ब्रह्मसूत्र (टीका सहित) · अध्याय 1.4
इतश्चासंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ।
यदस्मिन्वाक्ये पत्यादयः शब्दा असंसारिस्वरूपप्रतिपादनपराः संसारिस्वभावप्रतिषेधनाश्च भवन्ति ।
ऽसर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिःऽ इत्येवञ्जातीयका असंसारिस्वभावप्रतिपादनपराः ।
ऽस न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्ऽ इत्येवञ्जातीयकाः संसारिस्वभावप्रतिषेधनाः ।
तस्मादसंसारी परमेश्वर इहोक्त इत्यवगम्यते ॥ 43 ॥
इति श्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य तृतीयः पादः ॥ 3 ॥
fन्: वशी स्वतन्त्रः ।
ईशानो नियमनशक्तिमान् ।
____________________________________________________________________________________________ ____________________________________________________________________________________________
प्रथमाध्याये चतुर्थः पादः ।
[अत्र प्रधानविषयत्वेन संदुह्यमानानामव्यक्ताजादिपदानां चिन्तनम्]
1 आनुमानिकाधिकरणम् । सू. 1-7
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्- ऽजन्माद्यस्य यतःऽ (ब्र. 1.1.2) इति ।
तल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्- ऽईक्षतेर्नाशब्दम्ऽ (ब्र. 1.1.5) इति ।
गतिस्मान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते न प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेन ।
इदं त्विदानीमवशिष्टमाशङ्क्ष्यते- यदुक्तं प्रधानस्याशब्दत्वं तदसिद्धं, कासुचिच्छास्वासु प्रधानसमर्पणाभासानां शब्दनां श्रूयमाणत्वात् ।
अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यते ।
तद्यावत्तेषां शब्दानामन्यपरत्वं न प्रतिपाद्यते तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत् ।
अतस्तेषामन्यपरत्वं दर्शयितुं परः संदर्भः प्रवर्तते ।
आनुमानिकमप्यनुमाननिरूपितमपि प्रधानमेकेषां शाखिनां शब्दवदुपलभ्यते ।
काठके हि पठ्यते- ऽमहतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ (1.3.11) इति ।
तत्र य एव यन्नामानो यत्क्रमाच्च महदव्यक्तपुरुषाः स्मृतिप्रसिद्धास्त एवेह प्रत्यभिज्ञायन्ते ।
तत्राव्यक्तमिति स्मृतिप्रसिद्धेः, शब्दादिहीनत्वाच्च न व्यक्तमव्यक्तमिति व्युत्पत्तिसंभवात्, स्मृतिप्रसिद्धं प्रधानमभिधीयते ।
तस्य शब्दवत्त्वादशब्दत्वमनुपपन्नम् ।
तदेव च जगतः कारणं श्रुतिस्मृतिन्यायप्रसिद्धिभ्य इति चेत् ।
नैतदेवम् ।
नह्येतत्काटकं वाक्यं स्मृतिन्यायप्रसिद्धयोर्महदव्यक्तयोरस्तित्वपरम् ।
नह्यत्र यादृशं स्मृतिप्रसिद्धं स्वतन्त्रं कारणं त्रिगुणं प्रधानं तादृशं प्रत्यभिज्ञायते ।
शब्दमात्रं ह्यत्राव्यक्तमितिप्रत्यभिज्ञायते ।
स च शब्दो न व्यक्तमव्यक्तमिति यौगिकत्वादन्यस्मिन्नपि सूक्ष्मे सुदुर्लक्ष्ये च प्रयुज्यते ।
नचायं कस्मिंश्चिद्रूढः ।
या तु प्रधानवादिनां रूढिः सा तेषामेव पारिभाषिकी सती न वेदार्थनिरूपणे कारणभावं प्रतिपद्यते ।
नच क्रममात्रसामान्यात्समानार्थप्रतिपत्तिर्भवत्यसति तद्रूपप्रत्यभिज्ञाने ।
नह्यश्वस्थाने गां पश्यन्नश्वो ऽयमित्यमूढो ऽध्यवस्यति ।
प्रकरणनिरूपणायां चात्र न परपरिकल्पितं प्रधानं प्रतीयते ।
शरीररूपकविन्यस्गृहीतेः ।
शरीरं ह्यत्र रथरूपकविन्यस्तमव्यक्तशब्देन परिगृह्यते ।
कुतः ।
प्रकरणात्परिशेषाच्च ।
तथाह्यनन्तरातीतो ग्रन्थ आत्मशरीरवादिनां रथिरथादिरूपककॢप्तिं दर्शयति- ऽआत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥
ऽ (का. 1.3.3,4) इति ।
तैश्चेन्द्रियादिभिरसंयतैः संसारमधिगच्छति ।
संयतैस्त्वध्वनः पारं तद्विष्णोः परमं पदमाप्नोति दर्शयित्वा, किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायां, तेभ्य एव प्रकृतेभ्य इन्द्रियादिभ्यः परत्वेन परमात्मानमध्वनः पारं विष्णोः परमं पदं दर्शयति- ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।
महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (का. 1.3.10,11) इति ।
तत्र य एवेन्द्रियादयः पूर्वस्यां रथरूपककल्पनायामश्वादिभावेन प्रकृतास्त एवेह परिगृह्यन्ते प्रकृतहानाप्रकृतप्रक्रियापरिहाराय ।
तत्रेन्द्रियमनोबुद्धयस्तावत्पूर्वत्रेह च समानशब्दा एव ।
अर्था ये शब्दादयो विषया इन्द्रियहयगोचरत्वेन निर्दिष्टास्तेषां चेन्द्रियेभ्यः परत्वम् ।
ऽइन्द्रियाणां ग्रहत्वं विषयाणामतिग्रहत्वम्ऽ (बृ. 3.2) इति श्रुतिप्रसिद्धेः ।
विषयेभ्यश्च मनसः परत्वं, मनोमूलत्वाद्विषयेन्द्रियव्यवहारस्य ।
मनसस्तु परा बुद्धिः ।
बुद्धिं ह्यारुह्य भोग्यजातं भोक्तारमुपसर्पति ।
बुद्धेरात्मा महान्परः, यः स ऽआत्मानं रथिनं विद्धिऽ इति रथित्वेनोपक्षिप्तः ।
कुतः ।
आत्मशब्दात् ।
भोक्तुश्च भोगोपकरणात्परत्वोपपत्तेः ।
महत्त्वं चास्य स्वामित्वादुपपन्नम् ।
अथवा ऽमनो महान्तमतिर्ब्रह्मा पूर्बुद्धिः ख्यतिरीश्वरः ।
प्रज्ञा संविच्चितिश्चैव स्मृतिश्च परिपठ्यते ॥
ऽ इति स्मृतेः, ऽयो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मैऽ (श्वे. ।
6.18) इति च श्रुतेर्या प्रथमजस्य हिरण्यगर्भस्य बुद्धिः सा सर्वासां बुद्धीनां परा प्रतिष्ठा ।
सेह महानात्मेत्युच्यते ।
सा च पूर्वत्र बुद्धिग्रहणेनैव गृहीता सती हिरुगीहोपदिश्यते ।
तस्या अप्यस्मादीयाभ्यो बुद्धिभ्यः परत्वोपपत्तेः ।
एतस्मिंस्तु पक्षे परमात्मविषयेणैव परेण पुरुषग्रहणेन रथिन आत्मनो ग्रहणं द्रष्टव्यम् ।
परमार्थतः परमात्मविज्ञानात्मनोर्भेदाभावात् ।
तदेवं शरीरमेवैकं परिशिष्यते ।
इतराणीन्द्रियादीनि प्रकृतान्येव परमपददिदर्शयिषया समनुक्रामन्परिशिष्यमाणेनेहान्त्येनाव्यक्तशब्देन परिशिष्यमाणं प्रकृतं शरीरं दर्शयतीति गम्यते ।
शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य ह्यविद्यावतो भोक्तुः शरीरादीनां रथादिरूपककल्पनया संसारमोक्षगतिनिरूपणेन प्रत्यगात्मब्रह्मावगतिरिह विवक्षिता ।
तथाच ऽएष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ ॥
(का. 1.3.12) इति वैष्णवस्य परमपदस्य दुरवगमत्वमुक्त्वा तदवगमार्थं योगं दर्शयति- ऽयच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनिऽ ॥
(का. 1.3.13) इति ।
एतदुक्तं भवति- वाचं मनसि संयच्छेत् वागादिबाह्येन्द्रियव्यापारमुत्सृज्य मनोमात्रेणावतिष्ठेत ।
मनो ऽपि विषयविकल्पाभिमिखं विकल्पदोषदर्शनेन ज्ञानशब्दोदितायां बुद्धावध्यवसायस्वभावायां धारयेत् ।
तामपि बुद्धिं महत्यात्मनि भोक्तर्यग्र्यायां वा बुद्धौ सूक्ष्मतापादनेन नियच्छेत् ।
महान्तं त्वात्मानं शान्त आत्मनि प्रकरणवति परस्मिन्पुरुषे परस्यां काष्ठायां प्रतिष्ठापयेदिति च ।
तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाशः ॥ 1 ॥
fन्: प्रधानस्य वैदिकशब्दशून्यत्वेन ।
अवशिष्टमनाशङ्कितमनिराकृतं च ।
प्रतीत्या प्रधानार्पकत्वे ऽपि वस्तुतो नेति वक्तुमाभासपदम् ।
अपिशब्दादेकशब्दाच्च ब्रह्माङ्गीकारेण पूर्वपक्षो विचारश्चायं क्वाचित्क इति सूचितम् ।
स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः ।
अजामेकां इत्याद्या श्रुतिः ।
ऽहेतुः प्रकृतिरुच्यतेऽ इत्याद्या स्मृतिः ।
ऽयदल्पं तज्जडप्रकृतिकंऽ इति न्यायः ।
ततो ब्रह्मैव जगत्कारणमिति मतक्षतिरिति भावः ।
रूपककॢप्तिः सादृश्यकल्पना ।
प्रग्रहो ऽश्वरशना ।
तेषु हयेषु ।
गोचरान् मार्गान् ।
आत्मा देहः ।
गृह्णन्ति पुरुषपशुं बध्नातीति ग्रहा इन्द्रियाणि ।
तेभ्यः श्रेष्ठा अतिग्रहा विषयाः ।
परत्वं श्रैष्ठ्याभिप्रायं नत्वान्तरत्वेनेति भावः ।
बुद्धेः परः प्रत्यभिज्ञायत इति शेषः ।
हिरुक् पृथक् ।
वेदना सुखाद्यनुभवः ।
वागित्यत्र द्वितीयालोपश्छान्दसः मनसी इति दीर्घश्च ।
अग्र्या समाधिपरिपाकजा ।
सूक्ष्मं तु तदर्हत्वात्
उक्तमेतत्प्रकरणपरीशेषाभ्यां शरीरमव्यक्तशब्दः न प्रधानमिति ।
इदमिदानीमाशङ्क्यते- कथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पृष्टतरमिदं शरीरं व्यक्तशब्दार्हमस्पष्टवचनस्त्वव्यक्तशब्द इति ।
अत उत्तरमुच्यते- सूक्ष्मं त्विह कारणात्मना शरीरं विवक्ष्यते सूक्ष्मस्याव्यक्तशब्दार्हत्वात् ।
यद्यपि स्थूलमिदं शरीरं न स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हति ।
प्रकृतिशब्दश्च विकारे दृष्टः ।
यथा ऽगोभिः श्रीणीत मत्सरम्ऽ (ऋ.स. 9.46.4) इति श्रुतिश्च- ऽतद्भेदं तर्ह्यव्याकृतमासीत्ऽ (बृ. 1.4.7) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोगं दर्शयति ॥ 2 ॥
fन्: प्रकृतेर्विकाराणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकारे उपचर्यते ।
गोभिर्गोविकारैः पयोभिः मत्सरं सोमं श्रीणीत मिश्रितं कुर्यात् ।
तत् ह किल तर्हि प्रागवस्थायामिदं जगदव्याकृतं अव्यक्तमासीत् ।
तदधीनत्वाद् अर्थवत्
अत्राह- यदि जगदिदमनभिव्यक्तनामरूपं बीजात्मकं प्रागवस्थमव्यक्तशब्दार्हमभ्युपगम्येत, तदात्मना च शरीरस्याप्यव्यक्तशब्दार्हत्वं प्रतिज्ञायेत, स एव तर्हि प्रधानकारणवाद एवं सत्यापद्येत ।
अस्यैव जगतः प्रागवस्थायाः प्रधानत्वेनाभ्युपगमादिति ।
अत्रोच्यते- यदि वयं स्वतन्त्रां काञ्चित्प्रागवस्थां जगतः कारणत्वेनाभ्युपगच्छेम, प्रसञ्ज्येम तदा प्रधानकारणवादम् ।
परमेश्वराधीना त्वियमस्माभिः प्रागवस्था जगतो ऽभ्युपगम्यते न स्वतन्त्रा ।
सा चावश्याभ्युपगन्तव्या ।
अरथवती हि सा ।
नहि तया विना परमेश्वरस्य स्रष्टृत्वं सिद्धयति ।
शक्तिरहितस्य तस्य प्रवृत्त्यनुपपत्तेः ।
मुक्तानां च पुनरनुत्पत्तिः ।
कुतः ।
विद्यया तस्या बीजशक्तेर्दाहात् ।
अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः, यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः ।
तदेतदव्यक्तं क्वचिदाकाशशब्दनिर्दिष्टम्- ऽएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चऽ (बृ. 3.8.11) इति श्रुतेः ।
क्वचिदक्षरशब्दोदितम्- ऽअक्षरात्परतः परःऽ (मु. 2.1.2) इति श्रुतेः ।
क्वचिन्मायेति सूचितम्- ऽमायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्ऽ (श्वे. 4.10) इति मन्त्रवर्णात् ।
अव्यक्ता हि सा माया, तत्त्वान्यत्वनिरूपणस्याशक्यत्वात् ।
तदिदं ऽमहतः परमव्यक्तम्ऽ इत्युक्तमव्यक्तप्रभवत्वान्महतः, यदा हैरण्यगर्भी बुद्धिर्महान् ।
यदा तु जीवो महांस्तदाप्यव्यक्ताधीनत्वाज्जीवभावस्य महतः परमव्यक्तमित्युक्तम् ।
अविद्या ह्यव्यक्तम् ।
अविद्यावत्त्वेनैव जीवस्य सर्वः संव्यवहारः संततो वर्तते ।
महतः परत्वमभेदोपचारात्तद्विकारे शरीरे परिकल्प्यते ।
सत्यपि शरीरवदिन्द्रियादीनां तद्विकारत्वाविशेषे शरीरस्यैवाभेदोपचारादव्यक्तशब्देन ग्रहणं, इन्द्रियादीनां स्वशब्दैरेव गृहीतत्वात्परिशिष्टत्वाच्च शरीरस्य ।
अन्ये तु वर्णयन्ति- द्विविधं हि शरीरं स्थूलं सूक्ष्मं च ।
स्थूलं यदिदमुपलभ्यते ।
सूक्ष्मं यदुत्तरत्र वक्ष्यते- ऽतदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्ऽ (बृ. 3.1.1) इति ।
तच्चोभयमपि शरीरमविशेषात्पूर्वत्र रथत्वेन संकीर्तितम् ।
इह तु सूक्ष्ममव्यक्तशब्देन परिगृह्यते ।
सूक्ष्मस्याव्यक्तशब्दार्हत्वात् ।
तदधीनत्वाच्च बन्धमोक्षव्यवहारस्य जीवात्तस्य परत्वम् ।
यथार्थाधीनत्वादिन्द्रियव्यापारस्येन्द्रियेभ्यः परत्वमर्थानामिति ।
तैस्त्वेतद्वक्तव्यं, अविशेषेण शरीरद्वयस्य पूर्वत्र रथत्वेन संकीर्तितत्वात्समानयोः प्रकृतपरिशिष्टत्वयोः कथं सूक्ष्ममेव शरीरमिह गृह्यते न पुनः स्थूलमपीति ।
आम्नातस्यार्थं प्रतिपत्तुं प्रभवामो नाम्नातं पर्यनुयोक्तुम् ।
आम्नातं चाव्यक्तपदं सूक्ष्ममेव प्रतिपादयितुं शक्नोति नेतरद्व्यक्तत्वात्तस्येति चेत् ।
न ।
एकवाक्यताधीनत्वादर्थप्रतिपत्तेः ।
नहीमे पूर्वोत्तरे आम्नाते एकवाक्यतामनापद्य कञ्चिदर्थं प्रतिपादयतः, परकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् ।
नचाकाङ्क्षामन्तरेणैकवाक्यताप्रतिपत्तिरस्ति ।
तत्रावशिष्टायां शरीरद्वयस्य ग्राह्यत्वाकाङ्क्षायां यथाकाङ्क्षं संबन्धे ऽनभ्युपगम्यमान एकवाक्यतैव बाधिता भवति कुत आम्नातस्यार्थप्रतिपत्तिः ।
नचैवं मन्तव्यं दुःशोधत्वात्सूक्ष्मस्यैव शरीरस्येह ग्रहणं, स्थूलस्य तु दृष्टबीभत्सतया सुशोधत्वादग्रहणमिति ।
यतो नैवेह शोधनं कस्यचिद्विवक्ष्यते ।
नह्यत्र शोधनविधायि किञ्चिदाख्यातमस्ति ।
अनन्तरनिर्दिष्टत्वात्तु किं तद्विष्णोः परमं पदमितीदमिह विवक्ष्यते ।
तथाहीदमस्मात्परमिदमस्मात्परमित्युक्त्वा ऽपुरुषान्न परं किञ्चित्ऽ इत्याह ।
सर्वथापि त्वानुमानिकनिरकरणोपपत्तेस्तथा नामास्तु, न नः किञ्चिच्छिद्यते ॥ 3 ॥
fन्: तर्हि तदा ।
मायामयी प्रसिद्धमायोपमिता ।
बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः ।
अनवच्छिन्नत्वादाकाशत्वं, तत्त्वज्ञानं विनानिवृत्तेरक्षरत्वं, विचित्रकार्यत्वान्मायात्वमिति भेदः ।
तत् अव्यक्तम् ।
गोबलीवर्दपदवदेतद्द्रष्टव्यम् ।
एकार्थबोधकानां शब्दानां मिथ आकाङ्क्ष्यैकस्यां बुद्धावरूढत्वमेकवाक्यता ।
ग्राह्यत्वाकाङ्क्षा एकवाक्यता ।
दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः ।
सर्वथा स्थूलसूक्ष्मयोरन्यतरग्रहे ऽपीति यावत् ।
ज्ञेयत्वावचनाच् च
ज्ञेयत्वेन च सांख्यैः प्रधानं स्मर्यते गुणपुरुषान्तरज्ञानात्कैवल्यमितिवद्भिः ।
नहि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमिति ।
क्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति ।
नचेदगिहाव्यक्तं ज्ञेयत्वेनोच्यते ।
पदमात्रं ह्यव्यक्तशब्दः ।
नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति ।
नचानुपदिष्टपदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम् ।
तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयते ।
अस्माकं तु रथरूपककॢप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥ 4 ॥
वदतीति चेन् न प्राज्ञो हि प्रकरणात्
अत्राह सांख्यः - ज्ञेयत्वावचनात् इत्यसिद्धम् ।
कथम् ।
श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम्- ऽअशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् ।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यतेऽ ॥
(का. 2.3.15) इति ।
अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितं तादृशमेव निचाय्यत्वेन निर्दिष्टं, तस्मात्प्रधानमेवेदं, तदेव चाव्यक्तशब्दनिर्दिष्टमिति ।
अत्र ब्रूमः - नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् ।
प्राज्ञो हीह परमात्मा निचाय्यत्वेत निर्दिष्टं इति गम्यते ।
कुतः ।
प्रकरणात् ।
प्राज्ञस्य हि प्रकरणं विततं वर्तते ।
ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ इत्यादिनिर्देशात्, ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशतेऽ इति च दुर्ज्ञातत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् ।
ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात् ।
मृत्युमुखप्रमोक्षणफलत्वाच्च ।
नहि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सांख्यैरिष्यते ।
चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यते इति तेषामभ्युपगमः ।
सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनो ऽशब्दादिधर्मत्वमभिलप्यते ।
तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा ॥ 5 ॥
fन्: अशब्दमित्यादिषु प्रत्येकं नित्यशब्दः संबध्यते ।
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च
इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा ।
यस्मान्त्रयाणामेव पदार्थान्मग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रधानसामर्थ्याद्वक्तव्यतोपन्यासो दृश्यते ।
तद्विषय एव च प्रश्नः ।
नातो ऽन्यस्य प्रश्न उपन्यासो वास्ति ।
तत्र तावत् ऽस त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्ऽ (का. 1.1.13) इत्यग्निविषयः प्रश्नः ।
ऽयेयं प्रेतेऽ विचिकित्सा मनुष्ये ऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः ॥
ऽ (का. 1.1.20) इति जीवविषयः प्रश्नः ।
ऽअन्यत्र धर्मादन्त्राधर्मान्यत्रास्मत्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥
ऽ (का. 1.2.14) इति परमात्मविषयः ।
प्रतिवचनमपि ऽलोकादिममग्निं तमुवाच तस्मै या इष्टकायावतीर्वा यथा वाऽ (का. 1.1.15) इत्यग्निविषयम् ।
ऽहन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
यथा च मरणं प्राप्य आत्मा भवति गौतम ।
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्ये ऽनुसंयन्ति यथाकर्म यथाश्रुतम्ऽ (का. 2.5.6,7) इति ।
व्यवहितं जीवविषयम् ।
ऽन जायते म्रियते वा विपश्चित्ऽ (का. 1.2.18) इत्यादिबहुप्रपञ्चं परमात्मविषयम् ।
नैवं प्रधानविषयः प्रश्नो ऽस्ति ।
अपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति ।
अत्राह- यो ऽयमात्मविषयः प्रश्नो येयं प्रेते विचिकित्सा मनुष्ये ऽस्तीति, किं स एवायम् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ इति पुनरनुकृष्यते, किंवा ततो ऽन्यो ऽयमपूर्वः प्रश्न उत्थाप्यत इति ।
किचातः ।
स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत, द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति ।
अथान्यो ऽयमपूर्वः प्रश्नः उत्थाप्यत इत्युच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोष एवं प्रश्न व्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति ।
अत्रोच्यते- नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कञ्चित्कल्पयामो वाक्योपक्रमसामर्थ्यात् ।
वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते ।
मृत्युः किल नाचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ ।
नचिकेताः किल तेषां प्रथमेन वरेण सौमनस्यं वव्रे ।
द्वितीयेनाग्निविद्याम्, तृतीयेनात्मविद्याम्, ऽयेयं प्रेतेऽ इति ऽवराणामेव वरस्तृतीयःऽ (का. 1.1.20) इति लिङ्गात् ।
तत्र यद्यन्यत्र धर्मादित्यन्यो ऽयमपूर्वः प्रश्न उत्थाप्येत ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येथ ।
ननु प्रष्ठव्यभेदादपूर्वो ऽयं प्रश्नो भवितुमर्हति ।
पूर्वो हि प्रश्नो जीवविषयः ।
योयं प्रेते विचिकित्सा मनुष्ये ऽस्ति नास्तीति विचिकित्साभिधानात् ।
जीवश्च धर्मादिगोचरत्वान्नान्यत्र धर्मादिति प्रश्नमर्हति ।
प्राज्ञस्तु धर्माद्यतीतत्वादन्यत्र अन्यत्र धर्मादिति प्रश्नमर्हति ।
प्रश्नच्छाया च न समाना लक्ष्यते ।
पूर्वस्यास्तित्वनास्तित्वविषयत्वादुत्तरस्य धर्माद्यतीतवस्तुविषयत्वात् ।
तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः ।
न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत् ।
न ।
जीवप्राज्ञयोरेकत्वाभ्युपगमात् ।
भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् ।
न त्वन्यत्वमस्ति ।
तत्त्वमसीत्यादिश्रुत्यन्तरेभ्यः ।
इह चान्यत्र धर्मादित्यस्य प्रश्नस्य प्रतिवचनं ऽन जायते म्रियते वा विपश्चित्ऽ इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति ।
सति हि प्रसङ्गे प्रतिषेधो भागी भवति ।
प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति न परमेश्वरस्य ।
तथा- ऽस्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥
(का. 2.4.4) इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति ।
प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः ।
तथाग्रे- ऽयदेवेह तदमुत्र यदमुत्र तदन्विह ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ।
ऽ (का.2.4.10) इति जीवप्राज्ञभेददृष्टिमपवदति ।
तथा जीववीषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् ऽअन्यं वरं नचिकेतो वृणीष्वऽ इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानो ऽपि नचिकेता यदा न चचाल, तदैनं मृत्युरभ्युदयनीःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च ऽविद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्तऽ (का.1.2.4) इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच- ऽतं दुर्दर्शं गूढमनुप्रविष्ठं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥
ऽ (का.1.2.12) इति, तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षत इति गम्यते ।
यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेता यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेदस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् ।
तस्मात् ऽयेयं प्रेतेऽ इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् ऽअन्यत्र धर्मात्ऽ इति ।
यत्तु प्रश्नच्छायावैलक्षण्यमुक्तं तददूषणम् ।
तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात् ।
पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनो ऽस्तित्वं पृष्टमुत्तरत्र तु तस्यैवासंसारित्वं पृच्छ्यत इति यावद्ध्यविद्या न निवर्तते तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते ।
तन्निवृत्तौ तु प्राज्ञ एव तत्त्वमसीति श्रुत्या प्रत्याय्यते ।
नचाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषो ऽस्ति ।
यथा कश्चित्संतमसे पतितां काञ्चिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते, तं चापरो ब्रूयान्मा भषीर्नायमही रज्जुरेवेति ।
स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च ।
नत्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् ।
तथैवैतदपि द्रष्टव्यम् ।
ततश्च ऽन जायते म्रियते वाऽ इत्येवमाद्यपि भवत्यस्तित्वप्रश्नस्य प्रतिवचनम् ।
सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् ।
एकत्वे ऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सानात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते ।
उत्तरस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति ।
ततश्च युक्ताग्निजीवपरमात्मकल्पना ।
प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम् ॥ 6 ॥
fन्: मृत्युना नचिकेतसंप्रति त्रीन्वरानवृणीष्वेत्युक्तेस्त्रयाणामेव प्रश्नो नचिकेतसा कृतः ।
उपन्यासश्च मृत्युना कृतः ।
हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्निमध्येषि स्मरसि ।
प्रेते मृते ।
देहादन्यो ऽस्ति नवेति संशयो.ऽस्ति अत एतदात्मतत्त्वमसंदिग्धं जानीयामित्यर्थः ।
श्रुतमुपन्यासम् ।
वरप्रधानमुपक्रमो यस्याः सा ।
प्रहिताय यमलोकं प्रति प्रेषिताय ।
गोचरत्वादश्रयत्वात् ।
भागी युक्तः ।
अन्तो ऽवस्था ।
येन साक्षिणा प्रमाता पश्यति तमात्मानमिति संबन्धः ।
इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ ।
यस्मिन् प्रश्नो यत्प्रश्नस्तं विहायेत्यर्थः ।
विशेषोक्तिसमाप्तावितिशब्दः ।
महद्वच् च
यथा महच्छब्दः सांख्यैः सत्तामात्रे ऽपि प्रथमजे प्रयुक्ते न तमेव वैदिके ऽपि प्रयोगे ऽभिधत्ते ।
ऽबुद्धेरात्मा महान्परःऽ (का. 1.3.10), ऽमहान्तं विभुमात्मानम्ऽ (का. 1.2.22) ऽवेदाहमेतं पुरुषं महान्तम्ऽ (श्वे. 3.8)
इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः ।
तथाव्यक्तशब्दो ऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति ।
अतश्च नास्यानुमानिकस्य शब्दवत्त्वम् ॥ 7 ॥
2 चमसाधिकरणम् । सू. 8-10
चमसवदविशेषात्
पुनरपि प्रधानवाद्यशब्दत्वं प्रधानस्यासिद्धमित्याह ।
कस्मात् ।
मन्त्रवर्णात्- ऽअजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यःऽ (श्वे. 4.5) इति ।
अत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दै रजःसत्त्वतमांस्यभिधीयन्ते ।
लोहितं रजो रञ्जनात्मकत्वात् ।
शुक्लं सत्त्वं प्रकाशात्मकत्वात् ।
कृष्णं तम आवरणात्कत्वात् ।
तेषां साम्यावस्थावयवधर्मैर्व्यपदिश्यते लोहितशुक्लकृष्णमिति ।
न जायत इति चाजा स्यात्, ऽमूलप्रकृतिरविकृतिःऽ इत्यभ्युपगमात् ।
नन्वजाशब्दश्छागायां रूढः ।
बाढम् ।
सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात् ।
सा च वह्नीः प्रजास्त्रैगुण्यान्विता जनयति ।
तां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वानुशेते ।
तामेवाविद्यायात्मत्वेनोपगम्य सुखी दुःखी मूढो ऽहमित्यविवेकतया संसरति ।
अन्यः पुनरजः पुरुषे उत्पन्नविवेकज्ञानो विरक्तो जहात्येनां प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजति ।
मुच्यत इत्यर्थः ।
तस्माच्छ्रुतिमूलैव प्रधानादिकल्पनामिति ।
एवं प्राप्ते ब्रूमः - नानेन मन्त्रेण श्रुतिमत्त्व सांख्यवादस्य शक्यमाश्रयितुम् ।
नह्ययं मन्त्रः स्वातन्त्र्येण कञ्चिदपि वादं समर्थयितुमुत्सहते ।
सर्वत्रापि यया कयाचित्कल्पनयाजात्वादिसंपादनोपपत्तेः ।
सांख्यवाद एवेहाभिप्रेत इति विशेषावधारणकारणाभावात् ।
चमसवत् ।
यथाहि अर्वाग्बलश्चमस ऊर्ध्वबुध्नः (बृ. 2.2.3) इत्यस्मिनमन्त्रे स्वातन्त्र्येणायं नामासौ चमसो ऽभिप्रेत इति न शक्यते निरूपयितुम् ।
सर्वत्रापि यथाकथञ्चिदर्वाग्बिलत्वादिकल्पनोपपत्तेः ।
एवमिहाप्यविशेषो ऽजामेकामित्यस्य मन्त्रस्य ।
नास्मिन्मन्त्रे प्रधानमेवाजाभिप्रेतेति शक्यते नियन्तुम् ॥ 8 ॥
तत्र तु ऽइदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नःऽ इति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवति ।
इह पुनः केयमजा प्रतिपत्तव्येति ।
अत्र ब्रूमः -
fन्: अजामेकां- न जायत इत्यजा तां मुलप्रकृतिं लोहितशुक्लकृष्णां रजःसत्वमोगुणां सरूपास्त्रिगुणात्मिकाः प्रजा जनयन्तीं एको ऽजो जीवस्तां शब्दादिविषयरूपतापन्नां जुषमाणः सन्ननुशेते निरन्तरं मुह्यति ।
जीवेन भुक्तो भोगो यस्यां यस्या वा तां जीवेन भुज्यमानामन्यः परमात्मा जहाति नास्यामासक्तिं करोति ।
अवयवाः प्रधानस्य रज आदयस्तेषां धर्मा रञ्जकत्वादयस्तैः ।
प्रजायन्त इति प्रजा महदादयः ।
त्रैगुण्यं सुखदुःखमोहाः ।
अत्रात्मत्वं तादात्म्यम् ।
शब्दाद्युपलब्धिर्भोगः ।
गुणपुरुषान्यताधीरपवृज्यते ऽनेनेत्यपवर्गः ।
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके
परमेश्वरादुत्पन्ना ज्योतिःप्रमुखा तेजोबन्नलक्षणा चतुर्विधस्य भूतग्रामस्य प्रकृतिभूतेयमजा प्रतिपत्तव्या ।
तुशब्दो ऽवधाणार्थः ।
भूतत्रयलक्षणैवेयमजा विज्ञेया न गुणत्रयलक्षणा ।
कस्मात् ।
तथाह्येके शाखिनस्तेजोबन्नानां परमेश्वरादुत्पत्तिमाम्नाय तेषामेव रोहितादिरूपतामामनन्ति- ऽयदग्रे रोहितं रूपं तेजस्तद्रूपं यच्छुक्रं तदपां यत्कृष्णं तदन्नस्यऽ इति ।
तान्येवेह तेजोबन्नानि प्रत्यभिज्ञायन्ते रोहितादिशब्दसामान्यात् ।
रोहितादीनां च शब्दानां रूपविशेषेषु मुख्यत्वाद्भाक्तत्वाच्च गुणविषयत्वस्य ।
असंदिग्धेन च संदिग्धस्य निगमनं न्याय्यं मन्यन्ते ।
तथेहापि ऽब्रह्मवादिनो वदन्ति ।
किङ्कारणं ब्रह्मऽ (श्वे. 1.1) इत्युपक्रम्य ऽते द्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्ऽ (श्वे.
1.3) इति पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमे ऽवगमात् ।
वाक्यशेषे ऽपि ऽमायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्ऽ इति ऽयो योनिं योनिमधितिष्ठत्येकःऽ (श्वे. 4.10,11) इति च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामजामन्त्रेणाम्नायत इति शक्यते वक्तुम् ।
प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः प्रागवस्थानेनापि मन्त्रेणाम्नायत इत्युच्यते ।
तस्याश्च स्वविकारविषयेण त्रैरूप्येण त्रैरूप्यमुक्तम् ॥ 9 ॥
कथं पुनस्तेजोबन्नात्मना त्रैरूप्येण त्रिरूपाजा प्रतिपत्तुं शक्यते ।
यावता न तावत्तेजोबन्नेष्वजाकृतिरस्ति ।
नच तेजोबन्नानां जातिश्रवणादजातिनिमित्तो ऽप्यजाशब्दः संभवतीति ।
अत उत्तरं पठति-
fन्: शाखिनश्छन्दोगाः ।
ते ब्रह्मवादिनो ऽनया रीत्या विमृश्य द्यानयोगेनानुगताः परमात्मानमनु प्रविष्टाः ।
अविद्याशक्तिर्योनिः सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना ।
कल्पनोपदेशाच् च मध्वादिवदविरोधः
नायमजाकृतिनिमित्तो ऽजाशब्दः ।
नापि यौगिकः ।
किं तर्हि कल्पनोपदेशो ऽयम् ।
अजारूपककॢप्तिस्तेजोबन्नलक्षणायाश्चराचरयोनेरुपदिश्यते ।
यथाहि लोके यदृच्छया काचिदजा रोहितशुक्लकृष्णणवर्णा स्याद्बहुबर्करा सरूपबर्करा च तां च कश्चिदजो जुषमाणो ऽनुशयीत, कश्चिच्चैनां भुक्तभोगां जुह्यात्, एवमियमपि तेजोबन्नलक्षणा भूतप्रकृतिस्त्रिवर्णा बहु सरूपं चराचरलक्षणं विकारजातं जनयति अविदुषा च क्षेत्रज्ञेनोपभुज्यते विदुषा त परित्यजत इति ।
नचेदमाशङ्कितव्यमेकः क्षेत्रज्ञो ऽनुशेते ऽन्यो जहातीत्यतः क्षेत्रज्ञभेदः पारमार्थिकः परेषामिष्टः प्राप्नोतीति ।
नहीयं क्षेत्रज्ञभेदप्रतिपिपादयिषा किन्तु बन्धमोक्षव्यवस्थाप्रतिपिपादयिषा त्वेषा ।
प्रसिद्धं तु भेदमनुद्य बन्धमोक्षव्यवस्था प्रतिपाद्यते ।
भेदस्तूपाधिनिमित्तो मिथ्याज्ञानकल्पितो न पारमार्थिकः ।
ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ इत्यादिश्रुतिभ्यः ।
मध्वादिवत् ।
यथा ऽआदित्यस्यामधुनो मधुत्वम्ऽ (छा. 3.1), ऽवाचाश्चाधेनोर्धेनुत्वम् (बृ. 5.8), ऽद्युलोकादीनां चानग्नीनामग्नित्वम्ऽ (बृ. 8.2.9) इत्येवञ्जातीयकं कल्प्यते, एवमिदमनजाया अजात्वं कल्प्यत इत्यर्थः ।
तस्मादविरोधस्तेजोबन्नेष्वजाशब्दप्रयोगस्य ॥ 10 ॥
fन्: बहुबर्करा बहुशावा ।
बर्करो बालपशुः ।
3 सांख्योपसंग्रहादिकरणम् । सू. 11-13
न संख्योपसंग्रहादपि नानाभावाद् अतिरेकाच् च
एवं परिगृहीते ऽप्यजामन्त्रे पुनरन्यस्मान्मन्त्रात्सांख्यः प्रत्यवतिष्ठते ।
ऽयस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान्ब्रह्मामृतो ऽमृतम्ऽ (बृ. 4.4.17) इति ।
अस्मिन्मन्त्रे पञ्च पञ्चजना इति पञ्चसंख्याविषयापरा पञ्चसंख्या श्रूयते पञ्चद्वयशब्ददर्शनात् ।
त एते पञ्चपञ्चकाः पञ्चविंशतिः संपद्यन्ते ।
तथा पञ्चविंशतिसंख्यया यावन्तः संख्येया आकाङ्क्ष्यन्तेलतावन्त्येव च तत्त्वानि सांख्यैः संख्यायन्ते- ऽमूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषःऽ (सांख्यका. 3) इति ।
तया श्रुतिप्रसिद्धया पञ्चविंशतिसंख्यया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसंग्रहात्प्राप्तं पुनः श्रुतिमत्त्वमेव प्रधानादीनाम् ।
ततो ब्रूमः - न संख्योपसंग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्या ।
कस्मात् ।
नानाभावात् ।
नाना ह्येतानि पञ्चविंशतिस्तत्त्वानि ।
नैषां पञ्चशः पञ्चशः साधारणो धर्मो ऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्चसंख्या निवेशेरन् ।
नह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्ते ।
अथोच्येत पञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथा ऽपञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुःऽ इति द्वादशवार्षिकीमनावृष्टिं कथयन्ति तद्वदिति ।
तदपि नोपपद्यते ।
अयमेवास्मिन्पक्षे दोषो यल्लक्षणाश्रयणीया स्यात् ।
परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजना इति, पारिभाषिकेण स्वरेणैकपदत्वनिश्चयात् ।
प्रयोगान्तरे च ऽपञ्चानां त्वा पञ्चजनानाम्ऽ (तै. 1.6.2.2) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात् ।
समस्तस्य न वीप्सा पञ्च पञ्चेति ।
नच पचकद्वयग्रहणं पञ्च पञ्चेति ।
नच पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणं पञ्च पञ्चका इति ।
उपसर्जनस्य विशेषणेनासंयोगात् ।
नन्वापन्नपञ्चसंख्यका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते ।
यथा पञ्च पञ्चपूल्य इति पञ्चवंशतिपूलाः प्रतीयन्ते तद्वत् ।
नेति ब्रूमः ।
युक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात्कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम् ।
इह तु पञ्च पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां न पञ्च पञ्चजना इति विशेषणं भवेत् ।
भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्, तत्र चोक्तो दोषः ।
तस्मात्पञ्च पञ्चजना इति न पञ्चविंशतितत्त्वाभिप्रायम् ।
अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् ।
अतिरेकाच्च न पञ्चविंशतितत्त्वाभिप्रायम् ।
अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाः ।
आत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः ।
यस्मिन्निति सप्तमिसूचितस्य ऽऽतमेव मन्य आत्मानम्ऽ इत्यात्मत्वेनानुकर्षणात् ।
आत्मा च चेतनः पुरुषः ।
स च पञ्चविंशतावन्तर्गत एवेति न तस्यैवाधारत्वमाधेयत्वं च युज्यते ।
अर्थान्तरपरिग्रहे च तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येत ।
तथा ऽआकाशश्च प्रतिष्ठितःऽ इत्याकाशस्यापि पञ्चविंशतवन्तर्गतस्य न पृथगुपादानं न्याय्यम् ।
अर्थान्तरपरिग्रहे चोक्तं दूषणम् ।
कथं च संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसंग्रहः प्रतीयते ।
जनशब्दस्य तत्वेष्वरूढत्वात् ।
अर्थान्तरोपसंग्रहे ऽपि संख्योपपत्तेः ।
कथं तर्हि पञ्च पञ्चजना इति ।
उच्यते- ऽदिक्संख्ये संज्ञायाम्ऽ (पा. सू. 2.1.50) इति विशेषणस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासः ततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते न सांख्यतत्त्वाभिप्रायेण ।
ते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यते ।
पञ्चजना नाम ये केचित्ते च पञ्चैवेत्यर्थः ।
सप्तर्षयः सप्तेति यथा ॥ 11 ॥
के पुनस्ते पञ्चजना नामेति, तदुच्यते-
fन्: मूलप्रकृतिरविकृतिः अन्यस्य कस्यचिद्विकारो न ।
महदहङ्कारपञ्चतन्मात्राणि सप्त प्रकृतिविकृतयः ।
महानहङ्कारस्य प्रकृतिर्मूलप्रकृतेर्विकृतिः ।
अहङ्कारो ऽपि तामसस्तन्मात्राणां प्रकृतिः ।
सात्त्विकस्त्वेकादशेन्द्रियाणां तन्मात्राण्याकाशादीनां स्थूलानां प्रकृतयः ।
पञ्चभूतान्येकादशेन्द्रियाणि षोडशको गणो विकार एव ।
पृथिव्यादीनां घटादिप्रकृतित्वे ऽपि तत्त्वान्तराप्रकृतित्वाद्विकृतय एव ।
पुरुषस्तु कौटस्थ्यात्प्रकृतिविकृतित्वविरहीत्यर्थः ।
भेदो विशेषणम् ।
अतिरेक आधिक्यम् ।
उक्तदोषः संख्याधिक्यम् ।
प्राणादयो वाक्यशेषात्
ऽयस्मिनपञ्च पञ्चजनाःऽ इत्यत उत्तरस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणाय प्राणादयः पञ्च निर्दिष्टाः - ऽप्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुःऽ इति ।
ते ऽत्र वाक्यशेषगताः संनिधानात्पञ्चजना विवक्ष्यन्ते ।
कथं पुनः प्राणादिषु जनशब्दप्रयोगः ।
तत्त्वेषु वा कथं जनशब्दप्रयोगः ।
समाने तु प्रसिद्ध्यतिक्रमे वाक्यशेषवशात्प्राणादय एव ग्पहीतव्या भवन्ति ।
जनसंबन्धाच्च प्राणादयो जनशब्दभाजो भवन्ति ।
जनवचनश्च पुरुषशब्दः प्राणेषु प्रयुक्तः ऽते वा एते पञ्च ब्रह्मपुरुषाःऽ (छा. 3.13.6) इत्यत्र ।
ऽप्राणो ह पिता प्राणो ह माताऽ (छा.7.15.1) इत्यादि च ब्राह्मणम् ।
समासबलाच्च मसुदायस्य रूढत्वमविरुद्धम् ।
कथं पुनरसति प्रथम्प्रयोगे रूढिः शक्याश्रयितुम् ।
शक्योद्भिदादिवदित्याह ।
प्रसिद्धार्थसंनिधाने ह्यप्रसिद्धार्थः शब्दः प्रयुज्यमानः समभिव्याहारात्तद्विषयो नियम्यते, यथा ऽउद्भिदा यजेतऽ ऽयूपं छिनत्तिऽ ऽवेदिं करोतिऽ इति ।
तथायमपि पञ्चजनशब्दः समासान्वाख्यानादवगतसंज्ञाभावः संज्ञ्याकाङ्क्षी वाक्यशेषसमभिव्याहृतेषु प्राणादिषु वर्तिष्यते ।
कैश्चित्तु देवाः पितरो गन्धर्वा असुरा रक्षांसि च पञ्च पञ्चजना व्याख्याताः ।
अन्यैश्च चत्वारो वर्णा निषादपञ्चमाः परिगृहीताः ।
क्वचिच्च ऽयत्पाञ्चजन्यया विशाऽ (ऋ.सं. 8.53.7) इति प्रजापरः प्रयोगः पञ्चजनशब्दस्य दृश्यते ।
तत्परिग्पहे ऽपीह न कश्चिद्वरोधः ।
आचार्यस्तु न पञ्चविशतेस्तत्त्वानमिह प्रतीतिरस्तीत्येवंपरतया ऽप्राणादयो वाक्यशेषात्ऽ इति जगाद ॥ 12 ॥
भवेयुस्तावत्प्राणादयः पञ्चजना माध्यन्दिनानां ये ऽन्नं प्राणादिष्वामनन्ति ।
काण्वानां तु कथं प्राणादयः पञ्चजना भवेयुर्ये ऽन्नं प्राणादिषु नामनन्तीति ।
अत उत्तरं पठति-
fन्: उतशब्दोषप्यर्थः ।
ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः ।
जनवाचकः शब्दो जनशब्दः पञ्चजनशब्द इति यावत् ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।
ज्योतिषैकेषाम् असत्यन्ने
असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत ।
ते ऽपि हि ऽयस्मिन्पञ्च पञ्चजनाः इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते- ऽतद्देवा ज्योतिषां ज्योतिःऽ इति ।
कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्ग्रृह्यते केषाञ्चिन्नेति ।
अपेक्षाभेदादित्याह ।
माध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्वपेक्षा भवति ।
तदलाभात्तु काण्वानां भवत्यपेक्षा ।
अपेक्षाभेदाच्च समाने ऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे ।
यथा समाने ऽप्यतिरात्रे वचनभेदात्षोडषिनो ग्रहणाग्रहणे तद्वत् ।
तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति ।
स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ 13 ॥
fन्: अत्र षोडशिग्रहणाग्रहणवद्वाक्यभेदाज्ज्योतिषो विकल्पः ।
4 कारणत्वाधिकरणम्. सू. 14-15
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः
प्रतिपादितं ब्रह्मणो लक्षणम् ।
प्रतिपादितं च ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम् ।
प्रतिपादितं च प्रधानस्याशब्दत्वम् ।
तत्रेदमपरमाशङ्कते- न जन्मादिकरणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपत्तुं शक्यम् ।
कस्मात् ।
विगानदर्शनात् ।
प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते क्रमादिवैचित्र्यात् ।
तथाहि- क्वचित् ऽआत्मन आकाशः संभूतःऽ (तै. 2.1) इत्याकाशादिकासृष्टराम्नायते ।
क्वचित्तेजादिका- ऽतत्तेजो ऽसृजतऽ (छा. 6.2.3) इति ।
क्वचित्प्राणादिका- ऽस प्राणमसृजत प्राणाच्छ्रद्धाम्ऽ (प्र. 6.4) इति क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते- स इमांल्लोकानसृजत ।
अम्भो मरीचीर्मरमापः (ऐ. उ. 4.2.1) इति ।
तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते- ऽअसद्वा इदमग्र आसीत्ततो वै सदाजयतऽ (तै. 2.7) इति ।
असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत् (छा. 3.19.1) इति च ।
क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते- ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इत्युपक्रम्य ऽकुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीत्ऽ (छा. 6.2.1,2) इति ।
क्वचित्स्वयङ्कर्तृकैव व्याक्रिया जगतो निगद्यते- ऽतद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतऽ (बृ. 1.4.7) इति ।
एवमनेकधा विप्रतिपत्तिर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्या ।
स्मृतिन्यायप्रसिद्धायां तु कारणान्तरपरिग्रहो न्याय्य इति ।
एवं प्राप्ते ब्रूमः - सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने न स्रष्टरि किञ्चिद्विगानमस्ति ।
कुतः ।
यथा व्यपदिष्टोक्तेः ।
यथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैको ऽद्वितीयः कारणत्वेन व्यपदिष्टस्तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते ।
तद्यथा- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै.2.1) इति ।
अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयदपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् ।
तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरंपरया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत् ।
ऽबहु स्या प्रजायेयऽ(तै. 2.6) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत ।
तथा ऽइदं सर्वमसृजत यदिदं किञ्चऽ (तै.2.6) इति समस्तजगत्सृष्टिनिर्देशेन प्राख्सृष्टेरद्वितीयं स्रष्टारमाचष्टे ।
तदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातं तल्लक्षणमेवान्यत्रापि विज्ञायते- ऽसदेव सेम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ ऽतदैक्षत बहु स्यां प्रजायेयेति ।
तत्तेजो ऽसृजतऽ (छा. 6.2.1,3) इति ।
तथा ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यकिञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजैऽ (ऐ.उ. 4.1.1,2) इति च ।
एवञ्जातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात् ।
कार्यविषयं तु विगानं दृश्यते क्वचिदाकाशादिका सृष्टिः क्वचित्तेजादिकेत्येवञ्जातीयकम् ।
नच कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् ।
अतिप्रसङ्गात् ।
समाधस्यति चाचार्यः कार्यविषयमपि विगानं ऽन वियदश्रुतेःऽ (ब्र.सू. 2.3.1) इत्यारभ्य भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् ।
नह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपादयिषितः ।
नहि तत्प्रतिबद्धः क्वचित्पुरुषार्थो दृश्यते श्रूयते वा ।
नच कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात् ।
दर्शयति च सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम्- ऽअन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छद्भिः सोम्य शुङ्गेन तेजो मुलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छऽ (छा.6.8.4) इति ।
मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यते ।
तथाच संप्रदायविदो वदन्ति- ऽमृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा ।
उपायः सो ऽवताराय नास्ति भेदः कथञ्चन ॥
ऽ (माण्डू. 3.15) इति ।
ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते- ऽब्रह्मविदाप्नोति परम्ऽ (तै. 2.1) ऽतरति शोकमात्मवित्ऽ (छा. 7.1.3) ऽतमेव विदित्वातिमृत्युमेतिऽऽ (श्वं. 3.8) इति ।
प्रत्यक्षावगमं चेदं फलम् ।
ऽतत्त्वमसिऽ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ 14 ॥
यत्पुनः कारणविषयं विगानं दर्शितम्- ऽअसद्वा इदमग्र आसीत्ऽ इत्यादि तत्परिहर्तव्यम् ।
अत्रोच्यते-
fन्: आदिग्रहणादक्रमो ऽपि गृह्यते ।
अंमयशरीरप्रचुरस्वर्गलोको ऽम्भःशब्दार्थः ।
सूर्यरश्मिव्याप्तो ऽन्तरिक्षलोको मरीचयः ।
मरो मरणधर्मा मर्त्यः ।
अब्बहुलाः पाताललोक आप इति श्रुत्यर्थः ।
प्रक्रिया सृष्टिः ।
तत् तत्र कारणे ।
एके बाह्याः ।
तद्विषयेण ब्रह्मविषयेण ।
मिषत् सव्यापारम् ।
अविरुद्धार्थकत्वात् ।
शुङ्गेन कार्येण ।
अन्यथान्यथेति वीप्सा द्रष्टव्या ।
अवताराय ब्रह्मधीजन्मने ।
अतस्तदन्यथात्वे ऽपि ब्रह्मणि न भेदः ।
ज्ञेये विगानं न ।
समाकर्षात्
ऽअसद्वा इदमग्र आसीत्ऽ (तै. 2.7) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यते ।
यतः ऽअसन्नेव स भवति ।
असद्ब्रह्मेति वेद चेत् ।
अस्ति ब्रह्मेति चेद्वेद ।
सन्तमेनं ततो विदुःऽ इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य ऽसो ऽकामयतऽ इति तमेव प्रकृतं समाकृष्य सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा ऽतत्सत्यमित्याचक्षतेऽ इति चोपसंहृत्य ऽतदप्येष श्लोको भवतिऽ इति तस्मिन्नेव प्रकृतेर्ऽथे श्लोकमिममुदाहरति- ऽअसद्वा इदमग्र आसीत्ऽ इति ।
यदि त्वसन्निरात्मकमस्मिञ्छ्लोके ऽभिप्रेयेत ततो ऽन्यसमाकर्षणे ऽन्यस्योदाहरणादसंबद्धं वाक्यमापद्येत ।
तस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यते ।
एषैव ऽअसदेवेदमग्र आसीत्ऽ (छा. 3.19.1) इत्यत्रापि योजना ।
ऽतत्सदासीत्ऽ इति समाकर्षणात् ।
अत्यन्ताभावाभ्युपगमे हि तत्सदासीदिति किं समाकृष्येत ।
ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ (छा. 6.2.1) इत्यत्रापि न श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः ।
क्रियायामिव वस्तुनि विकल्पस्यासंभवात् ।
तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम् ।
ऽतद्धेदं तर्ह्यव्याकृतमासीत्ऽ (बृ. 1.4.7) इत्यत्रापि न निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ इत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात् ।
निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बना स इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत ।
चेतनस्य चायामात्मनः शरीरे ऽनुप्रवेशः श्रूयते ।
प्रविष्टस्य चेतनत्वश्रवणात् ऽपश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनःऽ इति ।
अपिच यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियत एवमादिसर्गे ऽपीति गम्यते ।
दृष्टविपरीतकल्पनानुपपत्तेः ।
श्रुत्यन्तरमपि ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6. 3.2) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति ।
व्याक्रियत इत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यः ।
यथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरि ।
यद्वा कर्मण्येवैष लकारोर्ऽथाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यः ।
यथा गम्यते ग्राम इति ॥ 15 ॥
fन्: तत् तत्र ब्रह्मणि ।
श्लोको मन्त्रः ।
अध्यक्षः कर्ता ।
चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यते ।
अद्यत्वे इदानीम् ।
5 बालक्याधिकरणम् । सू. 16-18
जगद्वाचित्वात्
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयते- ऽयो वै बालाक एतेषां कर्ता यस्य वै तत्कर्म स वेदितव्यःऽ (कौ. ब्रा. 4.19) इति ।
तत्र किं जीवो वेदितव्यत्वेनोपदिश्यत उत मुख्यः प्राण उत परमात्मेति विशयः ।
किं तावत्प्राप्तम् ।
प्राण इति ।
कुतः ।
ऽयस्य वैतत्कर्मऽ इति श्रवणात् ।
परिस्पन्दलक्षणस्य च कर्मणः प्राणाश्रयत्वात् ।
वाक्यशेषे च ऽअथास्मिन्प्राण एवैकधा भवतिऽ इति प्राणशब्ददर्शनात् ।
प्राणशब्दस्य च मुख्ये प्राणे प्रसिद्धत्वात् ।
ये चैते पुरस्ताद्धालाकिना ऽआदित्ये पुरुषश्चन्द्रमसि पुरुषःऽ इत्येवमादयः पुरुषा निर्दिष्टास्तेषामपि भवति प्राणः कर्ता प्राणावस्थाविशेषत्वादित्यादिदेवतात्मनाम् ।
ऽकतम एको देव इति प्राण इति स ब्रह्म त्यदित्याचक्षते (बृ. 3.9.9) इति श्रुत्यन्तरप्रसिद्धेः ।
जीवो वायमिह वेदितव्यतयोपदिश्यते ।
तस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् ऽयस्य वैतत्कर्मऽ इति ।
सो ऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यते ।
वाक्यशेषे च जीवलिङ्गमवगम्यते ।
यत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्यामन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थानात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयति ।
तथा परस्तादपि जीवलिङ्गमवगम्यते- ऽतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिन भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्तिऽ (कौ. ब्रा. 4.20) इति ।
प्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम् ।
तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयो न परमेश्वरः, तल्लिङ्गानवगमादिति ।
एवं प्राप्ते ब्रूमः - परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात् ।
कस्मात् ।
उपक्रमसामर्थ्यात् ।
इह हि बालाकिरजातशत्रुणा सह ऽब्रह्म ते ब्रवाणिऽ इति संवदितुमुपचक्रमे ।
स च कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूव ।
तमजातशत्रुः ऽमृषा वै खलु मा संवदिष्टा ब्रह्म ते ब्रवाणिऽ इत्यमुख्य ब्रह्मवादितयापोद्य तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेप ।
यदि सो ऽप्यमुख्यब्रह्मदृष्टिभाक् स्यादुपक्रमो बाध्येत ।
तस्मात्परमेश्वर एवायं भवितुमर्हति ।
कर्तृत्वं चैतेषां पुरुषाणां न परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते ।
ऽयस्य वैतत्कर्मऽ इत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः ।
तयोरन्यतरस्याप्यप्रकृतत्वात् ।
असंशब्दितत्वाच्च ।
नापि पुरुषाणामयं निर्देशः ।
एतेषां पुरुषाणां कर्तेत्येव तेषां निर्दिष्टत्वात् ।
लिङ्गवचनविगानाच्च नापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरपपात्तत्वात् ।
पारिशेष्यात्प्रत्यक्षसंनिहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यते ।
क्रियत इति च तदैव जगत्कर्म ।
ननु जगदप्यप्रकृतमसंशब्दितं च ।
सत्यमेतत् ।
तथाप्यसति विशेषोपादाने साधारणेनार्थेन संनिधानेन संनिहितवस्तुमात्रस्यायं निर्देश इति गम्यते न विशिष्टस्य कस्यचित् ।
विशेषसंनिधानाभावात् ।
पूर्वत्र च जगदेकदेशभूतानां पुरुषाणां विशेषोपादानदविशेषितं जगदेवेहोपादीयत इति गम्यते ।
एतदुक्तं भवति- य एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ता, किमनेन विशेषेण, यस्य कृत्स्नमेव जगदविशेषितं कर्मेति ।
वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थः ।
ये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तितास्तेषामब्रह्मत्वख्यापनाय विशेषोपादानम् ।
एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यते ।
परमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ 16 ॥
fन्.:एतज्जगद्यस्य कर्म ।
क्रियत इति व्युत्पत्त्या कार्यमित्यर्थः ।
स प्राणः ।
त्यत् परोक्षम् ।
यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना ।
ब्राह्मण भोजयितव्याः परिव्राजकश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणवत् ।
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम्
अत यदुक्तं वाक्यशेषगताज्जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च तयोरेवान्यतरस्येह ग्रहणं न्याय्यं न परमेश्वरस्येति ।
तत्परिहर्तव्यम् ।
यत्रोच्यते- परिहृतं चैतत् ऽनोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्ऽ (ब्र. सू. 1.1.31) इत्यत्र ।
त्रिविधं ह्यत्रोपासनमेवं सति प्रसज्ज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ।
न चैतन्न्याय्यम् ।
उपक्रमोपसंहाराभ्यां हि ब्रह्विषयत्वमस्य वाक्यस्यावगम्यते ।
तत्रोपक्रमस्य तावद्ब्रह्मविषयत्वं दर्शितम् ।
उपसंहारस्यापि निरतिशयफलश्रवणाद्ब्रह्मविषयत्वं दृश्यते- ऽसर्वान्पाप्मनो ऽपहृत्य सर्वेषां च भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं वेदऽ इति ।
नन्वेवं सति प्रतर्दनवाक्यनिर्णयेनैवेदमपि वाक्यं निर्णीयेत ।
न निर्णीयते ।
ऽयस्य चैतत्कर्मऽ इत्यस्य ब्रह्मविषयत्वेन तत्रानिर्धारितत्वात् ।
तस्मादत्र जीवमुख्यप्राणशङ्का पुनरुत्पद्यमाना निर्वर्त्यते ।
प्राणशब्दो ऽपि ब्रह्मविषयो दृष्टः ऽप्राणबन्धनं हि सोम्य मनःऽ (छा. 6.8.2) इत्यत्र ।
जीलिङ्गमप्युपक्रमोपसंहारयोर्ब्रह्मविषयत्वादभेदाभिप्रायेण योजयितव्यम् ॥ 17 ॥
fन्.:श्रैष्ठ्यं गुणाधिक्यम्, आधिपत्यं नियनितृत्वम्, स्वाराज्यमनियम्यत्वमिति भेदः ।
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके
अपिच नैवात्र विवदितव्यं जीवप्रधानं वेदं वाक्यं स्याद्ब्रह्मप्रधानं वेति ।
यतो ऽन्यार्थं जीवपरामर्शं ब्रह्मप्रतिपत्त्यर्थमस्मिन्वाक्ये जैमिनिराचार्यो मन्यन्ते ।
कस्मात् ।
प्रश्नव्याख्यानाभ्याम् ।
प्रश्नस्तावत्सुषुप्तपुरुषप्रतिबोधनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवव्यतिरिक्तविषयो दृश्यते- ऽक्वैष एतद्बालाके पुरुषो ऽशयिष्ट क्व वा एतदभूत्कुत एतदागात्ऽ (कौ.ब्रा. 4.19) इति ।
प्रतिवचनमपि ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ इत्यादि ऽएतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःऽ (कौ.ब्रा. 4.20) इति च ।
सुषुप्तिकाले च परेण ब्रह्मणा जीव एकतां गच्छति ।
परस्माच्च ब्रह्मणः प्राणादिकं जगज्जायत इति वेदान्तमर्यादा ।
तस्माद्यत्रास्य जीवस्य निःसंबोधतास्वच्छतारूपः स्वाप उपाधिजनितविशेषविज्ञानरहितं स्वरूपं, यतस्तद्धंशरूपमागमनं, सो ऽत्र परमात्मा वेदितव्यतया श्रावित इति गम्यते ।
अपिचैवमेके शाखिनो वाजसनेयिनो ऽस्मिन्नेव बालाक्यजातशत्रुसंवादे स्पष्टं विज्ञानमयशब्देन जीवमाम्नाय तद्व्यतिरिक्तं परमात्मानमामनन्ति- ऽय एष विज्ञानमयपुरुषः क्वैष तदाभूत्कुत एतदागात्ऽ (बृ. 2.1.16) इति प्रश्ने ।
प्रतिवचने ऽपि ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्शेतेऽ इति ।
आकाशशब्दश्च परमात्मनि प्रयुक्तः ऽदहरो ऽस्मिन्नन्तराकाशःऽ (छा. 8.1.1) इत्यत्र ।
ऽसर्व एत आत्मनो व्युच्चरन्तिऽ इति चोपाधिमतामात्मनामन्यतो व्युच्चरणमामनन्तः परमात्मानमेव कारणत्वेनामनन्तीति गम्यते ।
प्राणनराकरणस्यापि सुषुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेशो ऽभ्युच्चयः ॥ 18 ॥
fन्: निःसंबोधता विशेषधीशून्यता ।
स्वच्छता विक्षेपमलशून्यत्वम् ।
6 वाक्यान्वयाधिकरणम् । सू. 19-22
वाक्यान्वयात्
बृहदारण्यके मैत्रेयीब्राह्मणे ऽधीयते- ऽन वा अरे पत्युः कामायऽ इत्युपक्रम्य ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्ऽ ।
(बृ. 4.5.6) इति, तत्रैतद्विचिकित्स्यते- किं विज्ञानात्मैवायं द्रष्टव्यश्रोतव्यत्वादिरूपेणोपदिश्यत आहोस्वित्परमात्मेति ।
कुतः पुनरेषा विचिकित्सा ।
प्रियसंसूचितेनात्मना भोकत्रोपक्रमाद्विज्ञानत्मोपदेश इति ।
किं तावत्प्राप्तम् ।
विज्ञानात्मोपदेश इति ।
कस्मात् ।
उपक्रमसामर्थ्यात् ।
पतिजायापुत्रवित्तादिकं हि भोग्यभूतं सर्वं जगदात्मार्थतया प्रियं भवतीति प्रियसंसूचितं भोक्तारमात्मानमुक्रम्यानन्तरमिदमात्मनो दर्शनाद्युपदिश्यमानं कस्यान्यस्यात्मनः स्यात् ।
मध्ये ऽपि ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ इति प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन ब्रुवन्विज्ञानात्मनं एवेदं द्रष्टव्यत्वं दर्शयति ।
तथा ऽविज्ञातारमरे केन विजानीयात्ऽ इति कर्तृवचनेन शब्देनोपसंहरन्विज्ञानात्मानमेवेहोपदिष्टं दर्शयति ।
तस्मादात्मविज्ञानेन सर्वविज्ञानं भोक्त्रर्थत्वाद्भोग्यजातस्यौपचारिकं द्रष्टव्यमिति ।
एवं प्राप्ते ब्रूमः परमात्मोपदेश एवायम् ।
कस्मात् ।
वाक्यान्वयात् ।
वाक्यं हीदं पौर्वापर्येणावेक्ष्यमाणं परमात्मानंप्रति अन्वितावयवं लक्ष्यते ।
कथमिति, तदुपपाद्यते- ऽअमृतत्वस्य तु नाशास्ति वित्तेनऽ इति याज्ञवल्क्यादुपश्रुत्य ऽयेनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान्वेद तदेव मे ब्रूहिऽ इत्यमृतत्वमाशासानाय मैत्रेय्या याज्ञवल्क्य आत्मविज्ञानमिदमुपदिशति ।
नचान्यत्र परमात्मविज्ञानादमृत्वमस्तीति श्रुतिस्मृतिवादा वदन्ति ।
तथा चात्मविज्ञानेन सर्वविज्ञानमुच्यमानं नान्यत्र परमकारणविज्ञानान्मुख्यमवकल्पते ।
नचैतदौपचारिकमाश्रयितुं शक्यं, यत्कारणमात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायानन्तरेण ग्रन्थेन तदेवोपपादयति- ऽब्रह्म तं परादाद्यो ऽन्यत्रात्मनो ब्रह्म वेदऽ इत्यादिना ।
यो हि ब्रह्मक्षत्रादिकं जगदात्मनोन्यत्र स्वातन्त्र्येण लब्धसद्भावं पश्यति तं मिथ्यादर्शिनं तदेव मिथ्यादृष्टं ब्रह्मक्षत्रादिकं जगत्पराकरोतीति भेददृष्टिमपोद्य ऽइदं सर्वं यदयमात्माऽ इति सर्वस्य वस्तुजातस्यात्माव्यतिरेकमवतारयति ।
दुन्दुभ्यादिदृष्टान्तैश्च (बृ. 4.5.8) तमेवाव्यतिरेकं द्रढयति ।
ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ ( बृ. 4.5.11) इत्यादिना च प्रकृतस्यात्मनो नामरूपकर्मप्रपञ्चकारणतां व्याचक्षाणः परमात्मानमेनं गमयति ।
तथैवैकायनप्रक्रियायामपि (बृ. 4.5.12) सविषयस्य सेन्द्रियस्य सान्तःकरणस्य प्रपञ्चस्यैकायनमनन्तरमबाह्यं कृत्स्नं प्रज्ञानघनं व्याचक्षाणः परमात्मानमेनं गमयति ।
तस्मात्परमात्मन एवायं दर्शनाद्युपदेश इति गम्यते ॥ 19 ॥
यत्पुनरुक्तं प्रियसंसूचितोपक्रमाद्विज्ञानात्मन एवायं दर्शनाद्युपदेश इति, अत्र ब्रूमः -
fन्: इदं प्रत्यक् ।
महदपरिच्छिन्नम् ।
भूतं सत्यम् ।
अनन्तं नित्यम् ।
अपारं सर्वगतं चेदेकरसम् ।
विज्ञातारं विज्ञानकर्तारम् ।
न वित्तेन तत्साध्येन कर्मणेत्यर्थः ।
ऽनान्यः पन्थाऽ, ऽन कर्मणाऽ इत्यादयः श्रुतिवादाः ।
ऽज्ञानादेव तु कैवल्यंऽ इत्यादयः स्मृतिवादाः ।
पराकरोति श्रेयोमार्गान्द्भ्रंशयति ।
ऋग्वेदादिकं नाम, इष्टं हुतमिति कर्म, अयं च लोक इति रूपम् ।
प्रक्रिया प्रकरणम् ।
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः
अस्त्यत्र प्रतिज्ञा ऽआत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतिऽ ऽइदं सर्वं यदयमात्माऽ इति च ।
तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गं यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसंकीर्तनम् ।
यदि हि विज्ञानात्मा परमात्मनो ऽन्यः स्यात्ततः परमात्मविज्ञाने ऽपि विज्ञानात्मा न विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातं तद्धीयेत ।
तस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते ॥ 20 ॥
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः
विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसंघातोपाधिसंपर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानासंप्रसन्नस्य देहादिसंघातादुत्क्रमिष्यतः परमात्मैक्योपपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यते ।
श्रुतिश्चैवं भवति- ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ (छा. 8.12.3) इति ।
क्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयति- ऽयथा नद्यः स्यन्दमानाः समुद्रे ऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. 3.2.8) इति ।
यथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्त्येवं जीवो ऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयते दृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै ॥ 21 ॥
fन्: समुत्थानमुत्क्रान्तिः ।
अवस्थितेर् इति काशकृत्स्नः
अस्यैव परमात्मनो ऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदेनोपक्रमणमिति काशकृत्स्न आचार्यो मन्यते ।
तथाच ब्राह्मणम्- ऽअनेन जीवेनात्मनामुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6.3.2) इत्येवञ्जातीयकं परस्यैवात्मनो जीवभावेनावस्थानं दर्शयति ।
मन्त्रवर्णश्च- ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते (तै.आ. 3.12.7) इत्येवञ्जातीयकाः ।
नच तेजः प्रभृतीनां सृष्टौ जीवस्य पृथक्सृष्टिः, श्रुता, येन परस्मादात्मनो ऽन्यस्तद्विकारो जीवः स्यात् ।
काशकृत्स्नस्याचार्यस्याविकृतः परमेश्वरो जीवो नान्य इति मतम् ।
आश्मरथ्यस्य तु यद्यपि जीवस्य परस्मादनन्यत्वमभिप्रेतं, तथापि प्रतिज्ञासिद्धेरिति सापेक्षत्वाभिधानात्कार्यकारणभावः कियानप्यभिप्रेत इति गम्यते ।
औडुलोमिपक्षे पुनः स्पष्टमेवावस्थान्तरापेक्षौ भेदाभेदौ गम्येते तत्र काशकृत्स्नीयं मतं श्रुत्यनुसारीति गम्यते, प्रतिपादयिषितार्थानुसारात् ऽतत्त्वमसिऽ इत्यादिश्रुतिभ्यः ।
एवञ्च सति तज्ज्ञानादमृतत्वमवकल्पते ।
विकारात्मकत्वे हि जीवस्याभ्युपगम्यमाने विकारस्य प्रकृतिसंबन्धे प्रलयप्रसङ्गान्न तज्ज्ञानादमृतमवकल्पेत ।
अतश्च स्वाश्रयस्य नामरूपस्यासंभवादुपाध्याश्रयं नामरूपं जीव उपचर्यते ।
अत एवोत्पत्तिरपि जीवस्य क्वचिदग्निविस्फुलिङ्गोदाहरणेन श्राव्यमाणोपाध्याश्रयैव वेदितव्या ।
यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापियमेव त्रिसूत्री योजयितव्या ।
ऽप्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यःऽ ।
इदमत्र प्रतिज्ञातम्- ऽआत्मनि विदिते सर्वं विदितं भवतिऽ ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6) इति च ।
उपपादितं च, सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात् ।
तस्या एव प्रतिज्ञायाः सिद्धिं सूचत्येतल्लिङ्गं यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितमित्याश्मरथ्य आचार्यो मन्यते ।
अभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पयत इति ।
ऽउत्क्रमिष्यत एवंभावादित्यौडुलोमिःऽ ।
उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्संप्रसन्नस्य परेणात्मनैक्यसंभवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते ।
ऽअवस्थितेरिति काशकृत्स्नःऽ ।
अस्यैव परमात्मनो ऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यते ।
ननूच्छेदाभिधानमेतत् ऽएतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तिऽ (बृ. 2.4.12) इति, कथमेदभेदाभिधानम् ।
नैष दोषः ।
विशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानं नात्मोच्छेदाभिप्रायम् ।
ऽअत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तिऽ इति पर्यनुयुज्य स्वयमेव श्रुत्यार्थान्तरस्य दर्शितत्वात्- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ इति ।
एतदुक्तं भवति- कूटस्थनित्य एवायं विज्ञानघन आत्मा नास्योच्छेदप्रसङ्गो ऽस्ति ।
मात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवति ।
संसर्गाभावे च प्रकृतस्य विशेषविज्ञानस्याभावान्न प्रेत्य संज्ञास्तीत्युक्तमिति ।
यदप्युक्तम्- ऽविज्ञातारमरे केन विजानीयात्ऽ इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहपणीयम् ।
अपिच ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ. 2.4.13) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषज्ञानं प्रपञ्च्य ऽयत्र त्वस्य सर्वामात्मैवाभूत्तत्केन कं पश्येत्ऽ इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधाति ।
पुनश्च विषयाभावे ऽपि आत्मानं विजानीयात् इत्याशङ्क्य ऽविज्ञातारमरे केन विजानीयात्ऽ इत्याह ।
ततश्च विशेषविज्ञानाभावोपपादानपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः संन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यते ।
दर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम् ।
अतश्च विज्ञानात्परमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिम् इत्तो भेदो न पारमार्थिक इत्येषोर्ऽथः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यः ।
ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) ऽआत्मैवेदं सर्वम्ऽ (छा. 7.25.2),ऽ ब्रह्मैवेदं सर्वम्ऽ (मुण्ड. 2.2.11), ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ
(बृ. 3.7.23), ऽनान्यदतो ऽस्ति द्रष्टृऽ (बृ. 3.8.11) इत्येवंरूपाभ्यः श्रुतिभ्यः ।
स्मृतिभ्यश्च ऽवासुदेवः सर्वमितिऽ (गी. 7.19), ऽक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतऽ (गी. 13.2), ऽसमं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्ऽ (गी. 13.27) इत्येवंरूपाभ्यः ।
भेददर्शनापवादाच्च ऽअन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुःऽ (बृ. 1.4.10), ऽमृत्योः स मृत्युमाप्नोति च इह नानेव पश्यतिऽ (बृ. 4.4.19) इत्येवञ्जातीयकात् ।
ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.425) इति चात्मनि सर्वविक्रियाप्रतिषेधात् ।
अन्यथा च मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्च ।
निरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यते, ऽवेदान्तविज्ञानसुनुश्चितार्थाःऽ (मुण्ड. 3.2.6) इति च श्रुतेः ।
ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा. 7) इति च ।
श्थितप्रज्ञलक्षणस्मृतेश्च (गी. 2.54) ।
स्थिते च क्षेत्रज्ञपरमात्मैकत्वविषय सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभैदात्, क्षेत्रज्ञो ऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवञ्जातीयक आत्मभैदविषयो निर्बन्धो निरर्थकः ।
एको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति ।
नहि ऽसत्यं ज्ञानमन्तं ब्रह्म ।
यो वेद निहितं गुहायाम्ऽ (तै. 2.1) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम् ।
नच ब्रह्मणो ऽन्यो गुहायां निहितो ऽस्ति, ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. 2.6) इति स्रष्टुरेव प्रवेशश्रवणात् ।
ये तु निर्बन्धं कुर्वन्ति ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्ते ।
कृतकमनित्यं च मोक्षं कल्पयन्ति ।
न्यायेन च न संगच्छन्त इति ॥ 22 ॥
fन्: धीरो सर्वज्ञः ।
रूपाणि चराचराणि शरीराणि ।
विचित्य निर्माय तेषां नामानि कृत्वा तत्रानुप्रविश्याभिवदन्नभिवदनादि कुर्वन् ।
मोहं मोहकरं वाक्यम् ।
उच्छित्तिर्नाशस्तद्वान्न भवितीत्यनुच्छित्तिधर्मा ।
काञ्चित् जीवस्थानादन्याम् ।
ये तु आश्मरथ्यप्रभृतयः ।
प्रकृत्यधिकरणम् । सू. 23-27
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्
यथाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्य एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम् ।
ब्रह्म च ऽजन्माद्यस्य यतःऽ (ब्र. 1.1.2) इति लक्षितम् ।
तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे च समानमित्यतो भवति विमर्शः, किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति ।
तत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभाति ।
कस्मात् ।
ईक्षापूर्वककर्तृत्वश्रवणात् ।
ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते- ऽस ईक्षाञ्चक्रेऽ (प्र. 6.3) ऽस प्राणमसृजतऽ (प्र. 6.4) इत्यदिश्रुतिभ्यः ।
ईक्षापूर्वकं च कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम् ।
अनेककारकपूर्विका च क्रियाफलसिद्धिर्लोके दृष्टा ।
स च न्याय आदिकर्तर्यपि युक्तः संक्रमयितुम् ।
ईश्वरत्वप्रसिद्धेश्च ।
ईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयते तद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम् ।
कार्यं चेदं जगत्सावयवमचेतनमशुद्धं च दृश्यते, कारणेनापि तस्य तादृशेनैव भवितव्यं, कार्यकारणयोः सारूप्यदर्शनात् ।
ब्रह्म च नैवंलक्षणमवगम्यते ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे. 6.19) इत्यादिश्रुतिभ्यः ।
पारिशेष्याद्ब्रह्मणो ऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् ।
ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादिति ।
एवं प्राप्ते ब्रूमः प्रकृतिश्चोपादानकारणं च ब्रह्माभ्युपगन्तव्यं निमित्तकारणं च ।
न केवलं निमित्तकारणमेव ।
कस्मात् ।
प्रतिज्ञादृष्टान्तानुपरोधात् ।
एवं प्रतिज्ञादृष्टान्तौ श्रौतौ नोपरुध्येते ।
प्रतिज्ञा तावत्- ऽउत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. 6.1.2) इति ।
तत्र चैकेन विज्ञातेन सर्वमन्दविज्ञातमपि विज्ञातं भवतीति प्रतीयते ।
तच्चोपादानकारणविज्ञाने सर्वविज्ञानं संभवत्युपादानकारणव्यतिरेकात्कार्यस्य ।
निमित्तकारणाव्यतिरेकास्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।
दृष्टान्तो ऽपि यथा ऽसोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ इत्युपादानकारणगोचर एवमाम्नायते ।
तथा ऽएकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात्ऽ ऽएकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात्ऽ (छा. 6.1.4,5,6) इति च ।
तथान्यत्रापि ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति (मुण्ड. 1.1.2) इति प्रतिज्ञा ।
ऽयथा पृथिव्यामोषधयः संभवन्तिऽ ( मुण्ड. 1.1.7) इति दृष्टान्तः ।
तथा ऽआत्मनि कल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ इति प्रतिज्ञा ।
ऽस यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतःऽ (बृ. 4.5.6,7) इति दृष्टान्तः ।
एवं यथासंभवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौ ।
यत इतीयं पञ्चमी ऽयतो वा इमानि भूतानि जायन्तेऽ इत्यत्र ऽजनिकर्तुः प्रकृतिःऽ (पा.सू. 1.4.30) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्या ।
निमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम् ।
यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातृनपेक्ष्य प्रवर्तते नैवं ब्रह्मण उपादानकारणस्य सतो ऽन्यो ऽधिष्ठातापेक्ष्यो ऽस्ति, प्रागुत्पत्तेरेकमेवाद्वितीयमित्यवधारणात् ।
अधिष्ठात्रन्तराभावो ऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यः ।
अधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासंभवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात् ।
तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ 23 ॥
कुतश्चात्मनः कर्तृत्वप्रकृतित्वे-
fन्: विमर्शः संशयः ।
निष्कलं निरवयवम्, निष्क्रियमचलम्, शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् ।
लोहं सुवर्णम् ।
नखनिकृन्तनं कार्ष्णायसकृतनखलवनशस्त्रं लोहपिण्डो वा ।
दुन्दुभ्याघातस्य जनकस्य जन्यतया संबन्धी वा शब्दो विशेषशब्द इत्यर्थः ।
अभिध्योपदेशाच् च
अभिध्योपदेशश्चात्मनः कर्तृत्वप्रकृतित्वे गमयति ऽसो ऽकामयत बहु स्यां प्रजायेयेतिऽ ऽतदैक्षत बहु स्यां प्रजायेयऽ इति च ।
तत्राभिध्यानपूर्विकायाः स्वातन्त्र्यप्रवृत्तेः कर्तेति गम्यते ।
बहु स्यामिति प्रत्यगात्मविषयत्वाद्बहुभवनाभिध्यानस्यप्रकृतिरित्यपि गम्यते ॥ 24 ॥
fन्: अभिध्या सृष्टिसंकल्पः ।
साक्षाच् चोभयाम्नानात्
प्रकृतित्वस्यायमभ्युच्चयः ।
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादायोभौ प्रभवप्रलयावाम्नायते- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्तिऽ (छा. 1.9.1) इति ।
यद्धि यस्मात्प्रभवति यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् ।
यथा व्रीहियवादीनां पृथिवी ।
साक्षादिते साक्षादिति चोपादानान्तरानुपादानं दर्शयत्याकाशादेवेति ।
प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ॥ 25 ॥
fन्: अभ्युच्चयो हेत्वन्तरम् ।
आत्मकृतेः परिणामात्
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ऽतदात्मानं स्वयमकुरुतऽ (तै. 2.7) इत्यात्मनः कर्मत्वं कर्तृत्वं त दर्शयति ।
आत्मानमिति कर्मत्वं, स्वयमकुरुतेति कर्तृत्वम् ।
कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं संपादयितुम् ।
परिणामादिति ब्रूमः ।
पूर्वसिद्धो ऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति ।
विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः ।
स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते ।
परिणामादिति वा पृथक्सूत्रम् ।
तस्यैषोर्ऽथः - इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ऽसच्च त्यच्चाभवत् ।
निरुक्तं चानिरुक्तं चऽ (तै. 2.6) इत्यादिनेति ॥ 26 ॥
fन्: सत् प्रत्यक्षं भूतत्रयम्, त्यत् परोक्षं भूतद्वयम्, निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकम् ।
योनिश् च हि गीयते
इतश्च प्रकृतिर्ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषु ऽकर्तारमीशं पुरुषं ब्रह्मयोनिम्ऽ (मुण्ड. 3.1.3) इति, ऽयद्भूतयोनि परिपश्यन्ति धीराःऽ (मुण्ड. 1.16) इति च ।
योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके ऽपृथिवी योनिरोषधिवनस्पतीनाम्ऽ इति ।
स्त्रीयोनेरप्यस्त्येवायवद्वारेण गर्भं प्रत्युपादानकारणत्वम् ।
कचित्स्थानवचनो ऽपि योनिशब्दो दृष्टः - ऽयोनिष्ट इन्द्र निषदे अकारिऽ (ऋ.सं. 1.104.1) इति ।
वाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यते ऽयथोर्णनाभिः सृजते गृह्यते चऽ (मुण्ड. 1.1.7) इत्येवञ्जातीयकात् ।
एवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम् ।
यत्पुनरिदमुक्तमीक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टं नोपादानेष्वित्यादि, तत्प्रत्युच्यते- न लोकवदिह भवितव्यम् ।
नह्ययमनुमानगम्योर्ऽथः ।
शब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम् ।
शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिदयतात्यवोचाम ।
पुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ 27 ॥
fन्: कर्तारं क्रियाशक्तिमन्तम्, ईशं नियन्तारम्, पुरुषं प्रत्यञ्चम्, ब्रह्म पूर्णम्, योनिं प्रकृतिम् ।
हे इन्द्र, ते तव निषदे उपवेशनाय योनिः स्थानं मया अकारि कृतम् ।
8 सर्वव्याख्यानाधिकरणम् । सू. 28
एतेन सर्वे व्याख्याता व्याख्याताः
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0