भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र (टीका सहित) · अध्याय 1.3

1.3.1

आमनन्ति चैनं परमेश्वरमस्मिन्मूर्धचुबुकान्तराले जाबालाः- ऽय एषो ऽन्तो ऽव्यक्त आत्मा सो ऽविमुक्ते प्रतिष्ठित इति ।
सो ऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ।
का वै वरणा का च नासीतिऽ ।
तत्र चेमामेव नासिकां वरणा नासीति निरुच्य या सर्वाणीन्द्रियकृतानि पापानि वारयतीति सा वरणा, सर्वाणीन्द्रियकृतानि पापानि नाशयतीति सा नासीति ।
पुनरामनन्ति- ऽक तमच्चास्य स्थानं भवतीति ।
भ्रुवोर्धारणस्य च यः संधिः स एष द्युलोकस्य परस्य च संधिर्भवतीतिऽ (जाबा. 1) ।
तस्मादुपपन्ना परमेश्वरे प्रादेशमात्रश्रुतिः ।
अभिविमानश्रुतिः प्रत्यगात्मत्वाभिप्राया ।
प्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिमानः ।
अभिगतो वायं प्रत्यगात्मत्वाद्विमानश्च मानवियोगादित्यभिविमानः ।
अभिविमिमीयते वा सर्वे जगत्कारणत्वादित्यभिविमानः ।
तस्मात्परमेश्वरो वैश्वानर इति सिद्धम् ॥ 32 ॥
इति श्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये प्रथमाध्यायस्य द्वितीयः पादः ॥ 2 ॥
fन्: अविमुक्ते अविद्योपाधिकल्पितावच्छेदे जीवात्मि भेदकल्पनया प्रतिष्ठित उपास्यः ।
वरणा भ्रूः ।
विमीयते ज्ञायते ।
अभिविमीमीते निर्मिमीते ।
____________________________________________________________________________________________ ____________________________________________________________________________________________
प्रथमाध्याये तृतीयः पादः ।
[अत्रास्पष्टब्रह्मलिङ्गानां प्रायो ज्ञेयब्रह्मविषयाणां विचारः ।
एवं पादत्रयेणापि वाक्यविचारः]
1 द्युभ्वाद्यधिकरणम् । सू. 1-7
द्युभ्वाद्यायतनं स्वशब्दात्

1.3.2

इदं श्रूयते- ऽयस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुच्यथामृतस्यैष सेतुःऽ (मुण्ड. 2.2.5) इति ।
अत्र यदेतद्द्युप्रभृतीनामोतत्ववचनादायतनं किञ्चिदवगम्यते, तत्किं परं ब्रह्म स्यादाहोस्विदर्थान्तरमिति संदिह्यते ।
तत्रार्थान्तरं किमप्यायतनं स्यादिति प्राप्तम् ।
कस्मात्, ऽअमृतस्यैष सेतुःऽ इति श्रवणात् ।
पारवान्हि लोके सेतुः प्रख्यातः ।
नच परस्य ब्रह्मणः पारवत्त्वं शक्यमभ्युपगन्तुं, ऽअनन्तमपारम्ऽ (बृह. 2.4.12) इति श्रवणात् ।
अर्थान्तरे चायतने परिगृह्यमाणे स्मृतिप्रसिद्धं प्रधानं परिग्रहीतव्यं, तस्य कारणत्वादायतनत्वोपपत्तेः ।
श्रुतिप्रसिद्धो वा वायुः स्यात्, ऽवायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तिऽ (बृह. 3.7.2) इति वायोरपि विधारणत्वश्रवणात् ।
शारीरो वा स्यात् ।
तस्यापि भोक्तृत्वाद्भोग्यं प्रपञ्चं प्रत्यायतनत्वोपपत्तेरित्येवं प्राप्त इदमाह- द्युभ्वाद्यायतनमिति ।
द्यौश्च भूश्च द्युभुवौ द्युभुवावादी यस्य तदिदं द्युभ्वादि ।
यदेतदस्मिन्वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमस्माकं जगदोतत्वेन निर्दिष्टं तस्यायतनं परं ब्रह्म भवितुमर्हति ।
कुतः ।
स्वशब्दात्, आत्मशब्दादित्यर्थः ।
आत्मशब्दो हीह भवति- ऽतमेवैकं जानथ आत्मानम्ऽ इति ।
आत्मशब्दश्च परमात्मपरिग्रहे सम्यगवकल्पते नार्थान्तरपरिग्रहे ।
क्वचिच्च स्वशब्देनैव ब्रह्मण आयतनत्वं श्रूयते-ऽ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाःऽ (छा. 6.8.4) इति ।
स्वशब्देनैव चेह पुरस्तादुपरिष्टाच्च ब्रह्म संकीर्त्यते- ऽपुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्ऽ इति ।
ऽब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणश्चोत्तरेणऽ (मुण्ड. 2.2.11) इति च ।
तत्र त्वायतनायतनयद्भावश्रवणात् ।
सर्वं ब्रह्मेति च सामानाधिकरण्यात् ।
यथानेकात्मको वृक्षः शाखा स्कन्धो मूलं चेत्येवं नानारसो विचित्र आत्मेत्याशङ्का संभवति, तां निवर्तयितुं सावधारणमाह- ऽतमेवैकं जानथ आत्मानम्ऽ इति ।
एतदुक्तं भवति- न कार्यप्रपञ्चविशिष्टो विचित्र आत्मा विज्ञेयः ।
किन्तर्ह्यविद्याकृतं कार्यप्रपञ्चं विद्यया प्रविलापयन्तस्तमेवैकमायतनभूतमात्मानं जानथैकरसमिति ।
यथा यस्मान्नास्ते देवदत्तस्तदानयेत्युक्त आसनमेवानयति न देवदत्तम् ।
तद्वदायतनभूतस्यैवैकरसस्यात्मनो विज्ञेयत्वमुपदिश्यते ।
विकारानृताभिसंधस्य चापवादः श्रूयते- ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (का. 2.4.11) इति ।
सर्वं ब्रह्मेति तु सामानाधिकरण्यं प्रपञ्चप्रविलापनार्थं नानेकरसताप्रतिपादनार्थम् ।
ऽस यथा सैन्धवघनो ऽनन्तरो ऽबाह्यः कृत्स्नो रसघन एवैवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृह. 4.5.13) इत्येकरसताश्रवणात् ।
तस्माद्द्युभ्वाद्यायतनं परं ब्रह्म ।
यत्तूक्तं, सेतुश्रुतेः सेतोश्च पारवत्त्वोपपत्तेर्ब्रह्मणोर्ऽथान्तरेण द्युभ्वाद्यायतनेन भवितव्यमिति ।
अत्रोच्यते- विधारणत्वमात्रमत्र सेतुश्रुत्या विवक्ष्यते न पारवत्त्वादि ।
नहि मृद्दारुमयो लोके सेतुर्दृष्ट इत्यत्रापि मृद्दारुमय एवसेतुरभ्युपगम्यते ।
सेतुशब्दार्थो ऽपि विधारणत्वमात्रमेव न पारवत्त्वादि षिञो बन्धनकर्मणः सेतुशब्दव्युत्पत्तेः ।
अपर आह- ऽतमेवैकं जानथ आत्मानम्ऽ इति यदेतत्संकीर्तितमात्मज्ञानं, यच्चैतत् ऽअन्या वाचो विमुञ्चथऽ इति वाग्विमोचनं, तदत्रामृतत्वसाधनत्वात्, ऽअमृतस्यैष सेतुःऽ इति सेतुश्रुत्या संकीर्त्यते न तु द्युभ्वाद्यायतनम् ।
तत्र यदुक्तं सेतुश्रुतेर्ब्रह्मणोर्ऽथान्तरेण द्युभ्वाद्यायतनेन भाव्यमित्येतदयुक्तम् ॥ 1 ॥
fन्: अमृतस्येति श्रवणात् सेतुरिति श्रवणादिति योजना ।
सेतुरिति श्रवणादिति व्याचष्ठे- पारवान्हीति ।
संदृब्धनि संग्रथितानि ।
सामानाधिकरण्यात् विचित्र आत्मेति संबन्धः ।
विकारे ऽनृते कल्पिते अभिसंधो ऽभिमानो यस्य ।
सिनोति बध्नातीति सेतुः ।
पदार्थैकदेशो विधारणमित्यर्थः ।
मुक्तोपसृप्यव्यपदेशाच् च

1.3.3

इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम् ।
यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यते ।
मुक्तैरुपसृप्यम् मुक्तोपसृप्यम् ।
देहादिष्वनात्मस्वहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागस्तत्परिभवादौ द्वेषस्तदुच्छेददर्शनाद्भयं मोहश्चेत्येवमयमनन्तभेदो ऽनर्थव्रातः संततः सर्वेषां नः प्रत्यक्षः ।
तद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवति ।
कथम्, ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड. 2.2.8) इत्युक्त्वा ब्रवीति- ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड. 3.2.7) इति ।
ब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रे- ऽयदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्यत्र ब्रह्म समश्नुतेऽ (बृह. 4.4.7) इत्येवमादौ ।
प्रधानादीनां तु न क्वचिन्मुक्तोपसृप्यमस्ति प्रसिद्धम् ।
अपिच ऽतमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैव सेतुःऽ इति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यते ।
तच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्- ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वति ब्राह्मणः ।
नानुध्यायाद्वहूञ्शब्दान्वाचो विग्लापनं हि तत्ऽ (बृह. 4.4.21) इति ।
तस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ 2 ॥
fन्: प्रज्ञा वाक्यार्थधीः ।
ब्राह्मणपदमनुक्तद्विजोपलक्षणम् ।
नानुमानम् अतच्छब्दात्

1.3.4

यथा ब्रह्मणः प्रतिपादकः वैशेषिको हेतुरुक्तो नैवमर्थान्तरस्य वैशेषिको हेतुः प्रतिपादको ऽस्तीत्याह ।
नानुमानिकं सांख्यस्मृतिपरिकल्पितं प्रधानमिह द्युभ्वाद्यायतनत्वेन प्रतिपत्तव्यम् ।
कस्मात्, अतच्छब्दात् ।
तस्याचेतनस्य प्रधानस्य प्रतिपादकः शब्दस्तच्छब्दः, न तच्छब्दो ऽतच्छब्दः ।
न ह्यत्राचेतनस्य प्रधानस्य प्रतिपादकः कश्चिच्छब्दो ऽस्ति, येनाचेतनं प्रधानं कारणत्वेनायतनत्वेन वावगम्येत ।
तद्विपरीतस्य चेतनस्य प्रतिपादकशब्दो ऽत्रास्ति- ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड.1.1.9) इत्यादिः ।
अत एव न वायुरपीह द्युभ्वाद्यातनत्वेनाश्रीयते ॥ 3 ॥
प्राणभृच् च

1.3.5

यद्यपि प्राणभृतो विज्ञानात्मन आत्मत्वं चेतनत्वं च संभवति तथाप्युपाधिपरिच्छिन्नज्ञानस्य सर्वज्ञत्वाद्यसंभवे सत्यस्मादेवातच्छब्दात्प्राणभृदपि न द्युभ्वाद्यायतनाश्रयितव्यः ।
नचोपाधिपरिच्छिन्नस्याविभोः प्राणभृतो द्युभ्वाद्यायतनत्वमपि सम्यक्संभवति ।
पृथग्योगकरणमुत्तरार्थम् ॥ 4 ॥
कुतश्च न प्राणभृद्द्यभ्वाद्यायतनत्वेनाश्रितव्यः-
भेदव्यपदेशात्

1.3.6

भेदव्यपदेशश्चेह भवति- ऽतमेवैकं जानथ आत्मानम्ऽ इति ज्ञेयज्ञातृभावेन ।
तत्र प्राणभृत्तावन्मुमुक्षुत्वाज् ज्ञाता, परिशेषादात्मशब्दवाच्यं ब्रह्म द्युभ्वाद्यायतनमिति गम्यते, न प्राणभृत् ॥ 5 ॥
कुतश्च न प्राणभृद्द्युभ्वाद्यायतनत्वेनाश्रयितव्यः-
प्रकरणात्

1.3.7

प्रकरणं चेदं परमात्मनः ।
ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मु. 1.1.3) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात् ।
परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यान्न केवले प्राणभृति ॥ 6 ॥
कुतश्च न प्राणभृड्युभ्वाद्यायतनत्वेनाश्रयितव्यः-
स्थित्यदनाभ्यां च

1.3.8

द्युभ्वाद्यायतनं च प्रकृत्य ऽद्वा सुप्रणा सयुजा सखायाऽ (मु. 3.1.1) इत्यत्र स्थित्यदने निर्दिश्येते ।
ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽ इतिकर्मफलाशनं, ऽअनश्नन्नन्यो ऽभिचाकशीतिऽ इत्यौदासीन्येनावस्थानं च ।
ताभ्यां च स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञौ तत्र गृह्येते ।
यदि चेश्वरो द्युभ्वाद्यायतनत्वेन विवक्षितस्ततस्तस्य प्रकृतस्येश्वरस्य क्षेत्रज्ञात्पृथग्वचनमवकल्पते ।
अन्यथा ह्यप्रकृतवचनमाकस्मिकमसंबद्धं स्यात् ।
ननु तवापि क्षेत्रज्ञस्येश्वरात्पृथग्वचनमाकस्मिकमेव प्रसज्येत ।
न ।
तस्याविवक्षितत्वात् ।
क्षेत्रज्ञौ हि कर्तृत्वेन भोक्तृत्वेन च प्रतिशरीरं बुद्ध्याद्युपाधिसंबद्धो लोकत एव प्रसिजद्धो नासौ श्रुत्या तात्पर्येण विवक्ष्यते ।
ईश्वरस्तु लोकतो ऽप्रसिद्धत्वाच्छ्रुत्या तात्पर्येण विवक्ष्यत इति न तस्याकस्मिकं वचनं युक्तम् ।
ऽगुहां प्रविष्टावात्मानौ हिऽ इत्यत्राप्येतद्दर्शितं ऽद्वा सुपर्णाऽ इत्यस्यामृचीश्वरक्षेत्रज्ञावुच्येते इति ।
यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनास्यामृचि सत्त्वक्षेत्रज्ञावुच्येते तदापि न विरोधः कश्चित् ।
कथम् ।
प्राणभृद्धीह घटादिच्छिद्रवत्सत्त्वाद्युपाध्यभिमानित्वेन प्रतिशरीरं गृह्यमाणो द्युभ्वाद्यायतनं न भवतीति निषिध्यते ।
यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते न भवतीति निषिध्यते ।
यस्तु सर्वशरीरेषूपाधिभिर्विनोपलक्ष्यते परमात्मैव स भवति ।
यथा घटादिच्छिद्राणि घटादिभिरुपाधिभिर्विनोपलक्ष्यमाणानि महाकाश एव भवन्ति, तद्वत्प्राणभृतः परस्मादन्यत्वानुपपत्तेः प्रतिषेधो नोपपद्यते ।
तस्मात्सत्त्वाद्युपाध्यभिमानिन एव द्युभ्वाद्यायतनत्वप्रतिषेधः ।
तस्मात्परमेव ब्रह्म द्युभ्वाद्यायतनम् ।
तदेतत् ऽअदृश्यत्वादिगुणको धर्मोक्तेःऽ इत्यनेनैव सिद्धम् ।
तस्यैव हि भूतयोनिवाक्यस्य मध्य इदं पठितम् ऽयस्मिन्द्यौः पृथिवी चान्तरिक्षम्ऽ इति ।
प्रपञ्चार्थं तु पुनरुपन्यस्तम् ॥ 7 ॥
2 भूमाधिकरणम् । सू. 8-9
भूमा संप्रसादाद् अध्युपदेशात्

1.3.9

इदं समामनन्ति- ऽभूमा त्वेव विदिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्ऽ (छा. 7.23,24) इत्यादि ।
तत्र संशयः ।
भूमेति तावद्बहुत्वमभिधीयते, ऽबहोर्लोपो भू च बहोःऽ (पा. 6.4.158) इति भूमशब्दस्य भावप्रत्ययान्ततास्मारणात् ।
किमात्मकं पुनस्तद्बहुत्वमिति विशेषाकाङ्क्षायां ऽप्राणो वा आशाभूयान्ऽ (छा. 7.15.1) इति संनिधानात्प्राणो भूमेति प्रतिभाति ।
तथा ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि तं मा भगवाञ्शोकस्य पारं तारयतुऽ (छां. 7.1.3) इति प्रकरणोत्थानात्परमात्मा भूमेत्यपि प्रतिभाति ।
तत्र कस्योपादनं न्याय्यं कस्य वा हानमिति भवति संशयः ।
किं तावत्प्राप्तम् ।
प्राणो भूमेति ।
कस्मात् ।
भूयः प्रश्नप्रतिवचनपरंपरादर्शनात् ।
यथा हि ऽअस्ति भगवो नाम्नो भूयःऽ इति, ऽवाग्वाव नाम्नो भूयसीऽ इति ।
तथा ऽअस्ति भगवो नाम्नो भूयःऽ इति, मनो वाव वाचो भूयःऽ इति च नामादिभ्यो ह्या प्राणाद्भूयःप्रश्नप्रतिवचनप्रवाहः प्रवृत्तः ।
नैवं प्राणात्परं भूयःप्रश्नप्रतिवचनं दृश्यते ऽस्ति भगवः प्राणाद्भूय इत्यादो वाव प्राणाद्भूय इति ।
प्राणमेव तु नामादिभ्य आशान्तेभ्यो भूयासं ऽप्राणो वा आशाया भूयान्ऽ इत्यादिना सप्रपञ्चमुक्त्वा प्राणदर्शिनश्चातिवादित्वम्- ऽअतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीतऽ इत्यभ्यनुज्ञाय ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति प्राणव्रतमतिवादित्वमनुकृष्यापरित्यज्यैव प्राणं सत्यादिपरम्परया भूमानमवतारयन्प्राणमेव भूमानं मन्यन्त इति गम्यते ।
कथं पुनः प्राणे भूमनि व्याख्यायमाने ऽयत्र नान्यत्पश्यतिऽ इत्येतद्भूम्नो लक्षणपरं वचनं व्याख्यायेतेति ।
उच्यते- सुषुप्त्यवस्थायां प्राणग्रस्तेषु करणेषु दर्शनादिव्यवहारनिवृत्तिदर्शनात्संभवति प्राणस्यापि ऽयत्र नान्यत्पश्यतिऽ इत्येतल्लक्षणम् ।
तथाच श्रुतिः ऽन शृणोति न पश्यतिऽ इत्यादिना सर्वकरणव्यापारप्रत्यस्तमयरूपां सुषुप्त्यवस्थामुक्त्वा ऽप्राणाग्नय एवैतस्मिन्पुरे जाग्रतिऽ (प्र. 4.2.3) इति तस्यामेवावस्थायां पञ्चवृत्तेः प्राणस्य जागरणं ब्रुवती प्राणप्रधानां सुषुप्त्यवस्थां दर्शयति ।
यच्चैतद्भूम्नः सुखत्वं श्रुतम्- ऽयो वै भूमा तत्सुखम्ऽ (छा. 7.23) इति, तदप्यविरुद्धम् ।
ऽअत्रैष देवः स्वप्नान्न पश्यत्यथ यदेतस्मिञ्शरीरे सुखं भवतिऽ (प्र. 4.6) इति सुषुप्त्यवस्थायामेव सुखश्रवणात् ।
यच्च ऽयो वै भूमा तदमृतम्ऽ (छा. 7.24.1) इति तदपि प्राणस्याविरुद्धं, ऽप्राणो वा अमृतम्ऽ (कौ. 3.2) इति श्रुतेः ।
कथं पुनः प्राणं भूमानं मन्यमानस्य तरति शोकमात्मवित् इत्यात्मविविदिषया प्रकरणस्योत्थानमुपपद्यते ।
प्राण एवेहात्मा विवक्षित इति ब्रूमः ।
तथाहि-ऽ प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणःऽ (छा. 7.15.1) इति प्राणमेव सर्वात्मानं करोति ।
ऽयथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वं समर्पितम्ऽ इति च सर्वात्मत्वारनाभिनिदर्शनाभ्यां च संभवति वैपुल्यात्मिका भूमरूपता प्राणस्य ।
तस्मात्प्राणो भूमेत्येवं प्राप्तम् ।
तत इदमुच्यते- परमात्मैवेह भूमा भवितुमर्हति न प्राणः ।
कस्मात् ।
संप्रसादादध्युपदेशात् ।
संप्रसाद इति सुषुप्तं स्थानमुच्यते, सम्यक्प्रसीदत्यस्मिन्निति निर्वचनात् ।
बृहदारण्यके च स्वप्नजागरितस्थानाभ्यां सह पाठात् तस्यां च संप्रसादावस्थायां प्राणो जागर्तीति प्राणो ऽत्र संप्रसादो ऽभिप्रेयते ।
प्राणादूर्ध्वं भूम्न उपदिश्यमानत्वादित्यर्थः ।
प्राण एव चेद्भूमास्यात्स एव तस्मादूर्ध्वमुपदिश्येतेत्यश्लिष्टमेवैतत्स्यात् ।
नहि नामैव नाम्नो भूय इति नाम्न ऊर्ध्वमुपदिष्टम् ।
किं तर्हि नाम्नो ऽन्यदर्थान्तरमुपदिष्टं वागाख्यम्- ऽवाग्वाव नाम्नो भूयसीऽ इति ।
तथा वागादिभ्यो ऽप्या प्राणादर्थान्तरमेव तत्र तत्रोर्ध्वमुपदिष्टम् ।
तद्वत्प्राणादूर्ध्वमुपदिश्यमानो भूमा प्राणादर्थान्तरभूतो भवितुमर्हति ।
नन्विह नास्ति प्रश्नो ऽस्ति भगवः प्राणाद्भूय इति, नापि प्रतिवचनमस्ति प्राणाद्वाव भूयो ऽस्तीति, कथं प्राणादधि भूमोपदिश्यते ।
प्राणविषयमेव चातिवादित्वामुत्तरत्रानुकृष्यमाणं पश्यामः- ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति ।
तस्मान्नास्ति प्रादध्युपदेश इति ।
अत्रोच्यते- न तावत्प्राणविषयस्यैवातिवादित्वस्यैतदनुकर्षणमिति शक्यं वक्तुं, विशेषवादात् ऽयः सत्येनातिवदतिऽ इति ।
ननु विशेषवादो ऽप्ययं प्राणविषय एव भविष्यति ।
कथम् ।
यथैषो ऽग्निहोत्री यः सत्यं वदतीत्युक्ते न सत्यवदनेनाग्निहोत्रित्वं, केन तर्हि, अग्निहोत्रेणैव ।
सत्यवदनं त्वग्निहोत्रिणो विशेष उच्यते ।
तथा ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इत्युक्ते न सत्यवदनेनातिवादित्वम्, केन तर्हि, प्रकृतेन प्राणविज्ञानेनैव ।
सत्यवदनं तु प्राणविदो विशेषो विवक्ष्यत इति ।
नेति ब्रूमः ।
श्रुत्यर्थपरित्यागप्रसङ्गात् ।
श्रुत्या ह्यत्र सत्यवदनेनातिवादित्वं प्रतीयते- ऽयःसत्येनातिवदति सो ऽतिवदतिऽ इति ।
नात्र प्राणविज्ञानस्य संकीर्तनमस्ति ।
प्रकरणात्तु प्राणविज्ञानं संबध्येत ।
तत्र प्रकरणानुरोधेन श्रुतिः परित्यक्ता स्यात् ।
प्रकृतव्यावृत्त्यर्थश्च तुशब्दो न संगच्छते ऽएष तु वा अतिवदतिऽ इति ।
ऽसत्यं त्वेव विजिज्ञासितव्यम्ऽ (छा. 7.16) इति च प्रयत्नान्तरकरणमर्थान्तरविवक्षां सूचयति ।
तस्माद्यथैकवेदप्रशंसायां प्रकृतायामेष तु महाब्राह्मणो यश्चतुरो वेदानधीत इत्येकवेदेभ्योर्ऽथान्तरभूतश्चतुर्वेदः प्रशस्यते तादृगेतद्द्रष्टव्यम् ।
नच प्रश्नप्रतिवचनरूपयैवार्थान्तरविवक्षया भवितव्यमिति नियमो ऽस्ति ।
प्रकृतसंबन्धासंभवकारितत्वादर्थान्तरविवक्षायाः ।
तत्र प्राणान्तमनुशासनं श्रुत्वा तूष्णीभूतं नारदं स्वयमेव सनत्कुमारो व्युत्पादयति ।
यत्प्राणविज्ञानेन विकारानृतविषयेणातिवादित्वमनतिवादित्वमेव तत् ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति ।
तत्र सत्यमिति परं ब्रह्मोच्यते, परमार्थरूपत्वात् ।
ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै. 2.1) इति च श्रुत्यन्तरात् ।
तथा व्युत्पादिताय नारदाय ऽसो ऽहं भगवः सत्येनातिवदानिऽ इत्येवं प्रवृत्ताय विज्ञानादिसाधनपरम्परया भूमानमुपदिशति ।
तत्र यत्प्राणादधि सत्यं वक्तव्यं प्रतिज्ञातं तदेवेह भूमेत्युच्यत इति गम्यते ।
तस्मादस्ति प्राणादधि भूम्न उपदेश इत्यतः प्राणादन्यः परमात्मा भूमा भवितुमर्हति ।
एवञ्चेहात्मविविदिषया प्रकरणस्योत्थानमुपपन्नं भविष्यति ।
प्राण एवेहात्मा विवक्षित इत्येतदपि नोपपद्यते ।
नहि प्राणस्य मुख्यया वृत्त्यात्मत्वमस्ति ।
नचान्यत्र परमात्मज्ञानाच्छोकविनिवृत्तिरस्ति, ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वे. 6.15) इति श्रुत्यन्तरात् ।

ऽतं मा भगवाञ्शोकस्य पारं तारयतुऽ (छा. 7.1.3) इति चोपक्रम्योपसंहरति- ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छा. 7.26.2) इति ।
तम इति शोकादिकारणमविद्योच्यते ।
प्राणान्ते चानुशासने न प्राणस्यान्यायत्ततोच्येत ।
ऽआत्मतः प्राणःऽ (छा. 7.26.2) इति च ब्राह्मणम् ।
प्रकरणान्ते परमात्मविवक्षा भविष्यति, ऽभूमा तु प्राण एवेति चेत्ऽ न ।
ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा. 7.24.1) इत्यादिना भूम्न एवा प्रकरणसमाप्तेरनुकर्षणात् ।
वैपुल्यात्मिका च भूमरूपता सर्वकारणत्वात्परमात्मनः सुतरामुपपद्यते ॥ 8॥
fन्: व्यवहारातितं पूर्णं वस्तु भूमा ।
भगवद्दृशेभ्यो युष्मत्सदृशेभ्यः ।
देवः बुद्ध्याद्युपाधिको जीवः ।
प्रकरणात्तु संबध्येत अतिवादित्वे हेतुत्वेनेति शेषः ।
प्रयत्नान्तरं विचारः ।
विज्ञानमत्र निदिध्यासनादि ।
धर्मोपपत्तेश् च

1.3.10

अपिच ये भूम्नि श्रूयन्ते धर्मास्ते परमात्मन्युपपद्यन्ते ।
ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्वजानाति स भूमाऽ इति दर्शनादिव्यवहाराभावं भूमान्यवगमयति ।
परमात्मनि चायं दर्शनादिव्यवहाराभावो ऽवगतः ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 4.5.15) इत्यादिश्रुत्यन्तरात् ।
यो ऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः सो ऽप्यात्मन एवासङ्गत्वविवक्षयोक्तो न प्राणस्वभावविवक्षया, परमात्मप्रकरणात् ।
यदपि तस्यामवस्थायां सुखमुक्तं, तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम् ।
यत आह- ऽएषो ऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ (बृ. 4.3.32) इति ।
इहापि ऽयो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्ऽ इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति ।
ऽयो वै भूमा तदमृतम्ऽ इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयति ।
विकाराणामृतत्वस्यापेक्षिकत्वात्, ऽअतो ऽन्यदार्तम्ऽ (बृ. 3.4.2) इति च श्रुत्यन्तरात् ।
तथाच सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्त्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते नान्यत्र ।
तस्माद्भूमेति सिद्धम् ॥ 9 ॥
fन्: उक्तो न शृणोतीत्यादिना ।
आमयेन दुःखेन सहितं सामयम् ।
आर्ते नश्वरम् ।
3 अक्षराधिकरणम् । सू. 10-12
अक्षरम् अम्बरान्तधृतेः

1.3.11

ऽकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।
स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणुऽ (बृ. 3.8.7,8)इत्यादि श्रूयते ।
तत्र संशयः- किमक्षरशब्देन वर्ण उच्यते किंवा परमेश्वर इति ।
तत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् प्रसिद्ध्यतिक्रमस्य चायुक्तत्वात् ऽओङ्कार एवेदं सर्वम्ऽ (छा. 2.23.3) इत्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात्, वर्ण एवाक्षरशब्द इति, एवं प्राप्त उच्यते- पर एवात्माक्षरशब्दवाच्यः ।
कस्मात् ।
अम्बरान्तधृतेः- पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात् ।
तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्य ऽआकाश एव तदोतं च प्रोतं चऽ इत्याकाशे प्रतिष्ठितत्वमुक्त्वा ऽकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चऽ इत्यनेन प्रश्नेनेदमक्षरमवतारितम् ।
तथाचोपसंहृतम्- ऽएतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चऽ इति ।
नचेयमम्बरान्तधृतिर्ब्रह्मणो ऽन्यत्र संभवति ।
यदपि ऽओङ्कार एवेदं सर्वम्ऽ इति तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम् ।
तस्मान्न क्षरत्यश्नुते चेति नित्यत्वाव्यापितत्वाभ्यामक्षरं परमेव ब्रह्म ॥ 10 ॥
ऽस्यादेतत् कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनो ऽपीयमुपपद्यते ।
कथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिःऽ ।
अत उत्तरं पठति-
fन्: ऽरूढिर्योगमपहरतिऽ इति न्यायेनाह- प्रसिद्धीति ।
सा च प्रशासनात्

1.3.12

सा चाम्बरान्तधृतिः परमेश्वरस्यैव कर्म ।
कस्मात् ।
प्रशासनात् ।
प्रशासनं हीह श्रूयते- ऽएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ. 3.8.9) इत्यादि ।
प्रशासनं च पारमेश्वरं कर्म ।
नाचेतनस्य प्रधानस्य प्रशासनं भवति ।
न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ 11 ॥
अन्यभावव्यावृत्तेश्च

1.3.13

अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् ।
तस्यैवाम्बरान्तधृतिः कर्म नान्यस्य कस्य चित् ।
किमिदमन्यभावव्यावृत्तेरिति ।
अन्यस्य भावो ऽन्यभावस्यस्माद्व्यावृत्तिरन्यभावव्यावृत्तिरिति ।
एतदुक्तं भवति-
यदन्यद्ब्रह्मणो ऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावादिदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिः- ऽतद्वा एतदक्षरं गार्ग्यदृष्टं दष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृऽ (बृ. 3.8.11) इति ।
तत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि संभवति ।
द्रष्टृत्वादिव्यपदेशस्तु न संभवत्यचेनत्वात् ।
तथा ऽनान्यदतो ऽस्ति द्रष्टृ नान्यदतोस्ति श्रोतृ नान्यदतो ऽस्ति मन्तृ नान्यदतो ऽस्ति विज्ञातृऽ इत्यात्मभेदप्रतिषेधात् न शारीरस्याप्युपाधिमतो ऽक्षरशब्दवाच्यत्वम् ।
ऽअचक्षुष्कमश्रोत्रमवागमनःऽ (बृ. 3.8.8) इति चोपाधिमत्ताप्रतिषेधात् ।
नहि निरुपाधिकः शारीरो नाम भवति ।
तस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ 12 ॥
4 ईक्षतिकर्मव्यपदेशाधिकरणम् । सू. 13
ईक्षतिकर्मव्यपदेशात् सः

1.3.14

ऽएतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति इति प्रकृत्य श्रूयते- ऽयः पुनरेतं त्रिमात्रेणोमिथ्येतेनैवाक्षरेण परं पुरुषमभिध्यायीतऽ (प्र. 5.2,5) इति ।
किमस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुदिश्यत आहोस्विदपरमिति ।
एतेनैवायतनेन परमपरं चैकतरमन्वेतीति प्रकृतत्वात्संशयः ।
तत्रापरमिदं ब्रह्मेति प्राप्तम् ।
कस्मात् ।
ऽस तेजसि सूर्ये संपन्नःऽऽ ऽस सामभिरुन्नीयते ब्रह्मलोकम्ऽ इति च तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात् ।
नहि परब्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तम्, सर्वगतत्वात्परस्य ब्रह्मणः ।
नन्वापरब्रह्मपरिग्रहे परं पुरुषमिति विशेषणं नोपपद्यते ।
नैष दोषः ।
पिण्डापेक्षया प्राणस्य परत्वोपपत्तेः ।
इत्येवं प्राप्ते ऽभिधीयते- परमेव ब्रह्मेहाभिध्यातव्यमुपदिश्यते ।
कस्मात् ।
ईक्षतिकर्मव्यपदेशात् ।
ईक्षतिर्दर्शनम् ।
दर्शनव्याप्यमीक्षतिकर्मा ।
ईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति- ऽस एतस्माज्जीवघनात्परात्परं पुरिशयं पुरषमीक्षतेऽ इति ।
तत्राभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति ।
मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात् ।
ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टमित्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यदिष्ट इति गम्यते ।
स एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायते ।
नन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परः, कथमितर इतरत्र प्रत्यभिज्ञायत इति ।
अत्रोच्यते- परपुरुषशब्दौ तावदुभयत्र साधारणौ ।
नचात्र जीवनघनशब्देन प्रकृतो ऽभिध्यातव्यः परः पुरुषः परामृश्यते, येन तस्मात्परात्परो ऽयमीक्षितव्यः पुरुषो ऽन्यः स्यात् ।
कस्तर्हि जीवघन इति ।
उच्यते- घनो मूर्तिः ।
जीवलक्षणो घनो जीवघनः ।
सैन्धवखिल्यवद्यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश्च विषयेन्द्रियेभ्यः सो ऽत्र जीवघन इति ।
अपर आह- ऽस सामभिरुन्नीयते ब्रह्मलोकम्ऽ इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः सो ऽत्रजीवघन इत्युच्यते ।
जीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि संघातोपपत्तेर्भवति ब्रह्मलोको जीवघनः ।
तस्मात्परो यः परमात्मेक्षणकर्मभूतः स एवाभिध्याने ऽपि कर्मभूत इति गम्यते ।
परं पुरुषमिति च विशेषणं परमात्मपरिग्रह एवावकल्पते ।
परो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चिदन्यन्नास्ति, ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ इति च श्रुत्यन्तरात् ।
ऽपरं चापरं च ब्रह्म यदोङ्कारःऽ इति च विभज्यानन्तरमोङ्कारेण परं पुरुषमभिध्यातव्यं ब्रुवन्परमेव ब्रह्मपरं पुरुषं गमयति ।
ऽयथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुच्यतेऽ इति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयति ।
अथ यदुक्तं परमात्माभिध्यायिनो न देशपरिच्छिन्नफलं युज्यत इति ।
अत्रोच्यते- त्रिमात्रेणोङ्कारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः क्रमेण च सम्यग्दर्शनोत्पत्तिरिति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः ॥ 13 ॥
fन्: परं निर्विशेषम्, अपरं कार्यं, आयतनेन प्राप्तिसाधनेन, अन्वेति प्राप्नोति ।
अपरं ब्रह्म हिरण्यगर्भः ।
पिण्डः स्थूलो विराट् तदपेक्षया सूत्रस्य परत्वम्ति समाध्यर्थः ।
व्याप्यं विषयः ।
सैन्धवाखिल्यो लवणपिण्डः, खिल्यभावो ऽल्पत्वम् ।
पादोदरः सर्पः ।
5 दहराधिकरणम् । सू. 14-21
दहर उत्तरेभ्यः

1.3.15

ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्भाव विजिज्ञासितव्यम्ऽ ।
(छा. 8.1.1) इत्यादिवाक्यं समाम्नायते ।
तत्र यो ऽयं दहरे हृदयपुण्रीके दहर आकाशः श्रुतः स किं भूताकाशो ऽथवा विज्ञानात्माऽथवा परमात्मेति संशय्यते ।
कुतः संशयः ।
आकाशब्रह्मपुरशब्दाभ्याम् ।
आकाशशब्दो ह्ययं भूताकाशे परस्मिंश्च प्रयुज्यमानो दृश्यते ।
तत्र किं भूताकाश एव दहरः स्यात्किंवा पर इति संशयः ।
तथा ब्रह्मपुरमिति किं जीवो ऽत्र ब्रह्मनामा तस्येदं पुरं शरीरं ब्रह्मपुरमथवा परस्यैव ब्रह्मणः पुरं ब्रह्मपुरमिति ।
तत्र जीवस्य परस्य वान्यतरस्य पुरस्वामिनो दहराकाशत्वे संशयः ।
तत्राकाशशब्दस्य भूताकाशे रूढत्वाद्भूताकाश एव दहरशब्द इति प्राप्तम् ।
तस्य च दहरायतनापेक्षया दहरत्वम् ।
ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हदय आकाशःऽ इति च बाह्यायन्तरभावकृतभेदस्योपमानोपमेयभावः द्यावापृथिव्यादि च तस्मिन्नन्तः समाहितं, अवकाशात्मनाकाशस्यैकत्वात् ।
अथवा जीवो दहर इति प्राप्तम्, ब्रह्मपुरशब्दात् ।
जीवस्य हीदं पुरं सच्छरीरं ब्रह्मपुरमित्युच्यते ।
तस्य स्वकर्मणोपार्जितत्वात् ।
भक्त्या च तस्य ब्रह्मशब्दवाच्यत्वम् ।
नहि परस्य ब्रह्मणः शरीरेण स्वस्वामिभावः संबन्धो ऽस्ति ।
तत्र पुरस्वामिनः पुरैकदेशे ऽवस्थानं दृष्टं यथा राज्ञः ।
मनौपाधिकश्च जीवः, मनश्च प्रायेण हृदये प्रतिष्ठितमित्यतो जीवस्यैवेदं हृदये ऽन्तरवस्थानं स्यात् ।
दहरत्वमपि तस्यैव आराग्रोपमितत्वादवकल्पते ।
आकाशोपमितत्वादि च ब्रह्माभेदविवक्षया भविष्यति ।
नचात्र दहरस्याकाशस्यान्वेष्यत्वं विजिज्ञासितव्यत्वं च श्रूयते ।
ऽतस्मिन्यदन्तःऽ इति परविशेषणत्वेनोपादानादिति ।
अत उत्तरं ब्रूमः- परमेश्वर एवात्र दहराकाशो भवितुमर्हति न भूताकाशो जीवो वा ।
कस्मात् ।
उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः ।
तथाहि- अन्वेष्टव्यतया विहितस्य दहरस्याकाशस्य ऽतं चेद्ब्रूयुःऽ इत्युपक्रम्य ऽकिं तदत्र विद्यते यदन्वेष्टव्यं यद्भाव विजिज्ञासितव्यम्ऽ इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति ।
ऽस ब्रूयाद्यवान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहितेऽ (छा. 8.1.3) इत्यादि ।
तत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन्भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यते ।
यद्यप्याकाशशब्दो भूताकाशे रूढस्तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवति ।
नन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः संभवतीत्युक्तम् ।
नैवं संभवति ।
अगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम् ।
अपिच कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य न बाह्याकाशपरिमाणत्वमुपपद्येत ।
ननु परमेश्वरस्यापि ऽज्यायानाकाशात्ऽ (शत. ब्रा. 10.6.6.2) इति श्रुत्यन्तरान्नैवाकाशपरिमाणत्वमुपपद्यते ।
नैष दोषः ।
पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य न तावत्त्वप्रतिपादनपरत्वम् ।
उभयप्रतिपादने हि वाक्यं भिद्येत ।
नच कल्पितभेदे पिण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तःसमाधानमुपपद्यते ।
ऽएष आत्मापहतपाप्मा विजरो विमृत्युर्वीशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पःऽ इति चात्मत्वापहतपाप्मत्वादयश्च गुणा न भूताकाशे संभवन्ति ।
यद्यप्यात्मशब्दो जीवे संभवति तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति ।
नह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्ठनकृतं दहरत्वं शक्यं निवर्तयितुम् ।
ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत् ।
यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादिविवक्ष्यतामिति युक्तम् ।
यदप्युक्तं ब्रह्मपुरमिति जीवेन परस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्विति ।
अत्र ब्रूमः- परस्यैवेदं ब्रह्मणः पुरं सच्छरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात् ।
तस्याप्यस्ति पुरेणानेन संबन्धः, उपलब्ध्यधिष्ठानत्वात् ।
ऽस एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षतेऽ (प्रं 5.5) ऽस वा अयं पुरुषः सर्वासु पूर्षु पुरिशयःऽ (बृ. 2.5.18) इत्यादिश्रुतिभ्यः ।
अथवा जीवपुर एवास्मिन्ब्रह्म संनिहितमुपलक्ष्यते ।
यथा शालग्रामे विष्णः संनिहित इति तद्वत् ।
ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ (छा. 8.1.6) इति च कर्मणामन्तवत्फलमुक्त्वा ऽअथ य इहात्मानमनुविद्य व्रजत्येतांश्च सत्यान्कामान्स्तेषां सर्वेषु लोकेषु कामचारो भवतिऽ इति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन्परमात्मत्वमस्य सूचयति ।
यदप्येतदुक्तं, न दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यं च श्रुतं, परविशेषणत्वेनोपादानादिति अत्र ब्रूमः- यद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात् ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हदय आकाशःऽ इत्याद्याकाशस्वरूपप्रदर्शनं नोपयुज्यते ।
नन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते ।
ऽतं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्भाव विजिज्ञासितव्यम्ऽ इत्याक्षिप्य परिहारावसर आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वदर्शनात् ।
नैतदेवम् ।
एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्त स्यात् ।
तत्र वाक्यशेषो नोपपद्येत ।
ऽअस्मिन्कामाः समाहिताःऽ ऽएष आत्मापहतपाप्माऽ इति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ऽअथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्ऽ इति समुच्चयार्थेन चशब्देनात्मानं कामाधाराश्रितांश्च कामान्विज्ञेयान्वाक्यशेषो दर्शयति ।
तस्माद्वाक्योपक्रमे ऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते ।
स चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ 14 ॥
fन्: ब्रह्मपुरं शरीरं, दहरं सूक्ष्मं, पुण्डरीकं तदाकारत्वात्प्रकृतं हृदयमेव ।
तत्र परस्य संनिधेर्वेश्मशब्दः ।
भक्त्या चैतन्यगुणयोगेन ।
विगता जिघत्सा जग्धुमिच्छा यस्य ।
बभुक्षाशून्य इत्यर्थः ।
दहरत्वं अल्पत्वम् ।
आदिपदं सर्वाधारत्वादिसंग्रहार्थम् ।
पूर्षु शरीरेषु, पुरि हृदये वा शेते इति पुरुषः ।
अनुविद्य ध्यायेनानुभूय ।
समाहिताः प्रतिष्ठिताः ।
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च

1.3.16

दहरः परमेश्वर उत्तरेभ्यो हेतुभ्य इत्युक्तम् ।
त एवोत्तरे हेतव इदानीं प्रपञ्च्यन्ते ।
इतश्च परमेश्वर एव दहरः, यस्माद्दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः- ऽइमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽ (छा. 8.3.2) इति ।
तत्र प्रकृतं दहरं ब्रह्मलोकशब्देनाभिधाय तद्विषया गतिः प्रजाशब्दवाच्यानां जीवानामभिधीयमाना दहरस्य ब्रह्मतां गमयति ।
तथा ह्यहरहर्जीवानां सुषुप्तवस्थायां ब्रह्मविषयं गमनं दृष्टं श्रुत्यन्तरे- ऽसता सोम्य तदा संपन्नो भवतिऽ (छा. 6.8.1) इत्येवमादौ ।
लोके ऽपि किल गाढं सुषुप्तमाचक्षते ब्रह्मीभूतो ब्रह्मतां गत इति ।
तथा ब्रह्मलोकशब्दो ऽपि प्रकृते दहरे प्रयुज्यमानो जीवभूताकाशशङ्कां निवर्तयन्ब्रह्मतामस्य गमयति ।
ननु कमलासनलोकमपि ब्रह्मलोकशब्दो गमयेत् ।
गमयेद्यदि ब्रह्मणो लोक इति षष्ठीसमासवृत्त्या व्युत्पाद्येत ।
सामानाधिकरणवृत्त्या तु व्युत्पाद्यमानो ब्रह्मैव लोको ब्रह्मलोक इति परमेव ब्रह्म गमयिष्यति ।
एतदेव चाहरर्ब्रह्मलोकगमनं दृष्टं ब्रह्मशब्दस्य सामानाधिकरण्यवृत्तिपरिग्रहे लिङ्गम् ।
नह्यहरहरिमाः प्रजाः कार्यब्रह्मलोकं सत्यलोकाख्यं गच्छन्तीति शक्यं कल्पयितुम् ॥ 15 ॥
धृतेश् च महिम्नो ऽस्यास्मिन्न् उपलब्धेः

1.3.17

धृतेश्च हेतोः परमेश्वर एवायं दहरः ।
कथम् ।
ऽदहरो ऽस्मिन्नन्तराकाशःऽ इति हि प्रकृत्याकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तां स्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदुश्य तमेवानतिवृत्तप्रकरणं निर्दिशति- ऽअथ य आत्मा स सेतुर्विधृतिरेषलोकानामसंभेदायऽ (छा. 8.4.1) इति ।
तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते, क्तिचः कर्तरि स्मरणात् ।
यथोदकसंतानस्य विधारयिता लोके सेतुः क्षेत्रसंपदामसंभेदाय, एवमयमात्मात्मैषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारिता सेतुरसंभेदायासंकरायेति ।
एवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयति ।
अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते ऽएतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ इत्यादेः ।
तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते- ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ इति ।
एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ 16 ॥
fन्: सेतुरसंकरहेतुः ।
प्रसिद्धेश् च

1.3.18

इतश्च परमेश्वर एव ऽदहरो ऽस्मिन्नन्तराकाशःऽ इत्युच्यते ।
यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः ।
ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ (छा. 8.1.4), ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ (छा. 1.9.1) इत्यादिप्रयोगदर्शनात् ।
जीवे तु न क्वचिदाकाशशब्दः प्रयुज्यमानो दृश्यते ।
भूताकाशस्तु सत्यामप्याकाशशब्दप्रसिद्धावुपमानोपमेयभावाद्यसंभवान्न ग्रहीतव्य इत्युक्तम् ॥ 17 ॥
fन्: आ समान्तात्काशते दीप्यत इत्याकाशः स्वयञ्ज्योतिरीश्वरः ।
इतरपरामर्शात् स इति चेन् नासंभवात्

1.3.19

यदि वाक्यशेषबलेन दहर इति परमेश्वरः परिगृह्येतास्तीतरस्यापि जीवस्य वाक्यशेषे परामर्शः - ऽअथ य एष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचऽ (छा. 8.3.4) इति ।
अत्र हि संप्रसादशब्दः श्रुत्यन्तरे सुषुप्तावस्थायां दृष्टत्वात्तदवस्थावन्तं जीवं शक्नोत्युपस्थापयितुं नार्थान्तरम् ।
तथा शरीरव्यपाश्रयस्येव जीवस्य शरीरात्समुत्थानं संभवति ।
यथाकाशव्यपाश्रयाणां वाय्वादीनामाकाशात्समुत्थानं तद्वत् ।
यथा चादृष्टो ऽपि लोके परमेश्वरविषय आकाशशब्दः परमेश्वरधर्मसमभिव्याहारात् ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ इत्येवमादौ परमेश्वरविषयो ऽभ्युपगत एवं जीवविषयो ऽपि भविष्यति ।
तस्मादितरपरामर्शात् ऽदहरो ऽस्मिन्नन्तराकाशऽ इत्यत्र स एव जीव उच्यते इति चेत् ।
नैतदेवं स्यात् ।
कस्मात्. असंभवात् ।
नहि जीवो बुद्ध्याद्युपाधिपरिच्छेदाभिमानी सन्नाकाशेनोपमीयेत ।
नचोपाधिधर्मानभिमन्यमानस्यापहतपाप्मत्वादयो धर्माः संभवन्ति ।
प्रपञ्चितं चैतत्प्रथमसूत्रे ।
अतिरेकाशङ्कापरिहारायात्र तु पुनरुपन्यस्तम् ।
पठिष्यति चोपरिष्टात् ऽअन्यार्थश्च परामर्शःऽ (ब्र. 1.3.20) इति ॥ 18 ॥
fन्: सम्यक्प्रसीदत्यस्मिञ्जीवो विषयेन्द्रियसंयोगजनितं कालुष्यं जहातीति सुषुप्तिः संप्रसादो जीवस्यावस्थाभेदः ।
ऽसंप्रसादे रत्वा चरित्वाऽ इति बृहदारण्यकस्थं श्रुत्यन्तरम् ।
उपाधिधर्माः पाप्मादयः ।
उत्तराच् चेद् आविर्भूतस्वरूपस् तु

1.3.20

इतरपरामर्शाद्या जीवाशङ्का जाता सासंभवान्निराकृता ।
अथेदानीं मृतस्येवामृतसेकात्पुनः समुत्थानं जीवाशङ्कायाः क्रियते उत्तरस्मात्प्रजापत्याद्वाक्यात् ।
तत्रहि ऽय आत्मापहतपाप्माऽ इत्यपहतपाप्मत्वादिगुणकमात्मानमन्वेष्टव्यं विजिज्ञासितव्यं च प्रतिज्ञाय ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्माऽ
(छा. 8.7.4) इति ब्रुवन्नक्षिस्थं द्रष्टारं जीवमात्मानं निर्दिशति ।
ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. 8.9.3) इति च तमेव पुनः पुनः परामृश्य ऽय एष स्वप्ने महीयमानश्चरत्येष आत्माऽ (छा. 8.10.1) इति ऽतद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्माऽ इति च जीवमेवावस्थान्तरगतं व्याचष्टे ।
तस्यैव चापहतपाप्मत्वादि दर्शयति- ऽएतदमृतमभयमेतद्ब्रह्मऽ इति ।
नाहं खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानिऽ (छा. 8.11.1,2) इति च सुषुप्तावस्थायां दोषमुपलभ्य ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् इति चोपक्रम्य शरीरसंबन्धनिन्दापूर्वकं ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ इति जीवमेव शरीरात्समुत्थितमुत्तमपुरुषं दर्शयति ।
तस्मादस्ति संभवो जीवे पारमेश्वराणां धर्माणाम् ।
अतः ऽदहरो ऽस्मिन्नन्तराकाशःऽ इति जीव एवोक्त इति चेत्कश्चिद्ब्रूयात्, तं प्रति ब्रूयात्- ऽआविर्भूतस्वरूपस्तुऽ इति ।
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थः ।
नोत्तरस्मादपि वाक्यादिह जीवस्याशङ्का संभवतीत्यर्थः ।
कस्मात् ।
यतस्तत्राप्याविर्भूतस्वरूपो जीवो विवक्ष्यते ।
आविर्भूतं स्वरूपमस्येत्याविर्भूतस्वरूपः ।
भूतपूर्वगत्या जीववचनम् ।
एतदुक्तं भवति- ऽय एषो ऽक्षिणि इत्यक्षिलक्षितं द्रष्टारं निर्दिश्योदशरावब्राह्मणेनैनं शरीरात्मताया व्युत्थाप्य ऽएतं त्वेव तेऽ इति पुनःपुनस्तमेव व्याख्यायेयत्वेनाकृष्य स्वप्नसुषुप्तोपन्यासक्रमेण ऽपरं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ इति यदस्य पारमार्थिकं स्वरूपं परं ब्रह्म तद्रूपतयैनं जीवं व्याचष्टे न जैवेन रूपेण ।
यत्परं ज्योतिरूपसंपत्तव्यं श्रुतं तत्परं ब्रह्म ।
तच्चापहतपाप्मत्वादिधर्मकं, तदेव च जीवस्य पारमार्थिकं स्वरूपं ऽतत्त्वमसिऽ इत्यादिशास्त्रेभ्यः, नेतरदुपाधिकल्पितम् ।
यावदेव हि स्थाणाविव पुरुषबुद्धिं द्वैतलक्षणामविद्यां निवर्तयन्कूटस्थनित्यदृक्स्वरूपमात्मानमहं ब्रह्मास्मीति न प्रतिपद्यते तावज्जीवस्य जीवत्वम् ।
यदा तु देहेन्द्रियमनोबुद्धिसंघाताद्व्युत्थाप्य श्रुत्या प्रतिबोध्यते, नासि त्वं देहेन्द्रियमनोबुद्धिसंघातः, नासि संसारी, किं तर्हि तद्यत्सत्यं स आत्मा चैतन्यमात्रस्वरूपस्तत्त्वमसीति, तदा कूचस्थनित्यदृक्स्वरूपमात्मानं प्रतिबुदध्यास्माच्छरीराद्यभिमानात्समुत्तिष्ठन्स एव कूटस्थनित्यदृक्स्वरूप आत्मा भवति ।
ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड. 3.2.1) इत्यादिश्रुतिभ्यः ।
तदेव चास्य पारमार्थिकं स्वरूपं येन शरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते ।
कथं पुनः स्वं च रूपं स्वेनैव निष्पद्यत इति संभवति कूटस्थनित्यस्य सुवर्णादीनां तु द्रव्यान्तरसंपर्कादभिभूतस्वरूपाणामनभिव्यक्तासाधारणविशेषाणां क्षारप्रक्षेपादिभिः शोध्यमानानां स्वरूपेणाभिनिष्पत्तिः स्यात् ।
तथा नक्षत्रादीनामहन्यभिभूतप्रकाशानामभिभावकवियोगे रात्रौ स्वरूपेणाभिनिष्पत्तिः स्यात् ।
नतु तथात्मचैतन्यज्योतिषो नित्यस्य केनचिदभिभवः संभवत्यसंसर्गित्वाद्व्योम्न इव, दृष्टविरोधाच्च ।
दृष्टिश्रुतिमतिविज्ञातयो हि जीवस्य स्वरूपम् ।
तच्च शरीरादसमुत्थितस्यापि जीवस्य सदा निष्पन्नमेव दृश्यते ।
सर्वो हि जीवः पश्यन्शृण्वन्मन्वानो विजानन्व्यवहरत्यन्यथा व्यवहारानुपपत्तेः ।
तच्चेच्छरीरात्समुत्थितस्य निष्पद्येत प्राक्समुत्थानाद्दृष्टो व्यवहारो विरुध्येत ।
अतः किमात्मकमिदं शरीरात्समुत्थानं, किमात्मिका वा स्वरूपेणाभिनिष्पत्तिरिति ।
अत्रोच्यते- प्राग्विवेकविज्ञानोत्पत्तेः शरीरेन्द्रियमनोबुद्धिविषयवेदनोपाधिभिरविविक्तमिव जीवस्य दृष्ट्यादिज्योतिःस्वरूपं भवति ।
यथा शुद्धस्य स्फटिकस्य स्वाच्छ्यं शौक्ल्यं च स्वरूपं प्राग्विवेकग्रहणाद्रक्तनीलाद्युपाधिभिरविविक्तमिव भवति ।
प्रमाणजनितविवेकग्रहणात्तु पराचीनः स्फटिकः स्वाच्छ्येन शौक्ल्येन च स्वेनरूपेणाभिनिष्पद्यत इत्युच्यते प्रागपि तथैव सन् ।
तथा देहाद्युपाध्यविविक्तस्यैव सतो जीवस्य श्रुतिकृतं विवेकविज्ञानं शरीरात्समुत्थानं विवेकविज्ञानफलं स्वरूपेणाभिनिष्पत्तिः केवलात्मस्वरूपावगतिः ।
तथा विवेकाविवेकमात्रेणैवात्मनो ऽशरीरत्वं सशरीरत्वं च, मन्त्रवर्णात् ऽअशरीरं शरीरेषुऽ (का. 1.2.22) इति, ऽशरीरस्थो ऽपि कौन्तेय न करोति न लिप्यतेऽ (गी.13.31) इति च सशरीरत्वाशरीरत्वविशेषाभावस्मरणात् ।
तस्माद्विवेकविज्ञानाभावादनाविर्भूतस्वरूपः सन्विवेकविज्ञानादाविर्भूतस्वरूप इत्युच्यते ।
नत्वान्यादृशावाविर्भावानाविर्भावौ स्वरूपस्य संभवतः स्वरूपत्वादेव ।
एवं मिथ्याज्ञानकृत एव जीवपरमेश्वरयोर्भेदो न वस्तुकृतः, व्योमवदसङ्गत्वाविशेषात् ।
कुतश्चिदेवं प्रतिपत्तव्यम् ।
यतो ऽय एषो ऽक्षिणि पुरुषो दृश्यतेऽ इत्युपदिश्य ऽएतदमृतमभयमेतद्ब्रह्मऽ इत्युपदिशति ।
यो ऽक्षिणि प्रसिद्धो द्रष्टा द्रष्टृत्वेन विभाव्यते सो ऽमृताभयलक्षणाद्ब्रह्मणो ऽन्यश्चेत्स्यात्ततो ऽमृताभयब्रह्मसामानाध् इकरण्यं न स्यात् ।
नापि प्रतिच्छायात्मायमक्षिलक्षितो निर्दिश्यते, प्रजापतेर्मृषावादित्वप्रसङ्गात् ।
तथा द्वितीये ऽपि पर्याये ऽय एषः स्वप्ने महीयमानश्चरतिऽ इति न प्रथमपर्यायनिर्दिष्टादक्षिपुरुषाद्द्रष्टुरन्यो निर्दिष्टः, ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ इत्युपक्रमात् ।
किञ्चाहमद्य स्वप्ने हस्तिनमद्राक्षं नेदानीं तं पश्यामीति दृष्टमेव प्रतिबुद्धः प्रत्याचष्टे ।
द्रष्टारं तु तमेव प्रत्यभिजानाति य एवाहं स्वप्नमद्राक्षं स एवाहं जागरितं पश्यमीति ।
तथा तृतीये ऽपि पर्याये ऽनहि खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि इति सुषुप्तावस्थायां विशेषविज्ञानाभावमेव दर्शयति न विज्ञातारं प्रतिषेधति ।
यत्तु तत्र ऽविनाशमेवापीतो भवतिऽ इति तदपि विशेषविज्ञानविनाशाभिप्रायमेव न विज्ञातृविनाशाभिप्रायम् ।
ऽनहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ऽविनाशित्वात्ऽ (बृ. 4.3.30) इति श्रुत्यन्तरात् ।
तथा चतुर्थे ऽपि पर्याये ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात्ऽ इत्युपक्रम्य ऽमघवन्मर्त्यं वा इदं शरीरम्ऽ इत्यादिना प्रपञ्चेन शरीरादुपाधिसंबन्धप्रत्याख्यानेन संप्रसादशब्दोदितं जीवं ऽस्वेन रूपेणाभिनिष्पद्यतेऽ इति ब्रह्मस्वरूपापन्नं दर्शयन्न परस्माद्ब्रह्मणो ऽमृताभयस्वरूपादन्यं जीवं दर्शयति ।

केचित्तु परमात्मविवक्षायां ऽएतं त्वेव तेऽ इति जीवाकर्षणमन्याय्यं मन्यमाना एतमेव वाक्योपक्रमसूचितमपहतपाप्मत्वादिगुणकमात्मानं ते भूयो ऽनुव्याख्यास्यामीति कल्पयन्ति ।
तेषामेतमिति संनिहितावलम्बिनी सर्वनामश्रुतिर्विप्रकृष्येत ।
भूयःश्रुतिश्चोपरुध्येत, पर्यायान्तराभिहितस्य पर्यायान्तरे ऽनभिधीयमानत्वात् ।
ऽएतं त्वेव तेऽ इति च प्रतिज्ञाय प्राक्चतुर्थात्पर्यायादन्यमन्यं व्याचक्षाणस्य प्रजापतेः प्रतारकत्वं प्रसज्येत ।
तस्माद्यदविद्याप्रत्युपस्थापितपारमार्थिकं जैवं रूपं कर्तृभोक्तृरागद्वेषादिदोषकलुषितमनेकानर्थयोगि तद्विलयनेन तद्विपरीतमपहतपाप्मत्वादिगुणकं पारमेश्वरं स्वरूपं विद्यया प्रतिपाद्यते, सर्पादिविलयनेनेव रज्ज्वादीन् ।
अपरे तु वादिनः पारमार्थिकमेव जैवं रूपमिति मन्यन्ते ऽस्मदीयाश्च केचित् ।
तेषां सर्वेषामात्मैकत्वसम्यग्दर्शनप्रतिपक्षभूतानां प्रतिबोधायेदं शारीरकमारब्धम् ।
एक एव परमेश्वरः कूटस्थनित्यो विज्ञानधातुरविद्यया मायया मायाविवदनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति ।
यत्त्विदं परमेश्वरवाक्ये जीवमाशङ्ख्य प्रतिषेधति सूत्रकारः - ऽनासंभवात्ऽ (ब्र.1.3.18) इत्यादिना ।
तत्रायमभिप्रायः - नित्यशुद्धबुद्धमुक्तस्वभावे कूटस्थनित्ये एकस्मिन्नसङ्गे परमात्मनि तद्विपरीतं जैवं रूपं व्योम्नीव तलमलादिपरिकल्पितम् ।
तदात्मैकत्वप्रतिपादनपरैर्वाक्यैर्न्यायोपेतैर्द्वैतवादप्रतिषेधैश्चापनेष्यामीति परमात्मनो जीवादन्यत्वं द्रढयति ।
जीवस्य तु न परस्मादन्यत्वं प्रतिपिपादयिषति किं त्वनुवदत्येवाविद्याकल्पितं लोकप्रसिद्धं जीवभेदम् ।
एवं हि स्वाभाविककर्तृत्वभोक्तृत्वानुवादेन प्रवृत्ताः कर्मविधयो न विरुध्यन्त इति मन्यते ।
प्रतिपाद्यं तु शास्त्रार्थमात्मैकत्वमेव दर्शयति- ऽशास्त्रदृष्ट्या तूपदेशो वामदेववत्ऽ (ब्र. 1.1.30) इत्यादिनावर्णिश्चास्माभिर्विद्वद्भेदेन कर्मविधिविरोधपरिहारः ॥ 19 ॥
महीयमानो वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, तद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः ।
अहेति निपातः खेदे ।
एतस्मात्प्रकृतादात्मनो ऽन्यत्र अन्यम् ।
उदशरावेति उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तः श्रुत्यर्थः ।
व्युत्थाप्य विचार्य ।
अभिनिष्पद्यत इत्यत्र एतदुक्तं भवतीति संबन्धः ।
अभिभावकः सौरालोकास्तद्वियोगे ।
वेदना हर्षशोकादयः ।
विवेकविज्ञानं त्वंपदार्थशोधनम् ।
अन्यादृशौ सत्यौ ।
अंशादिशून्यत्वमसङ्गत्वम् ।
अयं सुषुप्तः, संप्रति सुषुप्तौ, अहं आत्मानं अहङ्कारास्पदमात्मानं न जानाति ।
नहीति आत्मानः स्वभावभूतविज्ञाप्तेर्नान्यथाभावो योग्यत्वादित्यर्थः ।
विलयनेन शोधनेन ।
विद्यया महावाक्येन ।
वाक्यानि तत्त्वमस्यादीनि जीवब्रह्मणोश्चैतन्याविशेषात्तदाकारेणाकारान्तरेण वा भेदायोगो न्यायः ।
नेहनानेनेत्यादयो द्वैतवादनिषेधाः ।
अन्यार्थश् च परामर्शः

1.3.21

अथ यो दहरवाक्यशेषे जीवपरामर्शो दर्शितः - ऽअथ य एष संप्रसादःऽ (छा. 8.3.4) इत्यादि, स दहरे परमेश्वरे व्याख्यायमाने न जीवोपासनोपदेशो न प्रकृतविशेषोपदेश इत्यर्थकत्वं प्राप्नोतीति ।
अत आह- अन्यार्थो ऽयं जीवपरामर्शौ न जीवस्वरूपपर्यवसायी किं तर्हि परमेश्वरस्वरूपपर्यवसायी ।
कथम् ।
संप्रसादशब्दोदितो जीवो जागरितव्यवहारे देहेन्द्रियपञ्जराध्यक्षो भूत्वा तद्वासनानिर्मितांश्च स्वप्नान्नाडीचरो ऽनुभूय श्रान्तः शरणं प्रेप्सुरुभयरूपादपि शरीराभिमानात्समुत्थाय सुषुप्तावस्थायां परं ज्योतिराकाशशब्दितं परं ब्रह्मोपसंपद्य विशेषविज्ञानवत्त्वं च परित्यज्य स्वेन रूपेणाभिनिष्पद्यते ।
यदस्योपसंपत्तव्यं परं ज्योतिर्येन स्वेन रूपेणायमभिनिष्पद्यते स एष आत्मापहतपाप्मत्वादिगुण उपास्य इत्येवमर्थो ऽयं जीवपरामर्शः परमेश्वरवादिनो ऽप्युपपद्यते ॥ 20 ॥
अल्पश्रुतेर् इति चेत् तद् उक्तम्

1.3.22

यदप्युक्तम्, ऽदहरो ऽस्मिन्नन्तराकाशःऽ इत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य त्वाराग्रोपनिमितस्याल्पत्वमवकल्पत इति तस्य परिहारो वक्तव्यः ।
उक्तो ह्यस्य परिहारः परमेश्वरस्यापेक्षिकमल्पत्वमवकल्पत इति ऽअर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्चऽ (ब्र. 1.2.7) इत्यत्र ।
स एवेह परिहारो ऽनुसंधातव्य इति सूचयति ।
श्रुत्यैव चेदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानया ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाशःऽ इति ॥ 21 ॥
6 अनुकृत्यधिकरणम्. सू. 22-23
अनुकृतेस् तस्य च

1.3.23

ऽन तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयमाग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ (मु. 2.210) इति समामनन्ति ।
यत्र यं भान्तमनुभाति सर्वं यस्य च भासा सर्वमिदं विभाति स किं तेजोधातुः कश्चिदुत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् ।
कुतः, तेजोधातूनामेव सुर्यादीनां भानप्रतिषेधात् ।
तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सुर्यो भासमाने ऽहनि न भासत इति प्रसिद्धम् ।
तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते सो ऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यते ।
अनुभानमपि तेजःस्वभावक एवो ऽपपद्यते, समानस्वभावकेष्वनुकारदर्शनात् ।
गच्छन्तमनुगच्छतीतिवत् ।
तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः - प्राज्ञ एवात्मा भवितुमर्हति ।
कस्मात् ।
अनुकृतेः ।
अनुकरणमनुकृतिः ।
यदेतत् ऽतमेव भान्तमनुभाति सर्वम्ऽ इत्यनुभानं, तत्प्राज्ञपरिग्रहे ऽवकल्पते ।
ऽभारूपः सत्यसंकल्पःऽ (छा.
3.14.2) इति हि प्राज्ञमात्मानमामनन्ति ।
न तु तेजोधातुं कञ्चित्सूर्यादयो ऽनुभान्तीति प्रसिद्धम् ।
समत्वाच्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्यपेक्षास्ति यं भान्तमनुभायुः ।
नहि प्रदीपः प्रदीपान्तरमनुभाति ।
यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इति ।
नायमेकान्तो नियमः ।
भिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते ।
यथा सुतप्तो ऽयःपिण्डो ऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहन्तीति ।
अनुकृतेरित्यनुभानमसूसुचत् ।
तस्य चेति चतुर्थं पादमस्य श्लोकस्य सूचयति ।
ऽतस्य भासा सर्वमिदं विभातिऽ इति तधेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयति ।
ऽतद्देवा ज्योतिषां ज्योतिरायुर्हेपासते ऽमृतम्ऽ (बृ. 4.4.16) इति हि प्राज्ञमात्मानमामनन्ति ।
तेजोन्तरेण सुर्यादितेजो विभातीत्यप्रसिद्धं विरुद्धं च, तेजोन्तरेण तेजोन्तरस्य प्रतिधातात् ।
अथवा न सूर्यादीनमेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यते ।
किं तर्हि ऽसर्वमिदम्ऽ इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य याभिव्यक्तिः सा ब्रह्मज्योतिःसत्तानिमित्ता ।
यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिस्तद्वत् ।
ऽन तत्र सूर्यो भातिऽ इति च तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयति ।
प्रकृतं च ब्रह्म ऽयस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्ऽ (मु. 2.2.5) इत्यादिना ।
अनन्तरं च ऽहिरण्मये परे कोशे विरजं ब्रह्म निष्फलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुःऽ इति ।
कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम्-ऽन तत्र सूर्यो भातिऽ इति ।
यदप्युक्तं सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवन्यस्मिन्नवकल्पते सूर्य इवेतरेषामिति ।
तत्र तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम् ।
ब्रह्मण्यपि चैषां भानप्रतिषेधो ऽवकल्पते ।
यतो यदुपलभन्ते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते, ब्रह्म तु नान्येन ज्योतिषोपलभ्यते स्वयं ज्योतिःस्वरूपत्वात्, येन सूर्यादयस्तस्मिन्भायुः ।
ब्रह्म ह्यान्यद्व्यनक्ति नतु ब्रह्मान्येन व्यज्यते ।
ऽआत्मनैवायं ज्योतिषास्तेऽ (बृ. 4.3.6), ऽआगृह्यो नहि गृह्यतेऽ (बृ. 4.2.4) इत्यादिश्रुतिभ्यः ॥ 22 ॥
fन्: तत्र तारकान्तराणि चन्द्रादि च न भाति तं न भासयतीति यावत् ।
प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् ।
अनुकारः अनुभानम् ।
विरजं आगन्तुकमलशून्यम् ।
शुभ्रं नैसर्गिकमलशून्यम् ।
अपि च स्मर्यते

1.3.24

अपिचेदृग्रूपत्वं प्राज्ञस्यैवैत्मनः स्मर्यते भगवद्गीतासु- ऽन तद्भासयते सूर्यो न शशाङ् को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं ममऽ (15.6) इति, ऽयदादित्यगतं तेजो जगद्भासयते ऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्ऽ (15.12) इति च ॥ 23 ॥
7 प्रमिताधिकरणम् । सू. 24-25
शब्दाद् एव प्रमितः

1.3.25

ऽअङ्गुष्टमात्रः पुरुषः मध्य आत्मनि तिष्ठतिऽ इति श्रूयते ।
तथा अङ्गुष्टमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य स एवाद्य स उ श्व एतद्वै तत्ऽ (का. 2.4.13) इति च ।
तत्र यो ऽयमङ्गुष्ठमात्रः पुरुषः श्रूयते स किं विज्ञानात्मा किंवा परमात्मेति संशयः ।
तत्र परिमाणोपदेशात्तावद्विज्ञानात्मेति प्राप्तम् ।
नह्यनन्तायामविस्तारस्य परमात्मनो ऽङ्गुष्ठपरिमाणमुपपद्यते ।
विज्ञानात्मननस्तूपाधिमत्त्वात्संभवति कयाचित्कल्पनयाङ्गुष्ठमात्रत्वम् ।
स्मृतेश्च- ऽअथ सत्यवतः कायात्पाशबद्धं वशं गतम् ।
अङ्गुष्ठमात्रं पुरुषं निश्चकर्षं यमो बलात्ऽ ॥
(म.भा. 3.297.17)
इति ।
नहि परमेश्वरो बलाद्यमेन निष्क्रष्टुं शक्यस्तेन तत्र संसार्यङ्गुष्ठमात्रो निश्चितः स एवेहापीत्येवं प्राप्ते ब्रूमः - परमात्मैवायमङ्गुष्ठमात्रपरिमितः पुरुषो भवितुमर्हति ।
कस्मात्, शब्दात्, ऽईशानो भूतभव्यस्यऽ इति ।
नह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ् कुशमीशिता ।
ऽएतद्वै तत्ऽ इति च प्रकृतं पृष्टमिहानुसंदधाति ।
एतद्वै तद्यत्पृष्टं ब्रह्मेत्यर्थः ।
पृष्टं चेह ब्रह्म ऽअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वदऽ (का. 1.2.14) इति शब्दादेवेत्यभिधानश्रुतेरेवेशान इति परमेश्वरो ऽयं गम्यत इत्यर्थः ॥ 24 ॥
कथं पुनः सर्वगतस्य परमात्मनः परिमाणोपदेश इत्यत्र ब्रूमः -
fन्: आत्मनि देहे मध्ये हृदयसप्रनीत्यर्थः ।
भूतभव्यग्रहणं भवतो ऽपि प्रदर्शनार्थम् कालत्रयनियन्तेत्यर्थः ।
कयाचिदिति हृदयकमलकोशस्य जीवोपलब्धिस्थानस्याङ्गुष्ठमात्रतयेत्यर्थः ।
हृद्यपेक्षया तु मनुष्याधिकारत्वात्

1.3.26

सर्वगतस्यापि परमात्मनो हृदये ऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते ।
आकाशस्येव वंशपर्वापेक्षमरत्रिमात्रत्वम् ।
नह्यञ्जसातिमात्रस्य परमात्मनो ऽङ्गुष्ठमात्रत्वमुपपद्यते ।
न चान्यः परमात्मन इह ग्रहणमर्हतीशानशब्दादिभ्य इत्युक्तम् ।
ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वादपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते- मनुष्याधिकारत्वादिति ।
शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति,
शक्तत्वादर्थित्वादपर्युदस्तत्वादुपनयनादिशास्त्राच्चेति वर्णितमेतदधिकारलक्षणे (जै. 6.1) ।
मनुष्याणां च नियतपरिमाणः कायः ।
औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम् ।
अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः ।
यदप्युक्तं परिमाणोपदेशात्स्मृतेश्च संसार्येवायमङ्गुष्टमात्रः प्रत्येतव्य इति, तत्प्रत्युच्यते- ऽस आत्मा तत्त्वमसिऽ इत्यादिवत्संसारिण एव सतो ऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इति ।
द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः, क्वचित्परमात्मस्वरूपनिरूपणपरा क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरा ।
तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते नाङ्गुष्ठमात्रत्वं कस्यचित् ।
एतमेवार्थं परेण स्फुटीकरिष्यति- ऽअङ्गुष्ठमात्रः पुरुषो ऽन्तरात्मा सदा जनानां हृदये संनिविष्टः ।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषिकां धैर्येण ।
तं विद्याच्छुक्रममृतम्ऽ (का. 2.6.17) इति ॥25 ॥
fन्: सकनिष्ठः करो ऽरत्निः ।
अत्र मनुष्यशब्दस्त्रैवर्णिकपरः ।
ऽशूद्रो यज्ञे ऽनवकॢप्तःऽ इति पर्युदासात्, उपनीयत, तमध्यापयीत, इति शूद्राधिकारवारणम् ।
शरीरात्स्थूलात्सूक्ष्माच्च तं जीवं प्रवृहेत्पृथक्कर्यात् ।
धैर्येण शमादिनेति यावत् ।
8 देवताधिकरणम् । सू. 26-33
तदुपर्य् अपि बादरायणः संभवात्

1.3.27

अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तं, तत्प्रसङ्गेनेदमुच्यते ।
बाढं मनुष्याधिकारेति शास्त्रम् ।
नतु मनुष्यानेवेतीह ब्रह्मज्ञाने नियमो ऽस्ति ।
तेषां मनुष्याणामुपरिष्टाद्ये देवादयस्तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यन्ते ।
कस्मात् ।
संभवात् ।
संभवति हि तेषामप्यर्थित्वाद्यधिकारकारणम् ।
तत्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि संभवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम् ।
तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् ।
नच तेषां कश्चित्प्रतिषेधो ऽस्ति ।
नचोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् ।
तेषां च स्वयंप्रतिभातवेदत्वात् ।
अपिचैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति- ऽएकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवासऽ (छा. 8.11.3), ऽभृगुर्वै वारुणिः ।
वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मऽ (तै. 3.1) इत्यादि ।
यदपि कर्मस्वनधिकारकारणमुक्तम्- ऽन देवानां देवतान्तराभावात्ऽ इति, ऽन ऋषीणामार्षेयान्तराभावात्ऽ (जै.6.1.6,7) इति ।
न तद्विद्यास्वस्ति ।
नहीन्द्रादीनां विद्यास्वधक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति ।
नच भृग्वादीनां भृग्वादिसगोत्रतया ।
तस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ।
देवाद्यधिकारे ऽप्यङ्गुष्टमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया न विरुध्यते ॥ 26 ॥
fन्: देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः ।
ऋषीणामपि न, ऋष्यान्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः ।
तत् असामर्थ्यरूपं कारणम् ।
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात्

1.3.28

स्यादेतत्, यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत विग्रहवत्त्वादृत्विगादिन्द्रादीनामपि स्वरूपसंनिधानेन कर्माङ्गभावो ऽभ्युपगम्येत ।
तदा च विरोधः कर्मणि स्यात् ।
नहीन्द्रादीनां स्वरूपसंनिधानेन यागे ऽङ्गभावो दृश्यते ।
नच संभवति ।
बहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसंनिधानतानुपपत्तेरिति चेत् ।
नायमस्ति विरोधः ।
कस्मात् ।
अनेकप्रतिपत्तेः ।
एकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः संभवति ।
कथमेतदवगम्यते ।
दर्शनात् ।
तथाहि-ऽकति देवाःऽ इत्युपक्रम्य ऽत्रयश्च त्री च शता त्रयश्च त्री च सहस्राऽ इति निरुच्य ऽकतम तेऽ इत्यस्यां पृच्छायाम् ऽमहिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाःऽ (बृ. 3.9.1,2) इति निर्ब्रुवती श्रुतिरेकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति ।
तथा त्रयस्त्रिंशतो ऽपि षडाद्यन्तर्भावक्रमेण ऽकतम एको देव इति प्राणःऽ इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैकस्य प्राणस्य युगपदनेकरूपतां दर्शयति ।
तथा स्मृतिरपि- ऽआत्मनो वै शरीराणि बहूनि भरतर्षभ ॥
योगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥
प्राप्नुयाद्विषयान्कैश्चिदुग्रं तपश्चरेत् ॥
संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिवऽ ॥
इत्येवञ्जातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति ।
किमु वक्तव्यमाजानसिद्धानां देवानाम् ।
अनेकरूपप्रतिपत्तिसंभवाच्चैकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छतीति ।
परैश्च न दृश्यते ऽन्तर्धानादिक्रियायोगादित्युपपद्यते ॥
अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या- विग्रहवतामपि कर्माङ्गभावचोदनास्वनेका प्रतिपत्तिर्दृश्यते ।
क्वचिदेको ऽपि विग्रहवाननेकत्र युगपदङ्गभावं न गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यते ।
क्वचिच्चैको ऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियते ।
तद्वदिहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वे ऽपि देवतानां न किञ्चित्कर्मणि विरुध्यते ॥ 27॥
fन्: दर्शनात् श्रुतिप्रामाण्यात् ।
वैश्वदेवशास्त्रस्य हि निविदि कति देवा इत्युपक्रम्य शाकल्याय याज्ञवल्क्येन त्रयश्चेत्त्युत्तरम् ।
निविन्नाम शस्यमानदेवतासंख्यावाचकानि मन्त्रपदानि ।
बलं योगसिद्धिम् ।
ऽअणिमा महिमा चैव गरिमा प्राप्तिरीशिता ।
प्राकम्यं च वशित्वं च तत्र कामावसायिताऽ इत्यणिमाद्याः ।
आजानसिद्धानां जन्मनैव प्राप्तिशयानाम् ।
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्

1.3.29

मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि ।
शब्दे तु विरोधः प्रसज्येत ।
कथम् ।
औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य ऽअनपेक्षत्वात्ऽ इति वेदस्य प्रामाण्यं स्थापितम् ।
इदानीं तु विग्रहवती देवताभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसंबन्धीनि हवींषि भुञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धेप्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितं तस्य विरोधः स्यादिति चेत् ।
नायमप्यस्ति विरोधः ।
कस्मात् ।
अतः प्रभवात् ।
अत एव हि वैदिकाच्छब्दादेवादिकं जगत्प्रभवति ।
ननु जन्माद्यस्य यतः (ब्र. 1.1.2) इत्यत्र ब्रह्मप्रभवत्वं जगतो ऽवधारितं, कथमिह शब्दप्रभवत्वमुच्यते ।
अपिच यदि नाम वैदिकाच्छब्दादस्य प्रभवो ऽभ्युपगतः, कथमेतावता विरोधः शब्दे परिहृतः यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेर्ऽथा अनित्या एवोत्पत्तिमत्त्वात् ।
तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते ।
प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति ।
तस्माद्विरोध एव शब्द इति चेत् ।
न ।
गवादिशब्दार्थसंबन्धनित्यत्वदर्शनात् ।
नहि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनीमप्युत्पत्तिमत्त्वं स्यात् ।
द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते नाकृतयः ।
आकृतिभिश्च शब्दानां संबन्धो न व्यक्तिभिः ।
व्यक्तीनामानन्त्यात्संबन्धग्रहणानुपपत्तेः ।
व्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वाच्च गवादिशब्देषु कश्चिद्विरोधो दृश्यते ।
तथा देवादिव्यक्तिप्रभवाभ्युपगमे ऽप्याकृतिनित्यत्वान्न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम् ।
आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यः ।
स्थानविशेषसंबन्धनिमित्ताश्चेन्द्रादिशब्दाः सेनापत्यादिशब्दवत् ।
ततश्च यो यस्तत्तत्स्थानमधिरोहति स स इन्द्रादिशब्दैरभिधीयत इति न दोषो भवति ।
नचेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणाभिप्रायेणोच्यते ।
कथं तर्हि स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसंबन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिरतः प्रभव इत्युच्यते कथं पुनरवगम्यते शब्दात्प्रभवति जगदिति ।
प्रत्यक्षानुमानाभ्याम् ।
प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात् ।
अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात् ।
ते हि शब्दपूर्वो सृष्टिं दर्शयतः ।
ऽएते इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितृंस्तिरः पवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाःऽ इति श्रुतिः ।
तथान्यत्रापि ऽस मनसा वाचं मिथुनं समभवत्ऽ (बृ. 1.2.4) इत्यादिना तत्रतत्र शब्दपूर्विका सृष्टिः श्राव्यते ।
स्मृतिरपि- ऽअनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ।
आदौ वेदमयी दिव्या यतः सर्वा प्रवृत्तयःऽ ॥
इति ।
उत्सर्गो ऽप्ययं वाचः संप्रदायप्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासंभवात् ।
तथा ऽनाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरःऽ ॥
(मनु. 1.21) इति ।
ऽ सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममेऽ ॥
इति च ।
अपिच चिकीर्षितमर्थमनुतिष्ठंस्तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुष्ठतीति सर्वेषां नः प्रत्यक्षमेतत् ।
तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते ।
तथाच श्रुतिः - ऽस भूरिति व्याहारत्स भूमिमसृजतऽ (तै.ब्रा. 2.2.4.2) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति ।
किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ।
स्फोटमित्याह ।
वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात् ।
उत्पन्नध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा च प्रतीयमानत्वात् ।
तथाहि- अदृश्यमानो ऽपि पुरुषविशेषो ऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते देवदत्तो ऽयमधीते यज्ञदत्तो ऽयमधीते इति ।
नचायं वर्णविषयो ऽन्यथात्वप्रत्ययो मिथ्याज्ञानं, बाधकप्रत्ययाभावात् ।
नच वर्णेभ्योर्ऽथावगतिर्युक्ता ।
न ह्येकैको वर्णोर्ऽथं प्रत्याययेत्, व्यभिचारात् ।
नच वर्णसमुदायप्रत्ययो ऽस्ति, क्रमवत्त्वाद्वर्णानाम् ।
पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णोर्ऽथं प्रत्याययिष्यतीति यद्युच्येत ।
तन्न ।
संबन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोर्ऽथं प्रत्याययेद्धूमादिवत् ।
नच पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम् ।
कार्यप्रत्यायितैः संस्कारैः सहितो ऽन्त्यो वर्णोर्थं प्रत्याययिष्यतीति चेत् ।
न ।
संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात् ।
तस्मात्स्फोट एव शब्दः ।
स चैचैकवर्णप्रत्ययाहितसंस्कारबीजे ऽन्त्यवर्णप्रत्ययजनितपरि पाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते ।
नचायमेकप्रत्ययो वर्णविषया स्मृतिः ।
वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेः ।
तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् ।
भेदप्रत्ययस्य वर्णविषयत्वात् ।
तस्मान्नित्याच्छब्दस्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति ।
वर्णा एव तु न शब्दः इति भगवानुपवर्षः.
ननूत्पन्नप्रध्वंसित्वं वर्णान्मुक्तं, तन्न ।
त एवेति प्रत्यभिज्ञानात् ।
सादृश्यात्प्रत्भिज्ञानं केशादिष्विवेति चेत् ।
न ।
प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेः ।
प्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत् ।
न ।
व्यक्तिप्रत्यभिज्ञानात् ।
यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरंस्तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् ।
नत्वेतदस्ति ।
वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते ।
द्विर्गोशब्द उच्चारित इति हि प्रतिपत्तिर्न तु द्वौ गोशब्दाविति ।
ननु वर्णा अप्युच्चारणभेदेन भिन्नः प्रतीयन्ते देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम् ।
अत्राभिधीयते- सति वर्णविषये निश्चिते प्रत्यभिज्ञाने संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानामभिव्यञ्जकवैचित्र्यनिमित्तो ऽयं वर्णविषयो विचित्रः प्रत्ययो न स्वरूपनिमित्तः ।
अपिच वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः ।
तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम् ।
तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः स्वरूपनिमित्तं च प्रत्यभिज्ञानमिति कल्पनालाघवम् ।
एष एव च वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययो यत्प्रत्यभिज्ञानम् ।

कथं ह्येकस्मिन्कालं बहूनामुच्चारयतामेक एव सन्गकारो युगपदनेकरूपः स्यात् ।
उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेति ।
अथवा ध्वनिकृतो ऽयं प्रत्ययभेदो न वर्णकृत इत्यदोषः ।
कः पुनरयं ध्वनिर्नाम ।
यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति ।
प्रत्यासीदतश्च पटुमटुत्वादिभेदं वर्णेष्वासञ्जयति ।
तन्निबन्धनाश्चोदात्तादयो विशेषा न वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चाराणं प्रत्यभिज्ञायमानत्वात् ।
एवञ्च सति सालम्बना उदात्तादिप्रत्यया भविष्यन्ति ।
इतरधा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्पेरन् ।
संयोगविभागानां चाप्रत्यक्षत्वाच्च तदाश्रया विशेषा वर्णेष्वध्यवसितुं शक्यन्त इत्यतो निरालम्बना एवैत उदात्तादिप्रत्ययाः स्युः ।
अपिच नैवैतदभिनिवेष्टव्यमुदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति ।
नह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति ।
नहि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते ।
वर्णेभ्यश्चार्थप्रतीतेः संभवात्स्फोटकल्पनानर्थिका ।
न कल्पयाम्यहं स्फोटं प्रत्यक्षमेव त्वेनमवगच्छामि, एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यव ऊभासनादिति चेत् ।
न ।
अस्या अपि बुद्धेर्वर्णविषयत्वात् ।
एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया नार्थान्तरविषया ।
कथमेतदवगम्यते ।
यतो ऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते नतु दकारादयः ।
यदि ह्यस्या बुद्धेर्गकारादिभ्योर्ऽथान्तरं स्फोटो विषयः स्यात्ततो दकारादय इव गकारादयो ऽप्यस्या बुद्धेर्व्यावर्तेरन् ।
नतु तथास्ति ।
तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः ।
नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तं, तत्प्रतिब्रूमः - संभवत्यनेकस्याप्येकबुद्धिविषयत्वं, पङ् क्तिर्वनं सेना दश शतं सहस्रमित्यादिदर्शनात् ।
या तु गौरित्येको ऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धनौपचारिकी वनसेनादिबुद्धिवदेव ।
अत्राह- यदि वर्णा एव सामस्त्येनैकबुद्धिविषयतामापद्यमानाः पदं स्युस्ततो जारा राजा कपिः पिकः इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात् ।
त एव हि वर्णा इतरत्र चेतरत्र च प्रत्यवभासन्त इति ।
अत्र वदामः - सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ् क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधन एव वर्णाः पदबुद्धिमारोक्ष्यन्ति ।
तत्र वर्णानामविशेषे ऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते ।
वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसंबन्धाः सन्तः स्वव्यवहारो ऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना ।
स्फोटवादिनस्तु दृष्टहानिरदृष्टकल्पना च ।
वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोर्ऽथं व्यनक्तीति गरीयसी कल्पना स्यात्, अथापि नाम प्रत्युच्चारणमन्ये ऽन्ये वर्णाः स्युः, तथापि प्रत्यभिज्ञालम्बनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्यत्वाद्या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु संचारयितव्या ।
ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम् ॥ 28 ॥
fन्: औत्पत्तिकं स्वाभाविकं ।
वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां चिकीर्षितां व्यक्ति बुद्धावालिख्य तस्याः प्रभवनं, तदिदं तत्प्रभवत्वम् ।
आकृतीनां जातीनाम् ।
ऽएते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
विश्वान्यभिसौभगाऽ इति ।
एतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत ।
तत्र संनिहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन संनिहितानां स्मारकः ।
असृक् रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामग्रशब्दस्मारकः ।
चन्द्रस्थानां पितृणामिन्दुशब्दः स्मारकः ।
पवित्रं सोमं स्वान्तविस्तरस्कुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः ।
ऋ.(?).उचोश्नुवतां स्तोत्राणामाशुशब्दः स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः ।
संप्रदायो गुरुशिष्यपरंपराध्ययनम् ।
संस्था अवस्थाः ।
वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः ।
स्फुटते वर्णैर्व्यज्यत इति स्फोटो वर्णाभिव्यङ्ग्योर्ऽथस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः ।
व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् वर्णान्तरवैयर्थ्यप्रतीत्यदर्शनाच्चेत्यर्थः ।
एकैकेति यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकाराद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाको ऽन्त्यः संस्कारो यस्मिन्प्रत्ययिनि चित्ते एकं गौरिति पदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः ।
वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम्, भेदधीविरोधात् ।
ताल्वादिदेशैःकोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः ।
यो ऽवतरति स ध्वनिरिति शेषः ।
वर्णातिरिक्तः शब्दः ध्वनिरित्यर्थः ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेदः ।
अप्रत्यक्षत्वं अश्रावणत्वम् ।
यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः ।
उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना ।
अर्थावच्छेदोर्ऽथं निश्चयः ।
प्रत्यवमर्शः स्मृतिः ।
व्युत्पत्तिदशा वृद्धव्यवहारः ।
क्रमादित्यादिशब्देन संख्या गृह्यते ।
स्वस्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था ।
तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् ।
दृष्टं वर्णानामर्थबोधकत्वं, अदृष्टः स्फोटः ।
अत एव च नित्यत्वम्

1.3.30

स्वतन्त्रस्य कर्तुरस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्य ऽअतः प्रभवात्ऽ इति परिहृत्येदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति- अत एव च नित्यत्वमिति ।
अत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वाद्वेदशब्दे नित्यत्वमपि प्रत्येतव्यम् ।
तथाच मन्त्रवर्णः - ऽयज्ञेन वाचः पदवीयमायान्तामन्वविन्दन्नृषिषु प्रविष्टाम् (ऋ.स. 10.71.3) इति स्थितामेव वाचमनुविन्नां दर्शयति ।
वेदव्यासश्चैवमेव स्मरति- ऽयुगान्ते ऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवाऽ इति ॥ 29 ॥
fन्: यज्ञेन पूर्वसुकृतेन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रहणयोग्यतां आयन्नाप्तवन्तः, ततःस्तां वाचमृषिषु प्रविष्टां विद्यमानां अन्वविन्दन्ननुलब्धवन्तो याज्ञिका इतियावत् ।
अनुविनान्नामुपलब्धाम् ।
पूर्वमवान्तरकल्पादौ ।
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च

1.3.31

अथापि स्यात् ।
यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयो ऽपि संतत्यैवोत्पद्येरन्निरुध्येरंश्च ततो ऽभिधानाभिधेयाभिधातृव्यवहाराविच्छेदात्संबन्धनित्यत्वेन विरोधः शब्दे परिह्रियेत ।
यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं निर्लेपं प्रलीयते प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा वदन्ति तदा कथमविरोध इति ।
तत्रेदमभिधीयते- समाननामरूपत्वादिति तदापि संसारस्यानादित्वं तावदभ्युपगन्तव्यम् ।
प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वं - ऽउपपद्यते चाप्युपलभ्यतेऽ च (ब्र. 2.1.36) इति ।
अनादौ च संसारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणे ऽपि पूर्वप्रबोधवदुक्तप्रबोधे ऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पान्तरप्रभवप्रलययोरिति द्रष्टव्यम् ।
स्वापप्रबोधयोश्च प्रलयप्रभवौ श्रूयेते- ऽयदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदेनं वाक्सर्वैर्नाभिः सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः सर्वैर्ध्यानैः सहाफयेति स यदा प्रतिबुध्यते यथाग्नेर्ज्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथातनं विप्रतिष्टन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः (कौ. 3.3) इति ।
स्यादेतत् ।
स्वापे पुरुषान्तरव्यवहाराविच्छेदात्स्वयं च सुप्तप्रबुद्धस्य पूर्वप्रबोधव्यवहारानुसंधानसंभवादविरुद्धम् ।
महाप्रलये तु सर्वव्यवहारोच्छेदाज्जन्मान्तरव्यवहारवच्च कल्पान्तरव्यवहारस्यानुसंधातुमशक्यत्वाद्वैषम्यमिति ।
नैष दोषः ।
सत्यपि सर्वव्यवहारोच्छेदिनि महाप्रलये परमेश्वरानुग्रहादीश्वराणां हिरण्यगर्भादीनां कल्पान्तरव्यवहारानुसंधानोपपत्तेः ।
यद्यपि प्राकृताः प्राणिनो न जन्मान्तरव्यवहारमनुसमदधाना दृश्यन्त इति, तथापि न प्राकृतवदीश्वराणां भवितव्यम् ।
तथाहि प्राणित्वाविशेषे ऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्वर्यादिप्रतिबन्धः परेण परेण भूयान्भवन्दृश्यते, तथा मनुष्यादिस्तम्बपर्यन्तेषु हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्यक्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादेष्वसकृदनुश्रूयमाणं न शक्यं वदितुम् ।
ततश्चातीतकल्पानुष्ठितप्रकृष्टज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रादुर्भवतां परमेश्रानुगृहीतानां सुप्तप्रतिबुद्धत्वकल्पान्तरव्यवहारानुसंधानोपपत्तिः ।
तथाच श्रुतिः - ऽयो ब्रह्मणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्येऽ (श्वे, 6.18) इति ।
स्मरन्ति च शौनकादयः ऽमधुच्छन्दःप्रभृतिभिरृषिभिर्दर्शितय्यो दृष्टाःऽ इति ।
प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्यन्ते ।
श्रुतिरप्यृषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति- ऽयो हवा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजयति वाध्यापयति वा स्थाणुं वच्र्छति गर्तं वा प्रतिपद्यतेऽऽ (सर्वानु. परि.) इत्युपक्रम्य तस्मादेतानि मन्त्रे मन्त्रे विद्यात्ऽ इति ।
प्राणिनां च सुखप्राप्तये धर्मो विधीयते ।
दुःखपरिहाराय चाधर्मः प्रतिषिध्यते ।
दृष्टानुश्रविकसुखदुःखविषयौ च रागद्वेषौ भवतो न विलक्षणविषयावित्यतो धर्माधर्मफलभूतोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते ।
स्मृतिश्च भवति- ऽतेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचतेऽ ॥
इति ।
प्रलीयमानमपि चेदं जगच्छक्त्यशेषमेव प्रलीयते ।
शक्तिमूलमेव च प्रभवति ।
इतरथाकस्मिकत्वप्रसंङात् ।
नचानेकाकाराः शक्तयः शक्याः कल्पयितुम् ।
ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोकप्रवाहाणां, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवाहाणां, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियतत्वमिन्द्रियविषयसंबन्धनियतत्ववत्प्रत्येतव्यम् ।
नहीन्द्रियविषयसंबन्धादेर्व्यवहारस्य प्रतिसर्गमन्यथात्वं षष्ठेन्द्रियविषयकल्पं शक्यमुत्प्रेक्षितुम् ।
अतश्च सर्वकल्पानां तुल्यव्यवहारत्वात्कल्पान्तव्यवहारानुसंधानक्षमत्वाच्चेश्वराणां समाननामरूपा एव प्रतिसर्गं विशेषाः प्रादुर्भवन्ति ।
समाननामरूपत्वाच्चावृत्तावपि महासर्गमहाप्रलयक्षणायां जगतो ऽभ्युपगम्यमानायां न कश्चिच्छब्दप्रामाण्यादिविरोधः ।
समाननामरूपतां च श्रुतिस्मृती दर्शयतः - ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवं च पृथिवी चान्तरिक्षमथो स्वःऽ (ऋ.सं. 10. 190.3) इति ।
यथा पूर्वस्मिन्कल्पे सूर्याचन्द्रमःप्रभृति जगत्कॢप्तं तथास्मिन्नपि कल्पे परमेश्वरो ऽकल्पयदित्यर्थः ।
तथा ऽअग्निर्वा अकामयत अन्नादो देवानांस्यामिति ।
स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत्ऽ (तै.ब्रा. 3.1.4.1) इति नक्षत्रेष्टिविधौ यो ऽग्निर्निरवपद्यस्मै वाग्नये निरवपत्तयोः समाननामरूपतां दर्शयतीत्येवञ्जातीयका श्रुतिरिहोदाहर्तव्या ।
स्मृतिरपि- ऽऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥
यथाभिमानिनो ऽतीतास्तुल्यस्ते सांप्रतैरिह ।
देवा देवैरतातैर्हि रूपैर्नामभिरेव च ॥
ऽ इत्येवजातीयका द्रष्टव्या ॥ 30 ॥
fन्: अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ ।
तदापि महाप्रलयमहासर्गाङ्गीकारे ऽपीति यावत् ।
यदेप्युपक्रमादथशब्दः तदेत्यर्थः ।
प्राणः परमात्मा तत्र जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः ।
तस्मात् प्राणात्मनः, आयतनं गोलकम् ।
इतिशब्दो यद्यपीत्यनेन संबध्यते ।
ऽहिरण्यगर्भः समवर्ततेऽत्यादयः श्रुतिवादाः, ऽज्ञानमप्रतिमं यस्येऽत्यादयः स्मृतिवादाः ।
प्रहिणोति गमयति तस्य बुद्धौ वेदनाविर्भावयति ।
ऋग्वेदो दशमण्डलात्मकः मण्डलानां दशतयमात्रास्तीति तत्र भवा ऋचो दाशतय्यः ।
अर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतग्न्यादि, ब्राह्मणं विनियोगः एतान्यविदितानि यस्मिन्मन्त्रे, स्थाणुं स्थावरं, गर्तं नरकम् ।
तेषां प्राणिनां मध्ये ।
तान्येव तज्जातीयान्येव ।
षष्ठेन्द्रियं मनः ऽमनःषष्ठानीन्द्रियाणीऽति स्मृतेः ।
नक्षत्रबहुत्वाद्बहुवचनम् कृत्तिकादेवायाग्नये, अष्टसु कपालेषु पचनीयं हविर्निरुप्तवान् ।
देवेष्विति विषयसप्तमी ।
शर्वर्यन्ते प्रलयान्ते ।
ऋतुर्लिङ्गानि नवपल्लवादीनि ।
पर्यये घटीयन्त्रवदावृत्तौ ।
भावाः पदार्थाः ।
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः

1.3.32

इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्रतिज्ञातं तत्पर्यावर्त्यते ।
देवादीनामनधिकारं जैमिनिराचार्यो मन्यन्ते ।
कस्मात् ।
मध्वादिष्वसंभवात् ।
ब्रह्मविद्यायामधिकाराभ्युपगमे हि विद्यात्वाविशेषान्मध्वादिविद्यास्वप्यधिकारो ऽभ्युपगम्येत ।
नचैवं संभवति ।
कथम् ।
ऽअसौ वा आदित्यो देवमधुऽ (छा. 3.1.1) इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपसीरन् ।
देवादिषु ह्युपासकेष्यभ्युपगम्यमानेष्वादित्यः कमन्यमादित्यमुपासीत ।
पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्युपक्रम्य वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः क्रमेण तत्ततमृतमुपजीवन्तीत्युपदिश्य ऽस य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यतिऽ इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिमहिमप्राप्तिं दर्शयति ।
वस्वादयस्तु कानन्यान्वस्वादीनमृतोपजीविनो विजानीयुः ।
कं वान्यं वस्वादिमहिमानं प्रेप्सेयुः ।
ऽतथा अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादःऽ (छा. 3.18.2), ऽवायुर्वाव संवर्गःऽऽ (छा. 4.3.1) ऽआदित्यो ब्रह्मेत्यादेशःऽ (छा. 3.11.1) इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मानमधिकारः संभवति ।
तथा ऽइमावेव गोतमभरद्वाजा वयमेव गोतमो ऽयं भरद्वाजःऽ (बृ. 2.2.4) इत्यादिष्विप्यृषिसंबन्धेषूपासनेषु न तेषामेवर्षीणामधिकारः संभवति ॥ 31 ॥
कुतश्च देवादीनामधिकारः -
fन्: पञ्चेति चतुर्वेदोकर्माणि प्रणवश्चति पञ्च कुसुमानि तेभ्यः सोमाज्यादिद्रव्याणि हुतानि रोहितादीनि लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहितादीन्यमृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तपञ्चदिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वषूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेजैन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरुपजीव्यानीति ध्यायन्तो वस्वादिप्राप्तिरुक्तेत्यर्थः ।
ज्योतिषि भावाच् च

1.3.33

यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जगदवभासयति तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयुज्यन्ते ।
लोकप्रसिद्धर्वाक्यशेषप्रसिद्धेश्च ।
नच ज्योतिर्मण्डलस्य हृदयादिना विग्रहेषु चेतनयार्थित्वादिना वा योगो ऽवगन्तुं शक्यते मृतादिवदचेतनत्वावगमात् ।
एतेनाग्न्यादयो व्याख्याताः ।
स्यादेतत् ।
मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादानां विग्रहवत्त्वाद्यवगमादयमदोष इति ।
नेत्युच्यते ।
नहि तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्ति ।
प्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्ध्यनर्थो लोकात्प्रसिध्यतीत्युच्यते ।
नचात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति ।
इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमूलमाकाङ्क्षति ।
अर्थवादा अपि विधिनैकवाक्यत्वात्स्तुत्यर्थाः सन्तो न पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्ते ।
मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनो ऽभिधानार्था न कस्यचिदर्थस्य प्रमाणमित्याचक्षते ।
तस्मादभावो देवादीनामधिकारस्य ॥ 32 ॥
fन्: ऽवज्रहस्तः पुरन्दरःऽ इत्यादयो मन्त्राः ऽसो ऽरोदीत्ऽ इत्यादयोर्ऽथवादाः, ऽइष्टान्भोगान्हि वो देवाऽ इत्यादीतिहासपुराणानि, लोके ऽपि यमं दण्डहस्तं, इन्द्रं वज्रहस्तं, लिखन्तीति विग्रहादिपञ्चकसद्भावादनधिकारदोषो नास्तीत्यर्थः ।
ऽविग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता ।
फलप्रदानमित्येतत्पञ्चकम् विग्रहादिकम्ऽ इति ।
भावं तु बादरायणो ऽस्ति हि

1.3.34

तुशब्दः पूर्वपक्षं व्यवर्तयति ।
बादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यन्ते ।
यद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वासंभवो ऽधिकारस्य तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां संभवः ।
अर्थित्वसामर्थ्यप्रतिषेधाद्यपेक्षत्वादधिकारस्य ।
नच क्वचिदसंभव इत्येतावता यत्र संभवस्तत्राप्यधिकारो ऽपोद्येत ।
मनुष्याणामपि न सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः संभवति ।
तत्र यो न्यायः सो ऽत्रापि भविष्यति ।
ब्रह्मविद्यां च प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्- ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्ऽ (बृ. 1.4.10) इति ।
ऽते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्ऽ इति ।
ऽइन्द्रो ह वै देवानामभिप्रव्राज विरोचनऽसुराणाम्ऽ (छा. 8.7.2) इत्यादि च ।
समार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि ।
यदप्युक्तं ज्योतिषि भावाच्चेति ।
अत्र ब्रूमः ज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात् ।
अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं सामर्थ्यम् ।
तथाहि श्रूयते सुब्रह्मण्यार्थवादे- मेधातिथेर्मेषेति ।
ऽमेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा जहारऽ (षड्विंश. ब्रा. 1.1) इति ।
स्मर्यते च- ऽआदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम हऽ इति ।
मृदादिष्वपि चेतना अधिष्ठितारो ऽभ्युपगम्यन्ते- मृदब्रवीदापोब्रुवन्नित्यादिदर्शनात् ।
ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यते ।
चेतनास्त्वधिष्ठितारो देवतात्मनो मन्त्रार्थवादादिव्यवहारादित्युक्तम् ।
यदप्युक्तं मन्त्रार्थवादयोरन्यायार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति ।
अत्र ब्रूमः - प्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणं, नान्यर्थत्वमनन्यार्थत्वं वा ।
तथाह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यते ।
अत्राह- विषम उपन्यासः ।
तत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति येन तदस्तित्वं प्रतिपद्यते ।
अत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेर्ऽथवादेन पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् ।
नहि ऽन सुरां पिबेत्ऽ इति नञ्वति वाक्ये पदत्रयसंबन्धात्सुरापानप्रतिषेध एवैकोर्ऽथो ऽवगम्यते ।
न पुनः सुरां पिबेदिति पदद्वयसंबन्धात्सुरापानविधिरपीति ।
अत्रोच्यते- विषम उपन्यासः ।
युक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम् ।
विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयवृत्तान्तविषयं प्रतिपद्यानन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते ।
यथाहि- ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना संबन्धः, नैवं ऽवायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतिऽ इत्येषामर्थवादगतानां पदानाम् ।
नहि भवति वायुर्वा आलभेतेति क्षेपिष्ठा देवता वा आलभेतेत्यादि ।
वायुस्वभावसंकीर्तनेन त्ववान्तरमन्वयं प्रतिपद्यैवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति ।
तद्यत्र सो ऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति तत्र तदनुवादेनर्थवादः प्रवर्तते ।
यत्र प्रमाणान्तरविरुद्धस्तत्र गुणवादेन ।
यत्र तु तदुभयं नास्ति तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यादाहोस्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इति प्रतीतिशरणैर्विद्यमानवाद आश्रयणीयो न गुणवादः ।
एतेन मन्त्रो व्याख्यातः ।
अपिच विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् ।
नहि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते ।
नच चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यते ।
श्रावयति च- ऽयस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्ऽ (ऐ.ब्रा. 3.8.1) इति ।
नच शब्दमात्रमर्थस्वरूपं संभवति, शब्दार्थयोर्भेदात् ।
तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं न तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यतुं युक्तम् ।
इतिहासपुराणमपि व्याख्यातेन मार्गेण संभवन्मन्त्रार्थवादमूलत्वात्प्रभवति देवताविग्रहादि साधयितिम् ।
प्रत्यक्षादिमूलमपि संभवति ।
भवति ह्यस्माकमप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् ।
तथाच व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते ।
यस्तु ब्रूयादिदानीन्तनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति स जगद्वैचित्र्यं प्रतिषेधेत् ।
इदानीमिव च नान्यदपि सार्वभौमः क्षत्रियो ऽस्तीति ब्रूयात् ।
ततश्च राजसूयादिचोदनोपरुन्ध्यात् ।
इदानीमिव च कालान्तरे ऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत ।
ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं स्यात् ।
तस्माद्धर्मोत्कर्षवशाच्चिरन्तना देवादिभिः प्रत्यक्षं व्यवजह्नुरिति श्लिष्यते ।
अपिच स्मरन्ति- ऽस्वाध्यायादिष्टदेवतासंप्रयोगःऽ (यो.सू. 2.44) इत्यादि ।
योगो ऽप्यणिमाद्यैश्वर्यर्प्राप्तिफलः स्मर्यमाणो न शक्यते साहसमात्रेण प्रत्याख्यातुम् ।
श्रुतिश्च योगमाहात्म्यं प्रख्यापयति- ऽपृथिव्यप्तेजो ऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते ।
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्ऽऽ (श्वं. 2.12) इति ।
ऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम् ।
तस्मात्समूलमितिहासपुराणम् ।
लोकप्रसिद्धिरपि न सति संभवे निरालम्बनाध्यवसातुं युक्ता ।
तस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमः ।
ततश्चार्थित्वादिसंभवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारः ।
क्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते ॥ 33 ॥
fन्: यतः सर्वेषां सर्वत्राधिकारो न संभवति ततो न चापोद्येतेत्यन्वयः ।
तद्ब्रह्म यो देवानां मध्ये प्रत्यक्त्वेनाबुध्यत ।
आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते ।
विध्युद्देशो विधिवाक्यं तदेकवाक्यतया ।
वृत्तान्तो भूतार्थः ।
श्लिष्यते युज्यते ।
मन्त्रजपाद्देवतासांनिध्यं तत्संभाषणं चेति सूत्रार्थः ।
अपशूद्राधिकरणम् । सू. 34-38
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि

1.3.35

यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तस्तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यते ।
तत्र शूद्रस्याप्यधिकारः स्यादस्ति तावत्प्राप्तम् ।
अर्थित्वसामर्थ्ययोः संभवात् ।
ऽतस्माच्छूद्रोयज्ञे ऽनवकॢप्तःऽ (तै.सं. 8.1.1.6) इतिवत् ऽशूद्रो विद्यायामनवकॢप्तःऽ इति च निषेधाश्रवणात् ।
यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वं न तद्विद्यास्वविकारस्यापवादकं लिङ्गम् ।
नह्याहवनीयादिरहितेन विद्या वेदितुं न शक्यते ।
भवति च लिङ्गं शूद्राधिकारस्योपोद्धलकम् ।
संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशति- ऽअह हारेत्वा शूद्र तवैव सह गोभिरस्तुऽ (छां 4.2.3) इति ।
विदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसंपन्नाः स्मर्यन्ते ।
तस्मादधिक्रियते शूद्रो विद्यास्विति ।
एवं प्राप्ते ब्रूमः - न शूद्रस्याधिकारः, वेदाध्ययनाभावात् ।
अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते ।
नच शूद्रस्य वेदाध्ययनमस्ति, उपनयनपूर्वकत्वाद्वेदाध्ययनस्य ।
उपनयनस्य च वर्णत्रयविषयत्वात् ।
यत्त्वर्थित्वं न तदसति सामर्थ्ये ऽधिकारकारणं भवति ।
सामर्थ्यमपि न लोकिकं केवलमधिकारकारणं भवति ।
शास्त्रीयेर्ऽथे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात् ।
शास्त्रीयस्य च सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात् ।
यच्चेदं ऽशूद्रो यज्ञे ऽनवकॢप्तःऽ इति तन्न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति, न्यायस्य साधारणत्वात् ।
यत्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, न तल्लिङ्गं न्यायाभावात् ।
न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति ।
नचात्र न्यायो ऽस्ति ।
कामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात्, तद्विषयत्वात्, न सर्वासु विद्यासु ।
अर्थवादस्थात्तु न क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहते ।
शक्यते चायं शूद्रशब्दो ऽधिकृतवषयो योजयितुम् ।
कथमित्युच्यते- ऽकम्बर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थऽऽ (छा. 4.1.3) इत्यस्माद्धंसवाक्यादात्मनो ऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुगुत्पेदे, तामृषीरैक्वः शूद्रशब्देनानेन सूचयंबभूवात्मनः परोक्षज्ञताख्यापनायेति गम्यते ।
जातिशूद्रस्यानधिकारात् ।
कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।
उच्यते- तदाद्रवणात् ।
शुचमभिदुद्राव, शुचा वाभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावेति शूद्रः ।
अवयवार्थसंभवाद्रूढार्थस्य चासंभवात् ।
दृश्यते चायमर्थो ऽस्यामाख्यायिकायाम् ॥ 34 ॥
fन्: अनवकॢप्तो ऽसमर्थः तस्मादनग्नित्वात् ।
अहेति निपातः खेदार्थः ।
हारेण निष्केण इत्वागन्ता रथो हारेत्वा सच गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्ह्यस्थ्यानुपयोगिनेति भावः ।
यज्ञेत्युपलक्षणं विद्यायामनवकॢप्त इत्यस्य ।
ऽनिषादस्थपतिं याजयेत्ऽ इति निषादस्थपतिश्चोद्यते, शूद्रः संवर्गविद्यायाम् ।
कं उ अरे इति पदच्छेदः ।
उ शब्दोप्यर्थः ।
युग्वा गन्त्री शकटी तथा सह स्थितं रैक्वमिवैतद्वचनमात्थ ।
क्षत्रियत्वगतेश् चोत्तरत्र चैत्ररथेन लिङ्गात्

1.3.36

इतश्च न जातिशूद्रो जानश्रुतिः ।
यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराद्गम्यते ।
उत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः संकीर्त्यते- ऽ अथ ह शौनकं च कपोयमभिप्रतारणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी विभिक्षेऽ (छा. 4.3.5) इति ।
चैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम् ।
कापेययोगो हि चित्ररथस्यावगतः ऽएतेन वै चित्ररथं कापेया अयाजयन्ऽ (ताण्ड.ब्रा. 20.12.5) इति ।
समानान्वयानां च प्रायेण समानान्वया याजका भवन्ति ।
ऽतस्माच्चैत्ररथिर्नामकः क्षत्रपतिरजायतऽ इति च क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम् ।
तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्ययायां संकीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयति ।
समानानामेव हि प्रायेण समभिव्याहारा भवन्ति ।
क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिः ।
अतो न शूद्रस्याधिकारः ॥ 35 ॥
fन्: संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थो ऽथाब्दः ।
ह शब्दो वृत्तान्तावद्योती ।
शुनकपुत्रं कपिगोत्रं पुरोहितमभिप्रतारिनामकम् ।
क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणम् ।
संस्कारपरामर्शात् तदभावाभिलापाच् च

1.3.37

इतश्च न शूद्रस्याधिकारः, यद्विद्याप्रदेशेषूपनयनादयः संस्काराः परामृश्यन्ते- ऽतं होपनिन्येऽ (श.ब्रा. 11.5.3.13) ।
ऽ अधीहि भगव इति होपससादऽ (छा. 7.1.1) ऽ ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाःऽ (प्र. 1.1) इति च ।
ऽ तान्हानुपनीयैवऽ (छा. 5.11.7) इत्यपि प्रदर्शितैवोपनयनप्राप्तिर्भवति ।
शूद्रस्य संस्काराभावो ऽभिलप्यते, ऽशूद्रश्चतुर्थो वर्ण एकजातिःऽ (मनु. 10.4)
इत्येकजातित्वस्मरणात् ।
ऽन शूद्रो पातकं किञ्चिन्न च संस्कारमर्हतिऽ (मनु. 10.12.6) इत्यादिभिश्च ॥ 36 ॥
fन्: अधीहि उपदिशेति यावत् ।
ब्रह्मपरा वेदपारगाः ।
परं निर्गुणं ब्रह्म ।
उपासन्ना उपागताः ।
अनुपनीयैवेति हीनवर्णेनोत्तमवर्णा अनुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः ।
एकजातिरनुपनीतः ।
तदभावनिर्धारणे च प्रवृत्तेः

1.3.38

इतश्च न शूद्रस्याधिकारः ।
यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं च प्रववृते ऽनैतद्ब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगाःऽ (छा. 4.4.5) इति श्रुतिलिङ्गात् ॥ 37 ॥
fन्: नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु तथोक्तम् उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालो ऽस्मीति ब्रूहीत्यनेन सत्यवचनेन ।
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश् च

1.3.39

इतश्च न शूद्रस्याधिकारः ।
यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवति ।
वेदश्रवणप्रतिषेधो वेदाध्ययनप्रतिषेधस्तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यते ।
श्रवणप्रतिषेधस्तावत् ऽअथास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्ऽ इति ।
ऽपद्यु ह वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्ऽ इति च ।
अत एवाध्ययनप्रतिषेधः ।
यस्य हि समीपे ऽपि नाध्येतव्यं भवति स कथमश्रुतमधीयीत ।
भवति च वेदोच्चारणे जिह्वाच्छेदो धारणे शरीरभेद इति ।
अत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति ऽन शूद्रस्य मतिं दद्यात्ऽ इति, ऽद्विजातीनामध्ययनमिज्या दानम्ऽ इति च ।
येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिस्तेषां न शक्यते फलप्राप्तिः प्रतिषेद्धुं, ज्ञानस्यैकान्तिकफलत्वात् ।
ऽश्रावयेच्चतुरो वर्णान्ऽ इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात् ।
वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥ 38॥
fन्: त्रपुजतुभ्यां संतापद्रुताभ्यां सीसलाक्षाभ्याम् ।
पद्यु पादयुक्तं ।
संचारसमर्थमिति यावत् ।
मतिर्वेदार्थज्ञानम् ।
10 कम्पनाधिकरणम् । सू. 39
कम्पनात्

1.3.40

अवसितः प्रासङ्गिको ऽधिकारविचारः ।
प्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामः ।
ऽयदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् ।
महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्तिऽ (का. 2.6.2) इति ।
एतद्वाक्यं ऽएजृ कम्पनेऽ इति धात्वर्थानुगमाल्लक्षितम् ।
अस्मिन्वाक्ये सर्वमिदं जगत्प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्रशब्दितमुद्यतं, तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयते ।
तत्र को ऽसौ प्राणः किं तद्भयानकं वज्रमित्यप्रतिपत्तेर्विचारे क्रियमाणे प्राप्तं तावत्प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इति ।
प्रसिद्धेरेव चाशनिर्वज्रं स्यात् ।
वायोश्चेदं माहात्म्यं संकीर्त्यते ।
कथम् ।
सर्वमिदं जगत्पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठायैजति ।
वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते ।
वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्रुवृष्ट्यशनयो विवर्तन्त इत्याचक्षते ।
वायुविज्ञानादेव चेदममृतत्वम् ।
तथाहि श्रुत्यन्तरम्- ऽवायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेदऽ इति ।
तस्माद्वायुरयमिह प्रतिपत्तव्य इति ।
एवं प्राप्ते ब्रूमः- ब्रह्मैवेदमिह प्रतिपत्तव्यम् ।
कुतः ।
पूर्वोत्तरालोचनात् ।
पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैवनिर्दिश्यमानमुपलभामहे ।
इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि ।
पूर्वत्र तावत् ऽतदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनऽ (का. 2.6.1) इति ब्रह्म निर्दिष्टं, तदेवेहापि संनिधानात् जगत्सर्वं प्राण एजतीति च लोकाश्रयवत्त्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते ।
प्राणशब्दो ऽप्ययं प्रयुक्तः, ऽप्राणस्य प्राणम्ऽ (बृ. 4.4.18) इति दर्शनात् ।
एजयितृत्वमपीदं परमात्मन एवोपपद्यते न वायुमात्रस्य ।
तथाचोक्तम्- ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (का. 2.5.5) इति ।
उत्तरत्रापि ऽभयादस्याग्निस्तपति भयात्तपति सूर्यः ।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमःऽ (का. 2.6.3) इति ब्रह्मैव निर्देक्ष्यते न वायुः ।
सवायुकस्य जगतो भयहेतुत्वाभिधानात् ।
तदेवेहापि संनिधानान्महद्भयं, वज्रमुद्यतमिति च भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते ।
वज्रशब्दो ऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः ।
यथाहि वज्रमुद्यतं ममैव शिरसि निपतेद्यद्यहमस्य शासनं न कुर्यामित्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तत एवमिदमग्निवायुसूर्यादिकं जगदस्मादेव ब्रह्मणो बिभ्यन्नियमेन स्वव्यापारे प्रवर्तत इति भयानकं वज्रोपमितं ब्रह्म ।
तथाच ब्रह्मविषयं श्रुत्यन्तरम्- ऽभीषास्माद्वातः पवते ।
भीषोदेति सूर्यः ।
भीषास्मादग्निश्चेन्द्रश्च ।
मृत्युर्धावति पञ्चमःऽ (तै. 8.1) इति ।
अमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते ।
ब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः ।
ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे. 6.15) इति मन्त्रवर्णात् ।
यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितं तदापेक्षिकम् ।
तत्रैव प्रकणान्तरकरणेन परमात्मानमभिधाय ऽअन्तो ऽन्यदार्तम्ऽ (बृ. 3.4) इति वाय्वादेरार्तत्वाभिधानात् ।
प्रकरणादप्यत्र परमात्मनिश्चयः ।
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मत्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद (का. 1.2.14) इति परमात्मनः पृष्टत्वात् ॥ 39 ॥
fन्: भीषा भीत्या ।
अस्माद्ब्रह्मणो निमित्तादिति यावत् ।
पञ्चानां ग्रहणं ब्रह्मादिस्तम्बान्तचराचरोपलक्षणार्थम् ।
ऽअपपुनर्मृत्युं जयतिऽ इति श्रुत्या ह्यपमृत्योर्विजय उक्तो न तु परममृत्युविजय इत्यापेक्षिकत्वम् ।
11 ज्योतिरधिकरणम् । सू. 40
ज्योतिर् दर्शनात्

1.3.41

ऽएष संप्रसादो ऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यतेऽ (छा. 8.12.3) इति श्रूयते ।
तत्र संशय्यते, किं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः किंवा परं ब्रह्मेति ।
किं तावत्प्राप्तम् ।
प्रसिद्धमेव तेजो ज्योतिःशब्दमिति ।
कुतः ।
तत्र ज्योतिःशब्दस्य रूढत्वात् ।
ऽज्योतिःश्चरणाभिधानात्ऽ (ब्र.सू ।
1.1.24) इत्यत्र हि प्रकरणाज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते ।
नचेह तद्वत्किञ्चित्स्वार्थपरित्यागे कारणं दृश्यते ।
तथाच नाडीखण्डे- ऽअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमतेऽ (छा. 8.6.5) इति मुमुक्षोरादित्यप्राप्तिरभिहिता ।
तस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति ।
एवं प्राप्ते ब्रूमः - परमेव ब्रह्म ज्योतिःशब्दम् ।
कस्मात् ।
दर्शनात् ।
तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते, ऽ य आत्मापहतपाप्माऽ (छा. 8.7.1) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात् ।
ऽएतं त्वेव ते भूयो ऽनुव्याख्यास्यामिऽ (छा. 8.9.3) इति चानुसंधानात् ।
ऽअशरीरं वावसन्तं न प्रियाप्रिये स्पृशतःऽ(छा. 8.12.1) इति चाशरीरतायै ज्योतिःसंपत्तेरस्याभिधानात् ।
ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः ऽपरं ज्योतिःऽ ऽस उत्तमः पुरुषःऽ (छा. 8.12.3) इति च विशेषणात् ।
यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति ।
नासावात्यन्तिको मोक्षो गत्युत्क्रान्तिसंबन्धात् ।
नह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ 40 ॥
fन्: ऽअथ या एता हृदयस्य नाड्यःऽ इत्यादि नाडीखण्डः ।
तत्रादित्यग्रहानुरोधेन मुमुक्षोस्तत्प्राप्तिरभिहितेति संबन्धः ।
12 अर्थान्तरत्वव्यपदेशाधिकरणम् । सू. 41
आकाशो ऽर्थान्तरत्वादिव्यपदेशात्

1.3.42

ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्माऽ (छा. 8.14.1) इति श्रूयते ।
तत्किमाकाशसब्दं परं ब्रह्म किंवा प्रसिद्धमेव भूताकाशमिति विचारे भूतपरिग्रहो युक्तः ।
आकाशशब्दस्य तस्मिन्रूढत्वात्, नामरूपनिर्वहणस्य चावकाशादानद्वारेण तस्मिन्योजयितुं शक्यत्वात्, स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादिति ।
एवं प्राप्त इदमुच्यते- परमेव ब्रह्मेहाकाशशब्दं भवितुमर्हति ।
कस्मात् ।
अर्थान्तरत्वादिव्यपदेशात् ।
ऽते यदन्तरा तद्ब्रह्मऽ इति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ।
नच ब्रह्मणो ऽन्यन्नामरूपाभ्यामर्थान्तरं संभवतिऽ सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात् ।
नामरूपयोरपि निर्वहणं निरङ् कुशं न ब्रह्मणो ऽन्यत्र संभवति ।
ऽअनेन जीवेनात्मनानुप्रविश्यनामरूपे व्याकरवाणिऽ (छा. 6.3.2) इत्यादिब्रह्मकर्तृत्वश्रवणात् ।
ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढुत्वमस्ति ।
बाढमस्ति ।
अभेदस्त्विह विवक्षितः ।
नामरूपनिर्वहणाभिधानादेव च स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवति ।
ऽतद्ब्रह्म तदमृतं स आत्माऽ (छा. 8.14) इति च ब्रह्मवादस्य लिङ्गानि ।
ऽआकाशस्तल्लिङ्गात्ऽ (ब्र. 1.1.22) इत्यस्यैवायं प्रपञ्चः ॥ 41 ॥
fन्: नामरूपे शब्दाथा तदन्तःपातिनस्तद्भिन्नत्वं तत्कर्तृत्वं चायुक्तमित्यर्थः ।
13 सुषुप्त्युत्क्रान्त्यधिकरणम् । सू. 42-43
सुषुप्त्युत्क्रान्त्योर् भेदेन

1.3.43

व्यपदेशादित्यनुवर्तते ।
बृहदारण्यके षष्टे प्रपाठके ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ. 4.3.7) इत्युपक्रम्य भूयानात्मविषयः प्रपञ्चः कृतः ।
तत्किं संसारिस्वरूपमात्रान्वाख्यानपरं वाक्यमुतासंसारिस्वरूपप्रतिपादनपरमिति संशयः ।
किं तावत्प्राप्तम् ।
संसारिस्वरूपमात्रविषयमेवेति ।
कुतः ।
उपक्रमोपसंहाराभ्याम् ।
उपक्रमे ऽयो ऽयं विज्ञानमयः प्राणेषुऽ इति शारीरलिङ्गात् ।
उपसंहारे च स वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ (बृ. 4.4.22) इति तदपरित्यागात्, मध्ये ऽपि बुद्धान्ताद्यवस्थोपन्यासेन तस्यैव प्रपञ्चनादिति ।
एवं प्राप्ते ब्रूमः - परमेश्वरोपदेशपरमेवेदं वाक्यं न शारीरमात्रान्वाख्यानपरम् ।
कस्मात् ।
सुषुप्तावुत्क्रान्तौ च शरीराद्भेदेन परमेश्वरस्य व्यपदेशात् ।
सुषुप्तौ तावत् ऽअयं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ (बृ. 4.3.21) इति शारीराद्भेदेन परमेश्वरं व्यपदिशति ।
तत्र पुरुषः शारीरः स्यात्तस्य वेदितृत्वात् ।
बाह्याभ्यन्तरवेदनप्रसङ्गे सति तत्प्रतिषेधसंभवात् ।
प्राज्ञः परमेश्वरः, सर्वज्ञत्वलक्षणया प्रज्ञया नित्यमवियोगात् ।
तथोत्क्रान्तावपि ऽअयं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जन्यातिऽ (बृ. 4.3.35) इति जीवाद्भेदेन परमेश्वरं व्यपदिशति ।
तत्रापि शारीरो जीवः स्याच्छरीरस्वामित्वात् ।
प्राज्ञस्तु स एव परमेश्वरः ।
तस्मात्सुषुप्त्युत्क्रान्त्योर्भेदेन व्यपदेशात्परमेश्वर एवात्र विवक्षत इति गम्यते ।
यदुक्तमाद्यन्तमध्येषु शारीरलिङ्गात्तत्परत्वमस्य वाक्यस्येति ।
अत्र ब्रूमः - उपक्रमेतावत् ऽयो ऽयं विज्ञानमयः प्राणेषु इति न संसारिस्वरूपं विवक्षितं किं तर्ह्यनूद्य संसारिस्वरूपं परेण ब्रह्मणास्यैकतां विवक्षति ।
यतो ऽध्यायतीव लेलायतीवऽ इत्येवमाद्युत्तरग्रन्थप्रवृत्तिः संसारिधर्मनिराकरणपरा लक्ष्यते ।
तथोपसंहारे ऽपि यथोपक्रममेवोपसंहरति- ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ इति ।
यो ऽयं विज्ञानमयः प्राणेषु संसारी लक्ष्यते स वा एष महानज आत्मा परमेश्वर एवास्माभिः प्रतिपादित इत्यर्थः ।
यस्तु मध्ये बुद्धान्ताद्यवस्थोपन्यासात्संसारिस्वरूपविवक्षां मन्यन्ते, न प्राचीमपि दिशं प्रस्थापितः प्रतीचीमपि दिशं प्रतिष्ठेत ।
यतो न बुद्धान्ताद्यवस्थोपन्यासेनावस्थावत्त्वं संसारित्वं वा विवक्षति, किं तर्ह्यवस्थारहितत्वसंसारित्वं च ।
कथमेतदवगम्यते ।
यत् ऽअत ऊर्ध्वे विमोक्षायैव ब्रूहिऽ इति पदे पदे पृच्छति ।
यच्च ऽअनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषःऽ (बृ. 4.3.14,15) इति पदे पदे प्रतिवक्ति ।
ऽअनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्शोकान्हृदयस्य भवतिऽ (बृ. 43.22) इति च ।
तस्मादसंसारिस्वरूपप्रतिपादनपरमेवैतद्वाक्यमित्यवगन्तव्यम् ॥ 42 ॥
fन्: विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः ।
प्राणेष्विति सप्तमी व्यतिरेकार्था ।
प्राणबुद्धिभ्यां भिन्न इत्यर्थः ।
बुद्धान्तो जाग्रदवस्था ।
अन्वारूढो ऽधिष्ठितः ।
उत्सर्जन्घोराञ्शब्दन्मुञ्चन् ।
बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव, चलन्त्यां चलतीव ।
भवतीति यस्मात्प्रतिवक्ति तस्मादवगम्यत इति योजना ।
तेनावस्थाधर्मेणानन्वागतो ऽस्पृष्टो भवति असत्त्वात् ।
अत उर्ध्वं कामादिविवेकानन्तरम् ।
पत्यादिशब्देभ्यः

मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc