ब्रह्मसूत्र2 (टीका सहित) · अध्याय 2
स्तर्त् ब्स्चोम्_1,1.1.1
1 जिज्ञासाधिकरणम् । सू. 1
वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्-
अथातो ब्रह्मजिज्ञासा । ब्ब्स्_1,1.1 ।
तत्राथाब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः, ब्रह्मजिज्ञासायाः अनधिकार्यत्वात् ।
मङ्गलस्य च वाक्यार्थे समन्वयाभावात् ।
अर्थान्तरप्रयुक्त एव श्रुत्या मङ्गलप्रयोजनो भवति ।
पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् ।
सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षत एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् ।
स्वाध्यायानन्तर्यं तु समानम् ।
नन्विह कर्मावबोधनार्थं विशेषः ।
न ।
धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः ।
यथाच हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वान्न तथेह क्रमो विवक्षितः, शेषशेषित्वे ऽधिकृताधिकारे वा प्रमाणाभावात्, धर्मब्रह्मजिज्ञासयोः फलजिज्ञासस्यभेदाच्च ।
अभ्युदयफलं धर्मज्ञानं तच्चानुष्ठानापेक्षम् ।
निःश्रेयसफलं तु ब्रह्मविज्ञानं न चानुष्ठानान्तरापेक्षम् ।
भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकाले ऽस्ति, पुरुषव्यापारतन्त्रत्वात् ।
इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् ।
चोदनाप्रवृत्तिभेदाच्च ।
या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति ।
ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं, अवबोधस्य चोदनाजन्यत्वान्न पुरुषो ऽवबोधे नियुज्यते ।
यथाक्षार्थसंनिकर्षेणार्थावबोधे तद्वत् ।
तस्मात्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति ।
उच्यते- नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च ।
तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्मजिज्ञासितुं ज्ञातुं च न विपर्यये ।
तस्मादथाब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते ।
अतःशब्दो हेत्वर्थः ।
यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति- ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ (छान्दो.8.1.6) इत्यादिः ।
तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयति- ऽब्रह्मविदाप्नोति परम्ऽ इत्यादिः (तैत्ति.2.1) तस्माद्यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या ।
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा ।
ब्रह्म च वक्ष्यमाणलक्षणं ऽजन्माद्यस्य यतःऽ इति ।
अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम् ।
ब्रह्मण इति कर्मणिषष्ठी न शेषे, जिज्ञासापेक्ष्यत्वाज्जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च ।
ननु शेषषष्ठीपरिग्रहे ऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते, संबन्धसामान्यस्य विशेषनिष्ठत्वात् ।
एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थ प्रयासः स्यात् ।
न व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेन्न, प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात् ।
ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम् ।
तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयितव्यानि ।
यथा राजासौ गच्छतीत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्वत् ।
श्रुत्यनुगमाच्च ।
ऽयतो वा इमानि भूतानि जायन्तेऽ (तैत्ति.3.1) इत्याद्याः श्रुतयः, ऽतद्विजिज्ञासस्व तद्ब्रह्मऽ
इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति ।
तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति ।
तस्माद्ब्रह्मण इति कर्मणिषष्ठी ॥
ज्ञातुमिच्छा जिज्ञासा ।
अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः ।
कर्मफलविषयत्वादिच्छायाः ।
ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म ।
ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् ।
तस्माद्ब्रह्म विजिज्ञासितव्यम् ॥
तत्पुनर्ब्रह्म प्रसिद्धमप्रस्द्धं वा स्यात् ।
यदि प्रसिद्धं न जिज्ञासितव्यम् ।
अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति ।
उच्यते- अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं, सर्वज्ञं, सर्वशक्तिसमन्वितम् ।
ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोर्ऽथाः प्रतीयन्ते, बृहतेर्धातोरर्थानुगमात् ।
सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः ।
सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति ।
यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् ।
आत्मा च ब्रह्म ।
यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् ।
न ।
तद्विशेषं प्रति विप्रतिपत्तेः ।
देहमात्रं चैतन्यविशिष्टमात्मेति प्रकृता जना लौकायतिकाश्च प्रतिपन्नाः ।
इन्द्रियाण्येव चेतनान्यात्मेत्यपरे ।
मन इत्यन्ये ।
विज्ञानमात्रं क्षणिकमित्येके ।
शून्यमित्यपरे ।
अस्ति देहादिव्यतिरिक्तः संसारी कर्ता, भोक्तेत्यपरे ।
भोक्तैव केवलं न कर्तेत्येके ।
अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वाक्तिरिति केचित् ।
आत्मा स भोक्तुरित्यपरे ।
एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः ।
तत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येतानर्थं चेयात् ।
तस्मात्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0