ब्रह्मसूत्र2 (टीका सहित) · अध्याय 37
स्तर्त् ब्स्चोम्_2,3.1.1
न वियदश्रुतेः । ब्ब्स्_2,3.1 ।
वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते ।
केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न ।
तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न ।
एवं जीवस्य प्राणानां च ।
एवमेव क्रमादिद्वारको ऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते ।
विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः पप्रञ्च आरभ्यते ।
तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव ।
तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति ।
तत्र तावत्प्रतिपद्यते- ऽन वियदश्रुतेःऽ इति ।
न खल्वाकाशमुत्पद्यते ।
कस्मात् ।
अश्रुतेः ।
नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति ।
छान्दोग्ये हि ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा. 6.2.3) इति च पञ्चानां महाभूतानां मध्यमं तेज आदिङ्कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते ।
श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ ।
नचात्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी ।
तस्मान्नास्त्याकाशस्योत्पत्तिरिति
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0