भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र (टीका सहित) · अध्याय 1.2

1.2.1

यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति ।
कुतः, जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च ।
जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि ।
अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते ।
तथा मुख्यप्राणलिङ्गमपि- ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ इति ।
शरीरधारणं च मुख्यप्राणस्य धर्मः, प्राणसंवादे वागादीन्प्राणान्प्रकृत्य- ऽतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्प्राणमवष्टभ्य विधारयामिऽ (प्र. 2.3) इति श्रवणात् ।
ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् ।
प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् ।
मुख्ये ऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव ।
जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदनिर्देश इत्युभयया निर्देश उपपद्यते- ऽयो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति ।
ब्रह्मपरिग्रहे तु किं कस्मद्भिद्येत ।
तस्मादिहजीवमुख्यप्राणयोरन्तर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवं, उपासात्रैविद्यात् ।
एवं सति त्रिविधमुपासनं प्रसज्येत- जीवोपासने मुख्यप्राणोपासनं ब्रह्मोपासनं चेति ।
नचैतदेकस्मिन्वाक्ये ऽभ्युपगन्तुं युक्तम् ।
उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते ।
ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इत्युक्त्वान्ते ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इत्येकरूपावुपक्रमोपसंहारौ दृश्येते ।
तत्रार्थैकत्वं युक्तमाश्रयितुम् ।
नच ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् ।
दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणो ऽन्यत्रार्पणानुपपत्तेः ।
आश्रिततावाच्चान्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः ।
इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगाद्ब्रह्मोपदेश एवायमिति गम्यते ।
यत्तु मुख्यप्राणलिङ्गं दर्शितम्- ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, तदसत् ।
प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् ।
ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (काठ. 2.5.5) इति श्रुतेः ।
यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितं तदपि न ब्रह्मपक्षं निवारयति ।
नहि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽ इत्यादिश्रुतिभ्यः ।
बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सञ्जीवः कर्ता भोक्ता चेत्युच्यते ।
तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुं ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादिना प्रत्यगात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते ।
ऽयद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥
ऽ (के. 1.4) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति ।
यत्पुनरेतदुक्तम्- ऽसह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति ।
नैष दोषः ।
ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोरभेदनिर्देशोपपत्तेः उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरणमविरुद्धम् ।
अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योर्ऽथः- न ब्रह्मवाक्यो ऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते ।
कथम्, उपासात्रैविध्यात् ।
त्रिविधमिह ब्रह्मोपासने विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च ।
तत्र ऽआयुरमृतमुपाःस्वायुः प्राणःऽ इति, ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, ऽतस्मादेतदेवोक्थमुपासीतऽ इति च प्राणधर्मः ।
ऽअथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःऽ इत्युपक्रम्य ऽवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिऽ इत्यादिः प्रज्ञाधर्मः ।
ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् ।
यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः ।
यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः ।
नह्यन्तरतो रूपं किञ्चन सिद्ध्येत् ।
नो एतन्नाना ।
ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्माऽ इत्यादिर्ब्रह्मधर्मः ।
तस्माद्ब्रह्म एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् ।
अन्यत्रापि ऽमनोमयः प्राणशरीरःऽ (छा. 3.14.2) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् ।
इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात्प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च ।
तस्माद्ब्रह्मवाक्यमेतदिति सिद्धम् ॥ 31 ॥
इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीशङ्करभगवत्पादकृतौ प्रथमाध्यायस्य प्रथमः पादः ॥ 1 ॥
fन्: यथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं किञ्चिद्ब्रह्मवाक्यमित्यर्थः ।
प्राणसंवादे- वागादयः सर्वे प्रत्येकमात्मनः श्रैष्ठ्यं मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः ।
स तानुवाच यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति ।
ततः क्रमेण वागादिषूत्क्रान्तेष्वपि शरीरं स्वस्थमस्थत् ।
मुख्यप्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वे ।
वरिष्ठः प्राणो ऽब्रवीदहमेव पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्भाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्येति ।
पञ्च शब्दादयः पञ्च पृथिव्यादय इति दश भूतमात्राः ।
पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः ।
अन्यत्र ऽअत एव प्राणऽ इत्यादौ ।
येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापद्यते तदेव वागादेरगम्यं ब्रह्म ।
उपासेति स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, नत्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः ।
तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् ।
उत्थापयतीत्युक्थमिति प्राणधर्मः ।
अथेति जीवधर्मः ।
____________________________________________________________________________________________ ____________________________________________________________________________________________
प्रथमाध्याये द्वितीयः पादः ।
[अत्रास्पष्टब्रह्मलिङ्गयुक्तवाक्यानामुपास्यब्रह्मविषयाणां विचारः] ।
1 सर्वत्र प्रसिद्ध्यधिकरणम् । सू. 1-8
प्रथमे पादे ऽजन्माद्यस्य यतःऽ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् ।

तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं, नित्यत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वात्मत्वमित्येवञ्जातीयका धर्मा उक्ता एव भवन्ति ।
अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतीनि ।
पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते- किं परं ब्रह्म प्रतिपादयन्त्याहोस्विदर्थान्तरं किञ्चिदस्ति ।
तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते ।
सर्वत्र प्रसिद्धोपदेशात्

1.2.2

इदमाम्नायते- ऽसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीतऽ, ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. 3.14.1,2) इत्यादि ।
तत्र संशयः- किमिह मनोमयत्वादिभिर्धर्मैः शारीर आत्मोपास्यत्वेनोपदिश्यत आहोस्वित्परं ब्रह्मेति ।
किं तावत्प्राप्तम् ।
शारीर इति ।
कुतः, तस्य हि कार्यकरणाधिपतेः प्रसिद्धो मनआदिभिः संबन्धो न परस्य ब्रह्मणः, ऽअप्राणो ह्यमनाः शुभ्रःऽ (मु. 2.1.2) इत्यादिश्रुतिभ्यः ।
ननु ऽसर्वं खल्विदं ब्रह्मऽ इति स्वशब्देनैव ब्रह्मोपात्तं, कथमिह शारीर आत्मोपास्य आशङ्क्यते ।
नैष दोषः ।
नेदं वाक्यं ब्रह्मोपासनाविधिपरं किं तर्हि शमविधिपरम् ।
यत्कारणं ऽसर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीतऽ इत्याह ।
एतदुक्तं भवति- यस्मात्सर्वमिदं विकारजातं ब्रह्मैव, तज्जत्वात्तल्लत्वात्तदनत्वाच्च ।
नच सर्वस्यैकात्मत्वे रागादयः संभवन्ति, तस्माच्छान्त उपासीतेति ।
नच शमविधिपरत्वे सत्यनेन वाक्येन ब्रह्मोपासनं नियन्तुं शक्यते ।
उपासनं तु ऽस क्रतुं कुर्वीतऽ इत्यनेन विधीयते ।
क्रतुः संकल्पो ध्यानमित्यर्थः ।
तस्य च विषयत्वंन श्रूयते- ऽमनोमयः प्राणशरीरःऽ इति जीवलिङ्गम् ।
अतो ब्रूमो जीवविषयमेतदुपासनमिति ।
ऽसर्वकर्मा सर्वकामःऽ इत्याद्यपि श्रूयमाणं पर्यायेण जीवविषयमुपपद्यते ।
ऽएष म आत्मान्तर्हृदये ऽणीयान्व्रीहेर्वा यवाद्वाऽ इति च हृदयायतनत्वमणीयस्त्वं चाराग्रमात्रस्य जीवस्यावकल्पते नापरिच्छिन्नस्य ब्रह्मणः ।
ननु ऽज्यायान्पृथिव्याऽ इत्याद्यपि न परिच्छिन्ने ऽवकल्पत इति ।
अत्र ब्रूमः- न तावदणीयस्त्वं ज्यायस्त्वं चोभयमेकस्मिन्समाश्रयितुं शक्यं, विरोधात् ।
अन्यतराश्रयणे च प्रथमश्रुतत्वादणीयस्त्वं युक्तमाश्रयितुं, ज्यायस्त्वं तु ब्रह्मभावापेक्षया भविष्यतीति ।
निश्चिते च जीवविषयत्वे यदन्ते ब्रह्मसंकीर्तनं ऽएतद्ब्रह्मऽ (छा. 3.14.4) इति, तदपि प्रकृतपरामर्शार्थत्वाज्जीवविषयमेव ।
तस्मान्मनोमयत्वादिभिर्धर्मैरुपास्यम् ।
कुतः, सर्वत्र प्रसिद्धोपदेशात् ।
यत्सर्वेषु वेदान्तेषु प्रसिद्धं ब्रह्मशब्दस्यालम्बनं जगत्कारणंस इह च ऽसर्वं खल्विदं ब्रह्मऽ इति वाक्योपक्रमे श्रुते, तदेव मनोमयत्वादिधर्मैर्विशिष्टमुपदिश्यत इति युक्तम् ।
एवञ्च प्रकृतहानाप्रकृतप्रक्रिये न भविष्यतः ।
ननु वाक्योपक्रमे शमविधिविवक्षया ब्रह्म निर्दिष्टं न स्वविवक्षयेत्युक्तम् ।
अत्रोच्यते- यद्यपि शमविधिविवक्षया ब्रह्म निर्दिष्टं तथापि मनोमयत्वादिषूपदिश्यमानेषु तदेव ब्रह्म संनिहितं भवति ।
जीस्तु न संनिहितो नच स्वशब्देनोपात्त इति वैषम्यम् ॥ 1 ॥
fन्.:तस्मिन् जायत इति तज्जं, तस्मिन् इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं तज्जं चतल्लं च तदनं चेति तज्जलान् ।
शाकपार्थिवादिन्यायेन मध्यमस्य तच्छब्दस्य लोपः ।
तज्जलानमिति वक्तव्ये छान्दसो ऽवयवलोपः ।
विभक्तिव्यत्ययेन मनोमयं प्राणशरीरं भारूपं ध्यायेदित्यर्थः ।
यत एवमाह तस्माच्छमविधिपरमित्यर्थः ।
तोत्रप्रोतायःशलाकाग्रपरिमाणस्येत्यर्थः ।
प्राणः शरीरमस्येति समासगतसर्वनाम्ना संनिहितार्थेन प्रकृतं ब्रह्म हित्वा जीवमप्रकृतमिच्छतः प्रकृतहानिरप्रकृतप्रक्रियाचेत्यर्थः ।
वैषम्यं जीवब्रह्मणोरिति शेषः ।
विवक्षितगुणोपपत्तेश् च

1.2.3

वक्तुमिष्टा विवक्षिताः ।
यद्यप्यपौरुषेये वेदे वक्तुरभावान्नेच्चार्थः संभवति तथाप्युपादानेन फलेनोपचर्यते ।
लोके हि यच्छब्दाभिहितमुपादेयं भवति तद्विवक्षितमित्युच्यते, यदनुपादेयं तदविवक्षितमिति ।
तदमवेदे ऽप्युपादेयत्वेनाभिहितं विवक्षितं भवति, इतरदविवक्षितम् ।
उपादानानुपादाने तु वेदवाक्यतात्पर्याभ्यामवगम्यते ।
तदिह ये विवक्षिता गुणा उपासनायामुपादेयत्वेनोपदिष्टाः सत्यसंकल्पप्रभृतयस्ते परस्मिन्ब्रह्मण्युपपद्यन्ते ।
सत्यसंकल्पत्वं हि सृष्टिस्थितिसंहारेष्वप्रतिबद्धशक्तित्वात्परमात्मन एवावकल्पते ।
परमात्मगुणत्वेन च ऽय आत्मापहृतपाप्माऽ (छा. 8.7.1) इत्यत्र ऽसत्यकामः सत्यसंकल्पऽ इति श्रुतम् ।
आकाशात्मेत्यादिनाकाशवदात्मास्येत्यर्थः ।
सर्वगतत्वादिभिर्धर्णैः संभवत्याकाशेन साम्यं ब्रह्मणः ।
ऽज्यायान्पृथिव्याःऽ इत्यादिना चैतदेव दर्शयति ।
यदाप्याकाश आत्मा यस्येति व्याख्यायचते, तदपि संभवति सर्वजगत्कारणस्य सर्वात्मनो ब्रह्म आकाशात्मत्वम् ।
अत एव ऽसर्वकर्माऽ इत्यादि ।
एवमिहोपास्यतया विवक्षिता गुणा ब्रह्मण्युपपद्यन्ते ।
यत्तूक्तं ऽमनोमयः प्राणशरीरःऽ इति जीवलिङ्गं न तद्ब्रह्मण्युपपद्यत इति, तदपि ब्रह्मण्युपपद्यत इति ब्रूमः ।
सर्वात्मत्वाद्धि ब्रह्मणो जीवसंबन्धीनि मनोमयत्वादीनि ब्रह्मसंबन्धीनि भवन्ति ।
तथाच ब्रह्मविषये श्रुतिस्मृती भवतः- ऽत्वं स्त्री त्वं कुमार उत वा कुमारी ।
त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे. 4.3) इति, सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति (गी. 13.13) इति च ।
ऽअप्राणो ह्यमनाः शुभ्रःऽ इति श्रुतिः शुद्धब्रह्मविषया, इयं तु ऽमनोमयः प्राणशरीरःऽ इति सगुणब्रह्मविषयेति विशेषः ।
अतो विवक्षितगुणोपपत्तेः परमेव ब्रह्मेहोपास्यत्वेनोपदिष्टमिति गम्यते ॥ 2 ॥
fन्: उपादानानुपादाने परिग्रहपरित्यागौ ।
तात्तर्यं नाम फलवदर्थप्रतीत्यनुकूत्वं शब्दधर्मः ।
उपक्रमादिना ज्ञानात्तयोरवगम इत्यर्थः ।
जीर्णः स्थविरो भूत्वा योदण्डेन वञ्चति गच्छति, तथा यो जातः बालः सो ऽपि त्वमेव ।
अनुपपत्तेस् तु न शारीरः

1.2.4

पूर्वेण सुत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता ।
अनेन तु शारीरे तेषामनुपपत्तिरुच्यते ।
तुशब्दो ऽवधारणार्थः ।
ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणं, नतु शारीरो जीवो मनोमयत्वादिगुणः ।
यत्कारणं ऽसत्यसंकल्पः, आकाशात्मा, अवाकी, अनादरः, ज्यायान्पृथिव्याऽ इति चैवञ्जातीयका गुणा न शारीर आञ्जस्येनोपपद्यन्ते ।
शारीर इति शरीरे भव इत्यर्थः ।
नन्वीश्वरो ऽपि शरीरे भवति ।
सत्यम् ।
शरीरे भवति नतु शरीर एव भवति, ऽज्यायान्पृथिव्या ज्यायानन्तरिक्षात्ऽ, ऽआकाशवत्सर्वगतश्च नित्यःऽ इति च व्यापितत्वश्रवणात् ।
जीवस्तु शरीर एव भवति, तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात् ॥ 3 ॥
fन्: वागेव वाकः सो ऽस्यास्तीति वाकी न वाकी अवाकी वागादिसर्वेन्द्रियरहितः ।
आप्तकामत्वान्न कुत्रचितदादरो ऽस्तीत्यनादरः ।
कर्मकर्तृव्यपदेशाच् च

1.2.5

इतश्च न शारीरो मनोमयत्वादिगुणः, यस्मात्कर्मकर्तृव्यपदेशो भवति ऽएतमितः प्रेत्याभिसंभवितास्मिऽ (छा. 3.14.4) इति ।
एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति ।
अभिसंभवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन ।
अभिसंभवितास्मीति ।
प्राप्तास्मीत्यर्थः ।
नच सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः ।
तथोपास्योपासकभावो ऽपि भेदाधिष्ठान एव ।
तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः ॥ 4 ॥
fन्: एतमिति प्रापकत्वेन व्यपदिशतीति संबन्धः ।
शब्दविशेषात्

1.2.6

इतश्च शारीरादन्यो मनोमयत्वादिगुणः, यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरि- ऽयथाव्रीहिर्वा यवो वा श्यमको वा श्यमाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयःऽ (शत. ब्रा. 10.6.3.2) इति ।
शारीरस्यत्नो यः शब्दो ऽभिधायकः सप्तम्यन्तो ऽन्तरात्मन्निति तस्माद्विशिष्टो ऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनो ऽभिधायकः ।
तस्मात्तयोर्भेदो ऽधिगम्यते ॥ 5 ॥
fन्: समानप्रकरणत्वमेकविद्याविषयत्वाम् ।
अन्तरात्मन्निति छान्दसो विभक्तिलोपः ।
अन्तरात्मनीत्यर्थः ।
स्मृतेश् च

1.2.7

स्मृतिश्च शारीरपरमात्मनोर्भेदं दर्शयति- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्टति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ ।
(गी. 18.61) इत्याद्या ।
अत्राह- कः पुनरयं शारीरो नाम परमात्मनो ऽन्यः, यः प्रतिषिध्यते ऽअनुपपत्तेस्तु न शारीरःऽ इत्यादिना ।
श्रुतिस्तु- ऽनान्यो ऽतो ऽस्ति द्रष्टा श्रोताऽ (बृह. 3.7.23) इत्येवञ्जातीयका परमात्मनो ऽन्यमात्मानं वारयति ।
तथा स्मृतिरपि- ऽक्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारतऽ (गी. 13.2) इत्येवञ्जातीयकेति ।
अत्रोच्यते- सत्यमेतत् ।
पर एवात्मा देहेन्द्रियमनोबुद्ध्युपाधिभिः परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते ।
यथा घटकरकाद्युपाधिवशादपरिच्छिन्नमपि नभः परिच्छिन्नवदवभासते, तद्वत् ।
तदपेक्षया च कर्मकर्तृत्वादिभेदव्यवहारो न विरुध्यते प्राक् ऽतत्त्वमसिऽ इत्यात्मैकत्वोपदेशघणात् ।
गृहीते त्वात्मैकत्वे बन्धमोक्षादिसर्वव्यवहारपरिसमाप्तिरेव स्यात् ॥ 6 ॥
fन्: तदपेक्षया औपाधिकभेदापेक्षया ।
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च

1.2.8

अर्भकमल्पमोको नीडं, ऽएष म आत्मान्तर्हृदयेऽ इति परिच्छिन्नायतनत्वात्, स्वशब्देन च ऽअणीयान्व्रीहेर्वा यवाद्वाऽ इत्यणीयस्त्वव्यपदेशात्, शारीर एवाराग्रमात्रो जीव इहोपदिश्यते, न कर्वगतः परमात्मेति यदुक्तं तत्परिहर्तव्यम् ।
अत्रोच्यते- नायं दोषः ।
न तावत्परिच्छिन्नदेशस्य सर्वगतत्वव्यपदेशः कथमप्युपपद्यते ।
सर्वगतस्य तु सर्वदेशेषु विद्यमानत्वात्परिच्छिन्नदेशव्यपदेशो ऽपि कयाचिदपेक्षया संभवति ।
यथा समस्तवसुधाधिपतिरपि हि सन्नयोध्याधिपतिरिति व्यपदिश्यते कया पुनरपेक्षया सर्वगतः सन्नीश्वरोर्ऽभकौका अणीयांश्च व्यपदिश्यत इति ।
निचाय्यत्वादेवमिति ब्रूमः ।
एवमणीयस्त्वादिगुणगणोपेत ईश्वरस्तत्र हृदयपुण्डरीके निचाय्यो द्रष्टव्य उपदिश्यते ।
यथा शालग्रामे हरिः ।
तत्रास्य बुद्धिविज्ञानं ग्राहकम् ।
सर्वगतो ऽपीश्वरस्तत्रोपास्यमानः प्रसीदति ।
व्योमवच्चैतद्द्रष्टव्यम् ।
यथा सर्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षायार्भकौको ऽणीयश्च व्यपदिश्यते, एवं ब्रह्मापि ।
तदेवं निचाय्यत्वापेक्षं ब्रह्मणोर्ऽभकौकस्त्वमणीयस्त्वं च न पारमार्थिकम् ।
तत्र यदशङ्क्यते, हृदयायतनत्वाद्ब्रह्मणो हृदयायतनानां च प्रतिशरीरं भिन्नत्वाद्भिन्नायतनानां च शुकादीनामनेकत्वसावयवत्वानित्यत्वादिदोषदर्शनाद्ब्रह्मणो ऽपि तत्प्रसङ्ग इति, तदपि परिहृतं भवति ॥ 7 ॥
fन्: अर्भकशब्दस्य शिशुविषयत्वनिषेधार्थमल्पमिति पर्यायत्वोक्ति ।
कथमपि ब्रह्मभावपेक्षे ऽपि ।
निचाय्यत्वाद्द्रष्टव्यत्वात् ।
संभोगप्राप्तिर् इति चेन् न वैशेष्यात्

1.2.9

व्येमवत्सर्वगतस्य ब्रह्मणः सर्वप्राणिहृदयसंबन्धात्, चिद्रूपतया च शारीरादविशिष्टत्वात्, सुखदुःखादिसंभोगो ऽप्यविशिष्टः प्रसज्येत ।
एकत्वाच्च ।
नहि परस्मादात्मनो ऽन्यः कश्चिदात्मा संसारी विद्यते, ऽनान्यो ऽतो ऽस्ति विज्ञाताऽ (बृ. 3.7.23) इत्यादिश्रुतिभ्यः ।
तस्मात्परस्येव संसारसंभोगप्राप्तिरिति चेत्, न वैशेष्यात् ।
न तावत्सर्वप्राणिहृदयसंबन्धाच्छरीरवद्ब्रह्णः संभोगप्रसङ्गः, वैशेष्यात् ।
विशेषो हि भवति शारीरपरमेश्वरयोः ।
एकः कर्ता भोक्ता धर्माधर्मसाधनः सुखदुःखादिमांश्च ।
एकस्तद्विपरीतो ऽपहतपाप्मत्वादिगुणः ।
एतस्मादनयोर्विशेषादेकस्य भोगो नेतरस्य ।
यदि च संनिधानमात्रेण वस्तुशक्तिमनाश्रित्य कार्यसंबन्धो ऽभ्युपगम्येत, आकाशादीनामपि दाहादिप्रसङ्गः ।
सर्वगतानेकात्मवादिनामपि समावेतौ चोद्यपरिहारौ ।
यदप्येकत्वाद्ब्रह्मण आत्मान्तराभावाच्छरीरस्य भोगेन ब्रह्णो भोगप्रसङ्ग इति ।
अत्र वदामः- इदं तावद्देवानांप्रियः प्रष्टव्यः ।
कथमयं त्वयात्मान्तराभावो ऽध्यवसित इति ।
ऽतत्तवमसिऽ ऽअहं ब्रह्मास्मिऽ ऽनान्यो ऽतो ऽस्ति विज्ञाताऽ इत्यादिशास्त्रेभ्य इति चेत्, यथाशास्त्रं तर्हि शास्त्रीयोर्ऽथः प्रतिपत्तव्यो न तत्रार्धजरतीयं लभ्यम् ।
शास्त्रं च तत्त्वमसि इत्यपहतपाप्मत्वादिविशेषणं ब्रह्म शारीरस्यात्मत्वेनोपदिशच्छारीरस्यैव तावदुपभोक्तृत्वं वारयति ।
कुतस्तदुपभोगेन ब्रह्मण उपभोगप्रसङ्गः ।
अथागृहीतं शारीरस्य ब्रह्मणैकत्वं तदा मिथ्याज्ञाननिमित्तः शारीरस्योपभोगः, न तेन परमार्थरूपस्य ब्रह्मणः संस्पर्शः ।
नहि बालैस्तलमलिनतादिभिर्व्योम्नि विकल्प्यमाने तलमलितादिविशिष्टमेव परमार्थतो व्योम भवति ।
तदाह- न वैशेष्यादिति ।
नैकत्वे ऽपि शारीरस्योपभोगेन ब्रह्मण उपभोगप्रसङ्गः, वैशेष्यात् ।
विशेषो हि भवति मिथ्याज्ञानसम्यग्ज्ञनयोः ।
मिथ्याज्ञानकल्पित उपभोगः, सम्यग्ज्ञानदृष्टमेकत्वम् ।
नच मिथ्याज्ञानकल्पितेनोपभोगेन सम्यग्ज्ञानदृष्टं वस्तु संस्पृश्यते ।
तस्मान्नोपभोगगन्धो ऽपि शक्य ईश्वरस्य कल्पयितुम् ॥ 8 ॥
fन्: धर्माधर्मत्त्वमुपाधिरित्यर्थः ।
अयमेव विशेषो वैशेष्यं ।
स्वार्थे ष्यञ् प्रत्ययः ।
विशेषस्यातिशयार्थो वा ।
धर्मादेः स्वाश्रये फलहेतुत्वमतिशयस्तस्मादिति सुत्रार्थः ।
विभवो बहवश्चात्मन इति वादिनाम् ।
अर्धेति ।
अर्धंमुखमात्रं जरत्या बुद्धायाः कामयते नाङागानीति सो ऽयमर्धजरतीन्यायः ।
मनोमयत्वादिविशिष्टस्यैवेश्वरस्य ध्यानार्थं हार्दत्वे ऽपि निर्देषत्वात्तस्मिन्नेव शाण्डिल्यविद्याविद्ये सर्वं इत्यादिवाक्यं समन्वितमित्यर्थः ।
2 अन्त्रधिकरणम् ।
9-10
अत्ता चराचरग्रहणात्

1.2.10

कठवल्लीषु पठ्यते- ऽयस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्यूर्यस्योपसेवनं क इत्या वेद यत्र सःऽ (1.2.24) इति ।
अत्र कश्चिदोदनोपसेचनसूचितो ऽत्ता प्रतीयते ।
तत्र किमग्निरत्ता स्यात्, उत जीवः, अथवा परमात्मेति संशयः ।
विशेषानवधारणात् ।
त्रयाणां चाग्निजीवपरमात्मनामस्मिन्ग्रन्थे प्रश्नोपन्यासोपलब्धेः ।
किं तावत्प्राप्तम् ।
अग्निरत्तेति ।
कुतः, ऽअग्निरन्नादःऽ (बृ. 1.4.6) इति श्रुतिप्रसिद्धिभ्याम् ।
जीवो वात्ता स्यात्, ऽतयोरन्यः पिप्पलं स्वाद्वत्तिऽ इति दर्शनात् ।
न परमात्मा, ऽअनश्नन्नन्यो ऽअभिचाकशीतिऽ (मुण्ड. 3.1.1) इति दर्शनादित्येवं प्राप्ते ब्रूमः- अत्तात्र परमात्मा भवितुमर्हति ।
कुतः, चराचरग्रहणात् ।
चराचरं हि स्थावरजङ्गमं मृत्युपसेचनमिहाद्यात्वेन प्रतीयते, तादृशस्य चाद्यस्य न परमात्मनो ऽन्यः कार्त्स्येनात्ता संभवति ।
परमात्मा तु विकारजातं संहरन्सर्वमत्तीत्युपपद्यते ।
नन्विह चराचरग्रहणं नोपलभ्यते, कथं सिद्धवच्चराचरग्रहणं हेतुत्वेनोपादीयते ।
नैष दोषः ।
मृत्युपसेचनत्वेन सर्वस्य प्राणिनिकायस्य प्रतीयमानत्वात्, ब्रह्मक्षत्रयोश्च प्राधान्यात्प्रदर्शनार्थत्वोपपत्तेः ।
यत्तु परमात्मनो ऽपि नात्तृत्वं संभवति, ऽअनश्नन्नन्यो ऽअभिचाकशीतिऽ इति दर्शनादिति ।
अत्रोच्यते- कर्मफलभोगस्यप्रतिषेधकमेतद्दर्शनं, तस्य संनिहितत्वात् ।
न विकारसंहारस्य प्रतिषेधकं,
सर्ववेदान्तेषु सृष्टिस्थितिसंहारकारणत्वेन ब्रह्मणः प्रसिद्धत्वात् ।
तस्मात्परमात्मात्मैवेहात्ता भवितुमर्हति ॥ 9 ॥
fन्: यस्य परमात्मनो ब्रह्म क्षत्रं चोभे जाती प्रसिद्धान्नवदोदनौ भवतः, यस्य मृत्युः सर्वमारकः सन्नुपसेचनमोदनमिश्रघृवत्तिष्ठति, यत्र सो ऽत्ता कारणात्मा वर्तते, तं निर्विशेषमात्मानं ऽनाविरतो दुश्चरितात्ऽ इति मन्त्रोक्तोपायवान्यथा वेद इत्था इत्थमन्यस्तद्रहितो न वेदेत्यर्थः ।
प्रदर्शनमुपलक्षणम् ।
नच ब्रह्क्षत्रे एवात्र विवक्षिते, मृत्यूपसेचनेन प्राणभृन्मात्रोपस्थापनात् ।
प्राणिषु प्रधानत्वेन च ब्रह्मक्षत्रोपन्यासस्योपपत्तेः ।
प्रकरणाच् च

1.2.11

इतश्च परमात्मैवेहात्ता भवितुमर्हति, यत्कारणं प्रकरणमिदं परमत्मनः, ऽन जायते म्रियते वा विपश्चित्ऽ (काठ. 1.2.18) इत्यादि प्रकृतग्रहणं च न्याय्यम् ।
ऽक इत्था वेद यत्र सःऽ इति च दुर्विज्ञानत्वं परमात्मलिङ्गम् ॥ 10 ॥
3 गुहाप्रविष्टाधिकरणम् । सू. 11-12
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्

1.2.12

कठवल्लीष्वेव पठ्यते- ऽऋतं पिबन्तौ लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्टग्नयो ये च त्रिणाचिकेताःऽ (काठ. 1.3.1) इति ।
तत्र संशयः, किमिह बुद्धिजीवौ निर्दिष्टावुत जीवपरमात्मानाविति ।
यदि बुद्धिजीवौ, ततो बुद्धिप्रधानात्कार्यकरणसंघाताद्विलक्षणो जीवः प्रतिपादितो भवति ।
तदपीह प्रतिपादितव्यं, ऽयेयं प्रेते विचिकित्सा मनुष्ये ऽस्तीत्येके नायमस्तीति चैके ।
एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयःऽ (काठ. 1.1.20) इति पृष्टत्वात् ।
अथ जीवपरमात्मानौ ततो जीवाद्विलक्षणः परमात्मा प्रतिपादितो भवति ।
तदपीह प्रतिपादयितव्यं, ऽअन्यत्र धर्मादन्यत्राधर्मदन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वदऽ (काठ. 1.2.14) इति पृष्टत्वात् ।
अत्राहाक्षेप्ता- उभाप्येतौ पक्षौ न संभवतः ।
कस्मात्, ऋतपानं कर्मफलोपभोगः, सुकृतस्य लोके, इति च द्विवचनेन द्वयोः पानं दर्शयति श्रुतिः ।
अतो बुद्धिक्षेत्रज्ञपक्षस्तावन्न संभवति ।
अत एव क्षेत्रज्ञपरमात्मपक्षो ऽपि न संभवति, चेतने ऽपि परमात्मनि ऋतपानासंभवात् ।
ऽअनश् नन्नन्यो ऽअभिचाकशीतिऽ इति मन्त्रवर्णादिति ।
अत्रोच्यते- नैष दोषः ।
छत्रिणो गच्छन्तीत्येकेनापि छत्रिणा बहूनां छत्रित्वोपचारदर्शनात् ।
एवमेकेनापि पिबता द्वौ पिबन्तावुच्येते ।
यद्वा जीवस्तावत्पिबति, ईश्वरस्तु पाययति ।
पाययन्नपि पिबतीत्युच्यते ।
पाचयितर्यपि प्रक्तृत्वप्रसिद्धिदर्शनात् ।
बुद्धिक्षेत्रज्ञपरिग्रहो ऽपि संभवति, करणे कर्तृत्वोपचारात् ।
एधांसि पचन्तीति प्रयोगदर्शनात् ।
नचाध्यत्माधिकारे ऽन्यौ कौचिधावृतं पिबन्तौ संभवतः ।
तस्माद्बुद्धिजीवौ स्यातां, जीवपरमात्मानौ वेति संशयः ।
किं तावत्प्राप्तं. बुद्धिक्षेत्रज्ञाविति ।
कुतः, ऽगुहां प्रविष्टौऽ इति विशेषणात् ।
यदि शरीरं गुहा, यदि वा हृदयं, उभयथापि बुद्धिक्षेत्रज्ञौ गुहां प्रविष्टावुपपद्येते ।
नच सति संभवेसर्वगतस्य ब्रह्मणो विशिष्टदेशत्वं युक्तं कल्पयितुम् ।
ऽसुकृतस्य लोकेऽ इति च कर्मगोचरानतिक्रमं दर्शयति ।
परमात्मा तु न सुकृतस्य वा दुष्कृतस्य वा गोचरे वर्तते, ऽन कर्मणा वर्धते नो कनीयान्ऽ इति श्रुतेः ।
ऽछायातपौऽ इति च तेतनाचेतनयोर्निर्देश उपपद्यते ।
छायातपवत्परस्परविलक्षणत्वात् ।
तस्माद्बुद्धिक्षेत्रज्ञाविहोच्येयातामित्येवं प्राप्ते ब्रूमः- विज्ञानात्मपरमात्मानाविहोच्येयाताम् ।
कस्मात्, आत्मानौ हि तावुभावपि चेतनौ समानस्वभावौ ।
संख्याश्रवणे च समानस्वभावेष्वेव लोके प्रतीतिर्दृश्यते ।
अस्य गोर्द्वितीयो ऽन्वेष्टव्य इत्युक्ते गौरेव द्वितीयो ऽन्विष्यते, नाश्वः पुरुषो वा ।
तदिह ऋतपानेन लिङ्गेन निश्चिते विज्ञानात्मनि द्वितीयान्वेषणायां समानस्वभावश्चेतनः परमात्मैव प्रतीयते ।
ननूक्तं गुहाहितत्वदर्शनान्न परमात्मा प्रत्येतव्य इति ।
गुहाहितत्वदर्शनादेव परमात्माप्रत्येतव्य इति वदामः ।
गुहाहितत्वं तु श्रुतिस्मृतिष्वसकृत्परमात्मन एव दृश्यते- ऽगुहाहितं गह्वरेष्ठं पुराणम्ऽ (काठ. 1.2.12) ऽयो वेद निहितं गुहायां परमे व्योमन्ऽ (तै. 2.1) ऽआत्मानमन्विच्छ गुहां प्रविष्टम्ऽ इत्याद्यासु ।
सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थो देशविशेषोपदेशो न विरुध्यत इत्येदप्युक्तमेव ।
सुकृतलोकवर्तित्वं तु छत्रित्ववदेकस्मिन्नपि वर्तमानमुभयोरविरुद्धम् ।
छायातपावित्यप्यविरुद्धम् ।
छायातपवत्परस्परविलक्षणत्वात्संसारित्वासंसारित्वयोः ।
अविद्याकृतत्वात्संसारित्वस्य ।
पारमार्थिकत्वाच्चासंसारित्वस्य ।
तस्माद्विज्ञानात्मपरमातमानौ गुहां प्रविष्टौ गृह्येते ॥ 11॥
कुतश्च विज्ञानात्मपरमात्मानौ गृह्येते-
fन्: ऋतं सत्यं कर्मफलं पिबन्तौ, भुञ्जानौ सुकृतस्य लोके सम्यगर्जितस्यादृष्टस्य कार्ये देहे वर्तमानो परस्य ब्रह्मणोर्ऽधं स्थानमर्हतीति परार्धं हृदयं तस्मिन्परमे श्रेष्ठे या गुहा नभोक्षणा तां प्रविश्य सथितौ छायातपवन्मिथो विरुद्धौ, तौ च ब्रह्मविदः कर्मिणश्च वदन्ति ।
त्रिर्नाचिकेतो ऽग्निश्चितो यैस्ते ऽपि वदन्ति ।
मनुष्ये प्रेते मृतेसति येयं विचिकित्सा संशयः ।
परलोकभोक्तास्तीत्येके नास्तीति चान्ये ।
त्वयोपदिष्टो ऽहमेतत्तत्वं ज्ञातुमिच्छामीत्यर्थः ।
अन्यत्र धर्माधर्माभ्यामन्यत्र, अस्मात्कृताकृतात् धर्माधर्मास्पृष्टं, कृताकृतात् कार्यकारणाद्भिन्नं यत् तद्ब्रह्म ।
यद्वेति ।
स्वातन्त्र्यलक्षणं हि कर्तृत्वं तच्च पातुरिव पाययितुरप्यस्तीति सो ऽपि कर्ता ।
अतएवाहुर्यः कारयति सो ऽपि कर्तेति ।
गुहाहितं बुद्धौ स्थितं गह्वरे ऽनेकानर्थसंकुले देहे स्थितं, पुराणमादिपुरुषम् ।
परमे व्योमन् श्रेष्ठे हार्दाकाशे तत्र गुहायां बुद्दौ ।
अन्विच्छ विचारय ।
विशेषणाच् च

1.2.13

विशेषणं च विज्ञानात्मपरमात्मनोरेव भवति ।
ऽआत्मानं रथिनं विद्धि शरीरं रथमेव तुऽ (का. 1.3.3) इत्यादिना परेण ग्रन्थेन रथिरथादिरूपककल्पनया विज्ञानात्नां रथिनं संसारमोक्षयोर्गन्तारं कल्पयति ।
ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ ।
(का. 1.3.9) इति च परमात्मानं गन्तव्यम् ।
तथा ऽतं दुर्दर्श गूढमनुप्रविष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहातिऽ (का. 1.2.12) इति पूर्वस्मिन्नपि ग्रन्थे मन्तृमन्तव्यत्वेनैतावेव विशेषितौ ।
प्रकरणं चेद परमात्मनः ।
ब्रह्मविदो वदन्ति इति च वक्तृविशेषोपादनं परमात्मपरिग्रहे घटते ।
तस्मादिह जीवपरमात्मानावुच्येयाताम् ।
एष एव न्यायः ऽद्वा सुपर्णा सयुजा सखायाऽ (मुण्ड. 3.1.1) इत्येवमादिष्वपि ।
तत्रापि ह्यध्यात्माधिकारान्न प्राकृतौ सुपर्णावुच्येते ।
तयोरन्यः पिप्पलं स्वादित्ति इत्यदनलिङ्गाद्विज्ञानात्मा भवति ।
अनश् नन्नन्यो ऽभिचाकशीति इत्यनशनचेतनाभ्यां परमात्मा ।
अनन्तरे च मन्त्रे तावेव द्रष्टृद्रष्टव्यभावेन विशिनष्टि- ऽसमाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकःऽ (मुण्ड. 3.1.2) इति ।
अपर आह- ऽद्वा सुपर्णाऽ इति नेयमृगस्याधिकरणस्य सिद्धान्तं भजते, पैङ्गिरहस्यब्राह्मणेनान्यथा व्याख्यातत्वात् ।
ऽतयोरन्यः पिप्पलं स्वादित्तीति सत्त्वमनश् नन्नन्यो ऽभिचाकशीतीत्यनश् नन्नन्यो ऽभिपश्यति ज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौऽ इति ।
सत्त्वशब्दोतीत्यनश् नन्नन्यो ऽभिपश्यति यदुच्यते, तन्न, सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणशरीरपरतया प्रसिद्धत्वात् ।
तत्रैव च व्याख्यातत्वात्- ऽतदेतत्सत्त्वं येन स्वप्नं पश्यति, अथ यो ऽयं शारीर उपद्रष्टा स क्षेत्रज्ञस्तावेतौ सत्त्वक्षेत्रज्ञौऽ इति ।
नाप्यस्याधिकरणस्य पूर्वपक्षं भजते ।
नह्यत्र शारीरः क्षेत्रज्ञः कर्तृत्वभोक्तृत्वादिना संसारधर्मेणोपेतो विवक्ष्यते ।
कथं तर्हि सर्वसंसारधर्मातीतो ब्रह्मभावश्चैतन्यमात्रस्वरूपः ऽअनश् नन्नन्यो ऽभिचाकशीतिऽ, ऽअनश् नन्नन्यो ऽभिचाकशीति ज्ञःऽ इति वचनात् ।
ऽतत्त्वमसिऽ ऽक्षेत्रज्ञं चापि मां विद्धिऽ (गी. 13.2) इत्यादिश्रुतिस्मृतिभ्यश्च ।
तावता च विद्योपसंहारदर्शनमेलमेवावकल्पते, तावेतौ सत्त्वक्षेत्रज्ञौ न ह वा एवंविदि किञ्चन रच आध्वंसते इत्यादि ।
कथं पुनरस्मिन्पक्षे तयोरन्यः पिप्पलं स्वादित्तीति सत्त्वम् इत्यचेतने सत्त्वे भोक्तृत्वावचनम्ति ।
उच्यते- नेयं श्रुतिरचेतनस्य सत्त्वस्य भोक्तृत्वं वक्ष्यामीति प्रवृत्ता ।
किं तर्हि चेतनस्य क्षेत्रज्ञस्याभोक्तृत्वं ब्रह्मस्भावतां च वक्ष्यामीति ।
तदर्थं सुखादिविक्रियावति सत्त्वे भोक्तृत्वमध्यारोपयति ।
इदं हि कर्तृत्वं भोक्तृत्वं त सत्त्वक्षेत्रज्ञयोरितरेतिस्वभावाविवेककृतं कल्प्यते ।
परमार्थतस्तु नान्यतरस्यापि संभवति, अचेतनत्वात्सत्त्वस्य, अविक्रियत्वाच्च क्षेत्रज्ञस्य ।
अविद्याप्रत्युपस्थापितस्वभावत्वाच्च सत्त्वस्य सुतरां न संभवति ।
तथाच श्रुतिः- ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ इत्यादिना स्वप्नदृष्टहस्त्यादिव्यवहारवदविद्याविषय एव कर्तृत्वादिव्यवहारं दर्शयति ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 4.5.15) इत्यादिना च विवेकिनः कर्तृत्वादिव्यवहराभावम् दर्शयति ॥ 12 ॥
fन्: स इति जीवः सर्वनामार्थः ।
अध्वनः संसारमार्गस्य ।
दुर्दर्शे दुर्ज्ञानं, तत एव गूढमनुप्रविष्टं गहनतां गतमीश्वरम् अध्यात्मप्रयोगः प्रत्यगात्मन्येव चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।
सहैव युज्येते नियम्यनियामकत्वेनेति सयुजौ ।
अनीशया स्वस्येश्वरत्वाप्रतीत्या ।
जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं पस्यति ।
सत्त्वं बुद्धिः ।
तावता मन्त्रव्याख्यामात्रेण ।
रजः अविद्या, आध्वंसते, संश्लिषति ।
अन्यदिवाभासभूतं नानात्वं दृष्टं स्यात्तत्र अविद्यकबुद्ध्यादिसंबन्धादन्यो भूत्वान्यचक्षुषा पश्येत् ।
तत्राविद्यायाम् ।
यत्र तु विद्यावस्थायाम् ।
4 अन्तरधिकरणम् । सू. 13-17
अन्तर उपपत्तेः

1.2.14

ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति ।
एतद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनि एव गच्छतिऽ (छा. 4.15.1) इत्यादि श्र8यते ।
तत्र संशयः किमयं प्रतिबिम्बात्मक्ष्यधिकरणो निर्दिश्यते ऽथवा विज्ञानात्मा उत देवतात्मेन्द्रियस्याधिष्ठाताथवेश्वर इति ।
किं तावत्प्राप्तम्, छायात्मा पुरुषप्रतिरूपा इति ।
कुतः, तस्य दृश्यमानत्वप्रसिद्धेः ।
ऽय एषो ऽक्षिणि पुरुषो दृश्यतेऽ इति च प्रसिद्दवदुपदेशात् ।
विज्ञानात्मनो वायं निर्देश इति युक्तम् ।
स हि चक्षुषा रूपं पश्यंश्चक्षुषि संनिहितो भवति ।
आत्मशब्दश्चास्मिन्पक्षे ऽनुकूलो भवति ।
आदित्यपुरुषो वा चक्षुषो ऽनुग्राहकः प्रतीयते, ऽरश्मिभिरेषो ऽस्मिन्प्रतिष्ठितःऽ (बृ. 5.5.2) इति श्रुतेः ।
अमृतत्वादीनां च देवतात्न्यपि कथञ्चित्संभवात् ।
नेश्वरः, स्थानविशेषनिर्देशादित्येवं प्राप्ते ब्रूमः ।
परमेश्वर एवाक्षिण्यभ्यन्तरः पुरुष इहोपदिष्ट इति ।
कस्मात्, उपपत्तेः ।
उपपद्यते हि परमेश्वरे गुणजातमिहोपदिश्यमानम् ।
आत्मत्वं तावन्मुख्यया वृत्त्या परमेश्वर उपपद्यते ।
ऽस आत्मा तत्त्वमसिऽ इति श्रुतेः ।
अमृतत्वाभयत्वे च तस्मिन्नसकृच्छ्रुतौ श्रूयेते ।
तथा परमेश्वरानुरूपमेतदक्षिस्थानम् ।
यथाहि परमेश्वरः सर्वदोषैरलिप्तः, अपहतपाप्मत्वादिश्रवणात् ।
तथाक्षिस्थानं सर्वलेपरहिमुपदिष्टं, ऽतद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनि एव गच्छतिऽ इति श्रुतेः ।
संयद्वामत्वादिगुणोपदेशश्च तस्मिन्नवकल्पते ।
ऽएतं संयद्धाम इत्याचक्षते एतं हि सर्वाणि वामान्यभिसंयन्तिऽ ।
ऽएष उ एव वामनीरेष हि सर्वाणि वामानि नयतिऽ ।
ऽ एष उ एव भामानीरेष हि सर्वेषु लोकेषु भातिऽ (छा. 4.15.2,3,4) इति च ।
अत उपपत्तेरन्तरः परमेश्वरः ॥ 13 ॥
fन्: वर्त्मनि पक्ष्मस्थाने ।
प्रसिद्धवदुपदेशश्चक्षुषत्वोक्तिरेव ।
इहेत्यक्षिपुरुषोक्तिः ।
संयद्धामेति ।
वामानि कर्मफलान्येतमक्षिपुरुषं हेतुमाश्रित्य अभिसंयन्त्युत्पद्यन्ते ।
वामनीर्वामानि शोभनानि लोकं प्रापयति ।
भामनीर्भामानि भानानि सर्वत्र नयतीति ।
स्थानादिव्यपदेशाच् च

1.2.15

कथं पुनराकशवत्सर्वगतस्य ब्रह्मणो ऽक्ष्यल्पस्थानमुपपद्यत इति ।
अत्रोच्यते- भवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् ।
सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि- ऽयः पृथिव्यां तिष्ठन्ऽ (बृ. 3.7.3) इत्यादिना ।
तेषु हि चक्षुरपि निर्दिष्टम्- ऽयश्चक्षुषि तिष्ठन्ऽ इति ।
ऽस्थानादिव्यपदेशात्ऽ इत्यादिग्रहणेनैतद्दर्शयति- न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यते, किं तर्हि नामरूपमित्येवञ्जातीयकमप्यनामरूपस्य ब्रह्मणो ऽनुचितं निर्दिश्यमानं दृश्यते- ऽतस्योदिति नामऽ ऽहिरण्यश्मश्रुःऽ (छा. 1.6.7,6) इत्यादि ।
निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव ।
सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, शालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ 14 ॥
fन्: स्थानादन्यादयो येषां ते स्थानादयो नामरूपप्रकारास्तेषां व्यपदेशात्सर्वङ्गतस्यैकस्थाननियमो नावकल्पते ।
सुखविशिष्टाभिधानाद् एव च

1.2.16

अपिच नैवात्र विवदितव्यं, किं ब्रह्मास्मिन्वाक्ये ऽभिधीयते न वेति ।
सुखविशिष्टाभिधानमेव ब्रह्मत्वं सिद्धम् ।
सुखविशिष्टं हि ब्रह्म यद्वाक्योपक्रमे प्रक्रान्तं ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ इति तदेवेहाभिहितं, प्रकृतपरिग्रहस्य न्याय्यत्वात् ।
ऽआचार्यस्तु ते गतिं वक्ताऽ (छा. 4 14.1) इति च गतिमात्राभिधानप्रतिज्ञानात् ।
कथं पुनर्वाक्योपक्रमे सुखविशिष्टं ब्रह्म विज्ञायत इति ।
उच्यते- ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ इत्येतदग्नीनां वचनं श्रुत्वोपकोसल उवाच- ऽविजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामिऽ इति ।
तत्रेदं प्रतिवचनम्- ऽयद्वाव कं तदेव खं यदेव खं तदेव कंऽ (छा. 4.10.5)
इति ।
तत्र खंशब्दो भूताकाशे निरूढो लोके ।
यदि तस्य विशेषणत्वेन कंशब्दः सुखवाची नोपादीयेत ।
तथा सति केवले भूताकाशे ब्रह्मशब्दो नामादिष्विव प्रतीकाभिप्रायेण प्रयुक्त इति प्रतीतिः स्यात् ।
तथा कंशब्दस्य विषयेन्द्रियसंपर्कजनिते सामये सुखे प्रसिद्धत्वात्, यदि तस्य खंशब्दो विशेषणत्वेन नोपादीयेत, लौकिकं सुखं ब्रह्मेति प्रतीतिः स्यात् ।
इतरेतरविशेषतौ तु कङ्खंशब्दौ सुखात्मकं ब्रह्म गमयतः ।
तत्र द्वितीये ब्रह्मशब्दे ऽनुपादीयमाने कं खं ब्रह्मेत्येवोच्यमाने कंशब्दस्य विशेषणत्वेनैवोपयुक्तत्वातसुखस्य गुणस्याध्येयत्वं स्यात्, तन्मा भूदित्युभयोः कङ्खंशब्दयोर्ब्रह्मशब्दशिरस्त्वं ऽकं ब्रह्म खं ब्रह्मऽ इति ।
इष्टं हि सुखस्यापि गुणस्य गुणवद्ध्येयत्वम् ।
तदेवं वाक्योपक्रमे सुखविशिष्टं ब्रह्मोपदिष्टम् ।
प्रत्येकं च गार्हपत्यादयो ऽग्नयः स्वं स्वं महिमानमुपदिश्य ऽएषा सोम्य ते ऽस्मद्विद्यात्मविद्या चऽ इत्युपसंहरन्तः पूर्वत्र ब्रह्म निर्दिष्टमिति ज्ञापयन्ति ।
ऽआचार्यस्तु ते गतिं वक्ताऽ इति च गतिमात्राभिधानप्रतिज्ञानमर्थान्तरविवक्षां वारयति ।
ऽयथा पुष्करपलाशा आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽ (छा. 4.14.3) इति चाक्षिस्थानं पुरुषं विजानतः पापेनानुपघातं ब्रुवन्नक्षिस्थानस्य पुरुषस्य ब्रह्मत्वं दर्शयति ।
तस्मात्प्रकृतस्यैव ब्रह्मणो ऽक्षिस्थानतां संयद्वामत्वादिगुणतां चोक्त्वार्चिरादिकां तद्विदो गतिं वक्ष्यामीत्युपक्रमते- ऽय एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचऽ (छा. 4.15.1) इति ॥ 15 ॥
fन्: प्रतीको नामाश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः ।
क्षयिता पारतन्त्र्यादिर्वा आमयस्तत्सहित इत्यर्थः ।
तदर्थयोर्विशेषितत्वात्छब्दावपि विशेषितावुच्येते ।
विशेषणत्वेन स्वस्य भूतत्वव्यावर्तकत्वेन ।
ब्रह्मपदं शिरो ययोस्ते ब्रह्मशिरसी तयोर्भावो ब्रह्मशिरस्त्वम् ।
श्रुतोपनिषत्कगत्यभिधानाच् च

1.2.17

इतश्चाक्षिस्थानः पुरुषः परमेश्वरः, यस्माच्छ्रुतोपनिषत्कस्य श्रुतरहस्यविज्ञानस्य ब्रह्मविदो या गतिर्देवयानाख्या प्रसिद्धा श्रुतौ- ऽअथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्तेऽ (प्रश्न. 1.10) इति ।
स्मृतावपि- ऽअग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाःऽ (गी. 8.24) इति ।
सैवाहाक्षिपुरुषविदो ऽभिधीयमाना दृश्यते ।
ऽअथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्तिऽ इत्युपक्रम्य ऽआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो ऽमानवः स एनान्ब्रह्म गमयत्येव देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्ते नावर्तन्तेऽ (छा. 4.17.5) इति ।
तदिह ब्रह्मविद्विषया प्रसिद्धया गत्याक्षिस्थानस्य ब्रह्मत्वं निश्चीयते ॥ 16 ॥
fन्: देहपातानन्तर्यमथशब्दार्थः ।
एतत् व्यष्टिसमष्टिकारणात्मकं हैरण्यगर्भं पदम् ।
अस्मिन्नुपासके मृते पुत्रादयः शव्यं शवसंबन्धि संस्कारादिकर्म कुर्वन्ति ।
मानवं मनोः सर्गे, आवर्ते जन्ममरणाद्यावृत्तियुक्तम् ।
अनवस्थितेर् असंभवाच् च नेतरः

1.2.18

यत्पुनरुक्तं छायात्मा, विज्ञानात्मा, देवतात्मा वा स्यादक्षिस्थान इति ।
अत्रोच्यते- न छायात्मादिरितर इह ग्रहणमर्हति ।
कस्मात्, अनवस्थितेः ।
न तावच्छायात्मनश्चक्षुषि नित्यमवस्थानं संभवति ।
यदैव हि कश्चित्पुरुषश्चक्षुरासीदति तदा चक्षुषि पुरुषच्छाया दृश्यते, अपगते तस्मिन्न दृश्यते ।
ऽय एषो ऽक्षिणि पुरुषःऽ इति च श्रुतिः संनिधानात्स्वचक्षुषि दृश्यमानं पुरुषमुपास्यत्वेनोपदिशति ।
नचोपासनाकाले छायाकरं कञ्चित्पुरुषं चक्षुःसमीपे संनिधाप्योपास्त इति युक्तं कल्पयितुम् ।
ऽअस्यैव शरीरस्य नाशमन्वेष नश्यतिऽ (छा. 8.9.1) इति श्रुतिश्छायात्मनो ऽप्यनवस्थितत्वं दर्शयति ।
असंभवाच्च तस्मिन्नमृतत्वादीनां गुणानां न छायात्मनि प्रतीतिः ।
तथा विज्ञानात्मनो ऽपि साधारणे कृत्स्नशरीरेन्द्रियसंबन्धे सति चक्षुष्येवावस्थितत्वं वक्तुं न शक्यम् ।
ब्रह्मणस्तु व्यापिनो ऽपि दृष्ट उपलब्ध्यर्थो हृदयादिदेशविशेषसंबन्धः ।
समानश्च विज्ञानात्मन्यप्यमृतत्वादीनां गुणानामसंबन्धः ।
यद्यपि विज्ञानात्मा परमात्मनो ऽनन्य एव, तथाप्यविद्याकामकर्मकृतं तस्मिन्मर्त्यत्वमध्यरोपितं भयं चेत्यमृतत्वाभयत्वे नोपपद्येते ।
संयद्वामत्वादयश्चैतस्मिन्ननैश्वर्यादनुपपन्ना एव ।
देवतात्मनस्तु ऽरश्मिभिरेषो ऽस्मिन्प्रतिष्ठितःऽ इति श्रुतेर्यद्यपि चक्षुष्यवस्थानं स्यात्तथाप्यात्मत्वं तावन्न संभवति, पराग्रूपत्वात् ।
अमृतत्वादयो ऽपि न संभवन्ति, उत्पत्तिप्रलयश्रवणात् ।
अमरत्वमपि देवानां चिरकालावस्थानापेक्षम् ।
ऐश्वर्यमपि परमेश्वरायत्तं न स्वाभाविकम् ।
भीषास्माद्वातः पवते भीषोदेति सूर्यः ।
भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमःऽ (तै. 2.8) इति मन्त्रवर्णात् ।
तस्मात्परमेश्वर एवायमक्षिस्थानः प्रत्येतव्यः ।
अस्मिंश्च पक्षे दृश्यत इति प्रसिद्धवदुपादानं शास्त्राद्यपेक्षं विद्वद्विषयं प्ररोचनार्थमिति व्याख्येयम् ॥ 17 ॥
fन्.:अस्य छायाकरस्य बिम्बस्य ।
पराक् बाह्यं जगत् ।
भीषा भयेन, अस्मात् ब्रह्मणः, पवते चलति ।
उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः ।
5 अन्तर्याम्यधिकरणम् । सू. 18-20
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्

1.2.19

ऽय इमं च लोकं परं च लोकं सर्वाणि च भूतानि यो ऽन्तरो यमयतिऽ इत्युपक्रम्य श्रूयते- ऽयः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतःऽ (बृह. 3.7.1,2) इत्यादि ।
अत्राधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तरवस्थितो यमयितान्तर्यामीति श्रूयते ।
स किमधिदैवाद्यभिमानी देवतात्मा कश्चित्किंवा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी किंवा परमात्मा किंवार्थान्तरं किञ्चिदित्यपूर्वसंज्ञादर्शनात्मसंशयः ।
किं तावन्नः प्रतिभाति, संज्ञया अप्रसिद्धत्वात्संज्ञिनो ऽप्यसिद्धेनार्थान्तरेण केनचिद्भवितव्यमिति ।
अथवा नानिरूपितरूपमर्थान्तरं शक्यमस्त्यभ्युपगन्तुम् ।
अन्तर्यामिशब्दश्चान्तर्यमनयोगेन प्रवृत्तो नात्यन्तमप्रसिद्धः ।
तस्मात्पृथिव्याद्यभिमानी कश्चिद्देवो ऽन्तर्यामी स्यात् ।
तथाच श्रूयते- ऽपृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिःऽ (बृ. 3.9.10) इत्यादि ।
स च कार्यकारणवत्त्वात्पृथिव्यादीनन्तस्तिष्ठन्यमयतीति युक्तं देवतात्मनो यमयितृत्वम् ।
योगिनो वा कस्यचित्सिद्धस्य सर्वानुप्रवेशेन यमयितृत्वं स्यात्, नतु परमात्मा प्रतीयेत, अकार्यकरणत्वादित्येवं प्राप्त इदमुच्यते- यो ऽन्तर्याम्यधिदैवादिषु श्रूयते स परमात्मैव स्यान्नान्य इति ।
कुतः, तद्धर्मव्यपदेशात् ।
तस्य हि परमात्मनो धर्मा इह निर्दिश्यमाना दृश्यन्ते ।
पृथिव्यादि तावदधिदैवतादिभेदभिन्नं समस्तं विकारजातमन्तस्तिष्टन्यमयतीति परमात्मनो यमयितृत्वं धर्म उपपद्यते ।
सर्वविकारकारणत्वे सति सर्वशक्त्युपपत्तेः ।
एष त ऽआत्मान्तर्याम्यमृतःऽ इति चात्मत्वामृतत्वे मुख्ये परमात्मन उपपद्येते ।
ऽयं पृथिवी न वेदऽ इति च पृथिवीदेवताया अविज्ञेयमन्तर्यामिणं ब्रुवन्देवतात्मनो ऽन्यमन्तर्यामिणं दर्शयति ।
ऽपृथिवी देवता ह्यहमस्मि पृथिवीत्यत्मानं विजानीयात्ऽ ।
तथा ऽअदृष्टो ऽश्रुतःऽ इत्यादिव्यपदेशो रूपादिविहीनत्वात्परमात्मन उपपद्यत इति ।
यत्त्वकार्यकरणस्य परमात्मनो यमयितृत्वं नोपपद्यत इति ।
नैष दोषः ।
यान्नियच्छति तत्कार्यकरणैरेव, तस्य कार्यकरणत्त्वोपपत्तेः ।
तस्याप्यन्यो नियन्तेत्यनवस्थादोषश्च न संभवति, भेदाभावात् ।
भेदे हि सत्यनवस्थादोषोपपत्तिः ।
तस्मात्परमात्मैवान्तर्यामी ॥ 18 ॥
fन्: आयतनं शरीरं, लोक्यते ऽनेनेति लोकचक्षुः, ज्योतिर्मनः ।
न च स्मार्तम् अतद्धर्माभिलापात्

1.2.20

स्यादेतत् ।
अदृष्टत्वादयो धर्माः सांख्यस्मृतिकल्पितस्य प्रधानस्याप्युपपद्यन्ते, रूपादिहीनतया तस्य तैरभ्युपगमात् ।
ऽअप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतःऽ (मनु. 1.5) इति हि स्मरन्ति, तस्यापि नियन्तृत्वं सर्वविकारकारणत्वादुपपद्यते ।
तस्मात्प्रधानमन्तर्यामिशब्दं स्यात् ।
ऽईक्षतेर्नाशब्दम्ऽ (ब्र. 1.1.5) इत्यत्र निराकृतमपि सत्प्रधानमिहादृष्टत्वादिव्यपदेशसंभवेन पुनराशङ्क्यते ।
अत उत्तरमुच्यते- नच स्मार्ते प्रधानमन्तर्यामिशब्दं भवितुमर्हति ।
कस्मात्,अतद्धर्माभिलापात् ।
यद्यप्यदृष्टत्वादिव्यपदेशः प्रधानस्यसंभवति तथापि न द्रष्टृत्वादिव्यपेशः संभवति, प्रधानस्याचेतनत्वेन तैरभ्युपगमात् ।
ऽअदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञातो विज्ञाताऽ (बृह. 3.7.23) इति हि वाक्यशेष इह भवति ।
आत्मत्वमपि न प्रधानस्योपपद्यते ।
19 ॥
यदि प्रधानमात्मत्वद्रष्टृत्वाद्यसंभवान्नान्तर्याम्यभ्युपगम्यते, शारीरस्तर्ह्यन्तर्यामी भवतु ।
शारीरो हि चेतनत्वाद्द्रष्टा श्रोता मन्ता विज्ञाता च भवति, आत्मा च प्रत्यक्त्वात् ।
अमृतश्च, धर्माधर्मफलोपभोगोपपत्तेः ।
अदृष्टत्वादयश्च धर्माः शारीरे परसिद्धाः दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् ।
ऽन दृष्टेर्द्रष्टारं पश्येःऽ (बृ. 3.4.2) इत्यादिश्रुतिभ्यश्च ।
तस्य च कार्यकरणसंघातमन्तर्यमयितुं शीलं, भोक्तृत्वात् ।
तस्माच्छारीरो ऽन्तर्यामीत्यत उत्तरं पठति-
fन्: अमृतश्चेति विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः ।
कर्तरीति क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः ।
शरीरश् चोभये ऽपि हि भेदेनैनम् अधीयते

1.2.21

नेति पूर्वसूत्रादनुवर्तते ।
शारीरश्च नान्तर्यामीष्यते ।
कस्मात् ।
यद्यपि द्रष्टृत्वादयो धर्मस्तस्य संभवन्ति तथापि घटाकाशवदुपाधिपरिच्छिन्नत्वान्न कार्त्स्येन पृथिव्यादिष्वन्तरवस्थातुं नियन्तुं च शक्नोति ।
अपिचोभये ऽपि हि शाखिनः काण्वा माध्यन्दिनानाश्चान्तर्यामिणो भेदेनैनं शारीरं पृथिव्यादिवदधिष्ठानत्वेन नियम्यत्वेन चाधीयते- ऽयो विज्ञाने तिष्ठन्ऽ (बृ. 3.7.22) इति काण्वाः ।
ऽय आत्मनि तिष्ठन्ऽ इति माध्यन्दिनाः ।
ऽय आत्मनि तिष्ठन्ऽ इत्यस्मिन्स्तावत्पाठे भवत्यात्मशब्दः शारीरस्य वाचकः ।
ऽयो विज्ञाने तिष्ठन्ऽ इत्यस्मिन्नपि पाठे विज्ञानशब्देन शारीर उच्यते ।
विज्ञानमयो हि शारीरः ।
तस्माच्छारीरदन्य ईश्वरो ऽन्तर्यामीति सिद्धम् ।
कथं पुनरेकस्मिन्देहे द्वौ द्रष्टारवुपपद्येते, यश्चायमीश्वरो ऽन्तर्यामी यश्चायमितरः शारीरः ।
का पुनरिहानुपपत्तिः ।
ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ इत्यादि श्रुतिवचनं विरुध्येत ।
अत्र हि प्रकृतादन्तर्यामिणो ऽन्यं द्रष्टारं, श्रोतारं, मन्तारं, विज्ञातारं चात्मानं प्रतिषेधति ।
नियन्त्रन्तरप्रतिषेधार्थमेतद्वचनमितिचेत्, न, नियन्त्रन्तराप्रसङ्गादविशेषश्रवणाच्च ।
अत्रोच्यते-
अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तो ऽयं शारीरान्तर्यामिणोर्भेदव्यपदेशो न पारमार्थिकः ।
एको हि प्रत्यगात्मा भवति, न द्वौ प्रत्यगात्मानौ संभवतः ।
एकस्यैव तु भेदव्यवहार उपाधिकृतो यथा घटाकाशो महाकाश इति ।
ततश्च ज्ञातृज्ञेयादिभेदश्रुतयः प्रत्यक्षादीनि च प्रमाणानि संसारानुभवो विधिप्रतिषेधशास्त्रं चेति सर्वमेतदुपपद्यते ।
तथाच श्रुतिः ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ इत्वविद्याविषये सर्वे व्यवहारं दर्शयति ।
ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ इति विद्याविषये सर्वे व्यवहारं वारयति ॥ 20 ॥
अदृश्यत्वाधिकरणम् । सू. 21-23
अदृश्यत्वादिगुणको धर्मोक्तेः

1.2.22

ऽअथ परा यया तदक्षरमधिगम्यतेऽ, ऽयत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराःऽ (मुण्ड. 1.1.5,6) इति श्रूयते ।
तत्र संशयः- किमयमद्रेश्यत्वादिगुणको भूतयोनिः प्रधानं स्यादुत शारीर आहोस्वित्परमेश्वर इति ।
तत्र प्रधानमचेतनं भूतयोनिरिति युक्तं, अचेतनानामेव तद्दृष्टान्तत्वेनोपादानात् ।
ऽयथोर्णनाभिः सृजते गृह्यते च यथा पृथिव्यामोषधः संभवन्ति ।
यथा सतः पुरुषोत्केशलोमानि तथाक्षरात्संभवतीह विश्वम्ऽ (मुण्ड. 1.1.7) इति ।
ननूर्णनाभिः पुरुषश्च चेतनाविह दृष्टान्तत्वेनोपात्तौ ।
नेति ब्रूमः ।
नहि केवलस्य चेतनस्य तत्र सूत्रयोनित्वं केशलोमयोनित्वं चास्ति ।
चेतनाधिष्ठितं ह्यचेतनमूर्णनाभिशरीरं सूत्रस्य योनिः, पुरुषशरीरं च केशलोम्नामिति प्रसिद्धम् ।
अपिच पूर्वत्रादृष्टत्वाद्यभिलाषसंभवे ऽपि द्रष्टृत्वाद्यभिलाषासंभवान्न प्रधानमभ्युपगतम् ।
इह त्वदृश्यत्वादयो धर्माः प्रधाने संभवन्ति ।
नचात्र विरुध्यमानो धर्मः कश्चिदभिलप्यते ।
ननु ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. 1.1.9) इत्ययं वाक्यशेषो ऽचेतने प्रधाने न संभवन्ति, कथं प्रधानं भूतयोनिः प्रतिज्ञायत इति ।
अत्रोच्यते- ऽयया तदक्षरमधिगम्यतेऽ ऽयत्तदद्रेश्यम्ऽ इत्यक्षरशब्देनादृश्यत्वादिगुणकं भूतयोनिं श्रावयित्वा पुनरन्ते श्रावयिष्यति- ऽअक्षरात्परतः परःऽ (मुण्ड. 2.1.2) इति ।
तत्र यः परो ऽक्षराच्छ्रुतः स सर्वज्ञः सर्ववित्संभविष्यति ।
प्रधानमेव त्वक्षरशब्दनिर्दिष्टं भूतयोनिः ।
यदा तु योनिशब्दो निमित्तवाची तदा शारीरो ऽपि भूतयोनिः स्यात्, धर्माधर्माभ्यां भूतजातस्योपार्जनादिति ।
एवं प्राप्ते ऽभिधीयते- योयमदृश्यत्वादिगुणको भूतयोनिः स परमेश्वर एव स्यान्नान्य इति ।
कथमेतदवगम्यते ।
धर्मोक्तेः ।
परमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते- ऽयः सर्वज्ञः सर्ववित्ऽ इति ।
नहि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा संभवति ।
नन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं च न भूतयोनिविषयमित्युक्तम् ।
अत्रोच्यते- नैवं संभवति ।
यत्कारणं ऽअक्षरात्संभवतीह विश्वम्ऽ इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्यानन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति- ऽयः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायतेऽ इति ।
तस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं च धर्म उच्यत इति गम्यते ।
ऽअक्षरात्परतः परःऽ इत्यत्रापि न प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधूयते ।
कथमेतदवगम्यते ।
ऽयेनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्ऽ (मुण्ड. 1.2.13) इति प्रकृत्य तस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात् ।
कथं तर्हि ऽअक्षरात्परतः परःऽ इति व्यपदिश्यत इति, उत्तरसूत्रे तद्वक्ष्यामः ।
अपिचात्र द्वे विद्ये वेदितव्ये उक्ते- ऽपरा चैवापरा चऽ इति ।
तत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीति- ऽअथ परा यया तदक्षरमधिगम्यते इत्यादि ।
तत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् ।
यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत नेयं परा विद्या स्यात् ।
परापरविभागो ह्ययं विद्ययोरभ्युदयनिःश्रेयसफलतया परिकल्प्यते ।
नच प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यते ।
तिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षे ऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात् ।
द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टे ।
ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड. 1.1.3) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणे ऽवकल्प्यते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरि ।
अपिच ऽस ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राहऽ (मुण्ड. 1.1.1) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयंस्तया ब्रह्मविद्यात्वं दर्शयति ।
सा च ब्रह्मविद्यासमाख्या तदधिगम्यस्याक्षरस्याब्रह्मत्वे बाधिता स्यात् ।
अपरर्ग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रम उपन्यस्यते ब्रह्मविद्याप्रशंसायै ।
ऽप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो यो ऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्तिऽ (मुण्ड. 1.2.7) इत्येवमादिनिन्दावचनात् ।
निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयति- ऽपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रेत्रियं ब्रह्मनिष्ठम्ऽ (मुण्ड. 1.2.12) इति ।
यत्तूक्तमचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेन भूतयोनिना भवितव्यमिति ।
तदयुक्तम् ।
नहि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमो ऽस्ति ।
अपिच स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति न स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यते ।
तस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ 21 ॥
fन्: अद्रेश्यमदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः ।
ऊर्णनाभिर्लूताकीटः ।
पूर्वत्र पूर्वस्मिन्नधिकरणे ।
नहीति ।
ऽअक्ताः शर्करा उपदधातीऽ त्यत्र ऽतेजो वै घृतंऽ इति शेषान्निर्णयवदत्रापि अदृश्यवादेः शेषान्निर्णयः ।
येन ज्ञानेनाक्षरं प्रकृतं भूतयोनिं पुरुषं सत्यं वेद ।
सर्वविद्यानां प्रतिष्ठा समाप्तिर्यस्याम् ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः ।
अष्टादशेति षोडशार्त्विजः यजमानः पत्नी चेत्यष्टादश ।
येषूक्तं अवरमनित्यं कर्म यज्ञः ।
अपियन्ति प्राप्नुवन्ति ।
प्रत्यक्षादिना कर्मसाध्यांल्लोकाननित्यतया ज्ञात्वा निर्वेदं वैराग्यं गच्छेत् ।
कुतः, कृतेन कर्मणा अकृतो मोक्षो नास्ति ।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ

1.2.23

इतश्च परमेश्वर एव भूतयोनिर्नेतरौ शारीरः प्रधानं वा ।
कस्मात् ।
विशेषणभेदव्यपदेशाभ्याम् ।
विशिनष्टि हि प्रकृतं भूतयोनिं शारीराद्विलक्षणत्वेन- ऽ दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रःऽ (मुण्ड. 2.1.2) इति ।
नह्येतद्दिव्यादिविशेषणमविद्याप्रत्युपस्थापितनामरूपपरिच्छेदाभिमानिनस्तद्धर्मान्स्वात्मनि कल्पयतः शारीरस्योपपद्यते ।
तस्मात्साक्षादौपनिषदः पुरुष इहोच्यते ।
तथा प्रधानादपि प्रकृतं भूतयोनिं भेदेन व्यपदिशति- ऽअक्षरात्परतः परःऽ इति ।
अक्षरमव्याकृतं नामरूपबीजशक्तिरूपं भूतसूक्ष्ममीश्वराश्रयं तस्यैवोपाधिभूतं सर्वस्माद्विकारात्परो यो ऽविकारस्तस्मात्परतः पर इति भेदेन व्यपदेशात्परमात्मानमिह विवक्षितं दर्शयति ।
नात्र प्रधानं नाम किञ्चित्स्वतन्त्रं तत्त्वमभ्युपगम्य तस्माद्भेदव्यपदेश उच्यते ।
किं तर्हि यदि प्रधानमपि कल्प्यमानं श्रुत्यविरोधेनाव्याकृतादिशब्दवाच्यं भूतसूक्ष्मं परिकल्प्येत परिकल्प्यताम् ।
तस्माद्भेदव्यपदेशात्परमेश्वरो भूतयोनिरित्येतदिह प्रतिपाद्यते ॥ 22 ॥
कुतश्च परमेश्वरो भूतयोनिः-
fन्: अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् ।
अव्याकृतमव्यक्तम् ।
नामरूपयोर्बीजमीश्वरस्तस्य शक्तिरूपम् ।
रूपोपन्यासाच् च

1.2.24

अपिच ऽअक्षरात्परतः परःऽ इत्यस्यानन्तरम् ऽएतस्माज्जायते प्राणःऽ इति प्राणप्रभृतीनां पृथिवीपर्यन्तानां तत्वानां सर्गमुक्त्वा तस्यैव भूतयोनेः सर्वविकारात्मकं रूपमुपन्यस्यमानं पश्यामः- ऽअग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्माऽ (मुण्ड. 2.1.4) इति ।
तच्च परमेश्वरस्यैवोचितं, सर्वविकारकारणत्वात् ।
न शारीरस्य तनुमहिम्नः ।
नापि प्रधानस्यायं रूपोपन्यासः संभवति, सर्वभूतान्तरात्मत्वासंभवात् ।
तस्मात्परमेश्वर एव भूतयोनिर्नेतराविति गम्यते ।
कथं पुनर्भूतयोनेरयं रूपोपन्यास इति गम्यते, प्रकरणात्, ऽएषःऽ इति च प्रकृतानुकर्षणात् ।
भूतयोनिं हि प्रकृत्य ऽएतस्माज्जायते प्राणःऽ, ऽएष सर्वभूतान्तरात्माऽ इति वचनं भूतयोनिविषयमेव भवति ।
यथोपाध्यायं प्रकृत्यैतस्मादधीष्वैष वेदवेदाङ्गपारग इति वचनमुपाध्यायविषयं भवति तद्वत् ।
कथं पुनरदृश्यत्वादिगुणकस्य भूतयोनेर्विग्रहवद्रूपं संभवति ।
सर्वात्मत्वविवक्षयेदमुच्यते नतु विग्रहवत्त्वविवक्षयेत्यदोषः ।
ऽअहमन्नमहमन्नादःऽ (तै. 3.10.6) इत्यादिवत् ।
अन्ये पुनर्मन्यन्ते- नायं भूतयोने रूपोपन्यासः, जायमानत्वेनोपन्यासात् ।
ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ इति हि पूर्वत्र प्राणादिपृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत् ।
उत्तरत्रापि च ऽतस्मादग्निः समिधो यश्च सूर्यःऽ इत्येवमादि, ऽअतश्च सर्वा ओषधयो रसाश्चऽ इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति ।
इहैव कथमकस्मादन्तराले भूतयोने रूपमुपन्यसेत् ।
सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यति- ऽपुरुष एवेदं विश्वं कर्मऽ (मुण्ड. 2.1.10) इत्यादिना ।
श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहे- ऽहिरण्यगर्भः समवर्तताग्ने भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवी द्यामुतेमां कस्मै देवाय हविषा विधेमऽ (ऋ.स. 10.121.1) इति ।
समवर्ततेत्यजायतेत्यर्थः ।
तथा ऽस वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्ततऽ इति च ।
विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं संभवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात् ।
अस्मिन्पक्षे ऽपुरुष एवेदं विश्वं कर्मऽ इत्यादि सर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ 23 ॥
fन्: अग्निर्द्युलोकः विवृता वेद वाक्, पद्भ्यां पादौ ।
तनुमहिम्नो ऽल्पशक्तेः ।
यश्च सूर्यो द्युलोकाग्नेः समिध इव भासकः ।
हिरण्यगर्भः अग्रे समवर्तत ।
जातः सन् भूतग्रामस्यैकः पतिर्बभूवेति शेषः ।
कस्मै प्रजापतये ।
विधेम परिचरेम ।
वैश्वानराधिकरणम् । सू. 24-32
वैश्वानरः साधारणशब्दविशेषात्

1.2.25

ऽको न आत्मा किं ब्रह्मऽ इति, ऽआत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रूहिऽ (छा. 5.11.1,6) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया च वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायते-
ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपाःसे स सर्वेषु लोकेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यमावहनीयःऽ (छा. 5.18.2) इत्यादि ।
तत्र संशयः- किं वैश्वानरशब्देन जाठरो ऽग्निरुपदिश्यत उत भूताग्निरथ तदभिमानिनी देवता अथवा शारीर आहोस्वित्परमेश्वर इति ।
किं पुनरत्र संशयकारणम् ।
वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगादात्मेति च शारीरपरमेश्वरयोः ।
तत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयः ।
किं तावत्प्राप्तम्, जाठरो ऽग्निरिति ।
कुतः ।
तत्र हि विशेषण क्वचित्प्रयोगो दृश्यते- ऽअयमग्निर्वैश्वानरो यो ऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यतेऽ (बृह. 5.9) इत्यादौ ।
अग्निमात्रं वा स्यात्, सामान्येनापि प्रयोगदर्शनात् ऽविश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्ऽ (ऋ.सं. 10.88.12) इत्यादौ ।
अग्निशरीरा वा देवता स्यात्, तस्यामपि प्रयोगदर्शनात् ऽवैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीःऽ (ऋ.सं. 1.18.1) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां संभवात् ।
अथात्मशब्दसामानाधिकरण्यादुपक्रमे च ऽको न आत्मा किं ब्रह्मऽ इति केवलात्मशब्दप्रयोगादात्मशब्दवशेन च वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात्, तस्य भौक्तृत्वेन वैश्वानरसंनिकर्षात् ।
प्रादेशमात्रमिति च विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने संभवात् ।
तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते तत इदमुच्यते- वैश्वानरः परमात्मा भवितुमर्हतीति ।
कुतः, साधारणशब्दविशेषात् ।
साधारणशब्दयोर्विशेषः साधारणशब्दविशेषः ।
यद्यप्येतावुभावप्यात्मवैश्वानरशब्दौ साधारणशब्दौ, वैश्वानरशब्दस्तु त्रयस्य साधारणः, आत्मशब्दश्च द्वयस्य तथापि विशेषो दृश्यते, येन परमेश्वरपरत्वं तयोरभ्युपगम्यते, ऽतस्य ह वा एतस्यामात्मनो वैश्वानरस्य मूर्धैव सुतेजाःऽ इत्यादि ।
अत्र हि परमेश्वर एव द्युमूर्धत्वादिविशिष्टो ऽवस्थान्तरगतः प्रत्यगात्मत्वेनोपन्यस्त आध्यानायेति गम्यते, कारणत्वात् ।
कारणस्य हि सर्वाभिः कार्यगताभिरवस्थाभिरवस्थावत्त्वाद्द्युलोकाद्यवयवत्वमुपपद्यते ।
ऽस सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिऽ इति च सर्वलोकाद्याश्रयं फलं श्रूयमाणं परमकारणपरिग्रहे संभवति ।
ऽएवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ (छा. 5.24.3) इति च तद्विदः सर्वपाप्मप्रदाहश्रवणम् ।
ऽको न आत्मा किं ब्रह्मऽ इति चात्मब्रह्मशब्दाभ्यामुपक्रम इत्येवमेतानि लिङ्गानि परमेश्वरमेवावगमयन्ति ।
तस्मात्परमेश्वर एव वैश्वानरः ॥ 24 ॥
fन्: को न इति ।
प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्येत्थं मीमांसां चक्रुः केकयराजं गत्वा ।
अध्येषि स्मरसि ।
आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानस्तम् ।
संदेहो देहस्य मध्यभागः ।
रयिर्धनम् ।
विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यमकृण्वन्देवाः ।
तदुदये दिनव्यवहारात् ।
वैश्वानरस्य देवस्य सुमतौ शोभनबुद्धौ वयं स्याम भवेम ।
तस्यास्मद्वषया सुमतिर्भवत्वित्यर्थः ।
अवस्थान्तरमध्यात्ममधिदैवमित्येवंरूपम् ।
यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुषः ।
स्मर्यमाणम् अनुमानं स्याद् इति

1.2.26

इतश्च परमेश्वर एव वैश्वानरः, यस्मात्परमेश्वरस्यैवाग्निरास्यं द्यौर्मूर्धेतीदृशं त्रैलोक्यात्मकं रूपं स्मर्यते- ऽयस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः ॥
ऽ इति ।
एतत्स्मर्यमाणं रूपं मूलभूतां श्रुतिमनुमापयदस्य वौश्वानरशब्दस्य परमेश्वरपरत्वे ऽनुमानं लिङ्गं गमकं स्यादित्यर्थः ।
इतिश्दो हेत्वर्थः ।
यस्मादिदं गमकं तस्मादपि वैश्वानरः परमात्मैवेत्यर्थः ।
यद्यपि स्तुतिरियं ऽतस्मै लोकात्मने नमःऽ इति ।
स्तुतित्वमपि नासति मूलभूते वेदवाक्ये समायगीदृशेन रूपेण संभवति ।
ऽद्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे ।
दिशः श्रोत्रे विद्धि पादौ क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥
ऽ इत्येवञ्जातीयका च स्मृतिरिहोदाहर्तव्या ॥ 25 ॥
शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते

1.2.27

अत्राह- न परमेश्वरो वैश्वनरो भवितुमर्हति ।
कुतः, शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच्च ।
शब्दस्तावद्वैश्वानरशब्दो न परमेश्वरे संभवति, अर्थान्तरे रूढत्वात् ।
तथाग्निशब्दः ऽस एषो ऽग्निर्वैश्वानरःऽ इति ।
आदिशब्दात् ऽहृदयं गार्हपत्यःऽ (छा. 5.18.2) इत्याद्यग्नित्रेताप्रकल्पनम् ।
ऽतद्यद्बुक्तं प्रथममागच्छेत्तद्धोमीयम्ऽ (छा. 5.10.1) इत्यादिना च प्राणाहुत्यधिकरणतासंकीर्तनम् ।
एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यः ।
तथान्तःप्रतिष्ठानमपि श्रूयते- ऽपुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति ।
तच्च जाठरे संभवति ।
यदप्युक्तं- मूर्धैव सुतेजा इत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति ।
अत्र ब्रूमः- कुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो न जाठरविषय इति ।
अथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यति ।
तस्यापि हि द्युलोकादिसंबन्धो मन्त्रवर्णादवगम्यते- ऽयो भानुना पृथिवी द्यामुतेमामाततान रोदसी अन्तरिक्षम्ऽ (ऋ.स. 10.88.3) इत्यादौ ।
अथवा तच्छरीराया देवताया ऐश्वर्ययोगाद्द्युलोकाद्यवयवत्वं भविष्यति ।
तस्मान्न परमेश्वरो वैश्वानर इति ।
अत्रोच्यते- न तथादृष्ट्युपदेशादिति ।
न शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम् ।
कुतः, तथा जाठरापरित्यागेन दृष्ट्युपदेशात् ।
परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यते, ऽमनो ब्रह्मेत्युपासीतऽ (छा. 3.18.1) इत्यादिवत् ।
अथवा जाठरवैश्वानरोपाधिभिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यते, ऽमनोमयः प्राणशरीरो भारूपःऽ (छा. 3.14.2) इत्यादिवत् ।
यदि चेह परमेश्वरो न विवक्ष्येत केवल एव जाठरो ऽग्निर्विवक्ष्येत ततो मूर्धैव सुतेजा इत्यादिर्विशेषस्यासंभव एव स्यात् ।
यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं न शक्यते तथोत्तरसूत्रे वक्ष्यामः ।
यदि च केवल एव जाठरो विवक्ष्येत, पुरुषे ऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यान्न तु पुरुषत्वम् ।
पुरुषमपि चैनमधीयते वाजसनेयिनः- ऽस एषो ऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ (श.ब्रा. 10.6.1.11) इति ।
परमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषे ऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यते ।
ये तु ऽपुरुषविधमपि चैनमधीयतेऽ इति सूत्रावयवं पठन्ति, तेषामेषोर्ऽथः- केवलजाठरपरिग्रहे पुरुषे ऽन्तःप्रतिष्ठितत्वं केवलं स्यान्न पुरुषविधत्वम् ।
पुरुषविधमपि चैनमधीयते वाजसनेयिनः- ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति ।
पुरुषविधत्वं च प्रकरणाद्यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तं, यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तं तत्परिगृह्यते ॥ 26 ॥
fन्: भक्तमन्नं होमीयं होमसाधनं तेन प्राणाग्निहोत्रं कार्यमित्यर्थः ।
इमां पृथिवीमुत द्यामपि द्यावापृथिव्यावेव रोदसी यो भानुरूपेणाततान व्याप्तवान् ।
अन्तरिक्षं च तयोर्मध्यमाततान स देवो द्युलोकाद्यवयवो ध्येय इत्यर्थः ।
यत् यः ।
पुरुषः पूर्णः ।
यो वेद स सर्वत्र भुङ्क्ते ।
अत एव न देवता भूतं च

1.2.28

यत्पुनरुक्तं भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसंबन्धदर्शनान्मूर्धैव सुतेजा इत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, यच्छरीराया देवताया वैश्वर्ययोगादिति, तत्परिहर्तव्यम् ।
अत्रोच्यते- अत एवोक्तेभ्यो हेतुभ्यो न देवता वैश्वानरः ।
तथाभूताग्निरपि न वैश्वानरः ।
नहि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासंभवात् ।
तथा देवतायाः सत्यप्यैश्वर्ययोगे न द्युमूर्धत्वादिकल्पना संभवति ।
अकारणत्वात्परमेश्वराधीनैश्वर्यत्वाच्च ।
आत्मशब्दासंभवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ 27 ॥
साक्षाद् अप्य् अविरोधं जैमिनिः

1.2.29

पूर्वे जाठराग्निप्रतीको जाठराग्न्युपाधिको वा परमेश्वर उपास्य इत्युक्तमन्तःप्रतिष्ठितत्वाद्यनुरोधेन ।
इदानीं तु विनैव प्रतीकोपाधिकल्पनाभ्यां साक्षादपि परमेश्वरोपासनपरिग्रहे न कश्चिद्विरोध इति जैमिनिराचार्यो मन्यन्ते ।
ननु जाठराग्न्यपरिग्रहे ऽन्तःप्रतिष्ठितत्ववचनं शब्ददीनि च कारणानि विरुध्येरन्निति ।
अत्रोच्यते- अन्तःप्रतिष्ठितत्ववचनं तावन्न विरुध्यते ।
नहीह ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति जाठराग्न्यभिप्रायेणेदमुच्यते ।
तस्याप्रकृतत्वादसंशब्दितत्वाच्च ।
कथं तर्हि यत्प्रकृतं मूर्धादिचुबुकान्तेषु पुरुषावयवेषु पुरुषविधित्वं कल्पितं तदभिप्रायेणेदमुच्यते- ऽपुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति ।
यथा वृक्षे शाखां प्रतिष्ठितां पश्यतीति तद्वत् ।
अथवा यः प्रकृतः परमात्माध्यात्ममधिदैवतं च पुरुषविधित्वोपाधिस्तस्य यत्केवलं साक्षिरूपं तदभिप्रायेणेदमुच्यते- ऽपुरुषे ऽन्तःप्रतिष्ठितं वेदऽ इति ।
निश्चिते च पूर्वापरालोचनवशेन परमात्मपरिग्रहे तद्विषय एव वैश्वानरशब्दः केनचिद्योगेन वर्तिष्यते ।
विश्वश्चायं नरश्चेति, विश्वेषां वायं नरः, विश्वे वा नरा अस्येति विश्वानरः, परमात्मा, सर्वात्मत्वात् ।
विश्वानर एव वैश्वानरः ।
तद्धितो ऽनन्यार्थः, राक्षसवायसादिवत् ।
अग्निशब्दो ऽप्यग्रणीत्वादियोगाश्रयणेन परमात्मविषय एव भविष्यति ।
गार्हपत्यादिकल्पनं प्राणाहुत्यधिकरणत्वं च परमात्मनो ऽपि सर्वात्मत्वादुपपद्यते ॥ 28 ॥
कथं पुनः परमेश्वरपरिग्रहे प्रादेशमात्रश्रुतिरुपपद्यत इति तां व्याख्यातुमारभते-
fन्: अन्तःप्रतिष्ठितत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः ।
अत्र नरे ऽसंज्ञायाऽ मिति पूर्वपदस्य दीर्घत्वम् ।
अनन्यार्थत्वं प्रकृत्यर्थातिरिक्तार्थशून्यत्वम् ।
अभिव्यक्तेर् इत्य् आश्मरथ्यः

1.2.30

अतिमात्रस्यापि परमेश्वरस्य प्रादेशमात्रत्वमभिव्यक्तिनिमित्तं स्यात् ।
अभिव्यज्यते किल प्रादेशमात्रपरिमाणः परमेश्वर उपासकानां कृते ।
प्रदेशेषु वा हृदयादिषूपलब्धिस्थानेषु विशेषणाभिव्यज्यते ।
अतः परमेश्वरे ऽपि प्रादेशमात्रश्रुतिरभिव्यक्तेरुपपद्यत इत्याश्मरथ्य आचार्यो मन्यते ॥ 29 ॥
fन्: अतिक्रान्ता मात्राः परिमाणं यस्य तस्येति यावत् ।
प्रदेशेषु वा मीयत इति प्रादेशमात्रः ।
अनुस्मृतेर् बादरिः

1.2.31

प्रादेशमात्रहृदयप्रतिष्ठेन वायं मनसानुस्मर्यते तेन प्रादेशमात्र इत्युच्यते ।
यथा प्रस्थमितायवाः प्रस्था इत्युच्यन्ते तद्वत् ।
यद्यपि च यवेषु स्वगतमेव परिमाणं प्रस्थसंबन्धाद्व्यज्यते ।
नचेह परमेश्वरगतं किञ्चित्परिमाणमस्ति यद्धृदयसंबन्धाद्व्यज्यते ।
तथापि प्रयुक्तायाः प्रदेशमात्रश्रुतेः संभवति यथाकथञ्चिदनुस्मरणमालम्बनमित्युच्यते ।
प्रादेशमात्रत्वेन वायमप्रादेशमात्रो ऽप्यनुस्मरणीयः प्रादेशमात्रश्रुत्यर्थवत्तायै ।
एवमनुस्मृतिनिमित्ता परमेश्वरे प्रादेशमात्रश्रुतिरिति बादरिराचार्यो मन्यते ॥ 30 ॥
fन्: प्रादेशेन मनसा मीयत इति वा ।
प्रयुक्तायास्तदर्थे वर्तमानायाः ।
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति

1.2.32

संपत्तिनिमित्ता वा स्यात्प्रादेशमात्रश्रुतिः ।
कुतः ।
तथाहि- समानप्रकरणं वाजसनेयिब्राह्मणं द्युप्रभृतीन्पृथिवीपर्यन्तांस्त्रैलोक्यात्मनो वैश्वानरस्यावयवानध्यात्ममूर्धप्रभृतिषु चुबुकपर्यन्तेषु देहावयवेषु संपादयत्प्रादेशमात्रसंपत्तिं परमेश्वरस्य दर्शयति- ऽप्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसंपन्नास्तथा नु व एतान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामीति ।
स होवाच मूर्धानमुपदिशन्नुवाचैष वा अतिष्ठा वैश्वानर इति ।
चक्षुषी उपदिशन्नुवाचैष वै सुतेजा वैश्वानर इति ।
नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मात्मा वैश्वानर इति ।
मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वनर इति ।
मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानर इति ।
चुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठाऽ इति ।
चुबुकमित्यधरं मुखफलकमुच्यते ।
यद्यपि वाजसनेयके द्यौरतिष्ठात्वगुणासमाम्नायत आदित्यश्च सुतेजस्त्वगुणः ।
छान्दोग्ये पुनर्द्यैः सुतेजस्त्वगुणा समाम्नायत आदित्यश्च विश्वरूपगुणः ।
तथापि नैतावता विशेषेण किञ्चिद्धीयते, प्रादेशमात्रश्रुतेरविशेषात् ।
सर्वशाखाप्रत्ययत्वाच्च ।
संपत्तिनिमित्तां प्रादेशमात्रश्रुतिं युक्ततरां जैम्निराचार्यो मन्यते ॥ 31 ॥
आमनन्ति चैनम् अस्मिन्

मूल पाठ: Brahmasūtra with Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc