भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 4.4

4.4.1

किञ्च प्रतीकतारतम्येन फलतारतम्यश्रुतेर्न प्रतीकध्यायिनां ब्रह्मप्राप्तिरित्याह- विशेषं चेति ।
तस्मादसति वचने ब्रह्मध्यायिन एव ब्रह्मगन्तार इति सिद्धम् ॥16॥
एन्द् ब्स्र्प्_4,3.6.16
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ भाष्यरत्नप्रभायां चतुर्थाध्यायस्य तृतीयः पादः ॥3॥
॥ इति चतुर्थस्याध्यायस्य सगुणविद्यावतो मृतस्योत्तरमार्गामिधानाख्यस्तृतीयः पादः ॥
चतुर्थे ऽध्याये चतुर्थः पादः ।
स्तर्त् ब्स्र्प्_4,4.1.1ः
संपद्याविर्भावः स्वेन शब्दात्

4.4.2

पूर्वपादे ब्रह्मोपासकानां कार्यब्रह्मप्राप्तिरुक्ता, संप्रति तेषामैश्वर्यविशेषं ब्राह्मलौकिकं पादस्योत्तरार्धेन प्रपञ्चयिष्यन्नादावभ्यर्हितपरविद्याप्राप्यं निर्विशेषब्रह्मभावमाह- संपद्याविर्भावः स्वेनशब्दात् ।
निर्गुणविद्याफलवाक्यमुदाहृत्य स्वशब्दस्य स्वीयागन्तुकरूपस्वात्मरूपवाचित्वाभ्यां संशयमाह- एवमिति ।
पूर्वपक्षे मोक्षस्य स्वर्गादविशेषः, सिद्धान्ते विशेष इति फलं, तत्र मोक्ष आगन्तुकः, फलत्वात्स्वर्गवदिति न्यायोपेतयाभिनिष्पत्तिश्रुत्या पूर्वपक्षमाह- किमित्यादिना ।
स्वशब्दश्रुतिबाधितो न्यायः अभिनिष्पत्तिश्च साक्षात्कारवृत्त्यभिप्राया बन्धध्वंसजन्मन्यौपचारिक्वेवेति मत्वा सिद्धान्तयति- एवमिति ।
मोक्षस्य फलत्वेन प्राप्तागन्तुकत्वनिरासार्थः स्वशब्द इति युक्तं स्वीयवाचित्वे ऽत्वनर्थकानुवादः स्यादित्यर्थः ॥1॥
एन्द् ब्स्र्प्_4,4.1.1
स्तर्त् ब्स्र्प्_4,4.1.2ः
मुक्तः प्रतिज्ञानात्

4.4.3

सूत्रान्तरं गृह्णाति- कः पुनरिति ।
जागरिते ह्यान्ध्यादिदेहधर्मवान्भवति स्वप्ने तु हत एव केनचित् ।
अपिच पुत्रादिनाशाद्रोदितीव भवति, सुषुप्तौ तु विशेषाज्ञानाद्विनष्ट इवेति, बन्धदशायां कलुषितात्मना तिष्ठति मोक्षे तु विगलिताखिलदुःखः परितः प्रद्योतमानपूर्णानन्दात्मनावतिष्ठत इति महान् विशेष इत्यर्थः ॥2॥
एन्द् ब्स्र्प्_4,4.1.2
स्तर्त् ब्स्र्प्_4,4.1.3ः
आत्मा प्रकरणात्

4.4.4

कार्यगोचरमिति ।
कार्यं ज्योतिःप्राप्तमित्यर्थः ।
कार्यं प्राप्तो ऽपि मुक्तः किं न स्यादित्यत आह- न चानतिवृत्त इति ॥3॥
एन्द् ब्स्र्प्_4,4.1.3
स्तर्त् ब्स्र्प्_4,4.2.4ः
अविभागेन दृष्टत्वात्

4.4.5

अविभागेन दृष्टत्वात् ।
स्वरूपस्थितमुक्तमुपजीव्य वादिविवादात् ब्रह्मभेदाभेदसंशये सत्यत्यन्तभेदं पूर्वपक्षमुक्त्वा सिद्धान्तमाह- यस्येति ॥4॥
एन्द् ब्स्र्प्_4,4.2.4
स्तर्त् ब्स्र्प्_4,4.3.5ः
ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः

4.4.6

ब्राह्मेण जैमिनिः उक्तं ब्रह्म स्वरूपमुपजीव्य स किं सत्येन सर्वज्ञत्वादिधर्मेण युक्तस्तिष्ठति उत धर्मस्य शशशृङ्गवदत्यन्तासत्त्वाच्चिन्मात्रात्मना तिष्ठति किं वा वस्तुतश्चिन्मात्रो ऽपि जीवान्तरव्यवहारदृष्ट्या कल्पितसर्वज्ञत्वादिमानिति मुनिविप्रतिपत्तेः संशये सत्याद्यं पूर्वपक्षमाह- अधुनेत्यादिना ।
तत्तत्पक्षसिद्धिरेव फलं द्रष्टव्यम् ।
सो ऽन्वेष्टव्य इतिविध्यर्थ उद्देशो य आत्मेत्यादिरूपन्यासशब्दार्थः ।
आदिपदाद्विधिव्यपदेशग्रहः ।
तत्राज्ञातज्ञापको विधिस्तमाह- तथा स तत्रेति ।
सर्वज्ञ इत्यादिस्तु व्यपदेशो ऽयं हि नोद्देशः विध्यभावान्नापि विधिः सिद्धवन्निर्देशादित्यर्थः ॥5॥
एन्द् ब्स्र्प्_4,4.3.5
स्तर्त् ब्स्र्प्_4,4.3.6ः
चितितन्मात्रेण तदात्मकत्वाद् इत्य् औडुलोमिः

4.4.7

सत्यत्वादिधर्माणां सत्यत्वं दूषयन्नत्यन्तासत्त्वपक्षमाह- चितितन्मात्रेणेति ।
चितिश्चैतन्यं, शब्दज्ञानाद्यो विकल्पो ऽसन्प्रत्ययस्तज्जाः अत्यन्तासन्त इति यावत् ।
अस्त्वभावधर्माणामसत्त्वं भावधर्माणां तु सत्त्वमित्याशङ्क्य तेषामप्यौपाधिकत्वादसत्त्वमित्याह- सत्यकामेति ।
चिन्मात्रे मुक्ते जक्षणादिश्रुतिः कथं तत्राह- अत एव चेति ।
सर्वधर्मनिषेधादेवेत्यर्थः ॥6॥
एन्द् ब्स्र्प्_4,4.3.6
स्तर्त् ब्स्र्प्_4,4.3.7ः
एवम् अप्य् उपन्यासात् पूर्वभावाद् अविरोधं बादरायणः

4.4.8

धर्माणां सत्यत्वमत्यन्तासत्त्वं चेति पक्षद्वयमयुक्तम् ।
अद्वैतश्रुतीनां सर्वज्ञत्वादिश्रुतिव्यवहारयोश्च बाधापातादतस्तृतीयपक्षः श्रेयानिति सिद्धान्तयति- एवमपीति ।
अत्र केचिन्मुह्यन्ति-अखण्डचिन्मात्रज्ञानान्मुक्तस्याज्ञानाभावात्कुत आज्ञानिकधर्मयोग इति, ते इत्थं बोधनीयाः ।
ये ईश्वरधर्मास्त एव चिदात्मनि मुक्ते जीवान्तरैर्व्यवह्रियन्ते इति ।
नच मूलाविद्यैक्यात्तन्नाशे कुतो जीवान्तरमिति वाच्यं, न वयं तन्नाशे जीवान्तरव्यवहारं ब्रूमः, किन्तु तदंशनाशेनांशारब्धाध्यात्मिकशरीरद्वयाभिमानिनो मुक्तावंशान्तरोपाधिका जीवा व्यवहर्तार इति वदामः ।
तर्हि नानविद्यापक्ष एव कुतो नाद्रियते जीवभेदस्यावश्यकत्वादिति चेत् ।
न ।
प्रकृतिनानात्वं प्रतिजीवं प्रपञ्चभेद इत्याद्यप्रामाणिकानेकार्थगौरवादिति सर्ववृद्धसंमत एकाविद्यापक्ष एव श्रेयान्, अंशभेदेन च बन्धमुक्तिव्यवस्थेति संक्षेपः ॥7॥
एन्द् ब्स्र्प्_4,4.3.7
स्तर्त् ब्स्र्प्_4,4.4.8ः
संकल्पाद् एव तु तच्छ्रुतेः

4.4.9

एवं परविद्याफलमुक्तमिदानीमपरविद्याफलं प्रपञ्चयति- संकल्पादेव तु तच्छ्रुतेः ।
एवकारस्यायोगान्ययोगव्यवच्छेदसाधारण्यात्संशयः, ब्रह्मलोकं गतस्योपासकस्य संकल्पो यत्नान्तरसापेक्षः, भोगसामग्रीसंकल्पत्वादस्मदादिसंकल्पवत् ।
न चैवकारविरोधः संकल्पेन सामग्र्या अयोगव्यवच्छेदेन सौलभ्यार्थत्वात्, यत्नानङ्गीकारे भोगपुष्ट्यसिद्धेश्चेति पूर्वपक्षार्थः ।
अत्र लोकवृत्तानुसरणं फलं, सिद्धान्ते तु विद्याबलेन संकल्पस्यैव भोगपुष्टिकरत्वसिद्धिरिति बेदः ।
किञ्च यदि भोगसंकल्पानन्तरमपि यत्नान्तरसाध्यनिमित्तापेक्षा स्यात्तर्हि निमित्तप्राप्तेः प्राग्जातसंकल्पस्य वन्ध्यत्वं स्याद्भोगे विलम्बात्ततः सत्यसंकल्पश्रुतेर्न यत्नान्तरापेक्षेत्याह- निमित्तान्तरमपि त्विति ॥8॥
एन्द् ब्स्र्प्_4,4.4.8
स्तर्त् ब्स्र्प्_4,4.4.9ः
अत एव चानन्याधिपतिः

4.4.10

नन्वीश्वराधीनस्य विदुषः कथं संकल्पमात्राद्भोगसिद्धिस्तत्राह- अत एवेति ।
ईश्वरधर्म एव विदुष्याविर्भूत इति न संकल्पभङ्ग इति भावः ॥9॥
एन्द् ब्स्र्प्_4,4.4.9
स्तर्त् ब्स्र्प्_4,4.5.10-11ः
अभावं बादरिर् आह ह्य् एवम्

4.4.11

भावं जैमिनिर् विकल्पामननात्

4.4.12

एवकारवन्मनसेति विशेषणेनान्ययोगव्यवच्छेदाद्देहाद्यभाव इति पूर्वपक्षयति- अभावं बादरिराह ह्येवम् ।
अत्रापि वादिविवादात्संशयः, तत्र देहादयो न सन्त्येव सदा सन्त्येवेति च पक्षद्वयं पूर्वपक्षः ।
कालभेदेनेच्छया सन्ति न सन्ति चेति सिद्धान्तपक्षो द्रष्टव्यः ।
फलं तु तत्तच्छ्रुतेर्मुख्यत्वमिति विवेकः ॥10 ॥ ॥11॥
एन्द् ब्स्र्प्_4,4.5.10
एन्द् ब्स्र्प्_4,4.5.11
स्तर्त् ब्स्र्प्_4,4.5.12-14ः
द्वादशाहवद् उभयविधं बादरायणो ऽतः

4.4.13

तन्वभावे सन्ध्यवद् उपपत्तेः

4.4.14

भावे जाग्रद्वत्

4.4.15

द्वादशाहवदिति ।
य एवंविद्वांसः सत्रमुपयन्ति इत्युपायिचोदनागम्यत्वश्रुतेर्द्वादशाहस्य सत्रत्वं, आसतेति चोपयन्तीति वा चोदितत्वं सत्रलक्षणमिति स्थितिः ।
तथा द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमेन द्विरात्रादिवदहीनत्वं चेत्यर्थः ॥12 ॥ ॥13 ॥ ॥14॥
एन्द् ब्स्र्प्_4,4.5.12-14
स्तर्त् ब्स्र्प्_4,4.5.15ः
प्रदीपवदावेशस् तथा हि दर्शयति

4.4.16

प्रदीपवदावेशः ।
संकल्पमात्रान्निर्मितदेहानुपजीव्य तेषूभयथादर्शनात्संशयमाह- भावमिति ।
अनादिलिङ्गशरीरस्यैकस्मिन्नेव शरीरे भावान्निर्मितानेकदेहेषु भोगासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याचष्टे- यथेत्यादिना ।
स एकधा त्रिधा पञ्चधेत्यादिश्रुत्या विदुष एवानेकधाभाव उक्तः ।
विद्वांस्तु न देहो नापि चिन्मात्रः ।
किन्तु लिङ्गोपहितात्मा ।
नच तस्य लिङ्गभेदं विनानेकत्वं संभवति ।
अतः श्रुतिबलादेकस्यैवानादिलिङ्गस्यानेकदेहेषु प्रवेशेन भेद एष्टव्यः ।
यद्यपि मूलप्रदीपस्य वर्त्यन्तरेषूत्पन्नदीपानां चात्यन्तभेदो ऽस्ति लिङ्गस्य तु देहभेदकृतो भेदो न स्वतः, स्वतो लिङ्गभेदे तदुपहितजीवभेदादनुसंधानानुपपत्तेः ।
आगन्तुकानेकलिङ्गसृष्टावसत्कार्यवादापाताच्च ।
तथापि प्रदीपत्वजात्यैक्येन व्यक्तिष्वैक्यारोपात् दृष्टान्तदार्ष्टान्तिकयोः साम्यं दृष्टव्यम् ।
तथाच यथा प्रदीपो ऽनैकवर्तिषु प्रविशति एवं विद्यायोगबलाद्विद्वलिङ्गस्य व्यापित्वादनेकदेहेषु युगपदावेश इति सूत्रार्थः ।
विदुषो ऽनेकधात्वं श्रुतमन्यथा न घटत इत्याह- नैतदिति ।
इतश्च सात्मकत्वमित्याह- नच निरात्मकानामिति ।
यदनादि मन एकदेहस्थं तदनुसारीणि देहान्तरस्थापि मनांसि भवन्ति तदवस्थानां तन्नियम्यत्वसंभवादिति ।
अत्र योगशास्त्रसंमतिमाह- एषैवेति ।
निर्माणचित्तान्यस्मितामात्रात्प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति हि भगवत्पतञ्जलिना सूत्रितम् ।
योगिनो ऽभिमानमात्रान्निर्माणचित्तानि निर्माणदेहेषु भवन्ति, तेषां नियामकमनादिचित्तमित्यर्थः ॥15॥
एन्द् ब्स्र्प्_4,4.5.15
स्तर्त् ब्स्र्प्_4,4.6.16ः
स्वाप्ययसंपत्योर् अन्यतरापेक्षम् आविष्कृतं हि

4.4.17

उत्तरसूत्रव्यावर्त्यशङ्कामाह- कथं पुनरिति ।
सलिलवत्सलिलः, स्वच्छ इत्यर्थः ।
न तु तद्द्वितीयमस्तीति क्वचित्सुषुप्तिमधिकृत्योक्तं ऽतत्केन कम्ऽइत्यादि क्वचिन्मुक्तिं प्रकृत्योक्तम् ।
एवं विशेषज्ञानाभाववचनं सुषुप्तिमुक्त्यन्यतरापेक्षं सगुणोपासकस्य भोगोक्तौ न विरुध्यते भिन्नविषयत्वादित्याह- स्वाप्ययेति ।
तत्रैव श्रुतौ तदधिकारवशात्सुषुप्त्यादिप्रकरणबलात्, उक्तवचनानामन्यतरापेक्षत्वमाविष्कृतं हि यतस्ततो ऽवगम्यत इत्यर्थः ।
अत्र समुत्थानादिवाक्यं मुक्तिविषयं यत्र सुप्ता इति सुप्तिविषयमिति विभागः ॥16॥
एन्द् ब्स्र्प्_4,4.6.16
स्तर्त् ब्स्र्प्_4,4.7.17ः
जगद्व्यापारवर्जं प्रकरणाद् असंनिहितत्वाच् च

4.4.18

जगद्व्यापारवर्जम् ।
संकल्पादेवेत्यादिनोक्तैश्वर्यस्य जगत्सृष्ट्यादिव्यतिरिक्तविषयत्वेनात्रापवादात्संगतिः ।
उभयथा दर्शनात्संशयः ।
ईश्वरनानात्वं पूर्वपक्षफलं, सिद्धान्ते तु विद्यायोगिनामीश्वरनियम्यत्वादेकस्य नित्यसिद्धस्येश्वरस्यैव जगत्कर्तृत्वसिद्धिरिति विवेकः ।
प्रलयात्सर्गसमये यस्येक्षणपूर्वं कर्तृत्वं श्रुतौ प्रकृतं तस्यैव नियन्तृत्वादिर्जगद्व्यापारः ।
नद्ध्युपासकानां देहं विनेक्षणं संभवति ।
किञ्चेश्वरस्य नित्यसिद्धत्वाच्छब्दैकसमधिगम्यत्वाच्च जगत्स्रष्टृत्वं युक्तं, न तु तत्प्रसादलब्धसिद्धीनां जीवानामित्याह- नित्यशब्दनिबन्धनत्वाच्चेति ।
किञ्च विदुषां समप्राधान्ये मिथो विरोधः ।
एकं प्रत्यन्येषां गुणत्वे त्वेक एवेश्वर इत्याह- समनस्कत्वादिति ॥17॥
एन्द् ब्स्र्प्_4,4.7.17
स्तर्त् ब्स्र्प्_4,4.7.18ः
प्रत्यक्षोपदेशाद् इति चेन् नाधिकारिकमण्डलस्थोक्तेः

4.4.19

अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकः, स चासौ मण्डलस्थश्च तस्य प्राप्यत्वोक्तेरित्यर्थः ।
मनसस्पतिः सूर्यमण्डलान्तःस्थः परमात्मा ऽतत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात्ऽइति श्रुतेः ।
तथाच यदि पूर्वं निरङ्कुशं स्वाराज्यमुक्तं स्यात्तर्हि ईश्वरस्याग्रे प्राप्यतां न ब्रूयात् ।
अतो भोगे स्वाराज्यं न जगज्जन्मादिष्विति भावः ।
वाक्पतित्वादिकमपीश्वराधीश्वराधीनमित्याह- तदनुसारेणेति ।
उक्तन्यायं कामचारादिवाक्येष्वतिदिशति- एवमिति ॥18॥
एन्द् ब्स्र्प्_4,4.7.18
स्तर्त् ब्स्र्प्_4,4.7.19ः
विकारावर्ति च तथा हि स्थितिम् आह

4.4.20

जगद्व्यापार उपासकप्राप्यः तदुपास्यनिष्ठत्वात्संकल्पसिद्ध्यादिवदित्याशङ्क्योपास्यस्थनिर्गुणस्वरूपे व्यभिचारमाह- विकारावर्ति चेति ॥19॥
एन्द् ब्स्र्प्_4,4.7.19
स्तर्त् ब्स्र्प्_4,4.7.20ः
दर्शयतश् चैवं प्रत्यक्षानुमाने

4.4.21

निर्गुणस्वरूपे प्रमाणमाह- दर्शयतश्चेति ।
यथा ज्ञानाभावान्निर्गुणं न प्राप्तं तथा ध्यानाभावाज्जगत्स्रष्टृत्वादि न प्राप्यते ।
ध्यानाभावश्च विध्यभावादिति भावः ॥20॥
एन्द् ब्स्र्प्_4,4.7.20
स्तर्त् ब्स्र्प्_4,4.7.21ः
भोगमात्रसाम्यलिङ्गाच् च

4.4.22

तमुपासकं ब्रह्मलोकगतमाह-हिरण्यगर्भः मया खल्विमा आपो अमृतरूपा मीयन्ते भुज्यन्ते तवाप्यसौ लोको ऽमृतोदकलक्षण इत्यर्थः ।
श्रुत्यन्तरमाह- स यथेति ।
भोगसाम्ये स दृष्टान्तो यथेत्यर्थः ।
तेनो इत्युशब्दो ऽप्यर्थः ।
सलोकतामपीत्यन्वयः ।
सायुज्यं समानदेहत्वं क्रमेण मुक्तिर्वा ॥21॥
एन्द् ब्स्र्प्_4,4.7.21
स्तर्त् ब्स्र्प्_4,4.7.22ः
अनावृत्तिः शब्दाद् अनावृत्तिः शब्दात्

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc