ब्रह्मसूत्र2 (टीका सहित) · अध्याय 41
fन्: प्राणविषयः प्राणोत्पत्तिसंख्यातत्त्वादिविषयः ।
आनुलोम्यमाञ्जस्यम् ।
यथा तृतीयाध्यये चतुर्थपादेष्वप्रतिग्रहेष्वधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितो ऽपि सोमवमने परामृश्यते तद्वदत्रापि ज्ञेयम् ।
पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति- तथा प्राणाः ।
भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः संगतिमाह- वियदादीति ।
तमेव विप्रतिषेधमाह- तत्रेत्यादिना ।
यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् ।
अत्र प्राणा विषयाः ।
ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलं, तत्र गौणवादी समाधानमाह- अथवेति ।
प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः ।
अप्रमाणपक्षवद्गौणपक्षो ऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् ।
मुख्यसिद्धान्त्याह- अत इति ।
तथाशब्दमाक्षिपति- कथमिति ।
आनुलोम्यमाञ्जस्यमित्यर्थः ।
साम्यं स्फुटयति- यथादृष्टस्येति ।
दूषणवत्प्राणा इत्यनन्वितम् ।
यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् ।
जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः ।
समाधत्ते- न ।
उदाहरणेति ।
दृष्टान्तो दार्ष्टान्तिकसंनिहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सांनिध्यमुक्तम् ।
संप्रति नायं नियमः ।
जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह- अथवेति ।
अस्ति तृतीयाध्याये ऽश्वप्रतिग्रहेष्ट्यधिकरणं, तस्येदं विषयवाक्यं, ऽयावतो ऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्ऽइत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये ऽप्रतिगृह्णीयात्ऽइति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य ऽप्रजापतिर्वरुणायाश्वमनयत्ऽइत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् ।
ऽयो ऽश्वदाता स वारुणीमिष्टिं कुर्यात्ऽइति वाक्यार्थे स्थिते चिन्ता-अश्वदाननिमित्तेयमिष्टिः किं लौकिके ऽश्वदाने वैदिके वेति ।
तत्र ऽन केसरिणो ददातिऽ, इति निषिद्धलौकिकाश्वदाने दोषसंभवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः-ऽअत्र हि वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातिऽइति दातुर्देषं संकीर्त्येष्टिर्विहिता ।
वरुणशब्दो जलोदराख्यरोगे रूढः ।
नच लौकिके ऽश्वदाने ऽयं रोगो भवति इति प्रसिद्धम् ।
नचानेनैव वाक्येन प्रसिद्धिः ।
दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोर्ऽथभेदे वाक्यभेदात् ।
नच वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तं, रूढित्यागापातात् ।
तत्त्यागे च वैदिके ऽपि दाने ऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुं, तस्मात्प्राप्तानुवाद्यर्थवादो ऽयमिति यज्ञसंबन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम्- पानव्यापच्च तद्वदिति ।
सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा ऽएतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्ऽइति श्रूयते ।
तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने ऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य ऽइन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमतिऽइत्यनुवादादिति पूर्वपक्षसूत्रार्थः ।
वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमने ऽपिन दोष इति सिद्धान्तः ।
लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता ।
वेदे तु ऽमा मे वाङ्नाभिमतिगाःऽइति साम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता ।
तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः
एन्द् ब्स्चोम्_2,4.1.1
स्तर्त् ब्स्चोम्_2,4.1.2
गौण्यसंभवात् । ब्ब्स्_2,4.2 ।
यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति ।
तत्प्रत्याह- गौण्यसंभवादिति ।
गौण्या असंभवो गौण्यसंभवः ।
नहि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति ।
प्रतिज्ञाहानिप्रसङ्गात् ।
ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. 1.1.3) इति ह्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते- ऽएतस्माज्जायते प्राणःऽ (मुण्ड. 2.1.3) इत्यादि ।
सा च प्रतिज्ञा प्राणादेः समस्तस्य जागतो ब्रह्मविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिद्ध्यति ।
गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञेयं हीयेत ।
तथाच प्रतिज्ञातार्थमुपसंहरति- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ (मुण्ड. 2.2.11) इति, ऽब्रह्मैवेदं विश्वमिदं वरिष्टम्ऽ (मुण्ड. 2.2.11) इति च ।
तथा ऽआत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ इत्येवञ्जातीयकासु श्रुतिष्वेषैव प्रतिज्ञा योजयितव्या ।
कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम् ।
नैतन्मूलप्रकृतिविषयम् ।
ऽअप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परःऽ (मुण्ड, 2.1.2) इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात् ।
अवान्तरप्रकृतिविषयं त्वेतत्स्ववविकारापेक्षं प्रगुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम् ।
व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः ।
वियदधिकरणे हि ऽगौण्यसंभवात्ऽ इति पूर्वपक्षसूत्रत्वाद्गौणी जन्मश्रुतिरसंभवादिति व्याख्यातम् ।
प्रतिज्ञाहान्या च तत्र सिद्धान्तो ऽभिहितः ।
इह तु सिद्धान्तसूत्रत्वाद्गोण्या जन्मश्रुतेरसंभवादिति व्याक्यातम् ।
तदनुरोदेन त्विहापि गौणी जन्मश्रुतिसंभवादिति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात्
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0