ब्रह्मसूत्र (टीका सहित) · अध्याय 2.1
ऽईक्षतेर्नाशब्दम्ऽ (ब्र.सू. 1.1.5) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतः,
तस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रतिभान्तीति ।
स च कार्यकारणनन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य ।
देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितः, तेन तत्प्रतिषेधे यत्नो ऽतीव कृतो नाण्वादिकारणवादप्रतिषेधे ।
ते ऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याः ।
तेषामप्युपोद्वलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादिति ।
अतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति- एतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वे ऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याः ।
तेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेति ।
व्याख्याता व्याख्याता इति पदाभ्यासो ऽध्यायपरिसमाप्तिं द्योतयति ॥ 28 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य चतुर्थः पादः समाप्तः ॥ 4 ॥
इति श्रीमद्ब्रह्मसूत्रशाङ् करभाष्ये समन्वयाख्यः प्रथमो ऽध्यायः ॥ 1 ॥
द्वितीयो ऽध्यायः ।
[द्वितीये अविरोधाख्याध्याये प्रथमपादे सांख्ययोगकारणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहारः]
1 स्मृत्यधिकरणम् । सू. 1-2
प्रथमे ऽध्याये सर्वज्ञः सर्वेश्वरः जगत उत्पत्तिकारणं, मृत्सुवर्णादय इव घटरुचकादीनाम् ।
उत्पन्नस्य जगतो नियन्तृत्वेन स्तिथिकारणं, मायावीव मायायाः ।
प्रसारितस्य च जगतः पुनः स्वात्मन्येवोपसंहारकारणं, अवनिरिव चतुर्विधस्य भूतग्रामस्य ।
स एव च सर्वेषां न आत्मेत्येतद्वेदान्तवाक्यसमन्वयप्रतिपादनेन प्रतिपादितम् ।
प्रधानादिकारणवादाश्चाशब्दत्वेन निराकृताः ।
इदानीं स्वपक्षे स्मृतिन्यायविरोधपरिहारः, प्रधानादिवादानां च न्यायाभासोपबृंहितत्वं, प्रतिवेदान्तं च सृष्ट्यादिप्रक्रियाया अविगीतत्वमिस्यर्थजातस्य प्रतिपादनाय द्वितीयो ऽध्याय आरभ्यते ।
तत्र प्रथमं तावत्स्मृतिविरोधमुपन्यस्य परिहरति-
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्
यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम् ।
कुतः स्मृत्यनवकाशदोषप्रसङ्गात् ।
स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसीरिण्यः स्मृतयः, एवं सत्यनवाकाशाः प्रसज्येरन् ।
तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते ।
मन्वादिसमृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यःसावकाशा भवन्ति ।
अस्य वर्णस्यास्मिन्काले ऽनेन विधानंनोपनयनं, ईदृशश्चाचारः, इत्थं वेदाध्ययनं, इत्थं सहधर्मचारिणीसंयोग इति ।
तथा पुरुषार्थाश्च वर्णाश्रमधर्मान्नानाविधान्विदधति ।
नैवं कपिलादिस्मृतीनामनुष्ठेये विषये ऽवकाशो ऽस्ति ।
मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः ।
यदि तत्राप्यनवकाशाः स्युरानर्थक्यमेवासां प्रसज्येत ।
तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः ।
कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते ।
भवदेयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् ।
परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् ।
तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् ।
अस्मत्कृते च व्याख्याने न विश्वस्युर्बहुमानात्स्मृतीनां प्रणेतृषु ।
कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते ।
श्रुतिश्च भवति- ऽऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्ऽ (श्वे. 5.2) इति ।
तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् ।
तर्कावष्टम्भेन चैतेर्ऽथं प्रतिष्ठापयन्ति ।
तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः ।
तस्य समाधिः नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति ।
यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयो ऽनवकाशाः प्रसज्येरन् ।
ता उदाहरिष्यामः - ऽयत्तत्सूक्ष्ममविज्ञेयम्ऽ इति परं ब्रह्म प्रकृत्य ऽस ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेऽ इति चोक्त्वा ऽतस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमऽ इत्याह ।
तथान्यत्रापि ऽअव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयतेऽ इत्याह ।
ऽअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः ।
स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयःऽ इति पुराणे ।
भगवद्गीतासु च- ऽअहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथाऽ (भ.गी. 7.6) इति ।
परमात्मानमेव च प्रकृत्यापस्तमबः पठति- ऽतस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः (ध.सू. 1.8.23.2) इति ।
एवमनेकशः स्मृतिश्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते ।
समृतिबलेन प्रत्यवतिष्टमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतो ऽयमन्यस्मृत्यनवकाशदोषोपन्यासः ।
दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् ।
विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्ये ऽन्यतरपरिग्रहे ऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणमनपेक्ष्या इतराः ।
तदुक्तं प्रमाणलक्षणे- ऽविरोधे त्वनपेक्षं स्यादस्ति ह्यनुमानम्ऽ (जै.सू. 1.3.3) इति ।
नचातीन्द्रियानर्थञ्श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुं निमित्ताभावात् ।
शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् ।
न ।
सिद्धेरपि सापेक्षत्वात् ।
धर्मानुष्ठानापेक्षा हि सिद्धिः ।
स च धर्मश्चोदनालक्षणः ।
ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते ।
सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रद्रशितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति ।
परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः ।
कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवौश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् ।
तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन स्मृत्यनुसाराविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया ।
या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यं, कापिलमिति श्रुतिसामान्यमात्रत्वात् ।
अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् ।
अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् ।
भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः - ऽयद्वै किञ्च मनुरवदत्तद्भेषजम्ऽ (तै.सं 2.2.10.2) इति ।
मनुना च ऽसर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥
ऽ (12.11) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते ।
कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् ।
महाभारते ऽपि च ऽबहवः पुरुषा ब्रह्मन्नुताहो एक एव तुऽ इति विचार्य ऽबहवः पुरुषा राजन्सांख्ययोगविचारिणाम्ऽ इति परपक्षमुपन्यस्य तद्व्युदासेन- ऽबहूनां पुरुषाणां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥
ऽ इत्युपक्रम्य ऽममान्तरात्मा तव च ये चान्ये देहसंस्थिताः ।
सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित्क्वचित् ॥
विश्वमूर्धा विश्वभुजो विस्वपादाक्षिनासिकः ।
एकश्चरति भूतेषु स्वैरचारी यथासुखम् ॥
ऽ इति सर्वात्मतैव निर्धारिता ।
श्रुतिश्च सर्वात्मतायां भवति- ऽयस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोकः एकत्वमनुपश्यतःऽ (ई. 7) इत्येवंविधा ।
अतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति ।
वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये ।
पुरुषवचसां तु मूलान्तरापेक्षं वक्तुस्मृतिव्यवहितं चेति विप्रकर्षः ।
तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः ॥1॥
fन्: ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता ।
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धताऽ इति संग्रहश्लोकः ।
परमर्षिः कपिलः ।
अन्या आसुरिपञ्चशिखादिप्रणीताः ।
उपचरितं श्रुत्यर्थं प्रतिपद्येरन्नित्यर्थः ।
सूक्ष्मत्वमतीन्द्रियत्वम् ।
अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् ।
काया ब्रह्मादयः ।
शाश्वतिकः कूटस्थः ।
श्रुतिविरोधे स्मृतिप्रामाण्यं अनपेक्षं हेयम् ।
हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति ।
प्रतप्तुर्दाहकस्य ।
विश्वे मूर्धनो ऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् ।
एवं विश्वभुजादौ योज्यम् ।
कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः -
इतरेषां चानुपलब्धेः
प्रधानादितराणि यानि प्रधानपरिणामत्वं न समृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते ।
भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् ।
अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते ।
यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातम् ऽआनुमानिकमप्येकेषाम्ऽ (ब्र. 1.4.1) इत्यत्र ।
कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः ।
तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः ।
तर्कावष्टम्भं तु ऽन विलक्षणत्वात्ऽ (ब्र. 2.1.4) इत्यारभ्योन्मथिष्यति ॥ 2 ॥
2 योगप्रत्युक्त्यधिकरणम् । सू. 3
एतेन योगः प्रत्युक्तः
एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति ।
तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते ।
नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतं किमर्थं पुनरतिदिश्यते ।
अस्ति ह्यत्राभ्यधिकाशङ्का ।
सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. 2.4.5) इति ।
ऽत्र्युन्नतं स्थाप्य समं शरीरम्ऽ (श्वे. 2.8) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते ।
लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते ऽतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्ऽ (का. 2.6.18) इति ऽविद्यामेतां योगविधिं च कृत्स्नम् (का. 2.6.18) इति चैवमादीनि ।
योगशास्त्रे ऽपि ऽअथ तत्त्वदर्शनोपायो योगःऽ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोङ्गीक्रियते ।
अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति ।
इयमप्यधिका शङ्कातिदेशेन निवर्त्यते ।
अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् ।
सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः ।
सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन न श्रौतेनोपबृंहितौ ।
ऽतत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैःऽ (श्वं. 6.13) इति ।
निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति ।
श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वं. 3.8) इति ।
द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः ।
यत्तु दर्शनमुक्तं ऽतत्कारणं सांख्ययोगाभिपन्नम्ऽ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् ।
येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् ।
तद्यथा- ऽअसङ्गो ह्ययं पुरुषःऽ (बृ. 4.3.16) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते ।
तथाच योगैरपि ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहःऽ (जाबा. 5) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते ।
एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि ।
तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम ।
तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति ऽनावेदविन्मनुते तं बृहन्तम्ऽ (तै. ब्रा. 3.12.9.7) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृ. 3.9.23) इत्येवमादिश्रुतिभ्यः ॥ 3 ॥
fन्: त्रीणि उरोग्रीवशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतम् ।
तर्को ऽनुमानमनुग्राह्यं मानम् ।
उपपत्तिरनुग्राहिका युक्तिरिति भेदः ।
विलक्षणत्वाधिकरणम् । सू. 4-12
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः ।
तर्कनिमित्त इदानीमाक्षेपः परिह्रियते ।
कुतः पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः ।
ननु धर्म इव ब्रह्मण्यनपेक्ष आगमो भवितुमर्हति ।
भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयो ऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः ।
परिनिष्पन्नरूपं तु ब्रह्मावगम्यते ।
परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु ।
यथाच श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधे ऽपि तद्वशेनैव श्रुतिर्नीयेत ।
दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते ।
विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् ।
अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते ।
श्रुतिरपि- ऽश्रोतव्यो मन्तव्यःऽ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति ।
अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ऽन विलक्षणत्वादस्यऽ इति ।
यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति ।
तन्नोपपद्यते ।
कस्मात् ।
विलक्षणत्वादस्य विकारस्य प्रकृत्याः ।
इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगत् ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते ।
ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते ।
नच विलक्षणत्वं प्रकृतिविकारभावो दृष्टः ।
नहि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः ।
मृदैव तु मृदान्विता विकाराः क्रियन्ते सुवर्णेन च सुवर्णान्विताः ।
तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सदचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रह्मणः ।
ब्रह्मविलक्षणं चास्य जगतो ऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् ।
अशुद्धं हि जगत्सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च ।
अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् ।
नहि साम्ये सत्युपकार्योपकारकभावो भवति ।
नहि प्रदीपौ परस्परस्योपकुरुतः ।
ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति ।
न ।
स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् ।
यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिचेतनभागः स एवान्यस्य चेतनस्योपकरोति नतु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा ।
निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते ।
तस्मादचेतनं कार्यकारणम् ।
नच काष्टलोष्टादीनां चेतनत्वे किं चित्प्रमाणमस्ति ।
प्रसिद्धश्चायं चेतनाचेतनविभागो लोके ।
तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् ।
यो ऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि ।
प्रकृतिरूपस्य विकारे ऽन्वयदर्शनात् ।
अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति ।
यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते ।
एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषे ऽपि गुणप्रधानभावो न विरोत्स्यते ।
यथा च पार्थिवत्वाविशेषे ऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति ।
प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति ।
तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत ।
शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते ।
नचेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह- तथात्वं च शब्दादिति ।
अनवगम्यमानमेवं हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षत, तच्च शब्देनैव विरुध्यते ।
यतः शब्दादपि तथात्वमवगम्यते ।
तथात्वमिति प्रकृतिविलक्षणत्वं कथयति ।
शब्द एव ऽविज्ञानं चाविज्ञानं चऽ (ते. 2.6) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ 4 ॥
fन्: अवष्टम्भो दृष्टान्तः ।
ऐतिह्यमात्रेण परोक्षतयेति यावत् ।
सुखदुःखमोहाः सत्त्वरजस्तमांसि ।
उपजनापायवद्धर्मयोगो ऽतिशयस्तदभावो निरतिशयत्वम् ।
इतरच्चेतनाचेतनत्वरूपम् ।
ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते ।
यथा ऽमृदब्रवीत्ऽ ऽआपो ऽब्रुवन्ऽ ( श.प.ब्रा. 6.1.3.2.4) इति, ऽतत्तेज ऐक्षतऽ ऽता आप ऐक्षन्तऽ (छा. 6.2.3,4) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः ।
इन्द्रियविषयापि ऽते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुःऽ (बृ. 6.1.7) इति, ऽते ह वाचमूचुस्त्वं न उद्गायेतिऽ (बृ. 1.3.2) इत्येवमाद्येन्द्रियविषयेति ।
अत उत्तरं पठति-
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम्
तुशब्द आशङ्कामपनुदति ।
न खलु मृदब्रवीदित्येवञ्जातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् ।
यतो ऽभिमानिव्यपदेश एषः ।
मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् ।
कस्मात् ।
विशेषानुगतिभ्याम् ।
विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः ।
सर्वचेतनतायां चासौ नोपपद्येत ।
अपिच कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तये ऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति- ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ इति ।
ऽता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वाऽ (2.14) इति च ।
अनुगताश्च सर्वत्राभिमानिन्यश्चेतनादेवता मन्त्रार्थवादेतिहासपुराणादिभ्यो ऽवगम्यन्ते ।
ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ.आ. 2.4.2.4) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति ।
प्राणसंवादवाक्यशेषे च ऽते ह प्राणाः प्रजापतिं पितरमेत्योचुःऽ (छा. 5.1.7) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं, तद्वचनाचैकैकोत्क्रमणेनान्वयव्यतिर्काभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः ।
ऽतस्मै बलिहरणम्ऽ (बृ. 6.1.13) इति चैवञ्जातीयको ऽस्मदादिष्विव व्यवहारो ऽनुगम्यमानो ऽभिमानिव्यपदेशं द्रढयति ।
ऽतत्तेज ऐक्षतऽ इत्यपि परस्या एव देवताया अधिष्टात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् ।
तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् ।
विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते ॥ 5 ॥
fन्: संवदनं विवादः ।
विशिंषन्ति वागादीन्प्राणादीनिति शेषः ।
अहंश्रेयसे स्वस्वश्रेष्ठत्वाय ।
निःश्रेयसं श्रैष्ठ्यम् ।
दृश्यते तु
तुशब्दः पक्षं व्यावर्तयति ।
यदुक्तं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति ।
नायमेकान्तः ।
दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् ।
नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति ।
उच्यते- एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् ।
महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् ।
तथा गोमयादीनां वृश्चिकादीनां च ।
अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत ।
अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्विति ।
ब्रह्मणो ऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानोदृश्यते ।
विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतित्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदस्य चैतन्यस्येति वक्तव्यम् ।
प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेदप्रसङ्गः ।
नह्यसत्यतिशये प्रकृतिविकार इति भवति ।
द्वितीये चासिद्धत्वम् ।
दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् ।
तृतीये तु दृष्टान्ताभावः ।
किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मवादिनं प्रत्युदाह्रियेत ।
समस्तस्य वस्तुजायस्य ब्रह्मप्रकृतित्वाभ्युपगमात् ।
आगमविरोधस्तु प्रसिद्ध एव ।
चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् ।
यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि संभवेयुरिति ।
तदपि मनोरथमात्रम् ।
रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः ।
लिङ्गाद्यभावाच्च नानुमानादीनाम् ।
आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् ।
तथाच श्रुतिः - ऽनैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठऽ (का. 1.2.9) इति ।
ऽको अद्धा वेद क इह प्रवोचत्ऽ ।
ऽइयं विसृष्टिर्यत आबभूवऽ (ऋ.सं 1.30.6) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः ।
स्मृतिरपि भवति- ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्ऽ इति ।
ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्योयमुच्यतेऽ (गी. 2.25) इति च ।
ऽन मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशःऽ (गी. 10.2) इति चैवञ्जातीयका ।
यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् ।
नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति ।
श्रुत्यनुगृहीत एव ह्यत्र तर्को ऽनुभवाङ्गत्वेनाश्रीयते ।
स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनो ऽनन्वागतत्वं, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेक इत्येवञ्जातीयकः ।
ऽतर्काप्रतिष्ठानात्ऽ (ब्र. 2.1.11) इति च केवलस्य तर्कस्यविप्रलम्भकत्वं दर्शयिष्यति ।
यो ऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षते तस्यापि विज्ञानं चाविज्ञानं च इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् ।
परस्यैव त्विदमपि विभागश्रवणं न युज्यते ।
कथम् ।
परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते ऽविज्ञानं चाविज्ञानं चाभवत्ऽ इति ।
तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते ।
प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथाश्रुत्यैव कारणं ग्रहीतव्यं भवति ॥ 6 ॥
fन्: पारिणामिकस्तत्तत्केशादिगतपरिणामात्मक इत्यर्थः ।
एषा वेदान्तशास्त्रजन्या मतिस्तर्केण स्वमत्यूहमात्रेणापनेया बाधार्हा न ।
यद्वा तर्केण प्राप्तव्या नेत्यर्थः ।
किन्तु अन्येन निपुणेनाचार्येण प्रोक्तप्रबोधिता सती सुज्ञानाय साक्षात्काराय भवति ।
हे प्रेष्ठ प्रियतमेति नाचिकेतसंप्रति यमसंबोधनम् ।
इयं विसृष्टिराकाशादिसृष्टिः कुतः कस्माज्जाता कस्माच्च स्थितिं प्राप्तेत्यद्धा तत्त्वेन को वेद, न को ऽपि ।
कः प्रवोचत् न को ऽपि प्रवक्ताभूत् ।
विप्रलम्भकत्वं अर्थविशेषाव्यवस्थापकत्वम् ।
असद् इति चेन् न प्रतिषेधमात्रत्वात्
यदि चेतनं शुद्धं शब्दविहीनं च ब्रह्म तद्विपरूतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत ।
अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् ।
नैष दोषः ।
प्रतिषेधमात्रत्वात् ।
प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति ।
नह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति ।
कथम् ।
यथैव हीदानामपीदं कार्यं कारणात्मना सदेवं प्रागुत्पत्तेरपीति गम्यते ।
नहीदानामपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति ।
ऽसर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेदऽ (बृ. 2.4.6)
इत्यादिश्रवणात् ।
कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् ।
ननु शब्दादिहीनं ब्रह्मजगतः कारणम् ।
बाढम् ।
नतु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वास्ति ।
तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति ।
विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः ॥ 7 ॥
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम्
अत्राह- यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणमभ्युपगम्येत तदपीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदित्यपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपप्रसङ्गात्सर्वज्ञं ब्रह्म जगत्कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् ।
अपिच समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् ।
अपिच भोक्तृणां परेण ब्रह्मणाविभागं गतानां कर्मादिनिमित्तप्रलये ऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्तत्तिप्रसङ्गादसमञ्जसम् ।
अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतीश्च न संभवति, कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति ॥ 8 ॥
अत्रोच्यते-
न तु दृष्टान्तभावात्
नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति ।
यत्तावदभिहितं कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तददूषणम् ।
कस्मात् ।
दृष्टान्ताभावात् ।
सन्ति हि दृष्टान्ता यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति ।
तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति ।
रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति ।
पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति ।
त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तो ऽस्ति ।
अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत ।
अनन्यत्वे ऽपि कार्यकारणयोः कार्यस्य कारणात्मत्वं नतु कारणस्य कार्यात्मत्वं ऽआरम्भणशब्दादिभ्यःऽ इति वक्ष्यामः (ब्र.सू. 2.1.14) ।
अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति ।
स्थितावपि समानो ऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् ।
ऽइदं सर्व यदयमात्माऽ (बृ. 2.4.6), ऽआत्मैवेदं सर्वम्ऽ (छा. 7.25.2), ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मु. 2.2.11), ऽसर्वं खल्विदं ब्रह्मऽ (छा. 3.14.1) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते ।
तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः ।
अस्ति चायमपरो दृष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पश्यते, अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति ।
यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यत इति ।
प्रबोधसंप्रदायोरनन्वागतत्वात् ।
एवमवस्थात्रयसाक्ष्येको ऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।
मायामात्रं ह्येतद्यत्परमात्मनो ऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति ।
अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः - ऽअनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदाऽ (गौडपा. कारि. 1.16) इति ।
तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् ।
यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति ।
अयमप्यदोषः ।
दृष्टान्तभावादेव ।
यथाहि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवत्येवमिहापि भविष्यति ।
श्रुतिश्चात्र भवति- ऽइमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्तिऽ (छा. 6.9.2,3) इति ।
यथा ह्यविभागे ऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितो दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते ।
एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः ।
सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् ।
यः पुनरयमन्ते ऽपरो विकल्प उत्प्रेक्षितो ऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सो ऽप्यनभ्युपगमादेव प्रतिषिद्धः ।
तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ 9 ॥
fन्: अपिगच्छत् लीयमानम् ।
विभागावस्था स्थितिकालः ।
सति ब्रह्मणि एकीभूय न विदुरित्यज्ञानोक्तिः ।
इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
स्वपक्षदोषाच् च
स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुष्युः ।
कथमित्युच्यते ।
यत्तावदभिहितं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् ।
अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः ।
तथापीतौ कार्यस्य कारणविभागाभ्युपगमात्तद्वत्प्रसङ्गो ऽपि समानः ।
तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनरुत्पतौ नियन्तुं शक्यन्ते कारणाभावात् ।
विनैव कारणेन नियमे ऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः ।
अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केनचिन्नेति चेत् ।
ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोतीत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति ।
अवश्याश्रयितव्यत्वात् ॥ 10 ॥
fन्: प्रादुष्युः प्रादुर्भवेयुः ।
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः
इतश्च नागमगम्येर्ऽथे केवलेन तर्केण प्रत्यवस्थातव्यम् ।
यस्मिन्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति ।
उत्प्रेक्षाया निरङ् कुशत्वात् ।
तथाहि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्तरैरन्यैराभास्यमाना दृश्यन्ते ।
तैरप्युत्प्रेक्षिताः सन्तस्ततो ऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं, पुरुषमतिवैरूप्यात् ।
अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत ।
एवमप्यप्रतिष्ठितत्वमेव ।
प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् ।
अतोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति ।
नहि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् ।
एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते ।
केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वात् ।
सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः ।
अतीतवर्तमानाध्वसाम्येन ह्यनागते ऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते ।
श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते ।
मनुरपि चैवं मन्यते- ऽप्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सिता ॥
ऽ इति ।
ऽआर्षं धर्मोपदेशं च वेदशास्त्रविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
ऽ (12.105,106) इति च ब्रुवन् ।
अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम ।
एवंहि तावद्यत्तर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति ।
नहि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् ।
तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत्, एवमप्यविमोक्षप्रसङ्गः ।
यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य ।
नहीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् ।
रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम ।
अपिच सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः ।
तच्च सम्यग्ज्ञानमेकरूपं वस्तुतन्त्रत्वात् ।
एकरूपेण ह्यवस्थितो योर्ऽथः स परमार्थः ।
लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते यथाग्निरुष्णा इति ।
तत्रैवं सति सम्ग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना ।
तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः ।
यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते, तेनापि प्रतिष्ठापितं ततो ऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके ।
कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् ।
नच प्रधानवादी तर्कविदामुत्तम इति सर्वास्तार्किकैः परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि ।
नच शक्यन्ते ऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात ।
वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेस्तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् ।
अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् ।
अतो ऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत ।
अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेति स्थितम् ॥ 11 ॥
fन्: तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् ।
धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।
अतिगमभीरत्वमागमातिर्मेकामानायोग्यत्वम् ।
भावयाथात्म्यं कारणगतमद्वितीयत्वम् ।
मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् ।
4 शिष्टपरिग्रहाधिकरणम् । सू. 12
एतेन शिष्टापरिग्रहा अपि व्याख्याताः
वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्ठैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृतः ।
इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति ।
परिगृह्यन्त इति परिग्रहाः न परिग्रहा अपरिग्रहाः शिष्टानामपरिग्रहाः ।
एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदंशंनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति ।
तुल्यमात्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं तर्कस्याप्रतिष्ठितत्वमन्यथानुमाने ऽप्यविमोक्ष आगमविरोधश्चेत्येवञ्जातीयकं निराकरणम् ॥ 12 ॥
5 भोक्त्रापत्त्याधिकरणम् । सू. 13
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्
अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते ।
यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारे ऽन्यपरा भवितुमर्ति ।
यथा मन्त्रार्थवादौ ।
तर्के ऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् यथा धर्माधर्मयोः ।
किमतो यद्येवम् ।
अत इदमयुक्तं यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः ।
कथं पुनः प्रमाणान्तरप्रसिद्धोर्ऽथः श्रुत्या बाध्यत इति ।
अत्रोच्यते- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरो भोग्याः शब्दादयो विषया इति ।
यथा भोक्ता देवदत्तो भोज्य ओदन इति ।
तस्य च विभागस्याभावः प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत ।
भोग्यं वा भोक्तृभावमापद्येत ।
तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणो ऽनन्यत्वात्प्रसज्येत ।
नचास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् ।
यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः ।
तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रतिब्रूयात्- स्याल्लोकवदिति ।
उपपद्यत एवायमस्मत्पक्षे ऽपि विभागः एवं लोके दृष्टत्वात् ।
तथाहि- समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनवीचीतरङ्गादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते ।
नच समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति ।
नच तेषामितरेतरभावानापत्तावपि समुद्रात्मनो ऽन्यत्वं भवति ।
एवमिहापि नच भोक्तृभोग्ययोरितरेतरभावापत्तिः, नच परस्माद्ब्रह्मणो ऽन्यत्वं भविष्यति ।
यद्यपि भोक्ता न ब्रह्मणो विकारः ।
ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. 2.6) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यतः परमकारणब्रह्मणो ऽनन्यत्वंऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम् ॥ 13 ॥
fन्: अन्यपरत्वं गौणार्थकत्वम् ।
विभागो जन्म ।
यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।
6 आरम्भणाधिकरणम् । सू. 14-20
तदनन्यत्वम् आरम्भणशब्दादिभ्यः
अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोषऽभिहितः ।
नत्वयं विभागः परमार्थतो ऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते ।
कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परंब्रह्म, तस्मात्कारणात्परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते ।
कुतः ।
आरम्भणशब्दादिभ्यः ।
आरम्भणशब्दस्तावत् ।
एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- ऽयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ (छा. 6.1.1) इति ।
एतदुक्तं भवति- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ।
यतो वाचारम्भणं विकारो नामधेयं वाचैव केवलमस्तीत्यारभ्यते ।
विकारो घटः शराव उदञ्चनं चेति ।
नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।
नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमिति ।
एष ब्रह्मणो दृष्टान्तः आम्नातः ।
तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते ।
पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- ऽअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्ऽ (छा. 6.4.1) इत्यादिना ।
आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽ (छा. 6.8.7), ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6), ऽब्रह्मैवेदं सर्वम्ऽ (मु. 2.2.11), ऽआत्मैवेदं सर्वम्ऽ (छा. 7.25.2), ऽनेह नानास्ति किञ्चनऽ (बृ.4.4.19) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् ।
नचान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते ।
तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं, यथाच मृगतृष्णिकोदकादीनामूषरादिभ्यो ऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् ।
नन्वनेकात्मकं ब्रह्म, यथा वृक्षो ऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म ।
अत एकत्वं नानात्वं चोभयमपि सत्यमेव ।
यथा वृक्ष इत्यनेकत्वं शाखा इति नानात्वम् ।
यथाच समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् ।
यथाच मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् ।
तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति ।
नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति ।
एवञ्च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति ।
नैवं स्यात् ।
ऽमृत्तिकेत्येव सत्यम्ऽ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् ।
वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् ।
दार्ष्टान्तिके ऽपि ऽऐतदात्म्यमिदं सर्वं तत्सत्यम्ऽ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति च शारीरस्य ब्रह्मभावोपदेशात् ।
स्वयं प्रसिद्धं ह्येतच्छरीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् ।
अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् ।
बाधिते च शारीरात्मत्वस्य तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशो ऽपरो ब्रह्मणः कल्प्येत ।
दर्शयति च-
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 4.5.15) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् ।
नचायं व्यवहाराभावोषऽवस्थाविशेषनिबद्धो ऽभिधीयत इति युक्तं वक्तुम्, ऽतत्त्वमसिऽ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् ।
तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति (छा. 6.16) ।
मिथ्याज्ञानविजृम्भितं च नानात्वम् ।
उभयसत्यतायां हि कथं व्यवहारगोचरो ऽपि जन्तुरनृताभिसंध इत्युच्येत ।
ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ. 4.4.19) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति ।
नचास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञनापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् ।
उभयसत्यतायां हि कथमेकत्वविज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते ।
नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावत्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि ।
तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत, मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघातः स्यात् ।
कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति ।
अत्रोच्यते- नैष दोषः ।
सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः ।
स्वप्नव्यवहारस्येव प्राक्प्रबोधात् ।
यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते ।
विकारानेव त्वहं ममेत्यविद्यायामात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा ।
तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः ।
यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, नच प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् ।
कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ।
नहि रज्जुसर्पेण दृष्टो म्रियते ।
नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति ।
नैष दोषः ।
शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः ।
स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् ।
तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् ।
तत्र ब्रूमः- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगतिः सत्यमेव फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात् ।
नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् ।
एतेन स्वप्नदृशो ऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः ।
तथाच श्रुतिः - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शनेऽ (छा. 5.2.9) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति ।
तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ऽन चिरमिव जीविष्यतीति विद्यात्ऽ इत्युक्त्वा ऽअथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिऽ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति ।
प्रसिद्धं चेदं लोके ऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेनासाध्वागम इति ।
तथाकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्तेः ।
अपिचान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकाङ्क्ष्यमस्ति ।
यथाहि लोके यजेतेत्युक्ते किं केन कथमित्याकाङ्क्ष्यते नैवं ऽतत्त्वमसिऽ ऽअहं ब्रह्मास्मिऽ इत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति, सर्वात्मैकत्वविषयत्वावगतेः ।
सति ह्यस्मिन्नवशिष्यमाणेर्ऽथे आकाङ्क्षा स्यात् ।
नत्वात्मैकत्वव्यतिरेकेणावशिष्यमाणो ऽन्योर्ऽथो ऽस्ति य आकाङ्क्ष्येत ।
न चेयमवगतिर्नोपपद्यत इति शक्यं वक्तुम्, ऽतद्धास्य विजज्ञौऽ (छा. 6.16.3) इत्यादिश्रुतिभ्यः ।
अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् ।
नचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् ।
अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च ।
प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम ।
तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशो ऽस्ति ।
ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते ।
परिणामिनो हि मृदादयोर्ऽथा लोके समधिगता इति ।
नेत्युच्यते ।
ऽस वा एष महाजन आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.25) ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.23), ऽअस्थूलमनणुऽ (बृ. 3.8.8) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् ।
नह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च श्क्यं प्रतिपत्तुम् ।
स्थितिगतिवत्स्यादिति चेत् ।
न ।
कूटस्थस्येति विशेषणात् ।
नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति ।
कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम ।
नच यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते ।
प्रमाणाभावात् ।
कूटस्थब्रह्मात्मविज्ञानादेव हि फलं दर्शयति शास्त्रम्- ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्य ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. 4.2.4)
इत्येवञ्जातीयकम् ।
तत्रैतत्सिद्धं भवति- ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत् ।
नतु स्वतन्त्रं फलाय कल्प्यत इति ।
नहि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तं, कूटस्थनित्यत्वान्मोक्षस्य ।
कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् ।
न ।
अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य ।
ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै. 2.1) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थि तिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेत्येषोर्ऽथः प्रतिज्ञातः ऽजन्माद्यस्य यतःऽ (ब्र.सू. 1.1.4) इति ।
सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोर्ऽथः पुनरिहोच्यते ।
कथं नोच्यते ऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ।
श्रुणु यथा नोच्यते ।
सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते ।
ताभ्यामन्यः सर्वज्ञ ईश्वरः ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा. 8.14.1) इति श्रुतेः ।
ऽनामरूपे व्याकरवाणिऽ (छा. 6.3.2), ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै. आ. 3.12.7), ऽएकं बीजं बहुधा यः करोतिऽ (श्वं. 6.12) इत्यादिश्रुतिभ्यश्च ।
एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि ।
स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये ।
तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते ।
तथाचोक्तम्- ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा. 7.24.1) इति ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन पश्येत्ऽ (बृ. 4.5.15) इत्यादिना च ।
एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे ।
तथेश्वरगीतास्वपि- ऽन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःऽ (गी. 5.14.-15) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते ।
व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ. 4.4.22) इति ।
तथाचेश्वरगीतास्वपि- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ (गी. 18.61) इति ।
सूत्रकारो ऽपि परमार्थाभिप्रायेण तदन्यत्वमित्याह ।
व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति ।
अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणोपासनेषूपयोक्ष्यत इति ॥ 14 ॥
fन्: दृष्टं प्रातीतिकं नष्ठमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः ।
स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः ।
एकत्वस्यैकान्तः कैवल्यम् ।
व्याहन्येरन्नप्रमाणानि स्युः ।
सत्यत्वं बाधा भावः ।
बाधो मित्यात्वनिश्चयः ।
रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धम् ।
भावे चोपलब्धेः
इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे ।
तद्यथा सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पटः ।
नच नियमेनान्यभावे ऽन्यस्योपलब्धिर्दृष्टा ।
नह्यश्वो गोरन्यः सन् गोर्भाव एवोपलभ्यते ।
नच कुलालभाव एव घट उपलभ्यते ।
सत्यपि निमित्तनैमित्तिकभावे ऽन्यत्वात् ।
नन्वन्यस्य भावे ऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति ।
नेत्युच्यते ।
उद्धापिते ऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् ।
अथ धूमं कयाचिदवस्थया विशिंष्यादीदृशो धूमो नासत्याग्नौ भवतीति ।
नैवमपि कश्चिद्दोषः तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः ।
नचासावग्निधूमयोर्विद्यते ।
भावाच्चोपलब्धेरिति वा सूत्रम् ।
न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं,
प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः ।
भवतिहि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे ।
तद्यथा-
तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवोंऽशुषु तदवयवाः ।
अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि ततो रूपाणि वायुमात्रमाकाशमात्रं चेत्यनुमेयम् ।
(छा. 6.4) ततः परं ब्रह्मैकमेवाद्वितीयं, तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ 15 ॥
fन्: कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः ।
सत्वाच् चापरस्य
इतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते ।
ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. 6.2.1), ऽआत्मा वा इदमेक एवाग्र आसीत्ऽ (ऐ.आ. 2.4.1.1) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् ।
यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् ।
तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते ।
यथाच कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरत्येवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति ।
एकं च पुनः सत्त्वमतो ऽप्यनन्यत्वं कारणात्कार्यस्य ॥ 16 ॥
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात्
ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः - ऽअसदेवेदमग्र आसीत् (छा. 3.19.1) इति, ऽअसद्वा इदमग्र आसीत्ऽ (तै. 2.7.1) इति च ।
तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् ।
नेति ब्रूमः ।
नह्ययमत्यन्तासत्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः,किं तर्हि व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य ।
कथमेतदवगम्यते ।
वाक्यशेषात् ।
यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते ।
इह च तावत् ऽअसदेवेदमग्र आसीत्ऽ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ऽतत्सदासीत्ऽ इति ।
असतश्च पूर्वापरकालासंबन्धादासीच्छब्दानुपपत्तेश्च ।
ऽअसद्वा इदमग्र आसीत्ऽ इत्यत्रापि ऽतदात्मानं स्वयमकुरुतऽ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् ।
तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य ।
नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् ।
अतः प्राङ्नामरूपव्याकरणादसदिवासीदिवासीदित्युपचर्यते ॥ 17 ॥
fन्: अग्रे शून्यमासीच्छून्यादेव जगतभूदिति पूर्वः पक्षः ।
राद्धान्ते तु इदं जगदग्रे सृष्टेः प्रागसदव्याकृतनामरूपत्वादसत्तुल्यमतिसूक्ष्मं ब्रह्मैवासीत् ।
ततो ब्रह्मणः सत् व्याकृतनामरूपं जगदजायतेति ।
युक्तेः शब्दान्तराच् च
युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च ।
युक्तिस्तावद्वर्ण्यते- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते ।
नहि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरं तदसत्कार्यवादे नोपपद्येत ।
अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् ।
अथाविशिष्टे ऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च ।
शक्तिश्च कारणस्य कार्यनियमार्था कल्पमाना नान्यासती वा कार्यं नियच्छेत् ।
असत्त्वाविशेषादन्यत्वाविशेषाच्च ।
तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् ।
अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् ।
समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धे ऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः ।
अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः ।
अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते, संयोगो ऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव समवायं संबध्येत ।
तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् ।
कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते ।
किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् ।
यदि तावत्समस्तेषु वर्तेत ततो ऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसमनिकर्षस्याशक्यत्वात् ।
नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते ।
अथावयवशः समस्तेषु वर्तेत तदाप्यरम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशो ऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति ।
अनवस्था चैवं प्रसज्येत ।
तेषु तेष्वयवयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् ।
अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारे.ऽन्यत्राव्यापारः स्यात् ।
नहि देवदत्तः स्नुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रे ऽपि संनिधीयेत ।
युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् ।
देवदत्तयज्ञदत्तयोरिव स्रुघ्नापाटलिपुत्रनिवासिनोः ।
गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् ।
न ।
तथा प्रतीत्यभावात् ।
यदि गोत्वादिवत्प्रत्येकं परिसमाप्तो ऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत ।
नचैवं नियतं गृह्यते ।
प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् ।
नचैवं दृश्यते ।
प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् ।
उत्पचत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत् ।
क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत ।
घटस्य चेत्पत्तिरुच्यमाना न घटकर्तृका किं तरिह्यन्यकर्तृकेति कल्प्या स्यात् ।
तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत ।
तथाच सति घट उत्पद्यत इत्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते ।
उत्पन्नताप्रतीतेश्च ।
अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् ।
सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा ।
अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् ।
सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य ।
नहि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकारणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यपुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते ।
यदि च वन्द्यापुत्रो ऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपात्स्यत कार्याभावो ऽपि कारकव्यापारादूर्ध्वं भविष्यतीति ।
वयं तु पश्यामो वन्द्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावो ऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति ।
नन्वेवं सति कारकव्यापारो ऽनर्थकः प्रसज्येत ।
यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते ।
एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धये ऽपि न कश्चिद्व्याप्रियेत ।
व्याप्रियते च ।
अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव ।
कार्यस्येति ।
नैष दोषः ।
यतः कार्याकारेण कारणं व्यवस्तापयतः कारकव्यापारस्यार्थवत्त्वमपपद्यते ।
कार्याकारो ऽपि कारणस्यात्मभूत एवानात्मभूतस्यानारभ्यत्वादित्यभाणि ।
नच विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति ।
नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषण दृश्यमानो ऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् ।
तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् ।
जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् ।
न ।
क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् ।
अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ् कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा ।
तेषामेवायवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा ।
तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वपत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः ।
तथाच बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च ।
एतेन क्षणभङ्गवादः प्रतिवदितव्यः ।
यस्यपुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् ।
अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् ।
समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् ।
न ।
अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् ।
समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् ।
न ।
सत्कार्यतापत्तेः ।
तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् ।
तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते ।
एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते ।
शब्दान्तराच्चैतदवगम्यते ।
पूर्वसूत्रे ऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततो ऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्यादि ।
ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इति चासत्पक्षमुपक्षिप्य ऽकथमसतः सज्जायेतऽ इत्याक्षिप्य ऽसदेव सोम्येदमग्र आसीत्ऽ (छा. 6.2.1) इत्यवधारयति ।
तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः ।
यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यकारणात्स्यात् ।
तत्र ऽयेनाश्रुतं श्रुतं भवतिऽ (छा. 6.1.3) इतीयं प्रतिज्ञा पीड्येत ।
सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ 18 ॥
fन्: अतिशयः कार्यधर्मः कारणधर्मो वा ।
कार्याभावो ऽसत्कार्यमित्यर्थः उपापत्स्यत उपपन्नमभविष्यदित्यन्वयः ।
वस्त्वन्तरत्वं परमार्थतो भिन्नत्वम् ।
एतेन कारणस्य सर्वकार्येष्वन्वयकथनेन ।
विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।
पटवच् च
यथा च संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वान्यद्द्रव्यमिति ।
स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते ।
यथाच संवेष्टनसमये पट इति गृह्यमाणे ऽपि न विशिष्टायामविस्तारो गृह्यते स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्यो ऽयं भिन्नः पट इति ।
एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापारदिभिर्व्यक्तं स्पष्टं गृह्यते ।
अतः संवेष्टितप्रसीरितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ 19 ॥
fन्: आयामो दैर्घ्यम् ।
यथा च प्राणादिः
यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निवर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् ।
तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रासारणादिकमपि कार्यान्तरं निर्वर्त्यते ।
नच प्राणभेदानां प्रभेदवतः प्राणादन्यत्वं, समीरणस्वभावाविशेषात् ।
एवं कार्यस्य कारणादनन्यत्वम् ।
अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा. 6.1.1) इति ॥ 20 ॥
7 इतरव्यपदेशाधिकरणम् । सू. 21-23
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः
अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते ।
चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते ।
कुतः ।
इतरव्यपदेशात् ।
इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः - ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ (छा. 6.8.7) इति प्रबोधनात् ।
यद्वा ।
इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै. 2.6) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् ।
ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6.3.2) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति ।
तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छरीरस्यैवेति ।
अतः स स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् ।
नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति ।
नच स्वयमत्यन्तनिर्मलः सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात् ।
कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् ।
सुखकरं चोपाददीत ।
स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति ।
सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति ।
यथाच मायावी स्वयं प्रसारितां मायामिच्छयानायासेनैवोपसंहरति, एवं शारीरो ऽपीमां सृष्टिमुपसंहरेत् ।
स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् ।
एवं हितक्रियाद्यदर्शनादन्याय्या चेतमाज्जगत्प्रक्रियेति गम्यते ॥ 21 ॥
अधिकं तु भेदनिर्देशात्
तुशब्दः पक्षं व्यावर्तयति ।
यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तद्वयं जगतः स्रष्टृ ब्रूमः ।
न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते ।
नहि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं, नित्यमुक्तस्वभावात् ।
नच तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च ।
शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः ।
नतु तं वयं जगतः स्रष्टारं ब्रूमः ।
कुत एतत् ।
भेदनिर्देशात् ।
ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽऽ (बृ. 2.4.5), ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा. 8.7.1), ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.8.1) ऽशारीर आत्मा प्राज्ञेनात्मनान्वारूढःऽ (बृ. 4.3.35) इत्येवञ्जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति ।
नन्वभेदनिर्देशो ऽपि दर्शितः ऽतत्त्वमसिऽ इत्येवञ्जातीयकः ।
कथं भेदाभेदौ विरुद्धौ संभवेयाताम् ।
नैष दोषः ।
आकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठपितत्वात् ।
अपिच यदा तत्त्वमसीत्येवञ्जातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ।
तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः ।
अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारो नतु परमार्थतो ऽस्तीत्यसकृदवोचाम ।
जन्ममरणच्छेदनभेदनाद्यभिमानवत् ।
अबाधिते तु भेदव्यवहारे ऽसे ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ इत्येवञ्जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणो ऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ 22 ॥
अश्मादिवच् च तदनुपपत्तिः
यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयो ऽन्ये मध्यमवीर्याः सूर्यकान्तादयो ऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते ।
यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते ।
यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति ।
एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यस्तदनुपपत्तिः ।
परपरिकल्पितदोषानुपपत्तिर्त्यर्थः ।
श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः ॥ 23 ॥
fन्: किंपाको महातालफलम् ।
8 उपसंहारदर्शनाधिकरणम्. सू. 24-25
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि
चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते ।
कस्मात् ।
उपसंहारदर्शनात् ।
इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्राद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते ।
ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत ।
तस्मान्न ब्रह्म जगत्कारणमिति चेत् ।
नैष दोषः ।
यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते ।
यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमते ऽनपेक्ष्य बाह्यं साधनं तथेहापि भविष्यति ।
ननु क्षीराद्यपि दध्यादिभावेन परिणाममानपेक्षत एव बाह्यं साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धीति ।
नैष दोषः ।
स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रमनुभवति तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय ।
यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत ।
नहि वायुराकाशो वौष्ण्यदिना बलाद्दधिभावमापद्यते ।
सादनसामग्र्या च तस्य पूर्णता संपाद्यते ।
परिपूर्णशक्तिकं तु ब्रह्म ।
न तस्यान्येन केनचित्पूर्णता संपादयितव्या ।
श्रुतिश्च भवति- ऽन तस्य कार्यं कारणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥
ऽ (श्वे. 6.2) इति ।
तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥ 24 ॥
fन्: कारकाणामुपसंहारो मेलनम् ।
त्वार्यते शैघ्र्यं कार्यते क्षीरं दधिभावमौष्ण्यादिना ।
देवादिवद् अपि लोके
स्यादेतत् ।
उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् ।
चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै कार्याय प्रवर्तमाना दृश्यन्ते ।
कथं ब्रह्म चेतनं सदसहायं प्रवर्तेतेति ।
देवादिवदिति ब्रूमः ।
यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तो ऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानि शरीरीणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् ।
तन्तुनाभश्च स्वत एव तन्तून्सृजति ।
बलाका चान्तरेणैव शुक्रं गर्भं धत्ते ।
पद्मिनी चानपेक्ष्य किञ्चित्प्रस्तानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते ।
एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति ।
स यदि ब्रूयाद्य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्ट्रान्तिकेन ब्रह्मणा न समाना भवन्ति ।
शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादन उपादानं नतु चेतन आत्मा ।
तन्तुनाभ्या च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति ।
बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते ।
पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेवैव शरीरेण सरोन्तरोपसर्पणे व्याप्रियते ।
तस्मानैते ब्रह्मणो दृष्टान्ता इति ।
तं प्रति ब्रूयान्नायं दोषः ।
कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति ।
यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतद्वाक्यं देवाद्युदाहरणेन विवक्ष्यामः ।
तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ 25 ॥
fन्: लोक्यते ज्ञायतेर्ऽथोनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च ।
अभिध्यानं संकल्पः ।
यथा भारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः तथा असहायस्यापि ब्रह्मणः कारणत्वम् ।
9 कृत्स्नप्रसक्त्यधिकरणम् । सू. 26-29
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा
चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यसाधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् ।
शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति ।
कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति,
निरवयवत्वात् ।
यदि ब्रह्म पथिव्यादिवत्सावयवमभविष्यत्ततो ऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत् ।
निरवयवं तु ब्रह्म श्रुतिभ्यो ऽवगम्यते- ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे. 6.19), ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजःऽ (मु. 2.1.2), ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवऽ (बृ. 2.4.12), ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.26), ऽअस्थूलमनणुऽ (बृ. 3.8.8) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः ।
ततश्चैकदेशपरिणामसंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत ।
द्रष्टव्यतोपदेशानर्थक्यं चापन्नमयत्नद्रष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणो ऽसंभवात् अजत्वादिशब्दकोपश्च ।
अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुष्येयुः ।
सावयवत्वे चानित्यत्वप्रसङ्ग इति ।
सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥ 26 ॥
fन्: पर्यणंस्यत् परिणतो ऽभविष्यत् ।
एकदेशश्चावस्थास्यदपरिणतो ऽभविष्यत् ।
श्रुतेस् तु शब्दमूलत्वात्
तुशब्देनाक्षेपं परिहरति ।
न खल्वस्मत्पक्षे कश्चिदपि दोषो ऽस्ति ।
न तावत्कृत्स्नप्रसक्तिरस्ति ।
कुतः ।
श्रुतेः ।
यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत एवं विकारव्यतिरेकेणापि ब्रह्मणो ऽवस्तानं श्रूयते, प्रकृतिविकारयोर्भेदेन व्यपदेशात् ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा. 6.3.2) इति, ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा. 3.12.6) इति चैवञ्जातीयकात् ।
तथा हृदयायतनत्ववचनात्सत्संपत्तिवचनाच्च ।
यदि च कृत्स्नं ब्रह्म कार्याभावेनोपयुक्तं स्यात् ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.81) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् ।
विकृतेन ब्रह्मणा नित्यसंपन्नत्वादिविकृतस्य च ब्रह्मणो ऽभावात् ।
तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः ।
तस्मादस्त्यविकृतं ब्रह्म ।
नच निरवयवत्वशब्दकोपो ऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् ।
शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् ।
शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च ।
लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ।
ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते ऽस्य वस्तुन एतावत्य एतत्सहाय एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ।
किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत ।
तथाचाहुः पौराणिकाः - ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् ।
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥
ऽ इति तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः ।
ननु शब्देनापि न शक्यते विरुद्धोर्ऽथः प्रत्याययितुं निरवयवं च ब्रह्म परिणमते नच कृत्स्नमिति ।
यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत ।
कृत्स्नमेव वा परिणमेत ।
अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत ।
क्रियाविषये हि ऽअतिरात्रे षोडशिनं गृह्णातिऽ ऽनातिरात्रे षोडशिनं गृह्णातिऽ इत्येवञ्जातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वाच्चानुष्ठानस्य ।
इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवत्यपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुर्घटमेतदिति ।
नैष दोषः ।
अविद्याकल्पितरूपभेदाभ्युपगमात् ।
नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते ।
नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानो ऽनेक एव भवति ।
अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते ।
पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणमतवतिष्ठते ।
वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति ।
नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् ।
सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिफलावगमात् ।
ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्याह- ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ. 4.2.4) इति ।
तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गो ऽस्ति ॥ 27 ॥
आत्मनि चैवं विचित्राश् च हि
अपिच नैवात्र विवदितव्यं कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति ।
यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते- ऽन तत्र रथा न रथयोगो न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजतेऽ ( बृ. 4.3.10) इत्यादिना ।
लोके ऽपि देवादिषु मायाव्यादिषु च स्वप्नरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते ।
तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति ॥ 28 ॥
स्वपक्षदोषाच् च
परेषामप्येष समानः स्वपक्षे दोषः ।
प्रधानवादिनो ऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं साववस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः ।
तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा ।
ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते, सत्त्वरजस्तमांसि त्रयो गुणा नित्यास्तेषां साम्यावस्था प्रधाने तैरेवावयवैस्तत्सावयवमिति ।
नैवञ्जातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते ।
यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् ।
एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य ।
तर्कप्रतिष्ठानात्सावयवत्वमेवेति चेत् ।
एववमप्यनित्यत्वादिदोषप्रसङ्गः ।
अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः ।
तास्तु ब्रह्मवादिनो ऽप्यवशिष्टाः ।
तथाणुवादिनो ऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः ।
अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षे ऽपि समान एष दोषः ।
समानत्वाच्च नान्यन्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति ।
परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ 29 ॥
fन्: वैशेषिकाणां ह्यणुभ्यां संयुज्य ह्यणुकमेकमारभ्यते, तैस्त्रिभिर्ह्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया ।
10 सर्वोपेताधिकरणम् । सू. 30-31
सर्वोपेता च तद्दर्शनात्
एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् ।
तत्पुनः कथमवगम्यते परं ब्रह्मेति ।
तदुच्यते ।
सर्वोपेता च तद्दर्शनात् ।
सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् ।
कुतः ।
तद्दर्शनात् ।
यथाहि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः - ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो ऽवाक्यनादरःऽ (छा. 3.14.4), ऽसत्यकामः सत्यसंकल्पःऽ (छा. 8.7.1), ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. 1.1.9), ऽएतस्य वा अक्षरस्य प्रशासने गार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ. 3.8.9) इत्येवञ्जातीयका ॥ 30 ॥
fन्: अभ्यात्तः अभितोव्याप्तः ।
अवाकी वागिन्द्रियशून्यः ।
अनादरो निष्कामः ।
विकरणत्वान् नेति चेत् तद् उक्तम्
स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम्- ऽअचक्षुष्कमश्रोत्रमवागमनाःऽ (बृ.3.8.8) इत्येवञ्जातीयकम् ।
कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् ।
देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यत्मिककार्यकरणसंपन्ना एव तस्मैतस्मै कार्याय प्रभवन्तो विज्ञायन्ते ।
कथञ्च ऽनेति नेतिऽ (बृ. 3.9.23) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेदिति चेत् ।
यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् ।
श्रत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् ।
नच यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमो ऽस्तीति ।
प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव ।
तथाच शास्त्रम्- ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णःऽ (श्वं. 3.19) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ 31 ॥
11 प्रयोजनवत्त्वाधिकरणम्. सू. 32-33
न प्रयोजनवत्त्वात्
अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति ।
न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति ।
कुतः ।
प्रयोजनवत्त्वात्प्रवृत्तीनाम् ।
चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनामारभमाणो दृष्टः ।
किमुत गुरुतरसंरम्भाम् ।
भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः- ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवतिऽ (बृ. 2.4.5) इति गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् ।
यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तित्वं परमात्मनः श्रूयमाणं बाध्येत ।
प्रयोजनाभावे वा प्रवृत्त्यभावो ऽपि स्यात् ।
अथ चेतनो ऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत ।
तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत ।
तस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥ 32 ॥
fन्: बुद्ध्यपराधो विवेकाभावः ।
लोकवत् तु लीलाकैवल्यम्
तुशब्देनाक्षेपं परिहरति ।
यथा लोके कस्यचिदाप्तैषणस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयो ऽनभिसंधाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव संभवन्ति एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति ।
न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति ।
नच स्वभावः पर्यनुयोक्तुं शक्यते ।
यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्वरस्य लीलैव केवलेयं, अपरिमितशक्तित्वात् ।
यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः ।
नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च ।
नचेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात्, ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम् ॥ 33 ॥
fन्: व्यतिरिक्तं लीलायाः सकाशादिति यावत् ।
सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।
वैषम्यनैर्घृण्याधिकरणम् । सू. 34-36
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति
पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय ।
नेश्वरो जगतः कारणमुपपद्यते ।
कुतः ।
वैषम्यनैर्घृण्यप्रसङ्गात् ।
कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीनीत्येवं विषमां सृष्टिं निर्मिमाणस्यैश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः ।
श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत ।
तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत ।
तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः - वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते ।
कस्मात् ।
सापेक्षत्वात् ।
यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च ।
नतु निरपेक्षस्य निर्मातृत्वमस्ति ।
सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते ।
किमपेक्षत इति चेत् ।
धर्माधर्मावपेक्षत इति वदामः ।
अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्लवरस्यापराधः ।
ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः ।
यथाहि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं क्षवति ।
देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्त्येवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति ।
कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति ।
तथाहि दर्शयति श्रुतिः - ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौ.ब्रा. 3.8) इति ।
ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽ (बृ. 3.2.13) इति च ।
स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतत्वं च दर्शयति- ऽये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्ऽ (भ.गी. 4.11) इत्येवञ्जातीयका ॥ 34 ॥
fन्: पृथग्जनः पामरः ।
यं जनुमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः ।
न कर्माविभागाद् इति चेन् नानादित्वाद्
ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा. 6.2.1) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् ।
सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत ।
अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम ।
प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणो ऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् ।
नैष दोषः ।
अनादित्वात्संसारस्य ।
भवेदेष दोषो यद्यादिमान्संसारः स्यात् ।
अनादौ तु संसारे बीजाङ् कुरवद्धेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ 35 ॥
कथं पुनरवगम्यते ऽनादिरेष संसार इति ।
अत उत्तरं पठति -
उपपद्यते चाप्य् उपलभ्यते च
उपपद्यते च संसारस्यानादित्वम् ।
आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् ।
नचेश्वरो वैषम्यहेतुरित्युक्तम् ।
नचाविद्या केवला वैषम्यस्य कारणं, एकरूपत्वात् ।
रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् ।
नच कर्मान्तरेण शरीरं संभवति, नच शरीरमन्तरेण कर्म संभवतीतीतरेतराश्रयत्वप्रसङ्गः ।
अनादित्वे तु बीजाङ् कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति ।
उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः ।
श्रुतौ तावत् ऽअनेन जीवेनात्मनाऽ (छा. 6.3.2) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति ।
आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणादधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे ऽभिलप्येत ।
नच धारयिष्यतीत्यतो ऽभिलप्येत ।
अनागताद्धि संन्धादतीतः संबन्धो बलवान्भवति, अभिनिष्पन्नत्वात् ।
ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्ऽ (ऋ.सं 10.190.3) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति ।
स्मृतावप्यनादित्वं संसारस्योपलभ्यते- ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽ (गी. 15.3) इति ।
पुराणे चातीतानागतानां च कल्पनां न परिमाणमस्तीति स्थापितम् ॥ 36 ॥
13 सर्वधर्मोपपत्त्यधिकरणम्. सू. 37
सर्वधर्मोपपत्तेश् च
मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0