भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 17

17.1

fन्: अमृतस्येति श्रवणात् सेतुरिति श्रवणादिति योजना ।
सेतुरिति श्रवणादिति व्याचष्ठे- पारवान्हीति ।
संदृब्धनि संग्रथितानि ।
सामानाधिकरण्यात् विचित्र आत्मेति संबन्धः ।
विकारे ऽनृते कल्पिते अभिसंधो ऽभिमानो यस्य ।
सिनोति बध्नातीति सेतुः ।
पदार्थैकदेशो विधारणमित्यर्थः ।
एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः ।
अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते ।
अतो ऽत्राधिकरणानां श्रुत्यध्यायपादसंगतयः ।
तत्र पूर्वमुपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तं, तद्वदत्राप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसंगतिः ।
पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्विशेषब्रह्मधीरिति फलम् ।
मुण्डकवाक्यमुदाहरति- इदमिति ।
यस्मिन् लोकत्रयात्मा विराट्, प्राणैः सर्वैः सह मनः सूत्रात्मकं, चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभिन्नं जानथ श्रवणादिना ।
अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ ।
एष वाग्विमोकपूर्वकात्मसाक्षात्कारो ऽमृतस्य मोक्षस्यासारापारदुर्वारसंसारवारिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवच्छ्रुतिर्मुमुक्षूनुपदिशति ।
तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह- तत्किमिति ।
अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं द्युभ्वाद्यायतनमब्रह्मैव सेतुरिव सेतुरित्याह- अमृतस्येति ।
भेदश्रवणात् सेतुरिति श्रवणच्चेत्यर्थः ।
तत्र भेदश्रवणं व्याख्यातम् ।
सेतुश्रवणं स्वयं विवृणोति- पारवानिति ।
अनन्तं कालतः ।
अपारं देशतः ।
जलविधारकमुख्यसेतोर्ग्रहणासंभवाद्गौणसेतुग्रहे कर्तव्ये मुख्यसेत्वविनाभूतपारवत्त्वगुणवानेव कश्चिद्ग्राह्यः ।
नतु मुख्यस्यानियतविधारणगुणवानीश्वर इति भावः ।
यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि संदृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः ।
आत्मशब्दात्पक्षद्वयमयप्युक्तमित्यत आह- शारीरो वेति ।
सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः ।
नन्वात्मशब्दो जीवे संभवतीत्यत आह- आत्मशब्दश्चेति ।
उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः ।
उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः ।
स्वशब्दादित्यस्यार्थान्तरमाह- क्वचिच्चेति ।
प्रजानामूत्पत्तौ सदेव मूलं, स्थितावायतनं, लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः ।
अर्थान्तरमाह- स्वशब्देनैवेति ।
ऽयस्मिन् द्यौःऽइति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसंकीर्तनान्मध्ये ऽपि ब्रह्म ग्राह्यमित्यर्थः ।
पुरुष इति पूर्ववाक्यं, ब्रह्मैवेत्युत्तरवाक्यं, सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः ।
उत्तरेणोत्तरस्यां दिशि ।
उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे- तत्रेत्यादिना ।
सामानाधिकरण्याद्विचित्र आत्मेति संबन्धः ।
यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह- विकारानृतेति ।
विकारे ऽनृते कल्पिते अभिसंधो ऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।
कथं तर्हि सामानाधिकरण्यं, तत्राह- सर्वं ब्रह्मेति ।
यश्चोरः स स्थाणुरितिवत् यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थं, न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः ।
तत्र नियामकमाह- स यथेति ।
लवणपिण्डो ऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।
यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वे ऽपि सेतुपदार्थैकदेशत्वादुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह- अत्रोच्यत इति ।
दृष्टत्वात्तद्ग्रहे ऽतिप्रसङ्गमाह- नहीति ।
अत्र श्रुतौ परेणेति शेषः विधारणस्य शब्दार्थत्वं स्फुटयति- षिञ् इति ।
सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः ।
तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म ।
अस्यैवामृतत्वं नान्यस्येत्यर्थः ।
यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह- अपर इति ।
फलितमाह- तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः

17.2

एन्द् ब्स्चोम्_1,3.1.1
स्तर्त् ब्स्चोम्_1,3.1.2
मुक्तोपसृप्यव्यपदेशाच् च । ब्ब्स्_1,3.2 ।
इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् ।
यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते ।
मुक्तैरुपसृप्यम् मुक्तोपसृप्यम् ।
देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्तभेदो ऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः ।
तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति ।
कथम्, ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड. 2.2.8) इत्युक्त्वा ब्रवीति- ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. 3.2.7) इति ।
ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे- ऽयदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ (बृह. 4.4.7) इत्येवमादौ ।
प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यमस्ति प्रसिद्धम् ।
अपिच ऽतमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैव सेतुःऽ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते ।
तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्- ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वति ब्राह्मणः ।
नानुध्यायाद्वहूञ्शब्दान्वाचो विग्लापनं हि तत्ऽ (बृह. 4.4.21) इति ।
तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc