ब्रह्मसूत्र · अध्याय 4.2
भोगेन त्वितरे क्षपयित्वा संपद्यते ।
तत्त्वविदत्र विषयः, स किं प्रारब्धक्षयानन्तरं संसरत्युत नेति निमित्तभावाभावाभ्यां संशये सिद्धान्तमुपक्रमते- अनारब्धेति ।
अनारब्धकर्मणः क्षयोक्तावारब्धस्य कथं क्षय इत्याकाङ्क्षायामस्योत्थानात्सङ्गतिः ।
पूर्वपक्षे विदेहकैवल्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति भेदः ।
देहपातोत्तरमपि तत्त्ववित्संसरति संसारयोग्यत्वाद्यथा देहपातात्पूर्वमित्यनारब्धाधिकरणदृष्टान्तेन पूर्वपक्षमाह- नन्विति ।
भोगनिमित्तकर्माभावाद्धेत्वसिद्धिः ।
यत्तु संचितं कर्मान्तरं तन्न निमित्तं फलस्य, दग्धमूलत्वात् ।
अविद्यादयो हि क्लेशाः कर्मणस्तत्फलस्य च मूलम् ।
तदुक्तं योगशास्त्रे ऽक्लेशमूलः कर्माशयः सति मूले ताद्विपाकःऽइति ।
तच्च मूलं ज्ञानाग्निना दग्धमिति कुतः पुनः संसारस्तस्माद्देहपाते कैवल्यमिति सिद्धम् ॥19॥
एन्द् ब्स्र्प्_4,1.14.19
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ भाष्यरत्नप्रभायां चतुर्थस्याध्यायस्य प्रथमः पादः ॥1॥
॥ इति चतुर्थस्याध्याय जीवन्मुक्ति निरूपणाख्यः प्रथमः पादः ॥
चतुर्थाध्याये द्वितीयः पादः ।
स्तर्त् ब्स्र्प्_4,2.1.1ः
वाङ्मनसि दर्शनाच् छब्दाच् च
वाङ्मनसि दर्शनाच्छब्धाच्च ।
ज्ञानफलोक्त्यनन्तरमुपासनफलं ब्रह्मलोकस्थं वक्तव्यं तच्चार्चिरादिमार्गप्राप्यं, मार्गप्राप्तिश्चोत्क्रान्तिसाध्या तस्मादुपास्तिफलक्षिप्तोत्क्रान्तिपादस्यास्त्याध्यायसंगतिः ।
युक्तं चास्य पूर्वपादानन्तर्यं ज्ञानफलोक्त्यनन्तरं वक्तव्योपास्तिफलेनाक्षिप्तत्वादित्याह- अथेति ।
ज्ञानिन इवोपासकस्याप्युत्क्रान्तिर्नेत्यत आह- समानेति ।
विद्वानुपासकः, तस्यानुपासकवदुत्क्रान्तिरस्ति, अज्ञत्वादिति वक्ष्यत इत्यर्थः ।
प्रयतो म्रियमाणस्येत्यर्थः ।
वाक्पदस्य करणभावव्युत्पत्तिभ्यां करणतद्वृत्त्योर्लयभानात्संशयः ।
पूर्वपक्षे करणानां स्वरूपलयान्मृतमात्रस्य मुक्तिः, सिद्धान्ते तु संसारसिद्धिः ।
अनुपादाने मनसि वाचस्तत्त्वलयायोगेन व्यापारमात्रोपशमादिति विवेकः ।
सूत्रे वृत्तिपदाध्याहारः कथमिति शङ्कते- कथमिति ।
उत्तरत्र हि सूत्रकृत्तत्त्वविद इन्द्रियाणां स्वरूपलयं वक्ष्यति तद्बलादिहाध्याहार उचितः ।
अज्ञस्यापि इन्द्रियलयसाम्ये वक्ष्यमाणविशेषोक्त्ययोगादिति समाध्यर्थः ।
प्रकृतावेव विकारलय इति न्यायविरुद्धार्थं श्रुतिरपि न ब्रूत इति सिद्धान्तयति- अतत्प्रकृतित्वादिति ।
न्यायस्य निरवकाशत्वाद्बलीयस्त्वं शब्दस्य तूक्तिर्वागितिव्युत्पत्त्या लक्षणया वा सावकाशत्वमिति द्योतयितुं शब्दाच्चेत्युक्तम् ॥1॥
एन्द् ब्स्र्प्_4,2.1.1
स्तर्त् ब्स्र्प्_4,2.1.2ः
अत एव च सर्वाण्यनु
वाच्युक्तं न्यायं चक्षुरादिष्वतिदिशति- एत एवेति ।
उपशान्तदेहौष्ण्यस्तस्मादुत्क्रमणादूर्ध्वं पुनर्भवं प्रतिपद्यत इति श्रुत्यर्थः ।
इन्द्रियशब्दस्य श्रुतिस्थस्य वृत्तिपरतयोपपत्तेः ।
सर्वेन्द्रियवृत्तिलयश्चेदिष्टस्तर्हि वाङ्मनसीति पृथक्सूत्रं किमर्थमित्यत आह- सर्वेषां करणानामिति ॥2॥
एन्द् ब्स्र्प्_4,2.1.2
स्तर्त् ब्स्र्प्_4,2.2.3ः
तन्मनः प्राण उत्तरात्
तन्मनः प्राण उत्तरात् ।
वाक्यक्रमादर्थक्रमाच्चाधिकरणक्रमः ।
श्रुतिन्यायाभ्यां संशयः पूर्वं प्रबलन्यायविरोधाद्वागिति श्रुतेर्बाधः ।
कृतः इह त्वबात्मकप्राणस्य अन्नात्मकमनःप्रकृतित्वेन प्रकृतौ विकारलय इति न्यायानुग्रहान्न मनःश्रुतिर्बाध्येति पूर्वपक्षफलं पूर्ववत्, सिद्धान्तस्त्वबन्नयोः प्रकृतिविकृतिभावे ऽपि न तद्विकारयोः प्राणमनसोस्तद्भावो हिमघटयोरपि तद्भावप्रसङ्गादतो न्यायविरोधात्पूर्ववच्छ्रुतिर्बाध्येति विवेकः ।
आगृहीता बाह्येन्द्रियवृत्तयो येन तत्तथा लीनेन्द्रियवृत्तिकं मनो ऽपि वृत्तिलयेनैव प्राणे लीयत इत्यर्थः ।
एवमपीति ।
प्राणस्याब्विकारत्वपक्षे ऽपीत्यर्थः ।
तस्मादिति प्राणस्य साक्षान्मनःप्रकृतिभावान्मनःशब्दो वृत्तिं लक्षयतीत्यर्थः ॥3॥
एन्द् ब्स्र्प्_4,2.2.3
स्तर्त् ब्स्र्प्_4,2.3.4ः
सो ऽध्यक्षे तदुपगमादिभ्यः
सो ऽध्यक्षे तदुपगमादिभ्यः ।
उक्तन्यायसिद्धं प्राणस्यापि वृत्तिलयमुपजीव्य ऽप्राणस्तेजसिऽइति श्रुतेरूपगमादिश्रुतेश्च संशयमुक्त्वा जीवे लयं विनापि उपगमादिसंभव इति पूर्वपक्षयति- स्थितमित्यादिना ।
अत्र तेजःशब्दस्य मुख्यत्वं, सिद्धान्ते तु भूतोपहित जीवलक्षकत्वमिति मत्वा सूत्रं योजयति- स प्रकृत इत्यादिना ।
अज्ञानकर्मवासनोपाधिक इत्यर्थः ।
तं जीवं प्रति प्राणानामुपगमानुगमनावस्थानश्रुतिभ्य इति हेत्वर्थः ।
यथा यात्रेच्छावन्तं राजानं भृत्या उपगच्छन्त्येवमेव परलोकं जिगमिषुं जीवं सर्वे प्राणा अभिमुख्येनायान्तीत्युपगमः श्रुतः ।
तमुत्क्रामन्तमित्यनुगमनं श्रुतम् ।
जीवे प्राणावस्थानश्रुतिमाह- सविज्ञान इति ।
जीवस्य प्राप्तव्यफलावगमाय हि विज्ञानसाहित्यश्रुत्याः मुख्यप्राणसहितकरणानां जीवे स्थितिर्भातीत्यर्थः ॥4॥
एन्द् ब्स्र्प्_4,2.3.4
स्तर्त् ब्स्र्प्_4,2.3.5ः
भूतेषु तच्छ्रुतेः
यद्यपि प्राणस्य तेजस्यव्यवधानेन लयः श्रुतस्तथाप्युभयश्रुत्यनुग्रहाय प्राणो जीवे लीयते, जीवद्वारा च तदुपाधिषु तेजआदिभूतेष्विति श्रुत्यर्थस्फुटीकरणार्थं सूत्रं गृह्णाति- कथं तर्हीति ।
नच लयं विनापि जीवं प्रत्यिपगमादिसंभवात्तेजः श्रुतिर्मुख्यास्त्विति वाच्यं, जीवं प्रत्यागत्य प्राणस्य निर्व्यापारत्वेन स्थितेरेवात्र लयत्वादिति भावः ।
भूतेषु जीवस्थितिः किं बलाद्व्याख्यायत इत्याशङ्क्य ऽसो ऽध्यक्षेऽइति सूत्रोदाहृतश्रुतिबलादित्याह- नन्वित्यादिना ।
प्राणस्य जीवद्वारा भूतप्राप्तौ दृष्टान्तमाह- यो ऽपि हीति ॥
एन्द् ब्स्र्प्_4,2.3.5
स्तर्त् ब्स्र्प्_4,2.3.6ः
नैकस्मिन् दर्शयतो हि
स्थूलदेहारम्भाय पञ्चीकृतभूतान्यावश्यकानीति रंहत्यधिकरणे व्याख्यातम् ।
अण्व्यः सूक्ष्माः, मीयन्त इति मात्राः परिच्छिन्नाः, प्राङ्मोक्षादविनाशिन्यः, दशार्धानां पञ्चानां भूतानां सूक्ष्मभागा इति यावत् ।
जीवस्य भूताश्रयत्वं कर्माश्रयत्वश्रुतिविरुद्धमित्याशङ्क्य कर्म निमित्तत्वेनाश्रयः, भूतानि तु देहोपादानत्वेनेत्युभयमविरुद्धमित्याह- ननु चेत्यादिना ।
तौ याज्ञवल्क्यार्तभागौ यज्जीवाधारमूचतुस्तत्कर्मेति श्रुतेर्वचनम् ॥6॥
एन्द् ब्स्र्प्_4,2.3.6
स्तर्त् ब्स्र्प्_4,2.4.7ः
समाना चासृत्युपक्रमाद् अमृतत्वं चानुपोष्य
एवं बाह्येन्द्रियाणां मनसि प्रथमं वृत्तिलयलाभात्ततो मनोवृत्तेः प्राणे लयः प्राणवृत्तेर्भूतोपहितजीवे लय इत्युत्क्रान्तिव्यवस्थोक्ता ।
साच सर्वप्राणिषु तुल्येत्याह- समाना चानुपोष्य ।
ऽपुरुषस्य प्रयतो वाङ्मनसिऽइत्यविशेषश्रुतेः ऽविद्ययामृतमश्नुतेऽइति श्रुतेश्च संशयमाह- सेयमिति ।
विशयानानां संदिहानानामित्यर्थः ।
पूर्वपक्षे सगुणब्रह्मविदसंबन्धित्वमुत्क्रान्तेर्विशेषः साध्यते ।
ततो ऽनूत्क्रान्त उपासको मुक्तिमश्नुत इति फलं, सिद्धान्ते तूत्क्रान्तो ब्रह्मलोकभागीति फलभेदः ।
पूर्वपक्षमाक्षिप्य समाधत्ते- ननु विद्येत्यादिना ।
विद्ययामृतमिति श्रुतिनिर्गुणविद्यावत्परा ।
न तस्य प्राणा उत्क्रामन्तीति प्रतिषेधो ऽपि तद्विषयः ।
अतः सगुणविदो ऽप्यज्ञस्यैवोत्क्रान्तिरिति सिद्धान्तयति- एवमिति ।
सृतिर्मार्गस्तस्योपक्रमो ऽर्चिःप्राप्तिस्ततः प्राक्तना उत्क्रान्तिस्तुल्या, तत उपासको मूर्धन्यनाडीद्वारार्चिरादिमार्गं प्राप्नोति नान्य इति विशेषः ।
यत्तु दहरोपासकस्यामृतत्वं श्रुतं ऽतयोर्ध्वमायन्नमृतत्वमेतिऽइति तदापेक्षिकमेव न मुख्यं ऽयं कामं कामयते सो ऽस्य संकल्पादेव समुत्तिष्ठतिऽइति भोगश्रवणादित्याह- अनुपोष्य चेदमिति ।
उष दाह इति धातोरिदं रूपम् ॥7॥
एन्द् ब्स्र्प्_4,2.4.7
स्तर्त् ब्स्र्प्_4,2.5.8ः
तदापीतेः संसारव्यपदेशात्
तदापीतेः ।
पूर्वोदाहृतोत्क्रान्तिवाक्यशेषं व्याख्याय लिङ्गाश्रयपञ्चभूतानां किमात्यन्तिको ब्रह्मणि लय उतानात्यन्तिक इति लयस्योभयथादर्शनात्संशयमाह- कीदृशी पुनरियमिति ।
पूर्वत्रापेक्षिकममृतत्वमित्युक्तं तदयुक्तमित्याक्षेपात्संगतिः पूर्वपक्षे मृतमात्रस्य मुक्तिसिद्धिः, सिद्धान्ते तु कर्मविद्याशास्त्रबलात्सावशेषलयसिद्धिरिति विवेकः ॥8॥
एन्द् ब्स्र्प्_4,2.5.8
स्तर्त् ब्स्र्प्_4,2.5.9ः
सूक्ष्मं प्रमाणतश् च तथोपलब्धेः
ननु लिङ्गात्मकस्य तेजसः कथं सूक्ष्मतमनाडीद्वारा गतिः कुतो वा केनचिन्मूर्तेन प्रतिघातो नास्ति कुतो वा न दृश्यत इत्यत आह- सूक्ष्ममिति ॥9॥
एन्द् ब्स्र्प्_4,2.5.9
स्तर्त् ब्स्र्प्_4,2.5.10ः
नोपमर्देनातः
प्रमाणसौक्ष्म्याद्गतिरनुद्भूतस्पर्शरूपवत्त्वाख्यस्वच्छत्वादप्रतिघातानुपलब्धी इत्यर्थः ॥10॥
एन्द् ब्स्र्प्_4,2.5.10
स्तर्त् ब्स्र्प्_4,2.6.11ः
अस्यैव चोपपत्तेर् ऊष्मा
लिङ्गसद्भावे चौष्ण्यलिङ्गकानुमानमाह- अस्यैव चेति ॥11॥
एन्द् ब्स्र्प्_4,2.6.11
स्तर्त् ब्स्र्प्_4,2.6.12ः
प्रतिषेधाद् इति चेन् न शारीरात्
प्रतिषेधादिति चेन्न शारीरात् ।
पूर्वमनुपोष्येति पदेन दग्धाशेषक्लेशस्य निर्गुणज्ञानिन उत्क्रान्त्याद्यभावः ।
सूचितस्तस्यात्राक्षिप्य समाधानाद्व्यवहितेनास्य संगतिरित्याह- अमृतत्वं चेति ।
सकामस्य संसारोक्त्यनन्तरं निष्कामस्य मुक्तिप्रकरणार्थो ऽथशब्दः आत्मकामत्वात् पूर्णानन्दात्मवित्त्वादाप्तकामः प्राप्तपरमानन्दः, अतो निष्कामः अनभिव्यक्तान्तरवासनात्मककामशून्यः, तस्मादकामः व्यक्तबहिष्कामरहितः, ईदृशो यो ऽकामयमानस्तस्येत्यन्वयः ।
ज्ञानिन उत्क्रान्तिरस्ति न वेति पञ्चमीषष्ठीश्रुतिभ्यां संदेहे सिद्धान्तिशङ्कानिरासपूर्वकं पूर्वपक्षयति- नेत्यादिना ॥12॥
एन्द् ब्स्र्प्_4,2.6.12
स्तर्त् ब्स्र्प्_4,2.6.13-14ः
स्पष्टो ह्येकेषाम्
स्मर्यते च
काण्वश्रुतौ तावत्तस्येति सर्वनाम्ना प्रकृतं ज्ञानिनं परामृश्य संबन्धसामान्यमुक्तं तत्र माध्यन्दिनशाखायां तस्मादित्यपादानत्वरूपविशेष उक्तो ग्राह्यस्तथाच जीवात्प्राणोत्क्रान्तिप्रतिषेधो भाति न देहात्तच्छब्देन देहस्यानुक्तेस्तस्माज्ज्ञानिनो ऽप्युत्क्रान्तिरस्तीति ज्ञानवैयर्थ्यमिति पूर्वपक्षफलम् ।
सिद्धान्ते तत्सार्थक्यमाह- स्पष्टो हीति ।
अत्र पुरुषशब्दवाच्यो देह एवस्मादित्युत्क्रान्त्यवधिरुच्यते ।
सशब्दपरामृष्टस्य प्रकृतस्य पुरुषस्योच्छ्वयनादिधर्मकस्य जीवत्वायोगादित्यर्थः ।
उच्छ्वयति बाह्यवायुपूरणाद्वर्धते, आध्मायति आर्द्रभेरीवच्छब्दं करोतीत्यर्थः ।
येषां पञ्चमीपाठस्तेषां यद्यपि देहिनः प्राधान्यं तथापि देहदेहिनोरभेदात्तस्मादिति देहं परामृश्य तदापादन एवोत्क्रान्तिप्रतिषेध इति व्याख्येयम् ।
तत्सामान्यदुक्तश्रुत्यास्य पाठस्यैकार्थत्वादिति योजना ।
इदानीं काण्वपाठस्यानुगुण्यमाह- येषां तु षष्ठीपाठ इति ।
संबन्धविशेषाकाङ्क्षायां भोक्ता प्राणानां भोगोपकरणत्वविशेषो ऽत्रैव प्राणमयो मनोमयः इति पूर्वश्रुत्युक्तो ग्राह्यः ।
न शाखान्तरस्थमपादानत्वं ग्राह्यं जीवादुत्क्रान्तेरप्राप्तायाः प्रतिषेधायोगात् ।
अतो विद्वत्संबन्धिप्राणानामुत्क्रान्त्यपादानापेक्षायां चक्षुष्टो वा मूर्ध्नोवेत्युक्तदेहप्रदेशा एव ग्राह्यः ।
तथाचायमर्थः-तस्य विदुषो भोगोपकरणात्मकाः प्राणाः देहप्रदेशेभ्यो नोत्क्रामन्तीति ।
एवं च प्राप्तोत्क्रान्तिनिषेधार्थत्वं वाक्यस्येति सर्वं चतुरस्रम् ।
अपिचेति स्पष्टार्थम् ।
सम्यगात्मभावेन भूतानि पश्यतः अपदस्य प्राप्यपदरहितस्य पदैषिणो देवा अपि मार्गे मुह्यन्ति मार्गं न जानन्ति तदभावादिति स्मृतियोजना ।
समृत्यन्तरविरोधं शङ्कते- ननु गतिरपीति ।
सगुणविद्याबलेनैषा गतिरिति परिहरति- सशरीरस्येति ।
ननु तर्हि ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ, ऽस एवैतान्ब्रह्म गमयतिऽइत्यादिश्रुतीनां का गतिः, तत्राह- गतीति ॥13 ॥ ॥14॥
एन्द् ब्स्र्प्_4,2.6.13-14
स्तर्त् ब्स्र्प्_4,2.7.15ः
तानि परे तथा ह्य् आह
तानि परे तथाह्याह ।
पूर्वत्र गतिनिषेधेन विद्वत्कलानां घ्राणादीनामत्रैव लय उक्तः ।
तमुपजीव्य स किं तत्तत्कलाप्रकृतिषु पृथिव्यादिषु स्यादुत परमात्मनीति श्रुतिद्वयदर्शनात्संशयः कार्यः ।
तत्र साक्षात्प्रकृतौ विकारलय इति न्यायानुगृहीतया ऽगताः कलाःऽइति श्रुत्या पूर्वपक्षमग्रे वदन्नादौ सिद्धान्तमाह- तानीति ।
यथा नद्यः समुद्रं प्राप्य लीयन्ते एवमेवास्य परितः सर्वत्र ब्रह्मद्रष्टुरिमाः प्राणश्रद्धाद्याः पुरुषायणाः पुरुषे कल्पिताः पुरुषमेव ज्ञेयं प्राप्य लयं गच्छन्तीत्यर्थः ।
मनःप्राणयोरेकीकरणेन कलानां पञ्चदशत्वम् ।
प्रतिष्ठा इति द्वितीयाबहुवचनम् ।
स्वस्य प्रकृतीः पृथिव्याद्या इत्यर्थः ।
वस्तुगत्या विद्वद्दृष्ट्या परमात्मनि कलालये ऽपि लोकदृष्ट्या प्रतिष्ठासु लयोक्तिरविरुद्धा ।
तथाच कलाः स्वप्रकृतिषु विलाप्य ताभिः सह पुरुषे लीयन्ते इति श्रुतिद्वयतात्पर्यम् ॥15॥
एन्द् ब्स्र्प्_4,2.7.15
स्तर्त् ब्स्र्प्_4,2.8.16ः
अविभागो वचनात्
अविभागो वचनात् ।
उक्तलयमुपजीव्य लयस्य द्वेधादर्शनात्संशयमाह- स पुनरिति ।
मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् ।
अवशेषो मूलकारणे शक्त्यात्मना स्थितिः ।
पुनर्जन्मयोग्यतेति यावत् ।
विमतः कलालयः सावशेषः, कलालयत्वात्सुषुप्तिवदिति पूर्वपक्षः ।
विमतो निरवशेषः, विद्याकृतत्वाद्रज्ज्वा विद्यया सर्पलयवदिति युक्त्युपेतश्रुत्या सिद्धान्तयति- ब्रवीतीति ।
नामरूपे शक्त्यात्मके अपि भिद्येते इत्यर्थः ॥16॥
एन्द् ब्स्र्प्_4,2.8.16
स्तर्त् ब्स्र्प्_4,2.9.17ः
तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाच् च हार्दानुगृहीताः शताधिकया
तदोकोग्रज्वलनम् ।
सृतेर्मार्गस्योपक्रमो नाडीप्रवेशनियमस्तं वक्तुं सूत्रभागव्याख्याद्वाराधिकरणविषयमाह- तस्येति ।
स मुमूर्षुस्तेजोमात्रा इन्द्रियाणि ।
तस्य हृदयस्याग्रं नाडीमुखं तस्य ज्वलनं भाविफलस्फुरणं प्रद्योताख्यम् ।
चक्षुषो वेत्यनियमश्रुतेस्तयोर्घ्वमायन्निति विशेषश्रुतेश्च संशयः-किमुपासको ऽप्यनुपासकवद्येन केनचिद्द्वारेण निर्गच्छति उत मूर्धन्यनाड्यैवेति ।
अत्र पूर्वपक्षे विद्याकृतातिशयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
वचनादविभागवदनियम इति प्राप्ते सिद्धान्तयति- आचष्ट इति ।
येन केनचिन्मार्गेण निर्गतस्यापि ब्रह्मलोकप्राप्तौ विद्यशेषत्वेन मार्गानुस्मृतिविधेः केवलादृष्टार्थत्वं स्यादतो ऽन्वहं स्मृतेनैव मार्गेण गमनं युक्तमिति भावः ।
हार्दं ब्रह्म ।
विष्वङ् नानाविधा अन्या नाड्यो ऽन्येषामित्यर्थः ।
सुषुम्नाख्या नाडी हृदयात् निर्गता दक्षिणाक्षितालुकण्ठान्तस्तननासिकामध्याभित्तिद्वारा ब्रह्मरन्ध्रं प्राप्ता सूर्यरश्मिभिरेकीकृता ब्रह्मलोकमार्ग उपासकस्येति स्थितम् ॥17॥
एन्द् ब्स्र्प्_4,2.9.17
स्तर्त् ब्स्र्प्_4,2.10.18ः
रश्म्यनुसारी
रश्म्यनुसारी ।
प्रकरणशोधनपूर्वकमुपासकस्य रश्म्यनुसारित्वं विषयमाह- अस्तीत्यादिना ।
अथ प्रारब्धान्ते एतदुत्क्रमणं यदा स्यादथ तदा एतैरेव नाडीसंबद्धै रश्मिभिरुत्क्रामतीत्यर्थः ।
अत्र संबन्धस्य कालविशेषाश्रवणाद्रात्रौ रश्म्यभावाच्च संशयमाह- तत्किमिति ।
पूर्वोक्तनाडीसंबद्धरश्मीनामत्रोपजीव्यत्वात्संगतिः ।
पूर्वपक्षे रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति, सिद्धान्ते नास्तीति मत्वा सिद्धान्तं प्रतिजानीते- अविशेषेणेति ॥18॥
एन्द् ब्स्र्प्_4,2.10.18
स्तर्त् ब्स्र्प्_4,2.10.19ः
निशि नेति चेन् न सम्बन्धस्य यावद्देहभावित्वाद् दर्शयति च
पूर्वपक्षबीजमुपन्यस्य दूषयति- निशीत्यादिना ।
शिरा नाड्यः प्रतायन्ते विस्तृता भवन्ति सृप्ताः संबद्धाः ।
श्रुतसंबन्धस्य रात्रौ सत्त्वे युक्तिमाह- निदाघेति ।
तर्हि हेमन्तादिरात्रिष्वौष्ण्योपलब्धिः स्यादित्यत आह- स्तोकेति ।
सविता रात्रावप्यहर्दधातीति धारणाभिधानं स्तोकरश्म्यनुवृत्त्यभिप्रायमेवेत्यर्थः ।
किञ्च यदि रात्रौ मृतस्य रश्मियोगं विनैवोर्ध्वगतिः स्यात्तदा रश्मिश्रुतेर्दिवामृतविषयतया संकोचः स्यादूर्ध्वगत्यभावे च विद्यायामप्रवृत्तिः स्यात् ।
नच प्रतीक्षयोर्ध्वगतिरिति वाच्यं, रश्म्युदयात्प्राग्देहदाहे आदित्यप्रतीक्षावैयर्ध्यापातादप्रतीक्षाश्रुतिविरोधाच्च ।
तस्माद्यदाकदाचिन्मृतस्य रश्मिप्राप्त्या झटिति ब्रह्मलोकप्राप्तिरिति ॥19॥
एन्द् ब्स्र्प्_4,2.10.19
स्तर्त् ब्स्र्प्_4,2.10.20ः
अतश् चायने ऽपि दक्षिणे
एवं दक्षिणायने मृतो विद्वान्विद्याफलमाप्नोति न वेति विद्याया नित्यवत्फलश्रुतेरुत्तरायणप्राशस्त्यशास्त्राच्च संदेहे पूर्वोक्तहेतूनतिदिशति- अतश्चायने ऽपि दक्षिणे ।
पूर्वपक्षमाशङ्क्यापनुदति- उत्तरायणेत्यादिना ।
अज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवचनरूपाचारपरिपालनार्थं भीष्मस्य प्रतीक्षा ।
षण्मासानिति श्रुतिस्तूत्तरायणदेवतापरेति वक्ष्यते ।
तथाच देवतायाः सदा सत्त्वाद्विद्यया दक्षिणायनकाले ऽपि तत्प्राप्तिरविरुद्धेति भावः ॥20॥
एन्द् ब्स्र्प्_4,2.10.20
स्तर्त् ब्स्र्प्_4,2.11.21ः
योगिनः प्रति च स्मर्येते स्मार्ते चैते
मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0