ब्रह्मसूत्र2 (टीका सहित) · अध्याय 39
संप्रति पूर्वपक्षयति सूत्रकारः- अस्ति त्विति ।
एकवाक्यत्वेन प्रामाण्यसंभवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते- नन्वेकवाक्यतेति ।
एकवाक्यत्वासंभवादप्रामाण्यं युक्तमित्याह- सत्यमित्यादिना ।
एकस्य युगपत्कार्यद्वयासंबन्धे ऽपि क्रमेण संबन्धसंभवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते- ननु सकृदिति ।
अप्रामाण्यवादी दूषयति- नैवमिति ।
क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः ।
एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह- नचेति ।
वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः ।
छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह- एतेनेति ।
एतत्पदार्थमाह- तस्मादिति ।
छान्दोग्ये ऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः ।
किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह- वायोरिति
एन्द् ब्स्चोम्_2,3.1.2
स्तर्त् ब्स्चोम्_2,3.1.3
अस्मिन्विप्रतिषेधे कश्चिदाह-
गौण्यसंभवात् । ब्ब्स्_2,3.3 ।
नास्ति वियत उत्पत्तिरश्रुतेरेव ।
या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति ।
कस्मात् ।
असंभवात् ।
नह्याकाशस्योत्पत्तिः संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु ।
ते हि कारणसामाग्र्यसंभवादकाशस्योत्पत्तिं वारयन्ति ।
समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते ।
द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति ।
नचाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति, यस्मिन्समवायिकारणे सत्यसमवायिकारणे च तत्संयोग आकाश उत्पद्येत ।
तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति ।
उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकायोर्विशेषः संभाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च भवतीति ।
आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते ।
किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यते ऽध्यवसातुम् ।
पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्वसिद्धिः ।
तस्माद्यथा लोक आकाशं कुर्वाकाशो जात इत्येवञ्जातीयको गौणः प्रयोगो भवति, यथाच घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवञ्जातीयको भेदव्यपदेशो गौणो भवति, वेदे ऽपि ऽआरण्यानाकाशेष्वालभेरन्ऽ इति, एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या
एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह- अस्मिन्निति ।
एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् ।
तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्ययोगाद्वियदुत्पत्त्यसंभवरूपतक्रानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति- नास्तीत्यादिना ।
आकाशो नोत्पद्यते सामग्रीशून्यत्वात्, आत्मवत् ।
न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च ।
संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः ।
प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह- उत्पत्तिमतां चेति ।
प्रकाशश्चाक्षुषानुभवः ।
आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् ।
मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यं, तच्च प्रलये ऽप्यस्ति परमाण्वाश्रयत्वात् ।
अतो न प्रागभाव इत्यर्थः ।
प्रागभावसत्त्वं स्फुटयति- किं हीति ।
स्थूलाश्रयो ऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः ।
किञ्चात्मवदाकाशो न जायते, विभुत्वात्, अस्पर्शद्रव्यत्वाच्चेत्याह- पृथिव्यादीति ।
तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः ।
भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह- वेदे ऽप्यारण्यानिति ।
आकाशेष्विति भेदव्यपदेशो गौण इति संबन्धः
एन्द् ब्स्चोम्_2,3.1.3
स्तर्त् ब्स्चोम्_2,3.1.4
शब्दाच्च । ब्ब्स्_2,3.4 ।
शब्दः खल्वाकाशस्याजत्वं ख्यापयति ।
यत आह- ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽ (बृ. 2.3.3) इति ।
नह्यमृतस्योत्पत्तिरुपपद्यते ।
आकाशवत्सर्वगतश्च नित्यः इति चाकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमान आकाशस्यापि तौ धर्मौ सूचयति ।
नच तादृशस्योत्पत्तिरुपपद्यते ।
ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्मा वेदितव्यःऽ इति चोदाहरणम् ।
ऽआकाशशरीरं ब्रह्मऽ (तै. 1.6.2), ऽआकाश आत्माऽ (तै. 1.7.1) इति च ।
नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषेण संभवति नीलेनेवोत्पलस्य ।
तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते
न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितो ऽपीत्याह-सूत्रकारः- शब्दाच्चेति ।
नित्यभावस्यानादित्वादिति ।
भावः ।
आत्मेति च शब्द इहोदाहरणमित्यन्वयः ।
आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः
एन्द् ब्स्चोम्_2,3.1.4
स्तर्त् ब्स्चोम्_2,3.1.5
स्याच् चैकस्य ब्रह्मशब्दवत् । ब्ब्स्_2,3.5 ।
इदं पदोत्तरं सूत्रम् ।
स्यादेतत् ।
कथं पुनरेकस्य संभूतशब्दस्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभवत्याकाशे च गौणत्वमिति ।
अत उत्तरमुच्यते- स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यस्य प्रयोगो ब्रह्मशब्दवत् ।
यथैकस्यापि ब्रह्मशब्दस्य ऽतपसा ब्रह्म विजिज्ञासस्व, तपो ब्रह्मऽ (तै. 3.2) इत्यस्मिन्नधिकारे ऽन्नादिषु गौणः प्रयोग आनन्दे च मुख्यः ।
यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते ऽञ्जसा तु विज्ञेये ब्रह्मणि तद्वत् ।
कथं पुनरनुत्पत्तौ नभसः ऽएकमेवाद्वितीयम्ऽ (छा. 6.2.1) इतीयं प्रतिज्ञा समर्थ्यते ।
ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति ।
कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति ।
तदुच्यते- एकमेवेति तावत्स्वकार्यापेक्षयोपपद्यते ।
यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयान्मृदेवैकाकिनी पूर्वेद्युरासीदिति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयान्न दण्डचक्रादि, तद्वदद्वितीयश्रुतिरधिष्ठात्रान्तरं वारयति ।
यथा मृदो ऽमत्रप्रकृतेः कुम्भकारो ऽधिष्ठाता दृश्यते नैवं ब्रह्मणो जगत्प्रकृतेरन्यो ऽधिकृतास्तीति ।
नच नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते ।
लक्षणान्यत्वनिमित्तं हि नानात्वम् ।
नच प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति क्षीरोदकयोरिव संसृष्ट्योर्व्यापित्वामूर्तत्वदिधर्मसामान्यात् ।
सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते स्तिमितमितरवत्तिष्टति ।
तेनान्यत्वमवसीयते ।
तथाच ऽआकाशशरीरं ब्रह्मऽ (तै. 1.6.2) इत्यादिश्रुतिभ्यो ऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः ।
अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः ।
अपिच सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीति, अतो ब्रह्मणा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति ।
यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति, नहि क्षीरप्रहणादब्बिन्दवुग्रहणं परिशिष्यते, एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीतमेव ब्रह्मग्रहणेन नभो भवति ।
तस्माद्भाक्तं नभसः संभवश्रवणमिति
fन्: अभेदोपचारो भक्तिः ।
कुलं गृहम् ।
अमत्राणि घटादीनि ।
पदोत्तरमिति ।
शङ्कोत्तरमिति यावत् ।
तान्येव शङ्कापदानि पठति- स्यादेतदिति ।
अधिकारे प्रकरणे ।
यथैकस्मिन्ब्रह्मप्रकरणे ऽअन्नं ब्रह्मऽऽआनन्दो ब्रह्मऽइति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि संभूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह- स्याच्चेति ।
उदाहरणान्तरमाह- यथा चेति ।
अभेदोपचारो भक्तिः ।
मुख्यसिद्धान्त्याक्षिपति- कथं पुनरिति ।
स एवाक्षेपद्वयं स्पष्टयति- नन्विति ।
अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः ।
प्रथमाक्षेपं दृष्टान्तेन परिहरति- एकमेवेति ।
कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यार्थ इत्यर्थः ।
कुले गृहे ।
अमत्राणि घटादीनि पात्राणि ।
एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह- अद्वितीयश्रुतिरिति ।
आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसंकोचः कृतः, तदपि नास्तीत्याह- नच नभसापीति ।
धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह- सर्गकाले त्विति ।
धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह- तथा चाकशेति ।
द्वितीयमाक्षेपं परिहरति- अत एवेति ।
अभेदोपचारादेवेत्यर्थः ।
नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह- अपिचेति
एन्द् ब्स्चोम्_2,3.1.5
स्तर्त् ब्स्चोम्_2,3.1.6
एवं प्राप्त इदमाह -
प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः । ब्ब्स्_2,3.6 ।
ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. 6.1.1) इति, ऽआत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ (बृ. 4.5.6) इति, ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. 1.1.3) इति, ऽन काचन मद्धहिर्धा विद्यास्तिऽ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते ।
तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात्, यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् ।
व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा ह्रीयेत ।
स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत ।
शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते ।
तथाहि- ऽयेनाश्रुतं श्रुतं भवतिऽ इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते ।
तत्साधनायैव चोत्तरे शब्दाः ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1), ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा. 6.2.3) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति- ऽऐतदात्म्यमिदं सर्वम्ऽ (छा. 6.8.7)
इत्यारभ्याप्रपाठकपरिसमाप्तेः ।
तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञात आकाशं विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् ।
नच प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् ।
तथाहि- प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ख्यपयन्ति ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6),ऽ ब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड. 2.2.11) इत्येवमादयः ।
तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते ।
यदुक्तमश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तं, वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इति ।
सत्यं दर्शितम् ।
विरुद्धं तु ऽतत्तेजो ऽसृजतऽ इत्यनेन श्रुत्यन्तरेण ।
न ।
एकवाक्यत्वात्सर्वश्रुतीनाम् ।
भवत्येकवाक्यत्वमविरुद्धानाम् ।
इह तु विरोध उक्तः, सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति ।
नैष दोषः ।
तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः ।
आकाशाद्वायुः ।
वायोरग्निःऽ (तै. 2.1) इति ।
अशक्या हीयं श्रुतिरन्यथा परिणेतुम् ।
शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्ट्वा ऽतत्तेजो ऽसृजतऽ इति ।
नहीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति ।
एकस्य वाक्यस्य व्यापारद्वयासंभवात् ।
स्रष्ट्वा त्वेको ऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् ।
इत्येकवाक्यत्वकल्पनायां संभवत्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या ।
नचास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धो ऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् ।
यथाच ऽसर्वं खल्विदं ब्रह्म तज्जलान्ऽ (छा. 3.14.1) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसो ऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति ।
ननु शमविधानार्थमेतद्वाक्यम्, ऽतज्जलानिति शान्त उपासीतऽ इति श्रुतेः, नैतत्सृष्टिवाक्यं, तस्मादेतन्न प्रदेशान्तरसिद्धं क्रममुपरोद्धुमर्हतीति ।
ऽतत्तेजो ऽसृजतऽ इत्येतत्सृष्टिवाक्यम् ।
तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति ।
नेत्युच्यते ।
नहि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य ।
अपिच ऽतत्तेजो ऽसृजतऽ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दो ऽस्ति ।
अर्थात्तु क्रमो ऽवगम्यते ।
स च ऽवायोरग्निःऽ इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते ।
विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ ।
तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः ।
अपिच छान्दोग्ये ऽयेनाश्रुतं श्रुतं भवतिऽ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियदुत्पत्तावुपसंख्यातव्यं, किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते ।
यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते, नच ऽएकमेवाद्वितीयम्ऽ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति ।
अत्रोच्यते ।
न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् ।
मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते ।
क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् ।
नहि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतमस्ति ।
नच वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते ।
सावधारणा चेयम् ।
ऽएकमेवाद्वितीयम्ऽ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत ।
नच स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यं, मृदादिष्वपि हि तत्संभवान्न तदपूर्ववदुपन्यसितव्यं भवति ऽश्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽस्युत तमादेशमप्राक्ष्यो ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. 6.1.1) इत्यादिना ।
तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम्
एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति- प्रतिज्ञेति ।
अहानिरबाधः ।
सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः ।
न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।
ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात्, किमुत्पत्त्येत्यत आह- शब्देभ्यश्चेति ।
अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।
अयं भावः-जीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः ।
अज्ञानतत्संबन्धयोः कल्पितत्वेनाव्यतिरेकः ।
स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् ।
तथाहुर्न्यायविदः-ऽनित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानिऽइति ।
तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह- तथा हीति ।
तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः ।
यजुषि प्रतिज्ञासाधका ऽइदं सर्वम्ऽइतिशब्दाः, आथर्वणे ऽब्रह्मैवेदम्ऽइति शब्दा इति भावः ।
एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति- सत्यं दर्शितमिति ।
मुख्यसिद्धान्त्याह- न ।
एकेति ।
ऽतत्तेजो ऽसृजतऽइति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्संबन्धे तित्तिरिक्रमबाधात्, क्रमेणाकाशं सृष्ट्वा तेजो ऽसृजतेति संबन्धे तेजःप्राथम्यभङ्गप्रसङ्गात्, वस्तुनि विकल्पासंभवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात्, नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति- नैष दोष इति ।
अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनं, तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यं, बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् ।
छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् ।
तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः ।
यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् ।
किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुच्पत्तिश्चेत्युभयपरा ।
आद्ये न तद्वारणमित्याह- नहीति ।
अविरोधादित्यर्थः ।
न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह- एकस्येति ।
नन्वेकस्य स्रष्टुरनेकार्थसंबन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आ- स्रष्टा त्विति ।
एकस्य कर्तुरनेकार्थसंबन्धो दृष्टः ।
न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् ।
नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव ।
आनयनस्य जलक्षीराभ्यां पृथक्संबन्धादित्यर्थः ।
फलितमाह- इत्येकेति ।
एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसंबन्धार्थमावृत्तिदोषः स्यादित्यत आह- नचेति ।
छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकं, तेजोजन्मत्वात्, तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे ऽतदाकाशमसृजतऽइति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः ।
श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह- यथाचेति ।
सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते- नन्वित्यादिना ।
तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम्, आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह- नेत्युच्यत इति ।
किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह- नहीति ।
किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् ।
नाद्य इत्याह- अपिचेति ।
द्वितीयमनूद्य दूषयति- अर्थात्त्विति ।
यदुक्तं वस्तुनि विकल्पासंभवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति,
नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह- विकल्पेति ।
न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह- अपिचेति ।
वियदुपसंग्राह्यमित्यन्वयः ।
वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति- यच्चोक्तमित्यादिना ।
प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः ।
उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।
मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसंभवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह- नच वेदस्येति ।
माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् ।
आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते ।
प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह- सावधारणेति ।
सर्वद्वैतनिषेधपरेत्यर्थः ।
उभयगौणत्वे ऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह- नचेत्यादिना
एन्द् ब्स्चोम्_2,3.1.6
स्तर्त् ब्स्चोम्_2,3.1.7
यत्पुनरेतदुक्तमसंभवाद् गौणी गनस्योत्पत्तिश्रुतिरिति ।
अत्र ब्रूमः -
यावद्विकारं तु विभागो लोकवत् । ब्ब्स्_2,3.7 ।
तुशब्दो ऽसंभवाशङ्काव्यावृत्त्यर्थः ।
न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या ।
यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते ।
नत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यते ।
विभागश्चाकाशस्य पृथिव्यादिभ्यो ऽवगम्यते ।
तस्मात्सो ऽपि विकारो भवितुमर्हति ।
एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् ।
नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति ।
न ।
ऽआत्मन आकाशः संभूतःऽ (तै. 2.1) इति श्रुतेः ।
यदि ह्यात्मापि विकारः स्यात्तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् ।
तथाच शून्यवादः प्रसज्येत ।
आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः ।
नह्यात्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात् ।
नह्यात्मात्मनः प्रमाणमपेक्ष्य सिध्यति ।
तस्य हि प्रत्यक्षादीनि प्रमाणान्यप्रसिद्धप्रमेयसिद्धय उपादीयन्ते ।
नह्याकाशादयः पदार्धाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचिदभ्युपगम्यन्ते ।
आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति ।
नचेद्दृशस्य निराकरणं संभवति ।
आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।
य एव हि निराकर्ता तदेव तस्य स्वरूपम् ।
नह्यग्नेरौष्ण्यमग्निना निराक्रियते ।
तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतमतीततरं चाज्ञासिषमहमेवानागतमनागततरं च ज्ञास्यामीत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावो ऽसति, सर्वदा वर्तमानस्वभावत्वात् ।
तथा भस्मीभवत्यपि देहे चात्मन उच्छेदो वर्तमानस्वभावादन्यथास्वभावत्वं वा न संभावयितुं शक्यम् ।
एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मनः कार्यत्वं चाकाशस्य ।
यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते- न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमो ऽस्ति ।
नहि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात् ।
नच निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमो ऽस्ति ।
स्यादेतत् ।
समवायिकारणविषय एव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति ।
तदप्यनैकान्तिकम् ।
सूत्रगोबालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते ।
तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते ।
सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यं, सर्वस्य सर्वेण समानजातीयकत्वात् ।
नाप्यनेकमेवारभते नैकमिति नियमो ऽस्ति ।
अणुमनसोराद्यकर्मारम्भाभ्युपगमात् ।
एकैको हि परमाणिर्मनश्चायं कर्मारभते न द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते ।
द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् ।
न ।
परिणामाभ्युपगमात् ।
भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत ।
तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते ।
तच्च क्वचिदनेकं परिणमते मृद्बीजाद्यङ् कुरादिभावेन ।
क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन ।
नेश्वरशासनमस्त्यनेकमेव कारणं कार्यं जनयतीति ।
अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते ।
तथाचोक्तम्- ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र. सू. 2.1.14) इति ।
यच्चोक्तमाकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यत इति ।
तदयुक्तम् ।
येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते ।
यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्, ऽअस्थूलमनणुऽ (बृ. 3.8.8) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते ।
तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् ।
यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति ।
तदप्यसत् ।
श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्तेः ।
उत्पत्त्यनुमानस्य च दर्शितत्वात् ।
अनित्यमाकाशमनित्यगुणाश्रयत्वाद्घटादिवदित्यादिप्रयोगसंभवाच्च ।
आत्मन्यनैकान्तिकमिति चेत् ।
न ।
तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः ।
विभुत्वादीनां चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् ।
यच्चोक्तमेतच्छब्दाच्चेति, तत्रामृतत्वश्रुतिस्तावद्वियत्यमृता दिवौकस इतिवद्द्रष्टव्या ।
उत्पत्तिप्रलययोरुपपादितत्वात् ।
ऽआकाशवत्सर्वगतश्च नित्यःऽ इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमत्वाय ।
यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् ।
एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ।
ऽज्यायानाकाशात्ऽ इत्यादिश्रुतिभ्यश्च ब्रह्मण आकाशस्योनपरिमाणत्वसिद्धिः ।
ऽन तस्य प्रतिमास्तिऽ (श्वे. 4.19)
इति च ब्रह्मणो ऽनुपमानत्वं दर्शयति ।
ऽअतो ऽन्यदार्तम्ऽ (बृ. 3.4.2) इति च ब्रह्मणो ऽन्येषामाकाशादीनामार्तत्वं दर्शयति ।
तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम् ।
तस्माद्ब्रह्मकार्यं वियदिति सिद्धम्
fन्: द्रव्यान्तरैः समवायिभिः ।
शब्दाश्रयत्वं विशेषः ।
कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह- यत्पुनरित्यादिना ।
यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह- न त्वविकृतमिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह- एतेनेति ।
विभक्तत्वेनेत्यर्थः ।
आत्मनि व्यभिचारं शङ्कते- नन्विति ।
धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह- नेति ।
अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम्, अतो नाज्ञानतत्संबन्धादौ व्यभिचारः ।
नन्वात्मा कार्यः, विभक्तत्वात्, वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वं, नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह- आत्मन इति ।
इष्टप्रसङ्ग इति वदन्तं प्रत्याह- आत्मात्वादिति ।
आत्माभावः केनचिज्ज्ञायते न वा ।
आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता ।
द्वितीये ऽपि न शून्यता मानाभावादित्यर्थः ।
किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम्, आत्मा त्वकार्थो निरपेक्षत्वान्न बाधयोग्य इत्याह- नह्यात्मेत्यादिना ।
कस्यचित्कारणस्यागन्तुकः कार्यो न हि ।
सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः ।
तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति- नहीति ।
यदुक्तं सुरेश्वराचार्यैः-ऽप्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।
ऽइति ।
यथा श्रुतिराह-ऽपुरुषः स्वयं ज्योतिःऽ, ऽतस्य भासा सर्वमिदं विभातिऽइति च ।
नन्वात्मनः स्वतः सिद्धो प्रमाणवैयर्थ्यं, तत्राह- तस्येति ।
ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह- नहीति ।
अतो न प्रमाणवैयर्थ्यमिति भावः ।
आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह- आत्मा त्विति ।
अयमर्थः-निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकं, गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् ।
ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् ।
नापि ज्ञानान्तरात् अनवस्थानात् ।
अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः ।
तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् ।
अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति ।
स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह- नचेति ।
जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपं, तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात्, स्वस्य च स्वनिराकर्तृत्वायोगात् ।
नहि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।
एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह- तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ताव्यभिचारे ऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।
मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह- तथेति ।
उच्छेदो विनाशः ।
अन्यथास्वभावत्वं मिथ्यात्वं वा संभावयितुमपि न शक्यम्, अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः ।
एवमात्मनः शून्यत्वविरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तं, ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह- एवमिति ।
अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यदृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह- कार्यत्वं चेति ।
आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति- यत्त्वित्यादिना ।
किं कारणमात्रस्य साजात्यनियम उत समवायिनः ।
तत्राद्यं निरस्य द्वितीयं शङ्कते- स्यादेतदिति ।
किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना ।
नाद्य इत्याह- तदपीति ।
नच रज्जवादि न द्रव्यान्तरमिति वाच्यं, पटादेरपि तथात्वापातात् ।
द्वितीयो ऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह- सत्त्वेति ।
उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति- नापीत्यादिना ।
किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य ।
नाद्य इत्याह- अण्विति ।
द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म ।
यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह- एकैको हीति ।
द्रव्यान्तरैः ।
समवायिभिरित्यर्थः ।
द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति- द्रव्येत्यादिना ।
न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः ।
यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति ।
तन्न ।
क्षीरनाशे मानाभावात्, रसवद्दध्नो ऽप्येकद्रव्यारभ्यत्वसंभवाच्च, द्रव्यगुणसंकेतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः ।
लोके कर्तु- सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह- तथाचोक्तमिति ।
प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह- यच्चोक्तमित्यादिना ।
शब्दाश्रयत्वं विशेषः ।
शब्दादिमानाकाशः प्रलये नास्ति, ऽनासीद्रजो नो व्योमऽइति श्रुतेः ।
नन्वाकाशाभावे काठिन्यं स्यादिति चेत् ।
सुशिक्षितो ऽयं नैयायिकतनयः ।
न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तसंयोगविशेषो वा काठिन्यं, तच्च प्रलये नास्तीति भावः ।
ऽआकाशशरीरं ब्रह्मऽइति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह- यथाचेति ।
विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः ।
विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह- यदपीत्यादिना ।
धर्मिविकारभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् ।
गुणाश्रयत्वमेव हेतुः ।
तच्च स्वसमानसत्ताकगुणवत्त्वम्, अतो निर्गुणात्मनि न व्यभिचारः ।
भूतत्वमादिशब्दर्थः ।
स्वरूपासिद्धिमप्याह- विभुत्वादीनां चेति ।
सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति ।
संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च ।
स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समं, ऽज्यायानाकाशात्ऽइति श्रुतेः ।
क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसंबन्धेन व्यपदिश्यते ।
असक्तत्वेन वा ।
पञ्चीकरणादस्पर्शत्वमसिद्धं, कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धं, द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः ।
नित्य इत्यंशेन साम्यं न विवक्षितम् ।
ननु ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्माऽइति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते,
नेत्याह- एतेनेति ।
आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः ।
श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः ।
न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह- ज्यायानिति ।
मुख्योपमानासत्त्वे श्रुतिः-ऽन तस्यऽइति ।
तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः ।
अनित्यत्वेनासत्त्वे श्रुतिमाह- अतो ऽन्यदिति ।
यत्त्वेकस्यैव संभूतशब्दस्य गौणत्वं मुख्यत्वं चेति ।
तन्न ।
आकाशे ऽपि तस्य मुख्यत्वसंभवादित्याह- तपसीति ।
बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति- तस्मादिति
एन्द् ब्स्चोम्_2,3.1.7
स्तर्त् ब्स्चोम्_2,3.2.8
2 मातरिश्वाधिकणम् । सू. 8
एतेन मातरिश्वा व्याख्यातः । ब्ब्स्_2,3.8 ।
अतिदेशो ऽयम् ।
एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातः ।
तत्राप्येते यथायोगं पक्षा रचयितव्याः ।
न वायुरुत्पद्यते छान्दोगानामुत्पत्तिप्रकरणे ऽनाम्नानादित्येकः पक्षः ।
अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरण आम्नानम् ऽआकाशाद्वायुःऽ (तै. 2.1) इति पक्षान्तरम् ।
ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिसंभवादित्यपरो ऽभिप्रायः ।
असंभवश्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ. 1.5.22) इत्यस्तमयप्रतिषेधात्, अमृतत्वादिश्रवणाच्च ।
प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः ।
अस्तमयप्रतिषेधो ऽपरविद्याविषय आपेक्षिकः ।
अग्न्यादीनामिव वायोरस्तमयाभावात् ॥
कृतप्रतिविधानं चामृतत्वादिश्रवणम् ।
ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति ।
उच्यते- सत्यमेवमेतत् ।
तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थो ऽयमतिदेशः क्रियते ।
संवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात्, अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति
एतेन मातरिश्वा व्याख्यातः ।
अतिदेशत्वान्न पृथक्संगत्याद्यपेक्षा ।
ऽतत्तेजो ऽसृजतऽइति श्रुतेः ।
ऽआकाशाद्वायुःऽइति श्रुत्या विरोधो ऽस्ति न वेति एकवाक्यत्वभावाभावभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति- तत्रापीत्यादिना ।
पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितं, तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह- ततश्चेति ।
अस्तमयप्रतिषेधो मुख्योत्पत्त्यसंभवे लिङ्गम् ।
ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽइति तस्यैव लिङ्गस्याभ्यासः ।
ऽवायुरेव व्यष्टिः समष्टिश्चऽइति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः ।
तथा संवर्गविद्यायां ऽवायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरतिऽइति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् ।
एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथाचाकाशं वायुं च सृष्ट्वा तेजो ऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः ।
लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह- प्रतिज्ञेत्यादिना ।
कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा ।
अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कमाह- नन्वित्यादिना ।
ऽवायुर्ह्येवैतान्सवार्न्संवृङ्क्तेऽइत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् ।
तामेव शङ्कामाह- संवर्गेति ।
व्यष्टिसमष्ट्युपास्तिः ऽवायुं दिशां वत्सं वेदऽइत्युपास्तिश्चादिशब्दार्थः
एन्द् ब्स्चोम्_2,3.2.8
स्तर्त् ब्स्चोम्_2,3.3.9
3 असंभवाधिकरणम् । सू. 9
असंभवस् तु सतो ऽनुपपत्तेः । ब्ब्स्_2,3.9 ।
वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रह्मणो ऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः ।
तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्याकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत ।
तामाशङ्कामपनेतुमिदं सूत्रम्- ऽअसंभवस्तुऽ इति ।
न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या ।
कस्मात् ।
अनुपपत्तेः ।
सन्मात्रं हि ब्रह्म ।
न तस्य सन्मात्रादेवोत्पत्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः ।
नापि सद्विशेषाद्दृष्टविपर्ययात् ।
सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयो नतु विशेषेभ्यः सामान्यम् ।
नाप्यसतो निरात्मकत्वात् ।
ऽकथमसतः सज्जायेतऽ (छा. 8.7.1) इति चाक्षेपश्रवणात् ।
ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे. 6.9) इति च ब्रह्मणो जनयितारं वारयति ।
विवत्वपवनयोः पुनरुत्पत्तिः प्रदर्शिता नतु ब्रह्मणः सास्तीति वैषम्यम् ।
नच विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणो ऽपि विकारत्वं भवितुमर्हतीति मूलप्रकृत्यनभ्युपगमे ऽनवस्ताप्रसङ्गात् ।
या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः
असंभवस्तु सतो ऽनुपपत्तेः ।
ऽअनाद्यनन्तं महतः परं ध्रुवम्ऽ, ऽन चास्य कश्चिज्जनिताऽइत्यादि ब्रह्मानादित्वश्रुतीनां ऽत्वं जातो भवसि विश्वतोमुखःऽइत्युत्पत्तिश्रुत्या विरोधो ऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां संदेहे ऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसंगत्या एकदेशिपक्षं प्रापयति- वियदिति ।
ब्रह्म कुतश्चिज्जायते, कारणत्वात्, आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह- तथेति ।
न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः ।
तथाच दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह- तामिति ।
ब्रह्म न च जायते, कारणशून्यत्वात्, नरविषाणवत्, व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षेचाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् ।
न हेत्वसिद्धिः, कारणस्यानिरूपणात् ।
तथाहि-किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा ।
न त्रेधापीत्याह- सन्मात्रं हीत्यादिना ।
दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् ।
वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभ्यां च वैषम्यम् ।
कारणत्वलिङ्गस्याप्रामाणिकानवस्था ।
तर्केणापि बाधमाह- नच विकारेभ्य इत्यादिना ।
कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमे ऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः
एन्द् ब्स्चोम्_2,3.3.9
स्तर्त् ब्स्चोम्_2,3.4.10
4 तेजो ऽधिकरणम् । सू. 10
तेजो ऽतस् तथा ह्य् आह । ब्ब्स्_2,3.10 ।
छान्दोग्ये सन्मूलत्वं तेजसः श्रावितं, तैत्तिरीयके तु वायुमूलत्वं, तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां प्राप्तं तावद्ब्रह्मयोनिकं तेज इति ।
कुतः ।
ऽसदेवऽ इत्युपक्रम्य ऽतत्तेजो ऽसृजतऽ इत्युपदेशात् ।
सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य संभवात् ।
ऽतज्जलान्ऽ (छा. 8.7.1) इति चाविशेषश्रुतेः ऽएतस्माज्जायते प्राणःऽ (मुण्ड. 2.1.3) इति चोपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात् ।
तैत्तिरीयके च ऽस तपस्तप्त्वा ।
इदं सर्वमसृजत ।
यदिदं किञ्चऽ (तै. 3.6.1) इत्यविशेषश्रवणात् ।
तस्मात् ऽवायोरग्निःऽ इति क्रमोपदेशो द्रष्टव्यो वायोरनन्तरमग्निः संभूत इति ।
एवं प्राप्त उच्यते- तेजो ऽतो मातरिश्वनो जायत इति ।
कस्मात् ।
तथाह्याह- ऽवायोरग्निःऽ इति ।
अव्यवहिते हि तेजसो ब्रह्मजत्वे सत्यसति वायुजत्वे वायोरग्निरितीयं श्रुतिः कदर्थिता स्यात् ।
ननु क्रमार्थैषा भविष्यतीत्युक्तम् ।
नेति ब्रूमः - ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1.1) इति पुरस्तात्संभवत्यपादानस्यात्मनः पञ्चमीनिर्देशात्स, तस्यैव च संभवतेरिहाधिकारात्, परस्तादपि च तदधिकारे ऽपृथिव्या ओषधयःऽ (तै. 2.1.1) इत्यपादानपञ्चमीदर्शनाद्वायोरग्निरित्यपादानपञ्चम्येवैषेति गम्यते ।
अपिच वायोरूर्ध्वमग्निः संभूत इति कल्प्य उपपदार्थयोगः कॢप्तस्तु कारकार्थयोगो वायोरग्नि संभूत इति ।
तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसो ऽवगमयति ।
नन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसो ऽवगमयति ऽतत्तेजो ऽसृजतऽ इति ।
न ।
तस्याः पारम्पर्यजत्वे ऽप्यविरोदात् ।
यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजो ऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते ।
यथा तस्याः श्रुतं तस्या दधि तस्या आमिक्षेत्यादि ।
दर्शयति च ब्रह्मणो विकारात्मनावस्तानं ऽतदात्मानं स्वयमकुरुतऽ (तै. 2.7.1) इति ।
तथाचेश्वरस्मरणं भवति- ऽबुद्दिर्ज्ञानमसंमोहःऽ (भ.गी. 10.4) इत्याद्यनुक्रम्य ऽभवति भावा भूतानां मत्त एव पृथग्विधाःऽ (भ.गी. 10.5) इति ।
यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वेश्वरवंश्यत्वात् ।
एतेनाक्रमवत्सृष्टिवादिन्यः श्रुतयो व्याख्याताः ।
तासां सर्वथोपपत्तेः ।
क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः ।
प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोधः
fन्: कदर्थिता पीडिता बाधितेति यावत् ।
तदधिकारे संभूत्यधिकारे ।
तस्या धेनोः श्रुतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः ।
दधिसंसृष्टं कठिनक्षीरमामिक्षा ।
प्रणाड्या परम्परया ।
तेजो ऽतस्तथाह्याह ।
ऽतत्तेजो ऽसृजतऽइति ऽवायोरग्निःऽइति च श्रुत्योर्विरोधो ऽस्ति न वेति संदेहे सामान्यात्सामान्योत्पत्त्यसंभवे ऽपि ब्रह्मवाय्वोः सामान्योस्तेजोरूपविशेषोपादानत्वसंभवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः ।
सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासंभवासंभवौ संशयबीजम् ।
पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलं, सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् ।
एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति- प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना ।
श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् ।
तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते ।
सिद्धान्तयति- एवं प्राप्त इति ।
कदर्थिता ।
बाधितार्थेति यावत् ।
वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितं, नच कल्पितस्योपादानत्वासंभवः, अधिष्ठानत्वासंभवे ऽपि मृदादिवत्परिणामित्वसंभवात्, स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् ।
नच ऽबहु स्याम्ऽइति कार्याभेदे क्षणिलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् ।
नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः ।
इहाधिकारादिति ।
वायोरग्निः संभूत इति वाक्ये संबन्धादित्यर्थः ।
तदधिकारे संभूत्यधिकारे ।
निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह- अपिचेति ।
ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः ।
प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति ।
विशेषतो ऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।
पारम्पर्यजत्वमेवाह- यदापीति ।
तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः ।
दधिसंसृष्टं कठिनक्षीरमामिक्षा ।
ब्रह्मणे वायुभावे मानमाह- दर्शयति चेति ।
पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह- तथाचेति ।
अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह- यद्यपीत्यादिना ।
प्रनाड्या परंपरयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः ।
एतत्पदार्थमाह- तासामिति ।
ऽतज्जलान्ऽइत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः ।
अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजः-कारणे ब्रह्मणि इति सिद्धम्
एन्द् ब्स्चोम्_2,3.4.10
स्तर्त् ब्स्चोम्_2,3.5.11
5 अबधिकरणम् । सू. 11
आपः । ब्ब्स्_2,3.11 ।
ऽअतस्तथाह्याहऽ इत्यनुवर्तते ।
आपो ऽतस्तेजसो जायन्ते ।
कस्मात् ।
तथाह्याह- ऽतदपो ऽसृजतऽ इति ऽअग्नेरापःऽ इति च वचने नास्ति संशयः ।
तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन्नपो ऽन्तरियामित्याप इति सूत्रयांबभूव
आपः ।
अतिदेशो ऽयम् ।
तथा ह्याथर्वणे मुण्डकग्रन्थे ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽइति मन्त्रे ऽपां ब्रह्मजत्वं श्रुतम् ।
ऽअग्नेरापःऽइति श्रुत्या तस्य विरोधो ऽस्ति न वेति संदेहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासंभवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्क्यामुक्तेजोन्यायमतिदिश्य व्याचष्टे- अत इति ।
प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह- सति वचन इति ।
त्रिवृत्कृतयोरप्तेजसोर्विरोधे ऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः ।
न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूचतोत्पत्तिक्रमनिर्णयार्थं चेत्याह- तेजसस्त्विति ।
तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम्
एन्द् ब्स्चोम्_2,3.5.11
स्तर्त् ब्स्चोम्_2,3.6.12
6 पृथिव्यधिकाराधिकरणम् । सू. 12
पृथिव्य् अधिकाररूपशब्दान्तरेभ्यः । ब्ब्स्_2,3.12 ।
ऽता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्तऽ (छा. 6.2.4) इति श्रूयते ।
तत्र संशयः - किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यै चौदनाद्युच्यते किं वा पृथिवीति ।
तत्र प्राप्तं तावद्व्रीहियवाद्योदनादि वा परिग्रहीतव्यमिति ।
तत्र ह्यन्नशब्दः प्रसिद्धो लोके वाक्यशेषो ऽप्येतमर्थमुपोद्वलयति ।
ऽतस्माद्यत्र क्वच वर्षति तदेव भूयिष्टमन्नं भवतीतिऽ ।
व्रीहियवाद्येव हि सति वर्षणे बहु भवति न पृथिवीति ।
एवं प्राप्ते ब्रूमः पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति ।
कस्मात् ।
अधिकाराद्रूपाच्छब्दान्तराच्च ।
अधिकारस्तावत्- ऽतत्तेजो ऽसृजतऽ ऽतदपो ऽसृजतऽ इति महाभूतविषयो वर्तते ।
तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यः ।
तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते ऽयत्कृष्णं तदन्नस्यऽ इति ।
नह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमो ऽस्ति ।
नापि व्रीह्यादीनाम् ।
ननु पृथिव्या अपि नैव कृष्णत्वनियमो ऽस्ति पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् ।
नायं दोषः ।
बाहुल्यापेक्षत्वात् ।
भूयिष्ठं हि पृथिव्याः कृष्णं रूपं न तथा श्वेतरोहिते ।
पौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति ।
सा च कृष्णाभासेत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते ।
श्रुत्यन्तरमपि समानाधिकारमद्भ्यः पृथिवीति भवति ।
ऽतद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्ऽ (बृ. 1.2.2) इति च ।
पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति- ऽपृथिव्या ओषधय ओषधीभ्यो ऽन्नम्ऽ इति च ।
एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः ।
प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते ।
वाक्यशेषो ऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम् ।
तस्मात्पृथिवीयमन्नशब्देति
fन्: तत्तत्र सृष्टिकाले यदपां शरःमण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् ।
पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।
विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह- ता इति ।
अभ्यवहार्यं भक्ष्यम् ।
अत्र श्रुतौ यद्यन्नमोदनादिकं तदा ऽअद्भ्यः पृथिवीऽइति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् ।
अत्पृथिव्योः कार्यकारणभावादधिकरणसंगतिः ।
अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः ।
तदेव तत्रैवेति श्रुत्यर्थः ।
तथाच क्वचिदन्नं क्वचिदद्भयः पृथिवी ततो ऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति- एवं प्राप्त इति ।
अधिकारः प्रकरणम् ।
रूपं लिङ्गम् ।
पयः क्षीरं तद्वत्पाण्डुरं श्वेतम्, अङ्गारवद्रोहितं रक्तम् ।
शब्दान्तरशब्दितं स्थानं व्याचष्टे- श्रुत्यन्तरमपीति ।
अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः ।
तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्धनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः ।
व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह- पृथिव्यास्त्विति ।
पञ्चमीयम् ।
वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह- वाक्यशेषो ऽपीति ।
प्रबलदुर्बलप्रमाणसंनिपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते ।
ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः ।
अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते ।
पृथिव्यब्जा, पृथिवीत्वात्, अन्नवदित्यनुमानादित्यक्षरार्थः ।
एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम्
एन्द् ब्स्चोम्_2,3.6.12
स्तर्त् ब्स्चोम्_2,3.7.13
7 तदभिध्यानाधिकरणम् । सू. 13
तदभिध्यानाद् एव तु तल्लिङ्गात् सः । ब्ब्स्_2,3.13 ।
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्त्याहोस्वत्परमेश्वर एव तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति संदेहे सति प्राप्तं तावत्स्वयमेव सृजन्तीति ।
कुतः ।
ऽआकाशाद्वायुर्वायोरग्निःऽ इत्यादिस्वातन्त्र्यश्रवणात् ।
नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा ।
नैष दोषः ।
ऽतत्तेज ऐक्षत ता आप ऐक्षन्तऽ (छा. 6.2.4) इति च भूतानामपि चेतनत्वश्रवणादिति ।
एवं प्राप्ते ऽभिधीयते- स एव परमेश्वरस्तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति ।
कुतः ।
तल्लिङ्गात् ।
तथाहि शास्त्रम्- ऽयः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयतिऽ (बृ. 3.7.3) इत्येवञ्जातीयकं साध्यक्षाणमेव भूतानां प्रवृत्तिं दर्शयति ।
तथा सो ऽकामयत बहु स्यां प्रजायेय इति प्रस्तुत्य ऽसच्च त्यच्चाभवत् ।
तदात्मानं स्वयमकुरुतऽ (तै. 2.6.1) इति च तस्यैव च सर्वात्मभावं दर्शयति ।
यत्त्वीक्षणश्रवणमप्तेजसोस्तत्परमेश्वरावेशवशादेव द्रष्टव्यम् ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. 3.7.23) इतीक्षित्रन्तरप्रतिषेधात्, प्रकृतत्वाच्च सत ईक्षितुः ऽतदैक्षत बहु स्यां प्रजायेयऽ इत्यत्र
fन्: परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणं श्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः ।
संप्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसंगत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति- तदभिध्यानादेव तु तल्लिङ्गात्सः ।
उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति- किमिमानीत्यादिना ।
संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् ।
नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा ।
नाद्यः, ऽरचनानुपपत्तेःऽइत्यादिन्यायविरोधादिति शङ्कते- नन्विति ।
न द्वितीयः, अचेतनत्वादिति भावः ।
यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा ऽआकाशाद्वायुःऽइत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः ।
एवं ऽतदात्मानं स्वयमकुरुतऽइति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणो ऽन्यानपेक्षसर्वकर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं श्रुतम् ।
तथाच मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह- नैष दोष इति ।
भूतानां तदभिमानिदेवतानामित्यर्थः ।
यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः ।
स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः ।
मुख्यसिद्धान्तमाह- एवं प्राप्त इति ।
आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात् पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात्, तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् ।
यद्यपि देवतानां कर्तृत्वं संभवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यं, किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम्- तल्लिङ्गादिति ।
तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वे ऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः ।
प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह- तथेति ।
पूर्वोक्तमनूद्य निरस्यति- यत्त्विति ।
परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः ।
अनेन ऽतदभिध्यानात्ऽइति पदं व्याख्यातम् ।
इत्थं सूत्रयोजना-स ईश्वरस्तत्तदात्मना स्थितो ऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् ।
जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति ।
तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह- नान्य इति ।
तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम्
एन्द् ब्स्चोम्_2,3.7.13
स्तर्त् ब्स्चोम्_2,3.8.14
8 विपर्ययाधिकरणम् । सू. 14
विपर्ययेण तु क्रमो ऽत उपपद्यते च । ब्ब्स्_2,3.14 ।
भूतानामुत्पत्तिक्रमश्चिन्तितः ।
अथेदानीमप्ययक्रमश्चिन्त्यते ।
किमनियतेन क्रमेणाप्यय उत्पत्तिक्रमेणाथवा तद्विपरीतेनेति ।
त्रयो ऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते- ऽयतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तिऽ (तै. 3.1.1) इति ।
तत्रानियमो ऽविशेषादिति प्राप्तम् ।
अथवोत्पत्तेः क्रमस्य श्रुतत्वाप्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति ।
एवं प्राप्तं ततो ब्रूमः विपर्ययेण तु प्रलयक्रमो ऽत उत्पत्तिक्रमाद्भवितुमर्हति ।
तथाहि लोके दृश्यते येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति ।
अपिच दृश्यते मृदो जातं घटशरावाद्यप्ययकाले मृद्भावमप्येत्यद्भ्यश्च जातं हिमकरकाद्यब्भावमप्येतीति ।
अतश्चोपपद्यत एतत् ।
यद्पृथिव्यद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तावपो ऽपीयादापश्च तेजसो जाताः सत्यस्तेजो ऽपीयुः ।
एवं क्रमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् ।
नहि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः ।
स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः - ऽजगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयतेऽ इत्येवमादौ ।
उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति ।
नचासावयोग्यत्वादप्ययेनाकाङ्क्ष्यते ।
नहि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः कारणाप्यये कार्यस्यावस्थानानुपपत्तेः ।
कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्
fन्: क्रमेण परम्परया ।
विपर्ययेण तु ।
यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसंगतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसंगती इति मत्वाह- भूतानामिति ।
अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलेम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलं, पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः ।
सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह- त्रयो ऽपीति ।
अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः ।
सति कारणे कार्यं नश्यतीति लोके दृश्यते ।
तथाच श्रौतो ऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च ।
कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् ।
न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकिकक्रमावरोधेन निराकाङ्क्षात्वादिति सिद्धान्तयति- ततो ब्रूम इत्यादिना ।
क्रमेण परम्परया सर्वकार्यलयाधारत्वं ब्रह्मणः किमित्याश्रीयते, साक्षादेव तत्किं न स्यादित्यत आह- नहि स्वकारणव्यतिक्रमेणेति ।
घटनाशे मृदनुपलब्धिप्रसङ्गादित्यर्थः ।
ऽवायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयतेऽइति स्मृतिशेष आदिपदार्थः ।
ऽयोग्यताधीनः संबन्धःऽइति न्यायादयोग्यक्रबाध इति सिद्धम्
एन्द् ब्स्चोम्_2,3.8.14
स्तर्त् ब्स्चोम्_2,3.9.15
9 अन्तराविज्ञानाधिकरणम् । सू. 15
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् । ब्ब्स्_2,3.15 ।
भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् ।
आत्मादिरुत्पत्तिः प्रलयश्चात्मान्त इत्यप्युक्तम् ।
सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः ।
ऽबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुःऽ (कठ. 3.3) इत्यादिलिङ्गेभ्यः ।
तयोरपि कस्मिश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात् ।
अपिचाथर्वण उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते ।
ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुणड. 2.1.3) इति ।
तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् ।
न ।
अविशेषात् ।
यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् ।
भवति च भौतिकत्वे लिङ्गं करणानाम् ।
ऽअन्नमयं हि सोम्य मन ओषधयः प्राणस्तेजोमयी वाक्ऽ (छा. 6.5.4) इत्येवजातीयकम् ।
व्यपदेशो ऽपि क्वचिद्भूतानां करणानां च ब्राह्मणपरिव्राजकन्यायेन नेतव्यः ।
अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशेष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं वा करणानीति ।
आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च ।
न तत्रोत्पत्तिक्रम उच्यते ।
तथान्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते- ऽप्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनो ऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतऽ इत्यादिना ।
तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः
fन्: अन्यपराः शब्दा लिङ्गानीत्युच्यन्ते ।
इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मा आसीत् ।
अन्तराविशेषात् ।
उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां संदेहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह- भूतानामित्यादिना ।
करणान्येव न सन्तीति वदन्तं प्रत्याह- सेन्द्रियस्येति ।
ऽमनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सःऽ, ऽश्रोत्रादीनीन्द्रियाण्यन्येऽइति स्मृतिर्द्रष्टव्या ।
अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते ।
करणानां क्रमाकाङ्क्षामाह- तयोरिति ।
आकाङ्क्षायांश्रुतिसिद्धः क्रमो ग्राह्य इत्याह- अपिचेति ।
विज्ञायते ऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः ।
आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् ऽएतस्माज्जायते प्राणो मनःऽइत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते ।
तथाच करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः ।
नच करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यं, तेषां भौतिकत्वे मानाभावात् ।
तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् ।
सिद्धान्तयति- नेति ।
ऽआत्मन आकाशःऽइत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति ।
न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः ।
किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह- यदीति ।
नच प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यं, करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् ।
प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशेन वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः ।
यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः ।
ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक् तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह- व्यपदेशो ऽपीति ।
प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह- अथ त्विति ।
करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः ।
न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः ।
तर्हि कथं क्रमनिर्णयः, तत्राह- तथेति ।
इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मासीत् अत्र सूक्ष्मभूतात्मकप्रजापत्तिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः ।
एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति- तस्मादिति
एन्द् ब्स्चोम्_2,3.9.15
स्तर्त् ब्स्चोम्_2,3.10.16
10 चराचरव्यपाश्रयाधिकरणम् । सू. 16
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् । ब्ब्स्_2,3.16 ।
स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्चेति स्यात्कस्यच्द्भ्रान्तिस्तामपनुदामः ।
न जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसंबन्धोपपत्तेः ।
शरीरानुविनाशिनि हि जीवे शरीरान्तकगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्तकौ स्याताम् ।
श्रूयते च- ऽजीवापेतं वाव किलेदं म्रियते न जीवो म्रियतेऽ (छा. 6.11.3) इति ।
ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः ।
सत्यं दर्शितः ।
भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः ।
किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इति ।
उच्यते- चराचरव्यपाश्रयः ।
स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ ।
स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्यते, तद्भावभावित्वात् ।
शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतो नासतोः ।
नहि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते ।
ऽस वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाणः (बृ. 4.3.8) इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति ।
जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् ।
अभावाज्जीवप्रादुर्भावस्य ।
जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति ।
देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्त इत्येतदनेन सूत्रेणावोचत्
fन्: जीवापेतं जीवेन त्यक्तमिदं शरीरम् ।
चराचरभावित्वात् ।
एवं तावत्तत्पदवाच्यकारणनिर्णयाय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पादमाप्तेस्त्वंपदार्थशुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते ।
इह जीवो ऽन जायते म्रियतेऽइत्यादिश्रुतेर्जातेष्टिश्राद्धशास्त्रेण विरोधो ऽस्ति न वेति संदेहे विरोधो ऽस्तीति प्राप्ते लौकिकजन्मादिव्यपदेशसहायाज्जातेष्ट्यादिशास्त्रेण जीवाजत्वादिश्रुतिर्बाध्यत इति पूर्वपक्षयति- स्त इति ।
तथाच करणोत्पत्तिक्रमेण भूतक्रमस्य बाधाभावे ऽपि जीवोत्पत्तिक्रमेण बाधः स्यादिति प्रत्युदाहरणसंगतिः ।
पूर्वपक्षे जीवब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः ।
चेतनजन्माद्युद्देशेन चेतनस्य तस्य जन्मान्तरीयफलसाधनं जातकर्मादिसंस्कारो विधीयते ।
तथा चोद्देश्यविधेययोर्मिथोविरोधे सति ऽविधेयाविरोधेनोद्देश्यं नेयम्ऽइति न्यायाज्जन्मादिकं देहोपाधिकं न स्वत इति सिद्धान्तयति- तामित्यादिना ।
जीवापेतं जीवेन त्यक्तमिदं शरीरम् ।
जन्मादिव्यपदेशश्चराचरदेहविषयो मुख्यः ।
जीवे तु भाक्तो गौण औपाधिकजन्मादिविषयः स्यादुपाधिजन्मभावे भावादसत्यभावादिति सूत्रार्थः ।
जीवस्यौपाधिकजन्ममृत्यौ श्रुतिमप्याह- स वा इति ।
जायमानपदार्थमाह- शरीरमिति ।
म्रियमाणत्वं व्याचष्टे- उत्क्रामन्निति ।
ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह- जीवस्येति ।
तदेवं जातेष्ट्यादिशास्त्रस्यौपाधिकजन्मादिविषयत्वान्न जीवाद्यजन्यत्वश्रुतिविरोध इति सिद्धम्
एन्द् ब्स्चोम्_2,3.10.16
स्तर्त् ब्स्चोम्_2,3.11.17
11 आत्माधिरणम् । सू. 17
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः । ब्ब्स्_2,3.17 ।
अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसंबन्धी ।
स किं व्योमादिवदुत्पद्यते ब्रह्मण आहोस्विद्ब्रह्मवदेव नोत्पद्यत इति श्रुतिविप्रतिपत्तेर्विशयः ।
कासुचिच्छ्रुतिष्वग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते, कासुचित्त्वविकृतस्य परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते नचोत्पत्तिराम्नायत इति ।
तत्र प्राप्तं तावदुत्पद्यते जीव इति ।
कुतः ।
प्रतिज्ञानुपरोधादेव ।
एकस्मिन्विदिते सर्वमिदं विदितम् इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत ।
तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत ।
नचाविकृतः परमात्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् ।
अपहृतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः ।
विभागाच्चास्य विकारत्वसिद्धिः ।
यावान्ह्याकाशादिः प्रविभक्तः स सर्वो विकारस्तस्य चाकाशादेरुत्पत्तिः समधिगता ।
जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक्प्रतिशरीरं प्रविभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति ।
अपिच ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवास्मादात्मनः सर्वे प्राणाःऽ (बृ. 2.1.20) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा ऽसर्व एव आत्मनो व्युच्चरन्तिऽ इति भोक्तृणीमात्मनां पृथक्सृष्टिं शास्ति ।
ऽयथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तिऽ (मुण्ड. 2.1.1) इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते ।
सरूपवचनात्,
जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् ।
नच क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति ।
श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात् ।
प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या, ऽतदात्मानं स्वयमकुरुतऽ इत्यादिवत् ।
तस्मादुत्पद्यते जीव इति ।
एवं प्राप्ते ब्रूमः - नात्मा जीव उत्पद्यत इति ।
कस्मात् ।
अश्रुतेः ।
नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु ।
ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयितीत्युक्तम् ।
सत्यमुक्तम् ।
उत्पत्तिरेव त्वस्य न संभवतीति वदामः ।
कस्मात् ।
नित्यत्वाच्च ताभ्यः ।
चशब्दादजत्वादिभ्यश्च ।
नित्यत्वं ह्यस्य श्रुतिभ्यो ऽवगम्यते तथाजत्वमविकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति ।
नचैवंरूपस्योत्पत्तिरुपपद्यते ।
ताः काः श्रुतयः ।
ऽन जीवो म्रियतेऽ (छा. 6.11.3), ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.22), ऽन जायते म्रियते वा विपश्चित्ऽ (कठं 2.18), ऽअजो नित्यः शाश्वतो ऽयं पुराणःऽ (कठ. 2.18). ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. 2.6.1), ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6.3.2), ऽस एष इह प्रविष्ट आ नखाग्रेभ्यःऽ (बृ. 1.4.7), ऽतत्त्वमसिऽ (छा. 6.8.7) ऽअहं ब्रह्मास्मिऽ (बृ. 1.4.19), ऽअयमात्मा ब्रह्म सर्वानुभूःऽ (बृ. 2.5.19) इत्येवमाद्या नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिबध्नन्ति ।
ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यत इत्युक्तम् ।
अत्रोच्यते- नास्य प्रविभागः स्वतो ऽस्ति ।
ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे. 6.11) इति श्रुतेः ।
बुद्ध्याद्यपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसंबन्धनिमित्तम् ।
तथाच शास्त्रम्- ऽस वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ (बृ. 4.4.5) इत्येवमादि ब्रह्मण एवाविकृतस्य सतो ऽप्येकस्यानेकबुद्ध्यादिमयत्वं दर्शयति ।
तन्मयत्वं चास्य विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवद्द्रष्टव्यम् ।
यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसंबन्धान्नेतव्यम् ।
उपाध्युत्पत्त्यास्योत्पत्तिस्तत्प्रलयेन च प्रलय इति ।
तथाच दर्शयति- ऽप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तिऽ (बृ. 4.5.13) इति ।
तथोपाधिप्रलय एवायं नात्मविलय इत्येतदप्यत्रैव ऽमा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्तिऽ इति प्रश्नपूर्वकं प्रतिपादयति- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ (बृ. 4.5.14) इति ।
प्रतिज्ञानुपरोधो ऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् ।
लक्षणभेदो ऽप्यनयोरुपाधिनिमित्त एव ।
ऽअत ऊर्ध्वं विमोक्षायैव ब्रूहिऽ (बृ. 4.3.15) इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् ।
तस्मानैवात्मोत्पद्यते प्रविलीयते चेति
fन्: उपरोधो बाधः ।
सरूपशब्दो जीववाचीति शेषः ।
जाल्मः कामजडः ।
स यथा स्त्रीपरतन्त्रः स्त्रीमयो व्पदिश्यते ।
एतेभ्यो देहात्मना परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति ।
मोहं मोहकरं वाक्यम् ।
नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।
अग्नेर्विस्फुलिङ्गवदेतस्मापरमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ ऽअज आत्माऽइत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसंभवात्, कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्संभवादिति प्रत्युदाहरणेन पूर्वपक्षमाह- तत्र प्राप्तं तावदिति ।
फलं पूर्ववत् ।
उपरोधो बाधः ।
नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह- नचेति ।
जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।
सरूपेति ।
दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते ।
ननु ऽआत्मन आकाशः संभूतःऽइत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह- न चेति ।
एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः ।
अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद, घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति- एवमिति ।
धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा ।
नाद्यः, असिद्धेरित्याह- अत्रोच्यते नास्येति ।
द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह- बुद्ध्यादीति ।
औपाधिकभेदे मानमाह- तथाचेति ।
मयटो विकारार्थत्वमाशङ्क्याह- तन्मयत्वं चेति ।
जाल्मः कामजडः स्त्रीपरतन्त्रः ।
स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः ।
लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह- यदपीति ।
जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह- तथेति ।
एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति ।
प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः ।
ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह- तथेति ।
उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः ।
अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः ।
मुनिराह- न वा इति ।
मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मो ऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः ।
तर्हि न प्रेत्य संज्ञेति कथमुक्तं, तत्राह- मात्रेति ।
मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः ।
बिम्बप्रतिबिम्बयोरिव विरुद्धाधर्मभेदो ऽध्यस्त इत्यत्र हेतुमाह- अत ऊर्ध्वमिति ।
जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डनार्थमिति च वक्तव्यं, तथाच फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम्
एन्द् ब्स्चोम्_2,3.11.17
स्तर्त् ब्स्चोम्_2,3.12.18
12 ज्ञाधिकरणम् । सू. 18
ज्ञो ऽत एव । ब्ब्स्_2,3.18 ।
स किं कणभुजानामिवागन्तुकचैतन्यः स्वतो ऽचेतन आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एवेति वादिविप्रतिपत्तेः संशयः ।
किं तावत्प्राप्तम् ।
आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजमग्निघटसंयोगजरोह् इतादिगुणवदिति प्राप्तम् ।
नित्यचैतन्यत्वे हि सुप्तमूर्च्छितग्रहाविष्टानामपि चातन्यं स्यात् ।
ते पृष्टाः सन्तो न किञ्चिद्वयमचेतयामहीति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्ते ।
अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति ।
एवं प्राप्ते ऽभिधीयते- ज्ञो नित्यचैतन्यो ऽयमात्मात एव, यस्मादेव नोत्पद्यते परमेव ब्रह्माविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते ।
परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम्- ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. 3.9.28), ऽसत्यं ज्ञानमन्तं ब्रह्मऽ (तै. 2.1.1), ऽअनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ. 4.5.13), इत्यादिषु श्रुतिषु ।
तदेव चेत्परं ब्रह्म जीवस्तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते ।
विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति- असुप्तः ऽसुप्तानभिचाकशीतिऽ (बृ. 4.3.11) ऽअत्रायं पुरुषः स्वयञ्ज्योतिर्भवतिऽ (बृ. 4.3.9) इति, ऽनहि विज्ञातुर्निर्विज्ञातेर्विपरिलापो विद्यतेऽ (बृ. 4.3.30) इत्येवंरूपाः ।
ऽअथ यो वेदेदं जिघ्राणीति स आत्माऽ (छा. 8.12.4) इति च सर्वैः करणद्वारैरिदं वेदेदं वेदेति विज्ञानेनानुसंधानात्तद्रूपत्वसिद्धिः ।
नित्यस्वरूपचैतन्यत्वे घ्राणाद्यानर्थक्यमिति चेत् ।
न ।
गन्धादिविषयविशेषपरिच्छेदार्थत्वात् ।
तथाहि दर्शयति- ऽगन्धाय घ्राणम्ऽ इत्यादि ।
यत्तु सुप्तादयो न चेतयन्त इति तस्य श्रुत्यैव परिहारो ऽभिहितः ।
सुषुप्तं प्रकृत्य ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति- नहि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते ऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ. 4.3.23) इत्यादिना ।
एतदुक्तं भवति- विषयाभावादियमचेतयमानता न चैतन्याभावादिति ।
यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्यभावादनभिव्यक्तिर्न स्वरूपाभावात्तद्वत् ।
वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति ।
तस्मान्नित्यचैतन्यस्वरूप एवात्मेति निश्चिनुमः
fन्: स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरव्यापारानभिचाकशीति अभिपश्यति ।
परिच्छेदो वृत्तिः ।
गन्धाय तद्गोचरान्तःकरणवृत्तये ।
ज्ञो ऽत एव ।
ऽआत्मैवास्य ज्योतिःऽइत्याद्यात्मस्वप्रकाशत्वश्रुतीनां ऽपश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्ऽइत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधो ऽत्र निरस्यते ।
अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः ।
प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः संगतिः ।
अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति ।
न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् ।
तथाच पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् ।
इष्टापत्तिं निराचष्टे- ते पृष्टा इति ।
साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह- अतः कादाचित्केति ।
यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् ।
अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति- एवमिति ।
चेच्छब्दो निश्चयार्थः ।
न केवल स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितो ऽपीत्याह- विज्ञानमयेति ।
यो ऽयं विज्ञानमय इति प्रकरण इत्यर्थः ।
असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति ।
सुप्तार्थान्पश्यतीति यावत् ।
अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः ।
घ्राणादिजन्यगन्धादिज्ञानानुसंधानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह- अथेति ।
आत्मनो नित्यचिद्रूपत्वे ऽपि स्वतो ऽसङ्गतया गन्धाद्यसंबन्धात्तत्संबन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह- न गन्धेति ।
परिच्छेदो वृत्तिः ।
गन्धाय तद्गोचरान्तः-करणवृत्तये इत्यर्थः ।
सुप्ताद्यवस्थात्मसत्त्वे ऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति- यत्विति ।
तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः- नहीति ।
नाशायोग्यत्वादित्यर्थः ।
किमिति न पश्यतीत्यत आह- न त्विति ।
वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् ।
साधनवैयर्थ्यतर्को ऽपि निरस्तः ।
शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् ।
आत्मा न ज्ञानं, द्रव्यत्वात्, इत्यादितर्काश्चागमबाधिताः ।
फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् ।
किञ्च निरवयवात्मनो मनः-संयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च ।
किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या ऽकामः संकल्पःऽइत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम्
एन्द् ब्स्चोम्_2,3.12.18
स्तर्त् ब्स्चोम्_2,3.13.19
13 उत्क्रान्तिगत्यधिकरणम् । सू. 19-32
उत्क्रान्तिगत्यागतीनाम् । ब्ब्स्_2,3.19 ।
इदानीं तु किंपरिमाणो जीव इति चिन्त्यते ।
किमणुपरिमाण उत मध्यमपरिमाण आहोस्विन्महापरिमाण इति ।
ननु च नात्मोत्पद्यते नित्यचैतन्यश्यायमित्युक्तम् ।
अतश्च पर एवात्मा जीव इत्यापतति ।
परस्या चात्मनो ऽनन्तरत्वमाम्नातं, तत्र कुतो जीवस्य परिमाणचिन्तावतार इति ।
उच्यते- सत्यमेतत् ।
उत्क्रान्तिगत्याहगतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति ।
स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमाम्नायते ।
तस्य सर्वस्यानाकुलत्वोपपादानायायमारम्भः ।
तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नो ऽणुपरिमाणो जीव इति ।
उत्क्रान्तिस्तावत्- ऽस यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामतिऽ (कौषीत. 3.3) इति ।
गतिरपि ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषीत. 1.2) इति ।
आगतिरपि ऽतस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणेऽ (बृ. 4.4.6) इति ।
आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति ।
नहि विभोश्चलनमवकल्पत इति ।
सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते
स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा संगत्या विचारयति- उत्क्रान्तिगत्यागतीनाम् ।
विषयसंशयौ दर्शयति- इदानीमिति ।
नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह- नन्वित्यादिना ।
न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनो ऽणुत्वं किन्त्वेषो ऽणुरात्मेति श्रुत्यापीत्याह- स्वशब्देनेति ।
पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह- तत्र प्राप्तमित्यादिना ।
श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् ।
उत्क्रान्तिः श्रूयत इति शेषः ।
स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः
एन्द् ब्स्चोम्_2,3.13.19
स्तर्त् ब्स्चोम्_2,3.13.20
स्वात्मना चोत्तरयोः । ब्ब्स्_2,3.20 ।
उत्क्रान्तिः कदाचिदचलतो ऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत ।
उत्तरे तु गत्यागती नाचलतः संभवतः ।
स्वात्मना हि तयोः संबन्धो भवति, गमेः कर्तृस्थक्रियात्वात् ।
अमध्यमपरिमाणस्य च गत्यागती अणुत्व एव संभवतः ।
सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते ।
नह्यनपसृत्य देहाद्गत्यागती स्याताम् ।
देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् ।
ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ. 4.4.2) इति ।
ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ (बृ. 4.4.1), ऽशुक्रमादाय पुनरैति स्थानम्ऽ (बृ. 4.3.11) इति चोत्तरे ऽपि शरीरे शरीरस्य गत्यागती भवतः ।
तस्मादप्यस्याणुत्वसिद्धिः
fन्: अपादानत्वमवधित्वम् ।
उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात् किन्तु स्वामित्वनिवृत्तिरिति केचित् ।
तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह- स्वात्मनेति ।
उत्क्रान्तेरुत्तरयोर्गत्यागत्ययोः स्वात्मना कर्त्रा संबन्धादणुत्वमिति सूत्रयोजना ।
पाकानाश्रयस्य पक्तृत्ववद्रत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह- गमेरिति ।
गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्क्रर्त्राश्रितत्वं लोकसिद्धमित्यर्थः ।
जीवो ऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह- अमध्यमेति ।
अङ्गीकारं त्यजति- सत्योश्चेति ।
न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः ।
देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह- देहप्रदेशानामिति ।
अपादानत्वमवधित्वम् ।
अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।
किञ्च देहमध्ये ऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह- स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः
एन्द् ब्स्चोम्_2,3.13.20
स्तर्त् ब्स्चोम्_2,3.13.21
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् । ब्ब्स्_2,3.21 ।
अथापि स्यान्नाणुरयमात्मा ।
कस्मात् ।
अतच्छ्रुतेः ।
अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः ।
ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु (बृ. 4.4.12), ऽआकाशवत्सर्वगतश्च नित्यःऽ, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. 2.1.1) इत्येवञ्जातीयका हि श्रुतिरात्मनो ऽणुत्वे विप्रतिषिध्येतेति चेत् ।
नैष दोषः ।
कस्मात् ।
इतराधिकारात् ।
परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः ।
परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् ।
विरजः पर आकाशादित्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् ।
ननु ऽयो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. 4.4.22) इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते ।
शास्त्रदृष्ट्या त्वेष निर्देशो वामदेववद्द्रष्टव्यः ।
तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य च जीवस्याणुत्वं विरुध्यते
fन्: इतराधिकारात् ब्रह्मप्रकरणात् ।
इतराधिकारात् ।
ब्रह्मप्रकरणात् ।
ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह- परस्येति ।
या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह- विरज इति ।
निर्देष इत्यर्थः ।
विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते- नन्विति ।
अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह- शास्त्रेति
एन्द् ब्स्चोम्_2,3.13.21
स्तर्त् ब्स्चोम्_2,3.13.22
स्वशब्दोन्मानाभ्यां च । ब्ब्स्_2,3.22 ।
इतश्चाणुरात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते- ऽएषो ऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेशऽ (मुण्ड. 3.1.9) इति ।
प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति गम्यते ।
तथोन्मानमपि जीवस्याणिमानं गमयति- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयःऽ (श्वे. 5.8) इति ।
ऽआराग्रमात्रो ह्यवरोषपि दृष्टःऽ (श्वे. 5.8) इति चोन्मानान्तरम्
नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते ।
दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोपलब्धिरिति ।
fन्: उद्धृत्यमानमुन्मानम् ।
बालः केशः ।
तोत्रप्रोतायःशलाकाग्रमराग्रं तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ।
एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितं, तत्र श्रुतिमप्याह- स्वशब्देति ।
बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः ।
बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् ।
तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा
एन्द् ब्स्चोम्_2,3.13.22
स्तर्त् ब्स्चोम्_2,3.13.23
अत उत्तरं पठति-
अविरोधश् चन्दनवत् । ब्ब्स्_2,3.23 ।
यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धो ऽपि सन्सकलदेहव्यपिनमाह्लादं करोत्येवमात्मापि देहैकदेशेभ्यः सकलदेहव्यापिनीमुपलब्धिं करिष्यति ।
त्वक्संबन्धनाच्चास्य सकलशरीरगता वेदना न विरुध्यते ।
त्वगात्मनोर्हि संबन्धः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति
आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् ।
त्वगात्मनोरिति ।
संबन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः
एन्द् ब्स्चोम्_2,3.13.23
स्तर्त् ब्स्चोम्_2,3.13.24
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि । ब्ब्स्_2,3.24 ।
अत्राह यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तं दृष्टान्तदार्ष्ट्रान्तिकयोरतुल्यत्वात् ।
सिद्धे ह्यात्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति ।
प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च ।
आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् ।
अनुमेयं तु तदिति यदप्युच्येत ।
नचात्रानुमानं संभवति ।
किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः किंवा विभोर्नभस इवाहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्येति संशयानतिवृत्तेरिति ।
अत्रोच्यते- नायं दोषः ।
कस्मात् ।
अभ्युपगमात् ।
अभ्युपगम्यते ह्यात्मनो ऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् ।
कथमित्युच्यते ।
हृदि ह्येष आत्मा पठ्यते वेदान्तषु ।
ऽहृदि ह्येष आत्माऽ
(प्रश्न. 3.6), ऽस वा एष आत्मा हृदिऽ (छा. 8.3.3), ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. 4.3.7) इत्याद्युपदेशेभ्यः ।
तस्माद्दृष्टान्तदार्ष्ट्रान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति
सिद्धे हीति ।
नतु सिद्धमित्यतुल्यतेत्यर्थः ।
विशेष एव वैशेष्यम् ।
चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे संदेहाद्ध्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् ।
व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः ।
आत्माल्पः, व्यापिकार्यकारित्वात्, चन्दनबिन्दुवदित्यनुमानमयुक्तं, त्वगादौ व्यभिचारादित्याह- न चात्रानुमानमिति ।
पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह- अत्रोच्यत इति
एन्द् ब्स्चोम्_2,3.13.24
स्तर्त् ब्स्चोम्_2,3.13.25
गुणाद्वा लोकवत् । ब्ब्स्_2,3.25 ।
चैतन्यगुणव्याप्तेर्वाणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते ।
यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभापवरकव्यापिनी सती कृत्स्ने ऽपवरके कार्यं करोति तद्वत् ।
स्यात्कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वं व त्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विप्रसर्पेदित्याशङ्क्य गुणाद्वा लोकवदित्युक्तम्
कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत ।
नहि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते ।
प्रदीपभावद्भवेदिति चेत् ।
न ।
तस्या अपि द्रव्यत्वाभ्युपगमात् ।
निबिडावयवं हि तेजोद्रव्यं प्रदीपः ।
प्रविरलावयवं तु तेजोद्रव्यमेव प्रभेति ।
आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह- गुणाद्वेति ।
वाशब्देन चन्दनदृष्टान्तापरितेषः सूचितस्तमाह- स्यादिति
एन्द् ब्स्चोम्_2,3.13.25
स्तर्त् ब्स्चोम्_2,3.13.26
अत उत्तरं पठति-
व्यतिरेको गन्धवत् । ब्ब्स्_2,3.26 ।
यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति ।
अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः ।
एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति ।
अतश्चानैकान्तिकमेतद्गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति ।
गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् ।
गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् ।
न ।
यस्मान्मूलद्रव्याद्विश्लेषितस्य क्षयप्रसङ्गात् ।
अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते ।
अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत ।
स्यादेतत् ।
गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात्सन्नपि विशेषो नोपलक्ष्यते ।
सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृप्ता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् ।
न ।
अतीन्द्रियत्वात्परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेसरादिषु ।
नच लोके प्रतीतिर्गन्धवद्द्रव्यमाघ्रातमिति ।
गन्ध एवाघ्रात इति तु लौकिकाः प्रतीयन्ति ।
रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् ।
न ।
प्रत्यक्षत्वादनुमानाप्रवृत्तेः ।
तस्माद्यद्यथा लोके दृष्टं तत्तथैवानुमन्तव्यं निरूपकैर्नान्यथा ।
नहि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयो ऽपि गुणा जिह्वायैवोपलभ्येरग्निरिति नियन्तुं शक्यते
fन्: गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।
उत्तरसूत्रव्यावर्त्यं शङ्कते- कथमिति ।
ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात्, रूपवत्, नच प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह- अत उत्तरमिति ।
गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।
ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह- अक्षीयामाणमपीति ।
अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्रव्यमनुमीयत इत्यर्थः ।
विमतमविश्लिष्टावयवं, पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात्, संमतवदिति भावः ।
शङ्कते- स्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणं, अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् ।
विशेषो ऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथाच गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः ।
आगच्छन्तो ऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति- नेति ।
द्वितीयं प्रत्याह- स्फुटेति ।
त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः ।
अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः ।
गन्धो न गुणिविश्लिष्टः गुणत्वात्, रूपवदिति शङ्कते- रूपेति ।
विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह- नेति
एन्द् ब्स्चोम्_2,3.13.25
स्तर्त् ब्स्चोम्_2,3.13.27
तथा च दर्शयति । ब्ब्स्_2,3.27 ।
हृदयायतनत्वमणुपरिमाणत्वं चात्मनो ऽभिधाय तस्यैव ऽआ लोमस्य आ नखाग्रेभ्यःऽ (छा. 8.8.1) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति
आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः- तथाच दर्शयतीति ।
तद्व्याचष्टे- हृदयेति
एन्द् ब्स्चोम्_2,3.13.27
स्तर्त् ब्स्चोम्_2,3.13.28
पृथगुपदेशात् । ब्ब्स्_2,3.28 ।
ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी. 3.6) इति चात्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशाच्चैतन्यगुणेनैवास्य शरीरव्यापिता गम्यते ।
ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. 2.1.17) इति च कर्तुः शारीरत्पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्बलयति ।
तस्मादणुरात्मेति
fन्: विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः ।
तत्रैव श्रुत्यन्तरार्थं सूत्रम्- पृथगिति ।
विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः ।
एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम्
एन्द् ब्स्चोम्_2,3.13.28
स्तर्त् ब्स्चोम्_2,3.13.29
एवं प्राप्ते ब्रूमः -
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ब्ब्स्_2,3.29 ।
तुशब्दः पक्षं व्यवर्तयति ।
नैतदस्त्यणुरात्मेति ।
उत्पत्त्यश्रवणाद्धि परस्यैव तु ब्रह्मणः प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् ।
परमेव चेद्ब्रह्म जीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति ।
परस्य च ब्रह्मणो विभुत्वमाम्नातम् ।
तस्माद्विभुर्जीवः ।
तथाच ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. 4.4.22) इत्येवञ्जातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति ।
नचाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ।
त्वक्संबन्धात्स्यादिति चेत् ।
न ।
कण्टकतोदने ऽपि सकलशरीरगतैव वेदना प्रसज्येत ।
त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति ।
पादतल एव तु कण्टकनुन्नो वेदनां प्रति लभते ।
नचाणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात् ।
गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत ।
प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् ।
गन्धो ऽपि गुणत्वाभ्युपगमात्साश्रय एव संचरितुमर्हति ।
अन्यथा गुणत्वहानिप्रसङ्गात् ।
तथाचोक्तं द्वैपायनेन- ऽउपलभ्याप्सु चेद्गन्दं केचिद्ब्रूयुरनैपुणाः ।
पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्ऽ इति ।
यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् ।
चैतन्यमेव ह्यस्य स्वरूपमग्नेरिवौष्ण्यप्रकाशौ ।
नात्र गुणगुणिविभागो विद्यत इति शरीरपरिमाणत्वं च प्रत्याख्यातम् ।
परिशेषाद्विभुर्जीवः ।
कथं तर्ह्यणुत्वादिव्यपदेश इत्यत आह- तद् गुणसारत्वात्तु तद्व्यपदेशः इति ।
तस्या बुद्धेर्गुणास्तद्गुणा इच्छा द्वेषः सुखं दुःखमित्येवमादयस्तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे संभवति स तद्गुणसारस्तस्य भावस्तद्गुणसारत्वम् ।
नहि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति ।
बुद्ध्युपाधिर्धर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तृरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः ।
तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः ।
तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यदिव्यपदेशो न स्वतः ।
तथाच- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पतेऽ (श्वे. 5.9) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ।
तच्चैवमेव समञ्जसं स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् ।
नह्युभयं मुख्यमवकल्पेत ।
नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं, सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपादयिषितत्वात् ।
तथेतरस्मिन्नप्युन्माने ऽबुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरो ऽपि दृष्टःऽ (श्वे. 6.8) इति च बुद्धिगुणसंबन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना ।
ऽएषो ऽणुरात्मा चेतसा वेदितव्यःऽ (मुण्ड. 3.1.9) इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् ।
जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः ।
तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् ।
तथा ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी. 3.6) इत्येवञ्जातीयकेष्वपि भेदोपदेशेषु बुद्ध्यौवोपाधिभूतया जीवः शरीरं समारुह्येत्येवं योजयितव्यम् ।
व्यपदेशमात्रं वा, शिलापुत्रकस्य शरीरमित्यवदत् ।
नह्यत्र गुणगुणिविभागो ऽपि विद्यत इत्युक्तम् ।
हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् ।
तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति- ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीतिऽ (प्रश्न. 6.3) ऽस प्राणमसृजतऽ (प्र. 6.4) इति ।
उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते ।
नह्यनपसृपस्य देहाद्गत्यागती स्याताम् ।
एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः प्राज्ञवत् ।
यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः- ऽअणीयान्व्रीहेर्वा यवाद्वाऽ (छा. 3.1.14.2) ऽमनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पःऽ (छा. 3.14.2) इत्येवंप्रकारस्तद्वत् ।
स्यादेतद्यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति
तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः ।
तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे- तुशब्द इत्यादिना ।
तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहिते श्रुतिस्मृति आह- तथाच स वा एष इति ।
नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः ।
एतेन जीवस्य ब्रह्मबेदज्ञाने ऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् ।
प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् ।
ऽगुणे त्वन्याय्यकल्पनाऽइति न्यायादिति भावः ।
किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयो ऽध्यस्ताणुत्ववि षयत्वेन कथञ्चिदर्थवादा नेयाः ।
लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह- न चाणोरिति ।
शङ्कते- त्वगिति ।
यद्यण्वात्मसंबन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति- नेति ।
प्रसङ्गस्येष्ठत्वं निरस्यति- पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात्, तथाचाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः ।
नच सिद्धान्ते त्वगात्मसंबन्धस्य व्यापित्वात्कण्टकसंबन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् ।
यावती विषयसंबद्धा त्वक् तावद्व्याप्यात्मसंबन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् ।
न चैवं विषयत्वक्संबन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् ।
वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं संभवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः ।
न चैषां व्यापकत्वमसिद्धं, सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् ।
यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह- न चाणोरिति ।
गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात्, रूपवदित्यत्रागममाह- तथा चोक्तमिति ।
नच प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वे ऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसंभवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः ।
पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तं, संप्रति तस्य गुणत्वमसिद्धमित्याह- यदि च चैतन्यमिति ।
उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे- कथमित्यादिना ।
ऽअन्तरा विज्ञानमनसी हृदि हिऽइति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते ।
बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह- तथाचेति ।
अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सो ऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः ।
उक्तं चैतदङ्गुष्ठाधिकरणे ऽप्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्ऽइति ।
बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् ।
तत्राद्यं निरस्य द्वितीयं निरस्यति- तथेतरस्मिन्नपीति ।
बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणो ऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।
ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानःऽइत्युक्त्वा ऽएषो ऽणुरात्माऽइत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह- जीवस्यापीति ।
यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह- तथा प्रज्ञयेति ।
बुद्धिः प्रज्ञेत्यर्थः ।
यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह- व्यपदेशमात्रं वेति ।
ननु चैतन्यं गुण इति भेदो मुख्यो ऽस्तु, नेत्याह- न ह्यत्रेति ।
निर्गुणत्वश्रुतेरित्यर्थः ।
अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह- हृदयेत्यादिना ।
सौत्रं दृष्टान्तं विवृणोति- यथेति ।
असत्त्वमित्यापाततः ।
असंसारित्वमापाद्यम् ।
शेषं सुबोधम्
एन्द् ब्स्चोम्_2,3.13.29
स्तर्त् ब्स्चोम्_2,3.13.30
अत उत्तरं पठति-
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् । ब्ब्स्_2,3.30 ।
नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया ।
कस्मात् ।
यावदात्मभावित्वाद्बुद्धिसंयोगस्य ।
यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति ।
यावदेव चायं बुद्ध्युपाधिसंबन्धस्तावज्जीवस्य जीवत्वं संसारित्वं च ।
परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिसंबन्धपरिकल्पितस्वरूपव्यतिरेकेणास्ति ।
नहि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते ।
ऽनान्यो ऽतो ऽस्ति द्रष्टा श्रोता मन्ता विज्ञाताऽ (बृ. 3.7.23), ऽनान्यदतो ऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृऽ (छा. 6.8.7), ऽतत्त्वमसिऽ (छा. 6.1.6), ऽअहं ब्रह्मास्मिऽ (बृ. 1.4.7) इत्यादिश्रुतेभ्यः ।
कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ।
तद्दर्शनादित्याह ।
तथाहि शास्त्रं दर्शयति- ऽयो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीवऽ (बृ. 4.3.4) इत्यादि ।
तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति ।
प्रदेशान्तरे ऽविज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ इति विज्ञानमयस्य मनआदिभिः सह पाठात् ।
बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते ।
यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानो ऽभिधीयते तद्वत् ।
ऽस समानः सन्नुभौ लोकावनुसंचरतिऽ इति च लोकान्तरगमने ऽप्यवियोगं बुद्ध्या दर्शयति ।
केन समानस्तस्यैवबुद्ध्येति गम्यते संनिधानात् ।
तच्च दर्शयति - ऽध्यायतीव लेलायतीवऽ (बृ. 4.3.7) इति ।
एतदुक्तं भवति- नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति ।
अपिच मिथ्याज्ञानपुरःसरो ऽयमात्मनो बुद्ध्युपाधिसंबन्धः ।
नच मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधस्यावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति ।
दर्शयति च- ऽवेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः पुरस्तात् ।
तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे. 3.8) इति
fन्: विज्ञानमयो बुद्धिप्रचुरः ।
आदित्यवर्णं स्वप्रकाशम् ।
तमसः परस्तादज्ञानास्पृष्टम् ।
सता परमात्मना ।
ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह- यावदेव चायमिति ।
समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारो ऽणुरित्यर्थः ।
किं न स्यादित्यत आह- प्रदेशान्तर इति ।
विज्ञानमयो बुद्धिप्रचुर इत्यर्थः ।
केन समान इत्याकाङ्क्षायामिति शेषः ।
श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तं, सति मूले कार्यस्य वियोगासंभवाच्चेति युक्त्याप्याह- अपिच मिथ्येति ।
सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह- दर्शयतीति ।
मृत्युमत्येतीत्यन्वयः ।
आदित्यवर्णं स्वप्रकाशम् ।
तमसः परस्तादज्ञानास्पृष्टमित्यर्थः
एन्द् ब्स्चोम्_2,3.13.30
स्तर्त् ब्स्चोम्_2,3.13.31
ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्धं आत्मनो ऽभ्युपगन्तुम् ।
ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा. 6.8.1) इति वचनात् ।
कृत्स्नविकारप्रलयाभ्युपगमाच्च ।
तत्कथं यावदात्मभावित्वं बुद्धिसंबन्धस्येत्यत्रोच्यते-
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् । ब्ब्स्_2,3.31 ।
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति, नाविद्यमानान्युत्पद्यन्ते षण्डादीनामपि तदुत्पत्तिप्रसङ्गात्, एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति ।
एवं ह्येतद्युज्यते ।
नह्याकस्मिकी कस्यचिदुत्पत्तिः संभवति ।
अतिप्रसङ्गात् ।
दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम्- ऽसति संपद्य न विदुः सति संपद्यमाहऽ इति त इह व्याघ्रो वा संहो वाऽ (छा. 6.9.3) इत्यादिना ।
तस्मात्सिद्धमेतद्यावदात्मभावी बुद्ध्याद्युपाधिसंबन्ध इति
यावदात्मभावित्वस्यासिद्धिं शङ्कते- नन्विति ।
सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसंपत्तिर्न स्यात् ।
प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः ।
स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह- पुंस्त्वेति ।
पुंस्त्वं रेतः ।
आदिपदेन श्मश्वादिग्रहः ।
अस्य बुद्धिसंबन्धस्येत्यर्थः ।
स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधे ऽभिव्यक्तिरित्यत्र श्रुतिमाह- दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसद्भावोक्तः ।
ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः
एन्द् ब्स्चोम्_2,3.13.31
स्तर्त् ब्स्चोम्_2,3.13.32
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा । ब्ब्स्_2,3.32 ।
तच्चात्मन उपाधिभूतमन्तःकरणं मनो बुद्धिर्विज्ञानं च्तितमिति चानेकधा तत्र तत्राभिलप्यते ।
क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति ।
तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् ।
अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् ।
आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां संनिधाने सति नित्यमेवोपलब्धिः प्रसज्येत ।
अथ सत्यपि हेतुसमवधाने फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत ।
नचैवं दृश्यते ।
अथवान्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धो ऽभ्युपगन्तव्यः ।
नचात्मनः शक्तिप्रतिबन्धः संभवति ।
अविक्रियत्वात् ।
नापीन्द्रियस्य ।
नहि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतो ऽकस्माच्छक्तिः प्रतिबध्येत ।
तस्माद्यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मनः ।
तथाच श्रुतिः - ऽअन्यत्रात्मना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्ऽ (बृ. 1.5.3) इति, ऽमनसा ह्येव पश्यति मनसा शृणोतिऽ (बृ. 1.5.3) इति ।
कामादयश्चास्य वृत्तय इति दर्शयति ऽकामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्हीर्भीरित्येतत्सर्वं मन एवऽ (बृ. 1.5.3) इति ।
तस्माद्युक्तमेतत् ।
ऽतद्गुणसारत्वात्तद्व्यपदेशःऽ इति
बुद्धिसद्भावे मानमाह सूत्रकारः- नित्येति ।
ऽमनसा ह्येव पश्यति, ऽबुद्धिश्च न विचेष्टति,ऽ
ऽविज्ञानं यज्ञं तनुते,ऽ ऽचेतसा वेदितव्यः,ऽ ऽचित्तं च चेतयितव्यम्ऽइति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।
कथमेकस्यानेकधोक्तिः, तत्राह- क्वचिच्चेति ।
गर्ववृत्तिको ऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।
यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति- तच्चेत्यादिना ।
सूत्रं योजयति- अन्यथेति ।
पञ्चेन्द्रियाणां पञ्चविषयसंबन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनो ऽतिरिक्तसामग्र्याः सत्त्वात् ।
यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः ।
अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।
ननु सत्यपि कारग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे- अथवेति ।
सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनपिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।
अस्तु प्रतिबन्ध इत्यत आह- नचेति ।
न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् ।
प्रतिबन्धकाभावात् ।
नच दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् ।
नच व्यासङ्गः, प्रतिबन्धकमनो ऽसत्त्वे तस्यासंभवात् ।
तथाहि-रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनो ऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।
एतदभिप्रेत्योपसंहरति- तस्मादिति ।
अवधानं बुभुत्सा ।
न चानिच्छतो ऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम्, अनेकविषयसंनिधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् ।
तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् ।
इच्छादिधर्मिणेवात्मना व्यासङ्गोपपत्तेः ।
संप्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह- तथाचेति ।
न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह- कामादयश्चेति ।
बुद्धेः प्रामाणिक्तवोक्तिफलमाह- तस्मादिति
एन्द् ब्स्चोम्_2,3.13.32
स्तर्त् ब्स्चोम्_2,3.14.33
14 कर्त्राधिकरणम् । सू. 33-40
कर्ता शास्त्रार्थवत्त्वात् । ब्ब्स्_2,3.33 ।
तद्गुणसारत्वाधिकारेणैवापरो ऽपि जीवधर्मः प्रपञ्च्यते ।
कर्ता चायं जीवः स्यात् ।
कस्मात् ।
शास्त्रार्थत्वात् ।
एवञ्च ऽयजेतऽ ऽजुहुयात्ऽ ऽदद्यात्ऽ इत्येवंविधं विदिशास्त्रमर्थवद्भवति ।
अन्यथा तदनर्थकं स्यात् ।
तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति ।
नचासति कर्तृत्वे तदुपपद्येत ।
तथेदमपि शास्त्रमर्थवद्भवति एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः (प्र. 5.9) इति
एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् ।
संप्रति ततो बहिष्ठं कर्तृत्वं साधयति- कर्ता शास्त्रार्थवत्त्वात् ।
स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति सांख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य सांख्यपक्षनिरासार्थमात्मनिकर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह- तद्गुणेति ।
अधिकारः प्रसङ्गः ।
वस्तुतो ऽसङ्गत्वम् ।
अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसंगतिः ।
श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् ।
यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलं, सिद्धान्ते कर्तृत्वादिसंबन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः ।
ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह- तद्धि कर्तुः सत इति ।
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः ।
किं च भोक्तुरात्मन एव कर्तृता वाच्या ऽशास्त्रफलं प्रयोक्तरिऽइति न्यायादिति भावः
एन्द् ब्स्चोम्_2,3.14.33
स्तर्त् ब्स्चोम्_2,3.14.34
विहारोपदेशात् । ब्ब्स्_2,3.34 ।
इतश्च जीवस्य कर्तृत्वं, यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति- ऽस ईयते ऽमृतो यत्र कामम्ऽ (बृ. 4.3.12) इति, ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ. 2.1.18) इति च
fन्: संध्ये स्थाने स्वप्नावस्थानम् ।
ईयते गच्छति ।
संध्यं स्थानं स्वप्नः ।
अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात्, आत्मा कर्ता
एन्द् ब्स्चोम्_2,3.14.34
स्तर्त् ब्स्चोम्_2,3.14.35
उपादानात् । ब्ब्स्_2,3.35 ।
इतश्चास्य कर्तृत्वं, यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति- ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. 21.1.17) इति, ऽप्राणान्गृहीत्वाऽ (बृ. 2.1.18) इति च
fन्: प्राणानामिन्द्र्याणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना ।
प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः
एन्द् ब्स्चोम्_2,3.14.35
स्तर्त् ब्स्चोम्_2,3.14.36
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः । ब्ब्स्_2,3.36 ।
इतश्च जीवस्य कर्तृत्वं, यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम्- ऽविज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि चऽ (तै. 2.5.1) इति ।
ननु विज्ञानच्छब्दो बुद्धौ समधिगतः ।
कथमनेन जीवस्य कर्तृत्वं सूच्यत इति ।
नेत्युच्यते ।
जीवस्यैवैष निर्देशो न बुद्धेः ।
न चेज्जीवस्य स्यान्निर्देशविपर्ययः स्यात् ।
विज्ञानेनेत्येवं निरदेक्ष्यात् ।
तथा ह्यन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ. 2.1.17) इति ।
इह तु ऽ विज्ञानं यज्ञं तनुतेऽ (तै. 2.5.1) इति कर्तृसमानाधिकरणनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः
अत्राह- यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्स स्वतन्त्रः सन्प्रियं हितं चैवात्मनो नियमेन संपादयेन्न विपरीतम् ।
विपरीतमपि तु संपादयन्नुपलभ्यते ।
नच स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति ।
विज्ञानशब्दो जीवस्य निर्देशो न चेत् तदा प्रथमानिर्देशाद्विपर्ययः ।
करणद्योतितृतीयया निर्देशः स्यात् ।
तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः
एन्द् ब्स्चोम्_2,3.14.36
स्तर्त् ब्स्चोम्_2,3.14.37
अत उत्तरं पठति-
उपलब्धिवदनियमः । ब्ब्स्_2,3.37 ।
यथायमात्मोपलब्धिं प्रति स्वतन्त्रो ऽप्यनियमेनेष्टमनिष्टं चोपलभत एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति ।
उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेत् ।
न ।
विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् ।
उपलब्धौ त्वनन्यापेक्षत्वमात्मनश्चैतन्ययोगात् ।
अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् ।
नच सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते ।
भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् ।
सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते
सूत्रान्तरमवतारयति- अत्राहेति ।
जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, ऽस्वतन्त्रः कर्ताऽइति न्यायादित्यर्थः ।
सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति- यथेति ।
दृष्टान्तासंप्रतिपत्त्या शङ्कते- उपलब्धावपीति ।
चक्षुरादीनां चैतन्येन विषयसंबन्धार्थत्वात्स्वसंबन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह- नेति ।
नन्वात्मा विषयसंबन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह- अपिचेति ।
स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम्, ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् ।
किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रो ऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः
एन्द् ब्स्चोम्_2,3.14.37
स्तर्त् ब्स्चोम्_2,3.14.38
शक्तिविपर्ययात् । ब्ब्स्_2,3.38 ।
इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति ।
यदि पुर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात्ततः शक्तिविपर्ययः स्यात् ।
करणशक्तिर्बुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत ।
सत्यां च बुद्धेः कर्तृशक्तौ तस्या एवाहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् ।
अहङ्कारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् ।
अहं गच्छाम्यहमागच्छाम्यहं भुञ्जो ऽहं पिबामीति च ।
तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारी करणमन्यत्कल्पयितव्यम् ।
शक्तो ऽपि हि सन्कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इति ।
ततश्च संज्ञामात्रे विवादः स्यान्न वस्तुभेदः कश्चित् ।
करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात्
जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम्- शक्तीति ।
बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः ।
ततः किं, तत्राह- सत्यां च बुद्धेरिति ।
यो ऽहन्धीगम्यः ।
स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीवकर्तृत्वसिद्धिरिति भावः
एन्द् ब्स्चोम्_2,3.14.38
स्तर्त् ब्स्चोम्_2,3.14.39
समाध्यभावाच् च । ब्ब्स्_2,3.39 ।
यो ऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु- ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसितव्य सो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (बृ. 2.4.5), ऽआत्मेत्येवं ध्यायथ आत्मानम्ऽ (मुण्ड. 2.2.6) इत्येवंलक्षणः, सो ऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत ।
तस्मादप्यस्य कर्तृत्वसिद्धिः
ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह- समाधीति ।
मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम्, अन्यथात्मनो ऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः
एन्द् ब्स्चोम्_2,3.14.39
स्तर्त् ब्स्चोम्_2,3.15.40
15 तक्षाधिकरणम् ॥ सू. 40
यथा च तक्षोभयथा । ब्ब्स्_2,3.40 ।
एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितं, तत्पुनः स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते ।
तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वमपवादहेत्वभावादिति ।
एवं प्राप्ते ब्रूमः ।
न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात् ।
कर्तृत्वस्वभावे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति, अग्नेरिवौष्ण्यात् ।
नच कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात् ।
ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति ।
तत्परिहारश्च निमित्तपरिहारात् ।
यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावात् ।
न ।
निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् ।
ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति ।
न ।
साधनायत्तस्यानित्यत्वात् ।
अपिच नित्यशुद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता ।
तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वे ऽवकल्पेत ।
तस्मादुपाधिधर्माध्यासेनैवात्मनः कर्तृत्वं न स्वाभाविकम् ।
तथाच श्रुतिः - ऽध्यायतीव लेलायतीवऽ (बृ. 4.3.7) इति ।
ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः(कण्ठ. 3.4) इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तेत्यादिविशेषलाभं दर्शयति ।
नहि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते ।
ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. 4.3.23) इत्यादिश्रवणात् ।
पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत, परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् ।
न ।
अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः ।
तथाच शास्त्रम्- ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ. 2.4.14) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 2.4.14) इति ।
तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति- ऽतद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् (बृ. 4.3.21) इत्यारभ्य एषास्य परमा गतिरेषास्य परमा संपदेषो ऽस्य परमो लोक एषो ऽस्यपरम आनन्दः (बृ. 4.3.32) इत्युपसंहारात् ।
तदेतदाहाचार्यः - यथा च तक्षोभयथा इति ।
त्वर्थे चायं चः पठितः ।
नैवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तृत्वमग्नेरिवौष्ण्यमिति ।
यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निवृत्तो निर्व्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो ऽकर्ता सुखी भवति संप्रसादावस्थायाम् ।
तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निवृत्तः सुखी भवति ।
तक्षदृष्टान्तश्चैतावतांऽशेन द्रष्टव्यः ।
तक्षा हि विशिष्ठेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति ।
स्वशरीरेण त्वकर्तैव ।
एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैवेति ।
नत्वात्मनस्थक्ष्ण इवावयवाः सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा ।
यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति ।
तन्न ।
विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मनः प्रतिपादयति ।
नच स्वाभाविकमस्य कर्तृत्वमिति ब्रह्मात्मत्वोपदेशादित्यवोचाम ।
तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते ।
कर्ता विज्ञानात्मा पुरुष इत्येवञ्जातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्यमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति ।
एतेन विहारोपादाने परिहृते ।
तयोरप्यनुवादरूपत्वात् ।
ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति ।
तथोपादाने ऽपि ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति ।
अत्रोच्यते- न तावत्संध्ये स्थाने ऽत्यन्तमात्मनः करणविरमणमस्ति । ऽसधीः स्वप्नो भूत्वेमं लोकमतिक्रामतिऽ (बृ.4.3.7) इति तत्रापि धीसंबन्धश्रवणात् । तथाच स्मरन्ति- ऽइन्द्रियाणामुपरमे मनो ऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्ऽ इति । ऽकामादयश्च मनसो वृत्तयःऽ इति श्रुतिः । ताश्च स्वप्ने दृश्यन्ते । तस्मात्समना एव स्वप्ने विहरति । विहारो ऽपि च तत्रत्यो वासनामय एव नतु पारमार्थिको ऽस्ति । तथाच श्रुतिरिवाकारानुबद्धमेव स्वप्नव्यापारं वर्णयति- ऽउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्ऽ (बृ. 4.3.13) इति । लौकिका अपि तथैव स्वप्नं कथयन्ति- आरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति ।
तथोपादाने ऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् ।
केवले कर्तृत्वासंभवस्य दर्शितत्वात् ।
भवति च लोके ऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति ।
अपिचास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् ।
यस्त्वयं व्यपदेशो दर्शितः ऽविज्ञानं यज्ञं तनुतेऽ इति, स बुद्धेरेव कर्तृत्वं प्रापयति ।
विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् ।
मनोनन्तरं पाठाच्च ।
ऽतस्य श्रद्धैव शिरःऽ (तै. 2.4) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् ।
श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः ।
ऽविज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासतेऽ (तै. 2.5.1) इति च वाक्यशेषात् ।
ज्येष्ठत्वस्य च प्रथमजत्वमस्य बुद्धौ प्रसिद्धत्वात् ।
ऽस एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःऽ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारमात् ।
नच बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति ।
सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् ।
उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं, सा चात्मनः ।
नच तस्यामप्यस्य कर्तृत्वमस्ति ।
नित्योलब्धिस्वरूपत्वात् ।
अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।
अहङ्कारस्याप्युपलभ्यमानत्वात् ।
नचैवं सति करणान्तरकल्पनाप्रसङ्गः ।
बुद्धेः करणत्वाभ्युपगमात् ।
समाध्यभावस्तु शास्त्रार्थत्त्वेनैव परिहृतः ।
यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् ।
तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम्
fन्: शोकान्तरं दुःखास्पृष्टम् ।
गतिः प्राप्यं, लोको भोग्यं सुखम् ।
अन्यैरप्रेर्यत्वं स्वस्थत्वम्, मानसप्रयत्नराहित्यं निर्वृतत्वम्, कायचेष्टाशून्यत्वं निर्व्यापारत्वम् ।
संप्रसादः सुषुप्तिः ।
जक्षत् भुञ्जानैव ।
यथा च तक्षोभयथा ।
उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह- एवं तावदित्यादिना ।
सांख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात् तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः ।
न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति- न स्वाभाविकमिति ।
यदुक्तं बाधकाभावादिति तदसिद्धमित्याह- अनिर्मोक्षेति ।
ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते- ननु स्थितायामिति ।
सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह- तत्परिहारश्चेति ।
मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात्, शक्याभावे शक्त्ययोगात् ।
अस्ति हि प्रलये ऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यं, तथाच शक्त्या धर्मादिनिमित्तेः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति- न निमित्तानामपीति ।
सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या संबन्धान्नमित्तानामपि परम्परया शक्तिसंबन्धित्वमुक्तं मन्तव्यम् ।
संबन्धेन संबन्धिनेत्यर्थः ।
यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः संबन्धस्तेनेति व्यधिकरणे तृतीये ।
ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते- नन्विति ।
ज्ञानादकर्तृत्वाख्यमोक्षत्कर्तृत्वमाविद्यकं स्वाद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् ।
यदि कर्मणा मोक्षः. तत्राह- नेति ।
आत्मनः स्वाभाविकं कर्तृत्वमभयुपगम्यानिर्मोक्ष उक्तः ।
संप्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह- अपिचेति ।
नचाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तं, न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनो ऽध्यासत्वेनाप्युपपत्तेरित्यर्थः ।
कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह- तथाचेति ।
विद्वदनुभवबाधितं च कर्तृत्वमित्याह- नहीति ।
बुद्ध्यादिसंघाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टं, परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते- पर एवेति ।
न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिविम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः ।
कल्पितभेदो ऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति- नाविद्येति ।
अविद्योपहितो बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह- तथाचेति ।
कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह- तथा स्वप्नेति ।
आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामं, आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह- शोकेति ।
शोकान्तरं दुःखास्पृष्टमित्यर्थः ।
तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह- एष इति ॥
गतिः प्राप्यं, संपदैश्वर्यं लोको बोग्यं सुखं, चैतस्मादन्यत्रास्तीत्यर्थः ।
आत्मा स्वतो ऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः ।
तत्रार्थे सूत्रं योजयति- तदेतदाहेत्यादिना ।
संप्रसादः सुषुप्तिः ।
यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् ।
नच तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तं, करणत्वात् कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताब्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसंमतिश्चेति भावः ।
ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह- तक्षदृष्टान्तश्चेति ।
शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह- नच स्वाभाविकमिति ।
उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते- ननु संध्य इति ।
किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् ।
न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह- तथेति ।
स्वप्नविहारे तावदुपाध्यभावो ऽसिद्ध इत्याह- न तावत्संध्य इति ।
विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह- विहारो ऽपीति ।
जक्षत् भुञ्जान इव ।
कणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात्, न करणविभक्तिरित्युक्तं प्रत्याह- भवति च लोक इति ।
कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् ।
अस्ति च कर्तृत्वप्रयोगः, ऽविज्ञानं यज्ञं तनुतेऽइत्यादाविति भावः ।
उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् ।
इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह- अपिचेति ।
पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, संप्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते ।
तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह- यस्त्विति ।
ऽयो ऽयं विज्ञानमयःऽइत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः ।
तत्रैव लिङ्गान्तरमाह- विज्ञानं देवा इति ।
ऽमहद्यक्षं प्रथमजम्ऽइत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः ।
यक्षं पूज्यम् ।
किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह- स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः ।
यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति ।
तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह- नचेति ।
तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह- उपलब्धीति ।
यथा काष्ठानां स्वव्यापारे कर्तृत्वे ऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसंकल्पादिक्रियाकर्तृत्वे ऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः ।
ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह- सा चेति ।
तर्हि तस्यामात्मा केवलः कर्ता स्यात्, यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह- नचेति ।
उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते-अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथाच विषयावच्छिन्नचैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, नच बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः ।
यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयं, तथाच नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति- अहङ्कारेति ।
सांख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् ।
एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः ।
अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः ।
एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वे ऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् ।
तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम्
एन्द् ब्स्चोम्_2,3.15.40
स्तर्त् ब्स्चोम्_2,3.16.41
16 परायत्ताधिकरणम् । सू. 41-42
परात् तु तच्छ्रुतेः । ब्ब्स्_2,3.41 ।
यदिदमविद्यावस्थायामुपादिनिबन्धनं कर्तृत्वं जीवस्याभिहितं, तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा ।
तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति ।
कस्मात् ।
अपेक्षाप्रयोजनाभावात् ।
अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसमपन्नः कर्तृत्वमनुभवितुं शक्नोति ।
तस्य किमीश्वरः करिष्यति ।
नच लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिवदीश्वरो ऽपरो ऽपेक्षितव्य इति ।
क्लेषात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलं चैषां कर्तृत्वं विदधतो वैषम्यम् ।
ननु ऽवैषम्यनैर्घृण्ये न सापेक्षत्वात्ऽ (ब्र. 1.4.17) इत्युक्तम् ।
सत्यमुक्तम् सति त्वीश्वरस्य सापेक्षत्वसंभवे ।
सापेक्षत्वं चेश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोस्तयोश्च सद्भावः सति जीवस्य कर्तृत्वे ।
तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्किंविषयमीश्वरस्य सापेक्षत्वमुच्येत ।
अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत ।
तस्मात्स्वत एवास्य कर्तृत्वमिति ।
एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते- ऽपरात्ऽ इति ।
अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः, तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति ।
कुतः ।
तच्छ्रुतेः ।
यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते ।
तथाहि श्रुतिर्भवति- ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीयते ।
एष ह्येवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौषी. 3.8) इति ।
ऽय आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयका
परात्तु तच्छ्रुतेः ।
यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात्, तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् ।
तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसंपन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह- यदिदमिति ।
अत्र ऽएष ह्येवऽइत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसंगतिः ।
कर्ममीमांसकमतेन पूर्वपक्षयति- तत्रेत्यादिना ।
बुद्ध्यादिकारकसंपत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः ।
किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह- क्लेशात्मकेन चेति ।
दत्तोत्तरमिदं चोद्यमिति शङ्कते- नन्विति ।
पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं संप्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न संभवतीत्युच्यत इत्याह- सत्यमिति ।
अस्तु कर्मानपेक्षस्य प्रवर्तकत्वं, तत्राह- अकृतेति ।
अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत्, कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरुति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् ।
तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यं, तथाच कारयितृत्वश्रुतिविरोधः ।
ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति- एतामिति ।
यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरिके सुखव्यतिरेकग्रहाभावे ऽपि ऽपुण्यो वै पुण्येन कर्मणा भवतिऽइत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः
एन्द् ब्स्चोम्_2,3.16.41
स्तर्त् ब्स्चोम्_2,3.16.42
नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घण्ये स्यातामकृताभ्यागमश्च जीवस्येति ।
नेत्युच्यते-
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः । ब्ब्स्_2,3.42 ।
तुशब्दश्चोदितदोषव्यावर्तनार्थः ।
कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति ।
ततश्चैते चोदिता दोषा न प्रसज्यन्ते ।
जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवदीश्वरो निमित्तत्वमात्रेण ।
यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां चासाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः ।
नह्यसति पर्जन्ये रसपष्पपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु, एवं जीवकृतप्रयत्नापेक्ष ईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते ।
ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते ।
नैष दोषः ।
परायत्ते ऽपि हि कर्तृत्वे करोत्येव जीवः ।
कुर्वन्तं हि तमीश्वरः कारयति ।
अपिच पूर्वप्रयत्नमपेक्ष्येदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात्संसारस्येत्यनवद्यम् ।
कथं पुनरवगम्यते कृतप्रत्नापेक्ष ईश्वर इति ।
विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह ।
एवं हि ऽस्वर्गकामो यजेतऽ ऽब्राह्मणो न हन्तव्यःऽ, इत्येवञ्जातीयकस्य विहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति ।
अन्यथा तदनर्थकं स्यात् ।
ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत ।
अत्यन्तपरतन्त्रत्वाज्जीवस्य ।
तथा विहितकारिणमप्यनर्थेन संसृजेत्प्रतिषिद्धकारिणमप्यर्थेन ।
ततश्च प्रामाण्यं वेदस्यास्तमियात् ।
ईश्वरस्य चात्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषप्रसङ्गश्चेत्येवञ्जातीयकं दोषजातमादिग्रहणेन दर्शयति
धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् ।
यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह- पर्जन्यवदिति ।
दृष्टान्तं विवृणोति- यथेति ।
अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः ।
किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा ।
नाद्य इत्याह- नैष दोष इति ।
अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः ।
चक्रकं निरस्यति- अपिचेति ।
अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः ।
ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति- कथमित्यादिना ।
एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति- ईश्वर इति ।
तयोः स्थाने स एव नियुज्येत अभिषिच्येत ।
तयोः कार्यं स एव कुर्यादिति यावत् ।
तथाच जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति संबन्धः ।
पुरुषकारः प्रयत्नः ।
आदिशब्दार्थमाह- तथेति ।
पूर्वोक्तदेषो ऽकृताभ्यागमादिः ।
तस्मात् कर्मसापेक्षेश्वरस्य कारयितृत्वात् ऽएष ह्येवऽइत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम्
एन्द् ब्स्चोम्_2,3.16.42
स्तर्त् ब्स्चोम्_2,3.17.43
17 अंशाधिकरणम् । सू. 43-53
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ब्ब्स्_2,3.43 ।
जीवेश्वरयोरुपकार्योपकारभाव उक्तः ।
स च संबद्धयोरेव लोके दृष्टो यथा स्वामिभृत्ययोर्यथा वाग्निविस्फुलिङ्गयोः ।
ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात्किं स्वामिभृत्यवत्संबन्ध आहोस्विदग्निविस्फुलिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति ।
अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति ।
अतो ब्रवीत्यंश इति ।
जीव ईश्वस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः ।
अंश इवांशो नहि निरवयवस्य मुख्योंऽशः संभवति ।
कस्मात्पुनर्निरवयवत्वात्स एव न भवति ।
नानाव्यपदेशात् ।
ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. 8.7.1) ऽएतमेव विदित्वा मुनिर्भवतिऽ ऽ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयको भेदनिर्देशो नासति भेदे युज्यते ।
ननु चायं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इत्यत आह- अन्यथा चापीति ।
नच नानाव्यपदेशादेव केवलादंशत्वप्रतिप्तिः ।
किं तर्ह्यन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः ।
तथाहि- एके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते- ऽब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाःऽ इत्यादिना ।
दाशा य एते कैवर्ताः प्रसिद्धाः, ये चामी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये चान्ये कितवा द्यूतकृतस्ते सर्वे ब्रह्मैवेति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह ।
तथान्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते- ऽत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे. 4.3) इति ।
ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ इति च ।
ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृच 3.7.23) इत्यादिश्रुतिभ्यश्चास्यार्थस्य सिद्धिः ।
चैतन्यं चाविशिष्टं जीवेश्वरयोर्यथाग्निविस्फुलिङ्गयोरौष्ण्यम् ।
अतो भेदाभेदावगमाभ्यामंशत्वावगमः
अंश-एके ।
नित्यः स्वप्रकाशो ऽनणुरकर्ता जीवऽइति शोधितत्वंपदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसंगतिः ।
पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः ।
पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः संबन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह- ततश्चेति ।
प्रसिद्धस्वस्वामित्वसंबन्धसंभवाद्यः कश्चित् संबन्ध इत्यनियमो न युक्त इत्यरुचेराह- अथवेति ।
अनेन ऽय आत्मनि तिष्ठन्ऽइत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता ।
एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथाच भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति संबन्धानिश्चयात्संबन्धापेक्षस्य पूर्वोक्तोपकार्यापकारकभावस्यासिद्धिरित्याक्षेपात्संगतिः ।
लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धनोंऽशांशिभावः संबन्ध इति सिद्धान्तयति- अत इत्यादिना ।
अग्नेः सांशत्वे ऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह- अंश इवेति ।
जीव इत्यनुषङ्गः ।
भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते- ननु चेति ।
अभेदस्यापि सत्त्वादंशांशिभाव इत्याह- अत इति ।
वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः ।
श्रुतिसिद्धाभेदे युक्तिमाह- चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः
एन्द् ब्स्चोम्_2,3.17.43
स्तर्त् ब्स्चोम्_2,3.17.44
कुतश्चांशत्वावगमः -
मन्त्रवर्णाच् च । ब्ब्स्_2,3.44 ।
मन्त्रवर्णश्चैतमर्थमवगमयति ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादो ऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिविऽ (छा. 3.12.6) इति ।
अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति ।
ऽअहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यःऽ इति प्रयोगात् ।
अंशः पादो भाग इत्यनर्थान्तरम् ।
तस्मादप्यंशत्वावगमः
अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात्प्रपञ्चात् ज्यायान्महत्तरः ।
भूतानि देहिनो जीवा इत्यत्र नियामकमाह- अहिंसन्निति ।
तीर्थानि शास्त्रोक्तकर्माणि, तेभ्यो ऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः ।
अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रे ऽपि तथेति भावः ।
भूतानां पादत्वे ऽप्यंशत्वं कुतः, तत्राह- अंशः पाद इति
एन्द् ब्स्चोम्_2,3.17.44
स्तर्त् ब्स्चोम्_2,3.17.45
कुतश्चांशत्वावगमः -
अपि च स्मर्यते । ब्ब्स्_2,3.45 ।
ईश्वरगीतास्वपि चेश्वरंशत्वं जीवस्य स्मर्यते- ऽममैवांशो जीवलोके जीवभूतः सनातनःऽ (15.7) इति ।
तस्मादप्यंशत्वावगमः ।
यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति ।
यद्यप्येषा लोके प्रसिद्धस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते ।
निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान्प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते
अत्राह- ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् ।
यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेनाङ्गिनो देवदत्तस्य दुःखित्वं तद्वत् ।
ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् ।
अतो वरं पूर्वावस्थः संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यादिति ।
जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः- अपिचेति ।
अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह- यत्त्वित्यादिना ।
औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह- निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः ।
तदुक्तं सुरेश्वराचार्यैः-ऽईशेशितव्यसंबन्धः प्रत्यगज्ञानहेतुजः ।
सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः ॥
ऽइति
एन्द् ब्स्चोम्_2,3.17.45
स्तर्त् ब्स्चोम्_2,3.17.46
अत्रोच्यते-
प्रकाशादिवन् नैवं परः । ब्ब्स्_2,3.46 ।
यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरो ऽनुभवतीति प्रतिजानीमहे ।
जीवो ह्यविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःख्यहमित्यविद्यया कृतं दुःखोपभोगमभिमन्यते ।
नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वास्ति ।
जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानो नतु पारमार्थिको ऽस्ति ।
यथाच स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रो ऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः ।
ततश्च निश्चितमेतदवगम्यते- मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति ।
व्यतिरेकदर्शनाच्चैवमवगम्यते ।
तथाहि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाद्युद्घोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् ।
अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टं, किमुत विषयशून्यादात्मनो ऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति ।
तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः ।
प्रकाशादिवदिति निदर्शनोपन्यासः ।
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यवतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानो ऽपि न परमार्थतस्तद्भावं प्रतिपद्यते ।
यथा चाकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानो ऽपि न परमार्थतो गच्छति, यथा चोदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमाने ऽपि न तद्वान्सूर्यः कम्पते, एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्येंऽशे दुःखायमाने ऽपि न तद्वानीश्वरो दुःखायते ।
जीवस्यापि तु दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम् ।
तथाचाविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः ऽतत्त्वमसिऽ इत्येवमादयः, तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः
fन्: इतरेष्वभिमानशून्येषु ।
उत्तरसूत्रमवतारयति- अत्राहेति ।
ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात्, देवदत्तवदित्यर्थः ।
ततः किं, तत्राह- ततश्चेति ।
ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः ।
नैवंपर इति प्रतिज्ञानं विभजते- यथा जीव इति ।
देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः ।
उक्तं चैतदभेदे ऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः ।
दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति- जीवस्यापीत्यादिना ।
भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह- व्यतिरेकेति ।
इतरेष्वभिमानशून्येष्वित्यर्थः ।
जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह- अतश्चेति ।
एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा योंऽशी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति- प्रकाशादिवदिति ।
वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह- जीवस्येति ।
कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् ।
किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह- तथाचेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः
एन्द् ब्स्चोम्_2,3.17.46
स्तर्त् ब्स्चोम्_2,3.17.47
स्मरन्ति च । ब्ब्स्_2,3.47 ।
स्मरन्ति च व्यासादयो यथा जैवेन दुःखेन न परमात्मा दुःखायत इति ।
ऽतत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः ।
न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा ।
कर्मात्मा त्वपरो यो ऽसौ मोक्षबन्धनैः स युज्यते ।
स सप्तदशकेनापि राशिना युज्यते पुनःऽ इति ।
चशब्दात्समामनन्ति चेति वाक्यशेषः ।
ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (श्वे. 4.6) इति ।
ऽएकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यःऽ (कठ. 5.11) इति च
अत्राह- यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात्कथमनुज्ञापरिहारौ स्यातां लोकिकौ वैदिकौ चेति ।
ननु चांशो जीव ईश्वरस्येत्युक्तम् ।
तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति ।
उच्यते- नैतदेवम् ।
अनंशित्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति- ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (ते. 2.6.1), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ. 3.7.23), ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. 4.4.19), ऽतत्त्वमसिऽ (छा. 6.8.7) ऽअहं ब्रह्मास्मिऽ (बृ. 1.4.10) इत्येवञ्जातीयकाः ।
ननु भेदाभेदावगमाभ्यामंशत्वं सिद्ध्यतीत्युक्तम् ।
स्यादेतदेवं यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्, अभेद एव त्वत्र प्रतिपिपादयिषितो ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः ।
स्वभावप्राप्तस्तु भेदो ऽनूद्यते ।
नच निरवयवस्य ब्रह्मणो मुख्योंऽशो जीवः संभवतीत्युक्तम् ।
तस्मात्परः एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्यानुज्ञापरिहारोपपत्तिः
fन्: तत्र जीवपरयोर्मध्ये ।
कर्मात्मा कर्माश्रयो जीवः ।
सप्तदशकेन दशेन्द्रयाणि पञ्च प्राणः मनो बुद्दिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् ।
मृत्योः स मृत्यु - इह ब्रह्मणि यो नानेव कल्पितभेदशालि चेतनाचेतनात्मकं विश्वं पश्यति स मृत्योरनन्तरं मृत्युं जन्ममरणादिपरम्परारूपं संसारं प्राप्नोतीत्यर्थः ।
स्मृत्याप्यनुमानं बाध्यमित्याह- स्मरन्ति चेति ।
सूत्रं व्याचष्टे- स्मारन्तीति ।
तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः ।
दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् ।
सूत्रे चशब्दः ।
श्रुतिसमुच्चयार्थ इत्याह- चशब्दादिति ।
यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः ।
यतो बाह्यो ऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति- अत्राहेत्यादिना ।
कथं तर्हि इत्यन्वयः ।
तद्भेदादंशभेदात् ।
निरवयवब्रह्मणो मुख्यांशो न संभवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः ।
न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः ।
तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्ति रिति सूत्रेण समाधत्ते- तामित्यादिना
एन्द् ब्स्चोम्_2,3.17.47
स्तर्त् ब्स्चोम्_2,3.17.48
तां ब्रूमः -
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ब्ब्स्_2,3.48 ।
ऽऋतौ भार्यामुपेयात्ऽ इत्यनुज्ञा ।
ऽऽगुर्वाङ्गनां नोपगच्छेत्ऽ इति परिहारः ।
तथा ऽअग्नीषोमीयं पशुं संज्ञपयेत्ऽ इत्यनुज्ञा ।
ऽन हिंस्यात्सर्वाभूतानिऽ इति परिहारः ।
एवं लोके ऽपि मित्रमुपसेवितव्यमित्यनुज्ञा ।
शत्रुः परिहर्तव्य इति परिहारः ।
एवंप्रकारावनुज्ञापरिहारावेकत्वे ऽप्यात्मनो देहसंबन्धात्स्याताम् ।
देहैः संबन्धो देहसंबन्धः ।
कः पुनर्देहसंबन्धः ।
देहादिरयं संघातो ऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः ।
दृष्टा च सा सर्वप्राणिनामहं गच्छाम्यहमागच्छाम्यहमन्धो ऽहमनन्धो ऽहं मूढो ऽहममूढ इत्येवमात्मिका ।
नह्यस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति ।
प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु ।
तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे ऽप्यनुज्ञापरिहाराववकल्प्येते ।
सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् ।
न ।
तस्यकृतार्थत्वान्नियोज्यत्वानुपपत्तेः ।
हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् ।
आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन्कथं नियुज्येत ।
नचात्मात्मन्येव नियोज्यः स्यात् ।
शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् ।
न ।
तत्संहतत्वाभिमानात् ।
सत्यं व्यतिरेकदर्शिनो नियोज्यत्वं तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एवात्मनो नियोज्यत्वाभिमानः ।
नहि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः ।
किमुतैकात्म्यदर्शिनः ।
नच नियोगाभावात्सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः ।
सर्वत्राभिमानस्यैव प्रवर्तकत्वादिभिमानाभावाच्च सम्यग्दर्शिनः ।
तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ ।
ज्योतिरादिवत् ।
यथा ज्योतिष एकत्वे ऽप्यग्निः क्रव्यात्परिह्रियते नेतरः ।
यथाच प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्रियते नेतरः शुचिभूमिष्ठः ।
यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते ।
भौमा अपि सन्तो नरकलेवरादयः परिह्रियन्ते ।
यथा मूत्रपरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत्
fन्: प्रतता संतता ।
विशेषो भेदः ।
क्रव्यं मांसमत्तीति क्रव्यात् स्माशानाग्निः ।
ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह- न ह्यस्या इत्यादिना ।
प्रतता संतता, विशेषो भेदः ।
अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह- न तस्येति ।
नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः ।
नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः ।
तथाच ब्रह्मविन्नियोज्यः, विवेकित्वात्, कर्माधिकारिवदिति शङ्कते- शरीरव्यतिरेकेति ।
परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मि णो देहाभेदभ्रमो ऽस्ति, तथाच भ्रम उपाधिरिति परिहरति- नेत्यादिना ।
यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः ।
ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात्, सुषुप्तवदित्याह- नहीति ।
देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् ।
अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।
अनियोज्यत्वे बाधकमाशङ्क्य परिहरति- नचेति ।
विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः ।
तदुक्तं भगवता ऽरसो ऽप्यस्य परं दृष्ट्वा निवर्ततेऽइति ।
एवमनुज्ञादिप्रसङ्गेनानियोज्यं, विदुष उक्त्वा प्रकृतिमुपसंहरति- तस्मादिति ।
एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह- ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः
एन्द् ब्स्चोम्_2,3.17.48
स्तर्त् ब्स्चोम्_2,3.17.49
असन्ततेश् चाव्यतिकरः । ब्ब्स्_2,3.49 ।
स्यातां नामानुज्ञापरिहरावेकस्याप्यत्मनो देहविशेषयोगात् ।
यत्स्वयं कर्मफलसंबन्धः स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् ।
नैतदेवम् ।
असंततेः ।
नहि कर्तृभोक्तृश्चात्मनः संततः सर्वैः शरीरैः संबन्धो ऽस्ति ।
उपाधितन्त्रो हि जीव इत्युक्तम् ।
उपाध्यसंतानाच्च नास्ति जीवसंतानः ।
ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति
शङ्कोत्तरत्वेन सूत्रं व्याचष्टे- स्यातामित्यादिना ।
यद्यपि स्थूलदेहसंबन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः सांकर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् ।
तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः ।
भवेत्तदा सांकर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् ।
न त्वेतदस्ति ।
ऽतद्गुणसारत्वात्ऽइत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात्, तथाच बुद्धेः परदेहासंबन्धात्तदुपहितजीवस्य नास्ति परदेहसंबन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसांकर्यमिति समाधानार्थः
एन्द् ब्स्चोम्_2,3.17.49
स्तर्त् ब्स्चोम्_2,3.17.50
आभास एव च । ब्ब्स्_2,3.50 ।
आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः ।
न स एव साक्षात् ।
नापि वस्त्वन्तरम् ।
अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः ।
एवमप्यव्यतिकर एव कर्मफलयोः ।
आभासस्य चाविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति ।
तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः ।
येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति ।
कथम् ।
बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः ।
सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतो ऽचेतना आत्मनस्तदुपकरणानि चाणूनि मनांस्यचेतनानि ।
तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते ।
ते चाव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः ।
तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः ।
तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति ।
स्यादेतत् ।
प्रधानप्रवृत्तेः परुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति ।
अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् ।
तथाचानिर्मोक्षः प्रसज्येतेति ।
नैतत्सारम् ।
नह्यभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् ।
उपपत्त्या तु कयाचिद्व्यवस्थोच्येत ।
असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यं, प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः ।
काणादानामपि यदैकेनात्मना मनः संयुज्यते तदात्मान्तरैरपि नान्तरीयकः संयोगः स्यात्संनिधानाद्यविशेषात् ।
ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत
अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेतबुद्ध्योक्तं, संप्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् ऽरूपं रूपं प्रतिरूपो बभूवऽइत्यादिश्रुतिसिद्धंप्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः- आभास एव चेति ।
परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् ।
नापि ततो भिन्नः, ऽस एष इह प्रविष्टःऽइत्याद्यभेदश्रुतिस्मृतिविरोधात् ।
तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः ।
अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह- अतश्चेत्यादिना ।
यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः ।
यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् ।
अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते ।
एवं स्वमते स्वरूपैक्ये ऽप्युपहितजीवभेदादसांकर्यमुक्तं, संप्रति सूत्रे चकारसूचितं परेषां, सांकर्यं वक्तुमुपक्रमते- येषमित्यादिना ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधम्रभावना नवात्मविशेषगुणाः, संनिधानादीत्यादिपदादौदासीन्यमुक्तम् ।
सांख्यः स्वाभिप्रायं शङ्कते- स्यादेतदिति ।
सर्वेषां पुंसां प्रकृतिसांनिध्याद्यविशेषे ऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः ।
जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह- नैतदिति ।
यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः ।
तार्किकमते ऽपि भोगादिसांकर्यमित्याह- काणादानामिति ।
हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते- स्यादेतदिति ।
सूत्रेण परिहरति- नेत्याहेति
एन्द् ब्स्चोम्_2,3.17.50
स्तर्त् ब्स्चोम्_2,3.17.51
स्यादेतत् ।
अदृष्टनिमित्तो नियमो भविष्यतीति ।
नेत्याह-
अदृष्टानियमात् । ब्ब्स्_2,3.51 ।
बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्मलक्षणमदृष्टमुपर्ज्यते ।
सांख्यानां तावत्तदनात्मसमवायि प्रधानवर्ति प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते ।
काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः
स्यादेतत् ।
अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयता इत्थं करवाणीत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति ।
नेत्याह-
पूर्ववत् मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः ।
रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति- स्यादेतदित्यादिना
एन्द् ब्स्चोम्_2,3.17.51
स्तर्त् ब्स्चोम्_2,3.17.52
अभिसन्ध्यादिष्व् अपि चैवम् । ब्ब्स्_2,3.52 ।
अभिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव
अनियम उक्तदोषः ।
आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः
एन्द् ब्स्चोम्_2,3.17.52
स्तर्त् ब्स्चोम्_2,3.17.53
प्रदेशाद् इति चेन् नान्तर्भावात् । ब्ब्स्_2,3.53 ।
अथोच्येत विभुत्वे ऽप्यत्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एवात्मप्रदेशे भविष्यतीति अतः प्रदेशकृता व्यवस्थाभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति ।
तदपि नोपपद्यते ।
कस्मात् ।
अन्तर्भावात् ।
विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति ।
तत्र न वैशेषिकैः शरीरावच्छिन्नो ऽप्यात्मानः प्रदेशः कल्पयितुं शक्यः ।
कल्प्यमानो ऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति ।
शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् ।
प्रदेशविशेषाभ्युपगमे ऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् ।
समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् ।
तथाहि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समानः सुखदुःखानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमनिष्टं न स्यात् ।
स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् ।
ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वार्गाद्युपभोगस्य ।
सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां, दृष्टान्ताभावात् ।
वद तावत्त्वं के बहवः समानप्रदेशाश्चेति ।
रूपादय इति चेत् ।
न ।
तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च ।
नतु बहूनामात्मनां लक्षणभेदो ऽस्ति ।
अन्त्यविशेषवशाद्भेदोपपत्तिरितिचेत् ।
न ।
भेदकल्पनाय अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् ।
आकाशादीनामपि विभुत्वं ब्रह्मवादिनो ऽसिद्धं कार्यत्वाभ्युपगमात्, तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्
किं मनसा संयुक्तात्मैवात्मनः प्रदेशः ।
उत कल्पितः ।
आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था ।
द्वितीयं दूषयति- तत्र न वैशेषिकैरिति ।
सर्वात्मसांनिध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः ।
नियामकभावादित्यर्थः ।
प्रदेशकल्पनामङ्गीकृत्याप्याह- कल्प्येति ।
कार्यमभिसंध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह- शरीरमपीति ।
प्रदेशपक्षे दोषान्तरमाह- प्रदेशेति ।
यस्मिन्नात्मप्रदेशे ऽदृष्टोत्पत्तिः स किं चलः स्थितो वा ।
नाद्यः, अचलेंऽशिन्यंशस्य चलनविभागयोरसंभवादण्वात्मवादापाताच्च ।
द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः ।
यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसांकर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च ।
किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः ।
यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति ।
तन्न ।
भोगशरीरद्दूरस्थादृष्टे मानाभावादिति भावः ।
यदपि केचिदाहुः-मनस एकत्वे ऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसांकर्यमिति ।
तन्न ।
संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः ।
तथाच सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् ।
किञ्च बहूनां विभुत्वमङ्गीकृत्य सांकर्यमुक्तं, संप्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह- सर्वगतत्वानुपपत्तिश्चेति ।
किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यं, तच्चायुक्तमदृष्टत्वादित्याह- वदेति ।
ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत्, नायमस्मत्संमतो दृष्टान्तः ।
रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् ।
किञ्चात्मनां बहुत्वमप्यसिद्धं,
आत्मत्वरूपलक्षणस्याभेदात्, तथाच देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात्, यज्ञदत्तात्मवत् ।
अत्र वैशेषिकः शङ्कते-अन्त्यविशेषेति ।
नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते ।
तथाच विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः ।
न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः ।
नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः ।
नच विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः ।
यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सो ऽप्यसंमत इत्याह- आकाशादीनामिति ।
विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः ।
यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदे ऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति- तस्मादिति ।
एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम्
एन्द् ब्स्चोम्_2,3.17.53
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीयः पादः समाप्तः
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0