ब्रह्मसूत्र2 (टीका सहित) · अध्याय 6
इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीशङ्करभगवत्पादकृतौ प्रथमाध्यायस्य प्रथमः पादः
fन्: यथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं किञ्चिद्ब्रह्मवाक्यमित्यर्थः ।
प्राणसंवादे- वागादयः सर्वे प्रत्येकमात्मनः श्रैष्ठ्यं मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः ।
स तानुवाच यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति ।
ततः क्रमेण वागादिषूत्क्रान्तेष्वपि शरीरं स्वस्थमस्थत् ।
मुख्यप्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वे ।
वरिष्ठः प्राणो ऽब्रवीदहमेव पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्भाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्येति ।
पञ्च शब्दादयः पञ्च पृथिव्यादय इति दश भूतमात्राः ।
पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः ।
अन्यत्र ऽअत एव प्राणऽ इत्यादौ ।
येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापद्यते तदेव वागादेरगम्यं ब्रह्म ।
उपासेति स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, नत्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः ।
तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् ।
उत्थापयतीत्युक्थमिति प्राणधर्मः ।
अथेति जीवधर्मः ।
देहोत्थापनं जीवलिङ्गं किं न स्यात्, तत्राह- शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः ।
स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिपूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् ।
मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतो ऽहमेवैतत्करोमि ।
किं तत्, पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः ।
द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह- जीवमुख्येति ।
अभेदनिर्देशमाह- यो वा इति ।
भेदमाह- सहेति ।
यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्तत्वं तर्हि ब्रह्मणो ऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् ।
न चेष्टापत्तिः. उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह- नैतदेवमित्यादिना ।
नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यं, जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च ।
नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यं, न वा तदुचितमित्याह- नच ब्रह्मलिङ्गमिति ।
सूत्रशेषं व्याचष्टे- आश्रितत्वाच्चेति ।
अन्यत्र ऽअत एव प्राणःऽइत्यादौ वृत्तेराश्रित्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।
प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह- यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः ।
विशेषं परिच्छेदाभिमानमित्यर्थः ।
ऽवत्कारं विद्यात्ऽइति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात्, किन्तु तस्य ब्रह्मत्वं बोध्यते ।
तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह- यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।
तत्त्वंपदवाच्ययोः स्वरूपतो भेदस्थाभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह- नैष दोष इति ।
स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे- अथवेति ।
उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् ।
अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः ।
अतो न वाक्योभेद इति भावः ।
देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वं, उत्थापयतीत्युक्थत्वमिति प्राणधर्मः ।
जीवधर्मानाह- अथेति ।
बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः ।
अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते ।
तस्याः संभन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम्-ऽवागेवऽइत्यादि ।
चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां संक्षिप्तार्थं उच्यते ।
उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम्, अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् ।
तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत् पूरयामास ।
वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः ।
चतुर्थी षष्ठ्यर्था ।
तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति ।
ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः ।
एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह- प्रज्ञयेति ।
बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।
तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वान्दत्वादिः ब्रह्मधर्म इत्याह- ता वा इति ।
दशत्वं व्याख्यातम् ।
प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति- यदिति ।
तदेव स्फुटयति- न हीति ।
ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण ।
एवं ग्राहकमपि ग्राह्यमनपेक्ष्या न सिध्यति ।
तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह-
नो इति ।
तद्यथेत्यादि कृतव्याख्यानम् ।
सूत्रार्थमुपसंहरति- तस्मादिति ।
अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह- अन्यत्रापीति ।
उपाधिर्जीवः ।
तत् अन्यधर्मेणोपासनम् ।
इयमसंगता व्याख्या ।
तथाहि-न तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः संभवति, सिद्धस्य विध्यनर्हत्वात् ।
नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् ।
नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यं, तादृशविधिवाक्यस्यात्राश्रवणात् ।
नच ऽतं मामायुरमृतमित्युपाःस्वऽइत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यं, सर्वेषां धर्माणामश्रवणात्, ब्रह्माश्रुतेश्च ।
ऽप्राणो वा अमृतम्ऽइति प्राणस्यैवामृतत्वश्रुतेः ।
अत उपासनाविधिलुब्धेन ऽवक्तारं विद्यात्ऽ ऽएतदेवोक्थमुपासीतऽ ऽस म आत्मेति विद्यात्ऽइति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यं, तच्चायुक्तं, उपक्रमादिनैकवाक्यतानिर्णयादिति ।
तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति- तस्मादिति
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0