भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 38

38.1

जीवस्यानुत्पत्तिप्रसङ्गेनाकाशस्याप्युत्पत्त्यसंभवमाशङ्क्य परिहरन्नादावेकदेशितमाह- न वियदश्रुतेः ।
वियत्प्राणापादयोरर्थं संक्षिपन् पूर्वपादेन संगतिमाह- वेदान्तेष्विति ।
भिन्नोपक्रमत्वमेवाह- केचिदित्यादिना ।
भूतभोक्तृश्रुतीनां मिथोविरोधशङ्कानिरासो वियत्पादार्थः ।
लिङ्गशरीरश्रुतीनां तन्निरासः प्राणपदार्थः ।
यथा मिथोविरोधात् पूर्वापरविरोधाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षो ऽपि उपेक्ष्य इति शङ्कोत्थाने पादद्वयस्यारम्भात् पूर्वपादेन दृष्टान्तसंगतिरिति समुदायार्थः ।
आकाशवाय्वोरुत्पत्तिमामनन्ति तैत्तिरीयकाः ।
नामनन्ति छन्दोगाः ।
जीवस्य प्राणानां चोत्पत्तिं ऽसर्व एत आत्मनो व्युच्चरन्तिऽइति वाजिनः ।
ऽएतस्माज्जायते प्राणःऽइत्याथर्वणिकाश्चामनन्ति नान्ये ।
एवमाकाशपूर्विका क्वचिच्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः ।
आदिपदात् ऽस इमांल्लोकानसृजतऽइत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचिदष्टावित्यादि संख्याद्वारकश्च विरोधो ग्राह्यः ।
प्रपञ्चः पादद्वयम् ।
तथाच पादद्वयस्य श्रुतीनां मिथोविरोधनिरासार्थत्वाच्छ्रुतिशास्त्राध्यायसंगतयः सिद्धाः ।
अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधो ऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां संदेहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिक्षमेकदेशि गृह्णातीत्याह- तत्र तावदिति ।
उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसंधिः

38.2

एन्द् ब्स्चोम्_2,3.1.1
स्तर्त् ब्स्चोम्_2,3.1.2
अस्ति तु । ब्ब्स्_2,3.2 ।
तुशब्दः पक्षान्तरपरिग्रहे ।
मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः, श्रुत्यन्तरे त्वस्ति ।
तैत्तिरीयका हि समामनन्ति- ऽसत्यं ज्ञानमन्तं ब्रह्मऽ इति प्रकृत्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इति ।
ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति ।
नन्वेकवाक्यतानयोः श्रुत्योर्युक्ता ।
सत्यम् ।
सा युक्ता नतु सावगन्तुं शक्यते ।
कुतः ।
ऽतत्तेजो ऽसृजतऽ (छा. 6.2.3) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्तेः, ऽतत्तेजो ऽसृजतऽ, ऽतदाकाशमसृजतऽ इति ।
ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते,यथा सूपं पक्त्वौदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजो ऽसृजतीति योजयिष्यामि ।
नैवं युज्यते ।
प्रथमजत्वं हि छान्दोग्ये तेजसो ऽवगम्यते तैत्तिरीयके चाकाशस्य ।
नचोभयोः प्रथमजत्वं संभवति ।
एतेनेतरश्रुत्यक्षरविरोधो ऽपि व्याख्यातः ।
ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इत्यत्रापि तस्मादाकाशः संभूतस्तस्मात्तेजः संभूतमिति सकृच्छ्रुतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः ।
ऽवायोरग्निःऽ (तै. 2.1) इति च पृथगाम्नानात्

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc