भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 4.1

4.1.1

असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् ।
सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फले ऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह- एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ।
मुक्तिरत्र विषयः ।
तस्यां विद्यावद्विशेषनियमो ऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह- यथेति ।
मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् ।
सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् ।
किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह- अपिच विद्यासाधनमिति ।
ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह- तद्धीति ।
विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः ।
अन्ये तु सा ब्रह्मानन्येत्याहुः ।
नच साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् ।
यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते ।
यथाच विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावो ऽनर्थरूपा अविद्यैवास्ति ।
अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् ।
तथाच विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते ।
विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् ।
संप्रति विद्यायामतिशयाङ्गीकार त्यजति- नचेति ।
एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः ।
कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह- तस्मादिति ।
सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः ।
तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह- नत्विति ।
वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बे ऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः ।
किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् ।
निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह- विद्याभेदेत्यादिना ।
स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः ।
तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम् ॥52॥
एन्द् ब्स्र्प्_3,4.17.52
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकव्याख्याया भाष्यरत्नप्रभाटीकायां तृतीयस्याध्यायस्य चतुर्थः पादः ॥4॥
॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचाराख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये साधनाख्यस्तृतीयोध्यायः ॥
अथ चतुर्थो ऽध्यायः ।
यज्ज्ञानाज्जीवतो मुक्तिरुक्रान्तिगतिवर्जिता ।
लभ्यते तत्परं ब्रह्म रामनामास्मि निर्भयम् ॥1॥
स्तर्त् ब्स्र्प्_4,1.1.1ः
आवृत्तिर् असकृदुपदेशात्

4.1.2

ओं ।
आवृत्तिरसकृदुपदेशात् ।
साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हतुफलभावं संगतिमाह- तृतीय इति ।
फलप्रासङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह- प्रसङ्गेति ।
पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितं, संप्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक् चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः ।
आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह- आत्मा वा इति ।
श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसंगतय उक्ताः ।
तत्तत्पदार्थसंबन्धात्तत्तत्पादसङ्गतिः ।
मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसंगत्या पूर्वपक्षमाह- किं तावदिति ।
अत्र पूर्व पक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलं, सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः ।
असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते- नन्वसकृदिति ।
श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह- एवमपीति ।
सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह- सकृदिति ।
यद्यप्यसकृदुपदेश आवृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे संभवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह- न दर्शनपर्यवसानत्वादिति ।
ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह- अपिचेति ।
अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह- विद्युपास्त्योश्चेति ।
शब्दयोरेकार्थत्वमुदाहरति- क्वचिदिति ।
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्यो ऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनं, तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मे ऽनुशाधि मह्यमुपदिशेत्यर्थः ।
एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः ॥1॥
एन्द् ब्स्र्प्_4,1.1.1
स्तर्त् ब्स्र्प्_4,1.1.2ः
लिङ्गाच् च

4.1.3

आदित्यस्यैकस्यैवोद्गीथे संपाद्योपासनान्मम त्वमेक एव पुत्रो ऽसीति कौषीतकिः पुत्रमुवाच, अतस्त्वं तथा माकृथाः किन्तु बहून् रश्मीनादित्यं च पर्यावर्तयतात् पृथगावर्तयस्वेत्यर्थः ।
तलोपश्छान्दसः ।
अत्र पर्यावृत्तिशब्दात्सिद्धवदुद्गीथध्यानस्यावृत्तिरुक्ता ततो ध्यानत्वसामान्यात्फलपर्यन्तत्वसामान्याद्वा लिङ्गात्सर्वत्र श्रवणमननध्यानेष्वावृत्तिसिद्धिरित्याह- लिङ्गाच्चेति ।
एवं तावत्सगुणनिर्गुणसाक्षात्कारसाधनेष्वावृत्तिरुक्ता तत्र सगुणध्यानादेरावृत्तिमङ्गीकृत्य निर्गुणश्रवणादिष्वावृत्तिमाक्षिपति- अत्राहेत्यादिना ।
वाक्यं निर्गुणसाक्षात्कारजनने शक्तं न वा, आद्ये सकृच्छ्रुतवाक्यात्साक्षात्कारसिद्धेरावृत्तिर्वृथेत्युक्त्वा द्वितीयं शङ्कते- सकृदिति ।
अशक्तस्यावृत्तावपि फलानुपपत्तिरित्याह- नेति ।
तथापीति स्वतो ऽशक्तस्य युक्तिसाहित्याच्छक्तावपीत्यर्थः ।
वाक्ययुक्तिभ्यां परोक्षज्ञाने जाते ऽप्यपरोक्षज्ञानार्थमावृत्तिरिति शङ्कते- अथापि स्यादिति ।
तयोः परोक्षज्ञानहेतुत्वस्वाभाव्यादावृत्तावपि न साक्षात्कारः स्यादिति परिहरति- नासकृदपीति ।
यदि तयोः साक्षात्कारसामर्थ्यं यदि वा परोक्षज्ञानसामर्थ्यमुभयथाप्यावृत्त्यनपेक्षेत्याह- तस्मादिति ।
प्रमातृवैचित्र्यादप्यावृत्त्यनियम इत्याह- नचेति ।
प्रमेयस्यानंशत्वाच्च तथेत्याह- अपिचेति ।
द्विविधो ह्यधिकारी स्यात्कश्चिज्जन्मान्तराभ्यासान्निरस्तसमस्तासंभावनादिप्रतिबन्धः कश्चित्तु प्रतिबन्धवानिति ।
तत्राद्यं प्रत्यावृत्तेरानर्थक्यमिष्टं, द्वितीयस्य तु प्रतिबन्धनिरासाय तदपेक्षेति समाधत्ते- अत्रोच्यत इति ।
आवृत्तेः प्रतिबन्धानिरासार्थत्वे लिङ्गमाह- तथाहीति ।
यथा षड्जादिस्वरभेदसाक्षात्कारशक्तमपि श्रोत्रमभ्यासमपेक्षते तथा ब्रह्मात्मसाक्षात्कारशक्तं वाक्यं तदपेक्षमित्यनुभवमाश्रित्याह- नहि दृष्टे ऽनुपपन्नं नामेति ।
तत्त्वंपदलक्ष्यार्थस्य दुर्बोधत्वादज्ञानप्रयुक्तसंशयादिप्रतिबन्धसंभवात्तद्ध्वंसायावृत्त् इरेष्टव्येति वाच्यलक्ष्यविवेकपूर्वकमाह- अपिचेत्यादिना ।
यदुक्तमनंशत्वात्प्रमेयस्यावृत्त्यानर्थक्यमिति, तत्राह- यद्यपीति ।
आरोपितांशनिरासाय न मे देहो नेन्द्रियमित्यभ्यासो युक्त इत्यर्थः ।
वाक्यार्थज्ञाने सति कथमभ्यासनियमः, प्रमाणज्ञानस्याभ्यासायोगाज्ज्ञानिनः श्रवणादिनियमायोगाच्चेत्यत आह- तत्त्विति ।
ज्ञानात्प्रागेव श्रवणादिव्यापारनियमनं क्रियत इत्यर्थः ।
अधिकं शङ्कितुमुक्तमनुवदति- येषामिति ।
अधिकं शङ्कते- सत्यमिति ।
दुःखित्वप्रत्यक्षविरोधाद्वाक्यादैक्यधीर्नोदेतीत्यर्थः ।
प्रत्यक्षस्य भ्रान्तित्वादविरोध इत्याह- नेत्यादिना ।
दुःखादयो नात्मधर्माः दृश्यत्वाद्देहादिवत्, नाप्यात्मस्वरूपाः आत्मनि सत्यप्यननुवृत्तित्वाद्व्यतिरेकेण चैतन्यवदित्यर्थः ।
निर्दुःखे चिदात्मनि दुःखादिधियो भ्रान्तित्वाद्वाक्यार्थानुभवो न विरुध्यत इत्याह- तस्मादिति ।
अनुभवे जाते ऽप्यावृत्त्याद्यनुष्ठानं किं न स्यादित्यत आह- न चैवमिति ।
रतिः कामः आत्मकामतया तृप्तिर्विषयतृष्णाक्षयः तेन संतोषे आत्मानन्दानुभव इति भेदः ।
नन्वावृत्तौ नियोगात्प्रवृत्तिर्वाच्या तथा च नियुक्तत्वबुद्धेरकर्त्रात्मधीर्न स्यादित्यत आह- तत्रापीति ।
आवृत्त्यभ्युपगमे ऽप्यकर्ताहमित्यनुभवात्प्रच्याव्य गुरुरन्यो वा नियोगान्न प्रवर्तयेदुक्तदोषादित्यर्थः ।
कथं तर्हि प्रवृत्तिरित्यत आह- यस्त्विति ।
अप्रतिभानादसंभावनादिनेत्यर्थः ।
शिष्यबुद्ध्यनुसारेण त्रोतव्यादिवचोभिः प्रधानसिद्ध्यर्थमावृत्त्यादौ प्रवर्तयेदित्यर्थः ॥2॥
एन्द् ब्स्र्प्_4,1.1.2
स्तर्त् ब्स्र्प्_4,1.2.3ः
आत्मेति तूपगच्छन्ति ग्राहयन्ति च

4.1.4

आत्मेति तूपगच्छन्ति ग्राह्यन्ति च ।
पूर्वत्र ध्यानादेरावृत्तिरुक्ता तामुपजीव्य तत्त्वज्ञानार्थं ध्यानावृत्तिकाले किमहं ब्रह्मेति ध्यातव्यमुत मत्स्वामीश्वर इत्यैक्यभेदमानाभ्यां संशयमाह- य इति ।
शब्दादेव प्रमित इत्यादावयमात्मा ब्रह्मेत्याद्यभेदश्रुतिभिरैक्यनिर्णयात्संशयमाक्षिपति- कथमिति ।
भेदश्रुत्यनुग्रहाद्भेदप्रत्यक्षादिप्राबल्यमालम्ब्य संशय इत्याह- उच्यत इति ।
अभेदश्रुतीनां गौणत्वमुख्यत्वे उभयत्र फलं, यद्यप्ययं प्रत्यक्षादिविरोधपरिहारो द्वितीयाध्यायसंगतस्तथाप्यैक्यश्रुतेरविरुद्धत्वनिश्चयस्य समाधावन्तरङ्गत्वादिह संगतिः ।
विरुद्धयोरैक्यदृष्टिरसिद्धेत्याह- नाहमिति ।
किञ्च किमीश्वरस्य जीवमात्रत्वमैक्यं जीवस्येश्वरमात्रत्वं वेति विकल्प्य क्रमेण दूषयति- ईश्वरस्य चेत्यादिना ।
एकत्वश्रुतिप्रामाण्यायैक्यध्यानं कार्यमिति शङ्कते- अन्यत्वे ऽपीति ।
एकत्वध्यानमस्मदिष्टमेव ।
एकत्वं तु नास्तीत्याह- काममिति ।
अभेदश्रुतीनां फलवदपूर्वार्थतात्पर्येण गौणत्वायोगाद्भेदश्रुतीनां कल्पितभेदानुवादित्वात्प्रत्यक्षादेरपि तद्विषयत्वाद्विम्बप्रतिबिम्बयोरिव विरुद्धधर्माणां मिथ्यात्वान्मुख्यमैक्यमिति सिद्धान्ययति- एवमित्यादिना ।
ईश्वरस्य जीवत्वं न प्रतिपाद्यं येनेश्वराभावः स्यात्किन्तु जीवस्येश्वरत्वम् ।
न चैवमधिकार्यभावः ।
एकत्वप्रबोधात्प्रागधिकारिभेदाङ्गीकारादित्याह- यत्पुनरुक्तमित्यादिना ।
वेद्ःअसत्यत्वश्रद्धालुः शङ्कते- प्रत्यक्षाद्यभाव इति ।
वर्णेषु क्रमस्वरयोरभावादुपलब्धध्वनिस्थयोरारोपो वाच्यस्तथा चारोपितक्रमस्वरविशिष्टवर्णात्मकवेदस्य मिथ्यात्वं दुर्वारं, वादिनां सत्यत्वाग्रहस्त्वविद्याविजृम्भित इति वेदसत्यत्वाभावो न दोष इत्याह- नेति ।
अविद्यामाक्षिपति- कस्येति ।
प्रश्नलिङ्गेन त्वय्येव तस्याः सिद्धेस्त्वदाक्षेपानुपपत्तिरित्याह- यस्त्वमिति ।
अज्ञानमूलत्वात्प्रश्नादेरिति भावः ।
सर्वज्ञाभिन्ने मयि कथमज्ञानमिति शङ्कते- नन्विति ।
अभेदज्ञानात्प्राक् चिन्मात्रस्य तवैवाज्ञानाश्रयत्वमनुभवसिद्धाज्ञानस्यापलापायोगात् ।
ज्ञाने त्वनिर्वाच्यस्य तस्य बाधान्नाश्रयापेक्षेत्याह- यद्येवमिति ।
अनिर्षाच्यत्वेन दोषान्तरमपि निरस्तमित्याह- यो ऽपीति ॥3॥
एन्द् ब्स्र्प्_4,1.2.3
स्तर्त् ब्स्र्प्_4,1.3.4ः
न प्रतीके न हि सः

4.1.5

न प्रतीके नहि सः ।
उभयथा ध्यानसंभवात्संशयः ।
यथा ब्रह्मण्यभेदसत्तवादहङ्ग्रह उक्त एवं प्रतीकेष्वपि ब्रह्मविकारतया जीवाभिन्नब्रह्माभिन्नत्वाज्जीवाभेदसत्त्वेनाहङ्ग्रहः कार्य इति दृष्टान्तेन पूर्वपक्षः ।
अत्र प्रतीकोपास्तीनामहङ्ग्रहोपास्तिभिरविशेषः ।
सिद्धान्ते तु विशेषसिद्धिरिति फलम् ।
एतदारभ्याधिकरणत्रयस्य प्रासङ्गिकी पादसङ्गतिः, ब्रह्मैक्यध्यानप्रसङ्गागतत्वादिति विवेकः ।
किं प्रतीकेष्वात्मत्वानुभवबलादहङ्ग्रह उत वस्तुतो जीवाभेदसत्त्वात् ।
नाद्य इत्याह- नहि स इति ।
नानुभवतीत्यर्थः ।
द्वितीयमप्यसिद्ध्या दूषयति- यत्पुनरिति ।
विकारस्य ब्रह्मणा स्वरूपैक्यायोगाद्बाधेनैक्यं वाच्यं प्रतीकबाधे चोपास्तिविधिर्न स्यादित्यर्थः ।
किञ्च कर्तृत्वाद्यबाधेनोपास्तिविधिप्रवृत्तिर्वाच्या बाधे तदयोगात् ।
तथाच बाधमूलब्रह्मैक्यज्ञानं द्वारीकृत्य प्रतीकेष्वहङ्ग्रहोपास्तिकल्पना न युक्ता, बाधविरोधादित्याह- नच ब्रह्मण इति ।
अतो जीवप्रतीकयोः स्वरूपभेदादहङ्ग्रहे विध्यश्रवणाच्च नाहङ्ग्रह इति फलितमाह- अतश्चेति ।
यथा रुचकस्वस्तिकयोः सुवर्णात्मनैक्ये ऽपि मिथो नैक्यं तथा जीवप्रतीकयोः ब्रह्मात्मनैक्ये ऽपि भेदः समः ।
यदिच धर्मिव्यतिरेकेण तयोरभावनिश्चयाद्वस्त्वैक्यं तदोपासनोच्छेद उक्त इत्यर्थः ॥4॥
एन्द् ब्स्र्प्_4,1.3.4
स्तर्त् ब्स्र्प्_4,1.4.5ः
ब्रह्मदृष्टिर् उत्कर्षात्

4.1.6

ब्रह्मदृष्टिरुत्कर्षात् ।
एकविषयत्वं संगतिः ।
प्रश्नपूर्वकं संशयबीजमाह- कुत इत्यादिना ।
सामानाधिकरण्यं श्रुतं तन्न तावन्मुख्यं, ब्रह्मविकारयोर्गवाश्वयोरिवाभेदायोगात् ।
नापि प्रकृतिविकारभावनिबन्धनं, वाक्यस्य विकारबाधेन ब्रह्मपरत्वापातात् ।
न चेष्टापत्तिः ।
नाम ब्रह्मेत्युपासीतेति विधिश्रुतिविरोधात्, परिमितनामग्रहणानर्थक्यापाताच्च ।
ब्रह्मपरत्वे सर्वं ब्रह्मेति वक्तव्यत्वात् ।
अतः परिशेषादध्यास एव सामानाधिकरण्यकारणम् अध्यासे च नियामकाभावात्संशय इत्यर्थः ।
उत्कृष्टनिकृष्टयोर्निकृष्टमप्युपास्यं फलवत्त्वादिति न्यायो नियामक इत्यरुचेराह- अथवेति ।
अत्र विकारदृष्टिभिर्ब्रह्मोपास्तिसिद्धिः फलं, सिद्धान्ते तु विकारदृष्ट्या ब्रह्मण उपास्यत्वे निकर्षप्राप्तौ सत्यां फलवत्त्वासिद्धेर्विकारा एवोत्कृष्टब्रह्मदृष्ट्योपास्या इति फलम् ।
किञ्च लौकिकन्यायाविरुद्धार्थसंभवे विरुद्धार्थो न ग्राह्यः प्रत्यवायप्रसङ्गात् ।
किञ्च प्रथमश्रुतानामादित्यादिपदानामसंजातविरोधितया मुख्यार्थत्वग्रहो न्याय्यः, ब्रह्मशब्दे च दृष्टिलक्षणाग्रहः, तथा चादित्यादयो ब्रह्मदृष्ट्योपास्या इत्येव वाक्यार्थ इत्याह- प्राथम्याच्चेति ।
ब्रह्मशब्दस्यैव दृष्ट्यर्थत्वे हेत्वन्तरमाह- इतिपरत्वादिति ।
इतिशब्दशिरस्कः शब्दः समभिव्याहृतक्रियालक्षक इति लोके प्रसिद्धमित्यर्थः ।
द्वितीयाश्रुतेश्चादित्यादीनामेवोपास्तिकर्मत्वमित्याह- वाक्यशेषो ऽपीति ।
उत्कृष्टमेवोपास्यमिति न्यायमुक्तमनुवदति- यत्तूक्तमिति ।
द्वितीयेतिश्रुतिभ्यां लौकिकन्यायाच्चोक्तन्यायबाध इत्याह- तदिति ।
ब्रह्मणो ऽनुपास्यत्वे कथं फलदातृत्वं, तत्राह- फलं त्विति ।
किञ्च यद्दृष्ट्या विकारस्योत्कर्षः तस्य ब्रह्मणो विशेषणत्वे ऽप्युपास्यत्वं चातीत्याह- ईदृशं चेति ॥5॥
एन्द् ब्स्र्प्_4,1.4.5
स्तर्त् ब्स्र्प्_4,1.5.6ः
आदित्यादिमतयश् चाङ्ग उपपत्तेः

4.1.7

आदित्यादि ।
पृथिव्यग्न्यन्तरीक्षादित्यद्युसंज्ञेषु लोकेषु हिङ्कारप्रस्तावोद्गीथप्रतीहारनिधनैरंशैः पञ्चांशं, साम, तैरेवादिरिति उपद्रव इति च भक्तिद्वयाधिकैः सप्तांश सामेति भेदः ।
अत विशेषाज्ञानात्संशयः ।
पूर्ववदुत्कर्षनवधारणादनियम इति प्रत्युदाहरणेन पूर्वपक्षमाह- तत्रेति ।
सिद्धरूपादित्यादिभ्यः कर्मरूपोद्गीथादीनां फलसंनिकर्षेणोत्कर्षाद्ब्रह्मवद्विशेषणत्वे नियम इति दृष्टान्तेन मुख्यं पूर्वपक्षमाह- अथवेति ।
तत्तत्पक्षसिद्धिरेव पूर्वोत्तरपक्षफलं मन्तव्यम् ।
किञ्चानङ्गेष्वेवाङ्गदृष्टिरित्यत्र तेष्वङ्गवाचिपदप्रयोगं लिङ्गमाह- तथाचेयमेवेति ।
तदेतदग्न्याख्यं साम एतस्यां पृथिवीरूपायामृच्यध्यूढमुपरिस्थितमित्यर्थः ।
ऋचि सामवत्पृथिव्यामग्निर्दृश्यते, अतः साम्यात्पृथिव्येवर्गग्निः सामेति ध्यानं विहितं, तत्र यदि ऋक्सामात्मकयोः कर्माङ्गयोः पृथिव्यग्निदृष्ठिः स्यात्, तदा पृथिव्यग्न्योरृक्सामपदप्रयोगो न स्यादित्यत्र दृष्टान्तमाह- क्षत्तरीति ।
अतः प्रयोगान्यथानुपपत्त्य पृथिव्यग्न्योरृसामदृष्टिरित्यर्थः ।
विषयसप्तम्या चैवमेवेत्याह- अपिचेति ।
गायत्रसंज्ञं साम ।
किञ्च पूर्वाधिकरणसिद्धान्तन्यायेनाप्येवमित्याह- प्रथमेति ।
अनङ्गबुद्ध्याङ्गान्युपास्यानीति सिद्धान्तयति- एवमिति ।
उपास्तीनां हि कर्मसमृद्धिः फलं श्रूयते, सा च ताभिरङ्गेषु संस्क्रियमाणेषूपपद्यते, अङ्गानां समृद्ध्यनुकूलप्रकृतकर्मापूर्वजनकत्वादित्यर्थः ।
ननु यत्रोपास्तीनां प्रकृतकर्मापूर्वसंनिकृष्टाङ्गद्वारापेक्षं फलं श्रुतं तत्र फलोपपत्तये ऽङ्गानामुपास्यत्वं भवतु तदनपेक्षलोकादिफलेषु तूपासनेषु कथमुपास्यविवेक इति शङ्कते- भवत्विति ।
यथा स्वतन्त्रपशुफलस्यापि गोदोहनस्य अङ्गद्वारापेक्षयैव फलमिष्टं तद्वल्लोकादिफलेषूपासनेष्वपि कर्मापूर्वाङ्गद्वारैव फलकल्पना युक्ता, कर्माधिकृतस्यैवाङ्गाश्रितोपासनेष्वधिकारात्, अतो ऽङ्गानामेवोपास्यत्वमिति समाधत्ते- तेष्वपीति ।
उत्कर्षानवधारणादनियम इत्युक्तं निरस्यति- फलात्मेति ।
उपक्रमबलाच्चाङ्गमुपास्यमित्याह- अपिचेति ।
रसतमत्वाद्ःइगुणाद्युपसंख्यानमित्यर्थः ।
द्वितीयं पूर्वपक्षं दूषयति- यत्तूक्तमित्यादिना ।
कर्मभूयं कर्मात्मकत्वं प्राप्येत्यर्थः ।
सिद्धादित्याद्यात्मना कर्मणां दृष्टौ कर्मत्वहानिः स्यादित्यत आह- आदित्यादिभावेनेति ।
माणवके ऽग्निदृष्टिवदुद्गीथादिष्वादित्यादिधियां गौणत्वान्न कर्मत्वाभिभावकत्वमित्यङ्गेष्वनङ्गत्वधीरविरुद्धेत्याशयः ।
प्रयोगानुपपत्तिमुक्तां निरस्यति- तदेतदिति ।
लक्षणाबीजं संबन्धमाह- लक्षणा चेति ।
गङ्गायां घोष इत्यत्र संनिकृष्टसंयोगसंबन्धेन तीरलक्षणा, अग्निर्माणवक इत्यत्राग्निनिष्ठशुचित्वादिगुणवत्त्वरूपपरम्परासंबन्धेन लक्षणा दृष्टा, तथा चात्र ऋक्सामयोः पृथिव्याग्निदृष्टिपक्षे ऽपि ऋक्सामपदाभ्यां स्ववाच्यार्थे द्रष्टव्यताख्यपरम्परासंबन्धेन पृथिव्यग्निलक्षणा युक्तेत्यर्थः ।
ननु प्रतीकवाचिपदस्य ध्येये अर्थे लक्षणा न युक्ता, क्षतृपदस्य राजन्यप्रयोगादिति शङ्कते- तत्र यद्यपीति ।
तथापि ऋक्सामसंबन्धात्पृथिव्यग्न्योरेवैतस्यामृच्यध्यूढं सामेति मुख्ययोः पृथगुक्तेस्तदेतस्यामित्यत्रापि तयोर्ग्रहे पुनरुक्तिः स्यात्, अतः प्रतीकाभेददृष्ट्या पृथिव्यग्न्योः प्रतीकसंनिधानात्तयोरेव प्रतीकपदप्रयोगः कृतस्तभेददार्ढ्यायेत्यर्थः ।
तर्हि क्षत्तृशब्दो ऽपि राजनि स्यादित्यत आह- क्षत्रिति ।
स्थितप्रयोगस्य निमित्तं किमपि वाच्यं न तु निमित्तमस्तीति प्रयोग आपाद्य इति भावः ।
क्षत्ता सूतः, तस्य कार्यं रथचर्यादि यदा राजेव करोति तदा क्षत्तृशब्दो राजन्यप्यस्तीत्यक्षरार्थः ।
ऋगादावेव पृथिव्यादिदृष्टिरित्यत्र हेत्वन्तरमाह- इयमिति ।
सप्तम्या लोकानामुपास्यत्वमुक्तं निरस्यति- तथा लोकेष्विति ।
सामात्मना लोकानुपासीतेति द्वितीयासप्तम्योर्भङ्गस्त्वया कार्यस्ततो वरं लोकात्मना सामोपासीतेति सप्तमीमात्रभङ्ग इत्यर्थः ।
एतेनेति एकविभक्तिभङ्गलाघवेन प्राणात्मना गायत्रं सामोपास्यमिति व्याख्यातमित्यर्थः ।
ननु विभक्तिसाम्ये कथं निर्णयस्तत्राह- यत्रापीति ।
ऽसाम्न उपासनं साधुऽइत्युपक्रम्य पृथिवी हिङ्गार इत्यादिना हिङ्गारादिपञ्चावयवस्य साम्न उपासनमुक्त्वा ऽइति तु पञ्चविधस्योपासनम्ऽइत्युपसंहृत्य, अथेति सप्तविधस्य साम्न उपासनं प्रक्रम्य प्रपञ्चितमतः साम्न एवोपास्यत्वमित्यर्थः ।
यदुक्तं प्राथम्यात्पृथिव्यादेरूपास्यत्वमिति, तत्राह- एतस्मादेवेति ।
यद्यपि हिङ्कारोद्देशेन पृथिवीत्वविधेरुद्देश्यस्य प्रथमनिर्देशो वाच्यस्तथाप्युक्तन्यायबलाद्व्यत्ययो ग्राह्य इत्यर्थः ॥6॥
एन्द् ब्स्र्प्_4,1.5.6
स्तर्त् ब्स्र्प्_4,1.6.7ः
आसीनः संभवात्

4.1.8

आसीनः संभवात् ।
कर्मण उत्थितेनोपविष्टेन वानेकधानुष्ठानदर्शनात्संशयः कर्माङ्गाश्रितोपासनानामासननियमानपेक्षाणामनुष्ठानप्रकार उक्तस्तद्वदङ्गानाश्रितोपासनेष्वप्यनियम इति पूर्वपक्षयति- तत्रेति ।
अत्रासनाभ्यासासिद्धिः, सिद्धान्ते तु मनोदेहयोर्भिन्नत्वे ऽपि देहचाञ्चल्ये मनसो ऽनवस्थानस्य अनुभवसिद्धत्वान्मनोव्यापारेषूपासनेषु देहस्थैर्यार्थमासननियमापेक्षेति फलभेदः ।
तिष्ठत उत्थितस्य ॥7॥
एन्द् ब्स्र्प्_4,1.6.7
स्तर्त् ब्स्र्प्_4,1.6.8ः
ध्यानाच् च

4.1.9

किञ्च ध्यातार आसीन एव स्युः ध्यायतिशब्दार्हत्वाद्बकादिवदित्याह- ध्यानाच्चेति ॥8॥
एन्द् ब्स्र्प्_4,1.6.8
स्तर्त् ब्स्र्प्_4,1.6.9ः
अचलत्वं चापेक्ष्य

4.1.10

अत्रैव श्रौतं दृष्टान्तमाह- अचलत्वं चेति ॥9॥
एन्द् ब्स्र्प्_4,1.6.9
स्तर्त् ब्स्र्प्_4,1.6.10ः
स्मरन्ति च

4.1.11

ब्रह्मस्य शारीरस्य चासनस्य स्मरणान्नियम इत्याह- स्मरन्ति चेति ॥10॥
एन्द् ब्स्र्प्_4,1.6.10
स्तर्त् ब्स्र्प्_4,1.7.11ः
यत्रैकाग्रता तत्राविशेषात्

4.1.12

यत्रैकाग्रता तत्राविशेषात् ।
तेष्वेवाङ्गानाश्रितोपासनेषु प्राच्यादिदिशि तीर्थादिदेशे प्रदोषादिकाले नियमो ऽस्ति न वेत्युभयथासंभवात्संशयः ।
एकविषयत्वं संगतिरूपास्तीनां विहितत्वाद्यागादिवदस्ति दिगादिनियम इति पूर्वपक्षः ।
अत्र दिगादिष्वादरः फलं सिद्धान्ते त्वनादरः ।
ध्येये चित्तैकाग्र्यस्य प्राधान्यात्प्रधानाक्षिप्तदेशादिग्रहणस्योचितत्वादिविवेकः ।
अर्थलक्षण एवेति ।
ऐकाग्र्यफललिङ्गक एवेत्यर्थः ।
प्राचीनप्रवणे प्राग्देशे निम्नस्थाने वैश्वदेवं कुर्यादितिवदत्र दिगादिविशेषो न श्रूयते अतो ऽनुमानमप्रयोजकमिति भावः ।
विशेषाश्रवणमसिद्धमिति शङ्कते- ननु विशेषमपीति ।
शर्कराः सूक्ष्मपाषाणाः ।
जलाश्रयवर्जनं शीतनिवृत्त्यर्थम् ।
चक्षुःपीडनो मशकः ।
वाचनिकं समदेशादिनियममङ्गीकृत्य चित्तैकाग्र्यविरुद्धेषु देशादिगतेषु प्राचीनप्रवणत्वादिष्वनादर इति सुहृद्भावेन सूत्रकृदुपदिशति ।
देशाद्याग्रहे चित्तविक्षेपात्समाधिभङ्गः स्यात्स माभूदिति ॥11॥
एन्द् ब्स्र्प्_4,1.7.11
स्तर्त् ब्स्र्प्_4,1.8.12ः
आ प्रयाणात् तत्रापि हि दृष्टम्

4.1.13

आप्रायणात् ।
व्यवहितेनास्य संबन्धमाह- आवृत्तिरिति ।
अनियोज्ये ब्रह्मण्यात्मत्वप्रतिपत्तिर्यस्य तस्य विदुष इत्यर्थः ।
अहङ्ग्रहोपासनेष्वनुष्ठानस्योभयथादृष्टेः संशयमाह- यानि पुनरिति ।
यथा दिगादिनियमस्याविधेरनादरस्तद्वदामरणमुपास्यावृत्तेरविधानादिनियम्ःअ इति पूर्वपक्षः ।
मरणपर्यन्तमावृत्तिरिति सिद्धान्तयति- एवमिति ।
उपास्तीनां कर्मणां चान्त्यकाले प्राप्तव्यफलस्फूर्तिद्वारा फलहेतुत्वे मानमाह- सविज्ञान इति ।
भावनामयं विज्ञानं फलस्फुरणं तेन सहितः सविज्ञानो विज्ञानस्फुरितफलं विज्ञानमित्यर्थः ।
यस्मिंल्लोके चित्तं संकल्पो ऽस्येति यच्चित्तस्तेन संकल्पितेन लोकेन सह फलस्फूर्त्यनन्तरं मनः प्राणे लीयते इति यावत् ।
तेज उदानः ।
आत्मा जीवः ।
जलौकादृष्टान्तश्रुतेश्च भाविफलस्फूर्तिरस्तीत्यर्थः ।
अस्त्विदमन्त्यफलं विज्ञानं कर्मणमिवादृष्टद्वारोपास्तीनां ततः कुत आमरणमावृत्तिरित्यत आह- प्रत्ययास्त्विति ।
उपास्तिप्रत्ययानां धारावाहिकतया स्वरूपानिवृत्तिरेवान्त्यं विज्ञानं, नत्वदृष्टद्वारकमन्यदपेक्षितं सर्वभावानामेव स्वसामानजातीयद्वारानपेक्षतया प्रत्ययानां प्रत्ययान्तरपेक्षायोगात्, कर्मणां तु दृष्टद्वारान्त्यधीफलत्वानुपपत्तेः अदृष्टद्वारकल्पनेति भावः ।
क्रतुर्ध्यानम् ।
उपासक एतन्त्रयम् ऽअक्षितमसिऽ, ऽअच्युतमसिऽ, ऽप्राणसंशितमसिऽइति मन्त्रत्रयं मरणकाले ऽपि स्मरेदित्यर्थः ॥12॥
एन्द् ब्स्र्प्_4,1.8.12
स्तर्त् ब्स्र्प्_4,1.9.13ः
तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात्

4.1.14

यथोपासकानां यावज्जीवं कर्तव्यमस्ति न तथात्मविदामिति कर्मक्षयलक्षणां जीवन्मुक्तिमाह- तदधिगम इति ।
ज्ञानसाधनेषु फलाधिक्यार्थं फलाध्याये ऽपि साधनविचारः कृतः, संप्रति फलाध्यायस्था फलचिन्ता क्रियत इत्याह- गत इति ।
कर्मणां फलान्तत्वशास्त्राज्ज्ञाननाश्यत्वशास्त्राच्च संशयः, पूर्वपक्षे ज्ञानिनो ऽपि संचितपापभोगानन्तरं मुक्तिः, सिद्धान्ते तु ज्ञानसमकालं पापनाशाज्जीवन्मुक्तिरिति फलम् ।
न हिंस्यादित्यादिनिषेधश्रुत्या दुरितादृष्टस्य दुःखदायिनी शक्तिरधिगता ।
ऽनाभुक्तं क्षीयते कर्मऽइति च स्मरन्ति ।
अतः फलान्तमेव पापं न मध्ये नश्यतीति पूर्वपक्षः ।
ननु तर्हि तन्नाशार्थं प्रायश्चित्तविधिर्न स्यादिति चेत् ।
न ।
यथा आहिताग्नेर्गृहदाहे निमित्ते सति ऽअग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्ऽइति इष्टिविधिस्तद्वद्दोषे निमित्तमात्रे सति प्रायश्चित्तविधेर्देषनाशार्थत्वासिद्धेः ।
ननु विषम उपन्यासः, युक्तं गृहदाहस्य सिद्धत्वादयोग्यत्वाच्चाफलतया निमित्तमात्रत्वं दोषवान्प्रायश्चित्तं कुर्यादित्यत्र तु मलिनः स्नायादितिवद्दोषपदस्य निवृत्तिद्वारा फलपरत्वसंभवात् ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजतेऽइति प्रायश्चित्तात्पापनिवृत्तिश्रुतेश्चायुक्तं प्रायश्चित्तस्य नैमित्तिकत्वमित्यत आह- अपिचेति ।
ज्ञानस्य दोषनाशार्थतया विधानं नास्ति ऽक्षीयन्ते चास्य कर्माणिऽइत्यादेर्ज्ञानस्तावकमात्रत्वादित्यर्थः ।
कर्मभोगानन्तरं देशकालान्तरे मोक्षो भविष्यति शास्त्रप्रामाण्यादित्याह- नेत्युच्यत इति ।
ज्ञानात्कर्मक्षयस्यापूर्वत्वान्मानान्तरविरुद्धत्वाच्च तत्परानेकवाक्यानां स्तावकत्वायोगात्तस्यास्तित्वमिति सिद्धान्तयति- एवमित्यादिना ।
पापक्रियातो ऽपूर्वानुत्पत्तिरश्लेषः ।
सगुणब्रह्मविद्यायां व्यपदेशमुक्त्वा निर्गुणायां तमाह- अयमपर इति ।
परोक्तं दूषयति- यदुक्तमित्यादिना ।
विधिनिषेधशास्त्रं ऽनाभुक्तं क्षीयतेऽइत्यादि, स्मृतिश्च कर्मणः फलशक्तौ प्रमाणमतः शक्तस्यापि कुतश्चिन्नाशाङ्गीकारेण शास्त्रविरोध इत्यर्थः ।
तत्त्वज्ञानमात्मन्यशेषदुरितनाशकं तन्मूलध्यासबाधकत्वात्स्वप्नदुरितमूलकर्तृत्वाध्यासबाधकजाग्रद्बोध्ःअवदित्याह- तथाप्यकर्त्रात्मबोधादिति ।
श्रुतार्थमेव युक्त्या द्रढयति- अश्लेष इति चेति ।
मूलाध्यासानुत्पत्तेः पापस्याश्लेषः, तन्नाशात्तद्विनाश इत्यर्थः ।
अध्यासाभावे विद्वदनुभवमाह- पूर्वेति ।
मोक्षशास्त्रबलाच्च ज्ञानात्कर्मक्षयसिद्धिरित्याह- एवमेवेति ।
ज्ञानात्कर्मक्षये सत्येवेत्यर्थः ।
मोक्षस्य कर्मफलसाम्यमुक्तं निरस्यति- नचेति ॥12॥
एन्द् ब्स्र्प्_4,1.9.13
स्तर्त् ब्स्र्प्_4,1.10.14ः
इतरस्याप्य् एवम् असंश्लेषः पाते तु

4.1.15

इतरस्यापि-तु ।
अतिदेशत्वान्न संगत्याद्यपेक्षा ।
ज्ञानात्पुण्यं क्षीयते न वेति पूर्ववत्संदेहे ज्ञानं तु न पुण्यनाशकं शास्त्रीयत्वात्पुण्यवदित्यधिकाशङ्कामुक्त्वातिदेशं व्याचष्टे- धर्मस्येत्यादिना ।
ज्ञानं पुण्यनाशकं समूलविद्याघातित्वादिति न्यायोपेतागमबाधितमनुमानमिति भावः ।
ननु क्षीयन्ते चेत्यविशेषश्रुतिः पापविषया सर्वं पाप्मानं तरतीति विशेषश्रुतेरित्यत आह- यत्रापि केवल इति ।
पापपुण्यक्षयपराधिकरणद्वयस्य फलमाह- पाते त्विति ॥14॥
एन्द् ब्स्र्प्_4,1.10.14
स्तर्त् ब्स्र्प्_4,1.11.15ः
अनारब्धकार्ये एव तु पूर्वे तदवधेः

4.1.16

अनारब्धकार्ये एव तु ।
उक्तकर्मक्षयं विषयीकृत्य क्षीयन्ते चेत्यविशेषश्रुतेस्तस्य तावदेव चिरमिति श्रुतेश्च संशयमाह- पूर्वयोरिति ।
जीवन्मुक्त्यसिद्धिस्तत्सिद्धिश्चेत्युभयत्र फलम् ।
पूर्वसिद्धान्तन्यायेन पूर्वपक्षप्राप्तौ उक्तोत्सर्गतः कर्मक्षतिः प्रारब्धान्यकर्मविषयेत्यपवादं सिद्धान्यति- एवमिति ।
सामिशब्दोर्ऽधवाचकः ।
प्रारब्धाद्यावन्न विमुच्यते तावानेव विलम्बस्तन्मोक्षे ब्रह्म संपद्यत इति श्रुत्यर्थः ।
देहपातावधिलिङ्गात्तत्त्वविदां याज्ञवल्क्यादीनां देहधारणश्रुतिस्मृतिलिङ्गाच्च प्रारब्धकर्मणस्तत्त्वज्ञानं प्रति हेतुत्वेनोपजीव्यत्वाच्च प्राबल्यसिद्धेस्तत्प्रतिबद्धं तत्त्वज्ञानं तत्सिद्ध्यर्थमविद्यांशं विक्षेपशक्त्याख्यं विहायावरकाविद्यांशं नाशयतीत्याह- उच्यते-न-तावदिति ।
विक्षेपकाविद्यालेश एव तत्संस्कारः ।
शिष्यान्प्रति जीवन्मुक्तौ स्वानुभवमाह- अपिच नैवेति ॥15॥
एन्द् ब्स्र्प्_4,1.11.15
स्तर्त् ब्स्र्प्_4,1.12.16ः
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्

4.1.17

अग्निहोत्रादि तु ।
नित्यं नैमित्तिकं कर्म ज्ञानान्नश्यति न वेति संदेहे उभे पुण्यपापे तरतीत्यविशेषश्रुतेर्नश्यतीत्याशङ्क्योत्तरस्यापीत्युक्तातिदेशस्य नित्याद्यतिरिक्तकाम्यपुण्यविषयत्वेनात्रापवादं सिद्धान्तयति- पुण्यस्येत्यादिना ।
अत्र पूर्वपक्षे ज्ञानार्थं नित्याद्यनुष्ठानासिद्धिः पङ्कक्षालनन्यायात्, सिद्धान्ते तु ज्ञानेत्पत्त्यर्थत्वात्तत्सिद्धिरिति विवेकः ।
अत्र भाष्ये ज्ञानकर्मणोः साक्षादेककार्यत्वं परमतेनोक्त्वा साक्षात्पारम्पर्याभ्यां मोक्षहेतुत्वं स्वमतमुक्तमिति मन्तव्यम् ।
अत एवेति ज्ञानादूर्ध्वं कर्माभावात्पूर्वकर्मविषयमित्यर्थः ।
निर्गुणविद्यायाः कर्मसाहित्यं तृप्तिं प्रति भोजनस्य लाङ्गलेनेव दर्शितं, संप्रति सगुणविद्यापरत्वेन सूत्रस्याञ्जस्यमाह- सगुणास्विति ॥16॥
एन्द् ब्स्र्प्_4,1.12.16
स्तर्त् ब्स्र्प्_4,1.12.17ः
अतो ऽन्यापि ह्य् एकेषाम् उभयोः

4.1.18

उत्तरसूत्रार्थं गृह्णाति- किमित्यादिना ।
यत्प्रारब्धादन्यत्काम्यं पुण्यं पापं च तदेव विद्वत्सुहृद्द्विषतोः स्वसमानजातीयं कर्म जनयति स्वयं च ज्ञानान्नश्यतीति भावः ॥17॥
एन्द् ब्स्र्प्_4,1.12.17
स्तर्त् ब्स्र्प्_4,1.13.18ः
यद् एव विद्ययेति हि

4.1.19

यदेव विद्ययेति हि ।
उक्तनित्यादिकं विषयमुपजीव्य सबीजं संशयमुक्त्वा पूर्वपक्षमाह- विद्यासंयुक्तमेवेति ।
अत्र पूर्वपक्षे कर्माङ्गोपास्तिहीनकर्मणो ज्ञानार्थत्वासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः ।
भवतु विद्याविशिष्टस्य कर्मणो ज्ञानं प्रति शीघ्रकारित्वाख्यः कश्चिदतिशयो विद्यासामर्थ्यात् ।
नैतावता केवलस्य वैयर्थ्यं विविदिषाश्रुतिविरोधात् ।
नच तत्र श्रुतौ यज्ञादिशब्दानां विद्योपेतकर्मपरतया संकोचो युक्तः ।
हि यतः ।
ऽयदेव विद्ययाऽइति श्रुतिः केवलस्यापि वीर्यवत्त्वं गमयतीति सिद्धान्तग्रन्थार्थः ॥18॥
एन्द् ब्स्र्प्_4,1.13.18
स्तर्त् ब्स्र्प्_4,1.14.19ः
भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc