भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 4.3

4.3.1

स्मृतिबलात्कालप्राधान्यं शङ्कते- ननु चेति ।
श्रौतदहराद्युपासकस्यास्माभिः कालानपेक्षोक्ता, स्मार्तयोगिनां तु कालापेक्षा स्मृतावुच्यत इत्यविरोधमाह- योगिन इति ।
योगी दहराद्युपासक एव स्मृत्युक्तः किं न स्यादित्यत आह- स्मार्ते चेति ।
भगवदाराधनबुद्ध्यानुष्ठितं कर्म योगः ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी चऽइति स्मृतेः ।
धारणापूर्वको ऽकर्तृत्वानुभवः सांख्यं, ऽइन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्ऽइति स्मृतेः ।
ननु श्रुतिस्मृत्योर्भिन्नार्थत्वमयुक्तं प्रत्यभिज्ञाविरोधादिति शङ्कते- नन्वग्निरिति ।
कालाग्रहिणं प्रति भिन्नार्थत्वमुक्तम् ।
यदि तु श्रौतार्थप्रत्यभिज्ञया कालशब्दो देवतापरस्तर्ह्यैकार्थ्यमेवेति समाध्यर्थः ।
तस्माद्विद्यासामर्थ्यात्सर्वदैव दिष्ठङ्गतस्य उपासकस्य फलप्राप्तिरिति सिद्धम् ॥21॥
एन्द् ब्स्र्प्_4,2.11.21
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां चतुर्थध्यायस्य द्वितीयः पादः ॥2॥
॥ इति चतुर्थस्याध्यायस्योत्क्रान्तिगतिनिरूपणाख्यो द्वितीयः पादः ॥
चतुर्थे ऽध्याये तृतीयः पादः ।
स्तर्त् ब्स्र्प्_4,3.1.1ः
अर्चिरादिना तत्प्रथितेः

4.3.2

एवमुत्क्रान्तिं निरूप्य तत्साध्यं मार्गं गन्तव्यं च निरूपयितुं पादमारभते- अर्चिरादिना तत्प्रथितेः ।
वृत्तानुवादपूर्वकमाद्याधिकरणस्य विषयं मार्गमाह- आसृतीति ।
विरजा विरजसः निष्पापा इत्यर्थ ।
श्रुतिविप्रतिपत्त्या संशयः ।
पूर्वं यदाकदाचिन्मृतस्यापि फलप्राप्तिरुक्ता तद्वद्येन केनचिन्मार्गेण गतिरिति पूर्वपक्षफलं विकल्पः, सिद्धान्ते मार्गैक्यमिति विवेकः ।
उपासनाभेदात्तच्छेषत्वेन ध्येयानां मार्गाणां भेदः, एवकाराच्च ।
किञ्च मार्गभेदे सत्यस्मादयं मार्गस्त्वरया प्रापक इति युक्तं न मार्गैक्य इत्यर्थः ।
उपासनाभेदे ऽप्युपास्यब्रह्मैक्यवन्मार्गैक्यविरुद्धमिति सिद्धान्तयति- एवमिति ।
तस्य मार्गस्य प्रसिद्धत्वादिति हेत्वर्थः ।
ये चेत्यविशेषश्रुतिरश्रुतगतिविद्याविषययेति मार्गभेदं शङ्कते- स्यादेतदिति ।
एकस्यैव मार्गस्यानेकान्याग्न्यादीनि विशेषणानीत्युक्ते लाघवान्न मार्गभेदः ।
प्रत्यभिज्ञानाच्चेति समाध्यर्थः ।
गन्तव्यैक्यं विवृणोति- तथाहीति ।
परावतो दीर्घायुषो हिरण्यगर्भस्य परा दीर्घाः समाः संवत्सरान्वसन्ति कार्यब्रह्मणो या जितिः सर्वत्र जयः, व्युष्टिर्व्याप्तिस्तां लभत इत्यर्थः ।
एवं गन्तव्यैक्यवत्प्रत्यभिज्ञया मार्गैक्यनिश्चयात्प्रकरणभेदो ऽप्रयोजक इत्युक्तं संप्रत्येवकारत्वरावचनयोर्गतिमाह- यत्त्वित्यादिना ।
रात्रौ स्पष्टरश्म्यभावाद्विदुषो रश्म्ययोगप्राप्तौ तन्निरासार्थमेवकारो नान्यव्यावृत्त्यर्थः ।
यथा लौकिकमार्गे विलम्बस्तथा अर्चिरादौ नेति त्वरावचनोपपत्तिरित्यर्थः ।
मार्गैक्ये लिङ्गमाह- अपिचेति ।
शुभमार्गबाहुल्ये तृतीयस्थानोक्तिर्न स्यादिति भावः ।
उत्तरमार्गैक्ये ऽप्यर्चिरादिनेति ।
विशेषणे को हेतुरित्यत आह- भूयांसीति ॥1॥
एन्द् ब्स्र्प्_4,3.1.1
स्तर्त् ब्स्र्प्_4,3.2.2ः
वायुम् अब्दाद् अविशेषविशेषाभ्याम्

4.3.3

उक्तं मार्गस्यैक्यमुपजीव्य पर्वक्रममाह- वायुमब्दात् ।
अर्चिरादिष्वस्मादयमनन्तर इति क्रमेण विशेषणविशेष्यभाव उच्यत इत्यधिकरणस्य तात्पर्यमुक्त्वा विषयमाह- स एतमिति ।
अत्राग्न्यनन्तरं पठितो वायुर्विषयः ।
स किं अर्चिरात्मकाग्नेरनन्तरमुत संवत्सरात्पर इति पाठाद्वक्ष्यमाणविशेषश्रुतेश्च संशये सिद्धान्तमेवोपक्रमते- उच्यत इति ।
पुरुषः उपासको ऽस्माल्लोकाद्देहात्प्रैति निर्गच्छति तस्मै प्राप्ताय पुरुषाय स वायुस्तत्र स्वात्मनि विजिहीते छिद्रं करोति, तेन वायुदत्तेन रथचक्रछिद्रतुल्येन द्वारेणोर्ध्वमादित्यं गच्छतीति श्रुत्यर्थः ।
इदानीं पूर्वपक्षमाह- कस्मात्पुनरिति ।
पाठबलादर्चिषो ऽनन्तरो वायुरित्यर्थः ।
कौषीतकिनां पाठमात्रं, न क्रमविशेषवाची कश्चिच्छब्दो ऽस्ति ।
काण्वानां तु तेनेत्यूर्ध्वमिति च शब्दाभ्यां क्रमनिश्चयात्पाठबाध इति सिद्धान्तार्थः ।
अस्त्वर्चिरादिमार्गे छान्दोग्यस्थे संवत्सरपाठाद्वायोरब्दात्परत्वं, वाजिश्रुतिस्थे तु संवत्सरस्याश्रुतेः कथमब्दात्परो वायुरित्यत आह- वाजेति ।
तर्हि देवलोकाद्वायुमिति सूत्रं स्यादित्यत आह- वायुमब्दादिति त्विति ।
संवत्सरस्य मासावयवित्वान्मासानन्तर्यं संवत्सरात्परो देवलोकस्ततः परो वायुर्वायोः पर आदित्य इति श्रुतिद्वये क्रमो निष्पन्नः ।
तेनेति तृतीयाश्रुत्या वायोरादित्यपूर्वत्वावगमादिति, सूत्रे तु वायुपदं देवलोकपूर्वकवायुपरमिति स्थितम् ॥2॥
एन्द् ब्स्र्प्_4,3.2.2
स्तर्त् ब्स्र्प्_4,3.3.3ः
तटितो ऽधि वरुणः संबन्धात्

4.3.4

एवं कौषीतकिभिरग्न्यनन्तरं पठितस्य वायोः स्थानमुक्त्वा वाय्वनन्तरं पठितस्य वरुणस्यार्चिरादिमार्गे स्थानमाह- तडितो ऽधि वरुणः संबन्धात् ।
पठितो वरुणादिर्मार्गपर्वत्वेन संबध्यते न वेति संदेहे ऽर्चिषो ऽहरित्यादि पञ्चम्यार्चिरादीनां क्रमेण मार्गपर्वतया बद्धत्वाद्वायोरिव स्थानविशेषश्रुत्यभावादलब्धस्थानो वरुणादिर्न संबध्यत इति प्राप्ते सिद्धान्तमाह- आदित्यादिति ।
अपां विद्युत्कार्यत्वेन संबन्धे मानमाह- विद्योतत इति ।
वरुणस्याब्द्वारा विद्युसंबन्धात् ऽआगन्तुकानामन्ते निवेशःऽइति न्यायाय्च्च विद्युदानन्तर्ये सति यथापाठमिन्द्रप्रजापत्योः क्रम इत्यर्थः ॥3॥
एन्द् ब्स्र्प्_4,3.3.3
स्तर्त् ब्स्र्प्_4,3.4.4ः
आतिवाहिकास् तल्लिङ्गात्

4.3.5

एवमर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति- आतिवाहिकास्तल्लिङ्गात् ।
चिह्ननिर्देशसाम्याल्लोकशब्दान्नेतृत्वलिङ्गाच्च संशयः ।
आद्यपक्षद्वयं पूर्वपक्षः ।
अर्चिरादयो विद्युदन्ताश्चेतना नेतारश्चामानवपुरूषेण नेत्रा सह पठितत्वादिति सिद्धान्तयति- एवमित्यादिना ।
यथाश्रुत्यमानवस्यास्तु नेतृत्वं नार्चिरादीनामिति शङ्कते- तद्वचनमिति ।
पुरुषस्यामानवत्वं नेतृत्वं चेत्युभयपरत्वे वाक्यभेदः स्यादतो ऽर्चिरादिपदैर्नेतार एव मानवाः प्रकृताः प्रकरणबलाद्विद्युदनन्तरं मानवस्य नेतुः प्राप्तौ प्रकरणप्राप्तनेतृत्वानुवादेनामानवत्वमेकमेव प्रतिपाद्यत इति वक्तव्यमित्याह- नेति ।
नेतृप्रकरणानङ्गीकारे त्वमानवः पुरुषो गमयतीति वाक्यं भिद्येत अमानवत्ववन्नेतृत्वस्याप्यप्राप्तेरिति भावः ।
नेतृत्वानुवादलिङ्गस्यानुग्राहकन्यायपरं सूत्रं गृह्णाति- नन्विति ॥4॥
एन्द् ब्स्र्प्_4,3.4.4
स्तर्त् ब्स्र्प्_4,3.4.5ः
उभयव्यामोहात् तत् सिद्धेः

4.3.6

यद्यनेतारो ऽचेतना एवार्चिरादयस्तर्हि मार्गतद्गन्त्रोरुभयोरपि व्यामोहादज्ञत्वादूर्ध्वगतिर्न स्यादतः स्वयं प्रयत्नशून्यश्चेतनान्तरेण नेय इति लौकिकन्यायानुग्रहात्तत्सिद्धेर्नेतृत्वसिद्धेरुक्तलिङ्गं न्यायोपेदमिति सूत्रार्थः ।
पूर्वपक्षद्वयं दूषयति- अनवस्थितत्वादित्यादिना ।
अर्चिरहरादीनामस्थिरत्वाद्रात्र्यादौ मृतस्य प्रतीक्षा नास्तीत्युक्तत्वाच्च न मार्गचिह्नत्वं भोग्यत्वं वा, देवतात्वे त्वस्थिरत्वदोषो नास्तीत्यर्थः ।
यत्तूपदेशस्वारस्याच्चिह्नत्वं भातीति, तत्राह- अर्चिषो ऽहरिति ।
चिह्नत्वनेतृत्वसंशयाच्च वाक्यशेषान्निर्णय इत्याह- अपिचेति ।
यदुक्तं लोकशब्दाद्भोग्यत्वमिति तन्नेत्याह- संपिण्डितेति ।
सूत्रान्तरं गृह्णाति- कथं पुनरिति ॥5॥
एन्द् ब्स्र्प्_4,3.4.5
स्तर्त् ब्स्र्प्_4,3.4.6ः
वैद्युतेनैव ततस् तच्छ्रुतेः

4.3.7

आमानवो विद्युल्लोकमागतो वैद्युतस्तेनेत्यर्थः ।
श्रुतौ वैद्युताल्लोकादित्यर्थः ।
श्रुत्या वरुणादीनां नेतृत्वाभावे ऽप्यनुग्राहकत्वेन मार्गान्तर्भाव इति भावः ॥6॥
एन्द् ब्स्र्प्_4,3.4.6
स्तर्त् ब्स्र्प्_4,3.5.7ः
कार्यं बादरिरस्य गत्युपपत्तेः

4.3.8

एवं मार्गं निरूप्य गन्तव्यं चिन्तयति- कार्यं बादरिरस्य गत्युपपत्तेः ।
परं ब्रह्म गन्तव्यमिति पूर्वपक्षे मार्गस्य मुक्त्यर्थता कार्यं ब्रह्मेति सिद्धान्ते भोगार्थतेति मत्वा प्रथमं सिद्धान्तमाह- तत्र कार्यमेवेति ।
सर्वगतस्यापि प्रदेशान्तरविशिष्टत्वेनाकाशस्य गन्तव्यत्वं, दृष्टं, ब्रह्मणस्तु प्रत्यक्त्वान्न कथमपि गन्तव्यतेत्यर्थः ॥7॥
एन्द् ब्स्र्प्_4,3.5.7
स्तर्त् ब्स्र्प्_4,3.5.8ः
विशेषितत्वाच् च

4.3.9

ब्रह्मलोकेष्विति बहुवचनलोकशब्दाधारसप्तमीश्रुतिभिर्गन्तव्यस्य परस्माद्व्यावृत्तत्वाच्च न परं गन्तव्यमित्याह- विशेषितत्वाच्चेति ।
परब्रह्मणि भोग्यत्वोपचाराद्गौणी लोकश्रुतिरित्यर्थः ।
नपुंसकब्रह्मशब्देन कारणवाचिना कार्यं लक्ष्यते गन्तव्यत्वन्यायोपेतबहुवचनाद्यनेकश्रुत्यनुग्रहायः ।
न चानावृत्तिलिङ्गात्परस्य गन्तव्यता, क्रममुक्त्या लिङ्गस्यान्यथासिद्धेरिति भावः ॥8॥
एन्द् ब्स्र्प्_4,3.5.8
स्तर्त् ब्स्र्प्_4,3.5.9-12ः
सामीप्यात् तु तद्व्यपदेशः

4.3.10

कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात्

4.3.11

स्मृतेश् च

4.3.12

परं जैमिनिर् मुख्यत्वात्

4.3.13

प्रतिसंचरो महाप्रलयः, तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्ते समष्टिलिङ्गशरीररूपविकारावसाने ब्रह्मलोकनिवासिनः कुतात्मानः शुद्धधियस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना ।
एवं सिद्धान्तमुक्त्वा तेन निरस्तं पूर्वपक्षमाह- कं पुनरित्यादिना ॥9 ॥ ॥10 ॥ ॥11 ॥ ॥12॥
एन्द् ब्स्र्प्_4,3.5.9-12
स्तर्त् ब्स्र्प्_4,3.5.13ः
दर्शनाच् च

4.3.14

दहरविद्यायां कठवल्लीषु परब्रह्मप्रकरणे च तयोर्ध्वमायन्निति गतिर्दर्शिता ॥13॥
एन्द् ब्स्र्प्_4,3.5.13
स्तर्त् ब्स्र्प्_4,3.5.14ः
न च कार्ये प्रतिपत्त्यभिसंधिः

4.3.15

एवं ब्रह्मश्रुत्यमृतत्वलिङ्गाभ्यां प्रकरणाच्च परविषया गतिरित्युक्तं, संप्रति प्रजापतेः सभां वेश्म प्राप्नुयामिति उपासकस्य मरणकाले कार्यप्राप्तिसंकल्पश्रुतेर्न परं गन्तव्यमिति शङ्कां निरस्यति- नच कार्य इति ।
परस्य प्रकृतत्वात्, यशःपदस्य परमात्मनामत्वप्रसिद्ध्या यशःपदेनात्मोक्तिः ।
यश आत्मा ब्राह्मणानामहं भवामि, तथा राज्ञां यशो विशां यश इति सार्वात्म्यलिङ्गाच्च परप्राप्तिसंकल्प एवायमित्यर्थः ।
अस्तु वेश्मप्रतिपत्तीच्छा परब्रह्मविषया तथापि सा कथं गतिपूर्विका स्यादित्यत आह- सा चेति ।
तत्तत्र ब्रह्मलोके विद्याविधीनेनापराजिता पूरस्ति ब्रह्मणो हिरण्यगर्भस्य तेनैव प्रभुणां विमितं निर्मितं हिरण्मयं वेश्मास्ति तत्प्रतिपद्यते विद्वानिति दहरविद्यायां गतिपूर्विका वेश्मप्राप्तिरुक्ता ।
तेन परब्रह्मण्यपि वेश्मप्रतिपत्तिशब्दसामान्याद्गतिपूर्वकत्वं तस्याः सिध्यतीत्यर्थः ।
किञ्च पद गताविति धातुपाठाद्वेश्म प्रपद्ये इत्यत्र मार्गापेक्षा भातीत्याह- पदेरपीति ।
पूर्वपक्षमुपसंहरति- तस्मादिति ।
आद्य एव सिद्धान्तपक्ष इति दृढीकर्तुमुपसंक्रमते- ताविति ।
ब्रह्मशब्दमुख्यत्वादिहेतूनामाभासत्व्ःअं स्फुटयति- नहीति ।
गन्तव्यत्वस्य ब्रह्मलोकेष्विति बहुवचनादेः संकल्पादेव गन्धादिदिव्यभोगश्रुतेश्च परब्रह्मण्यसंभवान्मुख्यार्थत्याग इत्यर्थः ।
यद्यप्येतद्वै सत्यकाम परं चापरं च ब्रह्मेत्यादिश्रुतिषु प्रयोगसाम्याद्ब्रह्मशब्द उभयत्र रूढतया मुख्यःएव तथापि पूर्णे परस्मिन्नवयवार्थस्य निरतिशयमहत्त्वस्य लाभादपरब्रह्मण्यमुख्य इत्यङ्गीकृतमिति मन्तव्यम् ।
यदुक्तं कठवल्लीषु प्रकरणबलाद्गतिः परविषयेति, तत्राह- परेति ।
यथा विद्यासंबद्धसुषुम्नास्तुत्यर्थं तदसंबद्धनाड्यन्तरकीर्तनं तथा परविद्यास्तुत्यर्थं तत्प्रकरणे ऽप्यपरविद्याश्रयगतिकीर्तनं युज्यते, गतिं विनापि हि परविद्या निरतिशयफला तस्यां त्वपरविद्याफलं गतिसाध्यमन्तर्भवतीति स्तुतिलाभादित्यर्थः ।
यदप्युक्तं प्राप्तिसंकल्पो ऽपि प्रकृतपरविषय इति तन्नेत्याह- प्रजापतेरिति ।
प्रजापतिसभावेश्मश्रुतिभिस्तत्संघातात्मकवाक्येन च प्रकरणं, बाध्यं, यशो ऽहमिति सार्वात्म्यं तूपासनार्थमपरब्रह्मण्युपयुज्यत इत्यर्थ ।
स्वपक्षमुक्त्वा परमतं दूषयति- केचिदित्यादिना ।
सर्वगतस्य स्वात्मभूतस्यापि ब्रह्मणः संसारदेशाद्देशान्तरेण तत्कालात्कालान्तरेण विशिष्टतया गन्तव्यत्वं स्यादिति पृथिवीवयोदृष्टान्ताभ्यां शङ्कते- नन्विति ।
यत्नं विनैव प्राप्तमनन्यत्वम्, अवस्थातद्वतोरभेदात्स्वात्मभूतत्वम् ।
ननु युक्तं भूवयसोः प्राप्तयोरपि देशान्तरकालान्तरविशिष्टत्वेन गन्तव्यत्वं तयोर्गन्तृभिन्नत्वात्, ब्रह्मणस्तु गन्त्रभिन्नस्य कथं गन्तव्यत्वं तत्राह- सर्वशक्तीति ।
या प्राप्ता भूः सा न गन्तव्या यच्च गन्तव्यं देशान्तरं तत्त्वप्राप्तमिति कुतः प्राप्तस्य गन्तव्यता वयसो ऽपि कालान्तरे ऽभिव्यक्तिमात्रं न गन्तव्यत्वमिति वस्तुगतिः ।
अङ्गीकृत्य विशिष्टभूवयसोर्गन्तव्यतां परब्रह्मणो देशकालवैशिष्ट्याभावान्न कथञ्चिदपि गन्तव्यतेत्याह- नेत्यादिना ।
ऽअनादिमत्परं ब्रह्मऽइत्याद्या स्मृतिर्दृश्यविशेषस्य दृशि कल्पितत्वाद्दृगात्मनो निर्विशेषतेति न्यायः ।
सगुणमेव ब्रह्म सूत्रात्मापेक्षया परं गन्तव्यं, निर्विशेषं तु नास्त्येवेति शङ्कते- जगदुत्पत्तीति ।
किं निर्विशेषस्यासत्त्वं मानभावात्सविशेषश्रुतिविरोधाद्वा ।
नाद्य इत्याह- नेति ।
द्वितीयं शङ्कते- उत्पत्त्यादीति ।
सविशेषश्रुतीनां निर्विशेषश्रुतिशेषत्वान्न विरोध इत्याह- नेति ।
निर्विशेषश्रुतीनामेव सविशेषश्रुतिशेषत्वं किं न स्यादित्याह- कस्मादिति ।
तासां स्वार्थे फलवत्त्वेन निराकाङ्क्षत्वाच्छेषिता विशेषश्रुतीनां त्वफलत्वान्निषेध्यविशेषसमर्पणादिद्वारेण शेषत्वं फलवत्संनिधावफलं तदङ्गमिति न्यायादित्याह-उ च्यत इत्यादिना ।
न केवलं न्यायाच्छेषता किन्तु श्रुत्यापीत्याह- प्रत्यक्षं त्विति ।
तत्र मूलकारणे ब्रह्मण्येतच्छुङ्गं जगदात्मकं कार्यमुत्पन्नमित्युपक्रम्य तेन शुङ्गेन तन्मूलमन्विच्छेत्युपसंहारे सत एव ज्ञेयत्वमुक्तं छान्दोग्ये ।
तथा तैत्तिरीयके ऽपि जगज्जन्माद्यनुवादेन ब्रह्मण एव ज्ञेयत्वं दर्शितमतः सृष्टिश्रुतीनां श्रुत्यैव निर्विशेषधीशेषता भातीत्यर्थः ।
एवं ब्रह्मणो निर्विशेषत्वान्न गन्तव्यतेति फलितमाह- एवमिति ।
स्पष्टनिषेधाच्च परस्य न गन्तव्यतेत्याह- न तस्येति ।
एवं गन्तव्यालोचनया गतिं निरस्य गन्त्रालोचनयापि निरस्यति- गतिकल्पनायां चेत्यादिना ।
भेदाभेदेन द्वौ कल्पावत्यन्तभेदस्तृतीयः कल्पः ।
नन्वत्यन्ताभेदकल्पः किमिति नोक्तः, तत्राह- अत्यन्तेति ।
कल्पत्रये किं दूषणमिति पृच्छति- यद्येवमिति ।
कल्पद्वये ऽपि दोषान्तरमाह- विकारावयवपक्षयोश्चेति ।
विकारावयवरूपजीवविशिष्टस्यः ब्रह्मणः स्थिरत्वाज्जीवानां गत्यागती न स्याताम् ।
नह्यचलातिस्थूलपाषाणस्थयोर्मण्डूकपाषाणावयवयोश्चलनमस्तीत्यथ्रः ।
अस्माकं त्वज्ञानात्कल्पितोपाधिभिर्गत्यागतिविभ्रम इति भावः ।
तृतीयकल्पमनूद्य विकल्प्य दूषयति- अथेत्यादिना ।
अभेदश्रुतिविरोधरूपो दोषो मम नास्तीति भेदाभेदवाद्याह- विकारावयवयोरिति ।
भिन्नयोरभेदो मुख्यो न युक्तो विरोधादिति परिहरति- नेति ।
किञ्च पक्षत्रयमप्ययुक्तं संसारित्वस्य तात्त्विकजीवभावस्य नाशे तात्त्विवजीवस्वरूपनाशप्रसङ्गात् ।
नचास्माभिरिव त्वया ब्रह्मात्मत्वं जीवस्य तात्त्विकरूपमङ्गीकृतं यदस्य संसारनाशे ऽपि न नश्येदित्याह- सर्वेष्विति ।
ननु किं ब्रह्मत्वेन, संसाराभावः किल मोक्षः स च कर्माभावमात्रेण सेत्स्यतीति क्रमजडानां मतमुद्भाव्य निरस्यति- यत्त्वित्यादिना ।
तदिति ।
एवंवृत्तं मोक्षहेतुरित्यस्मिन्नर्थे मानाभावादित्यर्थः ।
तर्क एव मानमित्यत आह- न चैतत्तर्कयितुमिति ।
ननु तवाप्येतत्तर्कमात्रमेकस्मिञ्जन्मन्यनेकविरुद्धफलानां कर्मणां भोगायोगादस्त्यवशिष्टं कर्म जन्मान्तरस्य निमित्तमित्याशङ्क्य तत्र मानमाह- कर्मशेषसद्भावसिद्धिश्चेति ।
सन्त्वनारब्धफलानि पुण्यपापानि तेषां नित्याद्यनुष्ठानेन क्षयान्न जन्मान्तरमिति शङ्कते- स्यादेतदिति ।
पुण्येन पुण्यस्य न नाशः अविरोधादन्यथातिप्रसङ्गात् ।
पापस्यापि सर्वात्मना पुण्यनाश्यत्वे मानं नास्तीति संचितपुण्यपापाभ्यां जन्मान्तरं दुर्वारमित्याह- तन्नेत्यादिना ।
क्रियमाणनित्यादिनापि जन्म स्यात्, कर्मणा पितृलोक इत्यविशेषश्रुतेः, स्मृतेश्चेत्याह- नच नित्येति ।
प्रत्यवायनिरासार्थे नित्याद्याचारे सत्यनु पश्चात्फलान्तरं निष्पद्यत इत्यत्र दृष्टान्तः ।
तद्यथेति ।
निर्मिते आरोपिते सतीत्यर्थः ।
तथापि काम्यादिकर्मसत्तानिश्चयो नास्त्यत आह- संशयितव्यं त्विति ।
ज्ञानं विना देहपाते मोक्ष एवेति निश्चयालाभात्त्वत्पक्षे क्षतिरिति भावः ।

ब्रह्मभिन्नस्य जीवस्यं कर्तृत्वादिस्वभावस्य मोक्षाशापि न युक्तेत्याह- नचेति ।
कर्तृत्वादिरूपं कार्यं न स्वभावः किन्तु तच्छक्तिरिति शङ्कते- स्यादेतदिति ।
कार्यगम्यायाः शक्तेः कार्यस्यात्यन्तानुत्पादे सत्त्वमयुक्तमतः शक्तिसत्त्वे तद्विषयस्य कार्यस्यादृष्टदेशकालादिनिमित्तानां चात्मना शक्तिद्वारा नित्यसंबद्धत्वान्मोक्षो न स्यादिति परिहरति- तच्चेत्यादिना ।
मोक्षसिद्ध्यर्थं जीवस्य ब्रह्मत्वाङ्गीकारे संसारानुपपत्तिमाशङ्क्याज्ञानादुपपत्तिमसकृदुक्तां स्मारयति- परस्मादित्यादिना ।
प्रासङ्गिकं परिहृत्य परमं प्रकृतमुपसंहरति- तदेवमिति ।
ननु परविद्यायामप्याप्नोतिपदेन गतिः श्रुतेत्यत आह- ब्रह्मविदाप्नोतीति ।
वैफल्याच्च गतेर्न परविषयत्वमित्याह- अपिचेति ।
अनुचिन्तनपक्षं प्रत्याह- नच नित्यसिद्धति ।
कथं तर्हि कैश्चित्परविषयत्वं गतेरुक्तमित्याशङ्क्य भ्रान्तेत्याह- तत्र परापरेति ।
प्रश्नपूर्वकं परापरब्रह्मविभागं वदन्नपरब्रह्मणि गतेरर्थवत्त्वमाह- किं द्वे इत्यादिना ।
व्यापिनो जीवस्य कथं गतिस्तत्राह- सर्वगतत्वे ऽपीति ॥14॥
एन्द् ब्स्र्प्_4,3.5.14
स्तर्त् ब्स्र्प्_4,3.6.15ः
अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च

4.3.16

एवं गन्तव्यं निरूप्य गन्तृन्निर्धारयति- अप्रतीकेति ।
ऽस एवैनान् ब्रह्म गमयतिऽइत्यविशेषश्रुतेः तत्क्रतुन्यायाच्च ।
संशयमाह- इदमिति ।
अनियमाधिकरणे तत्त्वविदो ऽन्यत्र सर्वोपासकानां मार्गोपसंहार उक्तः, इदानीमपतीकोपासकानामेव मार्गो न सर्वेषां विकारोपासकानामित्युभयथाभावोक्तौ पूर्वोक्तविरोधः स्यात्, तस्मादुपासकमात्रस्योत्तरमार्गसिद्धिरिति पूर्वपक्षफलं, सिद्धान्ते तूभयथाभावसिद्धिः ।
अदोषादिति सूत्रे परच्छेदः, अविरोधादित्यर्थः ।
अनियमः सर्वासामिति सूत्रे सर्वशब्दस्य प्रतीकोपासकान्यपरत्वादिति भावः ।
यद्यपि प्रतीकध्यायिनां पितृयाणतृतीयस्थानयोरप्रवेशादर्चिरादिमार्गो वाच्यस्तथापि तेषां विद्युत्पर्यन्तमेव गमनमस्तु न ब्रह्मप्राप्तिर्ब्रह्मक्रतुत्वाभावात् ।
यो यत् ध्यायति स तत्प्राप्नोति हि तत्क्रतुन्यायः श्रुतिमूलः ।
प्रतीकेषु च नामादिषु ध्येयेषु ब्रह्मणो गुणत्वात्, न ब्रह्मध्यायित्वमस्ति ।
अस्य च न्यायस्य पञ्चाग्निविद्यायामाहत्यवादात्प्रत्यक्षवचनाद्बाध इष्ट इति सूत्रभाष्यार्थः ॥15॥
एन्द् ब्स्र्प्_4,3.6.15
स्तर्त् ब्स्र्प्_4,3.6.16ः
विशेषं च दर्शयति

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc