।
भवतु सिद्धे वेदान्तानां समन्वयः तथापि मानान्तरायोगे ब्रह्मणि शक्तिग्रहायोगात्, कूटस्थत्वेनाविकारित्वेन कारणत्वायोगाच्च न समन्वयः ।
किन्तु सर्गाद्यं कार्यं जडप्रकृतिकं, कार्यत्वात्, घटवत् इत्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः ।
सिद्धं मानान्तरगम्यमेवेत्याग्रहः शक्तिग्रहार्थः ।
अत एव प्रधानादवनुमानोपस्थिते शक्तिग्रहसंभवात् तत्परतया वाक्यानि योजयन्तीत्युक्तम् ।
किं च ऽतेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छऽइत्याद्याः श्रुतयः ।
शुङ्गेन लिङ्गेन कारणस्य स्वतो ऽन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह- सर्वेष्विति ।
नन्वतीन्द्रियत्वेन प्रथानादेर्व्याप्तिग्रहायोगात्कथमनुमानम्, तत्राह- प्रधानमिति ।
यत्कार्यं तज्जडप्रकृतिकं यथा घटः ।
यज्जडं तच्चेतनसंयुक्तं, यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्रधानपुरुष संयोगा इत्यर्थः ।
अद्वितीयब्रह्मणः कारणत्वविरोधिमतान्तरमाह- काणादास्त्विति ।
सृष्टिवाक्येभ्य एव परार्थानुमानरूपेभ्यो यत्कार्यं तद्बुद्धिमत्कर्तृकमितीश्वरं कर्तारं, परमाणूंश्च यत्कार्यद्रव्यं तत्स्वन्यूनपरिमाणद्रव्यारब्दमित्यनुमिमत इत्यर्थः ।
अन्ये ऽपि बौद्धादयः ।
ऽअसद्वा इदमग्र आसीत् इत्यादि वाक्याभासः ।
यद्वस्तु तच्छून्यावसानं, यथा दीप इति युक्त्याभासः ।
एवं वादिविप्रतिपत्तिमुक्त्वा तन्निरासायोत्तरसूत्रसन्दर्भममवतारयति-- तत्रेति ।
वादिविवादे सतीत्यर्थः ।
व्याकरणमीमांसान्यायनिधित्वात्पदवाक्यप्रमाणज्ञत्वम् ।
यज्जगत्कारणं तच्चेतनमचेतनं वेति
ईक्षणस्यमुख्यत्वगौणत्वाभ्यां संशये पूर्वपक्षमाह-- तत्र सांख्या इति ।
अपिशब्दावयवकारार्थो ।
ऽसदेवऽइत्यादि स्पष्टब्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसंगतयः ।
पूर्वपक्षे जीवस्यप्रधानैक्योपास्तिः, सिद्धान्तेब्रह्मैक्यज्ञानमिति विवेकः ।
अचेतनसत्वस्यैव सर्वज्ञत्वं, न चेतनस्येत्याह- तेन च सत्वधर्मेणेति ।
न केवलस्येति ।
जन्यज्ञानस्य सत्वधर्मत्वान्नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न सर्वज्ञानकर्तृत्वमित्यर्थः ।
ननु गुणानां साम्यावस्थायां सत्वस्योत्कर्षाभावात्कथं सर्वज्ञतेत्याह- त्रिगुणत्वादिति ।
त्रयो गुणा एव प्रधानं तस्यसाम्यवस्था तदभेदप्रधानमित्युच्यते ।
तदवस्थायामपि प्रलये सर्वज्ञानक्तिमत्वरूपं सर्वज्ञत्वमक्षतमित्यर्थः ।
ननु मया किमिति शक्तिमत्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति, तत्राह- नहीति ।
अनित्यज्ञानस्य प्रलये नाशाच्छक्तिमत्वं वाच्यं कारकाभावाच्चेत्याह- अपि चेति ।
मतद्वयसाम्यमुक्त्वा स्वमते विशेषमाह- अपि चेति ।
ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते ।
प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति ।
अधुना तु श्रुत्या निरस्यति- ईक्षतेर्नाशब्दमिति ।
ईक्षणश्रवणाद्वेदावाच्यमशब्दं प्रधानम् ।
अशब्दत्वान्न कारणमिति सूत्रयोजना ।
तत्सच्छब्दवाच्यं कारणमैक्षत ।
ईक्षणमेवाह-- बह्विति ।
बहु प्रपञ्चरूपेण स्थित्यर्थमहमेवोपादानतया कार्याभेदाज्जनिष्यामीत्याह- प्रजेति ।
एवं तत्सदीक्षित्वा आकाशं वायुं च सृष्ट्वा तेजः सृष्टवदित्याह- तदिति ।
मिषच्चलत् ।
सत्वाक्रान्तमिति यावत् स जीवाभिन्नः परमात्मा ऽप्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनो अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्मलोकालोकेषु नाम चऽइत्युक्ताः षोडशकलाः ।
ननु ऽइक्शितपो धातुनिर्देशेऽइति कात्यायनस्मरणादीक्षतेरिति पदेन श्तिबन्तेन धातुरुच्यते ।
तेन धात्वर्थं ईक्षणं कथं व्याख्यायत इत्यशङ्क्य लक्षणयेत्याह- ईक्षितेरितिचेति ।
ऽइतिकर्तव्यताविधेर्यजतेः पूर्ववत्वंऽइति जैमिनिसूत्रे यथा यजतिपदेन लक्षणया धात्वर्थो याग उच्यते तद्विदिहापीत्यर्थः ।
सौर्यादिविकृतियागस्याङ्गानामविधानात् पूर्वदर्शादिप्रकृतिस्थाङ्गवत्वमिति सूत्रार्थः ।
धात्वर्थनिर्देशेन लाभमाह- तेनेति ।
सामान्यतः सर्वज्ञो विशेषतः सर्वविदिति भेदः ।
ज्ञानमीक्षणमेव तपः ।
तपस्विनः फलमाह- तस्मादिति ।
एतत्कार्यं सूत्राख्यं ब्रह्म ।
केवलसत्त्ववृत्तेर्ज्ञानत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम् ।
संप्रति न केवलजडवृत्तिर्ज्ञानशब्दार्थः किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानम् ।
तच्चान्धस्य प्रधानस्य नास्तीत्याह- अपिचेति ।
साक्षित्वमस्ति, येनोक्तज्ञानवत्वं स्यादिति शेषः ।
ननु सत्त्ववृत्तिमात्रेण योगिनां सर्वज्ञत्वमुक्तमित्यत आह- योगिनांत् त्विति ।
सेश्वरसांख्यामतमाह- अथेति ।
सर्वज्ञत्वं नाम सर्वघोचरज्ञानत्वं, न ज्ञानकर्तृत्वं, ज्ञानस्य कृत्यसाध्यत्वादिति हृदिकृत्वा पृच्छति- इदं तावदिति ।
सर्वं जानातीति शब्दासाधुत्वं शङ्कते- ज्ञाननित्यत्व इति ।
नित्यस्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपाद्भेदं कल्पयित्वा कार्यत्वोपचाराद्ब्रह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सदृष्टान्तमाह- न प्रततेति ।
संततेत्यर्थः ।
असत्यपि अविवक्षिते ऽपि ।
ननु प्रकाशतेरकर्मकत्वात्सविता प्रकाशत इति प्रयोगे ऽपि जानातेः सकर्मकत्वात्कर्माभावे ऽतदैक्षतऽइत्ययुक्तमिति, तत्राह- कर्मापेक्षायां त्विति ।
कर्माविवक्षायामपि प्रकाशरूपे सवितरि प्रकाशत इति कथञ्चित्प्रकाशक्रियाश्रयत्वेन कर्तृत्वोपचारवच्चिदात्मन्यपि चिद्रूपेक्षणकर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम् ।
अधुना तु कुम्भकारस्य स्वोपाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विविधसृष्टिसंस्कारायाः प्रलयावसानेनोद्बुद्धसंस्कारायाः सर्गोन्मुखः कश्चित्परिणामः संभवति, अतः तस्यां सूक्ष्मरूपेण निलीन सर्वकार्यविषयकमीक्षणं, तस्य कार्यत्वात्कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति द्योतयति- सुतरामिति ।
ननु मायोपाधिकबिम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वं, कृत्यभावादिति चेन्न, कार्यानुकूलज्ञानवत एव कर्तृत्वादीश्वरस्यापि ईक्षणानुकूलनित्यज्ञानवत्त्वात् ।
न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात्किमीक्षणेनेति वाच्यम्, वाय्वादेरेव शब्दवत्त्वसंभवात्किमाकाशेनेत्यतिप्रसङ्गात् ।
अतः श्रुतत्वाद्वाय्वादिकारणत्वेनाकाशवदैक्षतेत्यागन्तुकत्वेन श्रुतमीक्षणमाकाशादिहेतुत्वेनाङ्गीकार्यमित्यलम् ।
अव्याकृते सूक्ष्मात्मना स्थिते व्याकर्तुं स्थूलीकर्तुमिष्टे इत्यर्थः ।
अव्याकृतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपेक्षत्वे ऽपि वृत्तिरूपेक्षणस्य कारकं वाच्यमित्याशङ्क्याह- अपिचाविद्यादिमत इति ।
यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मायिनो ऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः ।
ननु यज्जन्यज्ञानं तच्छरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्क्य श्रुतिबाधमाह- मन्त्रौ चेति ।
कार्यं शरीरम् ।
कारणमिन्द्रियम् ।
अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्द्विविधा ।

सा त्वैतिह्यमात्रसिद्धा न प्रमाणसिद्धेत्याह- श्रुयत इति ।
ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी ।
अनादिमायात्मकत्वादित्यर्थः ।
ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिबिम्बितत्त्वेन स्फुटत्वं तस्य क्रियानाम बिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीति वार्थः ।
अपाणिरपि ग्रहीता ।
अपादोपि जवनः ।
ईश्वरस्यस्वकार्ये लौकिकहेत्वपेक्षा नास्तीति भावः ।
अग्र्यमनादिं, पुरुषमनन्तं, महान्तं विभुमित्यर्थः ।
अपसिद्धान्तं शङ्कते- नन्विति ।
ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः ।
औपादिकस्य जीवेश्वरभेदस्यमयोक्तत्वान्नापसिद्धान्त इत्याह- अत्रोच्यत इति ।
तत्कृत उपाधिसंबन्धकृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः ।
असंकीर्ण इति शेषः ।
अव्यतिरेके कथमसंकरस्तत्राह- तत्कृता चेति ।
उपाधिसंबन्धकृतेत्यर्थः ।
तथेति ।
देहादिसंबन्धत्य हेतुरविवेको ऽनाद्यविद्या तया कृत इत्यर्थः ।
अविद्यायां हि प्रतिबिम्बो जीवः, बिम्बचैतन्यमीश्वर इति भेदो ऽविद्याधीनसत्ताकः, अनादिभेदस्य कार्यत्वायोगात् ।
कार्यबुद्ध्यादिकृतप्रमात्रादिभेदश्च कार्य एवेति विवेकः ।
नन्वखण्डस्वप्रकाशात्मनि कथमविवेकः, तत्राह- दृश्यते चेति ।
वस्तुतो देहादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरो ऽहमिति भ्रमोदृष्टत्वाद्दुरपह्नवः ।
स च मिथ्याबुद्ध्या मीयत इति मिथ्याबुद्धिमात्रेण भ्रान्तिसिद्धाज्ञानेन कल्पित इति चकारार्थः ।
यद्वोक्तमिथ्याबुद्धौ लोकानुभवमाह- दृश्यते चेति ।
इत्थंभावे तृतीया ।
भ्रान्त्यात्मना दृश्यत इत्यर्थः ।
पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमेयतयेति वार्थः ।
कूठस्थस्यापि मायिकं कारणत्वं युक्तमित्याह- यथा त्विति ।
यत्त्ववेद्ये शब्दशक्तिग्रहायोग इति, तन्न ।
सत्यादिपदानामबाधिताद्यर्थेषु लोकावगतशक्तिकानां वाच्चैकदेशत्वेनोपस्थिताखण्डब्रह्मलक्षकत्वादिति स्थितम्

5.6

एन्द् ब्स्चोम्_1,1.5.5
स्तर्त् ब्स्चोम्_1,1.5.6
अत्राह- यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वादिति तदन्यथाप्युपपद्यते, अचेतने ऽपि चेतनवदुपचारदर्शनात् ।
यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य कूलं पिपातिषतीत्यचेतने ऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनो ऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ऽतदैक्षतऽ इति ।
यथा लोके कश्चिच्चेतनः स्नात्वा भुक्त्वा चापराह्ने ग्रामं रथेन गमिष्यामीतीक्षित्वानन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते ।
तस्माच्चेतनवदुपचर्यते ।
कस्मात्पुनः कारणाद्विहाय मुख्यमीक्षितृत्वमौपचारिकं कल्प्यते, ऽतत्तेज ऐक्षतऽ, ऽता आप ऐक्षन्तऽ (छान्दो. 6.2.3,4) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात् ।
तस्मात्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, ऽउपचारप्राये वचनात्ऽ इति ।
एवं प्राप्त इदं सूत्रमारभ्यते-
fन्: सामान्यतः सर्वे जानातीति सर्वज्ञः ।
तत्तद्विशेषधर्मघटादिपुरस्कारेण सर्वे वेत्तीति सर्ववित् ।
एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् ।
सांख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति- यत्तूक्तमिति ।
अचेतनस्याज्ञातृत्वं तच्छब्दार्थः ।
सेश्वरसांख्यमतमाह- अथेति ।
प्रततेत्यस्य संततेत्यर्थः ।
असत्यपि अविवक्षितेपि ।
प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् ।
कार्यं शरीरम्, करणमिन्द्रियजातम् ।
अभिनिवेशो मिथ्याभिमानः ।
गौणश्चेन्नात्मशब्दात् । ब्ब्स्_1,1.6 ।
यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिक ईक्षतिः, अप्तेजसोरिवेति, तदसत् ।
कस्मात्, आत्मशब्दात् ।
ऽसदेव सोम्येदमग्र आसीत्ऽ इत्युपक्रम्य ऽतदैक्षत तत्तेजो ऽसृजतऽ (छान्दो. 6.2.1,3) इति च तेजो ऽबन्नानां सृष्टिमुक्त्वा तदेव प्रकृतं सदीक्षितृ, तानि च तेजो ऽबन्नानि, देवताशब्देन परामृश्याह- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रवश्य नामरूपे व्याकरवाणिऽ (छान्दो. 6.3.2) इति ।
तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत तदेव प्रकृतत्वात्सेयं देवतेति परामृश्येत ।
न तदा देवता जीवात्मशब्देनाभिदध्यात् ।
जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च ।
स कथमचेतनस्य प्रधानस्यात्मा भवेत् ।
आत्मा हि नाम स्वरूपम् ।
नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति ।
अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्यते तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते ।
तथा ऽस य एषो ऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽ (छान्दो. 6.14.3) इत्यत्र ऽस आत्माऽ इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य ऽतत्त्वमसि श्वेतकेतोऽ इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति, अप्तेजसोस्तु विषयत्वादचेतनत्वं, नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, नचात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य ।
तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् ।
सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम्

5.6

संप्रत्युत्तरसूत्रनिरस्याशङ्कामाह- अत्राहेति ।
अन्यथापि अचेतनत्वे ऽपि ।
ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह- यथेति ।
नियतक्रमवत्कार्यकारित्वं साम्यमित्यर्थः ।
ऽउपचारप्राये वचनात्ऽइति गौणार्थप्रचुरे प्रकरणे समाम्नानादित्यर्थः ।
अप्तेजसोरिवाचेतने सति गौणी ईक्षतिरिति चेन्न, आत्मशब्दात्सतश्चेतनत्वनिश्चयादिति सूत्रार्थमाह- यदुक्तमित्यादिना ।
सा प्रकृता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूतसृष्ट्यनन्तरं इमाः सृष्टास्तिस्रस्तेजो ऽबन्नरूपाः ।
परोक्षत्वाद्देवता इति द्वितीयाबहुवचनम् ।
अनेन पूर्वकल्पानुभूतेनजीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिष्यामीत्यैक्षतेत्यन्वयः ।
लौकिकप्रसिद्धेः, ऽजीव प्राणधारणेऽइति धातोर्जीवतिप्रामधारयतीति निर्वचनाच्चेत्यर्थः ।
अत त्विति ।
स्वपक्षे तु बिम्बप्रतिबिम्बयोर्लोके भेदस्यकल्पितत्वदर्शनाज्जीवो ब्राह्मणः सत आत्मेति युक्तमित्यर्थः ।
जीवस्य सच्छब्दार्थं प्रत्यात्मशब्दात् सन्न प्रधानमित्युक्त्वा सतौ जीवं प्रत्यात्मशब्दान्न प्रधानमिति विधान्तरेण हेतुं व्याचष्टे- तथेति ।
स यःसदाख्य एषोणिमासूक्ष्मः, ऐतदात्मकमिदं सर्वं जगत्, तत्सदेव सत्यं, विकारस्य मिथ्यात्वात् ।
सः सत्पदार्थः सर्वस्यात्मा ।
हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव सदभाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः ।
इत्यत्रोपदिशति ।
अतश्चेतनात्माकत्वात् सत्वात् सच्चेतनमेवेति वाक्यशेषः ।
यदुक्तमप्तेजसोरिव सत ईक्षणं गौणमिति, तत्राह- अत्तेजसोस्त्विति ।
नामरूपयोर्व्याकरणं सृष्टिः ।
आजिपदान्नियमनं ।
आप्तेजसोदृग्विषयत्वात्सृज्यत्वान्नियम्यत्वाच्चाचेतनत्वमीक्षणस्य मुख्यत्वे बाधकमस्ति साधकं च नास्तीति हेतोर्युक्तमीक्षणस्य गौणत्वमिति योजना ।
चेतनवत्कार्यकारित्वं गुणः ऽतेज ऐक्षतऽचेतनवत्कार्यकारित्यर्थः ।
यद्वा तेजःपदेन तदधिष्ठानं सल्लक्ष्यते ।
तथाच मुख्यमीक्षणमित्याह- तयोरिति ।
स्यादेतद्यदि सत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यत आह- सतस्त्विति ।
गौणमुख्ययोरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यनिश्चायकत्वादात्मशब्दाच्च सत ईक्षणं मुख्यमित्यर्थः

5.7

एन्द् ब्स्चोम्_1,1.5.6
स्तर्त् ब्स्चोम्_1,1.5.7
अथोच्येताचेतने ऽपि प्रधाने भवत्यात्माब्दः, आत्मनः सर्वार्थकारित्वात्, यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दो ममात्मा भद्रसेन इति ।
प्रधानं हि पुरुषस्यात्मनो भोगापवर्गो कुर्वदुपकरोति, राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः ।
अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति,
भूतात्मेन्द्रियात्मेति च प्रयोगदर्शनात् ।
यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः ।
तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति-
fन्: अनेन पूर्वसृष्ट्यनुभूतेन प्राणधृतिहेतुनामात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्करवाणीति परा देवतेक्षितवतीत्यर्थः ।
कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः ।
तन्निष्ठस्य मोक्षोपदेशात् । ब्ब्स्_1,1.7 ।
न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति, ऽस आत्माऽ इति प्रकृतं सदणिमानमादाय ऽतत्त्वमसि श्वेतकेतोऽ इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठमुपदिश्य ऽआचार्यवान्पुरुषो वेदऽ ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो. 6.14.2) इति मोक्षोपदेशात् ।
यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यं तदसीति ग्राहयेन्मुमुक्षुं चेतनं सन्तमचेतनो ऽसीति तदा विपरीतवादी शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् ।
नतु निर्देषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् ।
यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रं स श्रद्धधानतयान्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत्, तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत, तथा सति पुरुषार्थाद्विहन्येतानर्थं न ऋच्छेत् ।
तस्माद्यथा स्वर्गाद्यर्थिनो ऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति तथा मुमुक्षोरपि ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति यथाभूतमेवात्मानमुपदुशतीति युक्तम् ।
एवञ्च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते ।
अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे ऽअहमुक्थमस्मीति विद्यात्ऽ (ऐ. आर. 2.1.2.6) इतिवत्संपन्मात्रमिदमनित्यफलं स्यात् ।
तत्र मोक्षोपदेशो नोपपद्येत ।
तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् ।
भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दो ममात्मा भद्रसेन इति ।
अपिच द्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेर्ऽथो गौणी कल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात् ।
यत्तूक्तं चेतनाचेतनयोः साधारण आत्माब्दः क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न, अनेकार्थत्वास्यान्याय्यत्वात् ।
तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते भूतात्मेन्द्रियात्मेति च ।
साधारणत्वे ऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते ।
नचात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति ।
प्रकृतं तु सदीक्षितृ, संनिहितश्चेतनः श्वेतकेतुः नहि चेतनस्य श्वेतकेतोरचेतन आत्मा संभवतीत्यवोचाम ।
तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते ।
ज्योतिःशब्दो ऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढोर्ऽथवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः ।
अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः ऽतन्निष्ठस्य मोक्षोपदेशात्ऽ इति ।
तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम्

5.7

fन्: अत्रोत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसवत् ।
तदा चेतनं सन्तं मुमुक्षुमचेतनो ऽसीतिब्रुवच्छास्त्रं विपरीतवादिभूत्वा पुंसो ऽनर्थायेतिकृत्वा स्यादप्रमाणमिति योजना ।
अत्र विहतिर्मुक्तिभाक्त्वाभावः ।
ऽयथा सत्याभिसंधस्तप्तं परशुं स न दह्यते ऽथ मुच्यतेऽ इति ।
उक्थं प्राणः ।
महावाक्योत्थं ज्ञानमिदमुच्यते ।
आत्महितकारित्वगुणयोगादात्मशब्दो ऽपि प्रधाने गौण इति शङ्कते- अथेत्यादिना ।
आत्मशब्दो प्रधाने ऽपि मुख्यो नानार्थकत्वादित्याह- अथवेति ।
नानार्थत्वे दृष्टान्तः- यथेति ।
ऽअथैष ज्योतिःऽश्रुत्या सहस्रदक्षिणाके क्रतौ ज्योतिष्टोमे लोकप्रयोगादग्नौ च ज्योतिःशब्दो यथा मुख्यस्तद्वदित्यर्थः ।
तस्मिन्सत्पदार्थे निष्टा अभेदज्ञानं यस्य स सन्निष्ठस्तस्य मुक्तिश्रवणादिति सूत्रार्थमाह- नेत्यादिना ।
श्रुतिः समन्वयसूत्रेव्याख्याता ।
अनर्थायेत्युक्तं प्रपञ्चयति- यदि चाज्ञस्येति ।
कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरमं जगमिषुं बभाषे, किमात्रायुष्मता दुःखितेन स्थीयत इति ।
स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं मत्वोवाच, अहो मद्भागधेयं, यदत्र भवान्मां दीनं स्वाभीष्टनगरप्राप्यसमर्थं भाषत इति ।
स च विप्रलिप्सुर्दुष्टगोयुवानमानीय तदीयलाङ्गूलमन्धं ग्राहयामास ।
उपदिदेश च एनमन्धं, एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति ।
स चान्धः श्रद्धालुतया तदत्यजन्स्वाभीष्टमप्राप्यानर्थपरंपरां प्राप्तः ।
तेन न्यायेनेत्यर्थः ।
तथा सतीति ।
आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नुयात् प्रत्युतानर्थं संसारं च प्राप्नुयादित्यर्थः ।
ननु जीवस्य प्रधानैक्यसंपदुपासनार्थमिदं वाक्यामस्त्विति, तत्राह- एवं च सतीति ।
अहाधितात्मप्रमायां सत्यामित्यार्थः ।
कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टः, तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिसंधिमतो मोक्षो यथा ऽसत्याभिसंधस्तप्तं परशुं गृह्णाति स न दह्यते ऽथ मुच्यतेऽइति श्रुत्योपदिष्टः ।
स उपदेशः संपत्पक्षे न युक्तः इत्याह- अन्यथेति ।
देहमुत्थापयतीत्युक्थं प्राणः ।
तस्मान्मोक्षोपदेशान्मुख्ये संभवति गौणत्वस्यान्याय्यत्वाच्चात्मशब्दः सति मुख्य इत्याह- अपि चेति ।
क्वचिद्भृत्यादौ ।
सर्वत्राहमात्मेत्यत्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः ।
चेतनत्वोपचाराद्भूतादिषु ।
सर्वत्र चैतन्यतादात्म्यादित्यर्थः ।
आत्मशब्दश्चेतनस्यैवासाधारण इत्युक्तम् ।
अस्तुवाव्यापिवस्तूनां साधारणस्तथापि तस्यात्र श्रुतौ प्रधानपरत्वे ऽपि निश्चायकाभावान्न प्रधानवृत्तितेत्याह- साधारणत्वे ऽपीति ।
चेतनवाचित्वे तु प्रकरणं शेतकेतुपदं च निश्चायकमस्तीत्याह- प्रकृतं त्विति ।
उपपदस्य निश्चायकत्वं स्फुटयति- नहीति ।
ततः किं, तत्राह- तस्मादिति ।
आत्मशब्दो ज्योतिःशब्दवन्नानार्थक इत्युक्तं दृष्टान्तं निरस्यति- ज्योतिरिति ।
कथं तर्हि ऽज्योतिषा यजेतऽइति ज्योतिष्टोमे प्रयोगः, तत्राह- अर्थवादेति ।
ऽएतानि वाव तानि ज्योतींषि य एतस्य स्तोमाःऽइत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यम् ।
त्रिवृत्पञ्चदशस्त्रिवृत्सप्तदशस्त्रिवृदेकविंश इति स्तोमास्तत्तदर्थप्रकाशकत्वेन गुणेन ज्योतिष्पदोक्ता ऋक्संघाः ।
तथा च ज्योतींषि स्तोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः ।
नन्वात्मशब्दादिति पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौणत्वसाधारणत्वशङ्कानिरासः कर्तुमुचितः, मुख्यार्थस्य लाघवेनोक्तिसंभवे गौणत्वनानार्थकत्वाशङ्काया दुर्बलत्वेन तन्निरासार्थं पृथक्सूत्रायासानपेक्षणात् ।
तथा च शङ्कोत्तरत्वेनासूत्राख्यानं नातीव शोभत इत्यरुचेराह- अथवेति ।
निरस्ता समस्ता गौणत्वनानार्थकत्वशङ्का यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तयेत्यर्थः ।
तत इति ।
सत आत्मशब्दे जीवाभिन्नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनिरासे हेतुरित्यर्थः

5.8

एन्द् ब्स्चोम्_1,1.5.7
स्तर्त् ब्स्चोम्_1,1.5.8
कुतश्च न प्रधानं सच्छब्दवाच्यम् ।
हेयत्वावचनाच्च । ब्ब्स्_1,1.8 ।
यद्यानात्मैव प्रधानं सच्छब्दवाच्यं ऽस आत्मा तत्त्वमसिऽ इतीहोपदिष्टं स्यात्स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षुस्तस्य हेयत्वं ब्रूयात् ।
यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतिति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति तद्वन्नायमात्मेति ब्रूयात् ।
नचैवमवोचत् ।
सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यते ।
चशब्दः
[प्रतिज्ञाविरोधात् । ब्ब्स्_1,1.8अ ।]
प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः ।
सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत ।
कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् ।
ऽउत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ ।
ऽएवं सोम्य स आदेशो भवतिऽ (छान्दो. 6.1.1,3) इति वाक्योपक्रमे श्रवणात् ।
नच सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्य ।
तस्मान्न प्रधानं सच्छब्दवाच्यम्

5.8

ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामरुन्धतीत्वेनोपदिशति, तद्वदनात्मन एव प्रधानस्य सत्पदार्थस्यात्मत्वोपदेश इति शङ्कते- कुतश्चेति ।
प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः ।
सौत्रश्चकारो ऽनुक्तसमुच्चयार्थ इत्याह- चशब्द इति ।
विवृणोति- सत्यपीति ।
अपिशब्दान्नास्त्येवेति सूचयति ।
वेदानधीत्यागतं स्तब्धं पुत्रं पितोवाच-हे पुत्र उत अपि, आदिश्यत इत्यादेश उपदेशैकलभ्यः स्दात्मा तमप्यप्राक्ष्यः गुरुनिकटेपृष्टवानसि, यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः ।
नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते- कथमिति ।
हे भगवः, कथं नु खलु स भवतीत्यर्थः ।
कार्यस्य कारणान्यत्वं नास्तीत्याह- यथेति ।
पिण्डः स्वरूपं तेन ।
विज्ञातेनेति शेषः ।
तत्र युक्तिमाह- वाचेति ।
वाचा वागिन्द्रियेणारभ्यत इति विकारो वाचारम्भणम् ।
ननु वाचा नामैवारभ्यते, न घटादिरित्याशङ्क्य नाममात्रमेव विकार इत्याह- नामधेयमिति ।
ऽनामधेयं विकारो ऽयं वाचा केवलमुच्यते ।
वस्तुतः कारणाद्भिन्नो नास्ति तस्मान्मृषैव सः ॥
ऽइति भावः ।
विकारस्य मिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति, नेत्याह- मृत्तिकेति ।
कारणं कार्याद्भिन्नसत्ताकं न कार्यं कारणाद्भिन्नम्, अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात्कारणज्ञानेन तज्ज्ञानं भवतीति स्थिते दार्ष्टान्तिकमाह- एवमिति ।
मृद्वद्ब्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किञ्चिन्नावशिष्यत इत्यर्थः ।
यद्यपि प्रधाने ज्ञाते तादात्म्याद्विकाराणां ज्ञानं भवति तथापि न पुरुषाणां, तेषां प्रधानविकारत्वाभावादित्याह- नचेति ।
अस्माकं जीवानां सद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः

5.9

एन्द् ब्स्चोम्_1,1.5.8
स्तर्त् ब्स्चोम्_1,1.5.9
कुतश्च न प्रधानं सच्छब्दवाच्यम्-
हे श्वेतकेतो, उत अपि आदिस्यत इत्यादेशस्तं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानस्याचार्यम् ।
वाचारभ्यमाणमुच्चार्यमाणं नामधेयमेव विकारो न तु घटशरावादिनामातिरिक्तो मृदि विकारो वस्तुतो ऽस्ति परमार्थतो मृत्तिकैव तु सत्यं वस्त्वस्तीति ।
स्वाप्ययात् । ब्ब्स्_1,1.9 ।
तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते- ऽयत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवतिऽ (छान्दो. 6.8.1) इति ।
एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति ।
स्वशब्देनेहात्मोच्यते ।
यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः ।
अपिपूर्वस्यैतेर्लर्यार्थत्वं प्रसिद्धं, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् ।
मनःप्रचारोपाधिविशेषसंबन्धादिन्द्रियार्थान्गृह्यंस्तद्विशेषापन्नो जीवो जागर्ति ।
तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति ।
स उपाधिद्वयोपरमे सुषुप्तावस्थामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति ऽस्वं ह्यपीतो भवतिऽ इत्युच्यते ।
यथा हृदयशब्दनिर्वचनं श्रुत्वा दर्शितम्- ऽस वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माधृदयमितिऽ (छान्दो. 8.3.3) इति ।
यथावाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः- ऽआप एव तदशितं नयन्तेऽ ऽतेज एव तत्पीतं नयन्तेऽ (छा. 6. 8. 3,5) इति च ।
एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवतीतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति ।
नच चेतन आत्माचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत ।
यदि पुनः प्रधानमेवात्मीयात्वात्स्वाशब्देनैवोच्येत, एवमपि चेतनो ऽचेतनमप्येतीति विरुद्धमापद्येत ।
श्रुत्यन्तरं च - ऽप्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ ।
(बृह. 4.3.21) इति सुषुप्तावस्थायां चेतने ऽप्ययं दर्शयति ।
अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं न प्रधानम्

5.9

fन्: यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता संपन्नस्तेनैकीभूत इति योजना ।
कुतश्चेति ।
पुनरपि कस्माधेतोरित्यर्थः ।
सुषुप्तौ जीवस्य सदात्मनि स्वस्मिन्नप्ययश्रवणात्सच्चेतनमेवेति सूत्रयोजना ।
एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता संपन्न एकीभवति ।
सदैक्ये ऽपि नामप्रवृत्तिः कथं, तत्राह- स्वमिति ।
तत्र लोकप्रसिद्धिमाह- तस्मादिति ।
हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः ।
श्रुतेस्तात्पर्यमाह- एषेत्यादिना ।
कथमेतावता प्रधाननिरास इत्यत आह- स्वशब्देनेति ।
एतेर्धातोर्गत्यर्थस्यापिपूर्वस्य लयार्थत्वे ऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह- मन इति ।
ऐन्द्रियकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना संबन्धादात्मा तानिन्द्रियार्थान्पश्यन्स्थूलविशेषेण देहेनैक्यभ्रान्तिमापन्नो विश्वसंज्ञो जागर्ति ।
जाग्रद्वासनाश्रयमनोविशिष्टः संस्तैजससंज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान्पश्यन् ऽसोम्य तन्मनःऽइति श्रुतिस्थमनःशब्दवाच्यो भवति ।
स आत्मा स्थूलसूक्ष्मोपाधिद्वयोपरमे ऽहं नरः कर्तेति विशेषाभिमानाभवाल्लीन इत्युपचर्यत इत्यर्थः ।
ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आह- यथेति ।
तस्य हृदयशब्दस्यैतन्निर्वचनम् ।
तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः ।
तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् ।
अत्र दीर्घश्छान्दसः ।
एवमिदमपि निर्वचनं यथार्थमित्याह- एवमिति ।
इदं च प्रधानपक्षे न युक्तमित्याह- न चेति ।
स्वशब्दस्यात्मनीवात्मीये ऽपि शक्तिरस्तीत्याशङ्क्याह- यदीति ।
प्राज्ञेन बिम्बचैतन्येनेश्वरेण संपरिष्वङ्गो भेदभ्रमाभावेनाभेद इत्यर्थः

5.10

एन्द् ब्स्चोम्_1,1.5.9
स्तर्त् ब्स्चोम्_1,1.5.10
कुतश्च न प्रधानं जगतः कारणम्-
गतिसामान्यात् । ब्ब्स्_1,1.10 ।
यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत्क्वचिच्चेतनं ब्रह्म जगतः कारणं द्वचिदन्यदेवेति, ततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत् ।
नत्वेतदस्ति ।
समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः ।
ऽयथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःऽ (कौ. 3.3) इति ।
ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इति ।
ऽआत्मत एवेदं सर्वम्ऽ (छान्दो. 7.26.1) इति ।
ऽआत्मन एष प्राणो जायतेऽ (प्र. 3.3) इति चात्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः ।
आत्मशब्दश्च चेतनवचन इत्यवोचाम ।
महच्च प्रामाण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वं, चक्षुरादीनामिव रूपादिषु ।
अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम्

5.10

fन्: गतिरवगतिः ।
विप्रतिष्ठेरन् नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः ।
अज्ञातज्ञापकत्वं प्रामाण्यम् ।
तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्नाचेतनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह- यदि तार्किकेत्यादिना ।
अन्यत्परमाण्वादिकम् ।
न त्वेतदिति ।
अवगतिवैषम्यमित्यर्थः ।
विप्रतिष्ठरन्विविधं नानादिशः प्रति गच्छेयुः ।
प्राणश्चक्षुरादयो यथागोलकं प्रादुर्भवन्ति, प्राणेभ्यो ऽनन्तरं देवाः सूर्यादयस्तदनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः ।
ननु वेदान्तानां स्वतप्रामाण्यत्वेन प्रत्यकं स्वार्थनिश्चायकत्वसंभवात्किं गतिसामान्येनेत्यत आह- महच्चेति ।
एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह- चक्षुरिति ।
यथा सर्वेषां चक्षुषामेकरूपावगतिहेतुत्वं, श्रवणानां शब्दावगतिहेतुत्वं घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्यदार्ढ्ये हेतुरित्यर्थः

5.11

एन्द् ब्स्चोम्_1,1.5.10
स्तर्त् ब्स्चोम्_1,1.5.11
कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्-
श्रुतत्वाच् च । ब्ब्स्_1,1.11 ।
स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे. 6.9) इति ।
तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं, नाचेतनं प्रधानमन्यद्वेति सिद्धम्

5.11

fन्: कारणाधिपा जीवस्तेषामधिपः ।
वस्तुतन्त्रं भवेज्ज्ञानं कर्मतन्त्रमुपासनम् ।
आविस्तरामतिशयेन प्रकटम् ।
एवमीक्षत्यादिलिङ्गैरचेतने वेदान्तानां समन्वयं निरस्य चेतनवाचकशब्देनापि निरस्यति- श्रुतत्वाच्चेति ।
सूत्रं व्याचष्टे- स्वशब्देनेति ।
स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः ।
ऽज्ञः कालकालो गुणी सर्वविद्यःऽइति सर्वज्ञं परमेश्वरं प्रकृत्य ऽस सर्ववित्कारणम्ऽइति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः ।
करणाधिपा जीवास्तेषामधिपः ।
अधिकरमार्थमुपसंहरति- तस्मादीति ।
ईक्षणात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह- अन्यद्वेति

5.12

एन्द् ब्स्चोम्_1,1.5.11
स्तर्त् ब्स्चोम्_1,1.6.12
6 आनन्दमयाधिकरणम् । सू. 12-19
ऽजन्माद्यस्य यतःऽ इत्यारभ्य ऽश्रुतत्वाच्चऽ इत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम् ।
गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम् ।
अतः परस्य ग्रन्थस्य किमुत्थानमिति ।
उच्यते- द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविवर्जितम् ।
ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृह. 4.5.15) ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं वो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्ऽ (छान्दो. 7.24.1) ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै.आ. 3.12.7) ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्ऽ (श्वे. 6.19) ऽनेति नेतिऽ (बृ. 2.3.6) इति ऽअस्थूलमनणुऽ (बृ. 3.8.8) ऽन्यूनमन्यत्स्थानं संपूर्णमन्यत्ऽ इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि ।
तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिक्षणः सर्वो व्यवहारः ।
तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि ।
तेषां गुणविशेषोपाधिभेदेन भेदः ।
एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति तथापि यथागुणोपासनमेव फलानि भिद्यन्ते ।
ऽतं यथा यथोपासते तदेव भवतिऽ इति श्रुतेः, ऽयथाक्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्य भवतिऽ (छा. 3.14.1) इति च ।
स्मृतेश्च- ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ऽ (गी. 8.6) इति ।
यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढस्तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते- ऽतस्य य आत्मानमाविस्तरां वेदऽ (ऐ.आ. 2.3.2.1) इत्यत्र ।
स्मृतावपि- ऽयद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ।ऽ (गी. 10.41) इति ।
यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया चोद्यते ।
एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति ।
एवं ऽआकाशस्तल्लिङ्गात्ऽ (ब्र. 1.1.22) इत्यादिषु द्रष्टव्यम् ।
एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसंबन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति ।
यथेहैव तावत् ऽआनन्दमयो ऽभ्यासात्ऽ इति ।
एवमेकमपि ब्रह्मापेक्षितोपाधिसंबन्धं निरस्तोपाधिसंबन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते ।
यच्च ऽगतिसामान्यात्ऽ इत्यचेतनकारणनिराकरणमुक्तं तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते-
आनन्दमयो ऽभ्यासात् । ब्ब्स्_1,1.12 ।
तैत्तिरीयके ऽन्नमयं, प्राणमयं, मनोमयं, विज्ञानमयं,चानुक्रम्याम्नायते- ऽतस्माद्वा एतस्माद्विज्ञानमयात् ।
अन्यो ऽन्तर आत्मानन्दमयःऽ (तै. 2.5) इति ।
तत्र संशयः- किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. 2.1) इति, किंवान्नमयादिब्रह्मणोर्ऽथान्तरमिति ।
किं तावत्प्राप्तं ब्रह्मणोर्ऽथान्तरममुख्य आत्मानन्दमयः स्यात् ।
कस्मात् ।
अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् ।
अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति ।
न स्यात्प्रियाद्यवयवयोगाच्छरीरत्वश्रवणाच्च ।
मुख्यश्चेदात्मानन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात् ।
इह तु ऽतस्य प्रियमेव शिरःऽ इत्यादि श्रूयते ।
शारीरत्वं च श्रूयते- ऽतस्यैष एव शारीर आत्मा ।
यः पूर्वस्यऽ इति ।
तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः ।
नच सशरीरस्य सतः प्रियाप्रियसंस्पार्शो वारयितुं शक्यः ।
तस्मात्संसार्येवानन्दमय आत्मेत्यवं प्राप्त इदमुच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ ।
पर एवात्मानन्दमयो भवितुमर्हति ।
कुतः ।
अभ्यासात् ।
परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वो ऽभ्यस्यते ।
आनन्दमयं प्रस्तुत्य ऽरसो वै सःऽ इति तस्यैव रसत्वमुक्त्वोच्यते- ऽरसंह्येवायं लब्ध्वाऽनन्दी भवतिऽ इति, ऽको ह्येवान्यात्कः प्राण्यात् ।
यदेष आकाश आनन्दो न स्यात् ।
एष ह्येवानन्दयातिऽ ।
(तै. 2.7) ऽसैषानन्दस्य मीमांसा भवतिऽ, ऽ एतमानन्दमयमात्मानमुपसंक्रामतिऽ, ऽआनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनऽ (तै. 2.8,9) इति ।
ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै. 3.6) इति च ।
श्रुत्यन्तरे च ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. 3.9.28) इति ब्रह्मण्येवानन्दशब्दो दृष्टः ।
एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते ।
यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः ।
आनन्दमयस्य सर्वान्तरत्वात् ।
मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत्, अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततो ऽनन्तरं ततो ऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत्, प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् ।
यथारुन्धतीनिदर्शने बर्ह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु यान्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति, एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् ।
यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति, आतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः ।
शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात्, न पुनः साक्षादेव शारीरत्वं संसारिवत्, तस्मादान्दमयः पर एवात्मा

5.12

fन्: तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः ।
कोवान्याच्चलेत्, को वा विशिष्य प्राण्याज्जीवेत् ।
आनन्दयाति आनन्दयतीत्यर्थः ।
उपसंक्रमणं प्राप्तिः ब्रह्मणः स्वरूपमिति शेषः ।
लोकबुद्धेः स्थूलग्राहितामनुसरदित्यर्थः ।
इहापि अमुख्यप्रवाहे पतितस्यापि ।
वृत्तानुवादेनोत्तरसूत्रसंदर्भमाक्षिपति- जन्मादिति ।
प्रथमसूत्रस्य शास्त्रोपोद्घातत्वाज्जन्मादिसूत्रमारभ्येत्युक्तम् ।
सर्ववेदान्तानां कार्ये प्रधानाद्यचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम् ।
अतः प्रथमाध्यायार्थस्यसमाप्तत्वादुत्तरग्रन्थारम्भे किं कारणमित्यर्थः ।
वेदान्तेषु सगुणनिर्गुणब्रह्मवाक्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगुणोपासनाविधिद्वारा निगुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह- उच्यत इति ।
संक्षिप्य सगुणनिर्गुणवाक्यार्थमाह- द्विरूपं हीति ।
नामरूपात्मको विकारः सर्वं जगत्, तद्भेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः ।
वाक्यानुदाहरति- यत्र हीत्यादिना ।
यस्यां खल्वज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति ।
यत्र ज्ञानकाले विदुषः सर्वं जगदात्ममात्रमभूत्तत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तत्त्वं भाति ।
यत्र भुम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सो ऽद्वितीयो भूमा परमात्मा निर्गुणः ।
अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते ।
यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नं, यस्तु भूमा तदमृतं नित्यम् ।
अथेति ।
पूर्ववद्व्याख्येयम् ।
धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति ।
निर्गताः कला अंशा यस्मात्तन्निष्कलम् ।
अतो निरंशत्वान्निष्क्रियम् ।
अतः शान्तमपरिणामि ।
निरवद्यं रागादिदोषशून्यम् ।
अञ्जनं मूलतमःसंबन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् ।
किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थवृत्तिस्थत्वेन परमुत्कृष्टं सेतुं लौकिकसेतुवत्प्रापकम् ।
यथा दग्धेन्धनो ऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः ।
नेति नेतीति ।
व्याख्यातम् ।
स्थूलादिद्वैतशून्यम् ।
रूपद्वये श्रुतिमाह- न्यूनमिति ।
द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत्, तथा संपूर्णं निर्गुणं सगुणादन्यदित्यर्थः ।
एकस्य द्विरूपत्वं विरुद्धमित्यत आह- विद्येति ।
विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यं अविद्याविषय उपास्यं सगुणत्वं कल्पितमित्यविरोधः ।
तत्राविद्याविषयं विवृणोति- तत्रेति ।
निर्गुणज्ञानार्थमारोपितप्रपञ्चमाश्रित्यबाधात्प्राक्काले गुडजिह्विकान्यायेन तत्तत्फलार्थान्युपासनानि विधीयन्ते, तेषां चित्तैकाग्र्यद्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् ।
ऽनाम ब्रह्मऽइत्याद्युपास्तीनां कामाचारादिरभ्युदयः फलं, दहराद्युपास्तीनां कामाचारादिरभ्युदयः फलं, दहराद्युपास्तीनां क्रममुक्तिः, उद्भीथादिध्यानस्य कर्मसमृद्धिः फलमिति भेदः ।
ध्यानानां मानसत्वात्, ज्ञानान्तरङ्गत्वाच्च, ज्ञानकाण्डे विधानमिति भावः ।
ननूपास्यब्रह्मण एकत्वात्कथमुपासनानां भेदः, तत्राह- तेषामिति ।
गुणविशेषाः सत्यकामत्वादयः ।
हृदयादिरुपाधिः ।
अत्र स्वयमेवाशङ्क्य परिहरति- एक इति ।
परमात्मस्वरूपाभेदे ऽप्युपाधिभेदेनोपहितोपास्यरूपभेदादुपासननां भेदे सति फलभेद इति भावः ।
तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्तद्गुणवत्वमेव तेषां फलं भवति ।
क्रतुः संकल्पो ध्यानम् ।
इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति ।
अत्रैव भगवद्वाक्यमाह- स्मृतेश्चेति ।
ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपासकयोस्तारतम्यश्रुतयः कथमित्याशङ्क्य परिहरति- यद्यप्येक इति ।
उक्तानामुपाधीनां शुद्धितारतम्यादैश्वर्यज्ञानसुखरूपशक्तीनां तारतम्यरूपा विशेषा भवन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यगर्भान्तेप्वाविर्भावावतारतम्यं श्रूयते ।
तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सो ऽश्नुते तदिति तरप्प्रत्ययादित्यर्थः ।
तथाच निकृष्ठोपाधिरात्मैवोपासकः, उत्कृष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः ।
अत्रार्थे भगवद्गीतामुदाहरति- स्मृताविति ।
अत्र सूर्यादेरपि न जीवत्वेनोपास्यता किन्त्वीश्वरत्वेनेत्युक्तं भवति ।
तत्र सूत्रकारसंमतिमाह- एवमिति ।
उदयः असंबन्धः ।
एवं यस्मिन्वाक्ये उपाधिर्विवक्षितः तद्वाक्यमुपासनपरमिति वक्तुमुत्तरसूत्रसंदर्भस्यारम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेयब्रह्मपरमिति निर्णयार्थमारम्भ इत्याह- एवं सद्य इति ।
अन्नमयादिकोशा उपाधिविशेषाः ।
वाक्यगतिस्तात्पर्यम् ।
आरम्भसमर्थनमुपसंहरति- एवमेकमपीति ।
सिद्धवदुक्तगतिसामान्यस्य साधनार्थमप्युत्तरारम्भ इत्याह- यच्चेति ।
अन्नं प्रसिद्धं, प्राणमनोबुद्ध्यः हिरण्यगर्भरूपाः बिम्बचैतन्यामीश्वर आनन्दः ।
तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः ।
पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निशचयो ऽस्तीति प्रत्युदाहरमसंगत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम्- किमिति ।
आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति- कस्मादिति ।
विकारप्रायपाठहेतुमाह- अन्नमयादीति ।
श्रुत्यादिसंगतयः स्फुटा एव ।
पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलं, सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः ।
शङ्कते- अथापीति ।
परिहरति- न स्यादिति ।
संगृहीतं विवृणोति- मुख्य इति ।
परमात्मेत्यर्थः ।
शारीरत्वे ऽपीशरत्वं किं न स्यादित्यत आह- नचेति ।
जीवत्वं दुर्वारमित्यर्थः ।
नन्वानन्दपदाभ्यासे ऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योतिष्टोमाधिकारे ज्योतिष्पदस्य ज्योतिष्टोमपरत्ववदानन्दमयप्रकरणस्थानन्दमयपदस्यानन्दमयपरत्वात्तदभ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह-
आनन्दमयं प्रस्तुत्येति ।
रसः सारः ।
आनन्द इत्यर्थः ।
अयं लोकः ।
यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत्, को वा विशिष्या प्राण्याज्जीवेत्, तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः ।
ऽयुवा स्यात्साधुयुवाऽइत्यादिना वक्ष्यमाणा मनुष्ययुवाननदमारभ्य ब्रह्मानन्दावसाना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति ।
उपसंक्रामति विद्वान्प्राप्नोति इत्येकदेशिनामर्थः ।

मुख्यसिद्धान्ते तूपसंक्रमणं विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् ।
शिष्टमुक्तार्थम् ।
आनन्दशब्दाद्ब्रह्मावगतिः सर्वत्र समानेति गतिसामान्यार्थमाह- श्रुत्यन्तरे चेति ।
लिङ्गादमुख्यात्मसंनिधेर्बाध इति मत्वाह- नासाविति ।
सर्वान्तरत्वं न श्रुतमित्याशङ्क्य ततो ऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति- मुख्यमिति ।
लोकबुद्धिमिति ।
तस्याः स्थूलग्राहितामनुसरदित्यर्थः ।
ताम्रस्य मूषाकारत्ववत्प्राणस्य देहाकारत्वं देहेन सामान्यं, तथा मनः प्राणाकारं तेन सममित्याह- पूर्वेणेति ।
अतीतो यो ऽनन्तर उपाधिर्विज्ञानकोशस्तत्कृता सावयवत्वकल्पना, शरीरेण ज्ञेयत्वाच्छारीरत्वमिति लिङ्गद्वयं दुर्बलम् ।
अतः सहायाभावादाभ्याससर्वान्तरत्वाभ्यां विकारसंनिधेर्बाध इति भावः

5.13

एन्द् ब्स्चोम्_1,1.6.12
स्तर्त् ब्स्चोम्_1,1.6.13
विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्ब्स्_1,1.13 ।
अत्राह- नानन्दमयः पर आत्मा भवितुमर्हति ।
कस्मात्, विकारशब्दात् ।
प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगतः, आनन्दमय इति मयटो विकार्थत्वात् ।
तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इतिचेत्, न ।
प्राचुर्यार्थे ऽपि मयटः स्मरणात् ।
ऽतत्प्रकृतवचने मयट्ऽ (पा. 5.4.21) इति हि प्रचुरतायामपि मयट् स्मर्यते ।
यथा ऽअन्नमयो यज्ञःऽ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमय उच्यते ।
आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् ।
तस्मात्प्राचुर्यार्थे मयट्

5.13

विकारार्थकमयट् श्रुतिसहाय इत्याशङ्क्य मयटः प्राचुर्ये ऽपि विधानान्मैवमित्याह- विकारेत्यादिना ।
तत्प्रकृतवचने मयडिति ।
तदितिप्रथमासमर्थाच्छब्दात्प्राचुर्यविशिष्टस्य प्रस्तुतस्य वचने ऽभिधाने गम्यमाने मयट्प्रत्ययो भवतीति सूत्रार्थः ।
अत्र वचनग्रहणात्प्रकृतस्य प्राचुर्यवैशिष्ट्यसिद्धिः, तादृशस्य लोके मयटो ऽभिधानात्, यथा ऽअन्नमयो यज्ञःऽइति ।
अत्र ह्यन्नं प्रचुरमस्मिन्नित्यन्नशब्दः प्रथमाविभक्तिशक्तस्तस्मान्मयट् यज्ञस्य प्रकृत्यर्थान्नप्राचुर्यवाची दृश्यते न शुद्धप्रकृतवचन इति ध्येयम्

5.14

एन्द् ब्स्चोम्_1,1.6.13
स्तर्त् ब्स्चोम्_1,1.6.14
तद्धेतुव्यपदेशाच् च । ब्ब्स्_1,1.14 ।
इतश्च प्राचुर्यार्थे मयट् ।
यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः- ऽएष ह्येवानन्दयातिऽ इति ।
आनन्दयतीत्यर्थः ।
यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति ।
यथा लोके यो ऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् ।
तस्मात्प्राचुर्यार्थे ऽपि मयटः संभवादानन्दमयः पर एवात्मा

5.14

सूत्रस्थचशब्दो ऽनुक्तसमुच्चयार्थ इति मत्वा व्यचष्टे- इतश्चेति ।
तच्चानुक्तं ब्रह्मानन्दस्य निरतिशयत्ववधारणं पूर्वमुक्तम्

5.15

एन्द् ब्स्चोम्_1,1.6.14
स्तर्त् ब्स्चोम्_1,1.6.15
मान्त्रवर्णिकमेव च गीयते । ब्ब्स्_1,1.15 ।
इतश्चानन्दमयः पर एवात्मा ।
यस्मात् ऽब्रह्मविदाप्नोति परम्ऽ इत्युपक्रम्य ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. 2.1)
इत्यस्मिन्मन्त्रे यत्प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धरितं, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं, सर्वान्तरं, यस्य विज्ञानाय ऽअन्यो ऽन्तर आत्मान्यो ऽन्तर आत्माऽ इति प्रक्रान्तं तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते ऽअन्यो ऽन्तर आत्मानन्दमयःऽ (तै. 2.5) इति ।
मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तं, अविरोधात् ।
अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् ।
न चान्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्माभिधीयते ।
एतन्निष्ठैव च ऽसैषा भार्गवी वारुणी विद्याऽ (तै. 3.6) तस्मादानन्दमयः पर एवात्मा

5.15

fन्: यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः ।
यन्निर्धारितं तदेवेह गीयत इति योजना ।
एकार्थत्वेसत्युपायोपेयत्वयोगादित्यर्थः ।
आनन्दमयतस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह- मान्त्रेति ।
यस्मादेवं प्रकृतं तस्मात्तन्मान्त्रावर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना ।
ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धः, तत्राह- मन्त्रेति ।
ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्- अविरोधादिति ।
तयोरुपायोपेयभावादित्यर्थः ।
तर्ह्यन्नमयादीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आह- न चेति ।
किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिता ।
तत्र स्थानन्यायेन तदेकार्थब्रह्मवल्ल्या आनन्दमये निष्टेत्याह- एतन्निष्ठैवेति

5.16

एन्द् ब्स्चोम्_1,1.6.15
स्तर्त् ब्स्चोम्_1,1.6.16
नेतरो ऽनुपपत्तेः । ब्ब्स्_1,1.16 ।
इतश्चानन्दमयः पर एवात्मा ।
नेतरः ।
इतर ईश्वरादन्यः संसारी जीव इत्यर्थः ।
न जीव आनन्दमयशब्देनाभिधीयते ।
कस्मात् ।
अनुपपत्तेः ।
आनन्दमयं हि प्रकृत्य श्रूयते- ऽसो ऽकामयत ।
बहु स्यां प्रजायेयेति ।
स तपो ऽतप्यत ।
स तपस्तप्त्वा ।
इदंसर्वमसृजत ।
यदिदं किञ्चऽ (तै. 2.6) इति ।
तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानं सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः सर्वविकारसृष्टिश्च, न परस्मादात्मनो ऽन्यत्रोपपद्यते

5.16

स ईश्वरः तपः सृष्ट्यालोचनमतप्यत कृतवानित्यर्थः ।
अभिध्यानं कामना ।
ऽबुहु स्याम्ऽइत्यव्यतिरेकः

5.17

एन्द् ब्स्चोम्_1,1.6.16
स्तर्त् ब्स्चोम्_1,1.6.17
भेदव्यपदेशाच् च । ब्ब्स्_1,1.17 ।
इतश्च नानन्दमयः संसारी ।
यस्मादानन्दमयाधिकारे- ऽरसो वै सः ।
रसंह्येवायं लब्ध्वानन्दी भवतिऽ (तै. 2.7) इति जीवानन्दमयौ भेदेन व्यपदिशति ।
नहि लब्धैव लब्धव्यो भवति ।
कथं तर्हि ऽआत्मान्वेष्टव्यःऽ, ऽआत्मलाभान्न परं विद्यतेऽ इति श्रुतिस्मृती, यावता न लब्धैव लब्धव्यो भवतीत्युक्तम् ।
बाढम् ।
तथाप्यात्मनो ऽप्रच्युतात्मभास्यैव सतस्तत्वानवबोधनिमित्तो देहादिष्वनात्मस्वात्मत्वनिश्चयो लौकिको दृष्टः ।
तेन देहादिभूतस्यात्मनो ऽप्यात्मानन्विष्टो ऽन्वेष्टव्यो ऽलब्धो लब्धव्यो ऽश्रुतः श्रोतव्यो ऽमतो मन्तव्यो ऽविज्ञातो विज्ञातव्य इत्यादिभेदव्यपदेश उपपद्यते ।
प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. 3.7.23) इत्यादिना ।
परमेश्वरस्त्वविद्याकल्पिताच्छरीरात्कर्तृभोक्तृविज्ञानात्माख्यादन्यः ।
यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठो ऽन्यः ।
यथावा धटाकाशादुपाधिपरिच्छिन्नादनुपाधिरपरिच्छिन्न आकाशो ऽन्यः ।
ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य ऽनेतरो ऽनुपपत्तेःऽ, ऽभेदव्यपदेशाच्चऽ इत्युक्तम्

5.17

fन्: अधिकारः प्रकरणम् ।
स आनन्दमयो रसः सारः ।
अखण्डैकरसस्य ।
लोकादनपेतो लौकिको ऽप्रामाणिकः ।
अधिकारे प्रकरणे ।
स आननदमयो रसः ।
ननु लब्धृलब्धव्यभावे ऽप्यभेदः किं न स्यदत आह- नहि लब्धैवेति ।
ननुलब्धृलब्धव्ययोर्भेदस्यावश्यकत्वे श्रुतिस्मृत्योर्बाधः स्यादित्याशङ्कते- कथमिति ।
यावता यतस्त्वयेत्युक्तमतः श्रुतिस्मृती कथमित्यन्वयः ।
उक्तां शङ्कामङ्गीकरोति- बाढमिति ।
तर्ह्यात्मन एवात्मना लभ्यत्वोक्तिबाधः अभेदादित्याशङ्क्य कल्पितभेदान्न बाध इत्याह- तथापीति ।
अभेदे ऽपीत्यर्थः ।
लौकिकः भ्रमः ।
आत्मनः स्वाज्ञानजभ्रमेण देहाद्यभिन्नस्य भेदभ्रान्त्या परमात्मनो ज्ञेयत्वाद्युक्तिरित्यर्थः ।
अन्वेष्टव्यो देहादिविविक्ततया ज्ञेयः, विवेकज्ञानेन लब्धव्यः साक्षात्कर्तव्यः, तदर्थं श्रोतव्यः, विज्ञानं निदिध्यानं साक्षात्कारो वा श्रुत्यन्तरस्यार्थानुवादादपौनरुक्त्यम् ।
ननु भेदः सत्य एवास्तु, तत्राह- प्रतिषिध्यत इति ।
अत ईश्वराद्द्रष्टा जीवो ऽन्यो नास्तीति चेज्जीवभेदादीश्वरस्यापि मिथ्यात्वं स्यादत आह- परमेश्वर इति ।
अविद्याप्रतिबिम्बत्वेन कल्पिताज्जीवाच्चिन्मात्र ईश्वरः पृथगस्तीति न मिथ्यात्वम् ।
कल्पितस्याधिष्ठानाभेदे ऽप्यधिष्ठानस्य ततो भेद इत्यत्र दृष्टान्तमाह- यथेति ।
सूत्रारूढः स्वतो ऽपि मिथ्या, न जीव इत्यरुच्याभेदमात्रमिध्यात्वे दृष्टान्तान्तरमाह- यथावेति ।
ननु सूत्रबलाद्भेदः सत्य इत्यत आह- ईदृशं चेति ।
कल्पितमेवेत्यर्थः ।
सूत्रे भेदः सत्य इति पदाभावात्, ऽतदनन्यत्वऽआदिसूत्राणाच्छ्रुत्यनुसाराच्चेति भावः

5.18

एन्द् ब्स्चोम्_1,1.6.17
स्तर्त् ब्स्चोम्_1,1.6.18
कामाच् च नानुमानापेक्षा । ब्ब्स्_1,1.18 ।
आनन्दमयाधिकारे च ऽसो ऽकामयत बहुस्यां प्रजायेयऽ (तै. 2.6) इति कामयितृत्वनिर्देशान्नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वापेक्षितव्यम् ।
ऽईक्षतेर्नाशब्दम्ऽ (ब्र. 1.1.5) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय

5.18

नन्वानन्दात्मकसत्त्वप्रचुरं प्रधानमानन्दमयमस्तु, तत्राह- कामाच्चेति ।
अनुमानगम्यमानुमानिकम् ।
पुनरुक्तिमाशङ्क्याह- ईक्षतेरिति

5.19

एन्द् ब्स्चोम्_1,1.6.18
स्तर्त् ब्स्चोम्_1,1.6.19
अस्मिन्न् अस्य च तद्योगं शास्ति । ब्ब्स्_1,1.19 ।
इतश्च न प्रधाने जीवे वानन्दमयशब्दः ।
यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति ।
तदात्मना योगस्तद्योगः, तद्भावापत्तिः ।
मुक्तिरित्यर्थः ।
तद्योगं शास्ति शास्त्रं- ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते ।
अथ सो ऽभयं गतो भवति ।
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवतिऽ (तै. 2.7) इति ।
एतदुक्तं भवति-
यदैतस्मिन्नानन्दमये ऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति तदा संसारभयान्न निवर्तते ।
यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति तदा संसारभयान्निवर्तत इति ।
तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा ।
तस्मादानन्दमयः परमात्मेति स्थितम् ।
इदं त्विह वक्तव्यम्- ऽस वा एष पुरुषो ऽन्नरसमयःऽ ।
ऽतस्माद्वा एतस्मादन्नरसमयात् ।
अन्यो ऽन्तर आत्मा प्राणमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा मनोमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा विज्ञानमयःऽ (तै. 2.1,2,3,4) इति च विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यर्थात्वं ब्रह्मविषयत्वं चाश्रीयत इति ।
मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, न ।
अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः ।
अत्राह- युक्तमन्नमयादीनामब्रह्मत्वं, तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते, तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति ।
अत्रोच्यते- यद्यप्यन्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्मेति न श्रूयते तथापि नानन्दमयस्य ब्रह्मत्वं, यत आनन्दमयं प्रकृत्य श्रूयते- ऽतस्य प्रियमेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः ।
आनन्द आत्मा ।
ब्रह्म पुच्छं प्रतिष्ठाऽ (तै. 2.5) इति ।
तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम्- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इति, तदिह ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते ।
तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते ।
तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः ।
नन्वानन्दमयस्यावयवत्वेन ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते, अन्नमयादीनामिव ऽइदं पुच्छं प्रतिष्ठाऽ इत्यादि ।
तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् ।
प्रकृतत्वादिति ब्रूमः ।
नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति ।
अत्रोच्यते- तथा सति तदेव ब्रह्मानन्दमय आत्मावयवी तदेव च ब्रह्मपुच्छं प्रतिष्ठावयव इत्यसामञ्जस्यं स्यात् ।
अन्यतरपरिग्रहे तु युक्तं ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं, ब्रह्मशब्दसंयोगात् ।
नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति ।
अपिच ब्रह्म पुच्छं प्रतिष्ठा इत्युक्तत्वेदमुच्यते- ऽतदप्येष श्लोको भवति ।
असन्नेव स भवति ।
असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद ।
सन्तमेनं ततो विदुरितिऽ (तै. 2.6) अस्मिंश्च श्लोके ऽननुकृष्यानन्दमयं, ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति ।
न चानन्दमयस्यत्मनो भावाभावाशङ्का युक्ता, प्रियमोदादिविशेषस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् ।
कथं पुनः स्वप्रधानं सद्ब्रह्म, आनन्दमयस्य पुच्छत्वेन निर्दिश्यते- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति ।
नैष दोषः ।
पुच्छवत्पुच्छं , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते, नावयवत्वं, ऽएतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ (बृह. 4.3.32) इति श्रुत्यन्तरात् ।
अपिच आनन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् ।
निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्- ऽ यतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् ।
न बिभेति कुतश्चनेतिऽ (तै. 2.9) ।
अपिच आनन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् ।
तथाच सति, ऽयत्र नान्यत्पश्ति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा. 7.24.1) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरूपरुध्येत ।
प्रतिशरीरं च प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम् ।
ब्रह्म तु न प्रतिशरीरं भिद्यते, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तैत्ति. 2.1) इत्यानन्तश्रुतेः, ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे. 6.11) इति च श्रुत्यन्तरात् ।
नचानन्दमयस्याभ्यासः श्रूयते ।
प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते- ऽरसो वै सः, रसंह्येवायं लब्ध्वानन्दी भवति, को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्ऽ ।
ऽसैषानन्दस्य मीमांसा भवतिऽ ।
ऽआनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेतिऽ (तै.2.7.8.9) ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै. 6.6) इति च ।
यदिच आनन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत्, तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत ।
न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम ।
तस्माच्छ्रुत्यन्तरे ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. 3.9.28) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात्, ऽयदेष आकाश आनन्दो न स्यात्ऽ इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् ।
यत्स्वयं मयडन्तस्यैवानन्दशब्दस्याभ्यासः - ऽएतमानन्दमयात्मानमुपसंक्रामतिऽ (तै. 2.8) इति, न तस्य ब्रह्मविषयत्वमस्ति, विकारात्मनामेवान्नमयादीनामनात्मनामुपसंक्रमितव्यानां प्रवाहे पठितत्वात् ।
नन्वानन्दमयस्योपसंक्रमितव्यस्यान्नमयादिवद्ब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिफलं निर्दिष्टं भवेत् ।
नैष दोषः ।
आनन्दमयोपसंक्रमणनिर्देशेनैव पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्यनिर्दिष्टत्वात् ।
ऽतदप्येष श्लोको भवति ।
यतो वाचो निवर्तन्तेऽ इत्यदिना च प्रपञ्च्यमानत्वात् ।
या त्वानन्दमयसंनिधाने ऽसो ऽकामयत बहुस्यां प्रजायेयेतिऽ इयं श्रुतिरुदाहृता सा ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति ।
तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ऽरसो वै सःऽ इत्यादेर्नानन्दमयविषयता ।
ननु ऽसो ऽकामयतऽ इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते ।
नायं दोषः ।
ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् ।
या तु भार्गवी वारुणी विद्या ऽआनन्दो ब्रह्मेति व्यजानात्ऽ इति तस्यां मयडश्रवणात्, प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् ।

तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते ।
नचेह सविशेषं ब्रह्म प्रतिपिपादयिषितं, वाङ्मनसगोचरातिक्रमश्रुतेः ।
तस्मादन्नमयादिष्विवानन्दमये ऽपि विकारार्थ एव मयड्विज्ञेयो न प्राचुर्यार्थः ।
सूत्राणि त्वेवं व्याख्येयानि- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यत उत स्वप्रधानत्वेनेति ।
पुच्छशब्दादवयवत्वेनेति प्राप्त उच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ आनन्दमय आत्मेत्यत्र ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यसात् ।
ऽअसन्नेव स भवतिऽ इत्यस्मिन्निगमनाश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् ।
विकारशब्दान्नेति चेन्न प्राचुर्यात् ।
विकारशब्देनावयवशब्दो ऽभिप्रेतः ।
पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तं, तस्य परिहारो वक्तव्यः ।
अत्रोच्यते- नायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः ।
प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः ।
अन्नमयादीनां हि शिरआदिषु पुच्छान्तेववयवेःषूक्ते त्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वावयवप्रायापत्त्या ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्याह, नावयवविवक्षया ।
यत्कारणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थितम् ।
ऽतद्धेतुव्यपदेशाच्चऽ ।
सर्वस्य विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते- इदं सर्वमसृजत ।
यदिदं किञ्च (तै. 2.6) इति ।
नच कारणं सत् ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते ।
अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि

5.14

fन्: अनात्म्ये ससंबन्धितयाध्यस्तेन्द्रियजातेनापञ्चाकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, अनिरुक्ते निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनं माया तच्छून्ये ।
उदरमिति उत् अपि अरमल्पम् अन्तरं भेदम् ।
आनन्दमयात्त्विति ब्रह्मण्यान्तरत्वमश्रुतं पुच्छत्वं तु श्रुतमित्यर्थः ।
पुच्छमित्याधारत्वमात्रं प्रतिष्ठेति ।
एकनीडमधिष्ठानं सोपादानस्य जगतः ।
यतो यस्मात् वाचः शक्तिवृत्त्या तमप्रकाश्यैव निवर्तन्ते ।
प्रतियोगी विरोधी तस्यात्मत्वमपेक्षते ।
यथा विप्रमयो ग्राम इत्यत्र शूद्रल्पत्वम् ।
उपक्रमणं बाधः ।
उपसंक्रतिमितव्यानां विवेकेन त्याज्यानाम् ।
प्रायापत्तिरवयवक्रमस्य बुद्धौ प्राप्तिः ।
अस्मिन्निति विषयसप्तमी आनन्दमयविषयकप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना ।
जीवस्य प्रधानयोगो ऽप्यस्तीत्यत आह- तदात्मनेति ।
जीवस्य जीवाभेदो ऽस्तीत्यत आह- मुक्तिरिति ।
अदृश्ये स्थूलप्रपञ्चशून्ये, आत्मसंबन्धमात्मात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यत्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः ।
उत् अपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति ।
वृत्तिकारमतं दूषयति- इदं त्विति ।
इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्यकस्मात्कारणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वं, अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिव केन दृष्टान्तेनाश्रीयत इतीदं वक्तव्यमित्यन्वयः ।
प्रश्नं मत्वाशङ्क्यते- मान्त्रेति ।
स्पुटमुत्तरम् ।
किमान्तर इति न श्रूयते, किंवा वस्तुतो ऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति- अत्रोच्यते-यद्यपीति ।
विकारप्रायपाठानुग्रहीतमयट्श्रुतेः सावयवत्वलिङ्गाच्चेत्याह- तथापीति ।
इष्टार्थस्य दृष्ट्या जातं सुखं प्रियं, स्मृत्या मोदः, स चाभायासात्प्रकृष्टः प्रमोदः, आनन्दस्तु कारणं, बिम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकार्यः ब्रह्मशुद्धमिति श्रुत्यर्थः ।
द्वितीयं प्रत्याह- तत्र यदिति ।
यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञायते ।
तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता ।
तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् ।
एवं पुच्छवाक्ये प्रकृतस्वप्रधानब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः ।
ब्रह्मणः प्रधानत्वं पुच्छश्रुतिविरुद्धमिति शङ्कते- नन्विति ।
अत्र ब्रह्मशब्दात्प्रकृतस्वप्रधानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तौ, एकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसंजातविरोधिनो बलीयस्तवात्, पुच्छशब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह- प्रकृतत्वादिति ।
प्रकरमस्यान्यथासिद्धिमाह- नन्विति ।
एकस्यैवगुमत्वं प्रधानत्वं च विरुद्धमित्याह- अत्रोच्यत इति ।
तत्र विरोधनिरासायान्यतरस्मन्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह- अन्यतरेति ।
वाक्यशेषाच्चैवमित्याह- अपिचेति ।
तत्तत्रब्रह्मणिश्लोको ऽपीत्यर्थः ।
पुच्छशब्दस्य गतिं पृच्छति- कथं पुनरिति ।
त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आनन्दमयलाङ्गूलत्वाभावात् ।
पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता, प्रतिष्ठापदयोगात्, ब्रह्मशब्दस्य मुख्यार्थलाभाच्च ।
त्वत्पक्षे ब्रह्मपदस्याप्यवयवलक्षकत्वादित्याह- नैष दोष इति ।
पुच्छमित्याधारत्वमात्रमुक्तम् ।
प्रतिष्ठत्वेकनीडत्वम् ।
एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः ।
ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणिसमन्वितमिष्टं, तत्र किमुदाहरमभेदेनेत्याशङ्क्याह- अपिचेति ।
यत्र सविशेषत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्विशेषमुच्यत इत्याह- निर्विशेषमिति ।
निवर्तन्ते अशक्ता इत्यर्थः ।
सविशेषस्य मृषात्वादभयं चायुक्तम् ।
अतो निर्विशेषज्ञानार्थं पुच्छवाक्यमेवोदाहरणमिति भावः ।
प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेषश्रुतिबाध उक्तः ।
दोषान्तरमाह- अपिचेति ।
प्रत्ययार्थत्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणं, विशेषस्य यः प्रतियोगी विरोधीति तस्याल्पत्वमपेक्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् ।
अस्तु को दोषः, तत्राह- तथाचेति ।
प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तमसो ऽल्पस्याप्याभानात् ।
परन्त्वानन्दमयपदस्य प्रचुरानन्दलक्षणादोषः स्यादिति मन्तव्यम् ।
किञ्च भिन्नत्वाद्घटवन्न ब्रह्मतेत्याह- प्रतिशरीरमिति ।
नन्वभ्यस्यमानानन्दपदं लक्षणयानन्दमयपरमित्यभ्याससिद्धिरित्यत आह- यदि चेति ।
आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्यससिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः ।
अयमभ्यासः पुच्छब्रह्मण इत्याह- तस्मादिति ।
उपसंक्रमणं बाधः ।
ननु ऽस य एवंवित्ऽइति ब्रह्मविदं प्रक्रम्योपसंक्रमणवाक्येन फलं निर्दिश्यते तत्तस्याब्रह्मत्वे न सिध्यतीति शङ्कते- नन्विति ।
उपसंक्रमणं प्राप्तिरित्यङ्गीकृत्य विशिष्टप्राप्त्युक्त्या विशेषणप्राप्तिफलमुक्तमित्याह- नैष इति ।
ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधावधिप्रत्यगानन्दलाभोर्ऽथादुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह- तदपीति ।
तदपेक्षत्वादिति ।
कामयितृपुच्छब्रह्मविषयत्वादित्यर्थः ।
यदुक्तं पञ्चमस्थानस्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह- यत्त्विति ।
या त्वित्यर्थः ।
मयट्श्रुत्या सावयवत्वादिलिङ्गेन च स्थानं बाध्यमिति भावः ।
गोचराति क्रमो गोचरत्वाभावः ।
वेदसूत्रयोर्विरोधे ऽगुणे त्वन्याय्यकल्पनाऽइति सूत्राण्यन्यथा नेतव्यानीत्याह- सूत्राणीति ।
पूर्वमीक्षतेः संशयाभावादिति युक्त्या प्रायपाठो न निश्चायक इत्युक्तम् ।
तर्ह्यत्र पुच्छपदस्याधारावयवयोर्लक्षणासाम्यात्संशयो ऽस्तीत्यवयवप्रायपाठो निश्चायक इति पूर्वाधिकरणसिद्धान्तयुक्त्यभावेन पूर्वपक्षयति- पुच्छशब्दादिति ।
तथाच प्रत्युदाहरणसंगतिः ।
पूर्वपक्षे सगुणोपास्तिः, सिद्धान्ते निर्गुणप्रमितिः फलम् ।
वेदान्तवाक्यसमन्वयोक्तेः श्रुत्यादिसंगतयः स्फुटा एव ।
सूत्रस्थानन्दमयपदेन तद्वाक्यस्थं ब्रह्मपदं लक्ष्यते ।
विक्रियते ऽनेनेति विकारो ऽवयवः ।
प्रायापत्तिरिति ।
अवयवक्रमस्य बुद्धौ प्राप्तिरित्यर्थः ।
अत्र हि प्रकृतस्य ब्रह्मणो ज्ञानार्थं कोशाः पक्षित्वेन कल्प्यन्ते, नात्र तात्पर्यमस्ति ।
तत्रानन्दमयस्यापि अवयवान्तरोक्त्यनन्तरं कस्मिंश्चित्पुच्छे वक्तव्ये प्रकृतं ब्रह्म पुच्छपदेनोक्तम् ।
तस्यानन्दमयाधारत्वेनावश्यंवक्तव्यत्वादित्यर्थः ।

तद्धेतुव्यपदेशाच्च

5.15

तस्य ब्रह्मणः सर्वकार्यहेतुत्वव्यपदेशात् ।
प्रियादिविशिष्टत्वाकारेणानन्दमयस्य जीवस्य कार्यत्वात्तं प्रति शेषत्वं ब्रह्मणो न युक्तमित्यर्थः ।
मान्त्रवर्णिकमेव च गीयते

5.16

ऽब्रह्मविदाप्नोति परम्ऽइति यस्य ज्ञानान्मुक्तिरुक्ता, यत् ऽसत्यम् ज्ञानम्ऽइति मन्त्रोक्तं ब्रह्म, तदत्रैव पुच्छवाक्ये गीयते ब्रह्मपदसंयोगात् ।
नानन्तमयवाक्य इत्यर्थः ।
नेतरौ अनुपपत्तेः

5.17

इतरा आनन्दमयो जीवो ऽत्र न प्रतिपाद्यः ।
सर्वस्रष्टृत्वाद्यनुपपत्तेरित्यर्थः ।
भेदव्यपदेशाच्च

5.18

अयमानन्दमयो ब्रह्मरसं लब्ध्वानन्दी भवतीति भेदोक्तेश्च तस्याप्रतिपाद्यतेत्यर्थः ।
आनन्दमयो ब्रह्म, तैत्तरीयकपञ्चमस्थानस्थत्वात् भृगुवल्लिस्थानन्दवदित्याशङ्क्याह- कामाच्च नानुमानापेक्षा

5.19

काम्यत इति कामानन्दः तस्य भृगुवल्ल्यां पञ्चमस्य ब्रह्मत्वदृष्टेरानन्दमयस्यापि ब्रह्मत्वानुमानापेक्षा न कार्य, विकारार्थकमयड्विरोधादित्यर्थः ।
भेदव्यपदेशाच्चेत्सगुणं ब्रह्मात्र वेद्यं स्यादित्याशङ्क्याह- अस्मिन्नस्य च तद्योगं शास्ति

5.19

गुहानिहितत्वेन प्रतीचि ऽस एकःऽइत्युपसंहृते पुच्छावाक्योक्ते ब्रह्मण्यहमेव परं ब्रह्मेति प्रबोधवत आनन्दमयस्य ऽयदा हि ऽइति शास्त्रं ब्रह्मभावं शास्ति, अतो निर्गुणब्रह्मौक्यज्ञानार्थं जीवभेदानुवाद इत्यभिप्रेत्याह- अपराण्यपि

5.20

एन्द् ब्स्चोम्_1,1.6.19
स्तर्त् ब्स्चोम्_1,1.7.20
अन्तरधिकरणम् ।
20-21
अन्तस् तद्धर्मोपदेशात् । ब्ब्स्_1,1.20 ।
इदमाम्नायते- ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्वं एव सुवर्णःऽ ऽतस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदऽ ऽइत्यधिदैवतम्ऽ ( छा. 1.6.7.8) ।
ऽअथाध्यात्मम्ऽ ऽअथ य एषो ऽन्तरपक्षिणि पुरुषो दृश्यतेऽ (छा. 1.7.1.5) इत्यादि ।
तत्र संशयः- किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यात्वेन श्रूयते किंवा नित्यसिद्धः परमेश्वर इति ।
किं तावत्प्राप्तं, संसारीति ।
कुतः रूपवत्त्वश्रवणात् ।
आदित्यपुरुषे तावत् ऽहिरण्यश्मश्रुःऽ इत्यादि रूपमुदाहृतम् ।
अक्षिपुरुषे ऽपि तदेवातिदेशेन प्राप्यते- ऽतस्यैतस्य तदेव रूपं यदमुष्य रूपम्ऽ इति ।
नच परमेश्वरस्य रूपवत्त्वं युक्तम्, ऽअशब्दर्मस्पामरूपमव्ययम्ऽ (का. 1.3.15) इति श्रुतेः, आधारश्रवणाच्च- ऽय एषो ऽन्तरादित्येऽ, ऽय एषो ऽन्तरक्षिणिऽ इति ।
नह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत ।
ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. 7.24.1) इति ।
ऽआकाशवत्सर्वगतश्च नित्यःऽ इति च श्रुती भवतः ।
ऐश्वर्यमर्यादाश्रुतेश्च ।
ऽ स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽ (छां 1.6.8) इत्यादित्यपुरुषस्यैश्वर्यमर्यादा ।
ऽस एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चऽ इत्यक्षिपुरुषस्य ।
नच परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्, ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ. 4.4.22) इत्यविशेषश्रुतेः ।
तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः- ऽअन्तस्तद्धर्मोपदेशात्ऽ इति, ऽय एषो ऽन्तरादित्येऽ ऽय एषो ऽन्तरक्षिणिऽ इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी ।
कुतः, तद्धर्मोपदेशात् ।
तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः ।
तद्यथा- ऽतस्योदिति नामऽ इति श्रावयित्वा अस्यादित्यपुरुषस्य नाम ऽस एष सर्वेभ्यः पाप्मभ्य उदितःऽ इति सर्वपाप्मापगमेन निर्वक्ति ।
तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति- ऽयन्नाम तन्नामऽ इति ।
सर्वपाप्मापगमश्च परमात्मन एव श्रूयते- ऽय आत्मापहतपाप्माऽ (छां. 8.7.1) इत्यादौ ।
तथा चाक्षुषे पुरुषे ऽसैवर्क्तत्समास तदुक्थं तद्यजुस्तद्ब्रह्मऽ इत्यृक्समासाद्यात्मकतां निर्धारयति ।
सा च परमेश्वरस्योपपद्यते,
सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः ।
पृथिव्यग्न्याद्यात्मके चाधिदैवतं ऋक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह- ऽतस्यर्क्च साम च गेष्णौऽ इत्यधिदैवतम् ।
तथाध्यात्ममपि- ऽ यावमुष्य गेष्णौ तौ गेष्णौऽ इति ।
तच्च सर्वात्मन एवोपपद्यते ।
तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयःऽ (छा. 1.7.6) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति ।
तच्च परमेश्वरपरिग्रहे धटते, ऽयद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसंभवम् ।
(10.41) इति भगवद्गीतादर्शनात् ।
लोककामेशितितृत्वमपि निरङ् कुशं श्रूयमाणं परमेश्वरं गमयति ।
यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः- स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् ।
ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसिऽ इति स्मरणात् ।
अपिच यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम्- ऽशब्दर्मस्पर्शमरूपमव्ययम्ऽ इत्यादि ।
सर्वकारणत्त्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते- ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसःऽ (छां 3.14.2) इत्यादिना ।
तथा हिरण्यश्मश्रुत्वादिनिर्देशो ऽपि भविष्यति ।
यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यते- स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति, सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः ।
ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव ।
तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते

5.20

fन्: अन्तरादित्ये आदित्यमण्डलमध्ये ।
हिरण्मयो ज्योतिर्मयः ।
अप्राणखान्नखाग्रमभिव्याप्य ।
कपेर्मर्कटस्यासः पृष्ट(पुच्छ) भागो ऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती, तस्य उदितीति उदित उद्गतः सकार्यसर्वपापास्पृष्ट इत्यर्थः ।
स एष इत्याधिदैविकपुरुषोक्तिः ।
अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता ये च देवानां कामा भोगास्तेषां चेत्यर्थः ।
यौ सर्वात्मकऋक्सामात्मकौ तावमुष्यादित्यरथस्य गेष्णौ पादपर्वणी ।
सनिर्याञ्चायां ।
अन्तस्तद्धर्मोपदेशात् ।
छान्दोग्यवाक्यमुदाहरति- अथ य इति ।
अथेत्युपास्तिप्रारम्भार्थः ।
हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णो ऽपि मूर्तिमानुपासकैर्दृश्यते ।
मूर्तिमाह- हिरण्येति ।
प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ्ष नेत्रयोर्विशेषमाह- तस्येति ।
कपेर्मर्कटस्य आसः पुच्छभागो ऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः ।
उपासनार्थमादित्यमण्डलं स्थानं, रूपं चोक्त्वा नाम करोति- तस्योदिति ।
तन्नाम निर्वक्ति- स इति ।
उदित उद्गतः ।
सर्वपाप्मास्पृष्ट इत्यर्थः ।
नामाज्ञान फलमाह- उदेति हेति ।
देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह- अथेति ।
पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत्, रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वदृष्टान्तसंगत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति- संसारीति ।
अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् ।
अक्षिणीत्याधारश्रवणाच्च संसारीति संवन्धः ।
श्रुतिमाह- स एष इति ।
आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः ।
स एषो ऽक्षिस्थः पुरुष एतस्मादक्ष्णो ऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते ।
अतः श्रुतेश्च संसारित्यर्थः ।
ऽएष सर्वेश्वरःऽइत्यविशेषश्रुतेरिति संबन्धः ।
भूताधिपतिर्यमः भूतपाल इन्द्रादिश्च एष एव ।
किञ्च जलानामसंकराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव ।
अतः सर्वेशवर इत्यर्थः ।
सूत्रं व्याचष्टे- य एष इति ।
यद्यप्येकस्मिन्वाक्ये प्रथमश्रुतानुसारेण चरमं नेयं, तथाप्यत्र प्रथमं श्रुतं रूपवत्वं निष्फलं, ध्यानार्थमीश्वरे नेतुं शक्यं च ।
सर्वपाप्मासङ्गित्वं सर्वात्मैकत्वं तु सफलं, जीवे नेतुमशक्यञ्चेति प्रबलंम् ।
नच ऽन ह वै देवान्पापं गच्छतिऽइति श्रुतेरादित्यजीवस्यापि पाप्मास्पर्शित्वमिति वाच्यम् ।
श्रुतेरधुना कर्मानधिकारिणां देवानां क्रियमाणपाप्मासंम्बन्धे तत्फलास्पर्शे वा तातपर्यात्, तेषां संचितपापाभावे ऽक्षीणे पुण्ये मर्त्यलोकं विशन्ति ऽइत्ययोगात्यभिप्रेत्याह-- सर्वपाप्मापगमश्च परमात्मन एवेति ।
सार्वात्म्यमाह- तथेति ।
अत्र तच्छब्दैश्चाक्षुषः पुरुष उच्यते ।
ऋगाद्यपेक्षया लिङ्गव्यत्ययः ।
उक्थं शस्त्रविशेषः, तत्साहचर्यात्साम स्तोत्रम्, उक्थादन्यच्छस्त्रमृगुच्यते, यजुर्वेदो यजुः, ब्रह्म त्रयो वेदा इत्यर्थः ।
पृथिव्याग्न्याद्यात्मक इति ।
आधिदैवतमृक् पृथिव्यन्तरिक्षद्युनक्षत्रादित्यगतशुक्लभारूपा पञ्चविधा श्रुत्युक्ता, साम चाग्निवाय्वादित्यचन्द्रादित्यगतातिकृष्णरूपमुक्तं पञ्चविधम् ।
अध्यात्मं तु ऋक्, वाक्चक्षुःश्रोत्राक्षिस्थशुक्लभारूपा चतुर्विधा, साम च प्राणच्छायात्ममनो ऽक्षिगतातिनीलरूपं चतुर्विधमुक्तम् ।
एवं क्रमेण ऋक्सामे अनुक्रम्याह श्रुतिः- तस्येति ।
यौ सर्वात्मकर्क्सामात्मकौ गेष्णावमुष्यादित्यस्थस्यै, तावेवाक्षिस्थस्य गेष्णौ पर्वणीत्यर्थः ।
तच्चेति ।
ऋत्क्सामगेष्णत्वमित्यर्थः ।
सर्वगानगेयत्वं लिङ्गान्तरमाह- तद्य इति ।
तत्तत्र लोके, धनस्य सनिर्लाभो येषां धनसनयः, विभूतिमन्त इत्यर्थः ।
ननु लोके राजानो गीयन्ते नेश्वर इत्यत आह- यद्यदिति ।
पशुवित्तादिर्विभूतिः, श्रीः कान्तिः, ऊर्जितत्वं बलं, तद्युक्तं सत्वं रजादिकं मदंश एवेति तद्गानमीश्वरस्यैवेत्यर्थः ।
निरङ्गुशमनन्याधीनम् ।
एषा विचित्ररूपा मूर्तिर्मायाविकृतित्वान्माया मया सृष्टेत्यर्थः ।
तदुक्तम्-ऽअशब्दम्ऽइत्यादिवाक्यं तञ्ज्ञेयपरमित्याह- अपिचेति ।
तर्हि रूपं कुतः, तत्राह- सर्वेति ।
यत्र तूपास्यत्वेनोच्यते तत्रेत्यध्याहृत्य सर्वकारणत्वात्प्राप्तरूपवत्वं ऽसर्वकर्माऽइत्यादिश्रुत्या निर्दिश्यत इति योजना ।
मर्यादावदैश्वर्यमीश्वरस्य नेत्युक्तं निराकरोति- ऐश्वर्येति ।
अध्यात्माधिदैवतध्यानयोर्विभागः पृथक्प्रयोगस्तदपेक्षमेव, नत्वैश्वर्यस्य परिच्छेदार्थमित्यर्थः

5.21

एन्द् ब्स्चोम्_1,1.7.20
स्तर्त् ब्स्चोम्_1,1.7.21
भेदव्यपदेशाच् चान्यः । ब्ब्स्_1,1.21 ।
अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्यो ऽन्य ईश्वरो ऽन्तर्यामी, ऽय आदित्ये तिष्ठन्नादित्यान्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतःऽ (बृ. 3.7.9) इति श्रुत्यन्तरे भेदव्यपदेशात् ।
तत्र हि ऽआदित्यादन्तरो यमादित्यो न वेदऽ इति वेदितुरादित्याद्विज्ञानात्मनो ऽन्तर्यामी स्पष्टं निर्दिश्यते ।
स एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात् ।
तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् ।
ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह- भेदेति ।
आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह- अस्तीति ।
आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति- यमिति ।
अशरीरस्य कथं नियन्तृत्वं, तत्राह- यस्येति ।
अन्तर्यामिपदार्थमाह- य इति ।
तस्यानात्मत्वनिरासायाह- एष त इति ।
ते तव स्वरूपमित्यर्थः ।
आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः ।
तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम्

5.22

एन्द् ब्स्चोम्_1,1.7.21
स्तर्त् ब्स्चोम्_1,1.8.22
8 आकाशाधिकरणम् । सू. 22
आकाशस् तल्लिङ्गात् । ब्ब्स्_1,1.22 ।
इदमामनन्ति- ऽअस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्ऽ (छान्दो. 1.9.1) इति ।
तत्र संशयः- किमाकाशशब्देन परं ब्रह्माभिधीयत उत भूताकाशमिति ।
कुतः संशयः, उभयत्र प्रयोगदर्शनात् ।
भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः ।
ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते ।
यत्र वाक्यशेषवशादसाधारणश्रवणाद्वा निर्धारितं ब्रह्म भवति, यथा- ऽयदेष आकाश आनन्दो न स्यात्ऽ (तै. 2.7) इति ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. 8.14.1) इति चैवमादौ ।
अतः संशयः ।
किं पुनरत्र युक्तं, भूताकाशमिति ।
कुतः, तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति ।
नचायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुं, अनेकार्थत्वप्रसङ्गात् ।
तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हति ।
विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति ।
नच मुख्यसंभवे गौणोर्ऽथो ग्रहणमर्हति ।
संभवति चेह मुख्यस्यैवाकाशस्य ग्रहणम् ।
ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ इत्यादिः ।
नैष दोषः ।
भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः ।
विज्ञायते हि- ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः ।
आकाशाद्वायुः ।
वायोरग्निःऽ (तै. 2.1) इत्यादि ।
ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि ।
तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः- ऽआकाशस्तल्लिङ्गात्ऽ आकाशशब्देन ब्रह्मणो ग्रहणं युक्तम् ।
कुतः, तल्लिङ्गात् ।
परस्य हि ब्रह्मण इदं लिङ्गम्- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ इति ।
परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा ।
ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम् ।
सत्यं दर्शितम् ।
तथापि मुलकारणस्य ब्रह्मणो ऽपरिग्रहादाकाशादेवेत्यवधारणं, सर्वाणीति च भूतविशेषणं नानुकूलं स्यात् ।
तथा ऽआकाशं प्रत्यस्तं यन्तिऽ इति ब्रह्मलिङ्गं ऽआकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्ऽ इति च ज्यायस्त्वपरायणत्वे ।
ज्यायस्त्वं ह्यानापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम्- ऽज्यायान्पृथिव्या ज्यायमन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छां 3.14.3) इति ।
तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येवोपपन्नतरम् ।
श्रुतिश्च भवति- ऽविज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्ऽ (बृ. 3.9.28) इति ।
अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिना आकाशः परिगृहीतः, तं चाकाशमुद्गीथे संपाद्योपसंहरति- ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छां 1.9.2) इति ।
तच्चानन्त्यं ब्रह्मलिङ्गम् ।
यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमः- प्रथमतरं प्रतीतमपि सत् वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते ।
दर्शितश्च ब्रह्मण्यप्याकाशशब्दः- ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ इत्यादौ ।
तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते- ऽऋचो अक्षरे परमे व्योमन्देवा अधि विश्वे निषेदुःऽ (ऋ.सं 1.164.39) ऽसैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिताऽ (तै. 3.6) ऽओं कं ब्रह्म खंब्रह्मऽ (छां 4.10.5) ऽखं पुराणम्ऽ (बृ. 5.1) इति चैवमादौ ।
वाक्योपक्रमे ऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा ।
ऽअग्निरधीते ऽनुवाकम्ऽ इति हि वाक्योपक्रमगतो ऽप्यग्निशब्दो माणवकविषयो दृश्यते ।
तस्मादाकाशशब्दं ब्रह्मेति सिद्धम्

5.22

fन्: वेदितुः प्रमातुः, विज्ञानात्मनः अन्तःकरणोपहितात् ।
अस्येति शालावत्यो ब्राह्मणो जैवराजं पृच्छति ।
निर्वहिता उत्पत्तिस्थितिहेतुः, ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः तन्नामरूपास्पृष्टं ब्रह्मेति वाक्योषादत्राकाशो ब्रह्मेत्यर्थः ।
रातेर्धनस्य दातुः यजमानस्य ।
देशतो ऽनन्तत्वं परत्वं, गुणत उत्कृष्टत्वं वरीयस्त्वं, कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् ।
परेभ्यः स्वरादिभ्यो ऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् ।
व्योमन् व्योम्नि, परमे प्रकृष्टे, अश्ररे कूटस्थे ब्रह्मणि, ऋचो ऋगुपक्षिताः सर्वे वेदा ज्ञापकाः सन्ति ।
यस्मिन्नक्षरे विश्वेदेवा अधिनिषेदुरधिष्ठिताः ।
भवतु रूपवत्त्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनम् ।
इह त्वाकाशपदश्रुतिर्लिङ्गाद्बलीयसीति प्रत्युदाहणेन प्राप्ते प्रत्याह- आकाशस्तल्लिङ्गादिति ।
छन्दोग्यवाक्यमुदाहरति- इदमिति ।
शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्विलोकस्यान्यस्य च क आधार इति ।
राजाब्रूते, ऽआकाश इति हऽइति ।
ऽयदेष आकाशःऽइत्यानन्दत्वस्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम् ।
ऽआकाशो वै नामऽइत्यत्र ऽतद्ब्रह्मऽइति वाक्यशेषादिति विभागः ।
निर्वहिता
उत्पत्तिस्थितिहेतुः ।
ते नामरूपे, यदन्तरा यस्माद्भिन्ने ।
यत्र कल्पितत्वेन मध्ये स्त इति वार्थः ।
अक्ष पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् ।
उपास्ये स्पष्टब्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादिसंगतयः ।
स्पष्टमत्र भाष्यम् ।
तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादेवकारश्रुतिबाधः, सर्वश्रुतेश्चाकाशातिरिक्तविषयत्वेन संकोचः स्यादित्याह- सत्यं दर्शितमिति ।
ब्रह्मणस्तु सर्वात्मकत्वात् ऽतस्मादेव सर्वम्ऽइति श्रुतिर्युक्तेति भावः ।
तथा सर्वलयाधारत्वं, निरतिशयमहत्त्वं, स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह- तथा आकाशमित्यादिना ।
रातेर्धनस्य दातुः ।
रातिरिति पाटे बन्धुरित्यर्थः ।
लिङ्गान्तरमाह- अपि चेति ।
दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्गीथविद्याकुशला विचारयामासुः, किमुद्गीथस्य परायणमिति ।
तत्र स्वर्गादागताभिरद्भिर्जीवितेन प्राणेन क्रियमाणोद्गीथस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच ।
तं शालावत्यस्य पक्षं ऽअन्तवद्वै ते किल शालावत्यसामऽइति राजा निन्दित्वानन्तमेवाकाशं वक्ति ।
भूताकाशोक्तावन्तवत्त्वदोषतादवस्थ्यादित्यर्थः ।
नन्वाकाशो ऽनन्त इति न श्रुतमित्याशङ्क्याह- तं चेति ।
उद्गीथ आकाश एवेति संपादनादुद्गीथस्यानन्तत्वादिकं न स्वत इति भावः ।
स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रसतमद्वादिर्गुणैरुत्कृष्टः, अतो ऽक्षरान्तरेभ्यो वरीयान् ।
श्रेष्ठ इत्यर्थः ।
परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् ।
परश्चासौ वरेभ्यो ऽतिशयेन वरः ।
परोवरीयानित्यर्थः ।
प्राधम्यात्, श्रुतत्वाच्चाकाशशब्दो बलीयानित्युक्तं स्मारयति- यत्पुनरिति ।
एवकारसर्वशब्दानुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय ऽत्यजेदेकं कुलस्यार्थेऽइति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह- अत्र ब्रूम इति ।
आकाशपदाद्भूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् ।
तत्र युक्तिमाह- दर्शितश्चेति ।
आकाशपदाद्गौणार्थस्य ब्रह्मणो ऽपि प्रथमप्रतीतिरस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः ।
अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति ।
प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः ।
ओङ्कारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत ।
श्रुत्यन्तरप्रयोगमाहः खं पुराणमिति ।
व्याप्यनादि ब्रह्मेत्यर्थः ।
ऽकं ब्रह्म खं ब्रह्मऽइति छान्दोग्यम्, ऽओं खं ब्रह्म खं पुराणम्ऽइति बृहदारण्यकमिति भेदः ।
किञ्च तत्रैव प्रथमानुसारेणोत्तरं नेयं, यत्र तन्नेतुं शक्यम् ।
यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमित्याह- वाक्येति ।
तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युपसंहरति- तस्मादिति

5.23

एन्द् ब्स्चोम्_1,1.8.22
स्तर्त् ब्स्चोम्_1,1.9.23
9 प्राणाधिकरणम् । सू. 23
अत एव प्राणः । ब्ब्स्_1,1.23 ।
उद्गीथे- ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ताऽ इत्युपक्रम्य श्रूयते- कतमा सा देवतेति प्राणा इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ताऽ (छां. 1.11.4,5) इति ।
तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ ।
ऽप्राणबन्धनं हि सोम्य मनःऽ (छां. 6.8.2) ऽप्राणस्य प्राणम्ऽ (बृ. 4.4.18)
इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तु प्रसिद्धतरो लोकवेदयोः, अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः ।
किं पुनरत्र युक्तम् ।
वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् ।
तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम ।
ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम् ।
इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते ।
न ।
मुख्यो ऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात् ।
एवं ह्याम्नायते- ऽयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येते प्राणं चक्षुः प्राणं मनः स यदा प्रबुध्यते प्राणदेवाधि पुनर्जायन्तेऽ (श.ब्रा. 10.3.3.6) इति. प्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते प्रबोधकाले च प्रादुर्भवन्तीति ।
इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणे ऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः ।
अपिचादित्यो ऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यन्तरं निर्दिश्येते ।
नच तयोर्ब्रह्मत्वमस्ति, तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह- ऽअत एव प्राणःऽ इति ।
ऽतल्लिङ्गात्ऽ इति पूर्वसूत्रे निर्दिष्टम् ।
अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति ।
प्राणस्यापि हि ब्रह्मलिङ्गसंबन्धः श्रूयते- ऽसर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहतेऽ (छां 1.115) इति ।
प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः ।
ननूक्तं मुख्यप्राणपरिग्रहे ऽपि संवेशनोद् गमनदर्शनमविरुद्धं, स्वापप्रबोधयोर्दर्शनादिति ।
अत्रोच्यते- स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम् ।
इहतु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानां, ऽसर्वाणि ह वा इमानि भूतानिऽ इति श्रुतेः ।
यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते तदापि ब्रह्मलिङ्गत्वमविरुद्धम् ।
ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणे ऽप्ययं प्राणाच्च प्रभवं शृणुमः- ऽयदा सुप्तःस्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येतिऽ (कौ. 3.3) इति ।
तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव ।
यत्पुनरन्नादित्यसंनिधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम् ।
वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतां प्रतीयमानायां संनिधानस्याकिञ्चित्करत्वात् ।
यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वं, तदाकाशशब्दस्येव प्रतिविधेयम् ।
तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् ।
अत्र केचिदुदाहरन्ति- ऽप्राणस्य प्राणम्ऽ, ऽप्राणबन्धनं हि सोम्य मनःऽ इति च ।
तदयुक्तम् ।
शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः ।
यथा पितुः पितेति प्रयोगे ऽन्यः पिता षष्टीनिर्दिष्टो ऽन्यः प्रथमानिर्दिष्टः पितुः पितेति गम्यते, तद्वत् ऽप्राणस्य प्राणम्ऽ इति शब्दभेदात्प्रसिद्धात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते ।
नहि स एव तस्येति भेदनिर्देशार्हे भवति ।
यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते ।
यथा ज्योतिष्टोमाधिकारे- ऽवसन्ते वसन्ते ज्योतिषा यजेतऽ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ऽप्राणबन्धनं हि सोम्य मनःऽ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् ।
अतः संशयविषयत्वान्नैतदुदाहरणं युक्तम् ।
प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः

5.23

fन्: चाक्रायणर्षिर्धनार्थी राज्ञो यज्ञं गत्वोवाच- हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमन्वायत्तानुगता ।
संवेशनोद्गमनं लयोदयौ ।
तर्हि तस्यामवस्थायां, वाक् अनुक्तकर्मेन्द्रियोपलक्षणम्, चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणां, बुद्धिरपि मनसा लक्ष्यते ।
भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः ।
वाक्यात्संनिधानं दुर्लभमित्यर्थः ।
प्राणः परमात्मा बन्धनमाश्रयः स्वरूपं यस्येति विग्रहः ।
आकाशवाक्योक्तन्यायं तदुत्तरवाक्ये ऽतिदिशति- अत एव प्राणः ।
उद्गीथप्रकरणमिति ज्ञापनार्थमुद्गीथ इति भाष्यपदम् ।
उद्गीथप्रकरणे श्रूयत इत्यन्वयः ।
कश्चिदृषिश्चाक्रायणः प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थं, तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति ।
ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति ।
उत्तरम्, प्राण इति ।
प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तमभिलक्ष्योज्जिहते उत्पद्यन्त इत्यर्थः ।
अतिदेशत्वात्पूर्ववत्संशयादि द्रष्टव्यमित्युक्तं विवृणोति- प्राणेति ।
मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषुप्तावेकीभवति ।
प्राणस्य वायोः प्राणंप्रेरकं तस्य सत्तास्फूर्तिप्रदमात्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः ।
पूर्वेण गतर्थात्वात्पृथक्सूत्रं व्यर्थमिति शङ्कते- ननु पूर्ववदिति ।
अधिकाशङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह- न ।
मुख्ये ऽपीति ।
तर्हि तदा चक्षुरप्येतीत्येवंप्रकारेण सर्वत्र संबन्धः ।
नन्वत्रेन्द्रियाणां प्राणे लयोदयौ श्रूयेते, तावता महाभूतलयादिप्रतिपादकवाक्यशेषोपपत्तिः कथमित्यत आह- इन्द्रियसारत्वादिति ।
ऽतस्य ह्येष रसःऽइति श्रुतेः ।
इन्द्रियाणि लिङ्गात्मरूपाणि अपञ्चीकृतभूतानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्यशेषोपपत्तिरित्यर्थः ।
अब्रह्मसहपाठाच्च प्राणो न ब्रह्मेत्याह- अपि चेति ।
उद्गातृप्रतिहर्तृभ्यामुद्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रायणेनादित्यो ऽन्नं च निर्दिश्यते ।
ऽआदित्य इति होवाचऽ ऽअन्नमिति होवाचऽइति श्रुतावित्यर्थः ।
सामान्यं सन्निधानम् ।
संनिध्यनुग्रहीतप्रथमश्रुतप्राणश्रुत्या मुख्यप्राणनिर्णये तद्दृष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्षफलम्, सिद्धान्ते ब्रह्मदृष्टिरूपोपास्तिः ।
तस्याधिकरणस्यातिदेशत्वमेव पूर्वेण संगतिरिति विभागः ।
भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रं तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहे ऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह- यदापीति ।
भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः ।
तस्य तद्योनित्वं श्रुत्याशङ्कते- नन्विति ।
अथ यदा सुषुप्तो जीवः प्राणे ब्रहमण्येकीभवति तदा एनं प्राणं सविषयवागदयो ऽपियन्तीत्यर्थः ।
अत्र जीवाभन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह- तत्रापीति ।
वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह- तदयुक्तमिति ।
एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।
प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह- तदाकाशशब्दस्येवेति ।
वृत्तिकृतामुदाहरणं संशयाभावेनायुक्तमित्याह- अत्रेत्यादिना ।
शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति- यस्य चेति

5.24

एन्द् ब्स्चोम्_1,1.9.23
स्तर्त् ब्स्चोम्_1,1.10.24
ज्योतिश्चरणाधिकरणम् । सू. 24-27
ज्योतिश् चरणाभिधानात् । ब्ब्स्_1,1.24 ।
इदमामनन्ति- ऽअथ यदतः परो ज्योतिर्दीप्यते विश्वतःपृष्टेषु सर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिःऽ (छा. 3.13.7) इति ।
तत्र संशयः-किमिह ज्योतिःशब्देनादित्यादि ज्योतिरभिधीयते किंवा परमात्मेति ।
अर्थान्तरविषयस्यापि शब्दस्य तल्लिङ्गादब्रह्मविषयत्वमुक्तम् ।
इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते ।
किं तावत्प्राप्तम् ।
आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति ।
कुतः, प्रसिद्धेः ।
तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्वी वीषयौ प्रसिद्धौ ।
चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते ।
तस्या एवानुग्राहकमादित्यादिकं ज्योतिः ।
तथा ऽदीप्यतेऽ इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा ।
नहि रूपादिहीनं ब्रह्म ऽदीप्यतेऽ इति मुख्यां श्रुतिर्महति ।
द्युमर्यादत्वश्रुतेश्च ।
नहि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता ।
कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् ।
ऽपरो दिवो ज्योतिःऽ इति च ब्राह्मणम् ।
ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम् ।
अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् ।
न ।
अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति ।
इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् ।
न ।
प्रयोजनान्तरप्रयुक्तस्यैवादित्यदेरुपास्यत्वदर्शनात् ।
ऽतासां त्रिवृतं त्रिवृतमेकैकां करवाणिऽ (छा. 6.3.3) इति चाविशेषश्रुतेः ।
नचात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् ।
अस्तु तर्हि त्रिवृत्कृतमेवत् तेजो ज्योतिःशब्दम् ।
ननूक्तमर्वागपि दिवो ऽवगम्यते ऽग्न्यादिकं ज्योतिरिति ।
नैष दोषः ।
सर्वत्रापि गम्यमानस्य ज्योतिषः ऽपरो दिवःऽ इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते ।
नतु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी ।
ऽसर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेषुऽ इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् ।
ऽइदं वाव तद्यदिदमस्मिन्नान्तः पुरुषे ज्योतिःऽ (छा. 3.13.7) इति च कौक्षेये ज्योतिरषि परं ज्योतिरध्यस्यमानं दृश्यते ।
सारूप्यनिमित्ताश्चाध्यसा भवन्ति ।
यथा- ऽतस्य भूरिति शिर एकमेतदक्षरम्ऽ (बृ. 5.5.3) इति ।
कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् ।
ऽतस्यैषा दृष्टिःऽ (छा. 3.13.7) ऽतस्यैषा श्रुतिःऽ इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् ।
ऽतदेतद्दृष्टं च श्रुतं चेप्युपासीतऽ इति च श्रुतेः ।
ऽचक्षुष्यः श्रुतो भवति य एवं वेदऽ (छा. 3.13.8) इति चाल्पफलश्रवणादब्रह्मत्वम् ।
महते हि फलाय ब्रह्मोपासनमिष्यते ।
नचान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषो ऽस्ति ब्रह्मलिङ्गम् ।
नच पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ऽगायत्री वा इदं सर्वं भूतम्ऽ इति छन्दोनिर्देशात् ।
अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यादेवमपि न तस्येह प्रत्यभिज्ञानमस्ति ।
तत्र हि ऽत्रिपादस्यामृतं दिविऽ (3.12.1,6) इति द्यौरधिकरणत्वेन श्रूयते ।
अत्र पुनः ऽपरो दिवो ज्योतिःऽ इति द्यौर्मर्यादात्वेन ।
तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः-ज्योतिरिह ब्रह्म ग्राह्यम् ।
कुतः. चरणाभिधानात् ।
पादाभिधानादित्यर्थः ।
पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्- ऽतावानस्य महिमा ततो ज्यायांश्च पूरुषः ।
पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. 3.12.6) इत्यनेन मन्त्रेण ।
तत्र यच्चतुष्पादो ब्रह्मणस्त्रिपादमृतं द्युसंबन्धिरूपं निर्दिष्टं तदेवेह द्युसंबन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते ।
तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् ।
न केवलं पूर्ववाक्याज्ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः, परस्यामपि शाण्डिल्यविद्ययामनुवर्तिष्यते ब्रह्म ।
तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ।
यत्तूक्तम्- ऽज्योतिरदीप्यतेऽ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति ।
नायं दोषः ।
प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् ।
दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसंभवात् ।
ऽयेन सूर्यस्तपति तेजसेद्धःऽ (तै.ब्रा. 3.12.9.7) इति च मन्त्रवर्णात् ।
यद्वा नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् ।
ऽवाचैवायं ज्योतिषास्तेऽ (बृ. 4.3.5), ऽमनो ज्योतिर्जुषताम्ऽ (तै.ब्रा. 1.6.3.3) इति च, तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्योतिःशब्देनाभिधीयते ।
तथा सति ब्रह्मणो ऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः ।
ऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ (कौ. 2.5.15) ऽतद्देवा ज्योतिषां ज्योतिरायुर्हेपासते ऽमृतम्ऽ (बृ. 4.4.16) इत्यादिश्रुतिभ्यश्च ।
यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति ।
अत्रोच्यते- सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते ।
ननुक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति ।
नायं दोषः ।
निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसंबन्धात्प्रदेशविशेषकल्पनोपपत्तेः ।
तथाहि- आदित्यो, चक्षुषि, हृदये, इति प्रदेशविशेषसंबन्धानि ब्रह्मण उपासनानि श्रूयन्ते ।
एतेन ऽविश्वतःपृष्ठेषुऽ इत्याधारबहुत्वमुपपादितम् ।
यदप्येतदुक्तं, औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति ।
तदप्ययुक्तम् ।
परस्यापि ब्रह्णणो नामादिप्रतीकत्वत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः ।
ऽदृष्टं च श्रुतं चेत्युपासीतऽ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति ।
यदप्यल्पफलश्रवणान्न ब्रह्मेति, तदप्यनुपपन्नम् ।
नहीयते फलाय ब्रह्माश्रयणीयं, इयते नेति नियमहेतुरस्ति ।
यत्र हि निरस्तसर्वविशेषसंबन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते ।
यत्र तु गुणविशेषसंबन्धं प्रतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते- ऽअन्नादो वसुदानो विदन्ते वसु य एवं वेदऽ (बृ. 4.4.24) इत्याद्यासु श्रुतिषु ।
यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति ।
तदुक्तं सूत्रकारेण- ऽज्योतिश्चरणाभिधानात्ऽ इति कथं पुनर्वाक्यान्तरगतेन ब्रह्मसंनिधानेन ज्योतिःश्रुतिः स्वविषयाच्छक्या प्रच्यावयितुम् ।
नैष दोषः ।
ऽयदतः परो ज्योतिःऽ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसंब्नन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामार्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः ।
तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम्

5.24

fन्: गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थो ऽथशब्दः ।
अतो द्युलोकात्परःपरस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते ।
विश्वस्मात्प्राणिवर्गात् सर्वस्माद्भूरादिलोकाच्च पृष्टेषूपरीत्यर्थः ।
नहीति रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः ।
यत्तेजोबन्नाभ्यामसंपृक्तं तदत्रिवत्कृतमुच्यते ।
प्रयोजनान्तरं तमोनाशादिकम् ।
तासां तेजोबन्नानामेकैकं द्विधा विभज्य पुनश्चेकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य त्रिवृत्करणं संपद्यते ।
भागिनी युक्ता ।
एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यं अन्यथाध्यासासिद्धेः ।
एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति ।
एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव शृणोतीति शेषः ।
चक्षुष्यो दर्शनीयः ।
श्रुतो विश्रुतः ।
प्राकृतं प्रकृतेर्जातं, कार्यमिति यावत् ।
ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावो ऽविशेषकत्वं, अविशेषकत्वाद्ब्रह्मव्यावर्तकत्वादित्यर्थः ।
प्रमित्यर्थत्वेन उपास्त्यर्थत्वेन वा मर्यादावत्त्वम् ।
दिवः परमपीत्यन्वयः ।
कौक्षेयकं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः जीवाभावे देहस्य शैथिल्यात् जीवतश्चौष्ण्याज्जायते ।
तस्मात्प्रतीकोपासनमुपपन्नम् ।
जीवरूपेणान्नमत्तीत्यन्नादः, अन्नस्यासमन्ताद्दाता वा ।
वसु हिरण्यं कर्मफलं ददातीति वसुदान इति गुणविशेषसंबन्धः ।
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्त्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना ।
ज्योतिश्चरणाभिधानात् ।
छान्दोग्यमेवोदाहरति- इदमिति ।
गायत्र्युपाधिकब्रह्मोपास्त्यानन्दर्यार्थो ऽथशब्दः ।
अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तद्यतदिदमिति जाठराग्नावध्यस्यते ।
कुत्र दीप्यते, तत्राह- विश्वत इति ।
विश्वस्मात्प्राणिवर्गादुपरि सर्वस्माद्भूरादिलोकादुपरि ये लोकास्तेषूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव, यद्देहस्थमित्यर्थः ।
अस्य पूर्वेणागतार्थत्वं वदन्प्रत्युदाहरणसंतिमाह- अर्थान्तरेति ।
अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावे ऽपि ऽपादोस्यऽइति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसंगतिः ।
पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः ।
नन्वज्ञानतमोविरोधित्वाद्ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति, नेत्याह- चक्षुरिति ।
शर्वर्यां रात्रौ भवं शार्वरम् ।
नीलमिति यावत् ।
अनेनावरकत्वाद्रूपवत्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति ।
ज्योतिःश्रुतेरनुग्राहकलिङ्गान्याह- तथेत्यादिना ।
भास्वररूपात्मिका दीप्तिस्तेजस एव लिङ्गमित्याह- न हीति ।
मास्तु मर्यादेत्याशङ्क्य श्रुतत्वान्मैवमित्याह- परो दिव इति ।
मर्यादां ब्रूत इति शेषः ।
ब्रह्मवत् कार्यस्यापि मर्यादायोगान्निरर्थकं ब्राह्मणमिति कश्चिदाक्षिपति- नन्विति ।
एकदेशी ब्रूते- अस्त्विति ।
स्वर्गादौ जातं किञ्चिदतीन्द्रियं तेजो दिवः परस्तादस्ति, श्रुतिप्रामाण्यादित्यर्थः ।
अध्ययनविध्युपात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते- नेति ।
ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह- इदमेवेत्यादिना ।
प्रयोजनान्तरं तमोनाशादिकम् ।
अत्रिवृत्कृतं तेजो ऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नास्तीत्याह- तासामिति ।
तेजो ऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य तन्त्रिगुणरज्जुवन्त्रिवृत्तं करवाणीत्यविशेषोक्तेर्नास्त्यत्रिवृत्कृतं किञ्चिदित्यर्थः ।
किञ्चात्र ऽयदतः परःऽइति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते ।
न चात्रिवृत्कृतस्य तस्य तत्क्वचित्प्रसिद्धमित्याह- न चेति ।
एकदेशिमते निरस्ते साक्षात्पूर्वपक्षी ब्रूते- अस्तु तर्हीति ।
प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्यादितेजोवयवविशेषः, तस्य परिग्रह उपसनार्थो न विरुद्धत इत्यन्वयः ।
स एव कौक्षेये ज्योतिषि उपास्यते ।
तस्यापि तेजस्त्वादिति भावः ।
ब्रह्मणो ऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यतां, नेत्याह- नत्विति ।
निष्प्रदेशस्य निरवयवस्य विशेषे ऽपि दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पना भागिनी युक्ता न त्वित्यन्वयः ।
अप्रमाणिकगौरवापातादिति भावः ।
ततः किं, तत्राह- सारूप्येति ।
यथा एकत्वसाम्याद्भूरितिव्याहृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः ।
यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सैषा तस्य जाठराग्नेर्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणं, सैषा तस्य श्रुतिरित्यर्थः ।
ज्योतिषो जडत्वे लिङ्गान्तरमाह- तदेतदिति ।
ज्योतिरित्यर्थः ।
चक्षुष्यश्चक्षुर्हितः सुन्दरः, श्रुतो विख्यातः ।
न चान्यदपीति ।
ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीत्यन्वयः ।
ननु ऽत्रिपादस्यामृतं दिविऽइति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्क्याह- न चेति ।
ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह- अथापीति ।
कथञ्चिच्छन्दोद्वारेत्यर्थः ।
दिवि दिव इति विभक्तिभेदान्न प्रत्यभिज्ञेत्यर्थः ।
प्रकृतेर्जातं प्राकृतं, कार्यमित्यर्थः ।
आचारं निरस्यति- पादेति ।
ऽगायत्री वा इदं सर्वं भूतम्ऽ ऽवाग्वै गायत्रीऽ ऽयेयं पृथिवीऽ ऽयदिदं शरीरम्ऽ ऽयदस्मिन्पुरुषे हृदयम्ऽ ऽइमे प्राणाःऽइति भूतवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्विधा षड्भिरक्षरैश्चतुष्पदा गायत्रीति ।
यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चो ऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपञ्चाज्ज्यायानधिकः ।
आधिक्यमेवाह- पाद इति ।
सर्वं जगदेकः पादो ऽंशः, ऽविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्ऽइति स्मृतेः ।
अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपामनन्तमस्तीत्यर्थः ।
यथा लोके पादात्पादत्रयमधिकं तथेदमधिकमिति बोधनार्थं त्रिपादमृतमित्युक्तं, न त्रिपादत्वं विवक्षितमिति मन्तव्यम् ।
ऽयदतः परःऽइति यच्छब्दस्य प्रसिद्धार्थवाचित्वात्पूर्ववाक्यप्रसिद्धं ब्रह्म ग्राह्ममित्याह- तत्रेति ।
ननु ऽयदाग्नेयो ऽष्टाकपालःऽइत्यत्र यत्पदस्याप्रकृतार्थकत्वं दृष्टिमित्यत आह- तत्परत्यज्येति ।
तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदो ऽप्रसिद्धार्थत्वमाश्रितम् ।
इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो द्युसंबन्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिशचयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः ।
संदंशन्यायादप्येवमित्याह- न केवलमिति ।
ऽसर्वं खल्विदं ब्रह्मऽइत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपरमित्यर्थः ।
प्रकरणादिति ।
प्रकृतापेक्षयत्पदश्रुत्या द्युसंबन्धभूतपादत्वादिलिङ्गैश्चेत्यर्थः ।

अतः प्रकरणाज्ज्योतिःश्रुतिबाधो न युक्त इति निरस्तम् ।
अविशेषकत्वादिति ।
ब्रह्मव्यावर्तकत्वाभावादित्यर्थः ।
येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः ।
ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गीकृत्य कारणब्रह्मलक्षकत्वमुक्त्वा ब्रह्मण्यपि शक्तिमाह- यद्वेति ।
गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः ।
आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः ।
यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह- तस्य भासेति ।
तत् कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इत्यर्थः ।
योषितो ऽग्नित्ववत् द्युमर्यादत्वादिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह- अत्रोच्यत इत्यादिना ।
दिवः परमपीत्यन्वयः ।
आरोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह- परस्यापीति ।
भविष्यति ब्रह्मज्योतिष इति शेषः ।
ऽतं यथा यथोपासते तथा तथा फलं भवतिऽइति श्रुतेरित्याह- न हीयत इति ।
ज्ञानफलवदुपास्तीफलमेकरूपं किं न स्यादत आह- यत्र हीति ।
ज्ञेयैकत्वादित्यर्थः ।
ध्येयं तु नानेत्याह- यत्र त्विति ।
ईश्वरो जीवरूपेणान्नमत्तीत्यन्नादः अन्नस्यासमन्ताद्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुणविशेषसंबन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति ।
नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुतिसंग्रहार्थमाद्यपदम् ।
संनिधेः श्रुतिर्बलीयसीति शङ्कते- कथं पुनरिति ।
अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह- नैष इति ।
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना ।
अर्थाद्यत्पदसामानाधिकरण्यादित्यर्थः

5.25

एन्द् ब्स्चोम्_1,1.10.24
स्तर्त् ब्स्चोम्_1,1.10.25
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्ब्स्_1,1.25 ।
अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्मभिहितमिति, ऽगायत्री वा इदं सर्वं भूतं यदिदं किञ्चऽ (छां. 3.12.1) इति गायत्र्याख्यस्य छन्दसो ऽभिहितत्वादिति, तत्परिहर्तव्यम् ।
कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुं, यावता ऽतावानस्य महिमाऽ इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् ।
नैतदस्ति ।
ऽगायत्री वा इदं सर्वम्ऽ इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदयवाक्यप्रमाणभेदैर्व्यख्याय ऽसैषा चतुष्पादा षड्विधा गायत्री तदेतदृचाभ्यनुक्तं तावानस्य महिमाऽ इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात् ।
यो ऽपि तत्र ऽयद्वै तद्ब्रह्मऽ (छा. 3.12.5,6) इति ब्रह्मशब्दः सो ऽपि छन्दसः प्रकृतत्वाच्छन्दोविषय एव ऽय एतामेवं ब्रह्मोपनिषदं वेदऽ (छां 3.11.3) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते, तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमितिचेत् ।
नैष दोषः ।
ऽतथा चेतोर्पणनिगहात्ऽ तथा गायत्र्याख्यच्छन्दोद्वारेण तदनुगते ब्रह्मणि चेतसोर्ऽपणं चित्तसमाधानमनेन ब्रह्मणवाक्येन निगद्यते- ऽगायत्री वा इदं सर्वम्ऽ इति ।
नह्यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति ।
तस्माद्याद्गायत्र्याख्यविकारे ऽनुगतं जगत्कारणं ब्रह्म तदिह सर्वमित्युच्यते ।
यथा ऽसर्वं खल्विदं ब्रह्मऽ (छा. 3.14.1) इति ।
कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः- ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽ (ब्र. 2.1.14) इत्यत्र ।
तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते- ऽएतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाःऽ (ऐ.आ. 3.23.12) इति ।
तस्मादस्ति छन्दोभिधाने ऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् ।
तदेव ज्योतिर्वाक्ये ऽपि परामृश्यत उपासनान्तरविधानाय ।
अपर आह- साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात् ।
यथा गायत्री चतुष्पदा षडक्षरैः पादैस्तथा ब्रह्म चतुष्पात् ।
तथान्यत्रापि छन्दोभिधायी शब्दोर्ऽथान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते ।
तद्यथा- ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ इत्युपक्रम्याह ऽसैषा विराडन्नादिऽ (छा. 4.3.8) इति ।
अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न छन्दोभिधानम् ।
सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म

5.25

fन्: य एतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्योदयास्तमयरहितब्रह्मप्राप्तिर्भवतीत्यर्थः ।
एतमृग्वेदिनो महत्युक्थे शस्त्रे उपासते, अध्वर्यवो यजुर्वेदिनः क्रतौ छन्दोगाः सामवेदिनो महाव्रते क्रतौ ।
संवर्गविद्यायां अधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयते ।
अध्यत्मं वाक् चक्षुःश्रोत्रमनसि प्राणमपियन्ति ।
ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दश सन्तः कृतमित्युच्यते ।
कृतं द्यूतम् ।
छन्दोभिधानाद्ब्रह्म प्रकृतं नास्तीति शङ्कामेकदेशी दूषयति- कथमिति ।
शङ्कां साधयति- नैतदित्यादिना ।
चतुष्पदत्वादिकं पूर्वमेव व्याख्यातम् ।
य एतामेवमिति ।
वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्चिद्वेद तस्योदयास्तमयरहितब्रह्मा प्राप्तिर्भवतीत्यर्थः ।
तथाच वेदत्वाद्गायत्र्यां ब्रह्मशब्दो युक्त इति भावः ।
गायत्रीशब्देन तदुपादानत्वेनानुगतब्रह्मलक्षणायां बीजमनुपपत्तिमाह- न ह्यक्षरेति ।
ब्रह्मणो ऽपि कथं सर्वात्मकत्वं, तत्राह- कार्यं चेति ।
नच गायत्र्या ध्यानार्थं सर्वात्मत्वारोप इति वाच्यं, स्वतः सर्वात्मनो ध्यानसंभवेनासदारोपायोगादीति भावः ।
ऽतथाहि दर्शनम्ऽइति सूत्रशेषं व्याचष्टे- तथान्यत्रेति ।
दृश्यत इति दर्शनम् ।
दृष्टमित्यर्थः ।
एतं परमात्मानं बह्वृचा ऋग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते ।
एतमेवाग्निरहस्ये ऽतमेतमग्निरित्यध्वर्यव उपासतेऽइति श्रुतेः यजुर्वेदिनो ऽग्नौ उपासते ।
एतमेव छन्तोगाः सामवेदिनो महाव्रते क्रतौ उपासत इत्यैतरेयके दृष्टमित्यर्थः ।
गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्याह- अपर इति ।
साक्षादेव ।
वाच्यार्थग्रहणं विनैवेति यावत् ।
पूर्वं तूपास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्रीब्रह्मणी द्वे अपि लक्षिते ।
नच गायत्री सर्वमित्यन्वयासंभवः, घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत्, गायत्रीपदार्थैकदेशे गायत्र्यनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसंभवादिति भावः ।
तथाच सूत्रे सिद्धान्तभागस्यायमर्थः-तथा गायत्रीवच्चतुष्पात्वगुणसामान्यात्, चेतो ब्रह्मणि समर्प्यते येन स चेतोर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदादभिधानात् छन्दोभिधानमसिद्धमिति ।
अधुना ऽतथाहि दर्शनम्ऽइति शेषं व्याचष्टे- तथेति ।
संवर्गविद्यायामाधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपियन्तीत्युक्तम् ।
ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दशसंख्याकाः सन्तः कृतमित्युच्यन्ते ।
सन्ति हि कृतत्रेताद्वापरकलिसंज्ञकानि चत्वारि द्युतानि क्रमेण चतुरङ्कत्र्यङ्कद्व्यङ्कैकाङ्कानि ।
तत्र कृतं दशात्मकं भवति, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोर्द्वयोरेकस्य चान्तर्भावात् ।
तथाच्च दशत्वगुणेन वाय्वादेः कृतशब्देनोच्यनते ।
एवे कृतत्वं वाय्वादीनामुपक्रम्याह- सैषेति ।
विधेयापेक्षया स्त्रीलिङ्गनिर्देशः ।
विराट्पदं छन्तोवाचकं, ऽदशाक्षरा विराट्ऽइति श्रुतेः ।
दशत्वसाम्येन वाय्वादयो विराडित्युच्यन्ते ।
एवञ्च दशत्वद्वारा वाय्वादिषु कृतत्वं विराट्त्वं च ध्येयम् ।
तत्र विराट्त्वध्यानात्सर्वमस्यान्नं भवति, ऽअन्नं विराट्ऽइति श्रुतेः ।
कृतत्वध्यानादन्नादो भवति, कृततद्यूतस्यान्नादत्वात् ।
कृतं हि स्वीयचतुरङ्गेषु त्र्यङ्कादिकमन्तर्भावयदन्नमत्तीव लक्ष्यते ।
अत एव कृतजयादितरद्यूतजयः श्रुत्युक्तः-ऽकृतायविजितायाधरेयाः संयन्तिऽइति ।
अयो द्यूतं, कृतसंज्ञो ऽयः कृतायः स विजितो येन तस्मै, अधरेयास्त्र्यङ्कादयः अयाः संयन्ति उपनमन्ते ।
तेन जिता भवन्तीत्यर्थः ।
एवञ्च सा वाय्वादिदशात्मिका एषा कृतशब्दिता विराडन्नं, कृतत्वादन्नादिनीत्यर्थः ।
सर्वथापीति ।
गायत्रीति पदस्य लक्षकत्वे गौणत्वे ऽपि चेत्यर्थः ।
अत्रापर आहेत्यपरपदेन गौणत्वे स्वमतं नेति द्योतयति ।
अजहल्लक्षणापक्षे हि ऽवाग्वै गायत्रीऽइति वागात्मत्वं गायति च त्रायते च इति निरुक्तनामकत्वं च गायत्र्या उपाधित्वेनोपास्यत्वादुपपन्नतरम् ।
गौणपक्षे गायत्रीत्यागात्तदुभयं सर्वात्मकत्वमात्रेणोपपादनीयम् ।
एवं गायत्रीपदस्य स्वार्थत्यागः, अप्रसिद्धचतुष्पात्त्वगुणद्वारा विप्रकृष्टलक्षणा चेति बह्वसमञ्जसम्

5.26

एन्द् ब्स्चोम्_1,1.10.25
स्तर्त् ब्स्चोम्_1,1.10.26
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्ब्स्_1,1.26 ।
इतश्चैवमभ्युपगन्तव्यमिति, पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति ।
यतो भूतादीन्पादान्व्यपदिशति ।
भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह- ऽसैषा चतुष्पदा षड्विधा गायत्रीऽ इति ।
नहि ब्रह्मानाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते ।
अपिच ब्रह्मानाश्रयणे नेयमृक्संबोध्येत- ऽतावानस्यऽ इति ।
अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, ऽपादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. 3.12.5) इति सर्वात्मत्वोपपत्तेः ।
पुरुषसूक्ते ऽपीयमृग्ब्रह्मपरतयैव समाम्नायते ।
स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति- ऽविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्ऽ (भग. 10.42) इति ।
ऽयद्वै तद्ब्रह्मऽ (छा. 3.12.7) इति च निर्देश एवं सति मुख्यार्थ उपपद्यते ।
ऽपञ्च ब्रह्मपुरुषाःऽ (छा. 3.13.6) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति ।
तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् ।
तदेव ब्रह्म ज्योतिर्वाक्ये द्युसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम्

5.26

fन्: भूतपृथिवीशरीरहृदयवाक्प्राण इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते ।
सुषयश्छिद्राणि ।
ननु ऽगायत्री वा इदं सर्वम्ऽइति प्रथम गायत्रीश्रुतेः कथं लक्षणेत्याशङ्क्य वाक्यशेषगतसर्वात्मकत्वाद्यनेकबलवत्प्रमाणसंवादेन ब्रह्ममि तात्पर्यावगमादित्याह- भूतादिपादेति ।
एवं पदार्थमाह- इतश्चेति ।
सूत्रस्थादिपदार्थं दर्शयति- भूतपृथिवीति ।
अत्र सूत्रभाष्यकारयोर्भूतादिभिश्चतुष्पदा गायत्रीति संमतम्, षडक्षरैशचतुष्पात्वं वृत्तिकारोक्तमप्रसिद्धं चकारसूचितम् ।
युक्त्यन्तरमाह- अपि चेति ।
ब्रह्मपरसूक्तोत्पन्नत्वाच्च तस्यास्तत्परत्वमित्याह- पुरुषेति ।
ब्रह्मपदस्य छन्दोवाचित्वमुक्तं निरस्यति- यद्वै तद्ब्रह्मेति ।
पूर्वस्यामृचि ब्रह्मोक्तावित्यर्थः ।
हृदयस्य चतुर्दिक्षूर्ध्वं च पञ्च सुषयः सन्ति ।
तेषु ब्रह्मस्थानहृन्नगरस्य प्रागादिद्वारेषु क्रमेण प्राणव्यानापानसमानोदानाः पञ्चद्वारपाला इति ध्यानार्थं श्रुत्या कल्पितम् ।
तत्र हृदयच्छिद्रस्थप्राणेषु ब्रह्मपुरुषत्वश्रुतिर्हृदि गायत्र्याख्यब्राह्मण उपासनासंबन्धितायां ब्रह्मणो द्वारपालत्वाद्ब्रह्मपुरुषा इति संभवतीत्याह- पञ्च ब्रह्मेति

5.27

एन्द् ब्स्चोम्_1,1.10.26
स्तर्त् ब्स्चोम्_1,1.10.27
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्ब्स्_1,1.27 ।
यदप्येतदुक्तं पूर्वत्र- ऽत्रिपादस्यामृतं दिविऽ इति सप्तम्या द्यौराधारत्वेनोपदिष्टा इति, पुनः ऽअथ यदतः परो दिवःऽ इति पञ्चम्या मर्यादात्वेन, तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्ति, तत्परिहर्तव्यम् ।
अत्रोच्यते- नायं दोषः, उभयस्मिन्नप्यविरोधात् ।
उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते ।
यथा लोके वृक्षाग्रसंबद्धो ऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च ।
एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते ।
अपर आह- यथा लोके वृक्षाग्रेणासंबद्धो ऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्पुरतः श्येन इति च ।
एवं च दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते ।
तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् ।
अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम्

5.27

दिवि दिव इति विभक्तिभेदात्प्रकृतप्रत्यभिज्ञा नास्तीत्युक्तं नोपक्षणीयमित्याह- तत्परिहर्तव्यमिति ।
परिहारं प्रतीजानीते- अत्रेति ।
सूत्रे नञर्थं वदन्परिहारमाह- नायमिति ।
एवं सर्वत्र व्याख्योयम् ।
प्रधानप्रातिपदिकार्थद्युसंबन्धेन प्रत्यभिज्ञाया विभक्त्यर्थभेदो न प्रतिबन्धकः, कथञ्चिदाधारस्यापि मर्यादात्वसंभवात् ।
यथा वृक्षाग्रं स्वलग्नभगावच्छिन्नश्येनस्याधारः सन्नेव स्वालग्नभागावच्छिन्नस्य तस्यैव मर्यादा भवति, एवं दिवि सूर्ये हार्दाकाशे वा मुख्ये आधारे सब्रह्मदिवो मर्यदात्वं तदलग्नाकाशावच्छिन्नं ब्रह्म प्रति कल्पयित्वा दिवः परमित्युच्यत इत्यर्थः ।
यद्याकाशेन अनवच्छिन्नं ब्रह्म गृहीत्वा पञ्चम्या दिवो मर्यादात्वमेव मुख्यं तदा गङ्गायां घेष इतिवत्सप्तम्या सामीप्यलक्षणयाधारत्वं व्याख्येयमित्याह- अपर इति ।
सबद्धं प्रत्याधारत्वं मुख्यं पूर्वमुक्तं दिव्येव सदिति ।
असंबद्धं प्रति मर्यादात्वं मुख्यमधुनोच्यते दिवः परमपीति भेदः ।
तस्माज्ज्योतिर्वाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम्

5.28

एन्द् ब्स्चोम्_1,1.10.27
स्तर्त् ब्स्चोम्_1,1.11.28
प्रतर्दनाधिकरणम् । सू. 28-31
प्राणस् तथानुगमात् । ब्ब्स्_1,1.28 ।
अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका- ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण चऽ इत्यारभ्याम्नाता ।
तस्यां श्रूयते- ऽस होवाच प्रणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इति ।
तथोत्तरत्रापि ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ (को. 1.1,2,3) इति ।
तथा ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि ।
अन्ते च ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ (को. 3.8) इत्यादि ।
तत्र संशयः- किमिह प्राणशब्देन वायुमात्रमभिधीयत उप देवतात्मेति, जीवो ऽथवा परं ब्रह्मेति ।
ननु ऽअत एव प्राणःऽ इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् ।
इहापि च ब्रह्मलिङ्गमस्ति- ऽआनन्दो ऽजरो ऽमृतःऽ इत्यादि ।
कथमिह पुनः संशयः संभवति ।
अनेकलिङ्गदर्शनादिति ब्रूमः ।
न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते ।
सन्ति हीतरलिङ्गान्यपि ।
ऽमामेव विजानीहिऽ (कौ. 3.1) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् ।
इदं शरीरं परिगृह्योत्थापयतीति प्राणलिङ्गम् ।
ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि जीवलिङ्गम् ।
अत उपपन्नः संशयः ।
तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्त उच्यते-प्राणशब्दं ब्रह्म विज्ञेयम् ।
कुतः, तथानुगमात् ।
तथाहि- पौर्वापर्येण पर्यलोच्यमाने वाक्ये पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते ।
उपक्रमे तावत्, ऽवरं वृणीष्वऽ इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप- ऽत्वमेव मे वृणीश्व यं त्वं मनुष्याय हिततमं मन्यसेऽ इति ।
तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् ।
नह्यन्यत्र परमात्मज्ञानाद्धिततमप्राप्तिरस्ति ।
ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वेता. 3.8) इत्यादिश्रुतिभ्यः ।
तथा ऽस यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्ययाऽ (कौ. 3.1) इत्यादि च ब्रह्मपरिग्रहे घटते ।
ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः- ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु. 2.2.8) इत्याद्यासु श्रुतिषु ।
प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते ।
नह्यचेतनस्य वायोः प्रज्ञात्मत्वं संभवति ।
तथोपसंहारे ऽपि ऽआनन्दो ऽजरो ऽमृतःऽ इत्यानन्दत्वादीनि न ब्रह्मणो ऽन्यत्र सम्यक् संभवति ।
ऽस न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकस्य उन्निनीषते ।
एष उ भवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्यो ऽधो निनीषतेऽ इति, ऽएष लोकाधिपतिरेष लोकेशःऽ (कौ. 3.8) इति च ।
सर्वमेतत्परस्मनिन्ब्रह्मण्याश्रीयमाणे ऽनुगन्तुं शक्यते न मुख्ये प्राणे ।
तस्मात्प्राणो ब्रह्म

5.28

fन्: ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः ।
स नेत्यादिना धर्माद्यस्पृष्टत्वं तत्कारयितृत्वं तदीशितृत्वं च सर्वमुक्तम् ।
प्राणस्तथानुगमात् ।
दिवोदास्यापत्यं दैवोदासिः प्रतर्दनो नाम राजा युद्धेन पुरुषकारेण च करणेनेन्द्रस्य प्रेमास्पदं गृहं जगाम ।
तं ह इन्द्र उवाच, प्रतर्दन वरं ते ददानीति ।
स होवाच प्रतर्दनः, यं त्वं मर्त्याय हिततमं मन्यसे तं वरं त्वमेवालोच्य मह्यं देहीति ।
तत इन्द्र इदमाह-ऽप्राणोस्मिऽइत्यादि ।
मुख्यं प्राणं निरसितुं प्रज्ञात्मत्वमुक्तम् ।
निर्विशेषचिन्मात्रं निरस्यति- तं मामिति ।
इदं प्राणस्येन्द्रिदेवतात्वे लिङ्गम् ।
मुख्यप्राणत्वे लिङ्गमाह- अथेति ।
वागादीनां देहधारणशक्त्यभावनिश्चयानन्तरमित्यर्थः ।
प्राणस्य देहधारकत्वमुत्थापकत्वं च प्रसिद्धमिति वक्तुं खल्वित्युक्तम् ।
प्राणस्य जीवत्वे वक्तृत्वं लिङ्गमाह- न वाचमिति ।
आनन्तत्वादिकं ब्रह्मलिङ्गमाह- अन्ते चेति ।
अनेकेषु लिङ्गेषु दृश्यमानेषु बलाबलनिर्णयार्थमिदमधिकरममित्यगतार्थमाह- अनेकलिङ्गेति ।
पूवर्त्र प्रकृतब्रह्मवाचकयच्छब्दबलाज्ज्योतिःश्रुतिःब्रह्मपरेत्युक्तं, न तथेह प्राणश्रुतिभङ्गे किञ्चिद्बलमस्ति, मिथो विरुद्धानेकलिङ्गानामनिश्चायकत्वादिति प्रत्युदाहरणसंगत्या पूर्वपक्षयति- तत्रेति ।
पूर्वं प्रधानप्रातिपदिकार्थबलात् विभक्त्यर्थबाधवद्वाक्यार्थज्ञानं प्रति हेतुत्वेन प्रधानानेकपदार्थबलादेकवाक्यताभङ्ग इति दृष्टान्तसंगतिर्वास्तु ।
पूर्वपक्षे प्राणाद्यनेकोपास्तिः, सिद्धान्ते प्रत्यग्ब्रह्मधीरिति विवेकः ।
तथा ब्रह्मपरत्वेन पदानामन्वयावगमादिति हेत्वर्थमाह- तथाहीति ।
हिततमत्वकर्मक्षयादिपदार्थानां संबन्धो ब्रह्मणि तात्पर्यनिश्चायक उपलभ्यत इत्युक्तं विवृणोति- उपक्रम इत्यादिना ।
यं मन्यसे तं वरं त्वमेव प्रयच्छेत्यर्थः ।
स यः कश्चिन्मां ब्रह्मरूपं वेदसाक्षादनुभवति, तस्य विदुषो लोको मोक्षो महतापि पातकेन न ह मीयते नैव हिंस्यते न प्रतिबध्यते ज्ञानाग्निना कर्मतूलराशेर्दग्धत्वादित्याह- स य इति ।
साध्वसाधुनी पुण्यपापे ।
ताभायामस्पृष्टत्वं, तत्कारयितृत्वं, निरङ्कुशैश्वर्यं च सर्वमेतदितित्यर्थः

5.29

एन्द् ब्स्चोम्_1,1.11.28
स्तर्त् ब्स्चोम्_1,1.11.29
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् । ब्ब्स्_1,1.29 ।
यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते ।
न परं ब्रह्म प्राणशब्दम् ।
कस्मात्, वक्तुरात्मोपदेशात् ।
वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे- ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्माऽ इत्यहङ्कारवादेन ।
स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् ।
नहि ब्रह्मणो वक्तृत्वं संभवति ऽअवागमनाःऽ (बृह ।
3.8.8) इत्यादिश्रुतिभ्यः ।
तथा विग्रहसंबन्धिभिरेव ब्रह्मण्यसंभवद्भिर्धर्मैरात्मानं तुष्टाव- ऽत्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छम्ऽ इत्येवमादिभिः ।
प्राणत्वं चेन्द्रस्य बलवत्वादुपपद्यते ।
ऽप्राणो वै बलम्ऽ इति हि विज्ञायते ।
बलस्य चेन्द्रो देवता प्रसिद्धा ।
ऽया च काचिद्बलकृतिरिन्द्रकर्मैव तऽ दिति हि वदन्ति ।
प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः संभवति ।
अप्रतिहतज्ञाना देवता इति हि वदन्ति ।
निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासंभवं तद्विषयाण्येव योजयितव्यानि ।
तस्मादुक्तुरिन्द्रस्यात्मोपदेशान्न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते- ऽअध्यात्मसंभन्धभूमा ह्यस्मिन्ऽ इति ।
अध्यात्मसंबन्धः प्रत्यगात्मसंबन्धस्य भूमाबाहुल्यस्मिन्नध्याय उपलभ्यते ।
ऽयावद्ध्यस्मिञ्सरीरे प्राणो वसति तावदायुःऽ इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्यप्रधानोपसंहारयोः स्वातन्त्र्यं दर्शयति न देवताविशेषस्य पराचीनस्य ।
तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति ।
तथा ऽप्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ (कौ. 3.3) इति, ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इति चेपक्रम्य ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इति विषयोन्द्रियव्यवहारानभिभूतं प्रत्यगात्मानमेवोपसंहरति ।
ऽस म आत्मेति विद्यात्ऽ इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुर्न पराचीनपरिग्रहे ।
ऽअयमात्मा ब्रह्म सर्वानभूःऽ (बृह. 2.5.19) इति च श्रुत्यन्तरम् ।
तस्मादध्यात्मसंबन्धबाहुल्याद्ब्रह्मोपदेश एवायं न देवतात्मोपदेशः

5.29

कथं तर्हि वक्तुरात्मोपदेशः-
fन्: त्वष्टृपुत्रं विश्वरूपं ब्राह्मणं अहनं, अरुन्मुखान् रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तन्मुखे येषां ते रुन्मुखास्तेभ्यो ऽन्यान्वेदान्तबहिर्मुखान्यतीन् सालावृकेभ्यो ऽरण्यश्वभ्यो दत्तवानस्मि ।
यस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौ चक्रपिण्डिकायामरा अर्पिताः एवं भूतानि पृथिव्यादीनि पञ्च मीयन्त इति मात्रा भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः ।
अहङ्कारवादेन स्वात्मवाचकशब्दैराचचक्षे, उक्तवानित्यर्थः ।
वाक्यस्य इन्द्रोपपासनापरत्वे लिङ्गान्तरमाह- तथा विग्रहेति ।
त्रीणि शीर्षाणि यस्येति त्रिशीर्षा त्वष्टुः पुत्रो विश्वरूपो नाम ब्राह्मणः तं हतवानस्मि ।
रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं, तन्मुखे येषां ते रुन्मुखास्तेभ्यो ऽन्यान्वेदान्तबहिर्मुखान् यतीनरण्यश्वभ्यो दत्तवानस्मीत्यर्थः ।
इन्द्रे प्राणशब्दोपपत्तिमाह- प्राणत्वं चेति ।
वदन्ति लौकिका अपीत्यर्थः ।
बलवाचिना प्राणशब्देन बलदेवता लक्ष्यत इति भावः ।
इन्द्रो हितप्रदातृत्वाधिततमः, कर्मानधिकारादपाप इत्येवं व्याख्येयानीत्याह- निश्चिते चेति ।
किमिन्द्रपदेन विग्रहोपलक्षितं चिन्मात्रमुच्यते उत विग्रहः ।
आद्ये वाक्यस्य ब्रह्मपरत्वं सिद्धम् ।
न द्वितीय इत्याह- अध्यात्मेति ।
आत्मनि देहे ऽधिगत इत्यध्यात्मं प्रत्यगात्मा ।
स संबध्यते यैः शरीरस्थत्वादिभिरिन्द्रतनावसंभावितैर्धर्मैस्ते अध्यात्मसंबन्धास्तेषां भूमेत्यर्थः ।
आयुरत्र देहे प्राणवायुसंचारः ।
अस्तित्वे प्राणस्थितौ प्राणानामिन्द्रियाणां स्थितिरित्यर्थतः श्रुतिमाह- अस्तित्व इति ।
ऽअथातो निश्रेयसादानम्ऽइत्याद्या श्रुतिः ।
इन्द्रियस्थापकत्ववद्देहोत्थापकत्वमाह- तथेति ।
वक्तृत्वमुक्त्वा सर्वाधिष्ठानत्वं दर्शितमित्याह- इति चोपक्रम्येति ।
तत्तत्र नानाप्रपञ्चस्यात्मनि कल्पनायां यथा दृष्टान्तः, लोके प्रसिद्धस्य रथस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौचक्रपिण्डिकायामरा अर्पिताः, एवं भूतानि पञ्च पृथिव्यादीनि मीयन्त इति, मात्राः भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः प्रज्ञामात्रासु दशस्वर्पिताः ।
इन्द्रियजाः पञ्च शब्दादिविषयप्रज्ञाः मीयन्ते आभिरिति मात्राः पञ्च धीन्द्रियाणि ।
नेमिवद्ग्राह्यं ग्राहकेषु अरेषु कल्पितमित्युक्त्वा नाभिस्थानीये प्राणे सर्वं कल्पितमित्याह- प्राणे ऽर्पिता इति ।
स प्राणो मम स्वरूपमित्याह- स म इति ।
तर्हि प्रत्यगात्मनि समन्वयो न तु ब्रह्मणि, तत्राह- अयमिति

5.30

एन्द् ब्स्चोम्_1,1.11.29
स्तर्त् ब्स्चोम्_1,1.11.30
शास्त्रदृष्ट्या तूपदेशो वामदेववत् । ब्ब्स्_1,1.30 ।
इन्द्रो नाम देवतात्मानं स्वमात्मानं परमात्मत्वेनाहमेव परं ब्रह्मेत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन्नुपदिशति स्म- ऽमामेव विजानीहिऽ इति ।
यथा ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ इति तद्वत् ।
ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्ऽ (बृ. 1.4.10) इति श्रुतेः ।
यत्पुनरुक्तं ऽमामेव विजानीहिऽ इत्युक्त्वा विग्रहधर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम् ।
अत्रोच्यते- न त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासो यस्मादेवङ्कर्माहं तस्मान्मां विजानीहीति ।
कथं तर्हि ।
विज्ञानस्तुत्यर्थत्वेन ।
यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसंदधाति- ऽतस्य मे तत्र लोभ च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयतेऽ इत्यादिना ।
एतदुक्तं भवति-
यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स यो ऽन्यो ऽपि मां वेद न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति ।
विज्ञेयं तु ब्रह्मैव ऽप्राणो ऽस्मि प्रज्ञात्माऽ इति वक्ष्यमाणम् ।
तस्माद्ब्रह्मवाक्यमेतत्

5.30

अहङ्कारवादस्य गतिं पृच्छति- कथमिति ।
सूत्रमुत्तरम् ।
तद्व्याख्याति- इन्द्र इति ।
जन्मान्तरकृतश्रवणादिना अस्मिञ्जन्मनि स्वतःसिद्धं दर्शनमार्षम् ।
विज्ञेयेन्द्रस्तुत्यर्थ उपन्यासो न चेत्कथं तर्हि स इति पृच्छति- कथमिति ।
ब्रह्मज्ञानस्तुत्यर्थः स इत्याह- विज्ञानेति ।
नियामकं ब्रूते- यदिति ।
परेण ।
ऽतस्य मेऽइत्यादिना वाक्येनेत्यन्वयः ।
स्तुतिमाह- एतदुक्तमिति ।
तस्माज्ज्ञानं श्रेष्ठमिति शेषः ।
स्तुतज्ञानविषय इन्द्र इत्यत आह- विज्ञेयं त्विति

5.31

एन्द् ब्स्चोम्_1,1.11.30
स्तर्त् ब्स्चोम्_1,1.11.31
जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् । ब्ब्स्_1,1.31 ।
यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति ।
कुतः, जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च ।
जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि ।
अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते ।
तथा मुख्यप्राणलिङ्गमपि- ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ इति ।
शरीरधारणं च मुख्यप्राणस्य धर्मः, प्राणसंवादे वागादीन्प्राणान्प्रकृत्य- ऽतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्प्राणमवष्टभ्य विधारयामिऽ (प्र. 2.3) इति श्रवणात् ।
ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् ।
प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् ।
मुख्ये ऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव ।
जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदनिर्देश इत्युभयया निर्देश उपपद्यते- ऽयो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति ।
ब्रह्मपरिग्रहे तु किं कस्मद्भिद्येत ।
तस्मादिहजीवमुख्यप्राणयोरन्तर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवं, उपासात्रैविद्यात् ।
एवं सति त्रिविधमुपासनं प्रसज्येत- जीवोपासने मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ।
नचैतदेकस्मिन्वाक्ये ऽभ्युपगन्तुं युक्तम् ।
उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते ।
ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इत्युक्त्वान्ते ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इत्येकरूपावुपक्रमोपसंहारौ दृश्येते ।
तत्रार्थैकत्वं युक्तमाश्रयितुम् ।
नच ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् ।
दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणो ऽन्यत्रार्पणानुपपत्तेः ।
आश्रिततावाच्चान्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः ।
इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगाद्ब्रह्मोपदेश एवायमिति गम्यते ।
यत्तु मुख्यप्राणलिङ्गं दर्शितम्- ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, तदसत् ।
प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् ।
ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (काठ. 2.5.5) इति श्रुतेः ।
यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितं तदपि न ब्रह्मपक्षं निवारयति ।
नहि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽ इत्यादिश्रुतिभ्यः ।
बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सञ्जीवः कर्ता भोक्ता चेत्युच्यते ।
तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुं ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादिना प्रत्यगात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते ।
ऽयद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥
ऽ (के. 1.4) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति ।
यत्पुनरेतदुक्तम्- ऽसह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति ।
नैष दोषः ।
ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोरभेदनिर्देशोपपत्तेः उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरणमविरुद्धम् ।
अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योर्ऽथः- न ब्रह्मवाक्यो ऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते ।
कथम्, उपासात्रैविध्यात् ।
त्रिविधमिह ब्रह्मोपासने विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च ।
तत्र ऽआयुरमृतमुपाःस्वायुः प्राणःऽ इति, ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, ऽतस्मादेतदेवोक्थमुपासीतऽ इति च प्राणधर्मः ।
ऽअथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःऽ इत्युपक्रम्य ऽवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिऽ इत्यादिः प्रज्ञाधर्मः ।
ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् ।
यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः ।
यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः ।
नह्यन्तरतो रूपं किञ्चन सिद्ध्येत् ।
नो एतन्नाना ।
ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्माऽ इत्यादिर्ब्रह्मधर्मः ।
तस्माद्ब्रह्म एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् ।
अन्यत्रापि ऽमनोमयः प्राणशरीरःऽ (छा. 3.14.2) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् ।
इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात्प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च ।
तस्माद्ब्रह्मवाक्यमेतदिति सिद्धम्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc