ब्रह्मसूत्र2 (टीका सहित) · अध्याय 4
fन्: ऽइदं सर्वमसृजत यदिदं किञ्चऽ इति प्रत्यक्षम् ।
प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य शास्त्रमारभमाणः पूर्वोत्तराधिकरणयोः संगतिं वक्तुं वृत्तं कीर्तयति- ब्रह्मेति ।
मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इत्युक्तम् ।
ब्रह्मणो विचार्यत्वोक्त्वा अर्थात् प्रमाणादि विचाराणां प्रतिज्ञातत्वे ऽपि ब्रह्मप्रमाणं विना कर्तुमशक्यत्वात्, तत्स्वरूपज्ञानायादौ लक्षणं वक्तव्यं, तन्न संभवतीत्याक्षिप्य सूत्रकृतं पूजयन्नेवलक्षणसूत्रमवधारयति-किं लक्षणकमिति ।
किमाक्षेपे ।
नास्त्येव लक्षणमित्यर्थः ।
आक्षेपेणास्योत्थानादाक्षेपसंगतिः ।
लक्षणद्योतिवेदान्तानां स्पष्टब्रह्मलिङ्गानां लक्ष्ये ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसंगतयः ।
तथा हि-ऽयतो वा इमानि भूतानि जायन्तेऽइत्यादि वाक्यं विषयः ।
तत्किं ब्रह्मणो लक्षणं न वेति संदेहः ।
तत्र पूर्वपक्षे ब्रह्मस्वरूपसिद्ध्या मुक्त्यसिद्धिः फलं सिद्धान्ते तत्सिद्धिरिति भेदः ।
यद्यप्याक्षेपसंगतौ पूर्वाधिकरणफलमेव फलमिति कृत्वा पृथङ्न वक्तव्यम् ।
तदुक्तम्-ऽआक्षेपे चापवादे च प्रास्यां लक्षण कर्मणि ।
प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्ततेऽइति ।
तथापि स्पष्टार्थमुक्तमिति मन्तव्यम् ।
यत्र पूर्वाधिकरणसिद्धान्तेन पर्वपक्षः तत्रापवादिकी संगतिः प्राप्तिस्तदर्था चिन्ता ।
तत्र नेति प्राप्तं, जन्मादेर्जगद्धर्मत्वेन ब्रह्मलक्षणत्वायोगात् ।
न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यं, कर्तुरुपादानत्वे दृष्टान्ताभावेनानुमानाप्रवृत्तेः ।
न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षणसिद्धेः किमनुमानेनेति वाच्यं, अनुमानस्य श्रुत्यनुग्राहकत्वेन तदभावे तद्विरोधे वा श्रुत्यर्थासिद्धेः ।
न च जगत्कर्तृत्वमुपादानत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यं, कर्तृमात्रस्योपादानाद्भिन्नस्य ब्रह्मत्वायोगात्, वस्तुतः परिच्छेदादिति प्राप्ते पुरुषाभ्यूहमात्रस्यानुमानस्याप्रतिष्ठितस्यातीन्द्रियार्थे स्वातन्त्र्यायोगात् अपौरुषेयतया निर्देषश्रुत्युक्तोभयकारणत्वस्य सुखादिदृष्टान्तेन संभावयितुं शक्यत्वात्, तदेव वक्षणमिति सिद्धान्तयति- जन्माद्यस्य यतः इति ।
अत्र अद्यपि जगज्जन्मस्थितिलयकारणत्वं लक्षणं प्रतिपाद्यते तथाप्यग्रे ऽप्रकृतिश्चऽ-इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपत्वमिति वक्ष्यमाणं सिद्धवत्कृत्योभयकारणत्वं लक्षणमित्युच्यत इति न पौनरुक्त्यम् ।
ननु जिज्ञास्यनिर्गुणब्रह्मणः कारणत्वं कथं लक्षणमिति उच्यते-यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शुक्तिरिति तथा यज्जगत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणमित्यनवद्यम् ॥
सूत्रं व्याचष्टे-- जन्मेत्यादिना ।
बहुव्रीहौ पदार्थाः सर्वे वाक्यार्थस्यान्यपदार्थस्य विशेषणानि ।
यथा चित्रगोर्देवदत्तस्य चित्रा गावः तद्वदत्रापि जन्मादीति नपुंसकैकवचनद्योतितस्य समाहारस्य जन्मस्थितिभङ्गस्य जन्म विशेषणं, तथा च जन्मनः समासार्थैकदेशस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान इत्यर्थः ।
तत्र यज्जन्मकारणं तद्ब्रह्मत्वविधानमयुक्तं, स्थितिलयकारणाद्भिन्नत्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातुमशक्यत्वात् ।
अतो जन्मस्थितिभङ्गैर्निरूपितानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो द्योतित इति ध्येयम् ।
नन्वादित्वं जन्मनः कथं ज्ञातव्यं, संसारस्यानादित्वादित्यत आह- जन्मनश्चेति ।
मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सूत्रकृता जन्मन आदित्यमुक्तमित्यर्थः ।
इदमः प्रत्यक्षार्थमात्रवाचित्वमाशङ्क्योपस्थितसर्वकार्यवाचित्वमाह- अस्येतीति ।
वियदादिजगतो नित्यत्वात् न जन्मादिसंबन्ध इत्यत आहः- षष्ठीति ।
विषयादिमहाभूतानां जन्मादिसंबन्धो वक्ष्यत इति भावः ।
ननु जगतो जन्मादेर्वा ब्रह्मसंबन्धाभावान्न लक्षणत्वमित्याशङ्क्य तत्कारणत्वं लक्षणमिति पञ्चम्यर्थमाह- यत इतीति ।
यच्छब्देन सत्यं ज्ञानमनन्तं आनन्दरूपं वस्तूच्यते ऽआनन्दाद्ध्येवऽइति निर्णीतत्वात् ।
तथा च स्वरूपलक्षणसिद्धिरिति मन्तव्यम् ।
पदार्थमुक्त्वा पूर्वसूत्रस्थब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च सूत्रावाक्यार्थमाह- अस्येत्यादिना ।
कारणस्य सर्वज्ञत्वादिसंभावानार्थानि जगतो विशेषाणानि ।
यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेनाविकल्पितं पृथुबुध्नोदराकारस्वरूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति-बहिः प्रकटयति, तथा परमकारणमपि स्वेत्सितनामरूपात्मना व्याकरोतीत्यनुमीयत इति मत्वाह- नामरूपाभ्यामिति ।
इत्थंभावे तृतीया ।
आद्यकार्यं चेतनजन्यं, कार्यत्वात्, कुम्भवदिति प्रधानशून्ययोर्निरासः ।
हिरण्यगर्भादिजीवजन्यत्वं निरस्यति- अनेकेति ।
श्राद्धवैश्वानरेष्ट्यादौ पितापुत्रयोः कर्तृभोक्त्रोर्भेदात्पृथगुक्तिः ।
ऽयो ब्रह्माणं विदधाति पूर्वम्ऽसर्व एत आत्मनो व्युच्चरन्ति"इति श्रुत्या स्थूलसूक्ष्मदेहोपाधिद्वारा जीवानां कार्यत्वेन जगन्मध्यपातित्वान्न जगत्कारणत्वमित्यर्थः ।
कारणस्य सर्वज्ञत्वं संभावयति- प्रतिनियतेति ।
प्रतिनियतानि व्यवस्थितानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयस्येत्यर्थः ।
स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः ।
देहपातादूर्ध्वं काल उत्तरायणमरणादिनिमित्तं च प्रतिनितम् ।
एवं राजसेवाफले ग्रामादेर्दैशादिव्यस्था ज्ञेया ।
तथा च यथा सेवाफलं देशाद्यभिज्ञदातृकं तथा कर्मफलं, फलत्वादितिसर्वज्ञत्वसिद्धिरिति भावः ।
सर्वशक्तित्वं साभावयति- -मनसापीति ।
नन्वन्येपि वृद्धिपरिणामदयो भावविकाराः सन्तीति किमिति जन्मादित्यादितिपदेन न गृह्यन्ते तत्राह -अन्येषामिति ।
वृद्धिपरिणामयोर्जन्मनि अपक्षयस्य नाशे ऽन्तर्भावः इति भावः ।
ननु देहो ऽजायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यतिऽइति यास्कमुनिवाक्यं एतत्सूत्रमूलं किं न स्यादत आह- यास्केति ।
यास्कमुनिः किल महाभूतानामुत्पन्नानां स्थितिकाले भौतिकेषु प्रत्यक्षेण जन्मादिषट्कमुपलभ्य निरुक्तवाक्यं चकार ।
तन्मूलीकृत्य जन्मादिषट्ककारणत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकृता ब्रह्मलक्षणं न संगृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यात् सा मा भूतिति ये श्रुत्युक्ता जन्मादयस्त एव गृह्यन्त इत्यर्थः ।
यदि निरुक्तस्यापि श्रुतिर्मूलमिति महाभूतजन्मादिजन्मादिकमर्थस्तर्हि सा श्रुतिरेव सूत्रस्य मूलमस्तु, किमन्तर्गडुना निरुक्तेनेति भावः ।
यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात् तदा ब्रह्मलक्षणस्य तत्रातिव्याप्त्यादिदोषः स्यात्, अतस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न संभवति, कारणान्तरासंभवादिति युक्तिः सूत्रिता ।
सा तर्कपादे विस्तरेण वक्ष्यते ।
अधुना संक्षेपेण तां दर्यति- न यथोक्तेत्यादिना ।
नामरूपाभ्यां व्याकृतत्येत्यादिनां च चतुर्णां जगद्विशेषणानां व्याख्यानावसरे प्रधानशून्ययोः संसारिणश्च निरासो दर्शितः ।
परमाणूनामचेतनानां स्वतः प्रवृत्त्ययोगात्, जीवान्यस्य ज्ञानशून्यत्वनियमेनानुमानात् सर्वज्ञेश्वरासिद्धौ तेषां प्रारकाभावात्, जगदारम्भकत्वासंभव इति भावः ।
स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह- न चेति ।
जगत उत्पत्त्यादि संभावयितुं न शक्यमित्यन्वयः ।
किं स्वयमेव स्वस्य हेतुरिति स्वभाव उत कारणानपेक्षत्वम् ।
नाद्यः, आत्माश्रयात् ।
न द्वितीय इत्याह- विशिष्टेति ।
विशिष्टान्यसाधारणानि देशकालनिमित्तानि ।
तेषां कार्यार्थिभिरुपादीयमानत्वात् कार्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थः ।
अनेपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादिनिमित्ते च प्रवृत्तिर्न स्यादिति भावः ।
पूर्वोक्तसर्वज्ञत्वादिविशेषणकमीश्वरं मुक्त्वा जगत उत्पत्यादिकं न संभवतीति भाष्येण कर्तारं विना कार्यं नास्तीति व्यतिरेक उक्तः ।
तेन यत्कार्यं तत्सकर्तृकमिति व्याप्तिर्ज्ञायते ।
एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साधयत् सर्वज्ञेश्वरं साधयति किं श्रुत्येति तार्किकाणां भ्रान्तिमुपन्यस्यति- एतदेवेति ।
एतदेवानुमानमेव साधनं न श्रुतिरिति मन्यन्त इति योजना ।
अथवा एतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेनास्मत्संमतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः ।
सर्वज्ञत्वमादिशब्दार्थः ।
यद्वा व्याप्तिज्ञानसहकृतमेतल्लक्षणमेवानुमानं स्वतन्त्रं मन्यन्त इत्यर्थः ।
तत्रायं विभागः-व्याप्तिज्ञानात् जगतः कर्तस्तीत्यस्तित्वसिद्धिः ।
पश्चात् स कर्ता, सर्वज्ञः, जगत्कारणत्वात्,
व्यतिरेकेण कुलालादिवदिति सर्वज्ञत्वसिद्धिर्लक्षणादिति ।
अत्र मन्यन्त इत्यनुमानस्यभासत्वं सूचितम् ।
तथाहि-अङ्कुरादौ तावज्जीवः कर्ता न भवति जीवाद्भिन्नस्य घटवदचेतनत्वनियमादन्यः कर्ता नास्त्येवेति व्यतिरेकनिश्चयात्, यत्कार्यं तत्सकर्तृकतमिति व्याप्तिज्ञानासिद्धिः ।
लक्षणलिङ्कानुमाने तु बाधः अशरीरस्य जन्मज्ञानायोगात्, यज्ञानं तन्मनोजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेर्ज्ञानाचभावनिश्चयात्, तस्मादतीन्द्रियार्थे श्रुतिरेव शरणम् ।
श्रुत्यर्थसंभावनार्थत्वेनुमानं युक्तिमात्रं न स्वतन्त्रमिति भावः ।
नन्विदमयुक्तं श्रुतेरनुमानान्तर्भावमभिप्रेत्य भवदीयसूत्रकृतानुमानस्यैवोपन्यस्यत्वादिति वैशेषिकः शङ्कते- नन्विति ।
अतो मन्यन्ते इत्यनुमानस्याभासोक्तिरयुक्तेति भावः ।
यदि श्रुतीनां स्वतन्त्रमानत्वं न स्यात्तर्हि ऽतत्तु समन्वयात्ऽइत्यादिना तासां तात्पर्यं सूत्रकृन्न विचारयेत्, तस्मादुत्तरसूत्राणां श्रुतिविचारार्थत्वात् जन्मादिसूत्रे ऽपि श्रुतिरेव स्वातन्त्र्येण विचार्यते नानुमानमिति परिहरति- नेति ।
किं च मुमुक्षोर्ब्रह्मावगतिरभीषटा यदर्थमस्य शास्त्रस्यारम्भः, सा च नानुमानात्, ऽतं त्वौपनिषदम्ऽइति श्रुतेः ।
अतो नानुमानं विचार्यमित्याह- वाक्यार्थेति ।
वाक्यस्य तदर्थस्यच विचाराद्यध्यवसानं तात्पर्यनिश्चयः प्रमेयसंभवनिश्चयश्च तेन जाता ब्रह्मावगतिर्मुक्तये भवतीत्यर्थः ।
संभवो बाधाभावः ।
ननु किमनुमानमुपेक्षितमेव नित्याह- सत्सु त्विति ।
विमतमभिन्ननिमित्तोपादानकं, कार्यत्वादूर्णनाभ्यारब्धतन्त्वादिवत्, विमतं चेतनप्रकृतिकं, कार्यत्वात्, सुखादिवदित्यनुमानं श्रुत्यर्थदार्ढ्यापेक्षितमित्यर्थः ।
दार्ढ्यं संशयविपर्यासनिवृत्तिः ।
ऽमन्तव्यःऽइति श्रुतार्थस्तर्केण संभावनीय इत्यर्थः ।
यथा कश्चित् गन्धारदेशेभ्यश्चोरैरन्यत्रारण्ये बद्धनेत्र एव त्यक्तः केनचिन्मुक्तबन्धस्तदुक्तमार्गग्रहणसमर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदेशानेव प्राप्नुयात् एवमेवेहाविद्याकामादिभिःस्वरूपानन्दात्प्राच्याव्यास्मिन्नरण्ये संसारे क्षिप्तः केनचिद्दयापरवशेनाचार्येण नासि त्वं संसारी किन्तु ऽतत्वमसिऽइत्युपदिष्टस्वरूपः स्वयं तर्ककुशलश्चेत् स्वरूपं जानीयान्नान्यथेति ।
श्रुतिः स्वस्याः पुरुषमतिरूपतर्कापेक्षां दर्शयतीत्याह- पण्डित इति ।
आत्मनः श्रुतेरित्यर्थः ।
ननु ब्रह्मणो मननाद्यपेक्षा न युक्ता, वेदार्थत्वात्, धर्मवत् ।
किन्तु श्रुतिलिङ्गवाक्यादय एवापेक्षिता इत्यत आह- नेति ।
जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणीति व्याख्येयम् ।
अनुभवो ब्रह्मसाक्षात्काराख्यो विद्वदनुभवः ।
आदिपदान्मनननिदिध्यासनयोर्ग्रहः ।
तत्र हेतुमाह -अनुभवेति ।
मुक्त्यर्थं ब्रह्मज्ञानस्य शाब्दस्य साक्षात्कारावसानत्वापेक्षणात् प्रत्यग्भूतसिद्धब्रह्मगोचरत्वेन साक्षात्कारफलकत्वसंभवात्, तदर्थं मननाद्यपेक्षा युक्ता ।
धर्मे तु नित्यपरोक्षे साध्ये साक्षात्कारस्यानपेक्षितत्वादसंभवाच्च श्रुत्या निर्णयमात्रमनुष्ठानायापेक्षितम् ।
लिङ्गादयस्तु श्रुत्यन्तरर्भूता एव श्रुतिर्द्वारा निर्णयोपयोगित्वेनापेक्ष्यन्ते न मननादयः अनुपयोगादित्यर्थः ।
निरपेक्षः शब्दः श्रुतिः ।
शब्दस्यार्थप्रकाशनासामर्थ्यं लिङ्गम् ।
पदं योग्येतरपदाकाङ्क्ष वाक्यम् ।
अङ्गवाक्यसापेक्षं प्रधानवाक्यं प्रकरणम् ।
क्रमपठितानामर्थानां क्रमपठितैर्यथाक्रमं संबन्धः स्थानम् ।
यथा ऐन्द्राग्न्यादय इष्टयो दश क्रमेण पठिताः दशमन्त्राश्च ऽइन्द्राग्नी रोचना दिविऽइत्याद्याः तत्र प्रथमेष्ठौ प्रथममन्त्रस्य विनियोग इत्याद्यूहनीयम् ।
संज्ञासाम्यं समाख्या ।
यथाध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञके कर्मणि विनियोग इति विवेकः ।
एवं तावद्ब्रह्म मननाद्यपेक्षं, वेदार्थत्वात्, धर्मवत् इत्यनुमाने साध्यत्वेन धर्मस्यानुभवायोग्यत्वं, अनपेक्षितानुभवत्वं चोपाधिरित्युक्तम् ।
उपाधिव्यतिरेकाद्ब्रह्मणि मननाद्यपेक्षत्वं चोक्तम् ।
तत्र यदि वेदार्थत्वमात्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कृतिसाध्यत्वं विधिनिषेधविकल्पोत्सर्गापवादाश्च ब्रह्मणि धर्मवत् स्युरिति ।
विपक्षे बाधकमाह- पुरुषेत्यादिना ।
पुरुषकृत्यधीना आत्मलाभ उत्पत्तिर्यस्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामाण्यमित्यन्वयः ।
धर्मस्य साध्यत्वं लौकिककर्मदृष्टान्तेन स्फुटयति -कर्तुमिति ।
लौकिकवदित्यर्थः ।
दृष्टान्तं स्फुटयति- यथेति ।
दार्ष्टान्तिकमाह- तथेति ।
तद्वद्धर्मस्य कर्तुमकर्तुं शक्यत्वमुक्त्वा अन्यथाकर्तुं शक्यत्वमाह- उदित इति ।
धर्मस्य साध्यत्वमुपपाद्य तत्र विध्यादियोग्यतामाह- विधीति ।
विधिप्रतिषेधाश्च विकल्पादयश्च धर्मे साध्ये येर्ऽथवन्तः सावकाश भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः ।
ऽयजेतऽ ऽन सुरां पिबेत्ऽइत्यादयोविधिनिषेधाः ।
व्रीहिभिर्यवैर्या यजेतेति संभावितो विकल्पः ग्रहणाग्रहणयोरैच्छिकः ।
उदितानुदितहोमयोर्व्यवस्थितविकल्पः ।
ऽन हिंस्यात्ऽइत्युपसर्गः, ऽअग्नीषोमीयं पशुमालभेतऽइत्यपवादः ।
तथा ऽआहवनीये जुहोतिऽइत्युत्सर्गः, ऽअश्वस्य पदे पदे जुहोतिऽइत्यपवाद इति विवेकः ।
एते ब्रह्मणि स्युरित्यत्रेष्टापत्तिं वारयति-न इत्यादिना ।
भूतवस्तुविषयत्वात् ।
इत्यन्तेन ।
इदं वस्तु, एवं, नैवं, घटःपटो वेति प्रकारविकल्पः ।
अस्ति नास्ति वेति सत्तास्वरूपविकल्पः ।
ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्तीत्यादिविकल्पा दृश्यन्ते तत्राह- विकल्पनास्त्विति ।
अस्तित्वादिकोटिस्मरणं पुरुषबुद्धिस्तन्मूला मनःस्पन्दितमात्राः संशयविपर्ययविकल्पा न प्रमारूपा इत्यक्षरार्थः ।
अयं भावः-धर्मो हि यथा यथा ज्ञायते तथा तथा कर्तुं शक्यते इति यथाशास्त्रं पुरुषबुद्ध्यपेक्षा विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्येन ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति ।
तत्राप्येवमिति वदन्तं प्रत्याह- नेति ।
यदि सिद्धवस्तुज्ञानमपि साध्यज्ञानवत्पुरुषबुद्धिमपेक्ष्य जायेत तदा सिद्धे विकल्पा यथार्थाः स्युः, न सिद्धवस्तुज्ञानं पौरुषं किं तर्हि प्रमाणवस्तुजन्यं, तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः ।
अत्र दृष्टान्तमाह- नहि स्थाणाविति ।
स्थाणुरेवेत्यवधारणे सिद्धे सर्वेविकल्पा यथार्था न भवन्तीत्यर्थः ।
तत्र यद्वस्तुतन्त्रं ज्ञानं तद्यथार्थं, यत्पुरुषतन्त्रं तन्मिथ्येति विभजते- तत्रेति ।
स्थाणावित्यर्थः ।
स्थाणावुक्तन्यायं घटादिष्वतीदिशति- एवमिति ।
प्रकृतमाह- तत्रैवं सतीति ।
सिद्धेर्ऽथे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्मज्ञानमपि वस्तुजन्यमेव यथार्थं न पुरुषतन्त्रं भूतार्थविषत्वात्, स्थाणुज्ञानवदित्यर्थः ।
अतः साध्येर्ऽथे सर्वे विकल्पाः पुन्तन्त्रा न सिद्धेर्ऽथे इति वैलक्षण्यात् न धर्मसाम्यं ब्राह्मण इति मननाद्यपेक्षा सिद्धेति भावः ।
ननु तर्हि ब्रह्म प्रत्यक्षादिगोचरं, धर्मविलक्षणत्वात्, घटादिवत् ।
तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्यं, सिद्धार्थे तस्य मानत्वात्, न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य निष्फलत्वादिति शङ्कते- नान्विति ।
प्रमाणान्तरविषयत्वमेव प्राप्तमिति कृत्वा प्रमाणान्तरस्यैव विचारप्राप्ताविति शेषः ।
अत्र पूर्वपक्षी प्रष्टव्यः, किं यत्कार्यं तद्ब्रह्मजमित्यनुमानं ब्रह्मसाधकं किं वा यत्कार्यं तत्सकारणमिति ।
नाद्याः, व्याप्त्यसिद्धेरित्याह- नेति ।
ब्रह्मण इन्द्रियाग्राह्यत्वात् प्रत्यक्षेण व्याप्तिग्राहायोगान्न प्रमाणान्तरविषयत्वमित्यर्थः ।
इन्द्रियाग्राह्यत्वं कुत इत्यत आह -स्वभावत इति ।
ऽपराञ्चि खानि व्यतृणत् स्वयंभूःऽइति श्रुतेः, ब्रह्मणो रूपादिहीनत्वाच्चेत्यर्थः ।
इन्द्रियाग्राह्यत्वे ऽपि व्याप्तिग्रहः किं न स्यादत आह-सति हीति ।
तन्नास्तीति शेषः ।
इदं कार्यं ब्रह्मजमिति व्याप्तिप्रत्यक्षं ब्रह्मणो ऽतीन्द्रियत्वान्न संभवतीत्यर्थः ।
द्वितीये कारणसिद्धावपि कारणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह-- कार्यमात्रमिति ।
संबन्धं कृतं यस्मात् श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्चयालाभस्तस्मात् तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तूपादानत्वादिसामान्यद्वारा मृदादिवत् ब्राह्मणः स्वकार्यात्मकत्वादिश्रौतार्थसंभावनार्थं गुणतया विचार्यमित्युपसंहरति- तस्मादिति ।
एतत्सूत्रस्य विषयवाक्यं पृच्छति- किं पुनरिति ।
इह ब्रह्मणि लक्षणार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः ।
अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्मज्ञातुकामास्य द्वितीयसूत्रे लक्षणमुच्यते ।
तथैव श्रुतावपि मुमुक्षोर्ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोपक्रमंवाक्यं पठति- भृगुरिति ।
अधीहि स्मारय उपदिशेत्यर्थः ।
अत्र येनेत्येकत्वं विवक्षितं, नानात्वे ब्रह्मत्वविधानायोगात् ।
यज्जगत्कारणं तदेकमित्यवान्तरवाक्यम् ।
यदेकं कारणं तद्ब्रह्मेति वा यत्कारणं तदेकं बह्मेति वा महावाक्यमिति भेदः ।
किं तर्हि स्वरूपलक्षणमित्याशङ्क्य वाक्यशेषान्निर्णितो यतःशब्दार्थः सत्यज्ञानानन्द इत्याह-- तस्य चेति ।
ऽयः सर्वज्ञःऽ ऽतस्मादेतद्ब्रह्म नाम रूपमन्नं च जायतेऽ ऽविज्ञानमानन्दं ब्रह्मऽइत्यादि शाखान्तरीयवाक्यान्यप्यस्य विषय इत्याह -अन्यान्यपीति ।
एवञ्जतीयकत्वमेवाह- नित्येति ।
तदेवं सर्वासु शाखासु लक्षणद्वयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि, तद्धिया मुक्तिरिति सिद्धम्
एन्द् ब्स्चोम्_1,1.2.2
स्तर्त् ब्स्चोम्_1,1.3.3
3 शास्त्रयोनित्वाधिकरणम् । सू. 3
जगत्कारणत्वप्रर्दानेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तं तदेव द्रढयन्नाह-
शास्त्रयोनित्वात् । ब्ब्स्_1,1.3 ।
महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणंब्रह्म ।
नहीदृशस्य शास्त्रस्यर्ग्वेदादिक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवो ऽस्ति ।
यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति, यथा व्याकरणादि पाणिन्यादेर्ज्ञेयैकदेशार्थमपि स ततो ऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके ।
किमु वक्तव्यमनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमदिप्रविभागहेतोर् ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्नेनैव लीलान्ययेन पुरुषनिःश्वासवद्यस्मान्महतो भूताद्योनेः संभवः, ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ (बृह. 2.4.10) इत्यादिश्रुतेः ।
तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति ।
अथवा यथोक्त ऋग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे ।
शास्त्रादेव प्रणाणाज्जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः ।
शास्त्रमुदाहृतं पूर्वसूत्रे- ऽयतो वा इमानि भूतानि जायन्तेऽ इत्यादि ।
किमर्थं तर्हीदं सूत्रं, यावता पूर्वसूत्र एवैवञ्जातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् ।
उच्यते- तत्र पूर्वसूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादि केवलमनुमानमुपन्यस्तमित्याशङ्क्येत तामाशङ्कां निर्वर्तयितुमिदं सूत्रं प्रववृते शास्त्रयोनित्वादिति
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0