भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 3

3.1

fन्: अधिकरणमिति- विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्त इत्येकैकमधिकरणं पञ्चावयवं ज्ञेयम् ।
ततश्च ज्ञानजन्यचिकीर्षया यत्नेसति यागादिधर्मो भवति ।
ब्रह्मणो हि निवृत्तावरणत्वेन फलरूपत्वं तज्ज्ञानोपयोगितया चतुर्थिसमास एषितव्यः ऽचतुर्थी तदर्थेऽ इत्यादिनेति केचित् ।
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य संततो भावस्तस्मादात्मेति भण्यते ।
विप्रतिपत्तृपरिगणनम्-शून्यवादो माध्यमिकानां, क्षणिकिज्ञानवादो योगाचाराणां, ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादः सौत्रान्तिकानां, क्षणिकबाह्यार्थवादो वैभाषिकाणां, देहार्थवादश्चार्वाकाणां, देहातिरिक्तदेहपरिणामवादो दिगम्बराणामित्याद्यूह्यम् ।
इह खलु ऽस्वाध्यायो ऽध्येतव्यःऽइति नित्याध्ययनविधिनाधीतसाङ्गस्वाध्याये ऽतद्विजिज्ञासस्वऽ,ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ, ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यःऽइतिश्रवणविधिरुपलभ्यते ।
तस्यार्थः--अमृतत्वकामेनाद्वैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति ।
तेन काम्येन नियमविधिनार्थाद्भिन्नात्मशास्त्रप्रवर्तिः, वैदिकानां पुराणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः ।
तत्र कश्चिदिह जन्मनि जन्मान्तरे वानुष्टितयज्ञादिभिर्नितान्तविमलस्वान्तो ऽस्य श्रवणविधेः को विषयः, किं फलं, को ऽधिकारी, कः संबन्ध इति जिज्ञासते ।
तं जिज्ञासुमुपलभमानो भगवान्बादरायणस्तदनुबन्धचतुष्टयं श्रवणात्मकशास्त्रारम्भप्रयोजकं न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ऽअथातो ब्रह्मजिज्ञासाऽइति ॥
नन्वनुबन्धजातं विधिसंनिहितार्थवादवाक्यैरेव ज्ञातुं शक्यम् ।
तथाहि-ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽइति श्रुत्या ऽयत्कृतकं तदनित्यंऽइति न्यायवत्या ऽन जायते मृयते वा विपश्चित्ऽऽयो वै भूमा तदमृतमतो ऽन्यदार्तम्ऽइत्यादि श्रुत्या च भूमात्मा नित्यस्ततो ऽन्यदनित्यमज्ञानस्वरूपमिति विवेको लभ्यते ।
कर्मणा कृष्यादिना चितः संपादितः सस्यादिलोकः-भोग्य इत्यर्थः ।
विपश्चिन्नित्यज्ञानस्वरूपः ।
ऽपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनऽऽआत्मनस्तु कामाय सर्वं प्रियं भवतिऽइत्यादिश्रुत्यानात्ममात्रे देहेन्द्रियादिसकलपदार्थजाते वैराग्यं लभ्यते ।
परीक्ष्यानित्यत्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नुयादित्यर्थः ।
ऽशान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्ऽइति श्रुत्या शमादिषट्कं लभ्यते ।
ऽसमाहितो भूत्वा इति काण्वपाठः ।
उपरतिः संन्यासः ।
ऽन स पुनरावर्ततेऽइति स्वयञ्ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते ।
तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं शक्यम् ।
यथा ऽय एता रात्रीरुपयन्तिऽइति रात्रिसत्रविधौ ऽप्रतितिष्ठन्तिऽइत्यर्थवादस्थप्रतिष्ठाकामस्तद्वत् ।
तथा ऽश्रोतव्यःऽइत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम्, ऽआत्मा द्रष्टव्यःऽइत्यद्वैतात्मदर्शनमुद्दिश्य ऽश्रोतव्यःऽइति विचारविधानात् ।
न हि विचारः साक्षाद्दर्शनहेतुः, अप्रमाणत्वात्, अपि तु प्रमाणविषयत्वेन ।
प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ऽतं त्वौपनिषतं पुरुषंऽ, ऽवेदान्तविज्ञानसुनिश्चितार्थाःऽइति श्रुतेः ।
वेदान्तानां च प्रत्यग्ब्रह्मैक्यं विषयः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽइति श्रुतेः ।
एवं विचारविधेः फलमपि ज्ञानद्वारामुक्तिः, ऽतरति शोकमात्मवित्ऽ,ब्रह्मविद्ब्रह्मैव भवतिऽइत्यादिश्रुतेः ।
तथा संबन्धो ऽप्यधिकारिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोग्यं सुबोधः ।
तस्मादिदं सूत्रं व्यर्थमिति चेत् ।
न ।
तासामधिकार्यादिश्रुतीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषणवानधिकारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गादिवल्लोकान्तरं, आत्मस्वरूपा वेति संशयनिवृत्तेः ।
तस्मादागमवाक्यैरापाततः प्रतिपन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम् ।
तदुक्तं प्रकाशात्मश्रीचरणैः--ऽअधिकार्यादीनामागमिकत्वेपि न्यायेन निर्णयार्थमिदं सूत्रंऽइति ।
येषां मते श्रवणे विधिर्नास्ति तेषामविहितश्रवणे ऽधिकार्यादिनिर्णयानपेक्षणात्सूत्रं व्यर्थमित्यापततीत्यलं प्रसङ्गेन ॥
तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभिः स्वार्थनिर्णयायोत्थापितत्वाद्धेतुहेतुमद्भावः श्रुतिसंगतिः, शास्त्रारम्भहेत्वनुबन्धनिर्णायकत्वेनोपोद्धातत्वाच्छास्त्रादौ संगतिः, अधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेः समन्वयाध्यायसंगतिः, ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽइत्यादिश्रुतीनां सर्वात्मत्वादिस्पष्टब्रह्मलिड्गानां विषयादौ समन्वयोक्तेः पादसंगतिः, एवं सर्वसूत्राणां श्रुत्यर्थनिर्णायकत्वाच्छ्रुतिसंगतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन संगतिरूहनीया ।
प्रमेयं च कृत्स्नशास्त्रस्य ब्रह्म ।
अध्यायानां तु समन्वयविरोधसाधनफलानि ।
तत्र प्रथमपादस्य स्पष्टब्रह्मलिड्गानां श्रुतीनां समन्वयः प्रमेयः ।
द्वितीयतृतीययोरस्पष्टब्रह्मलिड्गानाम् ।
चतुर्थपादस्य पदमात्रसमन्वय इति भेदः ।
अस्याधिकरणस्य प्रातम्यान्नाधिकरणसंगतिरपेक्षिता ॥
अथाधिकरणमारच्यते-ऽश्रोतव्यःऽइति विहितश्रवणात्मकं वेदान्तमीमांसाशास्त्रं विषयः ।
तत्किमारब्धव्यं न वेति विषयप्रयोजनसंभवासंभवाभ्यां संशयः ।
तत्र नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्मवत्त्वलिड्गकानुमानेन च विरोधेन ब्रह्मात्मनोरैक्यस्य विषयस्यासंभवात्, सत्यबन्धस्य ज्ञानान्निवृत्तिरूपफलासंभवान्नारम्भणीयमिति प्राप्ते सिद्धान्तः ऽअथातो ब्रह्मजिज्ञासाऽइति ।
अत्र श्रवणविधिसमानार्थत्वाय ऽकर्तव्याऽइति पदमध्याहर्तव्यम् ।
अध्याहृतं च भाष्यकृता ऽब्रह्मजिज्ञासा कर्तव्याऽइति ।
तत्र प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात्प्रकृत्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते ।
प्रत्ययेनेच्छासाध्यो विचारो जहल्लक्षणया ।
तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोर्ऽथः संपद्यते ।
तत्र ज्ञानस्य स्वतः फलत्वायोगात्प्रमातृत्वकर्तृत्वभोक्तृत्वात्मकानर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम् ।
तत्रानर्थस्य सत्यत्वे ज्ञानमात्रान्निवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्धस्याध्यस्तत्वमर्थात्सूचितम् ।
तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसिद्धिहेतुः ।
तथा हि शास्त्रमारब्धव्यं, विषयप्रयोजनवत्त्वात्, भोजनादिवत् ।
शास्त्रं प्रयोजनवत्, बन्धनिवर्तकज्ञानहेतुत्वात्, रज्जुरियमित्यादिवाक्यवत् ।
बन्धोज्ञाननिवर्त्यो ऽध्यस्तत्वात्, रज्जुसर्पवत् ।
इति प्रयोजनसिद्धिः ।

एवमर्थाब्रह्मज्ञानाज्जीवगतानर्थभ्रमनिवृत्तिं फलं सूत्रयज्जीवब्रह्मणोरैक्यं विषयमप्यर्थात्सूचयति, अन्यज्ञानादन्यत्र भ्रमानिवृत्तेः ।
जीवो ब्रह्माभिन्नः, तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात् ।
यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विषयसिद्धिहेतुरध्यासः ।
इत्येवं विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति ।
अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम् ।
सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः ।
इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रेण विचारकर्तव्यतारूपश्रौतार्थान्यथानुपपत्यार्थात्सूत्रितं विषयप्रयोजनवत्वमुपोद्धातत्वात्तत्सिद्धिहेत्वध्यासाक्षेपसमाधानभाष्याभ्यां प्रथमं वर्णयति- युष्मदस्मत्प्रत्ययगोचरयोरिति ।
एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम्, आर्थिकार्थस्पर्शित्वात् ॥
यत्तु मड्गलाचरणाभावादव्याख्येयमिदं भाष्यमिति तन्न ।
ऽसुतरामितरेतरभावानुपपत्तिःऽइत्यन्तभाष्यरचनार्थं तदर्थस्य सर्वोपप्लवरहितस्य विज्ञानघनप्रत्यगर्थस्य तत्त्वस्य स्मृतत्वात् ।
अतो निर्देषत्वादिदं भाष्यं व्याख्येयम् ॥
लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रजतमित्यधिष्ठानसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इत्यत्राप्यात्मान्यनात्माहङ्काराध्यासे पूर्वप्रमा वाच्या, सा चात्मनात्मनोर्वास्तवैक्यमपेक्षते, न हि तदस्ति ।
तथा हि--आत्मानात्मनावैक्यशून्यौ, परस्परैक्यायोग्यत्वात्, तमप्रकाशवत् ।
इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति- युष्मदस्मत्प्रत्ययगोचरयोरिति ।
न च ऽप्रत्ययोत्तरपदयोश्चऽइति सूत्रेण ऽप्रत्ययेचोत्तरपदे च परतो युष्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ स्तःऽइति विधानात्, त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ऽत्वन्मत्प्रत्ययगोचरयोःऽइति स्यादिति वाच्यम् ।
ऽत्वमावेकवचनेऽइत्येकवचनाधिकारात् ।
अत्र च युष्मदस्मदोरेकार्थवाचित्वाभावादानात्मनां युष्मदर्थानां बहुत्वादस्मदर्थचैतन्यस्याप्युपाधितो बहुत्वात् ॥
नन्वेवं सति कथमत्र भाष्ये विग्रहः ।
न च यूयमिति प्रत्ययो युष्मत्प्रत्ययः, वयमिति प्रत्ययोस्मत्प्रत्यस्तद्गोचरयोरिति विग्रह इति वाच्यम्, शब्दसाधुत्वे ऽप्यर्थासाधुत्वात् ।
न ह्यहङ्काराद्यनात्मनो यूयमिति प्रत्ययविपयत्वमस्तीति चेत् न ।
गोचरपदस्य योग्यतापरत्वात् ।
चिदात्मा तावदस्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वात्, ऽन तावदयमेकान्तेनाविपयः, अस्मत्प्रत्ययविषयत्वात्ऽइति भाष्योक्तेश्च ।
यद्यप्यहङ्कारादिरपि तद्योग्यस्तथापि चिदात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं युष्मत्प्रत्यययोग्य इत्युच्यते ॥ ॥
आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहुः-ऽसंबोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनो ऽस्मत्पदवाच्यः, तथा च युष्मजस्मदोः स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो न लाक्षणिकयोः, ऽयुष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौऽइति सूत्रासांगत्यप्रसड्गात् ।
अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्षकयोरपि न त्वमादेशो लक्षकत्वाविशेषात् इति ।
यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्मच्छब्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्मच्छब्दजन्यप्रत्यययोग्यः प्रत्यगात्मा ।
तथा च लक्ष्यतावच्छेदकतया शब्दो ऽपि बोध्यत इति न त्वमादेशः ।
न च पराक्त्वप्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वं, न शब्दयोग्यत्वांशस्य, गौरवादिति वाच्यम् ।
पराक्प्रतीचोर्विरोधस्फुरणार्थं विरुद्धशब्दयोग्यत्वस्यापि वक्तव्यत्वात् ।
अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये ऽपीदंशब्दो ऽस्मदर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयोगदर्शनान्नास्मच्छब्दविरोधीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः ।
एतेन चेतनवाचित्वादस्मच्छब्दः पूर्वं प्रयोक्तव्यः ऽअभ्यर्हितं पूर्वऽइति न्यायात्, ऽत्यदादीनि सर्वौर्नित्यम्ऽइति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् ।
ऽयुष्मदस्मदोःऽइति सूत्र इवात्रापि पूर्वनिपातैकशेषयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्च ।
वृद्धास्तु ऽयुष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणंऽइत्याहुः ।
तत्र युष्मदस्मत्पदाभ्यां पराक्प्रत्यक्त्वेनात्मानात्मनोर्वस्तुतो विरोध उक्तः ।
प्रत्ययपदेन प्रतीतितो विरोध उक्तः ।
प्रतीयत इति प्रत्ययो ऽहङ्कारादिरनात्मा दृश्यतया भाति ।
आत्मा तु प्रतीतित्वात्प्रत्ययः स्वप्रकाशतया भाति ।
गोचरपदेन व्यवहारतो विरोध उक्तः ।
युष्मदर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादिव्यवहारगोचरः, अस्मदर्थस्त्वनात्मप्रविलापेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः ।
युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ, तयोस्त्रिधा विरुद्धस्वभावायोरितरेभावो ऽत्यन्ताभेदस्तादात्म्यं वा तदनुपपत्तौ सिद्धायामित्यन्वयः ।
ऐक्यासंभवे ऽपि शुक्लो घट इतिवत्तादात्मयं किं न स्यादित्यत आह- विषयविषयिणोरिति ।
चिज्जडयोर्विषयविषयित्वाद्दीपघटयोरिव न तादात्म्यमिति भावः ।
युष्मदस्मदी पराप्रत्यग्वस्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः ।
अत्र प्रत्ययगोचरपदाभ्यामात्मनात्मनोः प्रत्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह- विषयविषयिणोरिति ।
अनात्मनो ग्राह्यत्वादचित्वं, आत्मनस्तु ग्राहकत्वाच्चित्वं वाच्यम् ।
अचित्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासंभवादप्रत्यक्षत्वापत्तेरित्यर्थः ।
यथेष्टं वा हेतुहेतुमद्भावः ।
नन्वेवमात्मानात्मनोः पराक्प्रत्यक्त्वेन, चिदचित्त्वेन ग्राह्यग्राहकत्वेन च विरोधात्तमःप्रकाशवदैक्यस्य तादात्म्यस्य वानुपपत्तौ सत्यां, तत्प्रमित्यभावेनाध्यासाभावे ऽपि तद्धर्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनध्यासो ऽस्त्वित्यत आह-- तद्धार्माणामपीति ।
तयोरात्मानात्मनोर्धर्मास्तद्धर्मास्तेषामपीतरेतरभावानुपपत्तिः ।
इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संसर्गस्तस्यानुपपत्तिरितित्यर्थः ।
न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति ।
स्फटिके लोहित वस्तु सांनिध्याल्लौहित्यधर्मसंसर्गः ।
असङ्गात्मधर्मिणः केनाप्यसंसर्गाद्धर्मिसंसर्गपूर्वको धर्मसंसर्गः कुतस्त्य इत्यभिप्रेयोक्तम्- सुतरामिति ।
नन्वात्मानात्मनोस्तादात्म्यस्य तद्धर्मसंसर्गस्य चाभावे ऽप्यध्यासः किं न स्यादित्यत आह--इत्यत इति ।
इत्युक्तरीत्या तादात्म्याद्यभावेन तत्प्रमाया अभावादतः प्रमाजन्यसंस्कारस्याध्यासहेतोरभावात् ऽअध्यासो मिथ्येति भवितुं युक्तंऽइत्यन्वयः ।

मिथ्याशब्दो ह्यर्थः अपह्नववचनः, अनिर्वचनीयतावचनश्चेति ।
अत्र चापह्नवार्थः ।
ननु कुत्र कस्याध्यासो ऽपह्नूयत इत्याशङ्क्य, आत्मन्यनात्मतद्धर्माणामनात्मन्यात्मतद्धर्माणामध्यासो निरस्यत इत्याह-- अस्मत्प्रत्ययगोचर इत्यादिना ।
अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति- -विषयणीति ।
बुद्ध्यादिसाक्षिणीत्यर्थः ।
साक्षित्वे हेतुः-- चिदात्मक इति ।
अहमिति भासमाने चिदंशात्मनीत्यर्थः ।
युष्मत्प्रत्ययगोचरस्येति ।
त्वङ्कारयोग्यस्य ।
इदमर्थस्येतियावत् ।
नन्वहमिति भासमानबुद्ध्यादेः कथमिदमर्थत्वमित्यत आह-- विषयस्येति ।
साक्षिभास्यस्येत्यर्थः ।
साक्षिभास्यत्वरूपलक्षणयोगाद्बुद्ध्यादेर्घटादिवदिदमर्थत्वं न प्रतिभासत इति भावः ।
अथवा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यक्त्वं प्रतीतत्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्त्वं तदसिद्धं, अहमिति प्रतीयमानत्वात्, अहङ्कारवदित्याशङ्क्याह-- अस्मत्प्रत्ययगोचर इति ।
अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मिन्नित्यर्थः ।
अहंवृत्तिव्यङ्यस्फुरणत्वं स्फुरणविषयत्वं वा हेतुः ।
आद्ये दृष्टान्ते हेत्वसिद्धिः ।
द्वितीये तु पक्षे तदसिद्धिरित्यात्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः ।
ननु यदात्मनो विषयत्वं तदसिद्धं, अनुभवामीति शब्दवत्वात्, अहङ्कारवदित्यत आह-- विषयणीति ।
वाच्यत्वं लक्ष्यत्वं वा हेतुः ।
नाद्यः, पक्षे तदसिद्धेः ।
नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः ।
देहं जानामीति देहाहङ्कारयोर्विषयविषयित्वे ऽपि मनुष्यो ऽहमित्यभेदाध्यासवदात्माहङ्कारायोरप्यभेदाध्यासः स्यादित्यत आह-- चिदात्मक इति ।
तयोर्जाड्याल्पत्वाभ्यां सादृश्यादध्यासे ऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाहङ्कारादेर्नाध्यास इति भावः ।
अहमिति भास्यत्वादात्मवदहङ्कारस्यापि प्रत्यक्त्वादितं मुख्यमेव, ततः पूर्वोक्त्वपराक्त्वाद्यसिद्धिरित्याशङ्क्याह-- युष्मदिति ।
अहंवृत्तिभास्यत्वमहङ्कारे नास्ति कर्तृकर्मत्वविरोधात्, चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः ।
अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वे ऽपि पराक्त्वादिकं मुख्यमेवेति भावः ।
युष्मत्पराक्तच्चासौ प्रतियत इति प्रत्ययश्चासौ कर्तृत्वादिव्यवहारगोचरश्च तस्येति विग्रहः ।
तस्य हेयत्वार्थमाह-- विषस्येति ।
पिञ् बन्धने ।
विसिनोति बध्नाति इति विषयस्तस्येत्यर्थः ।
आत्मन्यनात्मतद्धर्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्धर्माध्यासः किं न स्यात्, अहं स्फुरामि सुखीत्याद्यनुभवादित्याशङ्क्याह-- तद्विपर्ययेणेति ।
तस्मादनात्मनो विपर्ययो विरुद्धस्वभावश्चैतन्यम् ।
इत्थंभावे तृतीया ।
चैतन्यात्मना विषयिणस्तद्धर्माणां च यो ऽहङ्कारादौ विषये ऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम्, अध्याससामग्र्यभावात् ।
न ह्यत्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वास्ति ।
निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य चाज्ञानस्य चायोगात् ॥
नन्वात्मनोनिर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत्, उच्यते--बुद्धिवृत्त्यभिव्यक्तं चैतन्यं ज्ञानं, विषयाभेदेनाभिव्यक्तं स्फुरणम्, शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्त्युपाधिकृतभेदात् ज्ञानादीनामात्मधर्मत्वव्यपदेशः ।
तदुक्तं टीकायां-ऽआनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वे ऽपि चैतन्यत्वात् पृथगिवावभासन्तेऽइति ।
अतो निर्गुणब्रह्मात्मत्वमते, अहं करोमीति प्रतीतेरर्थस्य चाध्यासत्वायोगात्प्रमात्वं सत्यत्वं च अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति मतमास्थेयम् ।
तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासंभवाद्बद्धमुक्तयोर्जीवब्रह्मणोरैक्यायोगेन विषयासंभवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्यतात्पर्यम् ।
युक्तग्रहणात् पूर्वपक्षस्य दुर्बलत्वं सूचयति ।
तथाहि--किमध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वा कारणाभावाद्वा?आद्य इष्ट इत्याह- -तथापीति ।
एतदनुरोधादादौ यद्यपीति पठितव्यम् ।
अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्कार इति भावः ।
न द्वितीय इत्याह-- अयमिति ।
अज्ञः कर्ता मनुष्यो ऽहमिति प्रत्यक्षानुभवादध्यासस्याभानमसिद्धमित्यर्थः ।
न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् ।
अपौरुषेयतया निर्देषेण, उपक्रमादिलिङ्गावधृततात्पर्येण च तत्वमस्यादिवाक्येनाकर्तृत्वब्रह्मत्वबोधनेनास्य भ्रमत्वनिश्चयात् ।
न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यैव बाध इति वाच्यं, देहात्मवादप्रसङ्गात्, मनुष्यो ऽहमिति प्रत्यक्षविरोधेन ऽअथायमशरीरःऽइत्यादिश्रुत्या देहादन्यात्मासिद्धेः ।
तस्मादिदं रजतमितिवत्सामानाधिकरण्यप्रत्यक्षस्य भ्रमत्वशङ्काकलङ्कितस्य नागमात्प्राबल्यमित्यास्थेयम् ।
किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्युपजीव्यत्वं वा?आद्ये न प्राबल्यम्, ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् ।
न द्वितीयः आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्धव्यवहारे संगतिग्रहद्वारा, शब्दोपलब्धिद्वारा च प्रत्यक्षादेर्व्यावहारिकप्रामाण्यस्योपजीव्यत्वे ऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वात्, अनपेक्षितांशस्यागमेन बाधासंभवादिति ।
यत्तु क्षणिकयागस्य श्रुतिबलात्कालान्तरभाविफलहेतुत्ववत् ऽतथा विद्वान्नामरूपाद्विमुक्तःऽइति श्रुतिबलात्सत्यस्यापि ज्ञानान्निवृत्तिसंभवादध्यासवर्णनं व्यर्थमिति, तन्न ।
ज्ञानमात्रनिवर्त्यस्य क्वापि सत्यत्वादर्शनात्, सत्यस्य चात्मनो निवृत्यदर्शनाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोधकत्वायोगात् ।
न च सेतुदर्शनात्सत्यस्य पापस्य नाशर्शनान्नायोग्यतानिश्चया इति वाच्यं, तस्य श्रिद्धानियमादिसापेक्षज्ञाननाश्यत्वात् ।
बन्धस्य च ऽनान्यः पन्थाऽइति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः, अतः श्रुतज्ञाननिवर्त्यत्वनिर्वाहार्थमध्यस्तत्वं वर्णनियम् ।
किं च ज्ञानैकनिवर्त्यस्य किं नाम सत्यत्वम्, न तावदज्ञानाजन्यत्वम् ।
ऽमायां तु प्रकृतिम्ऽइति श्रुति विरोधान्मायाविद्ययोरैक्यात् ।
नापि स्वाधिष्ठाने स्वाभावशून्यत्वं ऽअस्थूलम्ऽइत्यादिनिषेधश्रुतिविरोधात् ।
नापि ब्रह्मवद्बाधायोग्यत्वं, ज्ञानान्निवृत्तिश्रुतिविरोधात् ।
अथ व्यवहारकाले बाधशून्यत्वम्, तर्हि व्यवहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम् ।
तच्च श्रुत्यर्थे योग्यता ज्ञानार्थं वर्णनीयमेव, यागस्यापूर्वद्वारत्ववत् ।
न च तदन्यत्वाधिकरणे तस्य वर्णनात्पौनरुक्त्यम्, तत्रोक्ताध्यासस्यैव प्रवृत्त्यङ्गविषयादिसिद्ध्यर्थमादौ स्मार्यमाणत्वादिति दिक् ॥
अध्यासं द्वेधा दर्शयति -- लोकव्यवहार इति ।
लोक्यते मनुष्यो ऽहमित्यभिमन्यत इति लोकोर्ऽथाध्यासः, तद्विषयो व्यवहारो ऽभिमान इति ज्ञानाध्यासो दर्शितः ।
द्विविधाध्यासस्वरूपलक्षणमाह-- अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन ।

जाड्यचैतन्यादिधर्माणां धर्मिणावहङ्कारात्मानौ, तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्योन्यस्मिन् अन्योन्यतादात्म्यं अन्योन्यधर्मांश्च व्यत्यासेनाध्यस्य लोकव्यवहार इति योजना ।
अतः सो ऽयमिति प्रमाया नाध्यासत्वम्, तदिदमर्थयोः कालभेदेन कल्पितभेदे ऽप्यत्यन्तभेदाभावादिति वक्तुमत्यन्तेत्युक्तम् ।
न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धेः ऽधर्मांश्चऽइति व्यर्थमिति वाच्यम्, अन्धत्वादीनामिन्द्रियधर्माणां धर्म्यध्यासास्फुटत्वे ऽप्यन्धो ऽहमिति स्फुटो ऽध्यास इति ज्ञापनार्थत्वात् ।
नन्वात्मानात्मनोः परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्क्याह-- सत्यानृते मिथुनीकृत्येति ।
सत्यमनिदं चैतन्यं तस्यानात्मनि संसर्गमात्राध्यासो न स्वरूपस्य ।
अनृतंयुष्मदर्थः तस्य स्वरूपतो ऽप्यध्यासात्तयोर्मिथुनीकरणमध्यास इति न शून्यतेत्यर्थः ॥
नन्वध्यासमिथुनीकरणलोकव्यवहारशब्दानामेकार्थत्वे ऽध्यस्य मिधुनीकृत्येति पूर्वकालत्ववाचिक्त्वाप्रत्ययादेशस्य ल्यपः कथं प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात् ।
तत्र पूर्वपूर्वाध्यासस्योत्तरोत्तराध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतुत्वद्योतनार्थं ल्यपः प्रयोगः ।
तदेव स्पष्टयति-- नैसर्गिक इति ।
प्रत्यगात्मनि हेतुहेतुमद्भावेनाध्यासप्रवाहो ऽनादिरित्यर्थः ।
ननु प्रवाहस्यावस्तुत्वात्, अध्यासव्यक्तीनां सादित्वात्, कथमनादित्वमिति चेत् ।
उच्यते--अध्यासत्वावच्छिन्नव्यक्तीनां मध्ये ऽन्यतमया व्यक्त्या विनानादिकालस्यावर्तनं कार्यानादित्वमित्यङ्गीकारात् ।
एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात् ।
न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम्, लाघवेन पूर्वानुभवजन्यसंस्कारस्य हेतुत्वात् ।
अतः पूर्वाध्यासजन्यः संस्कारो ऽस्तीति सिद्धम् ।
अध्यासस्योपादानमाह-- मिथ्याज्ञाननिमित्त इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तः ।
तदुपादानक इत्यर्थः ।
अज्ञानस्योपादानत्वे ऽपि संस्फुरदात्मतत्वावरकतया दोषत्वेनाहङ्काराध्यासकर्तुरीश्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपरिणामित्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् ।
स्वप्रकाशात्मन्यसङ्गे कथमविद्यासङ्गः, संस्कारादिसामग्र्यभावात्, इति शङ्कानिरासार्थं मिथ्यापदम् ।
प्रचण्डमार्तण्डमण्डले पेचकानुभवसिद्धान्धकारवत्, अहमज्ञ इत्यनुभसिद्धमज्ञानं दुरपह्नवम, कल्पितस्याधिष्ठानास्पर्शित्वात्, नित्यस्वरूपज्ञानस्याविरोधित्वाच्चेति ।
यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् ।
मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम् ।
ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् ।
अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धे ऽतिव्याप्तिनिरासाय साक्षादिति ।
अनाद्युपादानत्वे सति मिथ्यात्वं वा लक्षणम् ।
ब्रह्मनिरासार्थं मिथ्यात्वमिति ।
मृदादिनिरासार्थमनादीति ।
अविद्यात्मनोः संबन्धनिरासार्थमुपादानत्वे सतीति ।
संप्रति अध्यासं द्रढयितुमभिलपति-- आहमिदं ममेदमिति ।
आध्यात्मिककार्याध्यासेष्वहमिति प्रथमो ऽध्यासः ।
न चाधिष्ठानारोप्यांशद्वयानुपलम्भात् नायसध्यास इति वाच्यम्, अयो दहतीतिवदहमुपलभ इति दृग्दृश्यांशयोरुपलम्भात् ।
इदं पदेन भोग्यः संघात उच्यते ।
अत्राहमिदमित्यनेन मनुप्यो ऽहमिति तादात्म्याध्यासो दर्शितः ।
ममेदं शरीरमिति संसर्गाध्यासः ॥
ननु देहात्मनोस्तादात्म्यमेव संसर्ग इति तयोः को भेद इति चेत् ।
सत्यम् ।
सत्तैक्ये सति मिथो भेदस्तादात्म्यम् ।
तत्र मनुष्यो ऽहमित्यैक्यांशभानं ममेदमिति भेदांशरूपसंसर्गभानमिति भेदः ।
एवं सामग्रीसत्त्वादनुभवसत्त्वादध्यासो ऽस्तीत्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वात् शास्त्रमारम्भणीयमिति सिद्धान्तभाष्यतात्पर्यम् ।
एवञ्च सूत्रेणार्थात्सूचिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्षणसंभावनाप्रमाणैः साधयितुं लक्षणं पृच्छति-- आहेति ।
किंलक्षणको ऽध्यास इत्याह ।
पूर्ववादीत्यर्थः ।
अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थं आहेति परोक्तिः ।
ऽआहऽइत्यादि ऽकथं पुनःप्रत्यगात्मनिऽइत्यतः प्रागध्यासलक्षणपरं भाष्यम् ।
तदारभ्य संभावनापरम् ।
ऽतमेतमविद्याख्यम्ऽइत्यारभ्य ऽसर्वलोकप्रत्यक्षःऽइत्यन्तं प्रमाणपरमिति विभागः ।
लक्षणमाह-- उच्यते-स्मृतिरूप इति ।
अध्यास इत्यनुषङ्गः ।
अत्र परत्रावभास इत्येव लक्षणम्, शिष्टं पदद्वयं तदुपपादनार्थम् ।
तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्यायोग्यमधिकरणं परत्रपदार्थः ।
अधिकरणस्यायोग्यत्वं आरोप्यात्यन्ताभावत्वं तद्वत्वं वा ।
तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वमध्यस्तत्वमित्यर्थः ।
इदं च साद्यनाद्यध्याससाधारणं लक्षणम् ।
संयोगे ऽतिव्याप्तिनिरासायैकावच्छेदेनेति ।
संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वे ऽपि स्वात्यन्ताभावयोर्मूलाग्रावच्छेदकभेदान्नातिव्याप्तिः ।
पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटे ऽतिव्याप्तिनिरासाय स्वसंसृज्यमान इति पदम्, तेन स्वाभावकाले प्रतियोगिसंसर्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः ।
भूत्वावच्छेदेनावभास्यगन्धे ऽतिव्याप्तिवारणाय स्वात्यन्ताभाववतीति पदम् ।
शुक्ताविदन्त्वावच्छेदेन रजतसंसर्गकाले ऽत्यन्ताभावो ऽस्तीति नाव्याप्तिः ।
नन्वस्य लक्षणस्यासंभवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् ।
न च स्मर्यमाणसत्यरजतस्यैव परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम्, अन्यथाख्यातिप्रसङ्गादित्यत आह -स्मृतिरूप इति ।
स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः ।
स्मर्यमाणसदृश इत्यर्थः ।
सादृशोक्त्या स्मर्यमाणादारोप्यस्य भेदात्, नान्यथाख्यातिरित्युक्तं भवति ।
सादृशमुपपादयति- पूर्वदृष्टेति ।
दृष्टं दर्शनं, संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृषटावभासः ।
तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् ।
न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम्, दोषसंप्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् ।
अत्र संयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसंप्रयोगालाभात् ।
एवं च दोषसंप्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुतपन्नमस्तीति परत्रावभास्यत्वलक्षममुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादिम् ।
अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः ।
अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृस्यं च प्रमामाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् ।

पूर्वदृष्टपदतज्जातीयपरं, अभिनवरजतादेहे पूर्वदृष्टत्वाभावात् ।
तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् ।
परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव ।
तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः ।
तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना ।
ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभास इति वाक्यं योजनीयमिति संक्षेपः ।
ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादे ऽपि परत्र परावभास इति लक्षणे संवाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह- तं केचिदिति ।
केचिदन्यथाख्यातिवादिनो ऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थरूप्यादेरध्यास इति वदन्ति ।
आत्मख्यातिवादिनस्तु बाह्यशुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।
अख्यातिमतमाह- केचिदिति ।
यत्र यस्याध्यासो लोकसिद्धस्तयोरर्थयोस्तद्धियोश्च भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः ।
तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात्, परत्र परावभाससंमतिरिति भावः ।
शून्यमतमाह- अन्ये त्विति ।
तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः ।
एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह -सर्वथापि त्विति ।
अन्यथाख्यातित्वादिप्रकारविवादे ऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः ।
शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात् शून्यत्वे प्रत्यक्षत्वायोगात्, शुक्तौ सत्ते बाधायोगात् मिथ्यात्वमेवेति भावः ।
आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह- तथा चेति ।
बाधानन्तरकालीनो ऽयमनुभवः, तत्पूर्वं ।
शुक्तिकात्वज्ञानायोगात्, रजतस्य बाधाप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।
आत्मनि निरूपाधिके ऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवावान्तरभेदस्याविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह- एक इति ।
द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः ।
लक्षणप्रकरणोपसंहारार्थ इति शब्दः ।
भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न संभवतीत्याक्षिपति- कथं पुनरिति ।
यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा ।
तत्र व्यापकाभावादात्मनो ऽधिष्ठानत्वं न संभवतीत्यभिप्रेत्याह- प्रत्यगात्मनीति ।
प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः ।
उक्तव्याप्तिमाह- सर्वो हीति ।
पुरोवस्थितत्वमिन्द्रियसंयुक्तत्वम् ।
नन्यात्मनो ऽप्यधिष्ठानत्वार्थं विषयत्वादिकमस्त्वित्यत आह- युष्मदिति ।
इदंप्रत्ययानर्हस्य प्रत्यगात्मनो ऽन चक्षुषा गृह्यतेऽइत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि ।
संप्रत्यासलोभेन विषयत्वाङ्गीकारे श्रुतिसिद्धान्तयोर्बाधः स्यादित्यर्थः ।
आत्मन्यध्याससंभावनां प्रतिजानीते- उच्यत इति ।
अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्वमात्रमध्यासव्यापकं, तच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वं, तदेव भानभिन्नत्वघटितं विषयत्वं, तन्न व्यापकं, गौरवादिति मत्वाह- न तावदिति ।
अयमात्मा नियमेनाविषयो न भवति ।
तत्र हेतुमाह- अस्मदिति ।
अस्मप्रत्ययो ऽहमित्यध्यासस्तत्र भासमानत्वादित्यर्थः ।
अस्मदर्थचिदात्मा प्रतिबिम्बितत्येन यत्र प्रतीयते सो ऽस्मत्प्रत्ययो ऽहङ्कारस्तत्र भासमानत्वादिति वार्थः ।
न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम्, अनादित्वात्, पूर्वाभ्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वसंभवात् ॥
नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भानमानत्वं कथं, तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह- अपरोक्षत्वाच्चेति ।
चशब्दः शङ्कानिरासार्थः ।
स्वप्रकाशत्वादित्यर्थः ।
स्वप्रकाशत्वं साधयति- प्रत्यगिति ।
आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिध्देः स्वप्रकाशत्वमित्यर्थः ।
अतः स्वप्रकाशत्वेन भासमानत्वादात्मनो ऽध्यासाधिष्ठानत्वं संभवतीति भावः ।
यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह- न चायमिति ।
तत्र हेतुमाह- अप्रत्यक्षे ऽपीति ।
इन्द्रियग्राह्ये ऽपीत्यर्थः ।
बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पितमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः ।
एतेनात्मानामानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम्, नीलनभसोस्तदभावे ऽप्यध्यासदर्शनात् ।
सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभसि इति ज्ञेयम् ।
संभावनां निगमयति- एवमिति ।
ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह- तमेतमिति ।
आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः ।
विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह- तद्विवेकेनेति ।
अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः ।
तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह- तत्रेति ।
तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः ।
मूलाविद्ययाः सषुप्तावनर्थत्वादर्शनात् कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः ।
अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः ।
एवमध्यासस्य लक्षणसंभावने उक्त्वा प्रमाणमाह- तमेतमिति ।
तं वर्णितमेवं साक्षिप्रत्यक्षसिध्यं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः ।
तत्रविधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्यपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः ।
एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धे ऽपि प्रमाणान्तरं पृच्छति-- कथं पुनरिति ।
अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः ।
तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात् प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केनप्रमाणेनाविद्यावद्विषयत्वमिति योजना ।
यद्वाविद्वावतद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः ।
तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिं, तल्लिङ्गानुमानं चाह- उच्यते इत्यादिना तस्मात् इत्यन्तेन ।

देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः तदन्वयव्यतिरेकानुसारित्वात् यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः ।
तत्र व्यतिरेकं दर्शयति- देहेति ।
देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, चाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः ।
अनेन लिङ्गेन कारणतयाध्यासः सिध्यति व्यवहाररूपकार्यानुपपत्या वेति भावः ।
ननु मनुष्यत्वादिजातिमति देहे ऽहमित्याभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह- नहीति ।
इन्द्रियपदं लिङ्गादेरप्युपलक्षणं, प्रत्यक्षादीत्यादिपदप्रयोगात् ।
तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न संभवतीत्यर्थः ।
यद्वा तानि ममत्वेनानुपादाययो व्यवहारः स नेति योजना ।
पूर्वत्रानुपादानासंभवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः ।
उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात्, तत्साधुत्वमिति भेदः ।
इन्द्रियादिषु ममेत्यध्यासभावे ऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः ।
इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह- न चेति ।
इन्द्रियाणामधिष्ठानं आश्रयः ।
शरीरमित्यर्थः ।
नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत्राह- न चानध्यस्तात्मभावेनेति ।
अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तनेत्यर्थः ।
ऽअसङ्गो हिऽइति श्रुतेः, आध्यासिक एव देहात्मनोः संबन्धो न संयोगादिरिति भावः ।
नन्वात्मनो देहादिभिराध्यासिकसंबन्धो ऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः ।
न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह- न चैतस्मिन्निति ।
प्रमाश्रयत्वं हि प्रमातृत्वम् ।
प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च ।
यदि वृत्तिमात्रं, जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् ।
अतो वृत्तीद्वो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न संभवतीति भावः ।
देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः ।
तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह -न चेति ।
तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासो ऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति- तस्मादिति ।
प्रमाणसत्त्वादित्यर्थः ।
यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति- तस्मादिति ।
अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात्, अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना ।
सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः ।
अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः ।
ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारो ऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावे ऽपि व्यवहारदृष्टेरित्यत आह- पश्वादिभिश्चेति ।
चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् ।
आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इथि समन्वयसूत्रे वक्ष्यते ।
द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात्, विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारो ऽध्यासकार्य इति युक्तमित्यर्थः ।
अत्रायं प्रयोगः-विवेकिनो ऽध्यासवन्तः व्यवहारवत्त्वात्, पश्वादिवदिति ।
तत्र संग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति- यथाहीति ।
विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वं, तदेवोदाहरति- यथेति ।
अयं दण्डो मदनिष्टसाधनं, दण्डत्वात्, अनुभूतदण्डवत्, इदं तृणं इष्टसाधनं, अनुभूततृणवदित्यनुमाय व्यवहारन्तीत्यर्थः ।
अधुना हेतोः पक्षधर्मतामाह- एवमिति ।
व्युत्पन्नचित्ता अपीत्यन्वयः ।
विवेकिनो ऽपीत्यर्थः ।
फलितमाह- अत इति ।
अनुभवबलादित्यर्तः ।
समान इति ।
अध्यासकार्यत्वेन तुल्य इत्यर्थः ।
नन्व स्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यत्रं अतः साध्यविकलो दृष्टान्त इति नेत्याह- पश्वादीनां चेति ।
तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् ।
अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः ।
निगमयति- तत्सामान्येति ।
तैः पश्चादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति संबन्धः ।
समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् ।
तत्रोक्तान्वयव्यतिरेकौ स्मारयति- तत्का इति ।
तस्याध्यासस्य काल एव कालो यस्य स तत्कालः ।
यद्वा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् ।
अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानो ऽस्तीत्यनवद्यम् ।
ननु लौकिकव्यवहारस्याध्यासिकत्वेषऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वं, तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति- शास्त्रीये त्विति ।
तर्हि कथं वैदिककर्मणो ऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानं, आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह- तथापीति ।
न द्वितीय इत्याह- न वेदान्तेति ।
क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानं, अनुपयोगात् प्रवृत्तिबाधाच्चेत्यर्थः ।
शास्त्रीयकर्मणो ऽध्यासजन्यत्वं निगमयति- प्राक्वेति ।
अध्यासे आगमं प्रमाणयति- यथा हीति ।
यथा प्रत्यक्षानुमानार्थापत्तयो ऽध्यासे प्रमाणं तथागमो ऽपीत्यर्थः ।
ऽब्राह्मणो यजेतऽऽन ह वै स्नात्वा भिक्षेतऽऽअष्टवर्षं ब्राह्यणमुपनयीतऽ ऽकृष्णकेशो ऽग्नीनादधीतऽइत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णद्यभिमानिनमनुवदन् अध्यासं गमयतीति भावः ।
एवमध्यासे प्रमाणसिद्धे ऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति- अध्यसो नामेति ।
उदाहरति- तद्यथेति ।
तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः ।
स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात् स्वस्मिंस्तत्तुल्यधर्मानध्यस्यतीत्यर्थः ।
भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात्, अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् ।
देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह- तथेति ।
कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् ।
अज्ञातप्रत्यग्रूपे साक्षीणि मनोधर्माध्यासमाह- तथान्तःकरणेति ।
धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह- एवमिति ।
अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीन् अध्यस्यतीति
मन्तव्यम् ।
स्वप्रचारा मनोवृत्तयः ।
प्रति-प्रातिलोम्येनासज्जङदुःखात्माकाहङ्कारादिविलक्षणतया सच्चित्सुखात्मकत्वेनाञ्चति प्रकाशत इति प्रत्यक् ।

एवमात्मन्यनात्मतद्धर्माध्यासमुदाहृत्यानात्मन्यात्मनो ऽपि संसृष्टत्वेनाध्यासमाह- तञ्चेति ।
अहमित्यध्यासे चिदात्मनो भानं वाच्यं, अन्यथा जगदान्ध्यापत्तेः ।
न चानध्यस्तस्याध्यासे भानमस्ति ।
तस्माद्रजतादाविदम इवात्मनः संसर्गाध्यास एष्टव्यः ।
तद्विपर्ययेणेपि ।
तस्याध्यास्तस्य जडस्य विपर्ययोधिष्ठानत्वं, चैतन्यं च तदात्मना स्थितमिति यावत् ।
तत्राज्ञाने केवलात्मना संसर्गः, मनस्यज्ञानोपहितस्य देहादौ मनौपहितस्येति विशेषः ।
एवमात्मनि बुद्ध्याद्यध्यासात् कर्तृत्वादिलाभः, बुद्ध्यादौ चात्माध्यसाच्चैतन्यलाभ इति भावः ।
वर्णिताध्यासमुपसंहरति- एवमयमिति ।
अनाद्यविद्यात्मकतया कार्याध्यासस्यानादित्वमध्यासात् संस्कारस्ततो ऽध्यास इति ।
प्रवाहतो नैसर्गिगत्वं ।
एवमुपादानं निमित्तं चोक्तं भवति ।
ज्ञानं विना ध्वंसाभावादानन्त्यम् ।
तदुक्तं भगवद्गीतासु-ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽइति ।
हेतुमुक्ता स्वरूपमाह- मिथ्येति ।
मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्रतीतिश्चेत्येवंस्वरूप इत्यर्थः ।
तस्य कार्यमाह- कर्तृत्वेति ।
प्रमाणं निगमयति- सर्वेति ।
साक्षिप्रत्यक्षमेवाध्यासधर्मिग्राहकं मानं, अनुमानादिकं तु संभावानार्थमित्यभिप्रेत्य प्रत्यक्षोपसंहारः कृतः ।
एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति- अस्येति ।
कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह- आत्मेति ।
ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः ।
विद्यायां कारणमाह- सर्व इति ।
आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः ।
विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति ।
अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने इति ज्ञेयम् ।
ननु वेदान्तेषु प्राणाद्युपास्तीनां भानादात्मैक्यमेव तेषामर्थ इति कथमित्यत आह- यथा चेति ।
शरीरमेव शारीरकं, कुत्सितत्वात्, तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः ।
उपास्तीनां चितैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते ।
एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शिम्* ॥ ॥
इति प्रथमवर्णकम्* ॥॥
विचारस्य साक्षाद्विषया वेदान्ताः;तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसंदेहे कृत्स्नस्य वेदस्य विधिपरत्वात्, विधेश्च ऽअधातो ब्रह्मजिज्ञासाऽइत्यादिना पूर्वतन्त्रेण विचारितत्वात्, अवगतार्था एव वेदान्ता इत्यव्यवहितविषयाभावान्नारम्भ इति प्राप्ते ब्रूते- वेदान्तेति ।
वेदान्तविषयकपूजितविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसंदर्भस्येदं प्रथमसूत्रमित्यर्थः ।
यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात्, ब्रह्मणि मानाभावात् ।
अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणानवगतब्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकृद्दर्शयति ।
तच्च ऽव्याचिख्यासितस्यऽइति पदेन भाष्यकारो बभाषे* ॥ ॥
इति द्वितीयवर्णकम्* ॥ ॥
एवं वर्णकद्वयेन वेदान्तविचारस्य कर्तव्यतायां विषयप्रयोजनवत्त्वमगतार्थत्वं चेति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्यायाक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभाभ्यां शास्त्रारम्भसंदेहे सति अथशब्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति- तत्राथशब्द इति ।
सूत्र इत्यर्थः ।
ऽमङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथऽइत्यथशब्दस्य यहवोर्थाः सन्ति ।
तत्र ऽअथ योगानुशासनम्ऽइत्यत्र, सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति
तद्वदत्र किं न स्यादित्यत आह- नाधिकारार्थ इति ।
अयमाशयः-किं जिज्ञासापदं ज्ञानेच्छापरमुत विचारलक्षकम्?आद्ये ऽथशब्दस्यारम्भार्थत्वे ब्रह्मज्ञानेच्छारभ्यत इति सूत्रार्थः स्यात् स चासंगतः, तस्या अनारभ्यत्वात् ।
नहि प्रत्यथिकरणं इच्छा क्रियते किन्तु तया विचारः ।
न द्वितीयः, कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायोगात्, अध्याहृते च तेनैवारम्भोक्तेरथशब्दवैयर्थ्यात् ।
किन्त्वधिकारिसिद्ध्यर्थमानान्तर्यार्थतैव युक्तेति अधुना संभावितमर्थान्तरं दूषयति- मङ्गलस्येति ।
वाक्यार्थो विचारकर्तव्यता न हि तत्र मङ्गलस्य कर्तृत्वादिनान्वयो ऽस्तीत्यर्थः ।
ननु सूत्रकृता शास्त्रादौ मङ्गलं कार्यमित्यथशब्दः प्रत्युक्त इति चेत् सत्यं, न तस्यार्थो मङ्गलं किन्तु च तच्छ्रवणमुच्चारणं च मङ्गलकृत्यं करोति ।
तदर्थस्त्वानन्तर्यमेवेत्यह- अर्थानतरेति ।
अर्थान्तरमानन्तर्यम् ।
श्रुत्या श्रवणेन शङ्खवीणादिनादश्रवणवदोङ्काराथशब्दयोः श्रवणं मङ्गलफलकम् ।
ऽओङ्काश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ ॥
ऽइति स्मरणादिति भावः ।
ननु प्रपञ्चो मिथ्येति प्रकृते सति, अथ मतं प्रपञ्चः सत्य इत्यत्र पूर्वप्रकृतार्थादुत्तरार्थस्यार्थास्तरत्वार्थो ऽथशब्दो दृष्टः, तथात्र किं न स्यादित्यत आह- पूर्वेति ।
फलतः फलस्येत्यर्थः ।
ब्रह्मजिज्ञासायाः पूर्वं अर्थविशेषः प्रकृतो नास्ति यस्मात्तस्या अर्थान्तरत्वमथशब्देनोच्येत ।
यतः कुतश्चितदर्धान्तरत्वं सूत्रकृता न वक्तव्यं, फलाभावात् ।
यदि फलस्य जिज्ञासापदोक्तकर्तव्यविचारस्य हेतुत्वेन यत्पूर्वं प्रकृतं तदपेक्षास्तीत्यपेक्षाबलात्प्रकृतहेतुमाक्षिप्य ततोर्ऽथान्तरत्वमुच्यते, तदार्थान्तरत्वमानन्तर्ये ऽन्तर्भवति हेतुफलभावज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात् ।
तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतीतेः ।
तस्मादिदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रतीतिः ।
न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यं, तयोर्देशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वात् ।
अतः सामग्रीफलयोरेव मुख्यमानन्तर्यं, अव्यवधानात् ।
तस्मिन्नुक्ते सत्यर्थान्तरत्वं न वाच्यं ज्ञानत्वाद्वैफल्याच्चेति भावः ।
फलस्य विचारस्य पूर्वप्रकृतहेत्वपेक्षाया बलाद्यदर्थान्तरत्वं तस्यानन्तार्यभेदात् न पृथगथशब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम् ।
यद्वा पूर्वप्रकृतेर्ऽथे ऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्द्वारानन्तर्याव्यतिरेकात्तज्ज्ञाने तस्याः ज्ञानतोनतर्भावान्नाथशब्दार्थतेत्यर्थः ।
नन्वानन्तर्यार्थकत्वे ऽप्यानन्तर्यस्यावधिः क इत्याशङ्क्याह- सति चेति ।
यन्नियमेन पूर्ववृत्तं पूर्वभावि असाधारणकारणं पुष्कलाकारणमिति यावत्, तदेवावधिरिति वक्तव्यमित्यर्थः ।
नन्वस्तु धर्मविचार इव ब्रह्मविचारे ऽपि वेदाध्ययनं पुष्कलकारणमित्याह- स्वाध्यायेति ।
समानं ब्रह्मविचारे साधारणकारणं न पुष्कलकारणमित्यर्थः ।

ननु संयोगपृथक्त्वन्यायेन ऽयज्ञेन दानेनऽइत्यादिश्रुत्या ऽयज्ञादिकर्माणि ज्ञानाय विधीयन्तेऽइति सर्वापेक्षाधिकरणे वक्ष्यते ।
तथा च पूर्वतन्त्रेण तदवबोधः पुष्कलकारणमिति शङ्कते- नन्विति ।
इह ब्रह्मजिज्ञासायां विशेषो ऽसाधारणं कारणम् ।
[ऽएकस्य तूभयार्थत्वे संयोगपृथक्त्वम्ऽइति जैमिनीसूत्रं, तदर्थस्तु-एकस्य कर्मण उभयार्थत्वे ऽनेकफलसंबन्धे संयोगः उभयसंबन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स हेतुः ।
ततशचात्रापि ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकालामपि ऽयज्ञेन दानेनऽइत्यादि वचनात् ज्ञानार्थत्वं चेति ।
टपरिहरति- नेत्यादिना ।
अयमाशयः--न तावत् पूर्वतन्त्रस्थं न्यायसहस्रं ब्रह्मज्ञाने तद्विचारे वा पुष्कलं कारणं, तस्य धर्मनिर्णमात्रहेतुत्वात् ।
नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वात् ।
न हि धूमाग्न्योरिव धर्मब्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानात् ब्रह्मज्ञानं भवेत् ।
यद्यपि शुक्तिविवेकादिद्वारा कर्माणि हेतवः, तथापि तेषां नाधिकारिविशेषणत्वं, अज्ञातानां तेषां जन्मान्तरकृतानामपि फलहेतुत्वात् ।
अदिकारिविशेषणं ज्ञायमानं प्रवृत्तिपुष्कलकारणमानन्तर्यावधित्वेन वक्तव्यम् ।
अतः कर्माणि, तदवबोधः, तन्नायविचारो वा नावधिरिति न ब्रह्मजिज्ञासायाधर्मजिज्ञासानन्तर्यमिति ।
ननु धर्मब्रह्मजिज्ञासयोः कार्यकारणत्वाभावे ऽप्यानन्तर्योक्तिद्वारा क्रमज्ञानार्थो ऽथशब्दः ।
ऽहृदयस्याग्रे ऽवद्यत्यथ जिह्वया अथ वक्षसःऽइतियवदानानां क्रमज्ञानार्थाथशब्दवदित्याशङ्क्याह-- यथेति ।
अवदानानामानन्तर्यनियमः क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वात् न तथेह धर्मब्रह्मजिज्ञासयोः क्रमो विवक्षितः, एककर्तृकत्वाभावेन तयोः क्रमानपेक्षणात् ।
अतो न क्रमार्थो ऽथशब्द इत्यर्थः ।
ननु तयोरेककर्तृत्वं कुतो नास्तीत्यत आह-- शेषेति ।
येषामेकप्रधानशेषता, यथावदानानां प्रयाजादीनां च ।
ययोश्च शेषशेषित्वं, यथा प्रयाजदर्शयोः ।
यस्य चाधिकृताधिकारत्वं, यथा अपां प्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य ऽगोदोहनेन पशुकामस्यऽइति विहितस्य गोदोहनस्य ।
यथा वा ऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतऽइति दर्शात्युत्तरकाले विहितस्य सोमयागस्य दर्शाद्यधिकृताधिकारत्वं तेषामेककर्तृकत्वं भवति ।
ततश्चैकप्रयोगवचनगृहीतानां तेषां युगपदनुष्ठानसंभवात् क्रमाकाङ्क्षायां श्रुत्यादिभिर्हि क्रमो बोध्यते, नैवं जिज्ञासयोः शेषशेषित्वे श्रुतिलिङ्घादिकं मानमस्ति ।
ननु ऽब्रह्मचर्यं समाप्य गही भवेत् गृहाद्वनी भूत्वा प्रव्रजेच्चऽइति श्रुत्या, अधीत्य विधिवद्वेदान् पुत्रानुत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षोनिवेशयेत्ऽ ।
इति स्मृत्या चाथिकृताधिकारत्वं भातीति तन्न ।
ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ ।
ऽआसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ।
ऽइति श्रुतिस्मृतिभ्यां त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वावगमात् ।
एतदुक्तं भवति-यदि जन्मान्तरकृतकर्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्यब्रह्म जिज्ञासितव्यं, यदा न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत्, तत्राप्यशुद्धौ वनीभवेत् तत्राप्यशुद्धौ तथैव कालमाकलयेत्, वने शुद्धौप्रव्रजेदिति ।
तथा च श्रुतिः-ऽयदहरेव विरजेत्तदहरेव प्रव्रजेत्ऽइति ।
तस्मान्नानयोरधिकृताधिकारत्वे किञ्चिन्मानमिति भावः ।
ननु मीमांसयोः शेषशेषित्वमथिकृताधिकारत्वं च मास्तु ।
एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव ।
वदन्ति हि-ऽज्ञानकर्माभ्यां मुक्तिःऽइति समुच्चयवादिनः ।
एकमेकवेदार्थजिज्ञास्यकत्वाच्चैककर्तृत्वे ।
तथा चाग्नेयादिषड्यागानामेकस्वर्गफलकानां, द्वादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थो ऽथशब्द इत्यशङ्क्याह- फलेति ।
फलभेदाज्जिज्ञास्यभेदाच्च न क्रमो विवक्षित इत्यनुषङ्गः ।
यथा सौर्यार्यम्णप्राजापत्यचरूणां ब्रह्मवर्चसस्वर्गायुःफलभेदात्, यथा वा कामचिकित्सातन्त्रयोर्जिज्ञास्यभेदान्न क्रमापेक्षा तद्वन्मीमांसयोर्न क्रमापेक्षेति भावः ।
तत्रफलभेदं विवृणोति- अभ्युदयेति ।
विषयाभिमुख्येनोदेतीत्यभ्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोर्मीमांसयाः फलमित्यर्थः ।
न केवलं फलस्य स्वरूपतो भेदः किन्तु हेतुतो ऽपीत्याह -तच्चेति ।
ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तद्विरुद्धमित्याह -निश्रेयसेति ।
नित्य निरपेक्षं श्रेयो निश्रेयं मोक्षस्तत्फलमित्यर्थः ।
ब्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापेक्षत इत्याह- न चेति ।
स्वरूपतो हेतुतश्च फलभेदान्न समुच्चय इति भावः ।
जिज्ञास्यभेदं विवृणोति -भव्यश्चेति ।
भवतीति भव्यः ।
साध्य इत्यर्थः ।
साध्यत्वे हेतुमाहः नेति ।
तर्हि तुच्छत्वं, नेत्याह- पुरुषेति ।
पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्यतत्त्वादित्यर्थः ।
कृतिसाध्यत्वात् कृतिजनकज्ञानकाले धर्मस्यासत्वं न तुच्छत्वादित्यर्थः ।
ब्रह्मणो धर्माद्वैलक्षण्यमाह- इह त्विति ।
उत्तरमीमांसायामित्यर्थः ।
भूतमसाध्यम् ।
तत्र हेतुः- नित्येति ।
सदा सत्वादित्यर्थः ।
साध्यासाधयत्वेन धर्मब्रह्मणोः स्वरूपभेदमुक्त्वा हेतुतो ऽप्याह- नेति ।
धर्मवत् कृत्यधीनं नेत्यर्थः ।
मानतो ऽपि भेदमाह- चोदनेति ।
अज्ञातज्ञापकं वाक्यमत्र चोदना ।
तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्यभेद इत्यर्थः ।
संग्रहवाक्यं विवृणोति- या हीति ।
लक्षणं प्रमाणं ऽस्वर्गकामो यजेतऽइत्यादिवाक्यं हि स्वविषये धर्मे यागादिकरणस्वर्गादिफलकभावनारूपे फलहेतुयागादिगोचरनियोगे वा हितसाधने यागादौ वा पुरुषं प्रवर्तयदेवावबोधयति ।
ऽअयमात्मा ब्रह्मऽइत्यादि त्वमर्थं केवलमप्रपञ्चं ब्रह्म बोधयत्वेव न प्रवर्तयति विषयाभावादित्यर्थः ।
नन्ववबोध एव विषयस्तत्राह- न पुरुष इति ।
ब्रह्मचोदनया पुरुषो ऽवबोधे न प्रवर्तत इत्यत्र हेतुं पूर्ववाक्येनाह- अवबोधस्येति ।
स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्तकमित्यत्र दृष्टान्तमाह- यथेति ।
मानादेव बोधस्य जातत्वात्, जाते च विध्ययोगात्, न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः ।
तथा च प्रवर्तकमानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात्, न तन्मीमांसयोः क्रमार्थो ऽथशब्द इति भावः ।
एवमथशब्दस्यार्थान्तरासंभवात् आनन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्यमित्याह- तस्मादिति ।
उपदिश्यते ।
सूत्रकृतेति शेषः ।
तत्किमित्यत आह- उच्यत इति ।
विवेकादीनामागमिकत्वेन प्रामाणिकत्वं पुरस्तादेवोक्तम् ।
लौकिकव्यापारात् मनस उपरमः शमः बाह्यकरणानामुपरमो दमः ।
ज्ञानार्थं विहितनित्यादिकर्मसन्यास उपरतिः ।
शीतोष्णादिद्वन्द्वसहनं तितिक्षा ।
निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् ।
सर्वत्रास्तिकता श्रद्धा ।
एतत्षट्कप्राप्तिः शमादिसंपत् ।

अत्र विवेकादीनामुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं मन्तव्यम् ।
तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह- तेष्विति ।
यथाकथञ्चित् कुतूहलितया ब्रह्मविजारप्रवृत्तस्यापि फलपर्यन्तं तज्ज्ञानानुदयाद्व्यतिरेकसिद्धिः ।
अथशब्दव्याख्यानमुपसंहरति- तस्मादिति ।
ननूक्तविवेकादिकं न संभवति, ऽअक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्ऽइत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यसिद्धेः ।
जीवस्य ब्रह्मस्वरूपमोक्षश्चायुक्तः, भेदात् तस्य लोष्टादिवत् पुरुषार्थत्वायोगाच्च ।
ततो मुमुक्षासंभव इत्याक्षेपपरिहारार्थो ऽतःशब्दः तं व्याचष्टे- अतःशब्द इति ।
अथशब्देनानन्तर्यवाचिना तदवधित्वेनार्थाद्विवेकादिचतुष्टयस्य ब्रह्मजिज्ञासाहेतुत्वं यदुक्तं तस्यार्थिकहेतुत्वास्याक्षेपनिरासायानुवादको ऽतःशब्द इत्यर्थः ।
उक्तं विवृणोति- यस्मादिति ।
तस्मादित्युत्तरेण संबन्धः ।
ऽयदल्पं तन्मर्त्यम्ऽऽयत्कृतकं तदनित्यम्ऽइति न्यायवती ऽतद्यथेहऽइत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्बाधका ।
तस्मात् ऽअतो ऽन्यदार्तम्ऽइति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः ।
मुमुक्षां संभावयति- तथेति ।
यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानिलमपारं स्वयञ्ज्योतिरानन्दं दर्शयतीत्यर्थः ।
जीवत्वादेरध्यासोक्त्या ब्रह्मत्वसंभव उक्त एवेति भावः ।
एवमथातःशब्दाभ्यां पुष्कलकारणवतो ऽधिकारिणः समर्थनात् शास्त्रमारब्धव्यमित्याह- तस्मादिति ।
सुत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्वयार्थं ब्रह्मजिज्ञासापदेन विचारं लक्षयितुं तस्य स्वाभिमतसमासकथनेनावयवार्थं दर्शयति- बह्मण इति ।
ननु धर्माय जिज्ञासा इतिवत् ब्रह्मणे जिज्ञासेति चतुर्थीसमासः किं न स्यादिति चेत् ।
उच्यते-जिज्ञासा पदस्य हि मुख्यार्थं इच्छा, तस्याः प्रथमं कर्मकारकमपेक्षितं पश्चात् फलं, ततश्चादौ कर्मज्ञानार्थं षष्ठिसमासो युक्तः ।
कर्मण्युक्ते सत्यर्थात् फलमुक्तं भवति, इच्छायाः कर्मण एवफलत्वात् ।
यथा स्वर्गस्येच्छा इत्युक्ते स्वर्गस्य फलत्वं लभते तद्वत् ।
अत एव ऽधर्मजिज्ञासाऽइत्यत्रापि ऽसा हि तस्य ज्ञातुमिच्छाऽइति इच्छां गृहीत्वा षष्ठीसमासो दर्शितः ।
विचारलक्षणायां तु विचारस्य क्लेशात्मकतया प्रथमं फलाकाङ्क्षत्वात् धर्माय जिज्ञासे चतुर्थसमास उक्तः, तथा वृत्तिकारैर्ब्रह्मणे जिज्ञासा इत्युक्तं चेदस्तु ज्ञानत्वेन ब्रह्मणः फलत्वादिति ।
अधुना ब्रह्मपदार्थमाह- ब्रह्म चेति ।
ननु ऽब्रह्मक्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भूर्ब्रह्म प्रजापतिःऽइति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्दः प्रयुज्यत इत्याशङ्काह -अत एवेति ।
जगत्कारणत्वलक्षणप्रतिपादकसूत्रासांगत्यप्रसङ्गादेवेत्यर्थः ।
वृत्त्यन्तरे शेषे षष्ठीत्युक्तं दूषयति- ब्रह्मण इतीति ।
संबन्धसामान्यं शेषः ।
जिज्ञासेत्यत्र सन्प्रत्यवाच्याया इच्छाया ज्ञानं कर्म, तस्य ज्ञानस्य ब्रह्म कर्म ।
तत्र सकर्मकक्रियायाः कर्मज्ञानं विना ज्ञातुमशक्यत्वात्, इच्छाया विषयज्ञानजन्यत्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्यं न शेष इत्यर्थः ।
ननु प्रमाणादिकमन्यदेव तत्कर्मास्तु ब्रह्म तु शेषितया संबध्यतां तत्राह -जिज्ञास्यान्तरेति ।
श्रुतं कर्म त्यक्त्वान्यदश्रुतं कल्पयन् ऽपिण्डमुत्सृज्य करं लेढिऽइति न्यायमनुसरतीति भावः ।
गूढाभिसंधिः शङ्क्यते-- नन्विति ।
ऽषष्ठी शेषेऽइति विधानात्, षष्ठ्या संवन्धमात्रं प्रतीतमपि विशेषाकाङ्क्षायां सकर्मकक्रियासंनिधानात् कर्मत्वे पर्यवस्यतीत्यर्थः ।
अभिसंधिमजानन्निवोत्तरमाह -एवमपीति ।
कर्मलाभेपि प्रत्यक्षं ऽकर्तृकर्मणोः कृतिऽइति सूत्रेण जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृदन्तस्य योगे विहितं प्रथमापेक्षितं च कर्मत्वं त्यक्त्वा परोक्षमशाब्दं कल्पयत इत्यर्थः ।
शेषवादी स्वाभिसंधिमुद्धाटयति-न व्यर्थ इति ।
शेषषष्ठ्यां ब्रह्मसंबन्धिनी जिज्ञासा प्रतिज्ञाता भवति ।
तत्र यानि ब्रह्माश्रितानि लक्षणप्रमाणयुक्तिज्ञानसाधनफलानि तेषामपि विचारः प्रतिज्ञातो भवति ।
तज्जिज्ञासाया अपि ब्रह्मज्ञानार्थत्वेन ब्रह्मसंबन्धित्वात् ।
कर्मणिषष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भवतीत्यभिसंधिना शेषषष्ठीत्युच्यते ।
अतो मत्प्रयासो न व्यर्थः ।
ब्रह्मतत्संबन्धिनां सर्वेषां विचारप्रतिज्ञानमर्थः फलं यस्य तत्त्वादित्यर्थः ।
त्वत्प्रयासस्येदं फलं न युक्तं, सूत्रेण मुखतः प्रधानस्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचारस्यार्थिकप्रतिज्ञाया उदितत्वादित्याह सिद्धान्ती- न प्रधानेति ।
संगृहीतमर्थं संदृष्टान्तं व्याकरोति-- ब्रह्महीत्यादिना ।
ऽतद्विजिज्ञासस्वऽइति मूलश्रुत्यनुसाराच्च कर्मणि षष्ठीत्याह- श्रुत्यनुगमाच्चेति ।
श्रुतिसूत्रयोरेकार्थत्वलाभाच्चेत्यर्थः ।
जिज्ञासापदस्यावयवार्थमाह- ज्ञातुमिति ।
नन्वनवगते वस्तुनीच्छाया अदर्शनात् तस्या मूलं विषयज्ञानं वक्तव्यम् ।
ब्रह्मज्ञानं तु जिज्ञासायाः फलं, तदेव मूलं कथमित्याशङ्क्याह- अवगतीति ।
आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमवगतिः पर्यन्तो ऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् ।
मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूलज्ञानयोर्भेदान्न जिज्ञासानुपपत्तिरित्यर्थः ।
ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात् कर्म एव फलमित्युक्तं तत्राह- फलेति ।
क्रियान्तरे तयोर्भेदे ऽपि इच्छायाः फलविषयत्वात् कर्मैव फलमित्यर्थः ।
ननु ज्ञानावगत्योरैक्याद्भेदोक्तिरयुक्तेत्यत आह -ज्ञानेनेति ।
ज्ञानं वृत्तिः अवगतिस्तत्फलं इति भेद इति भावः ।
अवगन्तुमभिव्यञ्जयितुम् ।
अवगतेः फलत्वं स्फुटयति- ब्रह्मेति ।
हिशब्दोक्तं हेतुमाह- निःशेषेति ।
बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादित्यर्थः ।
अवयवार्थमुक्त्वा सूत्रावाक्यार्थमाह- तस्मादिति ।
अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति ।
अथातशब्दाभ्यामधिकारिणः साधितत्त्वात्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः ॥
इति तृतीयं वर्णकम् ॥
प्रथमवर्णके बन्धस्याध्यसत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योर्विषयादिसंभवासंभवाभ्यां शास्त्रारम्भसंदेहे पूर्वपक्षमाह- तत्पुनरिति ।
पुनःशब्दो वर्णकान्तरद्योतनार्थः ।
यदि वेदान्तविचारात्प्रागेव ब्रह्मज्ञानं तर्ह्यज्ञातत्वरूपविषयत्वं नास्ति, अज्ञानाभावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम् ।
अथज्ञातं केनापि तर्हि तदुद्देशेन विचारः कर्तुं न शक्यते, अज्ञातस्योद्देशायोगात् ।
तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तेश्च प्रतिपादनायोगात् ।
तत्प्रतिपाद्यत्वरूपः संबन्धो नास्तीति ज्ञानानुत्पत्तेः फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः ॥

आपातप्रसिद्ध्या विषयादिलाभादारम्भणीयमिति सिद्धान्तयति- उच्यत इत्यादिना ।
प्रसिद्धं तावदित्यर्थः ।
अस्तित्वस्याप्रकृतत्वेनास्तिपदस्य प्रसिद्धिपरत्वात् ।
ननु केन मानेन ब्रह्मणः प्रसिद्धिः ।
न च ऽसत्यं ज्ञानमनन्तं ब्रह्मऽइति श्रुत्या सेति वाच्यम् ।
ब्रह्मपदस्य लोके संगतिग्रहाभावेन तद्घटितवाक्यस्याबोधकत्वादित्याशङ्क्यब्रह्मपदव्युत्पत्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह- ब्रह्मशब्दस्य हीति ।
अस्यार्थः-श्रुतौ सूत्रे च ब्रह्मपदस्य प्रयोगान्यथानुपपत्त्या कश्चिदर्थो ऽस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थकशब्दप्रयोगादर्शनात् ।
स चार्थो महत्वरूप इति व्याकरणान्निश्चीयते, ऽबृहि वृद्धौऽइति स्मरणात् ।
सा च वृद्धिर्निरवधिकमहत्वमिति संकोचकाभावात्, श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते ।
निरवधिकमहत्वं चान्तवत्त्वादिदोषवत्वे सर्वज्ञत्वादिगुणहीनत्वे च न संभवति, लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः ।
अतो बृंहणाद्ब्रह्मेति व्युत्पत्या देशकालवस्तुतः परिच्छेदाभावरूपं नित्यत्वं प्रतीयते ।
अविद्यादिदोषशून्यत्वं शुद्धत्वम् ।
जाड्यराहित्यं बुद्धत्वम् ।
बन्धकाले ऽपि स्वतोबन्धभावो मुक्तत्वं च प्रतीयते ।
एवं सकल दोषशून्यं निर्गुणं प्रसिद्धम् ।
तथा सर्वज्ञत्वादिगुमकं च तत्पदवाच्यं प्रसिद्धम् ।
ज्ञेयस्य कार्यस्य वा परिशेषे ऽल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च लाभादिति ।
एवं तत्पदात्प्रसिद्धेरप्रमाणत्वेनापातत्वादज्ञानानिवर्तकत्वाज्जिज्ञासोपपत्तिरित्युक्त्वा त्वंपदार्थात्मनापि ब्राह्मणः प्रसिद्ध्या तदुपपत्तिरत्याह- सर्वस्येति ।
सर्वस्य लोकस्य यो ऽयमात्मातदभेदाद्रह्मणः प्रसिद्धिरित्यर्थः ।
नन्वात्मनःप्रसिद्धिः केत्यत आह -सर्वो हीति ।
अहमस्मीति न प्रत्येतीति न किन्तु प्रत्येत्येव ।
सैव सच्चिदात्मनः प्रसिद्धिरित्यर्थः ।
आत्मनः कुतः सत्तेति शून्यमतमाशङ्क्याह- यदि हीति ।
आत्मनः शून्यस्य प्रतीतौ अहं नास्मीति लोको जानीयात् ।
लोकस्तु अहमस्मीति जानाति तस्मादात्मनो ऽस्तित्वप्रसिद्धिरित्यर्थः ।
आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह- आत्मा चेति ।
ऽअयमात्मा ब्रह्मऽइत्यादिश्रुतेरिति भावः ।
प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति- यदीति ।
अज्ञातत्वाभावेन विषयाद्यभावादविचार्यत्वं प्राप्तमित्यर्थः ।
यथा इदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिस्तद्वत् अहमस्मीति सत्त्वचैतन्यरूपत्वसामान्येन वस्तुतो ब्रह्मणः प्रसिद्धिः नेयं पूर्णानन्दब्रह्मत्वरूपविशेषगोचरा वादिनां विवादाभावप्रसङ्गात् ।
न हि शुक्तित्वविशेषदर्शने सति रजतं रङ्गमन्यद्वेति विप्रतिपत्तिरस्ति ।
अतो विप्रतिपत्त्यन्यथानुपपत्या सामान्यतः प्रसिद्धावपि विशेषस्याज्ञातत्वाद्विषयादिसिद्धिरिति सिद्धान्तयति न इत्यादिना ।
सामान्यविशेषभावः स्वत्मनि सच्चित्पूर्णादिपदवाच्यभेदात् कल्पित इति मन्तव्यम् ।
तत्र स्थूलसूक्ष्मक्रमेण विप्रतिपत्तीरुपन्यस्यति- देहमात्रमित्यादिना ।
शास्त्रज्ञानशुन्याः प्राकृताः ।
वेदबाह्यमतान्युक्त्वा तार्किकादिमतमाहः- अस्तीति ।
सांख्यमतमाह -भोक्तेति ।
किमात्मा देहादिरूपः उत तद्भिन्न इति विप्रतिपत्तिकोटित्वेन देहेन्द्रियमनोबुद्धिशून्यान्युक्त्व तद्भिन्नो ऽपि कर्तृत्वादिमान्न वेति विप्रतिपत्तिकोटित्वेन तार्किकसांख्यपक्षावुपन्यस्याकर्तापीश्वराद्भिन्नो न वेति विवादकोटित्वेन योगिमतमाह- अस्ति तद्व्यतिरिक्त ईश्वर इति ।
निरतिशयत्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसंपन्न इति योगिनो वदन्ति ।
भेदकोटिमुक्त्वा सिद्धान्तकोटिमाह- आत्मा स भोक्तुरिति ।
भोक्तुर्जीवस्याकर्तुः साक्षिणः स ईश्वर आत्मास्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।
विप्रतिपत्तीरुपसंहरति- एवं बहवः इति ।
विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शितः सुखबोधायेतीहोपरम्यते ।
तत्र युक्तिवाक्याश्रयः सिद्धान्तिनः जीवो ब्रह्मैव आत्मत्वात्, ब्रह्मवत् इत्यादि युक्तेः, ऽतत्त्वमसिऽइत्यादिश्रुतेश्चाबाधितायाः सत्त्वात् ।
अन्ये तु देहादिरात्मा, अहंप्रत्ययगोचरत्वात्, व्यतिरेकेण घटादिवदित्यादियुक्त्याभासं, ऽस वा एष पुरुषोन्नरसमयःऽइन्द्रियसंवादे ऽचक्षुरादयस्ते हवाचमूचुःऽऽमन उवाचऽ, ऽयो ऽयंऽऽविज्ञानमयःऽ, ऽअसदेवेदमग्र आसीत्ऽ,ऽकर्ता बोद्धा अनश्नन्नन्यःऽ, ऽआत्मानमन्तरो यमयतिऽइति वाक्याभासं चाश्रिता इति विभागः ।
देहादिरनात्मा, भौतिकत्वात्, दृश्यत्वात् इत्यादिन्यायैः, ऽआनन्दमयो ऽभ्यासात्ऽ
इत्यादिसूत्रैश्चाभासत्वं वक्ष्यते ।
ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्रद्धा तदाश्रयणात्तस्यस्वार्थः सेत्स्यति किं ब्रह्मविचारारम्भेणेत्यत आह- तत्राविचार्येति ।
ब्रह्मात्मैक्यविज्ञानादेव मुक्तिरिति वस्तुगतिः ।
मतान्तराश्रयणे तदभावान्मोक्षसिद्धिः ।
किञ्चात्मानमन्यथा ज्ञात्वा तत्पापेन संसारान्धकूपे पतेत्,ऽअन्धं तमःप्रविशन्तिऽऽये के चात्महनो जनाःऽइति श्रुतेः, ऽयो ऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
कि तेन न कृतं पापं चौरेणात्मापहारिणा ॥
ऽइति वचनाच्चेत्यर्थः ।
अतः सर्वेषां मुमुक्षूणां निश्रेयसफलाय वेदान्तविचारः कर्तव्य इतिसूत्रार्थमुपसंहरति- तस्मादिति ।
बन्धस्याध्यस्तत्वेन विषयादिसद्भावादगतार्थत्वात्, अधिकारिलाभादापादप्रसिद्ध्या विषयदिसंभवीच्च वेदान्तविषया मीमांसापूजिता विचारणा, वेदान्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याः सा निश्रेयसायारभ्यत इत्यर्थः ।
ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथं सूत्रार्थ इत्यत आह- ब्रह्मेति ।
ब्रह्मज्ञानेच्छोक्तिद्वारा विचारं लक्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः ।
एवं प्रथमसूत्रस्य चत्वारोर्ऽथा व्याख्यानचतुष्टयेन दर्शिताः ।
सूत्रस्य चानेकार्थत्वं भूषणम् ।
नन्विदं सूत्रं शास्त्राद्बहिः स्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा ।
आद्ये तस्य हेयता, शास्त्रासंबन्धात् ।
द्वितीये तस्यारम्भकं वाच्यम् ।
न च स्वयमेवारम्भकं, स्वस्मात् स्वोत्पत्तेरित्यात्मात्माश्रयात् ।
न चारम्भकान्तरं पश्याम इति ।
उच्यते-श्रवणविधिना आरब्दमिदं शास्त्रं शास्त्रान्तर्गतमेव शास्त्रारम्भं प्रतिपादयति ।
यथाध्ययनविधिर्वेदान्तर्गत एव कृत्स्नवेदस्याध्ययने प्रयुङ्क्ते तद्वदित्यनवद्यम्

3.2

एन्द् ब्स्चोम्_1,1.1.1
स्तर्त् ब्स्चोम्_1,1.2.2
2 जन्माद्याधिकरणम् । सू. 2.
ब्रह्मजिज्ञासितव्यमित्युक्तम् ।
किंलक्षणं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः-
जन्माद्यस्य यतः । ब्ब्स्_1,1.2 ।
जन्मोत्पत्तिरादिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिः ।
जन्मस्थितिभङ्गं समासार्थः ।
जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च ।
श्रुतिनिर्देशस्तावत् ऽयतो वा इमानि भूतानि जायन्तेऽ (तैत्ति.3.1) इत्यस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् ।
वस्तुवृत्तमपि, जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रयसंभवात् ।
अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा निर्देशः ।
षष्ठी जन्मादिधर्मसंबन्धार्था ।
यत इति कारणनिर्देशः अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेषः ।
अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् ।
यास्कपरिपठितानां तु ऽजायते ऽस्तिऽ इत्यादीनां ग्रहणे तेषां जगतः स्थित्काले संभाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशां जगतो न गृहीताः स्युरित्याशङ्क्येत, तन्मा शङ्कीति योत्पत्तिर्ब्रह्मस्तत्रैव स्थितिः प्रलयश्च त एव गृह्यन्ते ॥
न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वान्यतः प्रधानादचेतनादणुभ्यो ऽभावात्संसारिणो वा उत्पत्त्यादि संभावयितुं शक्यम् ।
नच स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् ।
एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्त ईश्वरकारणिनः ।
नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे ।
न ।
वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् ।
वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते ।
वाक्यार्थविचारणाध्यवसाननिवृत्ता ।
सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढायानुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवन्न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्याभ्युपेतत्वात् ।
तथाहि- ऽश्रोतव्यो मन्तव्यःऽ (बृह. 2.4.5) इति श्रुतिः ऽपण्डितो मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेदऽ (छान्दो.6.14.2) इति च पुरुषबुद्धिसाहाय्यमात्मनोर् दायति ।
न धर्मजिज्ञासायामिव श्रुत्यादयो ऽनुभवादयश्च यथासंभवमिह प्रमाणं अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य ।
कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात्पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य ।
कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म, यथाश्वेन गच्छति, पद्भ्यामन्यथा वा, न वा गच्छतीति ।
तथा ऽअतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातिऽ, ऽउदिते जुहोति, अनुदिते जुहोतिऽ इति विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः, विकल्पोत्सर्गापवादाश्च ।
नतु वस्त्वेवं नैवमस्ति नास्तीति वा विकल्प्यते ।
विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः ।
न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम् ।
किं तर्हि वस्तुतन्त्रमेव तत् ।
नहि स्थाणावेकस्मिस्थाणुर्वा पुरुषो ऽन्यो वेति तत्त्वज्ञानं भवति ।
तत्र पुरुषो ऽन्यो वेति मिथ्याज्ञानम् ।
स्थाणुरेवेति तत्त्वज्ञानं,वस्तुतन्त्रत्वात् ।
एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् ।
तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तु विषयत्वात् ।
ननु भूतवस्तुत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणानर्थिकैव प्राप्ता ।
न ।
इन्द्रियाविषयत्वेन संबन्धाग्रहणात् ।
स्वभावतो विषयविषयाणीन्द्रियाणि, न ब्रह्मविषयाणि ।
सति हीन्द्रियविषयत्वे ब्रह्मण-, इदं ब्रह्मणा संबद्धं कार्यमिति गृह्येत ।
कार्यमात्रमेव तु गृह्यमाणं किं ब्रह्मणा संबद्धं किमन्येन केनचिद्वा संबद्धमिति न शक्यं निश्चेतुम् ।
तस्माजन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि वेदान्तवाक्यप्रर्दानार्थम् ।
किं पुनस्तद्वेदान्तवाक्यं यत्सूत्रेणैह लिलक्षयिषितम् ।
ऽभृगुर्वै वारुणिः ।
वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेतिऽ ।
इत्युपक्रम्य- ऽयतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्ति ।
तद्विजिज्ञासस्व ।
तद्ब्रह्मेतिऽ ।
(तैत्ति. 3.1) ।
तस्य च निर्णयवाक्यम्- ऽआनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते ।
आनन्देन जातानि जीवन्ति ।
आनन्दं प्रयन्त्यभिसंविशन्तिऽ ।
(तैत्ति. 3.6) अन्यान्याप्येवञ्जातीयकानि वाक्यानि नित्याशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाण्युदाहर्तव्यानि

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc