भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 42

42.2

ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह- तथाच प्रतिज्ञातार्थमिति ।
उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः ।
मुण्डकवच्छ्रुत्यन्तरे ऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह- तथेति ।
एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः ।
इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह- कथमित्यादिना ।
नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः ।
ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनं, तत्राह- स्वविकारेति ।
स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः ।
ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् ऽएतस्माज्जायते प्राणःऽइत्यादि प्रबलजन्मश्रुतिबलादिति वदामः ।
ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह- व्याकृतेति ।
ऽहिरण्यगर्भेः समवर्तताग्रेऽइत्यादिश्रुतौ ऽआदिकर्ता स भूतानांऽइत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति ।
पूर्वापेक्षया ।
विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः ।
केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति- वियदिति

42.3

एन्द् ब्स्चोम्_2,4.1.2
स्तर्त् ब्स्चोम्_2,4.1.3
तत्प्राक्श्रुतेश् च । ब्ब्स्_2,4.3 ।
इतश्चाकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः ।
यज्जायत इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सदुत्तरेष्वप्याकाशादिष्वनुवर्तते ।
ऽएतस्माज्जायते प्राणःऽ (मु. 2.1.3) इत्यत्राकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितं तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति ।
नह्येकस्मिन्प्रकरण एकस्मिंश्च वाक्य एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् ।
वैरूप्यप्रसङ्गात् ।
तथा ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्रश्न. 6.4) इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते ।
यत्रापि पश्चच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः ।
यथा ऽसर्वाणि भूतानि व्युच्चरन्तिऽ इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते

42.3

तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना- तत्सामान्यादिति ।
तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः ।
एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति- यत्रापि पश्चाच्छ्रुत इति

42.4

एन्द् ब्स्चोम्_2,4.1.3
स्तर्त् ब्स्चोम्_2,4.1.4
तत्पूर्वकत्वाद् वाचः । ब्ब्स्_2,4.4 ।
यद्यपि ऽतत्तेजो ऽसृजतऽ (छा. 6.2.3) इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते, तेजोबन्नानामेव च त्रयाणां भूतानामुत्पत्तिश्रवणात् ।
तथापि ब्रह्मप्रकृतिकतेजोबन्नपीर्वकत्वाभिधानाद्वाक्प्राणमनसां तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति ।
तथाहि- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते- ऽअन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्ऽ (छा. 6.5.4) इति ।
तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वं ततो वर्तत एव ब्रह्मप्रभवत्वम् ।
अथ भाक्तं ततापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. 6.1.3) इति चोपक्रमात् ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. 6.8.7) इति चोपसंहाराच्छ्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते ।
तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः

42.4

यच्चोक्तं छान्दोग्ये ऽपि प्राणानामुत्पत्तिर्न श्रूयत इति, तत्राह- तत्पूर्वकत्वाद्वाच इति ।
अत्र सूत्रे वाक्पदं प्राणमनसोरुपलक्षणम् ।
वाक्प्राणमनसां तेजोबत्रपूर्वकत्वोक्तेरश्रवणमसिद्धमिति योजना ।
तैर्वागादिभिश्चक्षुरादीनां सामान्यं करणत्वं तत्सामान्यादित्यर्थः ।
अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्मविकारत्वात् ।
यदि प्राणस्य वायोर्जलविकारत्वायोगात्तदधीनस्थितिकत्वमात्रेण भक्तस्तथापि प्राणानां विकारत्वे भूताधीनस्थितिकत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं ऽस प्राणमसृजतऽइत्यादिश्रुत्यन्तरे स्पष्टं ब्रह्मकार्यत्वोक्तेश्च ।
तस्मात्प्राणानामुत्पत्तिश्रुतीनां सद्भावश्रुत्यविरोधात्कारणे ब्रह्मणि समन्वय इति सिद्धम् ।
लिङ्गशरीरविचारात्मकाधिकरणानां लिङ्गात्त्वंपदार्थभेदधीः फलमिति द्रष्टव्यम्

42.5

एन्द् ब्स्चोम्_2,4.1.4
स्तर्त् ब्स्चोम्_2,4.2.5
2 सप्तगत्यधिकरणम् । सू. 5-6
सप्त गतेर् विशेषितत्वाच् च । ब्ब्स्_2,4.5 ।
उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिहृतः ।
संख्यविषय इदानीं परिह्रियते ।
तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति ।
संप्रति तु कतीतरे प्राणा इति संप्रधारयति ।
श्रुतिविप्रतिपत्तेश्चात्र विशयः ।
क्वचित्सप्त प्राणाः संकीर्त्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. 2.1.8) इति ।
क्वचिच्चाष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते- ऽ अष्टौ ग्रहा अष्टावतिग्रहाःऽऽ (बृ. 3.2.1) इति ।
क्वचिन्नव- ऽसप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौऽ (तै. सं. 5.1.7.1) इति ।
क्वचिद्दश- ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ इति ।
क्वचिदेकादश- ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. 3.9.4) इति ।
क्वचिद्द्वादश- ऽसर्वेषां स्पर्शानां त्वगेकायनम्ऽ (बृ. 2.4.11) इत्यत्र ।
क्वचित्त्रयोदश ऽचक्षुश्च द्रष्टव्यं चऽ (बृ. 4.8) इत्यत्र ।
एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः ।
किं तावत्प्राप्तम् ।
सप्तैव प्राणा इति ।
कुतः गतेः ।
यतस्तावन्तो ऽवगम्यन्ते- ऽसप्त प्राणाः प्रभवन्ति तस्मात्ऽ (मुण्ड. 2.1.8) इत्येवंविधासु श्रुतिषु ।
विशेषिताश्चैते ऽसप्त वै शीर्षण्याः प्राणाःऽ इत्यत्र ।
ननु ऽप्राणा गुहाशया निहिताः सप्त सप्तऽ (मुण्ड. 2.1.8) इति वीप्सा श्रूयते, सा सप्तभ्यो ऽतिरिक्तान्प्राणान्गमयति ।
नैष दोषः ।
पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति, न तत्त्वभेदाभिप्राया सप्त सप्तान्ये ऽन्ये प्राणा इति ।
नन्वष्टत्वादिकापि संखाया प्राणेषूदाहृता कथं सप्तैव स्युः ।
सत्यमुदाहृता ।
विरोधात्त्वन्यतमा संक्याध्यवसातव्या ।
तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम् ।
वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते

42.5

fन्: विशयः संशयः ।
ग्रहत्वं बन्धकत्वम् ।
गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि ।
अतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः ।
अवाञ्चौ पायूपस्थौ ।
गतेः अवगतेः ।
एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसंगत्या सांख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति- सप्तगतेर्विशेषितत्वाच्च ।
विशयः संशयः ।
इन्द्रियाण्यत्र विषयः ।
पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ ।
ग्रहत्वं बन्धकत्वं ।
गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः ।
द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता ।
एत एव हृदयाख्यया बुद्ध्या सहद्वादश ।
अहङ्कारेण सह त्रयोदश ।
श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसंख्यया सप्तैव प्राणा इति सूत्रयोजना ।
सप्तत्वं वीप्साविरुद्धमिति शङ्कते- नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः ।
स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः ।
चित्तेन चतुर्दशत्वं मन्तव्यम् ।
पूर्वपक्षी परिहरति- नैष दोष इति

42.6

एन्द् ब्स्चोम्_2,4.2.5
स्तर्त् ब्स्चोम्_2,4.2.6
अत्रोच्यते-
हस्तादयस् तु स्थिते ऽतो नैवम् । ब्ब्स्_2,4.6 ।
हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः श्रूयन्ते- ऽहस्तौ वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोतिऽ (बृ. 3.2.8) इत्येवमाद्यासु श्रुतिषु ।
स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम् ।
हीनाधिकसंख्याविप्रतिपत्तौ ह्यधिका संख्या संग्राह्या भवति तस्यां हीनान्तर्भवति नतु हीनायामधिका ।
अतश्च नैवं मन्तव्यं स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति ।
उत्तरसंख्यानुरोधात्त्वेकादशैव ते प्राणाः स्युः ।
तथा चोदाहृता श्रुतिः - ऽदशेमे पुरुषे प्राणा आत्मैकादशःऽ (बृ. 3.9.4) इति ।
आत्मशब्देन चात्रान्तःकरणं परिगृह्यते, करणाधिकारात् ।
नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाहृते ।
सत्यमुदाहृते ।
नन्वेकादशाभ्यः कार्यजातेभ्यो ऽधिकं कार्यजातमस्ति यदर्थमधिकं करणं कल्प्येत ।
शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदास्तदर्थानि पञ्च बुद्धीन्द्रियाणि ।
वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदास्तदर्थानि च पञ्च कर्मेन्द्रियाणि ।
सर्वार्थविषयं त्रैकाल्यवृत्ति मनत्वेकमनेकवृत्तिकम् ।
तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते- ऽमनो बुद्धिरङंकारश्चित्तं चऽ इति ।
तथाच श्रुतिः कामाद्या नानाविधा वृत्तिरनुक्रम्याह- ऽएतत्सर्वं मन एवऽ (बृ. 1.5.3) इति ।
अपिच सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः ।
स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते ऽद्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक्ऽ इति ।
नच तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुं, हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् ।
तथा ऽनव वै पुरुषे प्राणा नाभिर्दशमीऽ
इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण ।
नाभिद्दशमिति वचनात् ।
नहि नाभिर्नाम कश्चित्प्राणः प्रसिद्धो ऽस्ति ।
मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते ।
क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते क्वचित्प्रदर्शनार्थम् ।
तदेवं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति विवेक्तव्यम् ।
कार्यजातवशात्त्वेकादशात्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम् ।
इयमपरा सूत्रद्वययोजना ।
सप्तैव प्राणाः स्युर्यतः सप्तानामेव गतिः श्रूयते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2) इत्यत्र ।
ननु सर्वशब्दो ऽप्यत्र पठ्यते, तत्कथं सप्तनामेव गतिः प्रतिज्ञायत इति ।
विशेषितत्वादित्याह ।
सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः ऽस यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्तते ऽथारूपज्ञो भवतिऽ (बृ. 4.4.1) ऽएकीभवति न पश्यतीत्याहुःऽ (बृ. 4.4.2) इत्येवमादिनानुक्रमणेन ।
प्रकृतगामी च सर्वशब्दो भवति यथा सर्वे ब्राह्मणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्राह्मणास्त एव सर्वशब्देनोच्यन्ते नान्ये ।
एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति ।
नन्वत्र विज्ञानमष्टममनुक्रान्तं, कथं सप्तानामेवानुक्रमणम् ।
नैष दोषः ।
मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदे ऽपि सप्तत्वोपपत्तेः ।
तस्मात्सप्तैव प्राणा इति ।
एवंप्राप्ते ब्रूमः - हस्तादयस्त्वपरे सप्तभ्यो ऽतिरिक्ताः प्राणाः प्रतीयन्ते-ऽ हस्तौ वै ग्रहःऽ (बृ. 3.2.8) इत्यादिश्रुतिषु ।
ग्रहत्वं च बन्धनभावो गृह्यते,बध्यते क्षेत्रज्ञो ऽनेन ग्रहसंज्ञकेन बन्धनेनेति ।
स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वि तुल्यत्वाद्बन्धनस्य ।
तस्माच्छरीरान्तरसंचारीदं ग्रहसंज्ञकं बन्दनमित्यर्थादुक्तं भवति ।
तथाच स्मृतिः - पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते ।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ।
इति प्राङ्मोक्षाद्ग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति ।
आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुष द्रष्टव्यं च इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति-ऽ हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं चऽ ( प्र. 4.8) इति ।
तथा ऽदशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तिऽ (बृ. 3.9.4) इत्येकादशानां प्राणानामुत्क्रान्तिं दर्शयति ।
सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो दर्शयति ।
सर्वशब्दो ऽपि च प्राणशब्देन संबध्यमानो ऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात् ।
सर्वे ब्राह्मणा भोजयितव्या इत्यत्रापि सर्वेषामेवावनिवर्तिनां ब्राह्मणानां ग्रहणं न्याय्यं, सर्वशब्दसामर्थ्यात् ।
सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता ।
इह तु न किञ्चित्सर्वशब्दार्थसंकोचने कारणमस्ति ।
तस्मात्सर्वशब्देनात्राशेषाणां प्राणानां परिग्रहः ।
प्रदर्शनार्थे च सप्तानामनुक्रमणमित्यनवद्यम् ।
तस्मादेकादशैव प्राणाः शब्दतः कार्यतश्चेति सिद्धम्

42.6

fन्: गुहायां हृदये शेरत इति गुहाशयाः स्वस्तानेषु निहिताः निक्षिप्ताः ।
कर्मणा हस्तनिर्वर्त्यादानेन गृहीतः संबद्धः ।
त्रयः कालास्त्रैकाल्यं तद्विषय वृत्तिर्यस्य तन्त्रैकाल्यवृत्ति ।
चक्षुरादयस्त्वक्पर्यन्ता उत्क्रान्तौ विशेषिताः ।
इह उत्क्रान्तिप्रकरणे ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं अन्तःकरणचतुष्टयं अविद्या कामः कर्म चेति पर्युष्टकम् ।
सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मको ऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसंख्यान्तर्भावनीया ।
ततो वरं प्राथमिकसप्तत्वे ऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति- अत्रेति ।
आदानेन कर्मणा गृहीत संबद्धः ।
संबन्धमेवाह- हस्ताभ्यामिति ।
अतो ऽधिकसंख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः ।
तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह- उत्तरेति ।
ऽश्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसीऽइति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसंधायाह- सत्यमिति ।
एकादशकार्यलिङ्गान्याह- शब्देति ।
त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति ।
इन्द्रियान्तराणां वर्तमानमात्रग्राहित्वादतीतादिज्ञानाय मनो ऽङ्गीकार्यमित्यर्थः ।
विशेषितत्वादित्युक्तं निरस्यति- अपिच सप्तेति ।
नच तावतामिति ।
आदानादीनां श्रोत्रादिभ्यो ऽत्यन्तवैजात्यादित्यर्थ ।
तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः ।
कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह- मुख्यस्य त्विति ।
ऽसप्त प्राणाः प्रभवन्तिऽइत्युपासनार्थम् ।
ऽअष्टौ ग्रहाऽइति श्रुतिस्तूपलक्षणार्था ।
पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् ।
नन्विदं सूत्रव्याख्यानमसंगतं पञ्चधीन्द्रियावाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसंख्यादोषाच्चेत्यरुचेराह- इयमपरेति ।
इन्द्रियाणि कतीति संदेहे पूर्वपक्षसूत्रं योजयति- सप्तेति ।
तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः ।
विपन्नावस्थायामेव चाक्षुपश्चक्षुषि स्थितो ऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ् पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्ये प्रतिगच्छति ।
अथ तदानीमयं मुमूर्षुररूपज्ञो भवति ।
देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः ।
आदिपदात् ऽन जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानातिऽइति गृह्यते ।
सप्तानामेव जीवेन सह गतिरित्यसिद्धं, ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति- एवमित्यादिना ।
हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह- पुर्यष्टकेनेति ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति संभवे सर्वश्रुतिसंकोचो न युक्त इत्याह- सर्वशब्दो ऽपीति ।
तस्मात्संख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम्

42.7

एन्द् ब्स्चोम्_2,4.2.6
स्तर्त् ब्स्चोम्_2,4.3.7
प्राणाणुत्वाधिकरणम् । सू. 7
अणवश् च । ब्ब्स्_2,4.7 ।
अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति ।
अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः ।
अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वं, कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् ।
सूक्ष्मा एते प्राणाः स्थूलाश्चेत्स्युर्मरणकाले शरीरान्निर्गच्छन्तो बिलादहिरिवोपलभ्येरन्म्रियमाणस्य पार्श्वस्थैः ।
परिच्छिन्नाश्चैते प्राणाः सर्वगताश्चेत्स्युरुत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात् ।
तद्गुणसारत्वं च जीवस्य न सिद्ध्येत् ।
सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत् ।
न. वृत्तिमात्रस्य करणत्वोपपत्तेः ।
यदेव ह्युपलब्धिसाधनं वृत्तिरन्यद्वा तस्यैव नः करणत्वं संज्ञामात्रे विवाद इति करणानां व्यापित्वकल्पना निरर्थिका ।
तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः

42.7

fन्: अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् ।
परिच्छेदो ऽल्पत्वम् ।
अणवश्च ।
ऽप्राणाः सर्वे ऽनन्ताःऽइति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति सांख्यानामाक्षेपः, तत्संगत्या प्राणाः किंपरिमाणा इति संदेहे सिद्धान्तयति- अधुनेत्यादिना ।
उत्पत्तिसंख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः ।
अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् ।
परिच्छेदो ऽल्पत्वम् ।
बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनो ऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह- तद्गुणसारत्वमिति ।
उक्ताक्षेपमनूद्य निरस्यति- सर्वगतानामिति ।
आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम्

42.8

एन्द् ब्स्चोम्_2,4.3.7
स्तर्त् ब्स्चोम्_2,4.4.8
4 प्राणश्रैष्ठ्याधिकरणम् । सू. 8
श्रेष्ठश् च । ब्ब्स्_2,4.8 ।
मुख्यश्च प्राण इतरप्राणवद्ब्रह्मविकार इत्यतिदिशति ।
तच्चाविसेषेणैव सर्वप्राणानां ब्रह्मविकारत्वमाख्यातम् ।
ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मुण्ड. 2.1.3) इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात् ।
ऽस प्राणमसृजतऽ (प्र. 6.4) इत्यादि श्रवणेभ्यश्च ।
किमर्थः पुनरतिदेशः,
अधिकाशङ्कापाकरणार्थः ।
नासदासीये हि ब्रह्मप्रधाने सूक्ते मन्त्रवर्णो भवति ऽन मृत्युरासीदमृतं न तर्हि न रात्र्या अह्नु आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्चनासऽ (ऋ.सं. 8.7.17) इति ।
आनीदिति प्राणकर्मोपादानात्प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति ।
तस्मादजः प्राण इति जायते कस्यचिन्मतिः ।
तामतिदेशेनापनुदति ।
आनीच्छब्दो ऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति ।
अवातमिति विशेषणात् ।
ऽअप्राणो ह्यमनाः शुभ्रःऽ इति च मुलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात् ।
तस्मात्कारणसद्भावप्रदर्शनार्थ एवायमानीच्छब्द इति ।
श्रेष्ठ इति च मुख्यं प्राणमभिदधाति- ऽप्राणो वाव ज्येष्ठश्च श्रेष्ठश्चऽ (छा. 5.1.1) इति श्रुतिनिर्देशात् ।
ज्येष्ठश्च प्राणः शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् ।
न चेतस्य तदानीं वृत्तिलाभः स्याद्योनौ निषिक्तं शुक्रं पूयेत न संभवेद्वा ।
श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम् ।
श्रेष्ठश्च प्राणो गुणाधिक्यात्, ऽन वै शक्ष्यामस्त्वदृते जीवितुम्ऽ (बृ. 6.1.13) इति श्रुतेः

42.8

fन्: तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अहः प्रकेतः सूर्यश्च नास्तां, स्वधया पितृदेयाग्नेन सह, आनीत् चेष्टां कृतवत् ।
श्रेष्ठश्च ।
अतिदेशत्वान्न संगत्याद्यपेक्षा ।
ऽतथा प्राणाःऽइत्युक्तन्यायो ऽत्रातिदिश्यते ।
ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याक्षिपति- किमर्थ इति ।
निश्चितमहाप्रलये प्राणसद्भावश्रुत्याधिकां शङ्कामाह- नासदासीये हीति ।
ऽनासदासीत्ऽइत्यारभ्याधीत इत्यर्थः ।
तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं च देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्तां, स्वधया सहेत्यन्वयः ।
पितृभ्यो देयमन्नं स्वधा ।
यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मानीदासीदिति परमार्थः ।
अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः ।
तस्माद्ब्रह्मणः परः परमुत्कृष्टमन्यच्च किमपि न बभूवेत्यर्थः ।
परिहारः सुबोधः ननु श्रेष्ठशब्दस्य प्राणे प्रसिद्ध्यभावात्कथं सूत्रमिति, तत्राह- श्रेष्ठ इति चेति ।
श्रुतिं व्याचष्टे- ज्येष्ठश्च प्राण इत्यादिना ।
पूयेत पूयं भवेत् ।
न संभवेत्तद्गर्भो न भवेदित्यर्थः ।
वागादिजीवनहेतुत्वं प्राणस्य गुणः ।
एवमानीच्छ्रुत्यविरोधात्प्राणोत्पत्तिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम्

42.9

एन्द् ब्स्चोम्_2,4.4.8
स्तर्त् ब्स्चोम्_2,4.5.9
5 वायुक्रियाधिकरणम् । सू. 9-12
न वायुक्रिये पृथगुपदेशात् । ब्ब्स्_2,4.9 ।
स पुनर्मुख्यः प्राणः किंस्वरूप इतीदानीं जिज्ञास्यते ।
तत्र प्राप्तं तावच्छ्रुतेर्वायुः प्राण इति ।
एवं हि श्रूयते- ऽयः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणो ऽपानो व्यान उदानः समानःऽ इति ।
अथवा तन्त्रान्तरीयाभिप्रायात्समस्तकरणवृत्तिः प्राण इति प्राप्तम् ।
एवं हि तन्त्रान्तरीया आचक्षते- ऽसामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेऽ ति ।
अत्रोच्यते- न वायुः प्राणो नापि करणव्यापारः ।
कुतः - पृथगुपदेशात् ।
वायोस्तावत्प्राणस्य पृथगुपदेशो भवति- ऽप्राण एव ब्रह्मणश्चश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति चऽ (छान्दो. 3.18.4) इति ।
नहि वायुरेव सन् वायोः पृथगुपदिश्येत ।
तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् ।
वृत्तिवृत्तिमतोश्चाभेदात् ।
नहि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत ।
तथा ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुःऽ (मु. 2.1.3) इत्येवमादयो ऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः ।
नच समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात्समुदायस्य चाकारकत्वात् ।
ननु पञ्जरचालनन्यायेनैतद्भविष्यति ।
यथैतपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूयैकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादश प्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूयैकां प्राणाख्यां वृत्तिं प्रतिलप्स्यन्त इति ।
नेत्युच्यते ।
युक्तं तत्र प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूयैकं पञ्जरं चालयेयुरिति ।
तथा दृष्टत्वात् ।
इह तु श्रवणाद्यवान्तरव्यापारोपेताः प्राण न संभूय प्राण्युरिति युक्तम्, प्रमाणाभावात् ।
अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य ।
तथा प्राणस्य श्रेष्ठत्वाद्युद्घोषणं गुणभावोपगमश्च तं प्रति वागादीनां, न करणवृत्तिमात्रे प्राणे ऽवकल्पते ।
तस्मादन्यो वायुक्रियाभ्यां प्राणः ।
कथं तर्हीयं श्रुतिः ऽयः प्राणः स वायुःऽ इति ।
उच्यते- वायुरेवायमध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते न तत्त्वान्तरं नापि वायुमात्रम् ।
अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते

42.9

स्यादेतत् ।
प्राणो ऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति ।
श्रेष्ठत्वाद्गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम् ।
तथाह्यनेकविधा विभूतिः प्राणस्य श्राव्यते- ऽसुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एको मृत्युनानाप्तः प्राणः संवर्गो वागादीन्संवृङ् क्ते प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान्ऽ इति ।
तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्गः ।
इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा ।
संप्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति- न वायुक्रिये पृथगुपदेशात् ।
मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह- तत्रेति ।
द्वितीयं सांख्यपूर्वपक्षमाह- अथवेति ।
सिद्धान्तत्वेन सूत्रमादत्ते- अत्रोच्यत इति ।
मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तं, तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति ।
कार्यक्षमो भवतीत्यर्थः ।
श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्यो ऽपि भिन्नत्वमित्याह- तथेति ।
प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति- नच समस्तानामिति ।
या चक्षुः-साध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् ।
नच समुदायस्य वृत्तिः संभवति तस्यासत्त्वादित्यर्थः ।
प्राणाभावादिति ।
श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात्, श्रवणादीनामपरिस्पन्दत्वेन विजातीयानां, परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।
किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यं, नैतदस्तीत्याह- तथा प्राणस्येति ।
यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात्, तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह- उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः

42.10

एन्द् ब्स्चोम्_2,4.5.9
स्तर्त् ब्स्चोम्_2,4.5.10
तं परिहरति-
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः । ब्ब्स्_2,4.10 ।
तुशब्दः प्राणस्य जीववत्स्वातन्त्र्यं व्यवर्तयति ।
यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि ।
तथा मुख्यो ऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वार्थकरत्वेनोपकरणभूतो न स्वतन्त्रः ।
कुतः ।
तत्सहशिष्ट्यादिभ्यः ।
तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु ।
समानधर्माणां च सह शासनं युक्तं बृहद्रथन्तरादिवत् ।
आदिशब्देन संहतत्वाचेतनत्वादीन्प्राणस्य स्वातन्त्र्यनिराकरणहेतून्दर्शति

42.10

प्राणस्य करणवृत्तित्वाभावे जीववद्भोक्तृत्वं स्यादिति शङ्कते- स्यादेतदिति ।
प्राणो न भोक्ता, भोगोपकरणत्वात्, चक्षुरादिवदिति सूत्रार्थमाह- तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः ।
किञ्च प्राणो न भोक्ता, सावयवत्वात्, जडत्वाद्भौतिकत्वाच्च, देहवत्

42.11

एन्द् ब्स्चोम्_2,4.5.10
स्तर्त् ब्स्चोम्_2,4.5.11
स्यादेतत् ।
यदि चक्षुरादिवत्प्राणस्य जीवं प्रति करणभावो ऽभायुपगम्येत,विषयान्तरं रूपादिवत्प्रसज्येत ।
रूपाद्यालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति ।
अपिचैकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि यदर्थमेकादश प्राणाः संगृहीताः नतु द्वादशमपरं कार्यजातमधिगम्यते यदर्थमयं द्वादशः प्राणः प्रतिज्ञायेतेति ।
अत उत्तरं पठति-
अकरणत्वाच् च न दोषस् तथा हि दर्शयति । ब्ब्स्_2,4.11 ।
न तावद्विषयान्तरप्रसङ्गो दोषः ।
अकरणत्वात्प्राणस्य ।
नहि चक्षुरादिवत्प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते ।
नचास्यैतावता कार्याभाव एव ।
कस्मात् ।
तथाहि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु- ऽअथ ह प्राणा अहंश्रेयसि व्यूदिरेऽ इत्युपक्रम्य ऽयस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्यते स वः श्रेष्ठःऽ (छा. 5.1.6,7) इति चोपन्यस्य प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा प्राणोच्चिक्रमिषायां वागादिशैथिल्यापत्तिं शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति ।
ऽतावन्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि, इति चैतमेवार्थं श्रुतिराह- ऽप्राणेन रक्षन्नवरं कुलायम्ऽ (बृ.
4.3.12) इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति ।
ऽयस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदैव तच्छुष्यतिऽ (बृ. 1.3.19) ।
ऽतेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवतिऽ इति च प्राणनिमित्तां शरीरेन्द्रियपुष्टिं दर्शयति ।
ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिऽ इति, ऽस प्राणमसृजतऽ इति च प्राणनिमित्ते जीवस्योत्क्रान्तप्रतिष्ठे दर्शयति

42.11

fन्: अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तं, व्यूदिरे विवादं चक्रिरे ।
अपरं नीचं, कुलायं देहाख्यं गृहम् ।
ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकं, प्राणस्य तु निर्विषयत्वादसाधारणकार्यभावाच्च नोपकरणत्वमिति शङ्कते- स्यादेतदिति ।
उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति- न तावदित्यादिना ।
अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् ।
व्यूदिरे विवादं चक्रिरे- तद्वृत्तिमात्रहीनमिति ।
मूकादिभावेन स्थितमित्यर्थः ।
अवरं नीचं, कुलायं देहाख्यं गृहं, प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः- तदैव तदानीमेव ।
तेन प्राणेन यदश्नाति जीवस्त्वेन प्राणकृताशनेनेति यावत् ।
एवंश्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम्

42.12

एन्द् ब्स्चोम्_2,4.5.11
स्तर्त् ब्स्चोम्_2,4.5.12
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते । ब्ब्स्_2,4.12 ।
इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु ऽप्राणो ऽपानो व्यान उदानः समानःऽ (बृ. 1.5.3) इति ।
वृत्तिभेदश्चायं कार्यभेदापेक्षः ।
प्राणः प्राग्वृत्तिरुच्छ्वासादिकर्मा ।
अपानोर्ऽवाग्वृत्तिर्निश्वासादिकर्मा ।
व्यानस्तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः ।
उदान ऊर्ध्ववृत्तिरुत्क्रान्त्यादिहेतुः ।
समानः समं सर्वेष्वङ्गेषु यो ऽन्नरसान्नयतीति ।
एवं पञ्चवृत्तिः प्राणो मनोवत् ।
यथा मनसः पञ्च वृत्तय एवं प्राणस्यापीत्यर्थः ।
श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः, नतु कामः संकल्पः इत्याद्याः परिपठिताः परिगृह्येरन् ।
पञ्चसंख्यातिरेकात् ।
नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषयापरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः ।
एवं तर्हि ऽपरमतमप्रतिषिद्धमनुमतं भवतिऽ इति न्यायादिहापि योगशास्त्रप्रसिद्धा मनसः पञ्चवृत्तयः परिगृह्यन्ते ऽप्रमाणविपर्ययविकल्पनिद्रास्मृतयःऽ (पात. योग. सू. 1.1.6) नाम ।
बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम् ।
जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मनोवदिति योजयितव्यम्

42.12

fन्: प्रमाणं प्रमितिः, विपर्ययो भ्रमः, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः, तामसी वृत्तिर्निद्रा ।
तत्रैव हेत्वन्तरार्थे सूत्रं व्याचष्टे- इतश्चेत्यादिना ।
वृत्तिरवस्था ।
अग्निमन्थनादिकं वीर्यवत्कर्म ।
कामादिवृत्तिवज्ज्ञाने ऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति- नन्वत्रापीत्यादिना ।
प्रमाणं प्रमितिः विपर्ययो भ्रमः ।
शशविषाणादिज्ञानं विकल्पः ।
तामसी वृत्तिर्निद्रा ।
स्मृतिः प्रसिद्धा ।
भ्रमन्द्रियोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह- बह्विति ।
सूत्रस्यार्थान्तरमाह- जीवेति ।
तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम्

42.13

एन्द् ब्स्चोम्_2,4.5.12
स्तर्त् ब्स्चोम्_2,4.6.13
6 श्रेष्ठाणुत्वाधिकरणम् । सू. 13
अणुश् च । ब्ब्स्_2,4.13 ।
अणुश्चायं मुख्यः प्राणः प्रत्येतव्य इतरप्राणवत् ।
अणुत्वं चेहापि सौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् ।
पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात् ।
सूक्ष्मः प्राण उत्क्रान्तौ पार्श्वस्थेनानुपलभ्यमानत्वात् ।
परिच्छिन्नश्चोत्क्रान्तिगत्यागतिश्रुतिभ्यः ।
ननु विभुत्वमपि प्राणस्य समाम्नायते- ऽसमः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समो ऽनेन सर्वेण (बृ. 1.3.22) इत्येवमादिप्रदेशेषु ।
तदुच्यते- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्णेण प्राणात्मनैवैतद्विभुत्वमाम्नायते नाध्यात्मिकेन ।
अपिच समः प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोषः

42.13

fन्: प्लुषिर्मशकादपि सूक्ष्मो जन्तुः, नागो हस्ती ।
एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसंदेहे ऽणुत्वमुपदिशति- अणुश्चेति ।
अधिकाशङ्कामाह- ननु विभुत्वमपीति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते ।
नागो हस्ती ।
प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाती, समो ऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते- तदुच्यत इति ।
किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् ।
समो ऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह- अपिचेति ।
अणवश्चेत्यत्र सर्वे ऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम्, अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् ।
अन्ये तु प्रसङ्गात्तत्र सांख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः

42.14

एन्द् ब्स्चोम्_2,4.6.13
स्तर्त् ब्स्चोम्_2,4.7.14
7 ज्योतिराद्यधिकरणम् । सू. 14-16
ज्योतिराद्यधिष्ठानं तु तदामननात् । ब्ब्स्_2,4.14 ।
ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै कार्याय प्रभवन्त्याहोस्विद्देवताधिष्ठिताः प्रभवन्तीति विचार्यते- तत्र प्राप्तं तावद्यथा स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति ।
अपिच देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गाच्छरीरस्य भोक्तृत्वं प्रलीयेत ।
अतः स्वमहिम्नैवैषां प्रवृत्तिरिति ।
एवं प्राप्तं इदमुच्यते- ज्योतिराद्यधिष्ठानं तु इति ।
तुशब्देन पूर्वपक्षो व्यावर्त्यते ।
ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादि करणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते ।
हेतुं व्याचष्टे- तदामननादिति ।
तथाह्यामनन्ति- ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐत. 2.4) इत्यादि ।
अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाधिष्ठातृत्वमङ्गीकृत्योच्यते ।
नहि देवतासंबन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते ।
तथा ऽवायुः प्राणो भूत्वा नासिके प्राविशत्ऽ (ऐत. 2.4) इत्येवमाद्यपि यौजयितव्यम् ।
तथान्यत्रापि वागेव ब्रह्मणश्चतुर्थः पादः सो ऽग्निना ज्योतिषा भाति च तपति चऽ (छा. 3.18.3) इत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्वादिवचनेनैतमेवार्थं द्रढयति ।
ऽस वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सो ऽग्निरभवत्ऽ (बृ. 1.3.12) इति चैवमादिना वागादीनामग्न्यादिभावापत्तिवचनेनैतमेवार्थं द्योतयति ।
सर्वत्र चाध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणमनयैव प्रत्यासत्त्या भवति ।
समृतावपि- ऽवागध्यात्ममिति प्राहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवचतम् ।
ऽ इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं दर्शितम् ।
यदुक्तं स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति ।
तदयुक्तम् ।
शक्तानामपि शकटादीनामनडुदाद्यधिष्ठितानां प्रवृत्तिदर्शनात् ।
उभयथोपपत्तौ चागमाद्देवताधिष्ठितत्वमेव निश्चीयते

42.14

fन्: भाति दीप्यते ।
तपति स्वकार्यं करोति ।
स प्राणो वाचं प्रथमामुद्गीथकर्माणि प्रधानां अनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवान् ।
पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह- ज्योतिराद्यधिष्ठानं तु तदामननात् ।
ऽवाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यतिऽइति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् ऽअग्निर्वाग्भूत्वाऽइत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा ।
नच स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यं, जीवस्याधिष्ठातृत्वात् ।
किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात्, तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।
सिद्धान्तयति- एवं प्राप्त इत्यादिना ।
अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावो ऽत्राग्र्यादिदेवताधिष्ठेयत्वरूप एव संबन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वात्संभवादित्याह- अग्नेश्चायमिति ।
वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह- तथेति ।
भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।
एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह- स वै वाचमिति ।
स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः ।
किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसंबन्धं द्योतयतीत्याह- सर्वत्रेति ।
ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासंभवे कथं निश्चयः, तत्राह- उभयथोपपत्तौ चेति ।
उक्तदोषान्तरनिरासाय सूत्रमवतारयति- यदपीति

42.15

एन्द् ब्स्चोम्_2,4.7.14
स्तर्त् ब्स्चोम्_2,4.7.15
यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्येति तत्परिह्रियते-
प्राणवता शब्दात् । ब्ब्स्_2,4.15 ।
सतीष्वपि प्राणानामधिष्टात्रीषु देवतासु प्राणवता कार्यकरणसंघातस्वामिना शारीरेणैवैषां प्राणानां संबन्धः श्रुतेरवगम्यते ।
तथाहि श्रुतिः - ऽअथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय तक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम्ऽ (छा. 8.124) इत्येवञ्जातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति ।
अपिचानेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वमस्मिञ्शरीरे ऽवकल्पते ।
एको ह्येवमस्मिञ्शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते

42.15

fन्: अथ देहे प्रागप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः ।
शारीरेणैवेति ।
भोक्त्रेति शेषः ।
संबन्धो भोक्तृभोग्यभावः ।
अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः यद्यप्यात्मा करणान्येपक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तये ऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।
किञ्च यो ऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसंधानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह- अपिचेति

42.16

एन्द् ब्स्चोम्_2,4.7.15
स्तर्त् ब्स्चोम्_2,4.7.16
तस्य च नित्यत्वात् । ब्ब्स्_2,4.16 ।
तस्य च शारीरस्यास्मिञ्शरीरे भोक्तृत्वेन नित्यत्वेन पुण्यपापोपलेपसंभवात्सुखदुःखोपभोगसंभवाच्च न देवतानाम् ।
ता हि परस्मिन्नैश्वर्ये पदे ऽवतिष्ठमाना न हिने ऽस्मिञ्शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति ।
श्रुतिश्च भवति- ऽपुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छतिऽ (बृ. 1.5.3) इति शारीरेणैव च नित्यः प्राणानां संबन्ध उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् ।
ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ. 4.4.2)
इत्यादिश्रुतिभ्यः ।
तस्मात्सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति ।
करणपक्षस्यैव हि देवता न भोक्तृपक्षस्येति

42.16

कदाचिद्देवानामत्रभोक्तृत्वं कदाचिज्जीवस्येत्यनियमो ऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह-सूत्रकारः- तस्य चेति ।
उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह- शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः ।
जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वं, देवानां तु करणोपकाराभिज्ञातया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः ।
देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु ऽन ह वै देवान् पापं गच्छतिऽइत्युक्तश्रुतिबाधितम् ।
तस्मात् ऽचक्षुषा हि रूपाणि पश्यतिऽइति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम्

42.17

एन्द् ब्स्चोम्_2,4.7.16
स्तर्त् ब्स्चोम्_2,4.8.17
8 इन्द्रियाधिकरणम् । सू. 17-19
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात् । ब्ब्स्_2,4.17 ।
मुख्यश्चैक इतरे चैकादश प्राणा अनुक्रान्ताः ।
तत्रेदमपरं संदिह्यते ।
किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित्तत्त्वान्तराणीति ।
किं तावत्प्राप्तं, मुख्यस्यैवेतरे वृत्तिभेदा इति ।
कुतः - श्रुतेः ।
तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति- ऽहन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्ऽ (बृ. 1.5.21) इति ।
प्राणैकशब्दत्वाच्चैकत्वाध्यवसायः ।
इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत ।
एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वामापद्येत ।
तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तय एवं वागाद्या अप्येकादशेति ।
एवं प्राप्ते ब्रूमः - तत्त्वान्तराण्येव प्राणाद्वागादीनीति ।
कुतः -
व्यपदेशाभावात् ।
को ऽयं व्यपदेशभेदः ।
ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वावशिष्टा एकादशेन्जद्रियाणीत्युच्यन्ते ।
श्रुतावेवं व्यपदेशदर्शनात् ।
ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽ (मु. 2.1.3) इति ह्येवञ्जातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक्त्चेन्द्रियाणि ।
ननु मनसो ऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यात्, ऽमनः सर्वेन्द्रियाणि चऽ इति पृथग्व्यपदेशदर्शनात् ।
सत्यमेतत् ।
स्मृतौ त्वेकादशेन्द्रियाणीति मनो ऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृह्यते ।
प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति ।
व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते ।
तत्त्वैकत्वे तु स एवैकः सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चेति विप्रतिषिद्धम् ।
तस्मात्तत्त्वान्तरभूता मुख्यादितरे

42.17

fन्: अस्यैव मुख्यप्राणस्य रूपं असाम भवेमेति संकल्प्य, ते वागादयः ।
सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह- त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति- मुख्यश्चेत्यादिना ।
हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति संकल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः ।
ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात्, प्राणवदित्याह- प्राणेति ।
ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे- तत्त्वान्तराण्येवेति ।
तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति ।
प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति- क इत्यादिना ।
सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् ।
एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् ।
शब्दभेदाद्वस्तुभेदसाधने ऽतिप्रसङ्गं शङ्कते- नन्विति ।
प्राणवन्मनसो ऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।
अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः ।
स च ऽमनः षष्ठानीन्द्रियाणिऽइत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते- सत्यमित्यादिना ।
मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया ।
सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् ।
किञ्च ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽइति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह- व्यपदेशभेदश्चायमिति ।
एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः

42.18

एन्द् ब्स्चोम्_2,4.8.17
स्तर्त् ब्स्चोम्_2,4.8.18
कुतश्च तत्तवान्तरभूताः -
भेदश्रुतेः । ब्ब्स्_2,4.18 ।
भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते- ऽते ह वाचमूचुःऽ (बृ. 1.3.2) इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्योपसंहृत्य वागादिप्रकरणम् ऽअथ हेममासन्यं प्राणमूचुःऽ इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमात् ।
तथा ऽमनो वाचं प्राणं तान्यात्मने ऽकुरुतऽ इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः ।
तस्मादपि तत्त्वान्तरभूता मुख्यादितरे

42.18

एवं भेदेनापर्यायसंज्ञाभ्यामुक्तेः पृथग्जनोक्तेश्चेति तद्व्यपदेशादिति हेतुर्व्याख्यातः ।
भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् ।
ते ह देवाः शास्त्रीयेन्द्रियमनोवृत्तिरूपा असुराणां पापवृत्तिरूपाणां जयार्थमुद्गीथकर्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गायासुरनाशार्थमिति तथास्त्वित्यङ्गीकृत्योद्गायन्तीं वाचमनृतादिदोषेण विध्वंसितवन्तोसुरा इत्येवं क्रमेण सर्वेष्विन्द्रियेषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणेनोदगात्रा निर्विषयतया सङ्गदोषशून्येनासुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्यप्राणस्योक्तेर्भेदसिद्धिरित्याह- ते हेति ।
तानि त्रीण्यन्यान्यात्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः

42.19

एन्द् ब्स्चोम्_2,4.8.18
स्तर्त् ब्स्चोम्_2,4.8.19
कुतश्च तत्त्वान्तरभूताः -
वैलक्षण्याच् च । ब्ब्स्_2,4.19 ।
वैलक्षण्यं च भवति मुख्यस्येतरेषां च ।
सुषुप्तेषु वागादिषु मुख्य एको जागर्ति स एव चैको मृत्युनानाप्त आप्तास्त्वितरे ।
तस्यैव च स्थित्युक्रान्तिभ्यां देहधारणपतनहेतुत्वं नेन्द्रियाणाम् ।
विषयालोचनहेतुत्वं चेन्द्रियाणां न प्राणस्येवञ्जातीयको भूयाल्लक्षणभेदः प्राणेन्द्रियाणाम् ।
तस्मादप्येषां तत्त्वान्तरभावसिद्धिः ।
यदुक्तम्- ऽत एतस्यैव सर्वे रूपमभवन्ऽ (बृ. 1.5.21) इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम् ।
तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः ।
तथाहि- वदिष्याम्येवाहमिति वाग्दध्रेऽ (बृ. 1.5.21) इति वागादीनीन्द्रियाण्यनुक्रम्य ऽतानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक्ऽ इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय ऽअथेममेव नाप्नोद्यो ऽयं मध्यमः प्राणःऽ (बृ. 1.5.21) इति पृथक्प्राणं मृत्युनानभिभूतं तमनुक्रामति ।
ऽअयं वै नः श्रेष्ठःऽ (बृ. 1.5.21) इति च श्रेष्ठतामस्यावधारयति ।
तस्मात्तदविरोधेन वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वं तद्रूपभवनं वागादीनामिति मन्तव्यं न तादात्म्यम् ।
अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः ।
तथाच श्रुतिः - ऽत एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणाःऽ (बृ. 1.5.21) इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृत्तिं दर्शयति ।
तस्मात्तत्त्वान्तराणि प्राणादिन्द्रियाणीति

42.19

fन्: मृत्युरासङ्गदोषः ।
वाद्गग्ध्रे धारणाभिप्रायं चक्रे ।
विरुद्धधर्मवत्त्वाच्च भेद इत्याह- वैलक्षण्याच्चेति ।
मृत्युरासङ्गदोषः ।
वाग्दध्रे व्रतं धृतवतीत्यर्थः ।
बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् ।
एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ ऽतस्मादेत एतेनाख्यायन्तऽइति परामृष्टम्, इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम्

42.20

एन्द् ब्स्चोम्_2,4.8.19
स्तर्त् ब्स्चोम्_2,4.9.20
9 संज्ञामूर्तिकॢप्त्यधिकरणम् । सू. 20-22
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात् । ब्ब्स्_2,4.20 ।
सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीतिऽ (छा. 6.3.2) ।
तत्र संशयः - किं जीवकर्तृकमिदं नामरूपव्याकरणमाहोस्वित्परमेश्वरकर्तृकमिति ।
तत्र प्राप्तं तावज्जीवकर्तृकमेवेदं नामरूपव्याकरणमिति ।
कुतः - ऽअनेन जीवेनात्मनाऽ इति विशेषणात् ।
यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानीत्येवञ्जातीयके प्रयोगे चारकर्तृकमेव सत्सैन्यसंकलनं हेतुकर्तृत्वाद्राजात्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण, एवं जीवकर्तृकमेव सन्नामरूपव्याकरणं हेतुकर्तृत्वाद्देवतात्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण ।
अपिच डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम् ।
तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते ऽभिधत्ते-
ऽसंज्ञामूर्तिकॢप्तस्तुऽ इति ।
तुशब्देन पक्षं व्यावर्तयति ।
संज्ञामूर्तिकॢप्तिरिति नामरूपव्याक्रियेत्येतत् ।
त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् ।
येयं संज्ञाकॢप्तिमूर्तिकॢप्तिश्चाग्निरादित्यश्चन्द्रमा विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति चानेकप्रकारा ।
सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति ।
कुतः - उपदेशात् ।
तथाहि- ऽसेयं देवतैक्षतऽ इत्युपक्रम्य ऽव्याकरवाणिऽ इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते ।
ननु जीवेनेति विशेषणाज्जीवकर्तृकत्वं व्याकरणस्याध्यवसितम् ।
नैतदेवम् ।
जीवेनेत्येतदनुप्रविश्येत्यनेन संबध्यत आनन्तर्यात्, न व्याकरवाणीत्यनेन ।
तेन हि संबन्धे व्याकरवाणीत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत ।
नच गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति ।
येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव तत् ।
नच जीवो नाम परमेश्वरादत्यन्तभिन्नश्चार इव राज्ञः, आत्मनेति विशेषणात् ।
उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य ।
तेन, तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति ।
परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः ।
ऽआकाशो ह वै नाम नामरूपयोर्निर्वहिताऽ (छा. 8.14.1) इत्यादिश्रुतिभ्यः ।
तस्मात्परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपयोर्व्याकरणम् ।
त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् ।
तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- ऽयदग्रे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यऽ (छा. 6.4.1) इत्यादिना ।
तत्राग्निरितीदं रूपं व्याक्रियते ।
सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरितीदं नाम व्याक्रियते ।
एवमादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम् ।
अनेन चाग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति ।
उपक्रमोपसंहारयोः साधारणत्वात् ।
तथाह्यविशेषेणैवोपक्रमः - ऽइमास्तिस्रो देवतास्त्रिवृदेकैका भवतिऽ (छा. 6.3.4) इति ।
अविशेषेणैव चोपसंहारः - ऽयदु रोहितमिवाभूदिति तेजसस्तद्रूपम्ऽ इत्येवमादिः ऽयदविज्ञातमिवाभूदित्येतासामेव देवतानां समास इतिऽ (छा. 6.4.6.7) एवमन्तः

42.20

fन्: प्रक्रिया प्रकरणम् ।
तासां तिसृणामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था ।
उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयैन निरस्तः,
संप्रत्युत्पादनश्रुतिविरोधो निरस्यते ।
तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नं, स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह- संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
नामरूपभेदात्करणभिन्नः प्राण इत्युक्तं, तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसंगतिः ।
प्रक्रिया प्रकरणं ।
ईक्षणमेवाह- हन्तेत्यादिना ।
हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति संबन्धः ।
तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था ।
छान्दोग्ये ऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् ।
एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् ।
जीवेनेतिपदस्य व्याकरवाणीत्यनेन संबन्धसंभवासंभवाभ्यां संशयमाह- तत्रेति ।
पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।
जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन संबन्ध इति पूर्वपक्षमाह- तत्र प्राप्तमिति ।
परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह- यथा लोक इति ।
सिद्धान्तयति- तुशब्देनेत्यादिना ।
प्रत्याकृति ।
प्रतिजातीत्यर्थः ।
अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् ।
तथाच पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः ।
न तु जीवेन व्याकरवाणीति ।
ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात् कृत्वाप्रत्ययो न स्यादित्यत आह- नच जीवो नामेति ।
वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशे ऽपीश्वर एव कर्तेति कृत्वाश्रुतिर्युक्तेति बोध्यम् ।
नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह- परमेश्वर इति ।
प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थीलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह- त्रिवृत्करणपूर्वकमिति ।
ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह- तच्चेति ।
इदानीं नामरूपव्याकरणे क्रममाह- तत्राग्निरिति ।
यद्यपि ऽअतः प्रभवात्ऽइत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसंबन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः ।
नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणद्भूजलयोसत्र्यात्मकत्वं न विवक्षितमित्यत आह- अनेन चेति ।
उपक्रमे तासां मध्य इति शेषः ।
यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः

42.21

एन्द् ब्स्चोम्_2,4.9.20
स्तर्त् ब्स्चोम्_2,4.9.21
तासां तिसृणां देवतानां बहिस्त्रिवृत्कृतानां सतीनामध्यात्ममपरं त्रिवृत्करणमुक्तम्- ऽइमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवतिऽ (छा. 6.4.7) इति ।
तदिदानीमाचार्यो यथाश्रुत्येवोपदर्शयत्याशङ्कितं कञ्चिद्दोषं परिहरिष्यन्-
मांसादि भौमं यथाशब्दमितरयोश् च । ब्ब्स्_2,4.21 ।
भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते ।
तथाहि श्रुतिः - ऽअन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं यो ऽणिष्ठस्तन्मनःऽ (छा. 6.5.1) इति ।
त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेणाद्यत इत्यभिप्रायः ।
तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति ।
मध्यममध्यात्मं मांसं वर्धयति ।
अणिष्ठं तु मनः ।
एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् ।
एवं मूत्रं लोहितं प्राणश्चापां कार्यम् ।
अस्थि मज्जा वाक्तेजस इति

42.21

बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं तदन्नुत्तरसूत्रमवतारयति- तासामित्यादिना ।
पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः ।
उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः ।
नन्वन्नमयं मांसादि कथं भौममित्यत आह- त्रिवृत्कृता भूमिरेवेति ।
प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम्

42.22

एन्द् ब्स्चोम्_2,4.9.21
स्तर्त् ब्स्चोम्_2,4.9.22
अत्राह- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेः ऽतास त्रिवृतं त्रिवृतमेकैकामकरोत्ऽ इति ।
किङ्कृतस्तर्ह्ययं विशेषव्यपदेशः ऽइदं तेज इमा आप इदमन्नम्ऽ इति ।
तथा ऽअध्यात्ममिदमन्नस्याशितस्य कार्यं मांसादि ।
इदमपां पीतानां कार्यं लोहितादि ।
इदं तेजसो ऽशितस्य कार्यमस्थ्यादिऽ इति ।
अत्रोच्यते-
वैशेष्यात् तु तद्वादस् तद्वादः । ब्ब्स्_2,4.22 ।
तुशब्देन चोदितं दोषमपनुदति ।
विशेषस्य भावो वैशेष्यम् ।
भूयस्त्वमिति यावत् ।
सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते ऽअग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वम्ऽ इति ।
व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् ।
व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्यां न भेदेन भूतत्रयगोचरो लोकस्य प्रसिद्ध्येत् ।
तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते ।
तद्वादस्तद्वाद इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति

42.22

एवं विषयमुक्त्वा दोषं शङ्कते- अत्राहेति ।
तदुत्तरत्वेन सूत्रं व्याचष्टे- तुशब्देनेति ।
स्वभावाधिक्यं वैशेष्यं किमर्थे कृतमित्यत आह- व्यवहारप्रसिद्ध्यर्थमिति ।
एवं स्मृतिन्यायमतान्तरश्रुतिभिरविरोधो ब्रह्मणि वेदान्ततात्पर्यस्येति सिद्धम्

42.4

एन्द् ब्स्चोम्_2,4.9.22
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः

42.4

इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य चतुर्थः पादः

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc