ब्रह्मसूत्र2 (टीका सहित) · अध्याय 50
किञ्च स्वप्नार्थाः सत्याः, प्राज्ञनिर्मितत्वात्, आकाशादिवदिति सूत्रार्थमाह- अपिचेत्यादिना ।
रूढिमाशङ्क्य प्रकरणान्निरस्यति- नन्वित्यादिना ।
यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः ।
स्वप्नस्य जाग्रदर्थैः ।
समानदेशत्वश्रुतेरभेदश्रुतेश्च सत्यत्वे तात्पर्यमित्याह- अथो खल्वाहुरिति
एन्द् ब्स्चोम्_3,2.1.2
स्तर्त् ब्स्चोम्_3,2.1.3
एवं प्राप्ते प्रत्याह-
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ब्ब्स्_3,2.3 ।
तुशब्दः पक्षं व्यवर्तयति ।
नैतदस्ति यदुक्तं संध्ये सृष्टिः पारमार्थिकीति ।
मायैव संध्ये सृष्टिर्न पारमार्थगन्धो ऽप्यस्ति ।
कुतः - कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
नहि कार्त्स्न्येनपारमार्थवस्तुधर्मेणाभिव्यक्तस्वरूपः स्वप्नः ।
किं पुनरत्र कार्त्स्न्यमभिप्रेतं देशकालनिमित्तान्यबाधश्च ।
नहि परमार्थवस्तुविषयाणि देशकालनिमित्तान्यबाधाश्च स्वप्ने संभाव्यन्ते ।
न तावत्स्वप्ने रथादीनामुचितो देशः संभवति ।
नहि संवृते देहदेशेरथादयो ऽवकाशं लभेरन् ।
स्यादेतत् ।
बहिर्देहात्स्वप्नम् द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् ।
दर्शयति च श्रुतिर्बहिर्देहात्स्वप्नम्- ऽबहिष्कुलायादमृतश्चरित्वा ।
स ईयते ऽमृतो यत्र कामम्ऽ (बृ. 4.3.12) इति स्थितिगतिप्रत्ययभेदश्च नानिष्क्रान्ते जन्तौ सामञ्जस्यामश्नुवीतेति ।
नेत्युच्यते ।
नहि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं संभाव्यते ।
क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः स्वप्ने पञ्चालानभिगतश्चास्मिन्प्रतिबुद्धश्चेति ।
देहाच्चेदपेयात्पञ्चालेषु प्रतिहुध्येत न तानसावभिगत इति कुरुष्वेव तु प्रतिबुध्यते ।
येन चायं देहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति ।
यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति ।
परिधावंश्चेत्पश्येज्जाग्रद्वद्वस्तुभूतमार अथमाकलयेत् ।
दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम्- ऽस यत्रैतत्स्वप्न्यया चरतिऽ इत्युपक्रम्य ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ. 2.1.18) इति ।
अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिर्गौणी व्याख्यातव्यया बहिरिव कुलायादमृतश्चरित्वेति ।
यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स बहिरिव शरीराद्भवतीति ।
स्थितिगतिप्रत्ययभेदो ऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ।
कालविसंवादो ऽपि च स्वप्ने भवति रजन्यां सुप्तो वासरं भारते वर्षे मन्यते ।
तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद्बहुवर्षपूगानतिवाहयति ।
निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते ।
करणोसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति ।
रथादिनिर्वर्तने ऽपि कुतो ऽस्य निमेषमात्रेण सामर्थ्यं दारुणी वा ।
बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे ।
स्वप्न एव चैते सुलभबाधा भवन्ति ।
आद्यन्तयोर्व्यभिचारदर्शनात् ।
रथो ऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः संपद्यते मनुष्यो ऽयमिति निर्धारितः क्षणेन वृक्षः ।
स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् - ऽऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽ (बृ. 4.3.10) इत्यादि ।
तस्मान्मायामात्रं स्वप्नदर्शनम्
fन्: संवृते संकीर्णः ।
पर्येतुं गन्तुम् ।
विपर्येतुं आगन्तुम् ।
स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्टत्वाच्छुक्तिरूप्यादिवदिति सिद्धान्तयति- तुशब्द इत्यादिना ।
चिन्मात्रनिष्ठाविद्या चित्त्वावच्छेदेन जीवे ऽपि स्थिता रथाद्याकारा मायेति सूत्रभाष्ययोरुक्ता मायाविद्ययोरभेदज्ञापनाय मात्रपदेन तु सति प्रमातर्यबाध्यत्वरूपस्य व्यावहारिकसत्यत्वस्य निरास उक्तः ।
कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः ।
सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति- न तावादित्यादिना ।
संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विपर्येतुमागन्तुं, श्रावयति प्रबुद्धो जनः,
पार्श्वस्थान्प्रतीति शेषः ।
एतत्स्वप्नं यथा स्यात्तथा ।
यत्र काले स्वप्न्यया वृत्त्या चरति तथा स्वशरीरे यथेष्टं चरतीत्यर्थः ।
बहिरिवेति ।
कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः ।
गुणमाह- यो हीति ।
देहाभिमानहीनत्वगुणेन बहिष्ठवद्देहस्थो ऽपि बहिरित्युक्त इत्यर्थः ।
एवं सति श्रुतियुक्तिभ्यां अन्तरेव स्वप्ने सतीत्यर्थः ।
विप्रलम्भो विभ्रमः योग्यदेशाभावमुक्त्वा कालाभावमाह- कालेति ।
अत्र रात्रिसमये ऽपि केतुमालादिवर्षान्तरे वासरो भवति इति भारत इत्युक्तम् ।
पूर्वक्षानुमानानां जाग्रदर्थदृष्टान्ते कॢप्तमग्रीजन्यत्वमबाधयोग्यत्वं चोपाधिरिति सूत्रतात्पर्यम्
एन्द् ब्स्चोम्_3,2.1.3
स्तर्त् ब्स्चोम्_3,2.1.4
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः । ब्ब्स्_3,2.4 ।
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धो ऽस्तीति ।
नेत्युच्यते ।
सूचकश्च हि स्वप्नो भवति भविष्यतोःसाध्वसाधुनोः ।
तथाहि श्रूयते - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन्स्वप्नदर्शनेऽ (छा. 5.2.9) तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ।
आचक्षते च स्वप्नाध्यायविदः - ऽकुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानिऽ इति ।
मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते ।
तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वादित्यभिप्रायः ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ।
यदुक्तम् ऽआह हिऽ इति तदेवं सति भाक्तं व्याख्यातव्यम् ।
यथा लाङ्गलं गवादीनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते, नतु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति ।
एवं निमित्तमात्रत्वादेवात्सुप्तो रथादीन्सृजते स हि कर्तेति चोच्यते, नतु प्रत्यक्षमेव सुप्तो रथादीन्सृजति ।
निमित्त्त्वं त्वस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् ।
अपिच जागरिते विषयेन्द्रियसंयोगादादित्यादिज्योतिर्व्यतिकराच्चात्मनः स्वयञ्ज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः ।
तत्र यदि रथादिसृष्चिवचनं श्रुत्या नीयेत तदा स्वयञ्ज्योतिष्ट्वं न निर्णीतं स्यात् ।
तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् ।
एतेन निर्माणश्रवणं व्याख्यातम् ।
यदप्युक्तम् - ऽप्राज्ञमेनं निर्मातारमामनन्तिऽ इति ।
तदप्यसत् ।
श्रुत्यन्तरे ऽस्वयं विहत्य स्वयं निर्माय स्वेन भासा ज्योतिषा प्रस्वपितिऽ (बृ. 4.3.9) इति जीवव्यापारश्रवणात् ।
इहापि ऽय एष सुप्तेषु जागर्तिऽ (क. 5.8) इति प्रसिद्धानुवज्जीव एवायं कामानां निर्माता संकीर्त्यते ।
तस्य तु वाक्यशेषेण तदेव शुक्रं तद्ब्रह्मेति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते - ऽतत्त्वमसिऽ (छा. 6.9.4) इत्यादिवदिति न ब्रह्मप्रकरणं विरुध्यते ।
नचास्माभिः स्वप्ने ऽपि प्राज्ञव्यवहारः प्रतिषिध्यते ।
तस्य सर्वेश्वरत्वात्सर्वास्ववस्थाधिष्ठातृत्वोपपत्तेः ।
पारमार्थिकस्तु नायं संध्याश्रयः सर्गो वियदादिसर्गवदित्येतावत्प्रतिपाद्यते ।
नच वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ।
प्रतिपादितं हि ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽ (ब्र. सू. 2.1.14) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् ।
प्राक्तु ब्रह्मात्मत्वदर्शनाद्वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ।
संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इति ।
अतो वैशेषिकमिदं संध्यस्य मायामत्रत्वमुदितम्
स्वप्नस्य भ्रान्तिमात्रत्वे तत्सूचितो ऽप्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे- मायेत्यादिना ।
मन्त्रेण देवतानुग्रहेणौषधिसेवया वा स्वप्नः सत्यसूचकाश्चेत् सत्याः स्युरित्यत आह- तत्रापि भवतु नामेति ।
सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्यत्वादर्शनादिति भावः ।
यथा कृषिद्वारा लाङ्गलस्य गवादिजीवननिमित्तत्वं तथा स्वप्नभोक्तुरदृष्टद्वारा स्वप्नसृष्टिनिमित्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षाद् स्वप्नकर्तृत्वं सामग्र्यभावबाधयोरुक्तत्वादित्याह- यदुक्तमित्यादिना ।
तथाच स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः ।
श्रुतितात्पर्यविरोधाच्च न स्वप्नसत्यतेत्याह- अपिचेति ।
व्यतिकरः संकरः, श्रुत्यातत्परतयेत्यर्थः ।
जागरितादविशेषादिति भावः ।
फलितमाह- तस्मादिति ।
एतेनेति ।
भाक्तत्वेनेत्यर्थः ।
द्वितीयसूत्रोक्तप्राज्ञकर्तृकत्वहेतुरपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वेश्वरत्वात् सिद्धः, नाद्य इत्याह- यदप्युक्तमित्यादिना ।
स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्नमनुभवतीत्यर्थथः ।
न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठके ऽपीत्याह- इहापीति ।
जीवोक्तौ ब्रह्मप्रकरणविरोध इत्यत आह- तस्य त्विति ।
एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्वितीयमङ्गीकरोति- न चास्माभिरिति ।
तर्हि हेतुसिद्धेः स्वप्नस्य सत्यत्वमित्याशङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह- पारमार्थिकस्त्विति ।
द्वितीये दृष्टान्तस्य साध्यवैकल्यमित्याह- नचेति ।
कस्तर्हि स्वप्नस्य जाग्रतो विशेषो ऽत्र कथ्यत इत्याशङ्क्य प्रातिभासिकत्वमित्याह- प्रागिति
एन्द् ब्स्चोम्_3,2.1.4
स्तर्त् ब्स्चोम्_3,2.2.5
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ब्ब्स्_3,2.5 ।
अथापि स्यात्परस्यैव तावदात्मनोंऽशो जीवो ऽग्निरिव विस्फुलिङ्गः ।
तत्रैवं सति यथाग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवत एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती, ततश्च जीवस्य ज्ञानैश्वर्यवशात्सांकल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति ।
अत्रोच्यते- सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् ।
किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव ।
न नास्त्येव ।
विद्यमानमपि तत्तिरोहितमविद्यादिव्यवधानात् ।
तत्पुनस्तिरोहितं सत्परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्शक्तिरौषधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनाम् ।
कुतः - ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः ।
ईश्वरस्वरूपापरिज्ञानाद्बन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्षः ।
तथाच श्रुतिः - ऽज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामःऽ (श्वे. 1.11) इत्येवमाद्या
पूर्वं कॢप्तसामग्र्यभावात् स्वप्नो मायेत्युक्तमयुक्तं सत्यसङ्कल्पमात्रेणापि सत्यसृष्टिसंभवादिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे- अथपि स्यादित्यादिना ।
सत्यसंकल्पस्य हि संकल्पात्सृष्टिः सत्या भवति जीवस्य त्वसत्यसंकल्पत्वं प्रत्यक्षमिति परिहारार्थः ।
तर्हि विरुद्धधर्मवत्त्वाज्जीवस्येश्वरत्वं नास्त्येवेति शङ्कते- किमिति ।
नास्तीति न किन्त्वावृतमस्ति तत्पुनरीश्वरप्रसादाकस्यचिद्व्यज्यत इत्याह- न नास्तीति ।
विधूतध्वान्तस्य निष्पापस्य संसिद्धस्याणिमादिविशिष्टस्येत्यर्थः ।
ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिक्लेशानामपहानिरपक्षयस्तद्रूपो भवति ।
क्षीणैश्च क्लेशैस्तत्कार्यजन्ममरणात्मकबन्धध्वंस इति निर्गुणविद्याफलमुक्तम् ।
सगुणविद्याफलमाह- तस्येति ।
परस्याभिमुख्येनाहङ्ग्रहेण ध्यानाद्बन्धमोक्षापेक्षया मनेत्रोक्तहानिद्वयापेक्षया वा तृतीयं विश्वैश्वर्यमणिमादिरूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तदभोगानन्तरमात्मज्ञानात्केवलो द्वैतशून्य आप्तकामः प्राप्तस्वयञ्ज्योतिरानन्दो भवतीति क्रममुक्तिरित्यर्थः
एन्द् ब्स्चोम्_3,2.2.5
स्तर्त् ब्स्चोम्_3,2.2.6
देहयोगाद्वा सो ऽपि । ब्ब्स्_3,2.6 ।
कस्मात्पुनर्जीवः परमात्मांश एव संस्तिरस्कृतज्ञानैश्वर्यो भवति ।
युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्येव दहनप्रकाशनयोरिति ।
उच्यते ।
सत्यमेवैतत् ।
सो ऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावो देहयोगाद्देहेन्द्रियमनोबुद्धिविषयवेदनादियोगाद्भवति ।
अस्ति चात्रोपमा यथाग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणितस्य दहनप्रकाशने तिरोहिते भवतो यथा वा भस्मच्छन्नस्य ।
एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात्तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः ।
वाशब्दो जीवेश्वरयोरन्यत्वाशङ्काव्यावृत्त्यर्थः ।
नन्वस्य एव जीव ईश्वरादस्तु तिरस्कृतज्ञानैश्वर्यत्वात्किं देहयोगकल्पनया ।
नेत्युच्यते ।
नह्यन्यत्वं जीवस्येश्वरादुपपद्यते ऽसेयं देवतैक्षतऽ (छा. 6.3.2) इत्युपक्रम्य ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा. 6.3.2) इत्यात्मशब्देन जीवस्य परामर्शात् ।
ऽतत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽ (छा. 6.9.4) इति च जीवायोपदिशतीश्वरात्मत्वम् ।
अतो ऽनन्य एवेश्वराज्जीवः सेदेहयोगात्तिरोहितज्ञानैश्वर्यो भवति ।
अतश्च न सांकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते ।
यदि च सांकल्पिकी स्वप्ने रथादिसृष्टिः स्यान्नैवानिष्टं कश्चित्स्वप्नं पश्येत् ।
नहि कश्चिदनिष्टं संकल्प्यते ।
यत्पुनरुक्तं जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं स्थापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायं स्वयञ्ज्योतिष्ट्वविरोधात् ।
श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् ।
जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्
उक्तैश्वर्यतिरोभावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह- कस्मादिति ।
सत्यावरणं नास्तीत्यङ्गीकृत्य कल्पितावरणं साधयति- उच्यत इत्यादिना ।
जीवस्येश्वरत्वमङ्गीकृत्यावरणकल्पनातो वरमन्यत्वकल्पनेत्याशङ्कामुद्भाव्य श्रुत्या निरस्यति- नन्वित्यादिना ।
स्वप्ने ऽप्यालोकादेः सत्यत्वे जाग्रतीवात्मनःस्वप्रकाशत्वमस्फुटं स्यात्, प्रातिभासिकत्वे त्वालोकेन्द्रियाद्यसत्त्वे ऽप्यर्थापरोक्ष्यमात्मज्योतिष एवेति स्फुटं सिध्यति ।
तस्माद्देशादिसाम्यवचनं स्वप्नस्य जाग्रत्तुल्यभानाभिप्रायमित्यर्थः
एन्द् ब्स्चोम्_3,2.2.6
स्तर्त् ब्स्चोम्_3,2.2.7
2 तदभावाधिकरणम् । सू. 7-8
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च । ब्ब्स्_3,2.7 ।
स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते ।
तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्ति ।
क्वचिच्छ्रूयते- ऽतद्यत्रैतत्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृपो भवतिऽ (छा. 8.6.3) इति ।
अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ऽताभिः प्रत्यवसृप्य पुरीतति शेतेऽ (बृ. 2.1.19) इति ।
तथान्यत्र नाडीरेवानुक्रम्य ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी. 4.19) इति ।
तथान्यत्र ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ. 2.1.17) इति ।
तथान्यत्र ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. 6.8.1) इति ।
ऽप्राज्ञेनात्मना संपरिश्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ (बृ. 4.3.21) इति च ।
तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानान्याहोस्वित्परस्परापेक्षयैकं सुषुप्तिस्थानमस्ति ।
किं तावत्प्राप्तं भिन्नानीति ।
कुतः - एकार्थत्वात् ।
नह्येकार्थानीं क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् ।
नाड्यादीनां त्वेकार्थता सुषुप्तौ दृश्यते - ऽनाडीशु सृप्तो भवतिऽ (छा. 8.6.3) ऽपुरीतति शेतेऽ
(बृ. 2.1.19) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् ।
ननु नैवं सति सप्तमीनिर्देशो दृश्यते - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.8.1) इति ।
नैष दोषः ।
तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् ।
वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह - ऽअन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयतेऽ (छा. 6.8.2) इति प्राणशब्देन तत्र प्रकृतस्य सत उपादनात् ।
आयतनं च सप्तम्यर्थः ।
सप्तमीनिर्देशो ऽपि तत्र वाक्यशेषे दृश्यते - ऽसति संपद्य न विदुः सति संपद्यामहेऽ (छा. 6.9.2) इति ।
सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते ।
तस्मादेकार्तत्वान्नाड्यादीनां विकल्पेन कदाचित्किञ्चित्स्थानं स्वापायोपसर्पतीति ।
एवं प्राप्ते प्रतिपाद्यते - तदभावो नाडीष्वात्नि चेति ।
तदभाव इति तस्य प्रकृतस्य स्वप्नदर्शनस्याभावः सुषुप्तमित्यर्थः ।
नाडीष्वात्मनि चेति समुच्चयेनैतानि नाड्यादीनि स्वापायोपैति न विकल्पेनेत्यर्थः ।
कुतः - तच्छ्रुतेः ।
तथाहि - सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते तच्च मसुच्चये संगृहीतं भवति ।
विकल्पे ह्येषां पक्षे बाधः स्यात् ।
नन्वेकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत्युक्तम् ।
नेत्युच्यते ।
नह्येकविभक्तिनिर्देशमात्रेणैकार्थत्वं विकल्पश्चापतति ।
नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनाप्रासादे शेते पर्यङ् के शेत इत्येवमादिषु ।
तथेहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीत्येतदुपपद्यते समुच्चयः ।
तथाच श्रुतिः - ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी. 4.19) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयत्येकवाक्योपादानात् ।
प्राणस्य च ब्रह्मत्वं समधिगतम् - ऽप्राणस्तथानुगमात्ऽ (ब्र.सू. 1.1.28) इत्यत्र ।
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति - ऽआसु तदा नाडीषु सृप्तो भवतिऽ (छा. 8.6.3) इति ।
तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणो ऽप्रतिषेधान्नाडीद्वारेणैव ब्रह्मण्येवावतिष्ठत इति प्रतीयते ।
नचैवमपि नाडीषु सप्तमी विरुध्यते ।
नाडीद्वारापि ब्रह्मोपसर्पन्सृप्त एव नाडीषु भवति ।
यो हि गङ्गया सागरं गच्छति गत एव स गङ्गायां भवति ।
अपिचात्र रश्मीनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वान्नाडीस्तुत्यर्थं सृप्तिसंकीर्तनम् ।
ऽनाडीषु सृप्तो भवतिऽ (छा. 8.6.3) इत्युक्त्वा ऽतं न कश्चन पाप्मा स्पृशतिऽ (छा. 8.6.3) इति ब्रुवन्नाडीः प्रशंसति ।
ब्रवीति च पाप्मस्पर्शाभावे हेतुम् - तेजसा नाडीगतेन पित्ताख्येनाभिव्याप्तकरणो न बाह्यान्विषयानीक्षत इत्यर्थः ।
अथवा तेजसेति ब्रह्मण एवायं निर्देशः ।
श्रुत्यन्तरे -ऽ ब्रह्मैव तेज एवऽ (बृ. 4.4.7) इति तेजः शब्दस्य ब्रह्मणि प्रत्युक्तत्वात् ।
ब्रह्मणा हि तदा संपन्नो भवति नाडीद्वारेणातस्तं न कश्चन पाप्मान स्पृशतीत्यर्थः ।
ब्रह्मसमपत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः - ऽसर्वे पाप्मानो ऽत निवर्तन्ते ऽपहतपाप्मा ह्येष ब्रह्मलोकःऽ (छा.
8.4.2) इत्यादिश्रुतिभ्यः ।
एवञ्च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति ।
तथा पुरीततो ऽपि ब्रह्मप्रक्रियायां संकीर्तनात्तदनुगुणमेव सुप्तिस्थानत्वं विज्ञायते - ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ. 2.1.17) इति हृदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते ऽपुरीतति शेतेऽ (बृ. 2.1.19) इति ।
पुरीतदिति हृदयपरिवेष्टनमुच्यते ।
तदन्तर्वर्तिन्यापि हृदयाकाशे शयानः शक्यते पुरीतति शेत इति वक्तुम् ।
प्राकारपरिक्षिप्ते ऽपि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते ।
हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् - ऽदहर उत्तरेभ्यःऽ (ब्र.सू. 1.3.14) इत्यत्र ।
तथा नाडीपुरीतत्समुच्चयो ऽपि - ऽताभिः प्रत्यवसृत्य पुरीतति शेतेऽ (बृ. 2.1.19) इत्येकवाक्योपादानादवगम्यते ।
सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् ।
एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि नाड्यः पुरीतद्ब्रह्म चेति ।
तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव त्वेकं सुषुप्ति स्थानम् ।
अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति तत्रास्य करणानि वर्तन्त इति ।
नह्युपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्संभवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् ।
ब्रह्माधारत्वमप्यस्य सुषुप्ते नैवाधाराधेयभेदाभिप्रायेणोच्यते कथं तर्हि तादात्म्याभिप्रायेण ।
यत आह - ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. 6.8.1) इति ।
स्वशब्देनात्माभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः ।
अपिच न कदाचिज्जीवस्य ब्रह्मणा संपत्तिर्नास्ति स्वरूपस्यानपायित्वात् ।
स्वप्नजागरितयोस्तूपाधिसंपर्कवशात्पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्वक्ष्यते ।
अतश्च सुप्तावस्थायां कदाचित्सतां संपद्यते कदाचिन्न संपद्यत इत्ययुक्तम् ।
अपिच स्थानविकल्पाभ्युपगमे ऽपि विशेषविज्ञानोपलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते ।
तत्र सति संपन्नस्तावत्तदेकत्वान्न विजानतीति युक्तम् ।
ऽत्तकेन कं विजानीयात्ऽ (बृ. 2.4.14) इति श्रुतेः ।
नाडीषु पुरतीति च शयानस्य न किञ्चिदविज्ञाने कारणं शक्यं विज्ञातुं, भेदविषयत्वात् ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ (बृ. 4.3.31) इति श्रुतेः ।
ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् ।
बाढम् ।
एवं स्याद्यदि जीवः स्वतःपरिच्छिन्नो ऽभ्युपगम्यते, यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यति ।
नतु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते ।
उपाधिगतमेवातिदूरादिकारणमविज्ञान इति यद्युच्येत तथाप्युपाधेरुपशान्तत्वात्सत्येव संपन्नो न विजानतीति युक्तम् ।
नच वयमिह तुल्यवन्नाड्यादिसमुच्चयं प्रतिपादयामः ।
नहि नाड्यः सुप्तिस्थानं पुरीतद्वेत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति ।
नह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते ।
नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते ।
ब्रह्म त्वनपायि सुप्तिस्थानमित्येतत्प्रतिपादयामः ।
तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च ।
तस्मादात्मैव सुप्तिस्थानम् ।
एवं बाह्यकरणोपरमे सति मनोवासनोद्दीपिताविद्याविलासात्मकं स्वप्नमात्मनःसाक्षिणः स्वयञ्ज्योतिष्ट्वार्थं विचार्य प्रतियोग्यनुयोगिभावसङ्गत्या स्वप्नावस्थमनोलयात्मिकां सुषुप्तिं विचारयति- तदभावो नाडीषु तच्छुतेरात्मनि च ।
तदेतत्स्वपनं यथा स्यात्तथा ।
यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनोलयात्सम्यक्प्रसङ्ग इत्यर्थः ।
स्वापे नाडीस्थानमुक्त्वा नाडीपुरीततोर्नाडीपरमात्मनोश्च समुच्चयश्रुती आह- अन्यत्रेति ।
परमात्ममात्रश्रुतीराह- तथान्यत्रेत्यादिना ।
नाडीपुरीतब्रह्मसु सप्तमीश्रुतेः समुच्चयश्रुतेश्च संशयमाह- तत्रेति ।
पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समुच्च्यात् तन्निर्णय इति विवेकः ।
एकपुरोडाशार्थत्वं व्रीहियवयोर्दृष्टं नाड्यादीनामेकस्मिन् स्वापरूपार्थे निरपेक्षस्थानत्वं तु कुत इत्यत आह- नाड्यादीनां चेति ।
सति ब्रह्मणि तृतीयश्रुतेर्न सप्तमीति शङ्कार्थः ।
आयतनशब्दात्सप्तम्यर्थ आधारत्वं गम्यत इत्याह- नैष दोष इति ।
अन्यत्रावस्थाद्वये श्रान्तो जीवो विश्रान्तिस्थानं प्राणाख्यं सद्ब्रह्मोपसर्पति सुषुप्तावित्यर्थः ।
सप्तमीश्रुत्या निरपेक्षाधारत्वभानाद्विकल्प आस्थेयः कदाचित्समुच्चित्यापि नाड्यादीनां स्थानत्वमिति न समुच्चयश्रुतिविरोध इति पूर्वपक्षार्थः ।
सिद्धान्तयति- एवं प्राप्त इति ।
सूत्रे चकारः पुरीतत्समुच्चयार्थः ।
यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुतस्थानत्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह- विकल्पे ह्येषामिति ।
व्रीहियवयोस्त्वगत्या विकल्प इति भावः ।
यत्तु सप्तमीश्रुत्या नाड्यादीनामेकफलकत्वमिति, तन्नेत्याह- न ह्येकेति ।
प्रासादस्य पर्यङ्कधारणमर्थः ।
पर्यङ्कस्य तु शयनमिति फलभेदे ऽप्येकविभक्तिर्दृश्यते, व्यवधानाव्यवधानाभ्यां शयनसाधनत्वात् समुच्चयश्च, तथेहापि नाडीपुरीततोर्जीवस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः ।
नाडीनां प्राणस्य च एकेन वाक्येनोपादानान्मिथः समुच्चय इत्याह- एकवाक्येति ।
आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह- न चैवमपीति ।
समुच्चये ऽपीत्यर्थः ।
अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मिसंबन्धनाडीरूपमार्गस्तुत्यर्थत्वादित्याह- अपिचेति ।
पित्तेन विषयेक्षणाभावे सुखदुःखयोरभावात् तद्धेतुधर्मात्मकपाप्मास्पर्श इत्यर्थः ।
अपहतपाप्मब्रह्मसंपत्त्या वा पाप्मास्पर्श इत्याह- अथवेति ।
अस्मिन् व्याख्याने लाभमाह- एवं च सतीति ।
ऽतासु तदा भवत्यथास्मिन् प्राण एवैकधा भवतिऽइति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः ।
नाडीब्रह्मणोर्गुणप्रधानभावेन सुप्तौ समुच्चयवत्पुरीतद्ब्रह्मणोरपीत्याह- तथेत्यादिना ।
आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतमिति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह- तथा नाडीति ।
सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्तिस्थानानीत्यत आह- सत्प्राज्ञयोरिति ।
किञ्च प्रकृतदर्शादिसाधनैकपुरोडाशनिष्पत्तौ मिथो ऽनपेक्षतया समर्थत्वाद्युक्तो व्रीहियवयोर्विकल्पः, नाड्यादीनां तु ब्रह्मनिरपेक्षतया सुषुप्तजीवाधारत्वासामर्थ्यान्न विकल्प इत्याह- अपिच नाड्य इति ।
उपाधिलिङ्गाश्रयनाडीपुरीततोरुपहितजीवाश्रयत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपाधिलयादित्यर्थः ।
ननु ब्रह्मापि जीवस्य न मुख्यं स्थानं अभेदादित्यत आह- ब्रह्माधारत्वमिति ।
जीवस्य ब्रह्मण्यभेदेनावस्थानं नाडीपुरीततोस्तु लीनोपाधेर्जीवस्य स्थितिरेव न संभवतीत्येकार्थसामर्थ्याभावान्न विकल्प इत्यर्थः ।
सुषुप्तौ जीवस्य भेदकोपाधिलयाच्चौत्सर्गिकब्रह्माभेदस्य विकल्पो न युक्त इत्याह- अपिचेति ।
किञ्च नाड्यादीनामन्यतमस्थाने क्वचित्सुप्तिवादिनापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह- अपिच स्थानेति ।
भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडीपूरितद्रतस्य तु जीवस्य भेदावस्थत्वाद्भेदाविज्ञाने करणं नास्तीत्यर्थः ।
द्वैतावस्थास्यापि द्वैताज्ञाने हेतुं शङ्कते- ननु भेदेति ।
द्रष्टुर्दृश्याद्दूरस्थत्वं स्वाभाविकमौपाधिकं वा ।
तत्राद्यं सदृष्टान्तमनूद्य प्रत्याह- बाढमित्यादिना ।
द्वितीयमनूद्य दूषयति- उपाधिगतमेवेति ।
उपाधिसंभिन्नस्यैव नाड्यादौ स्वापे कतिपयसंनिकृष्टार्थज्ञानप्रसङ्गात् सुषुप्तिव्याघातः स्यात् ।
उपाधिलये त्वन्यत्र जीवस्य स्थित्ययोगाद्ब्रह्मण्येव स्वाप आस्थेय इत्यर्थः ।
एवं विकल्पं निरस्य नाडीपुरीततोर्ब्रह्मणा सह तुल्यवत्समुच्चयमफलत्वेन दूषयन् गुणप्रधानत्वेन समुच्चयमुपसंहरति- नच वयमित्यादिना
एन्द् ब्स्चोम्_3,2.2.7
स्तर्त् ब्स्चोम्_3,2.2.8
अतः प्रबोधो ऽस्मात् । ब्ब्स्_3,2.8 ।
यस्माच्चात्मैव सुप्तिस्थानमत एव च कारणान्नित्यवदेवास्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते - ऽकुत एतदागात्ऽ (बृ. 2.1.16) इत्यस्य प्रश्नस्य प्रतिवचनावसरे ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ (बृ. 2.1.20) इत्यादिना ।
ऽसत आगम्य न विदुः सत आगच्छामहेऽ (छा. 6.10.2) इति च ।
विकल्प्यमानेषु तु सुषुप्तिस्थानेषु कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मन इत्यशासिष्यत् ।
तस्मादप्यात्मैव सुप्तिस्थानमिति
किञ्च ब्रह्मणः सकाशाज्जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्याह-सूत्रकारः- अतः प्रबोध इति ।
नाडीपुरीततोः क्वाप्युत्थानापादानत्वाश्रवणान्न सुषुप्तिस्थानत्वमित्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्माभेदादौपाधिक एव भेद इति विवेकद्वाक्यार्थाभेदसिद्धिरिति स्थितम्
एन्द् ब्स्चोम्_3,2.2.8
स्तर्त् ब्स्चोम्_3,2.3.9
3 कर्मानुस्मृतिशब्दविध्यधिकरणम् । सू. 9
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ब्ब्स्_3,2.9 ।
तस्याः पुनः सत्संपत्तेः प्रतिबुध्यमानः किं य एव सतसंपन्नः स एव प्रतिबुध्यत उत स वान्यो वेति चिन्त्यते ।
तत्र प्राप्तं तावदनियम इति ।
कुतः - यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते जलराशिरेव स तदा भवति पुनरुद्धरणे च स एव जलबिन्दुर्भवतीति दुःसंपादम् ।
तद्वत्सुप्तः परेणैकत्मापन्नः संप्रसीदततीति न स एव पुनरुत्थातुमर्हति ।
तस्मात्स एवेश्वरो वान्यो वा जीवः प्रतिबुध्यत इत्येवं प्राप्त इदमाह - स एव तु जीवः लुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति नान्यः ।
कस्मात् ।
कर्मानुस्मृतिशब्दविधिभ्यः ।
विभज्य हेतुं दर्शयिष्यामि ।
कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः ।
तथाहि - पूर्वेद्युरनुष्ठितस्य कर्मणो ऽपरेद्युः शेषमनुतिष्ठन्दृश्यते ।
नचान्येन सामिकृतस्य कर्मणो ऽन्यः शेषक्रियायां प्रवरितितुमर्हति ।
अतिप्रसङ्गात् ।
तस्मादेक एव पूर्वेद्युरपरेद्युश्चैकस्य कर्मणः कर्तेति गम्यते ।
इतश्च स एवोत्तिष्ठति यत्कारणमतीते ऽहन्यहमदो ऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणमन्यस्योत्थाने नोपपद्यते ।
नह्यन्यदृष्टमन्यो ऽनुस्मर्तुमर्हति ।
सो ऽहमस्मीति चात्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते ।
शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ।
तथाहि - ऽपुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवऽ (बृ. 4.3.16) ऽसर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽ (छा. 8.3.2) ऽत इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्तिऽ
(छा. 6.9.3) इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारे पठिता नात्मान्तरोत्थाने सामञ्जस्यमीयुः ।
कर्मविद्याविधिभ्यश्चैवमेवावगम्यते ।
अन्यथा हि कर्मविद्याविधयो ऽनर्थकाः स्युः ।
अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत ।
एवं चेत्स्याद्वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ।
अपिचान्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरणमाणो जीव उत्तिष्ठेत्तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् ।
अथ तत्र सुप्त उत्तिष्ठेत्कल्पनानर्थक्यं स्यात् ।
योहि यस्मिञ्शरीरे सुप्तः स तस्मिन्नोतिष्ठत्यन्यस्मिञ्शरीरे सुप्तो ऽन्यस्मिन्नुत्तिष्ठतीति को ऽस्यां कल्पनायां लाभः स्यात् ।
अथ मुक्त उत्तिष्ठेदन्तवान्मोक्ष आपद्येत ।
निवृत्ताविद्यस्य च पुनरुत्थानमुपपन्नम् ।
एतेनेश्वरस्योत्थानं प्रत्युक्तम् ।
नित्यनिवृत्ताविद्यत्वात् ।
अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारवन्योत्थानपक्षे स्याताम् ।
तस्मात्स एवोत्तिष्ठति नान्य इति ।
यत्पुनरुक्तं यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यत एवं सति संपन्नो जीवो नोत्पत्पतितुमर्हतीति, तत्परिह्रियते ।
युक्तं तत्र विवेककारणाभावाज्जलबिन्दोरनुद्धरणम् ।
इह तु विद्यते विवेककारणं कर्म चाविद्या चेति वैषम्यम् ।
दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोर्हंसेन विवेचनम् ।
अपिच न जीवो नाम कश्चित्परस्मादन्यो विद्यते यो जलबिन्दुरिव जलराशेः सतो विविच्येत ।
सदेव तूपाधिसंपर्काज्जीव इत्यसकृत्प्रपञ्चितम् ।
एवं सति यावदेकोपाधिगता बन्धानुवृत्तिस्तावदेकजीवव्यवहारः ।
उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्चतरव्यवहारः ।
स एवायमुपाधिः स्वापप्रबोधयोर्बीजाङ् कुरन्यायेनेत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम्
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।
सुषुप्तौ उपाधिनाशात् कर्मानुस्मृत्यादेर्दर्शनाच्च संशये सत्यस्माद्ब्रह्मणो जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्युक्तमयुक्तम् ।
सुप्तादन्यस्याप्युत्थानसंभवेन सुषुप्तस्य नाड्यादिस्थानत्वसंभवादित्याक्षेपसंगत्या नियमकाभावादनियम इति पूर्वपक्षमाह- तस्याः पुनरित्यादिना ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सुषुप्त्यैवापुनरावृत्तिरूपमुक्तिसिद्धेः, सिद्धान्ते तु अज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन पुनस्तस्यैवोत्थानावश्यंभावादज्ञाननाशाय ज्ञानापेक्षेति फलम् ।
ईश्वरो वेत्यनियमदार्ढ्यायोक्तम् ।
स वान्यो वेत्येव पूर्वपक्षः ।
ज्ञानं विना बुद्ध्याद्युपाधेरत्यन्तनाशाभावाद्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नानाकर्मानुभवसंस्कारवत्योपहित उत्तिष्ठतीति सिद्धान्तयति- स एव त्वित्यादिना ।
सामिकृतस्यार्धकृतस्य एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातो ऽतिप्रसङ्गः ।
स्मृतिमुक्त्वानुशब्दसूचितां प्रत्यभिज्ञामाह- सो ऽहमिति ।
अयनं गमनं आयः ।
योनिः तत्तदिन्द्रियस्थानम् ।
प्रतिनियतं गमनं यथा भवति तथा प्रतियोन्यागच्छति जागरणायेति श्रुत्यर्थः ।
न विन्दतीत्यज्ञानसत्त्वात्सुप्तस्योत्थाननियम उक्तः ।
इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः ।
विधिं व्याचष्टे- कर्मेति ।
स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः अत्रैवोत्सूत्रं युक्त्यन्तरमाह- अपिचेत्यादिना ।
अन्योत्थाने सुखादेर्न पूर्वकर्मकार्यतेत्यकृतसुखाद्यागमः पूर्वसुप्तजीवकृतकर्मनाशश्चेत्यर्थः ।
पूर्वपक्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति- यत्पुनरित्यादिना ।
अस्मदाद्यशक्यमपि विवेचनं प्राण्यदृष्टापेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह- दृश्यते चेति ।
ब्रह्माभेदाच्च जीवस्य जलबिन्दुवैषम्यमित्याह- अपिचेति ।
अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीवभेदाच्चिन्तेत्याह- एवं सतीति ।
सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्युपाधिभेदादेकजीवस्य व्यवहारो न स्यादित्यत आह- स एवायमिति ।
स्थूलसूक्ष्मात्मना तिष्ठत्येकोपाधिरित्यर्थः
एन्द् ब्स्चोम्_3,2.3.9
स्तर्त् ब्स्चोम्_3,2.4.10
4 मुग्धेर्ऽधसंपत्त्यधिकरणम् । सू. 10
मुग्धेर्ऽधसंपत्तिः परिशेषात् । ब्ब्स्_3,2.10 ।
अस्ति मुग्धो नाम यं मूर्छित इति लौकिकाः कथयन्ति ।
सतु किमवस्थ इति परीक्षायामुच्यते ।
तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा जागरितं स्वप्नः सुषुप्तिरिति ।
चतुर्थी शरीरादपसृप्तिः ।
नतु पञ्चमीकाचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति ।
तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छेत्येवं प्राप्ते ब्रूमः- न तावन्मुग्धो जागरितावस्थो भवितुमर्हति ।
नह्ययमिन्द्रियैर्विषयानीक्षते ।
स्यादेतत् ।
इषुकारन्यायेन मुग्धो भविष्यति ।
यथेषुकारो जाग्रदपीष्वासक्तमनस्तया नान्यान्विषयानीक्षत एवं मुग्धो मुसलसंपातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति ।
न ।
अचेतयमानत्वात् ।
इषुकारो हि व्यापृतमना ब्रवीतीषुमेवाहमेतावन्तं कालमुपलभमानो ऽभूवमिति ।
मुग्धस्तु लब्धसंज्ञो ब्रवीत्यन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तो ऽभूवं न किञ्चिन्मया चेतितमिति ।
जाग्रतश्चैकविषयविषक्तचेतसो ऽपि देहो विध्रियते ।
मुग्धस्य तु देहो धरण्यां पतति ।
तस्मान्न जागर्ति नापि स्वप्नान्पश्यति निःसंज्ञकत्वात् ।
नापि मृतः प्राणोष्मणोर्भावात् ।
मुग्धे हि जन्तौ मृतो ऽयं स्यान्न वा मृत इति संशयाना ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थं प्राणो ऽस्ति नास्तीति च नासिकादेशम् ।
यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति ततो मृतो ऽयमित्यध्यवसाय दहनायारण्यं नयन्ति ।
अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति ।
पुनरुत्थानाच्च न दिष्टं गतः ।
नहि यमराष्ट्रात्प्रत्यागच्छति ।
अस्तु तर्हि सुषुप्तो निःसंज्ञत्वादमृतत्वाच्च ।
न ।
वैलक्षण्यात् ।
मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति सवेपथुरस्य देहो भवति भयानकं च वदनं विस्फारिते नेत्रे ।
सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति निमीलिते अस्य नेत्रे भवतः ।
नचास्य देहो वेपते ।
पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति नतु मुग्धं मुद्गरघातेनापि ।
निमित्तभेदश्च भवति मोहस्वापयोः ।
मुसलसंपातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य ।
नच लोके ऽस्ति प्रसिद्धिर्मुग्धः सुप्त इति ।
परिशेषादर्धसंपत्तिर्मुग्धतेत्यवगच्छामः ।
नीःसंज्ञत्वात्संपन्न इतरस्माद्वैलक्षण्यादसंपन्न इति ।
कथं पुनरर्धसंपत्तिर्मुग्धतेति शक्यते वक्तुम् ।
यावता सुप्तं प्रति तावदुक्तं श्रुत्या - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.8.1) इति ऽअत्र स्तेनो ऽस्तेनो भवतिऽ (बृ. 4.3.22) ऽनैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दृष्कृतम्ऽ (छा. 8.4.1) इत्यादि ।
जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति ।
नच सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते, मुग्धे ऽपि तौ प्रत्ययौ नैव विद्येते ।
तस्मादुपाध्युपशमात्सुषुप्तवन्मुग्धे ऽपि कत्स्नसंपत्तिरेव भवितुमर्हति नार्धसंपत्तिरिति ।
अत्रोच्यते - न ब्रूमो मुग्धेर्ऽधसंपत्तिर्जीवस्य ब्रह्मणा भवतीति ।
किं तर्ह्यर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूमः ।
दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये ।
द्वारं चैतन्मरणस्य ।
यदास्य सावशेषं कर्म भवति तदा वाङ्मनसे प्रत्यागच्छतः ।
यदा तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः ।
तस्मादर्धसंपत्तिं ब्रह्मविद इच्छन्ति ।
यत्तूक्तं न पञ्चमी काचिदवस्था प्रसिद्धास्तीति ।
नैष दोषः ।
कदाचित्कीयमवस्थेति न प्रसिद्धा स्यात् ।
प्रसिद्धा चैषा लोकायुर्वेदयोः ।
अर्धसंपत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम्
अवस्थात्रयादात्मानं विविच्य मूर्च्छातो विवेचयति- मुग्धेर्ऽधसंपत्तिः परिशेषात् ।
मूर्च्छा प्रसिद्धावस्थान्तर्गता वा पञ्चमावस्था वेति ।
अवस्थाचतुष्टयसिद्धेर्मुग्धस्य तद्वैलक्षण्याच्च संशये सो ऽहमिति प्रत्यभिज्ञयोत्थितस्य सुप्ताभेदवद्विशेषज्ञानाभावाविशेषेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्यभिज्ञानात्सुषुप्त्यन्तर्गता मूर्च्छेति दृष्टान्तसंगत्या पूर्वपक्षमाह- तिस्रस्तावदिति ।
पूर्वपक्षे प्रसिद्धावस्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथग्यत्नध्रौव्यमिति भेदः परिशेषं दर्शयन् सिद्धान्तयति- न तावदित्यादिना ।
जाग्रदपि जागरावस्थो ऽपीत्यर्थः ।
ऐन्द्रियकमर्थज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति- नेत्यादिना ।
मूर्च्छाया जागराद्भेदमुक्त्वा स्वप्नमृतिभ्यां भेदमाह- नापीत्यादिना ।
आलभन्ते स्पृशन्ति ।
दिष्टं मरणम् ।
सुषुप्तिमूर्च्छयोः किञ्चित्सारूप्ये ऽपि बहुवैलक्षण्याद्भेद इत्याह- नेति ।
लक्षणभेदमुक्त्वा निमित्तभेदमाह- निमित्तेति ।
प्रत्यभिज्ञाप्यसिद्धेत्याह- नचेति ।
उक्तसारूप्यवैरूप्याभ्यामर्धसंपत्तिः सर्वैः सुषुप्तिधर्मैरसंपन्नो मुग्धः सुषुप्तो न भवति, सर्वैर्मरणावस्थाधर्मैरसंपत्तेर्मृतो ऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः ।
अत्र सूत्रे जीवस्य ब्रह्मणार्धसंपत्तिरुक्तेति भ्रान्तः शङ्कते- कथमिति ।
यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदुपाध्याभावाभिप्रायम् ।
उपाध्यभावश्च मुग्धस्यापि मम इति यतस्तस्मात् कृत्स्नसंपत्तिरेवेत्यर्थः ।
सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्कार्याभावात्तदसंबन्धोक्तिरित्याह- जीवे हीति ।
ब्रह्मणा कृत्स्नसंपत्तिमङ्गीकृत्य परिहरति- न ब्रूम इति ।
मुग्धत्वं हि सुषुप्तस्यार्धेन निःसंज्ञत्वादिधर्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संपन्नमित्यर्धसंपत्तिरित्यर्थः ।
इतो ऽपि सुषुप्तिवैषम्यमित्याह- द्वारं चेति ।
अप्रसिद्धिमङ्गीकृत्योक्तं प्रसिद्धिरप्यस्तीत्याह- प्रसिद्धा चेति ।
नायुर्वेदो वैद्यशास्त्रम् ।
प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्चमत्वेनाप्रसिद्धेरित्याह- अर्धेति ।
सुषुप्तिमृतिधर्मार्धसंपत्त्या तदन्तर्भावबुद्धिर्लोकानामित्यर्थः
एन्द् ब्स्चोम्_3,2.4.10
स्तर्त् ब्स्चोम्_3,2.5.11
5 उभयलिङ्गाधिकरणम् । सू. 11-21
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि । ब्ब्स्_3,2.11 ।
येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्संपद्यते तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते ।
सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसःऽ (छा. 3.14.2) इत्येलमादायाः सविशेषलिङ्गाः ।
ऽअस्थूलमनण्वर्ह्रस्वमदीर्धम्ऽ (बृ. 3.8.8) इत्येवमाद्याश्च निर्विशेषलिङ्गाः ।
किमासु श्रुतिषूभयलिङ्गं ब्रह्मप्रतिपत्तव्यमुतान्यतरलिङ्गम् ।
यदाप्यन्यतरलिङ्गं तदापि किं सविशेषमुत निर्विशेषमिति मीमांस्यते ।
तत्रोभयलिङ्गश्रुत्यनुग्रहादुभयलिङ्गमेव ब्रह्मेत्येवं प्राप्ते ब्रूमः - न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते ।
नह्येकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं चेत्याधारयितुं शक्यं विरोधात् ।
अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगादिति ।
तदपि नोपपद्यते ।
नह्युपाधियोगादप्यन्यादृशस्य वस्तुनो ऽन्यादृशः स्वभावः संभवति ।
नहि स्वच्छः सन्स्फटिको ऽलक्तकाद्युपाधियोगादस्वच्छो भवति भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ।
उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् ।
अतश्चान्यतरलिङ्गपरिग्रहे ऽपि समस्तविशेषरहितं निर्विकल्पमेव ब्रह्म प्रतिपत्तव्यं न तद्विपरीतम् ।
सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ (क. 3.15 ।
मुक्तिको. 2.72) इत्येवमादिष्वपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यते
fन्: स्थानं उपाधिस्तद्योगात् ।
सर्वाभिरवस्थाभिरलिप्तस्त्वमर्थ इति निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह- न स्थानतो ऽपि परस्योभ्यलिङ्गं सर्वत्र हि ।
उद्देशयत्वम्पदार्थजिज्ञासोपरमानन्तरं तत्स्वरूपब्रह्मविचारस्यावसरसंगतिमाह- येनेति ।
निर्विशेषत्वंसव् इशेषत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः ।
यथा विरुद्धसुषुप्तिमरणोभयरूपं मुग्धत्वं तथा श्रुतिप्रामाण्यादुभयरूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः ।
निर्विशेषमेकरूपमेव ज्ञेयमिति सिद्धान्तयति- एवमिति ।
किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्वगन्धत्वादिविशेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति ।
तत्राद्य निरस्य द्वितीयमनूद्य दूषयति- अस्तु तर्हीति ।
स्थानमुपाधिः ।
ब्रह्मणि विशेषः, कल्पितः औपाधिकत्वात्स्फटिकलौहित्यवदित्यर्थः ।
उपाधेः सत्यत्वे ऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्यात्वात्तत्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह- उपाधीनामिति ।
तृतीयं निरस्यति- अतश्चेति ।
सर्वस्य विशेषस्य कल्पितत्वादेवेत्यर्थः ।
निषेधश्रुतेश्चैवमित्याह- सर्वत्र हीति
एन्द् ब्स्चोम्_3,2.5.11
स्तर्त् ब्स्चोम्_3,2.5.12
न भेदाद् इति चेन् न प्रत्येकमतद्वचनात् । ब्ब्स्_3,2.12 ।
अथापि स्याद्यदुक्तं निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वोभयलिङ्गत्वमस्तीति ।
तन्नोपपद्यते ।
कस्मात् ।
भेदात् ।
भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते ।
चतुष्पाद्ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवञ्जातीयकाः ।
तस्मात्सविशेषत्वमपि ब्रह्मणो ऽभ्युपगन्तव्यम् ।
ननूक्तं नोभयलिङ्गत्वं ब्रह्मणः संभवतीति ।
अयमप्यविरोधः ।
उपाधिकृतत्वादाकारभेदस्य ।
अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येतेति चेत् ।
नेति ब्रूमः ।
कस्मात् ।
प्रत्येकमतद्वचनात् ।
प्रत्युपाधिभेदं ह्यभेदमेव ब्रह्मणः श्रावयति शास्त्रम् - ऽयश्चायमस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयो ऽमृतमयः पुरुषो ऽयमेव स यो ऽयमात्माऽ (बृ. 2.5.1) इत्यादि ।
अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् ।
भेदस्योपासनार्थत्वादभेदे तात्पर्यात् ।
भिद्यत इति भेदो विशेषः, निर्विशेषत्वश्रुतावपि विशेषस्यापि श्रुतेरुभयरूपत्वं स्यादिति शङ्कां व्याचष्टे- अथापि स्यादिति ।
पूर्वोक्तं विरोधं स्मारयति- ननूक्तमिति ।
भेदश्रुतिप्रामाण्यार्थमौपाधिकरूपभेदस्वीकारादविरोध इति समाध्यर्थः ।
किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते ध्यानार्थमुतोपाधियोगात्सत्यविरुद्धरूपवत्तया ब्रह्मणो भेदो भवतीति ।
आद्ये ऽस्मादिष्टसिद्धिः, द्वितीयमभेदश्रुत्या दूषयति- नेति ब्रूम इति
एन्द् ब्स्चोम्_3,2.5.12
स्तर्त् ब्स्चोम्_3,2.5.13
अपि चैवम् एके । ब्ब्स्_3,2.13 ।
अपिचैवं भेददर्सननिन्दापूर्वकमभेददर्शनमेवैके शाखिनः समामनन्ति - ऽमनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युपमाप्नोति य इह नानेव पश्यतिऽ (क. 4.11) इति ।
तथान्येपि ऽभोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं त्रिविधं ब्रह्म मे तत्ऽ (श्वे. 1.12) इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते
द्वैतनिन्दापूर्वकमद्वैतोक्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह- अपिचेति ।
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरितारमीश्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः
एन्द् ब्स्चोम्_3,2.5.13
स्तर्त् ब्स्चोम्_3,2.5.14
कथं पुनराकारवदुपदेशिनीष्वनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतम्ति ।
अत उत्तरं पठति -
अरूपवदेव हि तत्प्रधानत्वात् । ब्ब्स्_3,2.14 ।
रूपाद्याकाररहितमेव ब्रह्मावधारयितव्यं न रूपादिमत् ।
कस्मात् ।
तत्प्रधानत्वात् ।
ऽऽअस्थूलमनण्वर्ह्रस्वमदीर्धम्ऽ (बृ. 3.8.8) ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ (कठ. 3.15 ।
मुक्ति. 2.72) ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. 8.14.1) ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःऽऽ (मुण्ड. 2.1.2), ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमब्रह्ममयमात्मा ब्रहग्म सर्वानभूःऽ (बृ. 2.5.19) इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि नर्थान्तरप्रधानानीत्येतत्प्रतिष्ठापितं ऽतत्तु समन्वयात्ऽ (ब्र.सू. 1.1.4) इत्यत्र ।
तस्मादेवञ्जातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्मावधारयितव्यम् ।
इतराणि त्वाकारपवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि ।
उपासनाविधिप्रधानानि हि तानि तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् ।
सति तु विरोधे तत्प्रधानान्यतत्प्रधानेभ्यो बलीयांसि भवन्तीति ।
एष विनिगमनायां हेतुः ।
येनोभयीष्वपि श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतमिति
द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते- कथं पुनरिति ।
तत्परातपरविरोधे तत्परं बलवदिति न्यायो नियामक इत्याह- अरूपवदेवेति ।
उपासनापरवाक्येषु आकारे तात्पर्याभावे ऽपि देवताविग्रहादिवदाकारसिद्धिमाशङ्क्य निष्प्रपञ्चपरश्रुतिविरोधान्मैवमित्याह- तेष्वसतीति
एन्द् ब्स्चोम्_3,2.5.14
स्तर्त् ब्स्चोम्_3,2.5.15
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिरित्यत आह -
प्रकाशवच्चावैयर्थ्यात् । ब्ब्स्_3,2.15 ।
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यावतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते ।
एवं ब्रह्मापि पृथिव्याद्युपाधिसंबन्धात्तदाकारतामिव प्रतिपद्यते तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते ।
एवमवैयर्थ्यमाकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति ।
नहि वेदवाक्यानां कस्यचिदर्थवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुं प्रमाणत्वाविशेषात् ।
नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातं नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणो ऽस्तीति तद्विरुध्यते ।
नेति ब्रूमः ।
उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपचत्तेः ।
उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् ।
सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्रावोचाम
कल्पितद्वैते सावकाशत्वाच्च सप्रपञ्चत्वश्रुतयो दुर्बला इत्याह- प्रकाशवच्चेति ।
नन्वाकारवाक्यानामुपाधिकल्पितसर्वगन्धत्वादिनाथ्रवत्त्वं किमिति वर्ण्यते वैयर्थ्यमेवोच्यताम्, तत्राह- नहि वेदवाक्यानामिति ।
नन्वेवमपीति ।
उक्तरीत्योभयरूपत्वाङ्गीकारेण श्रुतीनां व्यवस्थितत्वे ऽपीत्यर्थः ।
उपाधीनां कल्पितत्वादौपाधिकस्य सत्यत्वादुपपत्तेर्न सत्यमुभयरूपत्वमिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सविशेषत्वमित्युच्यत इत्युभयरूपत्वाङ्गीकारे ऽपि न पूर्वापरविरोध इत्याह- नेति ब्रूम इति ।
द्वैतस्य मिथ्यात्वे ज्ञानेन बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह- सत्यमिति
एन्द् ब्स्चोम्_3,2.5.15
स्तर्त् ब्स्चोम्_3,2.5.16
आह च तन्मात्रम् । ब्ब्स्_3,2.16 ।
आह च श्रुतिश्चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म - ऽस यथा सैन्धवघनो ऽन्तरो ऽबाह्यः कृत्स्नो रसघन एवैवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. 4.5.13) इति ।
एतदुक्तं भवति - नास्यात्मनो ऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति लवणरस एव निरन्तरो भवति न रसान्तरं तथैवेति
fन्: सैन्धवघनो लोहपिण्डः ।
यतः श्रुतिश्चिन्मात्रमाहातश्च विशेषो मिथ्येति सूत्रार्थमाह- आह चेति ।
सैन्धवघनो लवणपिण्डः
एन्द् ब्स्चोम्_3,2.5.16
स्तर्त् ब्स्चोम्_3,2.5.17
दर्शयति चाथो अपि स्मर्यते । ब्ब्स्_3,2.17 ।
दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म निर्विशेषत्वात्- ऽअथात आदेशो नेति नेतिऽ (बृ. 2.3.6) इति, ऽअन्यदेव तद्विदितादथो अविदितादधि (के. 1.3) ऽयतो वाचो निवर्तन्ते अप्राप्य मनसा सहऽ (तै. 2.4.1) इत्येवमाद्या ।
बाष्कलिना च बाध्वःपृष्टः सन्नवचनेनैव ब्रह्म प्रोवाचेति श्रूयते - ऽस होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये वा तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि ।
उपशान्तो ऽयमात्माऽ इति ।
तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते - ऽज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यतेऽ (13.12) इत्येवमाद्यासु ।
तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसिऽ इति ।
fन्: अधि अन्यत् ।
उपशान्तो निरस्तद्वैतः ।
किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मोपदेशान्निष्प्रपञ्चं ब्रह्मेत्याह- दर्शयति चेति ।
अथ द्वैतोक्त्यनन्तरं ज्ञानहेतुत्वान्नेति नेति उपदेशः क्रियत इत्यर्थः ।
अधि अन्यत् पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीयं तृतीयं च प्रश्ने तूष्णीभावं त्यक्त्वोवाच ।
उपशान्तो निरस्तद्वैतः ।
अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतोशब्दस्तथार्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् ।
सत् इन्द्रियवेद्यम् ।
असत् परोक्षं च न स्वप्रकाशत्वादित्यर्थः ।
सर्वभूतगुणैर्दिव्यगन्धादिभिर्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैतातीतत्वादित्यर्थः
एन्द् ब्स्चोम्_3,2.5.17
स्तर्त् ब्स्चोम्_3,2.5.18
अत एव चोपमा सूर्यकादिवत् । ब्ब्स्_3,2.18 ।
यत एव चायमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यो ऽत एव चास्योपाधिनिमित्तपारमार्थिकीं विशेषवत्ताभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेषु - ऽयथा ह्यजं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैको ऽनुगच्छन् ।
उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्माऽ इति ।
ऽएक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्ऽ (ब्र.बिं 12) इत्येवमादिषु
किञ्च यथा जलाद्युपाधिकल्पितः सूर्यचन्द्रादेर्भेदचलनादिर्धर्म एवमात्मन इति दृष्टान्तश्रुतेश्च निर्विशेषं तत्त्वमित्याह- अत एव चोपमेति ।
जलस्थप्रतिबिम्बत्वाकारेण सूर्यस्याभासत्वद्योतनाय सूर्यकेति कप्रत्ययः ।
यथायं ज्योतिर्मयो विवस्वान्स्वत एको ऽपि घटभेदेन भिन्नाः अपो ऽनुगच्छन् बहुधा क्रियते एवमजो ऽयमात्मा देवः स्वप्रकाश एको ऽप्युपाधिना मायया क्षेत्रेष्वनुगच्छन् भेदरूपः क्रियत इति योजना
एन्द् ब्स्चोम्_3,2.5.18
स्तर्त् ब्स्चोम्_3,2.5.19
अत्र प्रत्यवस्थीयते -
अम्बुवदग्रहणात् तु न तथात्वम् । ब्ब्स्_3,2.19 ।
न जलसूर्यकादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् ।
सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं गृह्यते तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः ।
नत्वात्मा मूर्तो नचास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः सर्वगतत्वात्सर्वानन्यत्वाच्च ।
तस्मादयुक्तो ऽयं दृष्टान्त इति
इहात्मन्युक्तदृष्टान्तवैषम्यशङ्कासूत्रम्- अम्बुवदिति ।
आत्मनो नीरूपत्वाद्दूरस्थोपाध्यभावाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः
एन्द् ब्स्चोम्_3,2.5.19
स्तर्त् ब्स्चोम्_3,2.5.20
अत्र प्रतिविधीयते -
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् । ब्ब्स्_3,2.20 ।
युक्त एव त्वयं दृष्टान्तो विवक्षितांशसंभवात् ।
नहि दृष्टान्तदार्ष्ट्रान्तिकयोः क्वचित्कञ्चिद्विवक्षितांशं मुकत्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं शक्यते ।
सर्वसारूप्ये हि दृष्टान्तदार्ष्ट्रान्तिकभावोच्छेद एव स्यात् ।
नचेदं स्वमनीषया जलसूर्यकाजदिदृष्टान्तप्रणयनम् ।
शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते ।
किं पुनरत्र विवक्षितं सारूप्यमिति ।
तदुच्यते - वृद्धिह्रासभाक्त्वमिति ।
जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते जलह्रासे ह्रसति जलचलने चलति जलभेदे भिद्यत इत्येवं जलधर्मानुयायि भवति नतु परमार्थतः सूर्यस्य तथात्वमस्ति ।
एवं परमार्थतो ऽविकृतमेकरूपमपि सद्ब्रह्म देहाद्युपाध्यन्तर्भावाद्भजत इवोपादिधर्मान्वृद्धिर्ह्रासादीन् ।
एवमुभयोर्दृष्टान्तदार्ष्ट्रान्तिकयोः सामञ्जस्यादविरोधः
उपाध्यन्तर्भावेन तत्कल्पितधर्मवत्त्वमत्र विवक्षितांशस्तेन साम्येन समाधानसूत्रम्- वृद्धिहासेति ।
दृष्टान्तसाम्ये ऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह- न चेदमिति ।
श्रूयते न कल्प्यत इत्यर्थः ।
श्रुतदृष्टान्तस्य ऽसूर्यकादिवत्ऽइत्युपन्यासेन किं फलमित्यत आह- शास्त्रेति ।
आत्मनो निर्विशेषत्वं फलमित्यर्थः ।
अविरोध इति न वैषम्यमित्यर्थः ।
आत्मा प्रतिबिम्बशून्यः, नीरूपद्रव्यत्वात्, वायुवदित्यनुमाने आकाशे व्यभिचारः ।
अल्पजले ऽविदूराकाशप्रतिबिम्बदर्शनादुपाधिदूरस्थत्वमपि क्वचिदनपेक्षतमिति भावः
एन्द् ब्स्चोम्_3,2.5.20
स्तर्त् ब्स्चोम्_3,2.5.21
दर्शनाच् च । ब्ब्स्_3,2.21 ।
दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् - ऽपुरुश्चक्रे द्विपदः पुरुश्चक्रे चतुश्पदः ।
पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्ऽ (बृ. 2.5.18) इति ।
ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा. 6.3.2) इति च ।
तस्माद्युक्तमेतत् - ऽअत एव चैपमा सूर्यकादिवत्ऽ (ब्र.सू. 3.2.18) इति ।
तस्मान्निर्विकल्पकैकलिङ्गमेव ब्रह्म नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् ।
अत्र केचिद्द्वे अधिकरणे कल्पयन्ति ।
प्रथमं तावत्- किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्मोत प्रपञ्चवदनेकाकारोपेतमिति ।
द्वितीयं तु - स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमिति ।
अत्र वयं वदामः - सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ।
यदि तावदनेकलिङ्गत्वं परस्यब्रह्मणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव न स्थानतो ऽपि इत्यनेनाधिकरणेन निराकर्तव्यमित्ययमुत्तरमधिकरणं प्रकाशवच्च एतद्व्यर्थमेव भवेत् ।
नच सल्लक्षणमेव भ्म न बोधलक्षणमिति शक्यं वक्तुम् ।
विज्ञानघन एवेत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत ।
नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणमिति शक्यं वक्तुम् अस्तीत्येवोपलब्धव्यः (फ. 6.13)
इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तसत्ताको बोधो ऽभ्युपगम्येत ।
नाप्युभयलक्षणमेव ब्रह्मेति शक्यं वक्तुम् ।
पूर्वाभ्युपगमविरोधप्रसङ्गात् ।
सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तयोपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं ब्रह्मणः प्रसज्येत ।
श्रुतत्वाददोष इति चेत् ।
न ।
एकस्यानेकस्वभावत्वानुपपत्तेः ।
अथ सत्तैव बोधो बोध एव च सत्ता नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत तथापि किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमित्येवं विकल्पो निरालम्बन एव स्यात् ।
सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि ।
अपिच ब्रह्मविषयासु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नस्वानाकारे ब्रह्मणि परिगृहीते ऽवश्यं वक्तव्येतरासां श्रुतीनां गतिः ।
तादर्थ्येन प्रकाशवच्चेत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते ।
यद्यप्याहुराकारवादिन्यो ऽपि श्रुतयः प्रपञ्चप्रविलयमुखेनानाकारप्रतिपत्त्यर्था एव न पृथगर्था इति तदपि न समीचीनमिव लक्ष्यते ।
कथम् ।
ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते यथा - ऽयुक्ता ह्यस्य हरयः शता देशेत्यय वै हरयो ऽयं वै सहस्राणि बहूनि चानन्तानि चऽ (बृ. 2.5.19) इत्येवमादयस्ते भवन्ति प्रविलयार्थाः ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ (बृ. 2.5.19) इत्युपसंहारात् ।
ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते यथा ऽमनोमयः प्राणसीरो भारूपःऽ (छा. 3.14.2) इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यम् ।
ऽस क्रतुं कुर्वीतऽ (छा. 3.14.1) इत्येवञ्जातीयकेन प्रकृतेनैवोपासनविधिना तेषां संबन्धात् ।
श्रुत्या चैवञ्जातीयकानां गुणानामुपासनार्थत्वे ऽवकल्प्यमाने न लक्षणया प्रविलयार्तत्वमवकल्पते ।
सर्वेषां च साधारणे प्रविलयार्थत्वे सति ऽअरूपवदेव हि तत्प्रधानत्वात्ऽ (ब्र. सू. 3.2.14) इति विनिगमनकारणवचनमनवकाशं स्यात् ।
फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः क्वचिदैश्वर्यप्राप्तिः क्वचित्क्रममुक्तिरित्यवगम्यत एवेत्यतः पार्थगर्त्यमेवोपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यं नैकवाक्यत्वम् ।
कथं चैषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् ।
एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् ।
न ।
ब्रह्मवाक्येषु नियोगाभावात् ।
वस्तुमात्रपर्यवसायीनि हि ब्रकह्मवाक्यानि न नियोगोपदेशीनीत्येतद्विस्तरे प्रतिष्ठापितं ऽतत्तु समन्वयात् (ब्र. सू. 1.1.4) इत्यत्र ।
किंविषयश्चात्र नियोगो ऽभिप्रेयत इति वक्तव्यम् ।
पुरुषो हि नियुज्यमानः कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते ।
ननु द्वैतप्रपञ्चविलयो न योगविषयो भविष्यति ।
अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः ।
यथा स्वर्गामस्य यागो ऽनुष्ठातव्य उपदिश्यत एवमपवर्गकामस्य प्रपञ्चप्रविलयः ।
यथाच तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यत एवं ब्रह्मतत्तवमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः ।
ब्रह्मस्वभावो हि प्रपञ्चो न प्रपञ्चस्वभावं ब्रह्म, तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवतीति ।
अत्र वयं पृच्छामः - को ऽयं प्रपञ्चप्रविलयो नाम ।
किमग्निप्रतापसंपर्काद्घृतकाठिन्यप्रविलय इव प्पपञ्चप्रविलयः कर्तव्य आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापितव्य इति ।
तत्र तावद्विद्यामनो ऽयं प्रपञ्चो देहादिलक्षण आध्यत्मिको बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्येत स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशो ऽशक्यविषय एव स्यात् ।
एकेन चादिमुक्तेन पृथिव्यादिप्रविलयः कृत इतीदानीं पृथिव्यादिशून्यं जगदभविष्यत् ।
अथाविद्याध्यस्तो ब्रह्मण्येकस्मिन्नयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् ।
ततो ब्रह्मैवाविद्याध्यस्तप्रपञ्चप्रत्याख्यानेनावेदयितव्यम् एकमेवाद्वितीयं ब्रह्म, तत्सत्यं स आत्मा तत्वमसि (छा. 6.8.7) इति तस्मिन्नावेदिते विद्या स्वयमेवोत्पद्यते तया चाविद्या बाध्यते.
ततश्चाविद्यध्यस्तः सकलो ऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत्प्रविलीयते ।
अनावेदिते तु ब्रह्मणि ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं चेति शतकृत्वो ऽप्युक्ते, न ब्रह्मविज्ञानं प्रपञ्पप्रविलयो वा जायते ।
नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् ।
न ।
निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैवोभयसिद्धेः ।
रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानमविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ।
नच कृतमेव पुनः क्रियते ।
नियोज्योञपि च प्रपञ्चावस्थायां यो ऽवगम्यते जीवो नाम स प्रपञ्चस्यैव वा स्याद्ब्रह्मपक्षस्यैव वा ।
प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवज्जीवस्यापि प्रविलापितत्वात्कस्य प्रपञ्चविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षो ऽवाप्तव्य उच्येत ।
द्वितीये ऽपि ब्रह्मैवानियोज्यस्वभावं जीवस्य स्वरूपं जीवत्वं त्वविद्याकृतमेवेति प्रतिपादिते ब्रह्मणि नियोज्याभावान्नियोगाभाव एव ।
द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्वावबोधविधिप्रधाना भवन्ति ।
लोके ऽपीदं पश्येदमाकार्णयेति चैवञ्जातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते न साक्षाज्ज्ञानमेव कुर्विति ।
ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदाचिन्न जायते तस्मात्तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन ।
तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते ।
नच प्रमाणान्तरेणान्यथाप्रसिद्धेर्ऽथे ऽन्यथाज्ञानं नियुक्तस्याप्युपपद्यते ।
यदि पुनर्नियुक्तो ऽहमित्यन्यथा ज्ञानं कुर्यान्न तु तज्ज्ञानं किं तर्हि मानसी सा क्रिया ।
स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् ।
ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते ।
नच प्रतिषेधेनापि वारयितुं शक्यते ।
नहि तत्पुरुशतन्त्रं, वस्तुतन्त्रमेव हि तत् ।
अतो ऽपि नियोगाभावः ।
किञ्चान्यन्नियोगनिष्ठतयैव पर्यवस्याम्नाये यदभ्युपगतमनियोज्यब्रह्मात्मत्वं जीवस्य तदप्रमाणकमेव स्यात् ।
अथ शास्त्रमेवानियोज्यब्रह्मात्मत्वमप्याचक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येताम् ।
नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः ।
तस्मादवगतनिष्ठान्येव ब्रह्मवाक्यानि न नियोगनिष्ठानि ।
अतश्चैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ।
अभ्युपगम्यमाने ऽपि च ब्रह्मवाक्येछु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपजदेशेषु चासिद्धम् ।
नहि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदे ऽवगम्यमाने सर्वत्रैका नियोग इति शक्यमाश्रयितुम् ।
प्रयाजदर्शपूर्णमासवाक्येछु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् ।
नत्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकीरांसो ऽस्ति ।
नहि भारूपतावादयो गुणाः प्रपञ्चप्रविलयोपकारिणः ।
नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् ।
नहि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं चैकस्मिन्धर्मिणि युक्तं समावेशयितुम् ।
तस्मादस्मादुक्त एव विभाग आकारवदनाकारोपदेशानां युक्ततर इति
fन्: अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया इन्द्रियाणि वा ।
तं ज्ञानार्थिनम् ।
भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् ।
प्रवेशश्रुतेश्चोक्तानुमानबाध इत्याह सूत्रकारः ।
दर्शनाच्चेति ।
द्विपदः पुरो मनुष्यादिदेहांश्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुरश्चक्षुराद्यभिव्यक्तेः पुरस्तात् स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टो ऽपि पुरुषः पूर्ण एवेत्यर्थः ।
तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् ।
एवं प्रतिबिम्बभावेन भेदादेः कल्पितत्वात् निर्विशेषं ब्रह्मेति स्वमतमुपसंहरति- तस्मादिति ।
एकदेशिव्याख्यामुत्थापयति- अत्रेति ।
न स्थानतो ऽपीत्याद्येकमधिकरणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रकाशवच्चेत्यादिद्वितीयमधिकरणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च ।
कुतः-अवैयर्थ्यात् ।
सत्यं ज्ञानं सदेव सोम्येत्युभयश्रुतेर्द्विरूपे ब्रह्मण्यर्थवत्त्वादिति पूर्वपक्षे सिद्धान्तः-आह च तन्मात्रम् ।
सन्मात्रं ब्रह्म श्रुतिराह, ऽज्ञानस्य सत्तानतिरेकात्ऽइति ।
इदं द्वितीयाधिकरणं दूषयति- अत्र वयमिति ।
द्वितीयाधिकरणस्य किं ब्रह्मणो ऽनेकरूपत्वनिरासः फलम्, उत बोधरूपत्वनिरास आहोस्वित्सत्तानिरास इति विकल्प्य सर्वथाप्यानर्थक्यं प्रपञ्चयन्नाद्ये गतार्थतामाह- यदि तावदिति ।
नहि द्वितीय इत्याह- नचेति ।
ब्रह्मणो बोधरूपत्वनिरासे जडत्वाज्जीवाभेदश्रुतिबाधश्च स्यादित्याह- कथं वेति ।
न तृतीय इत्याह- नापीति ।
सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह- कथमिति ।
नच बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् ।
सद्बोधपदयोर्वाच्यानतिरेके पर्यायत्वप्रसङ्गात् ।
एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति- नापीति ।
प्रसङ्गमेवाह- सत्तेति ।
व्यावृत्तत्वं भिन्नत्वम् ।
निष्प्रपञ्चैकरूपत्वसिद्धान्तविरोधात् भिन्नोभयरूपत्वपूर्वपक्षानुत्थानमित्यर्थः ।
उभयश्रुतिबलादुत्थानमिति शङ्कते- श्रुतत्वादिति ।
मेरुविन्ध्यवत्परस्परं भिन्नसत्ताबोधयोरेकब्रह्माभेदशङ्का श्रुतिशतेनापि न युक्तेत्याह- नेति ।
सद्बोधयोर्भेदो ऽस्ति न वा ।
आद्ये श्रुतेरपि विरुद्धार्थत्वानुपपत्तेर्न पूर्वपक्षोत्थानमित्युक्तम् ।
संप्रति द्वितीयं शङ्कते- अथ सत्तैवेति ।
सद्बोधपदयोर्वाच्यभेदे ऽपि लक्ष्यैक्योपपत्तिरखण्डार्थस्वीकारादित्यर्थः ।
अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सिद्धान्तत्वात् ।
किञ्चात्र संशये ऽप्ययुक्त इत्याह- तथापीति ।
एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह- सूत्राणीति ।
स्वपक्षे सूत्रसामञ्चस्यं चेत्याह- अपिचेति ।
अवश्यापेक्षितगत्यर्थत्वेनोत्तरसूत्राणां पूर्वैकवाक्यत्वान्नाधिकरणभेद इति भावः ।
आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रपञ्चविलयवादिनस्तु ऽमनोमयः प्राणशरीरः सत्यकामःऽइत्याद्याकारश्रुतीनां तदितराकारप्रविलयो गतिरित्याहुः ।
मनोमय इति कोर्ऽथः, मनो ऽतिरिक्तोपाधिशून्य इत्यर्थः ।
एवं प्राणशरीरपदेन प्राणातिरिक्तोपाधिनिषेधान्मनसो ऽप्यभावसिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति- यदपीत्यादिना ।
किं ज्ञेयब्रह्मप्रकरणस्थानामाकारशब्दानां निषेधपरत्वं उतोपासनाप्रकरणस्थानामपि ।
तत्राद्यमङ्गीकरोति- ये हीति ।
अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया हरणाद्दशेन्द्रियाणि प्राणिभेदापेक्षया शतानि सहस्राणि च तेषामीश्वराद्भेदमाशङ्क्याह- अयमिति ।
ईश्वर एव हरय इत्यर्थः ।
द्वितीयं दूषयति- ये पुनरिति ।
मनोमयादिशब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह- श्रुत्या चेति ।
किं चाकारानाकारश्रुतिद्वैविध्ये सति ब्रह्मनाकारमेवेत्यत्र किं विनिगमकमिति शङ्कोत्थानादस्थूलादिश्रुतीनां निराकारतात्पर्यं नियामकमिति कथनार्थमिदं सूत्रमर्थवद्भवति ।
सर्वश्रुतीनां निषेधार्थत्वे तु शङ्कानुत्थानान्नियामकसूत्रं व्यर्थं स्यादित्याह- सर्वेषां चेति ।
ननूपासनार्ऽथकवाक्यानां स्वार्थे फलाभावात् सफलनिषेधवाक्यशेषत्वमित्याशङ्क्य फलस्य श्रुतत्वान्नान्यशेषतेत्याह- फलमपीति ।
अर्थैक्याभावाच्च नैकवाक्यतेत्याह- कथं चेति ।
अर्थैक्यं शङ्कते- एकेति ।
यथा फलवत्परमापूर्वाख्यनियोगैक्यादङ्गप्रधानवाक्यानामेकवाक्यता तथा तत्त्वावबोधकामस्य प्रपञ्चप्रविलयविषयक एको नियोगरूपोर्ऽथो ऽस्तीत्याकारानाकारवाक्यानां सर्वेषामेकवाक्यतेत्यर्थः ।
नियोगासिद्या दूषयति- नेति ।
विषयं शङ्कते- ननु द्वैतेति ।
प्रत्यनीकं प्रतिबन्धकम् ।
ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह- ब्रह्मस्वभावो हि प्रपञ्च इति ।
कारणं हि कार्यस्य स्वरूपमतः कार्यनाशे ऽपि कारणस्य न लयः, घटनाशे ऽपि मृद्दर्शनादित्यर्थः ।
प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति- तत्र यदि तावदिति ।
सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्नद्वैतध्वंसायोगात् नभोग्रसनविधिवदशक्यविषयो ऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः ।
द्वितीयमनूद्य दूषयति- अथेत्यादिना ।
उपदेशजन्यज्ञानादेवाविद्यातज्जप्रपञ्चलयसिद्धेर्नियोगो वृथैवेत्यर्थः ।
किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा ।
नाद्यः, अशक्यत्वादित्याह- अनावेदिते त्विति ।
द्वितीयं शङ्कते- नन्विति ।
उपदेशादेव ज्ञाते ब्रह्मणि साक्षात्कारद्वैतबाधयोः सिद्धेर्विधिवैयर्थ्यं सिद्धस्य विधिना कर्तुमयोगादित्याह- नेति ।
एवंविषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावात्तदभावमाह- नियोज्यो ऽपि चेति ।
प्रपञ्चान्तर्भूतो ब्रह्म वेत्यर्थः ।
आद्ये जीवनाशाद्विध्ययोगः, द्वितीये नियोज्यासिद्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह- द्रष्टव्यादिशब्दा इति ।
ननु श्रुतं ज्ञानं त्यक्त्वा तत्साधनव्यापारविधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरुषकृत्यसाध्यत्वादित्याह- ज्ञेयाभिमुखस्यापीति ।
किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदान्तैर्ज्ञापनीयं विषयानवबोधे विधिबोधायोगात् ।
तथाच वेदान्तैरेव ज्ञानेत्पत्तेर्विध्यानर्थक्यमित्याह- तस्मादिति ।
तं ज्ञानार्थिनं प्रतीत्यर्थः ।
ननूत्पन्नं ज्ञानमन्यथाकर्तुं विधिरर्थवानिति, नेत्याह- नचेति ।
नन्वनग्निर्योषिदिति प्रत्यक्षप्रमाणादुत्पन्नमपि ज्ञानं तामग्निं ध्यायेदिति ।
विधिनान्यथाकृतं दृश्यत इत्यत आह- यदीति ।
अन्यथाधीः कृतिसाध्या चेत् क्रियैव, कृतिं विनैव चेद्भ्रान्तिरेवातो मानं विना विधितो ज्ञानासिद्धेर्मानवस्तुतन्त्रे ज्ञाने विधिर्मृषेत्यर्थः ।
वेदान्तेषु विधिवादिनो ऽन्यच्च दूषणमस्तीत्याह- किञ्चान्यदिति ।
ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति- अथेत्यादिना ।
किञ्च श्रुतं ब्रह्म न श्रुतो विधिर्वेदान्तेषु तत्कल्पने च कर्मजन्यत्वान्मोक्षस्यानित्यत्वसातिशयत्वादिप्रसङ्ग इत्याह- नियोगपरतायां चेति ।
फलितमाह- अतश्चेति ।
इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति- अभ्युपगम्यमाने ऽपीति ।
भिन्नक्रियावाचिशब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः ।
निर्गुणसगुणरूपभेदःप्रकरणभेदः मुक्त्यभ्युदयफलभेद इत्येतैः प्रमाणैर्निर्गुणज्ञानसगुणोपासनाविषयकनियोगभेद इत्यर्थः ।
कथं तर्ह्यङ्गाङ्गिवाक्येषु नियोगैक्यं, तत्राह- प्रयाजेति ।
एकस्यैव स्वर्गकामस्य साङ्गप्रधानाधिकारात्तत्साध्यफलापूर्वैक्यादेकवाक्यतेत्यर्थः ।
इहापि निर्गुणसगुणविद्ययोरेकाधिकारात् नियोगैक्यमस्तु, नेत्याह- न त्विहेति ।
मुक्त्यभ्युदयार्थिभेदान्मिथो विरुद्धार्थविद्ययोरङ्गाङ्गित्वायोगाच्च न वियोगैक्यम् ।
नच निर्गुणविद्यानियोग एक एव सगुणविद्यानङ्गीकारादिति वाच्यम् ।
अहो विपरीतं पाण्डित्यमायुष्मतः, विघ्न्ययोग्यविद्यायां विधिर्विधियोग्यायामविधिरिति, तस्मात्साकारवाक्यानामाकारलयद्वारा निर्गुणवाक्यैकवाक्यतागतिरसद्गतिरेव, किन्तु तेषां कल्पिताकारो गतिस्तदुपासनयाभ्युदयसिद्धेः, निर्गुणवाक्यानां तु परमार्थालम्बनत्वमित्यस्मदुक्त एव विभागः साधीयानित्युपसंहरति- तस्मादिति
एन्द् ब्स्चोम्_3,2.5.21
स्तर्त् ब्स्चोम्_3,2.6.22
6 प्रकृतैतावत्त्वाधिकरणम् । सू. 22-30
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः । ब्ब्स्_3,2.22 ।
ऽद्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चऽ (बृ. 2.3.1) इत्युपक्रम्य पञ्चमहाभूतानि द्वैराश्येन प्रविभज्यामबर्तरसस्य च पुरुषशब्दोदितस्य महारजनादीनि रूपाणि दर्शयित्वा पुनः पठ्यते - ऽअथात आदेशो नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्तिऽ (बृ. 2.3.6) इति ।
तत्र को ऽस्यप्रतिषेधस्य विषय इति जिज्ञासामहे ।
नह्यत्रेदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते ।
इतिशब्देन त्वत्र प्रतिषेध्यं किमपि समर्थ्यते नेति नेतीतिपरत्वान्नञ्प्रयोगस्य ।
इतिशब्दाश्रयं संनिहितालंबन एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते इति ह स्मोपाध्यायः कथयति इत्येवमादिषु ।
संनिहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणस्तच्च ब्रह्मयस्यैते द्वे रूपे ।
तत्र नः संशय उपजायते - किमयं प्रतिषेधो रूपे रूपावच्चोभयमपि प्रतिषेधत्याहोस्विदेकतरम् ।
यदाप्येकतरं तदापि किं ब्रह्म प्रतिषेधति रूपे परिशिष्ट्याहोस्विद्रूपे प्रतिषेधति ब्रह्म परिशिनष्टीति ।
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे ।
द्वौ चैतौ प्रतिषेधौ द्विर्नेतिशब्दप्रयोगात् ।
तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते ऽपरेण रूपवद्ब्रह्मेति भवति मतिः ।
अथवा ब्रह्मैव रूपवत्प्रतिषिध्यते तद्धि वाङ्मनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् ।
नतु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात्प्रतिषेधार्हः ।
अभ्यासस्त्वादरार्थ इति ।
एवं प्राप्ते ब्रूमः ।
- न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गात् ।
किञ्चिद्धि परमार्थमालम्ब्यार्थः प्रतिषिध्यते यथा रज्ज्वादिषु सर्पादयः ।
तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे ऽवकल्पते ।
उभयप्रतिषेधे तु को ऽन्यो भावः परिशेष्यात् ।
अपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
नापि ब्रह्मप्रतिषेध उपपद्यते ऽऽब्रह्म ते ब्रवाणिऽ (बृ. 2.1.1) इत्याद्युपक्रमविरोधात् ।
ऽअसन्नेव स भवति ।
असद्ब्रह्मेति वेद चेत्ऽ (तैत्ति. 2.6.1) इत्यादिनिन्दाविरोधात् ।
ऽअस्तीत्येवोपलब्धव्यःऽ (कठ. 6.13) इत्यवधारणविरोधात् ।
सर्ववेदान्तव्याकोपप्रसङ्गाच्च ।
वाङ्मनसातीतत्वमपि ब्रह्मणो नाभावाभिप्रायेणाभिधीयते ।
नहि महता परिकरबन्धेन ऽब्रह्मविदाप्नोति परम्ऽ (तै. 2.1.1), ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. 2.1.1) इत्येवमादिना वेदान्तेषु ब्रह्मप्रतिपाद्य तस्यैव पुनरभावो ऽभिलप्येत ।
प्रक्षालनाद्धि पङ् कस्य दूरादस्पर्शं वरम् इति हि न्यायः ।
प्रतिपादनप्रक्रिया त्वेषा ऽयतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सहऽ (तै. 2.4.1) इति ।
एतदुक्तं भवति - वाङ्मनसातीतमविषयान्तःपाति प्रत्यगात्मभूतं नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति ।
तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति परिशिनष्टि ब्रह्मेत्यभ्युपगन्तव्यम् ।
तदेतदुच्यते प्रकृतैतावत्त्वं हि प्रतिषेधतीति ।
प्रकृतं यदेतावदियत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति ।
तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिनग्रन्थे ऽधिदैवतमध्यात्मं च तज्जनितमेव च वासनालब्क्षणमपरं रूपममूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं महाजनाद्युपमाभिर्दर्शितम् ।
अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः ।
तदेतत्सप्रपञ्चं ब्रह्मणो रूपं संनिहितालम्बनेनेतिकरणेन प्रतिषेधकं नञं प्रत्युपनीयत इति गम्यते ।
ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे न स्वप्रधानत्वेन ।
प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तम् ऽअथात आदेशो नेति नेतिऽऽ (बृ. 2.3.6) इति ।
तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते ।
तदास्पदं हीदं समस्तं कार्यं नेति नेतीति प्रतिषिद्धम् ।
युक्तं च कार्यस्य वाचारम्भणसब्धादिभ्यो ऽसत्त्वमिति नेति नेतीति प्रतिषेधनं न तु ब्रह्मणः ।
कर्वकल्पनामूलत्वात् ।
नचात्रेयमाशङ्का कर्तव्या - कथं हि शास्त्रं स्वयमेव रूपद्वयं दर्शयित्वा स्वयमेव पुनः प्रतिषेधति - ऽप्रक्षालनाद्धि पङ् कस्य दूरादस्पर्शनं वरम्ऽ इति ।
यतो नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं त्विदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय चेति निरवद्यम् ।
द्वौ चैतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः ।
यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधत्युत्तरो वासनाराशिम् ।
अथवा ऽनेति नेतिऽ (बृ. 2.3.6) इति वीप्सेयमितीति यावत्किञ्चिदुत्प्रेक्ष्यते तत्सर्वं न भवतीत्यर्थः ।
परिगणितप्रतिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् ।
वाप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधादविषयः प्रत्यगात्मा ब्रह्मेति जिज्ञासा निवर्तते ।
तस्मात्प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति परिश्नष्टि ब्रह्मेति निर्णयः ।
इतश्चैष एव निर्णयः ।
यतस्ततः प्रतिषेधाद्भूयो ब्रवीति ऽअन्यत्परमस्तिऽ (बृ. 2.3.6) इति ।
अभावावासने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् ।
तत्रैषाक्षरयोजना - नेति नेतीति ब्रह्मादिश्य तमेवादेशं पुनर्निर्वक्ति ।
नेति नेतीत्यस्य कोर्ऽथः ।
नह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतो नेति नेतीत्युच्यते न पुनः स्वयमेव नास्तीत्यर्थः ।
तच्च दर्शयत्यन्यत्परमप्रतिषिद्धं ब्रह्मास्तीति ।
यदा पुनरेवमक्षराणि योज्यन्ते नह्येतस्मादिति नेति नेति ।
नहि प्रपञ्चप्रतिषेधरूपादादेशनादन्यत्परादेशनं ब्रह्मणो ऽस्तीति ।
तदा ततो ब्रवीति च भूय इत्येतन्नामधेयविषयं योजयितव्यम् ।
अथ नामधेयम् - ऽसत्यस्य सत्यमिति प्राण वै सत्यं तेषामेष सत्यम्ऽ (बृ. 2.1.20) इति हि ब्रवीतिति ।
तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति ।
अभावावसाने तु प्रतिषेधे किं सत्यस्य सत्यमित्युच्येत ।
तस्माद्ब्रह्मावसानो ऽयं प्रतिषेधो नाभावावसान इत्यध्यवस्यामः
fन्: पृथिव्यप्तेजोरूपं भूतत्रयं मूर्तं, वाय्वाकाशरूपं चामूर्तमिति द्विराशित्वेन ।
महाराजनं हरिद्रा ।
ब्रह्मणो निर्विशेषचिन्मात्रत्वमुक्त्वा सर्वनिषेधावधित्वेन सद्रूपत्वमाह- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति ।
पृथिव्यप्तेजोभूतत्रयं मूर्तं वाय्वाकाशद्वयममूर्तमिति राशिद्वयमुक्त्वा भूतद्वयस्यामूर्तस्य सारः ऽकरणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणे ऽक्षिणि पुरुषःऽइत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि ऽतद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथेन्द्रगोपःऽइत्युपमाभिरुक्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि ।
केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्मपञ्चभूतान्यमूर्तानि पञ्चीकृतानि मूर्तानि ततश्चामूर्तरसत्वोक्त्या करणानां पाञ्चभौतिकत्वसिद्धिरिति व्याचक्षते ।
अथ सत्पदात्मकप्रपञ्चोक्त्यनन्तरं, अत उक्तारोपस्य निषेधार्थत्वान्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः ।
नेतिशब्दार्थमाह- नहीति ।
एतस्मादात्मनो ऽन्यन्नास्तीति नेतीत्युच्यत इत्यर्थः ।
शून्यतानिरासार्थं परं ब्रह्मास्तीत्युक्तमिति सिद्धान्तरीत्या श्रुत्यर्थः ।
अत्र निषेध्यविशेषानुपलम्भात्संशयमाह- तत्र को ऽस्येत्यादिना ।
नञ्प्रयोगस्य नाकारास्येतिशब्दोपस्थापितवस्तुनिषेधकत्वादित्यर्थः ।
इतिशब्दान्निषेध्यसामान्यसमर्पणे विशेषाकाङ्क्षायां प्रकरणाद्रूपद्वयस्य रूपिब्रह्मणश्च निषैध्यत्वभानात्संशयमुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्तीत्याक्षेपसङ्गत्या पूर्वपक्षयति- तत्र प्रकृतत्वेति ।
पूर्वपक्षे तत्पदार्थाभावाद्वाक्यार्थाभेदासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् ।
निरधिष्ठाननिषेधादर्शनात्सर्वनिषेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह- अथवेति ।
एकब्रह्मण एव निषेधे नकारद्वयस्य पौनरुक्त्यामित्यत आह- अभ्यासस्त्विति ।
उत्सूत्रमेव तावत्सिद्धान्तमुपक्रमते- एवमिति ।
शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह- किञ्चिद्धीति ।
तच्चेति प्रतिषेधनमित्यर्थः ।
अधिष्ठानानवशेषे तत्प्रमारूपहेत्वभावात् निषेधवाक्यार्थः प्रमा न स्यात् ऽइदमत्र नास्तिऽइति लोके निषेधस्य साधिष्ठानस्यैव प्रमितिदर्शनादित्यर्थः ।
किञ्च यद्भाति तत्सदित्युत्सर्गस्य भानार्थाभावाधिष्ठानप्रमितिरपवादस्तया पूर्वभानस्य भ्रमत्वनिश्चयेनार्थसत्त्वापलापात् ।
अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्यत्वापत्तेर्निषेधानुपपत्तिरित्याह- अपरिशिष्यमाणे चेति ।
अधिष्ठानसत्त्वं विना भ्रान्तिनिषेधयोरयोगाच्छून्यवादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति- नापीति ।
देहात्माभिमानवल्लौकिकमानप्राप्तद्वैतस्य निषेधो युक्तो न वेदान्तप्रमितब्रह्मण इति भावः यदुक्तं वाङ्मनसातीत्वात् निषेधार्हं ब्रह्म इति तत्राह- वाङ्मनसेति ।
ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत् किमर्थं तदुक्तिरित्यत आह- प्रतिपादनेति ।
उक्तार्थे सूत्रं योजयति- तदेतदित्यादिना ।
ऽद्वे वाव ब्रह्मणो रूपेऽइति रूपद्वयस्यैव प्राधान्येन प्रकृतत्वान्नेतीति निषेध इत्यर्थः ।
ननु ऽआदित्यमण्डले पुरुषऽइति ब्रह्माप्यत्र प्राधान्येनोक्तमित्याशङ्क्य पुरुषो लिङ्गात्मा अमूर्तरसत्वश्रुत्या भूतजनितत्वभानात् स्वप्नरूपत्वश्रुतेश्चेत्याह- तज्जनितमेवेति ।
रूपरूपिणोरभेद उक्तः ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह- अमूर्तरसस्येति ।
रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह- तदिति ।
प्रतियोगित्वेन समर्प्यत इत्यर्थः ।
न चार्थतः प्रधान्यद्ब्रह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राजनिषेधप्रसङ्गादिति भावः ।
किञ्चैत्र ब्रह्मणः प्रतिपाद्यत्वात् न निषेध इत्याह- प्रपञ्चिते चेति ।
ननु ब्रह्मणि निषिद्धस्याप्यन्यत्र स्थितिसंभवात् कथं कल्पितत्वमित्यत आह- तदास्पदमिति ।
उपादाने निषिद्धस्यान्यत्र न स्थितिरित्यर्थः ।
यत्तु द्वैतनिषेधे प्रत्यक्षादिविरोध इति, तत्राह- युक्तं चेति ।
स्थापितं हि आरम्भणाधिकरणे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः ।
ननु वस्तुत्वाद्वैतवद्ब्रह्मणो ऽपि निषेधो ऽस्तु, नेत्याह- नत्विति ।
द्वैतभावाभावसाक्षित्वादशक्यो निषेध इत्यर्थः ।
न चेत्यादि स्पष्टार्थम् ।
यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह- द्वौ चैताविति ।
उद्देश्यविधेयार्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः ऽयथासङ्ख्यमनुदेशः समानाम्ऽइति पाणिनिसूत्रसिद्धस्तेनात्र रूपद्वयोद्देशेन निषेधद्वयविधिरित्यर्थः ।
वीप्सापक्षे सर्वदृश्यनिषेधाज्जिज्ञासाशान्तिरिति विशेषमाह- परिगणितेति ।
मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः ।
सूत्रशेषं व्याचष्टे- इतश्चेति ।
प्रतिषेधानुपपत्त्या ब्रह्मास्तीत्यवगतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः ।
तच्चेति ।
अवशिष्टं ब्रह्मेत्यर्थः ।
स्पष्टमन्यत्
एन्द् ब्स्चोम्_3,2.6.22
स्तर्त् ब्स्चोम्_3,2.6.23
तदव्यक्तमाह हि । ब्ब्स्_3,2.23 ।
यत्प्रतिषिद्धात्प्रपञ्चजातादन्यत्परं ब्रह्म तदस्ति चेत्कस्मान्न गृह्यत इति ।
उच्यते - तदव्यक्तमनिन्द्रियग्राह्यं सर्वदृश्यसाक्षित्वात् ।
आह ह्येवं श्रुतिः ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वाऽ (मुण्ड. 3.1.8) ऽस एष नेति नेत्यात्मागृह्यो नहि गृह्यतेऽ (बृ. 3.9.23) यत्तदद्रेश्यमग्राह्यम् (मुण्ड. 1.1.6) ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयनेऽ (तै. 2.7.1) इत्याद्या ।
स्मृतिरपि - ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्यो ऽयमुच्यतेऽ (भ. गी. 2.25) इत्याद्या
नन्वग्राह्यत्वाद्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे- यत्प्रतिषिद्धादिति ।
रूपाद्यभावादव्यक्तमिन्द्रियाग्राह्यं न त्वसत्त्वादित्यर्थः ।
अन्यैर्देवैरिन्द्रियान्तरैर्न गृह्यत इत्यन्वयः
एन्द् ब्स्चोम्_3,2.6.23
स्तर्त् ब्स्चोम्_3,2.6.24
अपि च संराधने प्रत्यक्षानुमानाभ्याम् । ब्ब्स्_3,2.24 ।
अपिचैनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः ।
संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् ।
कथं पुनरवगम्यते संराधनकाले पश्यन्तीति ।
प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः ।
तथाहि श्रुतिः - ऽपराञ्चि खानि व्यतृणत्स्वयं भूतस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्ऽ (क. 4.1) इति ।
ऽज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानःऽ (मु. 3.1.8) इति चैवमाद्या ।
स्मृतिरपि - ऽयं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्ऽ इति चैवमाद्या
fन्: स्वयंभूरीश्वरः खानीन्द्रियाणि पराञ्चि अनात्मग्राहकाणि कृत्वा व्यतृमत् नासितवान् ।
आवृत्तचक्षुर्निरुद्धेन्द्रियः ।
विनिद्रा वितमस्काः ।
युञ्जानः ध्यायिनः ।
योगलभ्य आत्मायोगात्मा ।
तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति- अपि चैनमिति ।
चस्त्वर्थः ।
इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्रसंस्कृतमनसेत्यर्थः ।
भक्तिध्यानाभ्यां प्रत्यगात्मनश्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानं ।
जपनमस्कारादिरादिशब्दार्थः ।
स्वयंभूरीश्वरः ।
स्वानीन्द्रियाणि ।
पराञ्चयनात्मग्राहकाणि कृत्वा व्यतृणत् नाशितवान् ।
स हि तेषां नाशो यदसदर्थग्राहितया सर्जनं तस्मात्तेषां तया सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् ।
कश्चित्तु धीरो धीमानावृत्तचक्षुर्निरुद्धेन्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षार्थीत्यर्थः ।
ततः कर्मणा विशुद्धचित्तो ज्ञानाख्यसत्त्वोत्कर्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः ।
विनिद्राः वितमस्काः, तत्र हेतुर्जितश्वासत्वं प्राणायामनिष्ठत्वं,
युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा
एन्द् ब्स्चोम्_3,2.6.24
स्तर्त् ब्स्चोम्_3,2.6.25
ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति ।
नेत्युच्यते -
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात् । ब्ब्स्_3,2.25 ।
यथा प्रकाशाकाशसवितृप्रभृतयो ऽङ्गुलिकरकोदकप्रभृतिषु कर्मसूपाधिभूतेषु सविशेषा इवावभासन्ते, नच स्वाभाविकीमविशेषात्मतां जहति, एवमुपाधिनिमित्त एवायमात्मभेदः स्वतत्वैकात्म्यमेव ।
तथाहि - वेदान्तेष्वभ्यासेनासकृज्जीवप्राज्ञयोरभेदः प्रतिपाद्यते
यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रकाशश्चिदात्मापि ध्यानादिकर्मण्युपाधो भिद्यते स्वतस्तस्यावैशेष्यमेकरसत्वमेव तत्त्वमसीत्यभ्यासादिति सूत्रयोजना
एन्द् ब्स्चोम्_3,2.6.25
स्तर्त् ब्स्चोम्_3,2.6.26
अतो ऽनन्तेन तथा हि लिङ्गम् । ब्ब्स्_3,2.26 ।
अतश्च स्वाभाविकत्वादभेदस्याविद्याकृतत्वाच्च भेदस्य विद्ययाविद्यां विधूय जीवः परेणानन्तेन प्राज्ञेनात्मनेकतां गच्छति ।
तथाहि लिङ्गम् - ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मु. 3.2.9) ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ. 4.4.6) इत्यादि
जीवस्य ब्रह्मात्मत्वफलश्रुतिरूपलिङ्गादपि भेद औपाधिक एवेत्याह सूत्रकारः- अतो ऽनन्तेनेति
एन्द् ब्स्चोम्_3,2.6.26
स्तर्त् ब्स्चोम्_3,2.6.27-28
उभयव्यपदेशात्त्वहिकुण्डलवत् । ब्ब्स्_3,2.27 ।
तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति स्वमतविशुद्धये ।
क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते ऽततस्तु तं पश्यते निष्कलं ध्यायमानःऽ (मुण्ड. 3.1.8) इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च ।
परात्परं पुरुषमुपैति दिव्यम् (मु. 3.2.8) इति गन्तृगन्तव्यत्वेन ।
क्वचित्तु तयोरेवाभेदो व्यपदिश्यते ऽतत्त्वमसिऽ (छा. 6.8.7) ऽअहं ब्रह्मास्मिऽ (बृ. 1.4.10) ऽएष त आत्मा सर्वान्तरःऽ (बृ. 3.4.1) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ. 3.7.3) इति ।
तत्रैवमुभयव्यपदेशे सति यद्यभेद एवैकान्ततो गृह्यते भेदव्यपदेशो निरालम्बन एव स्यात् ।
अत उभयव्यपदेशदर्शनादहिकुण्डलवदत्र तत्त्वं भवितुमर्हति ।
यथाहिरित्यभेदः कुण्डलाभोगप्रांशुत्वादीनीति तु भेद एवमिहापीति
प्रकाशाश्रयवद्वा तेजस्त्वात् । ब्ब्स्_3,2.28 ।
अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् ।
यथा प्रकाशः सवित्रस्तदाश्रयश्च सविता नात्यन्तभिन्नावुभयोरपि तेजस्त्वाविशेषात् ।
अथ च भेदव्यपदेशभाजौ भवत एवमिहापीति
भेदाभेदपूर्वपक्षसूत्रद्वयस्य संगतिमाह- तस्मिन्नेवेति ।
यथाहित्वेनाभेदः ।
कुण्डलाख्यस्य सर्पावस्थाविशेषस्य कुण्डलत्वेन भेदः ।
तथा जीवस्य ब्रह्मत्वेनाभेदो जीवत्वेन भेदः ।
यद्वा सूर्यप्रकाशयोरेकतेजस्त्वधर्मावच्छेदेन भेदाभेदवज्जीवपरयोरपि एकेनैवात्मत्वधर्मेण भेदाभेदौ श्रुतिबलात्स्वीकार्याविति सूत्रद्वयार्थः ।
कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घदण्डाकारत्वं उद्गतमुखत्वमादिशब्दार्थः
एन्द् ब्स्चोम्_3,2.6.27-28
स्तर्त् ब्स्चोम्_3,2.6.29-30
पूर्ववद्वा । ब्ब्स्_3,2.29 ।
यथा वा पूर्वमुपन्यस्तं प्रकाशादिवच्चावैशेष्यमिति तथैवैतद्भवितुमर्हति ।
तथाह्यविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते ।
यदि पुनः परमार्थत एव बद्धः कश्चिदात्माहिकुण्डलन्यायेन परस्यात्मनः संस्थानभूतः प्रकाशाश्रयन्यायेन चैकदेशभूतो ऽभ्युपगम्येत ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्रवोयर्थ्यं प्रसज्येत, नचात्रोभावपि भेदाभेदौ श्रुतिस्तुल्यवद्व्यपदिशति ।
अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया ।
तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः
प्रतिषेधाच् च । ब्ब्स्_3,2.30 ।
अतश्चैष एव सिद्धान्तः ।
यत्कारणं परस्मादात्मनो ऽन्यं चेतनं प्रतिषेधति शास्त्रम् - ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. 3.7.23) इत्येवमादि ।
अतात आदेशो नेति नेति (बृ. 2.3.6) तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् (बृ. 2.5.19) इति च ब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणाद्ब्रह्ममात्रपरिशेषाच्चैव एव सिद्धान्त इति गम्यते
सिद्धान्तसूत्रम्- पूर्ववद्धेति ।
धर्मभेदनैकधर्मेण वा भेदाभेदस्वीकारे भेदस्य सत्यत्वादभेदवदनिवृत्तिः स्यात् एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्पदलक्ष्यमस्तीति सिद्धम्
एन्द् ब्स्चोम्_3,2.6.29-30
स्तर्त् ब्स्चोम्_3,2.7.31
7 पराधिकरणम् । सू. 31-37
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः । ब्ब्स्_3,2.31 ।
यदेतन्निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धरितमस्मात्परमन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः ।
कानिचिद्धि वाक्यान्यापातेनैव प्रतिभासमानानि ब्रह्मणो ऽपि परमन्यत्तत्त्वं प्रतिपादयन्तीव ।
तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते ।
परमतो ब्रह्मणो ऽन्यत्तत्त्वं भवितुमर्हति ।
कुतः - सेतुव्यपदेशादुन्मानव्यपदेशात्संबन्धव्यपदेशाद्भेदव्यपदेशाच्चेति ।
सेतुव्यपदेशस्तावत् - ऽअथ य आत्मा स सेतुर्विधृतिःऽ (छा. 8.4.1) इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्तवं संकीर्तयति ।
सेतुशब्दश्च हि लोके जलसंतानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः ।
इह तु सेतुशब्द आत्मनि प्रयुक्त इति लौकिकसेतोरिवात्मसेतोरन्यस्य वस्तुनो ऽस्तित्वं गमयति ।
ऽसेतुं तीर्त्वाऽ (छा. 8.4.2) इति च तरतिशब्दप्रयोगात् ।
यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोत्येवमात्मानं सेतुं तीर्त्वानात्मानमसेतुं प्राप्नोतीति गम्यते ।
उन्मानव्यपदेशश्च भवति ऽतदेतद्ब्रह्म चतुष्पादष्टाशफं षोडशकलमिऽति ।
यच्च लोके उन्मितमेतावदिदमिति परिच्चिन्नं कार्षापणादि ततो ऽन्यद्वस्त्वस्तीति प्रसिद्धम् ।
तथा ब्रह्मणो ऽप्युन्मानात्ततो ऽन्येन वस्तुना भवितव्यमिति गम्यते ।
तथा संबन्धव्यपदेशो ऽपि भवति - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.8.1) इति ऽशारीर आत्माऽ (तै. 2.3.1) ऽप्राज्ञेनात्मना संपरिष्वक्तःऽ (बृ. 4.3.21) इति च ।
मितानां च मितेन संन्धो दृष्टो यथा नराणां नगरेण ।
जीवानां च ब्रह्मणा संबन्धं व्यपदिशति सुषुप्तौ ।
अतस्ततः परमन्यदमितमस्तीति गम्यते ।
भेदव्यपदेशश्चैतमेवार्थं गमयति ।
तथाहि - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा.
1.6.6) इत्यादित्याधारमीश्वरं व्यपदिश्यततो भेदेनाक्ष्याधारमीश्वरं व्यपदिशति - ऽअथ य एषो ऽन्तिक्षिणि पुरुषो दृश्यतेऽ (छा. 1.7.5) इति ।
अतिदेशं चास्यामुना रूपादिषु करोति - ऽतस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ यन्नाम तन्नामऽ (छा. 1.7.5)
इति ।
सावधिकं चेश्वरत्वमुभयोर्व्यपदिशति - ऽये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽ (छा. 1.6.8) इत्येकस्य ।
ऽये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चऽ (छा. 1.7.6) इत्येकस्य ।
यथेदं मागधस्य राज्यमिदं वैदेहस्येति
fन्: वातप्रचुरो देशो जाङ्गलः ।
यदुक्तं नेति नेतीत्यादिश्रुतिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् ।
सेत्वादिश्रुतिभिर्वस्त्वन्तरास्तित्वभानादित्याक्षिपति- परमत इति ।
यद्यपि द्युभ्वाद्यधिकरणे सेतुशब्दो विधारकत्वेन गौणो व्याख्यातस्तथाप्युन्मानादिश्रुतीनां गतिमजानतो ऽयं पूर्वपक्षः, तत्रोन्मानादिश्रुतीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ताद्वितीयतत्पदलक्ष्यसिद्धिरिति विवेकः ।
ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् ।
तीर्णत्वश्रुतेश्चेत्याह- सेतुं तीर्त्वेति ।
जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् ।
दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतुष्पाद्ब्रह्मेति पादानामर्धानि अष्टौ शफा अस्येत्यष्टाशफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः ।
षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परिमितत्वादित्यर्थः ।
संबन्धित्वाच्च नगरवदित्याह- तथा संबन्धेति ।
अन्यदमितमिति असङ्ख्यातमित्यर्थः ।
अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् ।
भेदेनोक्तत्वाच्च घटवदित्याह- भेदव्यपदेशश्चेति ।
अस्याक्षिस्थस्यामुनादित्यस्थेन सहेति यावत् ।
आधारतो ऽतिदेशतश्च भेदमुक्त्वावधितो ऽपि तमाह- सावधिकं चेति
एन्द् ब्स्चोम्_3,2.7.31
स्तर्त् ब्स्चोम्_3,2.7.32
एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीत्येवं प्राप्ते प्रतिपाद्यते -
सामान्यात् तु । ब्ब्स्_3,2.32 ।
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि ।
न ब्रह्मणो ऽन्यत्किञ्चिद्भवितुमर्हति प्रमाणाभावात् ।
नह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे ।
सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् ।
अनन्यत्वं च कारणात्कार्यस्य ।
ऽनच ब्रह्मव्यतिरिक्तं किञ्चिदजं संभवति सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) इत्यवधारणात् ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानान्न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते ।
नु सेत्वादिव्यपदेशा ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् ।
नेत्युच्यते ।
सेतुव्यपदेशस्तावन्न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते ।
सेतुरात्मेति ह्याह न ततः परमस्तीति ।
तत्र परस्मिन्नसति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत ।
नचैतन्न्याय्यं ।
अजत्वादिश्रुतिविरोधात् ।
सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श् लिष्यते ।
जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः ।
अतः सेतुरिव सेतुरिति प्रकृत आत्मा स्तूयते ।
सेतुं तीर्त्वेत्यपि तरतेरतिक्रमासंभवात्प्राप्नोत्यर्थ एव वर्तते ।
यथा व्याकरणं तीर्ण इति प्राप्त इदमुच्यते नातिक्रान्तस्तद्वत्
सिद्धान्तसूत्रं व्याचष्टे- तुशब्देनेत्यादिना ।
यदन्यत्तत्किं साद्यनादि वा, नाद्यः मानाभावात् कार्यस्य ब्रह्मनन्यत्वनिर्गुणयाच्चेत्युक्त्वा न द्वितीयः प्रागुत्पत्तेरद्वयत्वावधारणादित्याह- नच ब्रह्मव्यतिरिक्तमिति ।
उक्तानुमानानामागमबाध इति भावः ।
उक्तं स्मारयित्वा हेतुनामसिद्धिमाह- ननु सेत्वित्यादिना ।
किं सेतुश्रुत्या परसिद्धिरर्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते- तत्र परस्मिन्निति ।
सेतुत्वलिङ्गेनाद्वितीयत्वश्रुतिबाधनमन्याय्यमित्याह- नचेत् इ ।
लिङ्गं चासिद्धमित्याह- अपिचेति ।
विधारकत्वं तु कल्पितद्वितीयापेक्षयापि युज्यत इति भावः ।
तीर्णत्वहेतुरप्यसिद्ध इत्याह- सेतुं तीर्त्वेति
एन्द् ब्स्चोम्_3,2.7.32
स्तर्त् ब्स्चोम्_3,2.7.33
बुद्ध्यर्थः पादवत् । ब्ब्स्_3,2.33 ।
यदप्युक्तमुन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते - उन्मानव्यपदेशो ऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः ।
किमर्थस्तर्हि बुद्ध्यर्थः, उपासनार्थ इति यावत् ।
चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा बुद्धिः कतं नु नाम ब्रह्मणि स्थिरा स्यादिति विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते ।
नह्यविकारे ऽनन्ते ब्रह्मणि सर्वैः पुंभिः शक्या बुजद्धिः स्थापयितुं मन्दमध्यमोत्तमबुद्धित्वात्पुंसामिति ।
पादवत् ।
यथा मन आकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोश्चत्वारो वागादयो मनःसंबन्धिनः पादाः कल्प्यन्ते चत्वारश्चाग्न्यादय आकाशसंबन्धिनः आध्यानाय तद्वत् ।
अथवा पादवदिति यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते ।
नहि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते क्रयविक्रये परिमाणानियमात्तद्वदित्यर्थः
fन्: ब्रह्मण उन्मानकल्पनं मन्दधियां ध्यानव्यवहाराय कार्षापमस्य पादव्यवहारात् ।
परिमितत्वमप्यसिद्धमित्याह- बुद्ध्यर्थ इति ।
वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः ।
लौकिकं दृष्टान्तमाह- अथवेति ।
पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह- नहीति ।
कार्षापणस्य व्यवहाराय पादकल्पनावत् मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः
एन्द् ब्स्चोम्_3,2.7.33
स्तर्त् ब्स्चोम्_3,2.7.34
स्थानविशेषात्प्रकाशादिवत् । ब्ब्स्_3,2.34 ।
इह सूत्रे द्वयोरपि संबन्धभेदव्यदेशयोः परिहारो विदीयते ।
यदप्युक्तं संबन्धव्यपदेशाद्भेदव्यपदेशाच्च परमतः स्यादिति तदप्यसत् ।
यत एकस्यापि स्थानविशेषापेक्षयैतौ व्यपदेशावुपपद्यते ।
संबन्धव्यपदेशे तावदयमर्थः ।
बुद्द्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्योपाद्युपशमे य उपशमः स परमात्मना समबन्ध इत्युपाध्यपेक्षयैवोपचर्यते न परिमितित्वापेक्षया ।
तथा भेदव्यपदेशो ऽपि ब्रह्मण उपाधिभेदापेक्षयोपचर्यते न स्वरूपभेदापेक्षया प्रकाशादिवदित्युपमोपादानात् ।
यथैकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वोपाधियोगादुपजातविशेषस्योपाध्युपशमात्संबन्धव्यपदेशो भवत्युपाधिभेदाच्च भेदव्यपदेशः ।
यथावा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतस्तद्वत्
संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह- स्थानेति ।
स्थानमुपाधिबुद्ध्यादिः एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते ।
यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत् तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः
एन्द् ब्स्चोम्_3,2.7.34
स्तर्त् ब्स्चोम्_3,2.7.35
उपपत्तेश् च । ब्ब्स्_3,2.35 ।
उपपद्यते चात्रेदृश एव संबन्धो नान्यादृशः ऽस्वमपीतो भवतिऽ (छा. 6.8.1) इति हि स्वरूपसंबन्धमेनमामनन्ति स्वरूपस्य चानपायित्वात् ।
न नरनगरन्यायेन संबन्धो घटते ।
उपाधिकृतस्वरूपतिरोभावात्तु - ऽस्वमपीतो भवतिऽ (छा. 6.8.1) इत्युपपद्यते ।
तथा भेदो ऽपि नान्यादृशः संभवति ।
बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् ।
तथाच श्रुतिरेकस्याप्याकाशस्य स्तानकृतं भेदव्यपदेशमुपपादयति - ऽयो ऽयं बहिर्धा पुरुषादाकाशःऽ (छा. 3.12.8), ऽयो ऽयमन्तर्हृदय आकाशःऽ (छा. 3.12.9) इति
मुख्यावेव संबन्धभेदौ किं न स्यातमित्यत्र सूत्रम्- उपपत्तेश्चेति
एन्द् ब्स्चोम्_3,2.7.35
स्तर्त् ब्स्चोम्_3,2.7.36
तथान्यप्रतिषेधात् । ब्ब्स्_3,2.36 ।
एवं सेत्वादिव्यपदेशान्परपक्षहेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वान्तरेणोपसंहरति ।
तथान्यप्रतिषेधापि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते ।
तथाहि - स एवाधस्तात् (छा. 7.25.1), अहमेवाधस्तात् (छा. 7.25.1), आत्मैवाधस्तात् (छा. 7.25.2), सर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेद (बृ. 2.4.6), ब्रह्मैवेदं सर्वम् आत्मैवेदं सर्वम् (छा. 7.25.2), नेह नानास्ति किञ्चन (बृ. 4.4.1), यस्मात्परं नापरमस्ति किञ्चित् (श्वे. 3.9), तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् (बृ. 2.5.19) इत्येवमादिवाक्यानि स्वप्रकरणस्तान्यन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति ।
सर्वान्तरश्रुतेश्च न परमात्मनो ऽन्यो ऽन्तरात्मास्तीत्यवधार्यते
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात् तथा भेदो ऽपि न स्वत एकत्वश्रुतेरित्यर्थः
एन्द् ब्स्चोम्_3,2.7.36
स्तर्त् ब्स्चोम्_3,2.7.37
अनेन सर्वगतत्वमायामशब्दादिभ्यः । ब्ब्स्_3,2.37 ।
अनेन सेत्वादिव्यपदेशनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति ।
अन्यथा हि तन्न सिद्द्येत् ।
सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत सेत्वादीनामेवात्मकत्वात् ।
तथान्यप्रतिषेधे ऽप्यसति वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एवात्मनः प्रसज्येत ।
सर्वगतत्वं चास्यायामशब्दादिभ्यो विज्ञायते ।
आयामशब्दो व्याप्तिवचनः शब्दः ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाशःऽ (छा. 8.1.3) ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽज्यायान्दिवःऽ (छा. 3.14.3) ऽज्यायानाकाशात्ऽ ऽनित्यः सर्वगतः स्थाणुरचलो ऽयं सनातनःऽ (भ.गी. 2.24)इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनो ऽवबोधयन्ति
ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह- अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणो ऽल्पतास्यात् ऽयत्रान्यत्पश्यति तदल्पम्ऽइति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः
एन्द् ब्स्चोम्_3,2.7.37
स्तर्त् ब्स्चोम्_3,2.8.38
7 फलाधिकरणम् । सू. 38-41
फलमत उपपत्तेः । ब्ब्स्_3,2.38 ।
तस्यैव ब्रह्मणो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावो वर्ण्यते ।
यद्तदिष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत्कर्मणो भवत्याहोस्विदीश्वरादिति भवति विचारणा ।
तत्र तावत्प्रतिपाद्यते फलमत ईश्वराद्बवितुमर्हति ।
कुतः - उपपत्तेः ।
स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान्विचित्रान्विदधद्देशकालविशेषाभिज्ञत्वात्कर्मिणां कर्मानुरूपं फलं संपादयतीत्युपपद्यते ।
कर्मणास्त्वनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् ।
अभावाद्धावानुत्पत्तेः ।
स्यादेतत् ।
कर्म विनश्यत्स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति ।
तदपि न परिशुध्यति प्राग्भोक्तृसंबन्धात्फलत्वानुपपत्तेः ।
यत्कालं हि यत्सुखं दुःखं वात्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम् ।
नह्यसंबद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः ।
अथोच्यते मा भूत्कर्मानन्तरं फलोत्पादः ।
कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
तदपि नोपपद्यते ।
अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रर्तितस्य प्रवृत्त्यनुपपत्तेः ।
तदस्तित्वे च प्रमाणाभावात् ।
अर्थापत्तिः प्रमाणमिति चेत् ।
न ।
ईश्वरसिद्धेरर्थापत्तिक्षयात्
fन्: इष्टं स्वर्गः, अनिष्टमवीच्यादिस्थानयोग्यम् , व्यामिश्रं मनुष्यभोग्यम् ।
संसारो जन्ममृतिप्रवाहो आश्रयो यस्य ।
एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह- फलमत उपपत्तेः ।
निर्विशेषत्वादन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् ।
अत्र कर्मेश्वरयोः फलहेतुत्वश्रुतेः संशयमाह- किमिति ।
अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः ।
पूर्वोक्तनिर्विशेषत्वमुपजीव्य फलदातृत्वमपीश्वरस्य नास्तीति पूर्वपक्षोत्थानात्संगतिः ।
यद्यपि सर्वगतत्ववत्फलदातृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्कानिरासेनोक्तलक्ष्यार्थनिर्वाहकवाच्यार्थनिर्णयार्थमस्याधिकरणस्यारम्भ इति मत्वा सिद्धान्तं तावदाह- तत्र तावदिति ।
स्वर्गादिकं विशिष्टदेशकालकर्माभिज्ञदातृकं, कर्मफलत्वात्, सेवाफलवदित्युपपत्तिः ।
यागादिक्रियाख्यं कर्म तावत् क्षणिकं तत्किं स्वनाशात् फलं जनयत्युत फलमुत्पाद्य नश्यति, आहोस्विदपूर्वात्फलसिद्धिः, नाद्य इत्याह- अभावादिति ।
द्वितीयं शङ्कते- स्यादिति ।
कर्मनाशक्षणमारभ्यामभिव्यक्तस्वर्गसुखादिसत्त्वे मानं नास्तीति-दूषयति- तदपीत्यादिना ।
तृतीयं शङ्कते- अथेति ।
अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह- तदपीति ।
द्वितीये त्वदृष्टानभिज्ञजीवस्याधिष्ठातृत्वायोगादीश्वरस्याधिष्ठातृत्वसिद्धिरिति भावः ।
प्रौढवादेनापूर्वं नास्तीत्याह- तदस्तित्व इति ।
क्षणिकयागादेः श्रुतस्वर्गादिहेतुत्वानुपपत्त्या स्थाय्यपूर्वसिद्धिरिति चेत् ।
न ।
कर्मभिराराधितादीश्वरादेव स्थायिनः फलसिद्धेरित्यर्थः ।
न केवलतर्केणापूर्वं सिध्यतीति भावः
एन्द् ब्स्चोम्_3,2.8.38
स्तर्त् ब्स्चोम्_3,2.8.39
श्रुतत्वाच् च । ब्ब्स्_3,2.39 ।
न केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः किं तर्हि श्रुतत्वादपीश्वरमेव फलहेतुं मन्यामहे ।
तथाच श्रुतिर्भवति - ऽस वा एष महानज आत्मान्नादो वसुदानःऽ (बृ. 4.4.24) इत्येवञ्जातीयका
fन्: अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः , वसुदानो धनदाता ।
ऽकृतात्यये ऽनुशयवान्ऽइत्यत्रोदाहृताभिः ऽय इह रमणीयचरणाःऽइत्यादिश्रुतिस्मृतिभिरपूर्वसिद्धिश्चेत्ताभिरीश्वरस्यापि फलदातृत्वं स्वीकार्यमित्याह- श्रुतत्वाच्चेति सूत्रकारः ।
अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणो ऽपूर्वस्य वा जडत्वेनोपकरणमात्रत्वात्स्वतन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः
एन्द् ब्स्चोम्_3,2.8.39
स्तर्त् ब्स्चोम्_3,2.8.40
धर्मं जैमिनिरत एव । ब्ब्स्_3,2.40 ।
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते ।
अत एव हेतोः श्रुतरुपपत्तेश्च ।
श्रूयते तावदयमर्थः स्वर्गकामो यजेत इत्येवमादिषु वाक्येषु ।
तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत तत्रास्योपदेशवैयर्थ्यं स्यात् ।
नन्वनुक्षणविनाशिनः सर्मणः फलं नोपपद्यत इति परित्यक्तो ऽयं पक्षः ।
नैष दोषः ।
श्रुतिप्रामाण्यात् ।
श्रुतिश्चेत्प्रमाणं यथायं कर्मफलसमबन्धः श्रुत उपपद्यते तथा कल्पयितव्यः ।
नचानुत्पाद्य किमप्यपूर्वं कर्म विनश्यत्कालान्तरितं फलं दातुं शक्नोति ।
अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्थापूर्वं नामास्तीति तर्क्यते ।
उपपद्यते चायमर्थं उक्तेन प्रकारेण ।
ईश्वरस्तु फलं ददातीत्यनुपपन्नम् ।
अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेर्वैषम्यनैर्घृम्यप्रसङ्गादनुष्ठानवैयर्त्यापत्तेश्च ।
तस्माद्धर्मादेव फलमिति
इदानीं पूर्वपक्षयति- धर्ममिति ।
विधिश्रुतिर्विध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गसाधनमिति गम्यते ।
यागस्येष्टसाधनत्वाभावे प्रेरणानुपपत्तेरित्यर्थः ।
अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति- ईश्वरस्त्विति ।
ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह- अविचित्रस्येत्यादिना ।
द्वितीये संवेष्टनसंस्कारमात्रात्कटादौ वेष्टनवत्कर्मापूर्वादेव फलसिद्धेः किमीश्वरेणेति भावः ।
अत्र वयं वदामः-चन्दनकण्डकादिदृष्टसंपत्त्यैव सुखादिसंभवे कृतं धर्माधर्माभ्यामिति श्रुतिस्मृतिबलात्तदपेक्षायामीश्वरेण किमपराद्धम् ।
अतः ईश्वरानपेक्षात्केवलात्कर्मणः फलमित्ययुक्तमिति
एन्द् ब्स्चोम्_3,2.8.40
स्तर्त् ब्स्चोम्_3,2.8.41
पूर्वं तु बादरायणो हेतुव्यपदेशात् । ब्ब्स्_3,2.41 ।
बादरायणस्त्वाचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते ।
केवलाकर्मणो ऽपूर्वाद्वा केवलात्फलमित्ययं पक्षस्तुशब्देन व्यावर्त्यते ।
कर्मापेक्षादपूर्वापे ऽक्षाद्वा यथा तथास्त्वीश्वरात्फलमिति सिद्धान्तः ।
कुतः - हेतुव्यपदेशात् ।
दर्माधर्मयोरपि हि कारयितृत्वेनेश्वरो हेतुर्व्यपदिश्यते फलस्य च दातृत्वेन ऽएष ह्येष साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते ।
एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ इति ।
स्मर्यते चायमर्थो भगवद्गीतासु - ऽयो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्झधां तामेव विदधाम्यहम् ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हितान्ऽ (7.21) इति ।
सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते ।
तदेव चेश्वरस्य फलहेतुत्वं यत्स्वकर्मानुरूपाः प्रजाः सृजतीति ।
विचित्रकार्यानुपपत्त्यादयो ऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0