भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 48

48.1

इति श्रीमद्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्दभगवत्पादकृतौ शारीरकमीमांसाख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य प्रथमः पादः ॥
एन्द् ब्स्चोम्_3,1.6.27
तृतीयाध्याये द्वितीयः पादः ।
स्तर्त् ब्स्चोम्_3,2.1.1
तृतीयाध्याये द्वितीयः पादः ।
[अत्रपादे तत्त्वंपदार्थपरिशोधनविचारः]
1 संध्याधिकरणम् । सू. 1-6
सन्ध्ये सृष्टिराह हि । ब्ब्स्_3,2.1 ।
अतिक्रीन्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः ।
इदानीं तु तस्यैवावस्थाभेदः प्रपञ्च्यते ।
इदमामनन्ति- ऽस यत्र प्रस्वपितिऽ (बृ. 4.3.9) इत्युपक्रम्य ऽन तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजतेऽ (बृ. 4.3.10) इत्यादि ।
तत्र संशयः - किं प्रबोध इव स्वप्ने ऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा सृष्टिरिति ।
संध्यमिति स्वप्नानमाचष्टे, वेदे प्रयोगदर्शनात् ऽसंध्यं तृतीयं स्वप्नस्थानम्ऽ (बृ. 4.3.9) इति ।
द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयोर्वा संधौ भवतीति संध्यम् ।
तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति ।
कुतः - यतः प्रमाणभूता श्रुतिरेवमाह ऽअथ रथान्नथयोगान्पथः सृजतेऽ (बृ. 4,3.10) इत्यादि ।
स हि कर्तेति चोपसंहारादेवमेवावगम्यते

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc