ब्रह्मसूत्र2 (टीका सहित) · अध्याय 49
संध्ये सृष्टिराह हि ।
उक्तवैराग्यसाध्यस्तत्त्वंपदार्थविवेको वाक्यार्थज्ञानसाधनमस्मिन् पादे निरूप्यत इति पादयोर्हेतुसाध्यभावसंगतिमाह- अतिक्रान्त इति ।
साधनविचारत्वादेवास्य पादस्यास्मिन्नध्याये संगतिः ।
अस्मिन् पादे ऽन स्थानतो ऽपिऽइत्यतः प्रागुद्देश्यत्वेन प्रथमं जिज्ञासितत्वंपदार्थो ऽवस्थाद्वारा विविच्यते, तदारभ्यापादसमाप्तेर्विधेयतत्पदार्थविवेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथादिसृष्ट्युक्तेस्तदभावोक्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति- तत्र संशय इत्यादिना ।
स्वप्नरथादयो जाग्रद्रथादिवत् व्यावहारिकसत्ताका उत शुक्तिरजतवत् प्रातीतिका इति संशयार्थः ।
आरम्भणाधिकरणे प्रपञ्चस्य पारमार्थिकत्वनिषेधादिति मन्तव्यम् ।
अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः ।
सिद्धान्ते प्रातीतिकदृश्यसाक्षितया विवेकात् स्वयञ्ज्योतिष्ट्वसिद्धिरिति फलम् ।
मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवो सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाधृदये मनसा परलोकस्फूर्तिरूपः स्वप्नो भवति, सो ऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः ।
तथाच श्रुतिः-ऽतस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं चऽइति ।
अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबोधसंप्रसादसंधिभवत्वमुक्तम् ।
अन्येतु मर्त्यचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं परलोकलक्षणं, दैवचक्षुराद्यजन्यतद्वत्त्वं मर्त्यलोकलक्षणं च स्वप्ने ऽस्तीति लक्षणतो लोकद्वयस्पर्शित्वात् नित्यस्वप्नस्यैव लोकद्वयसंध्यत्वं ग्रामद्वयस्पर्शिमार्गस्य तत्संध्यत्ववदिति व्याचक्षते ।
न केवलं श्रुत्या स्वप्नार्थानां व्यावहारिकसत्यत्वं किन्तु सकर्तृकत्वादपीत्याह- स हि कर्तेति
एन्द् ब्स्चोम्_3,2.1.1
स्तर्त् ब्स्चोम्_3,2.1.2
निर्मातारं चैके पुत्रादयश् च । ब्ब्स्_3,2.2 ।
अपिचैके शाखिनो ऽस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति- ऽय एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणःऽ (क. 5.8) इति ।
पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति ।
ननु कामशब्देनेच्छाविशेषा एवोच्येरन् ।
न ।
ऽशतायुषः पुत्रपौत्रान्वृणीष्वऽ (क. 1.23) इति प्रकृत्यान्ते ऽकामानां त्वा कामभाजं करोमिऽ (क. 1.24) इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् ।
प्राज्ञं चैनं निर्मितारं प्रकरणवाक्यशेषाभ्यां प्रतीमः ।
प्राज्ञस्य हीदं करणम् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क. 2.24) इत्यादि, तद्विषय एव च वाक्यशेषो ऽपि- ऽतदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनऽऽ (क. 5.8) इति ।
प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति ।
तथाच श्रुतिः - अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्तः (बृ. 4.3.14) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति ।
तस्मात्तथ्यरूपैव संध्ये सृष्टरिति
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0