भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 3.4

3.4.1

किञ्च विदुषा ब्रह्मणान्येषामृत्विजां पाल्यत्ववचनान्न सर्वोपास्तीनां सहप्रयोग इत्याह- दर्शनाच्चेति ।
ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मण इत्यर्थः ॥66॥
एन्द् ब्स्र्प्_3,3.36.66
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकव्याख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य तृतीयः पादः ॥3॥
॥ इति तृतीयाध्यायस्य परापरब्रह्मविद्यागुणोपसंहाराख्यस्तृतीयः पादः ॥
तृतीयाध्याये चतुर्थः पादः ।
स्तर्त् ब्स्र्प्_3,4.1.1ः
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः

3.4.2

कर्माङ्गविद्याप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्याह- पुरुषार्थो ऽतः शब्दादिति बादरायणः ।
पूर्वपादे परापरविद्यानां गुणोपसंहारोक्त्या स्वरूपं निश्चितमस्मिन्पादे तासां कर्मानङ्गतया पुरुषार्थहेतुत्वं निरूप्यते ।
ततो ऽङ्गाकाङ्क्षायां यज्ञादीनि बहिरङ्गानि शमाद्दीन्यन्तरङ्गानि च निरूप्यन्त इत्येकविद्याविषयत्वं पादयोः संगतिः तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादिविप्रतिपत्त्या संशयमाह- अथेति ।
पूर्वपक्षे ज्ञानकर्मणोरङ्गाङ्गित्वेन समुच्चयः ।
सिद्धान्ते केवलज्ञानान्मुक्तिरिति फलभेदः ।
ऽय आत्मेतिऽप्रजापत्युक्तब्रह्मविद्यायां लोकादिकं सगुणविद्याफलं मोक्षानन्दे ऽन्तर्भावाभिप्रायेणोक्तमिति मन्तव्यम् ॥1॥
एन्द् ब्स्र्प्_3,4.1.1
स्तर्त् ब्स्र्प्_3,4.1.2ः
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः

3.4.3

एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति- शेषत्वादिति ।
सूत्रेर्ऽथवादपदमावर्तनीयम् ।
ज्ञानात्पुरुषार्थवादोर्ऽथवाद इत्यर्थः ।
ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मेशेषाश्रयत्वात्प्रोक्षणपर्णमयीत्वादिवदिति भावः ।
तत्त्वनिर्णयार्थं गुरुशिष्ययोः कथावादो ऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् ।
अङ्गिफलेनाङ्गभूत आत्मावगतप्रयोजनस्तदाश्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः- यथेति ।
पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः ।
वर्म कवचम् ।
आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते- कथमिति ।
पूर्वपक्ष्याह- कर्त्रिति ।
युक्तो ह्यनारभ्याधीतायाः पर्णताया जुहूद्वारेण वाक्यात्क्रत्वङ्गभावो जुह्वाः क्रतुव्याप्यतया क्रतूपस्थापकत्वात्, न तथात्मविज्ञानस्य ऽआत्मा द्रष्टव्यःऽइति वाक्यात्क्रतुसंबन्ध उपपद्यते, आत्मनः क्रतुव्याप्त्यभावादिति सिद्धान्ती दूषयति- नेति ।
देहभिन्नत्वेन ज्ञातात्मनः क्रतुव्याप्यत्वमस्तीति पूर्वपक्षी समाधत्ते- न व्यतिरेकेति ।
सर्वथेति ।
देहात्मत्वेनापीत्यर्थः ।
देहभिन्नकर्तृज्ञानस्याङ्गत्वे ऽप्यकर्तृब्रह्मात्मज्ञानस्य नाङ्गत्वमिति शङ्कते- नन्वपहतेति ।
यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचितभोक्तृभिन्नमकर्तृस्वरूपं नास्तीति समाध्यर्थः ।
जन्मादिसूत्रमारभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते- नन्विति ।
स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्वर्थत्वपुरुषार्थत्वविचारेण दार्ढ्यं क्रियत इत्याह- सत्यमिति ॥2॥
एन्द् ब्स्र्प्_3,4.1.2
स्तर्त् ब्स्र्प्_3,4.1.3ः
आचारदर्शनात्

3.4.4

ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह- आचारेति ।
ईजे यागं कृतवानित्यर्थः ।
हे भगवन्त इति ब्राह्मणान्संबोध्य ब्रह्मवित्कैकेयराजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणो ऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः ।
अन्यपरेष्विति विद्याविधिपरेष्वित्यर्थः ।
अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह- अक्व इति ।
समीप इत्यर्थः ॥
अर्क इति पाठे ऽप्ययमेवार्थः ॥3॥
एन्द् ब्स्र्प्_3,4.1.3
स्तर्त् ब्स्र्प्_3,4.1.4ः
तच्छ्रुतेः

3.4.5

ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुतिरप्यस्तीत्याह- तच्छ्रुतेरिति ॥4॥
एन्द् ब्स्र्प्_3,4.1.4
स्तर्त् ब्स्र्प्_3,4.1.5ः
समन्वारम्भणात्

3.4.6

लिङ्गान्तरमाह- समिति ।
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः ॥5॥
एन्द् ब्स्र्प्_3,4.1.5
स्तर्त् ब्स्र्प्_3,4.1.6ः
तद्वतो विधानात्

3.4.7

गुरोः शुश्रूषारूपं कर्म कुर्वन्नतिशेषेणावशिष्टेन कालेन यथाविधानं वेदमधीत्यानन्तरमाचार्यस्य कुलाद्गृहात् ।
ब्रह्मचर्यादिति यावत् ।
अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्नन्यांश्च नित्यादिधर्माननुतिष्ठन्ब्रह्मलोकं प्राप्नोतीति श्रुत्यर्थः ।
यथावघातस्तुषविमोकपर्यन्त एवमध्ययनमर्थावबोधान्तम् ।
दृष्टेर्ऽथावबोधाख्ये फले संभवति अध्ययनस्यादृष्टार्थत्वायोगादिति पूर्वतन्त्रे स्थितम् ।
ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्मविधानमित्यर्थः ॥6॥
एन्द् ब्स्र्प्_3,4.1.6
स्तर्त् ब्स्र्प्_3,4.1.7ः
नियमाच् च

3.4.8

यावज्जीवं कर्मनियमो ऽप्यत्र लिङ्गमित्याह- नियमाच्चेति ।
इह देहे कर्माणि कुर्वन्नेव शतं संवत्सराञ्जीवितुमिच्छेदेवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते ।
इतः कर्मणो ऽन्यथा नास्ति ।
कर्म विना श्रेयो नास्तीत्यर्थः ।
जरामर्यं जरामरणावधिकमित्यर्थः ॥7॥
एन्द् ब्स्र्प्_3,4.1.7
स्तर्त् ब्स्र्प्_3,4.1.8ः
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात्

3.4.9

कर्तुरधिकस्यासंसार्यात्मनः कर्मशेषत्वाभावात्तत्त्वज्ञानं कर्माङ्गं नेति सिद्धान्तयति- अधिकेति ।
अस्य महत इति वाक्यशेषात्प्रियसंसूचित आत्मा पर एव द्रष्टव्यः ।
यः प्राणादि प्रेरयति सो ऽप्यशनायाद्यत्ययवाक्यशेषात्पर एव ।
तथाक्षिपुरुषो ऽप्यवस्थासाक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः जीवानुकर्षणमभेदाभिप्रायमित्यङ्गीकारे न विरोध इति कथम्, अभेदे जीवत्वविरोधादित्यत आह- पारमेश्वरमिति ।
ज्ञानं कर्माङ्गमफलत्वे सति कर्मशेषाश्रयत्वादित्युक्तो हेतुरसिद्ध इति भावः ॥8॥
एन्द् ब्स्र्प्_3,4.1.8
स्तर्त् ब्स्र्प्_3,4.1.9-10ः
तुल्यं तु दर्शनम्

3.4.10

असार्वत्रिकी

3.4.11

ब्रह्मविदां कर्मवत्संन्यासस्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोकसंग्रहार्थत्वेनान्यथासिद्धमित्याह- तुल्यं त्विति ।
किञ्च यस्य कर्म स न ब्रह्मविदित्याह- अपिचेति ।
तर्हि वैश्वानरविद्यायाः कर्माङ्गत्वं स्यादित्यत आह- नत्विति ।
ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभिमानाभावेनानधिकारित्वादिति भावः ॥9 ॥ ॥10॥
एन्द् ब्स्र्प्_3,4.1.9-10
स्तर्त् ब्स्र्प्_3,4.1.11ः
विभागः शतवत्

3.4.12

समन्वारम्भवचनस्य मुमुक्षुविषयत्वमङ्गीकृत्य विद्या अन्यं मुमुक्षुं मुक्तत्वेनान्वारभत इति विभाग उक्तः सूत्रकृताः वस्तुतस्तु तन्नास्तीत्याह- नचेदं समन्वारम्भवचनमिति ।
तत्र संसारिविषये तं विद्येत्यादिवाक्ये यथाप्राप्तानुवादिनि विद्यादिपदार्थमाह- तत्रेति ।
विहितोद्गीथादिविद्या प्रतिषिद्धा नग्निस्त्रीध्यानादिरूपा ॥11॥
एन्द् ब्स्र्प्_3,4.1.11
स्तर्त् ब्स्र्प्_3,4.1.12-13ः
अध्ययनमात्रवतः

3.4.13

नाविशेषात्

3.4.14

यच्चैतदिति ।
उक्तमिति शेषः अविद्यत्वाद्वेदार्थज्ञानशून्यत्वादित्यर्थः ।
मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह- नैष दोष इति ॥12 ॥ ॥13॥
एन्द् ब्स्र्प्_3,4.1.12-13
स्तर्त् ब्स्र्प्_3,4.1.14ः
स्तुतये ऽनुमतिर्वा

3.4.15

नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह- स्तुतय इति ।
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् ।
यतः कर्म न लिप्यते ।
अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः ॥14॥
एन्द् ब्स्र्प्_3,4.1.14
स्तर्त् ब्स्र्प्_3,4.1.15ः
कामकारेण चैके

3.4.16

स्वेच्छातः कर्मसाधनप्रजादित्यालिङ्गाच्च विद्या स्वतन्त्रफलेत्याह- कामेति ।
तदेतद्ब्रह्म येषां नो ऽस्माकं अयमपरोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः ।
नन्वयं लोक इति ज्ञानफलस्य प्रत्यक्षत्वोक्तिरयुक्ता कर्मफलवददृष्टत्वादित्यत आह- अनुभवेति ॥15॥
एन्द् ब्स्र्प्_3,4.1.15
स्तर्त् ब्स्र्प्_3,4.1.16ः
उपमर्दं च

3.4.17

न केवलमनुपयोगाज्ज्ञानस्य कर्मानङ्गत्वं किन्तु कर्मनाशकत्वाच्चेत्याह- उपमर्दं चेति ॥16॥
एन्द् ब्स्र्प्_3,4.1.16
स्तर्त् ब्स्र्प्_3,4.1.17ः
ऊर्ध्वरेतस्सु च शब्दे हि

3.4.18

किञ्च कर्मतत्त्वज्ञाने नाङ्गाङ्गिभूते भिन्नाधिकारिस्थत्वाद्राजसूयबृहस्पतिसववदित्याह- ऊर्ध्वेति ।
त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः ।
ऽब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणःऽइति श्रुतेः ।
ऽऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधःऽइति स्मृतेश्च प्राप्तगार्हस्थ्यस्यैव निरस्तर्णत्रयस्य पारिव्राज्यमित्यपि शङ्का न कार्या ।
ब्रह्मचर्यादेव प्रव्रजेदिति द्वितीयमाश्रममिच्छेत्तमावसेदिति च विधिश्रुतिस्मृतिविरोधेन अर्थवादश्रुतिस्मृत्योरविरक्तविषयत्वागमादित्याह- प्रतिपन्नेति ।
तस्मादि ति संन्यासनिष्ठत्वादित्यर्थः ॥17॥
एन्द् ब्स्र्प्_3,4.1.17
स्तर्त् ब्स्र्प्_3,4.2.18ः
परामर्शं जैमिनिरचोदनाच्चापवदति हि

3.4.19

संन्यासो नास्तीत्याक्षिपति- परामर्शं जैमिनिरिति ।
ऊर्ध्वरेतः शब्दितं पारिव्राज्यमनुष्ठेयं न वेति मानभ्रान्तिमूलत्वाभ्यां संदेहे भ्रान्तिमूलत्वान्नानुष्ठेयमित्याह- त्रय इति ।
आश्रमाणामवान्तरभेदापेक्षया बहुवचनम् ।
तथाच काण्वायनस्मृतिरर्थतो ऽनुक्रम्यते ।
गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारीचतुर्विधः ।
तत्रोपनयनादूर्ध्वं यस्त्रिरात्रमक्षारालवणाशी गायत्रीमधीते स गायत्रः ।
यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः ।
ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेदव्रतकृद्वटुर्वा प्राजापत्यः ।
आमरणं गुरुकुलवासी नैष्ठिको बृहन्नित्युच्यते ।
गृहस्थो ऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोरसंन्यसिकश्चेति ।
तत्र कृषिगोरक्षादिकया वैश्यादिवृत्त्या जीवन्नित्यादिक्रियापरो वार्ताकवृत्तिः ।
यायावरस्त्वयाचितवृत्तिर्याजनाध्यापनप्रतिग्रहविमुखः ।
शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी ।
उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्प्रत्यहं कृतोञ्छवृत्तिर्ग्रामवासी घोरसंन्यसिक इत्युच्यते, हिंसाविमुखत्वात् ।
वानप्रस्थो ऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति ।
तत्राकृष्टपच्यौषधीभिर्ग्रामबहिष्कृताभिरग्निहोत्रादिकुर्वन्वैखानस उच्यते ।
यस्तु प्रातरुथाय यां दिशं पश्यति तत्रत्यौदुम्बरबदरीनीवारश्यामाकैः कर्मपरः स औदुम्बरः ।
यस्तु जटावल्कलधारी अष्टौ प्रातसान्वृत्त्युपार्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः ।
फेनपास्तु शीर्णपर्णफलवृत्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति ।
तथा परिव्राजाकाश्चतुर्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति ।
तत्र स्वपुत्रगृहे भिक्षां चरन्तस्त्रिदण्डिनः कुटीचकाः ।
बहूदकास्तु त्रिदण्डिनः शिक्यजलपवित्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारास्तीर्थान्यटन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते ।
हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्यकमण्डलुपाणयः ग्रामैकरात्रवासिनः कृच्छ्रचान्द्रायणपराः ।
परमहंसास्त्वेकदण्डधरा मुण्डा अयज्ञोपवीतिनः त्यक्तसर्वकर्माण आत्मनिष्ठा इति ।
अत्र पूर्वपक्षे संन्यासाभावाञ्ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः सिद्धान्ते तद्भावात्तत्सिद्धिरिति फलभेदः ।
स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः ।
स्कन्धश्रुतावाश्रमा न विधीयन्ते किन्तु ब्रह्मसंस्थतास्तुर्थमनूद्यन्त इत्युक्ते शङ्कते- ननु परामर्शे ऽपीति ।
अनुवादापेक्षितपुरोवादात्प्रतीतिमङ्गीकरोति- सत्यमिति ।
प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादो ऽस्तु नानुवाद इत्यत आह- स्मृतीति ।
तयोरपि इयमेव श्रुतिर्मूलमस्तु ।
कॢप्तश्रुतौ विधिमात्रकल्पनालाघवात् ।
अस्या अनुवादत्वे तु मूलत्वेन साग्निकानग्निकाश्रमश्रुतिस्तत्र विधिश्चेति द्वयकल्पनागौरवादित्यत आह- अतश्चेति ।
स्मार्तत्वादाश्रमाः प्रत्यक्षयावज्जीवकर्मविधिश्रुत्यविरुद्धा ग्राह्याः ।
विरुद्धास्त्वनग्निकाश्रमा उपेक्ष्याः कर्मानधिकृतैरन्धादिभिर्वा अनुष्ठेया इत्यर्थः ।
यावज्जीवश्रुतिविरोधाल्लाघवं त्याज्यमिति भावः ।
स्कन्धश्रुतावनुवाद्यत्वाविशेषाद्गार्हस्थ्यवदितरेषामनुष्ठेयत्वमाशङ्क्य तस्य श्रौतत्वादनुष्ठानं नेतरेषामश्रौतत्वादतो ब्रह्मसंस्थतास्तुतिपरमिदं स्कन्धवाक्यमित्याह- नन्वित्यादिना ।
तन्तुं संततिम् ।
तथा ये चेति ।
ते ऽर्चिषमभिसंभवन्तीति वाक्यशेषादित्यर्थः ।
स्कन्धशब्दस्य आश्रमेष्वरूढत्वाच्चात्र नाश्रमिविधिरित्याह- संदिग्धं चेति ।
तर्हि प्रव्रजन्तीत्याश्रमविधिरीत्यत आह- तथैतमिति ।
आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुतिर्वर्तमानापदेशादित्यर्थः ।
संप्रति पूर्वपक्षमाक्षिप्येयं श्रुतिर्नास्तीतिकृत्वा चिन्त्यत इत्याह- नन्वित्यादिना ॥18॥
एन्द् ब्स्र्प्_3,4.2.18
स्तर्त् ब्स्र्प्_3,4.2.19ः
अनुष्ठेयं बादरायणः साम्यश्रुतेः

3.4.20

स्कन्धश्रुतावितराश्रमाः श्रुत्यन्तरविहिता अनूद्यन्ते एतद्वाक्यानुवाद्यत्वाद्गार्हस्थ्यवदिति सिद्धान्तयति- अनुष्ठेयमिति ।
अनुवादस्य क्वचिद्विधिपूर्वकत्वे दृष्टान्तमाह- यथाचेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते ।
तत्स्तुतये द्वयमनूद्यते ।
मानुषक्रियासु देहार्धवस्त्रबन्धनाख्यनिवीतस्य सौकर्यार्ततया प्राप्तत्वात् पित्र्ये कर्मणि प्राचीनावीतस्यापि विध्यन्तरप्राप्तत्वादित्यर्थः ।
वाक्यान्तरे च साक्षादेव पारिव्राज्यविधिर्विधेयैः साहित्यादित्याह- तथैतमेवेति ।
अस्येति पारिव्राज्योक्तिः ।
विधेयवेदानुवचनादिसाहित्यात्पारिव्राज्यस्य विधेयतेत्यर्थः ।
वाक्यान्तरे ऽपि साम्यश्रुतिमाह- य चेति ।
अस्येति वानप्रस्थोक्तिः ।
विधेयपञ्चाग्निविद्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः ।
श्रुतत्रित्वान्यथानुपपत्त्या स्कन्धशब्दस्य आश्रमपरत्वनिश्चय इत्याह- यत्तूक्तमित्यादिना ।
उत्पत्तिभिन्ना इति ।
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः ॥19॥
एन्द् ब्स्र्प्_3,4.2.19
स्तर्त् ब्स्र्प्_3,4.2.20ः
विधिर् वा धारणवत्

3.4.21

स्कन्धश्रुतेरनुवादकत्वमङ्गीकृत्य विध्यन्तरकल्पनेनाश्रमा अनुष्ठेया इत्युक्तम् ।
इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह- विधिर्वेति ।
यावज्जीवादिश्रुतेरविरक्तविषयत्वान्न लाघवबाधकत्वमिति भावः ।
अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतिपरमेकमिदं वाक्यं भाति ।
तत्राश्रमविधिचतुष्टयमयुक्तमिति शङ्कते- नन्विति ।
आश्रमाणां विध्यन्तरप्राप्त्यभावादनुवादायोगात् ।
स्तुतिलक्षणादोषाच्च वरं विस्पष्टाश्रमविधिभेदकल्पनमपूर्वत्वादित्याह- सत्यमित्यादिना ।
प्रतीतैकवाक्यत्वभङ्गेन भेदकल्पने दृष्टान्तमाह- धारणवदिति ।
महापितृयज्ञे प्रेताग्निहोत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हविषः ऽअधस्तात्समिधं धारयन्ननुद्रवेत्ऽइति विहिताधोधारणस्तावकतयोपरि हीत्यस्यैकवाक्यत्वभाने ऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधिरेवापूर्वत्वादिति वाक्यभेदस्तृतीयाध्याये जैमिन्याचार्येणोक्त इत्यर्थः ।
एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः ।
संप्रत्याश्रमत्रयानुवादेन पारिव्राज्यमेकमेव विधीयत इति पक्षान्तरमाह- यदापीत्यादिना ।
ब्रह्मसंस्थताविधौ कथं पारिव्राज्यविधिरित्याशङ्क्य विचारयति- सा चेति ।
ननु त्रय इति वाक्य आश्रमचतुष्टयस्याप्राप्तेर्निर्बीजो ऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्वपक्षप्राप्तिमाह- यदिचेति ।
नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह- अनाश्रमित्वेति ।
अनाश्रमी न तिष्ठेतेति निषेधादिति भावः ।
द्वितीये सिद्धान्प्राप्तिमाह- अथेति ।
एवं परामर्शतदभावाभ्यां संशयमुक्त्वा पूर्वपक्षयति- तत्रेति ।
वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् ।
तेनैकेन तपः शब्देनोभयग्रहणमन्याय्यं भिक्षोस्तपस्वित्वप्रसिद्ध्याभावाच्च ॥
तथाच यज्ञाद्यसाधारणधर्मद्वारा गृहस्थाद्याश्रमत्रयवद्ब्रह्मसंस्थशब्देनैव ब्रह्मनिष्ठाप्रधानश्चतुर्थाश्रमो गृह्यते ।
स च स्तुतिसामर्थ्यात् सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति- तदयुक्तमित्यादिना ।
पृथग्व्यपदेशाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह- अपिचेति ।
नचावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् ।
कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञाधिक्यवत्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्मसंस्थानुपपत्तेः ।
कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्यस्मदिष्टसिद्धिरिति भावः ।
इममेवार्थं स्पष्टयितुं शङ्कते- कथं पुनरिति ।
यद्यपि ब्रह्मसंस्थशब्दः संन्यासाश्रमे न रूढस्तथापि योगात्तमेवोपस्थापयति ।
अन्याश्रमेषु यौगिकार्थासमवायादित्याह- अत्रोच्यत इति ।
सर्वकर्मत्यागिनः प्रणवार्थब्रह्मनिष्ठातिरेकेणानुष्ठेयं नास्तीत्यत्र मानमाह- तथाचेति ।
न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह- ब्रह्मा हीति ।
हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति ।
ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः ।
तद्बुद्धये ब्रह्मचित्तास्तदात्मानो ब्रह्मस्वरूपास्तन्निष्ठाः श्रवणादिपरास्तत्परायणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् ।
एवं ब्रह्मसंस्थशब्दस्य ज्ञानप्रधानाश्रमवाचित्वादमृतत्वकामस्त्वमुमाश्रममनुतिष्ठेदिति विधिः परिणम्यते ।
अतो न ज्ञानानर्थक्यदोष इत्युपसंहरति- तस्मादिति ।
संप्रति कृत्वाचिन्तामुद्धाटयति- अनपेक्ष्येति ।
शिष्यबुद्धिवैशद्यार्थं स्कन्धश्रुतिमादाय चिन्ता कृतेति भावः ।
यदिवेतरथेति ।
ब्रह्मचर्ये स्थितस्यैव पूर्वसुकृतपरिपाकाद्वैराग्यं यदि स्यादित्यर्थः ।
यदुक्तं कर्मानधिकृतान्धादिविषयः संन्यास इति तन्नेत्याह- नचेति ।
सामान्यश्रुतेः संकोचहेत्वभावादिति भावः ।
पृथगिति ।
संन्यासस्येति शेषः ।
व्रती गोदानादिवेदव्रतवान् ।
गुरुकुलान्निवृत्तिरूपस्नानानन्तरमकृतगार्हस्थ्यो गुरुसेवी स्नातकः उत्सन्नाग्निर्विधुरः अगृहीताग्निरनग्निकः प्रव्रजेदित्यन्वयः ।
सकलाङ्गानमेव कथञ्चित्कर्मानधिकृतानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञानप्रधानसंन्यासाधिकार इत्याह- ब्रह्मेति ।
दृष्टिपूतसंचारश्रवणादिकं विना ज्ञानानुत्पत्तेः ।
ऽशरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम्ऽइत्यङ्गसाकल्यप्रार्थनालिङ्गाच्च नान्धपङ्गुमूकबधिरदीनामधिकार इत्यर्थः ।
तच्चेति ।
पारिव्राज्यस्य ब्रह्मज्ञानाङ्गत्वं चेत्यर्थः ।
ब्रह्मभूयाय ब्रह्मसाक्षात्कारायेति यावत् ॥20॥
एन्द् ब्स्र्प्_3,4.2.20
स्तर्त् ब्स्र्प्_3,4.3.21ः
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात्

3.4.22

स्तुतिमात्रं ।
पृथिव्यबोषधिपुरुषवागृक्साम्नां सप्तानां रसानां रसतमो ऽष्टम उद्गीथावयव ओङ्कारः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परार्ध्यं इत्यर्थः ।
आसु श्रुतीष्वङ्गोपादानादपूर्वार्थत्वाच्च संशयमाह- किमिति ।
यथानुष्ठेयगार्हस्थ्यसाम्यश्रुतेः पारिव्राज्यस्यानुष्ठेयत्वं तद्वदासां श्रुतीनां जुह्वादिस्तुतिश्रुतिसाम्यात्स्तुतित्वमिति पूर्वपक्षयति- स्तुत्यर्था इति ।
जुहूरियमेव पृथिवीति स्तूयते ।
चयनस्थः कूर्म आदित्य इति ।
आहवनीयः स्वर्गलोक इति स्तुतिः ।
तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः ।
स्तुतिलक्षणातो वरं विधिकल्पनमनुष्ठानफललाभादिति सिद्धान्तयति- नहि स्तुतीति ।
पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् ।
स्तावकत्वेनार्थवत्त्वं किं न स्यादित्यत आह- विधायकस्येति ।
युक्तमियमेव जुहूरित्यादिश्रुतीनां फलवज्जुह्वादिविधिप्रकरणस्थतया स्तावकत्वेनार्थवत्त्वं;रसतमादिश्रुतीनां तु क्रत्वङ्गविधिप्रकरणस्थत्वाभावात्फलवदपूर्वोपास्तिविधायकत्वमेव युक्तं क्रत्वन्तरश्रुतिवदिति भावः ॥21॥
एन्द् ब्स्र्प्_3,4.3.21
स्तर्त् ब्स्र्प्_3,4.3.22ः
भावशब्दाच् च

3.4.23

किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह- भावेति ।
न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् ।
विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः ।
देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह- तथाचेति ।
एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् ।
उपपदादिबाधके त्वन्यार्थपरमित्यर्थः ।
तदिदमाह- लिङादीति ।
नच श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् ।
क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् ।
यद्यपि डुकृञ् करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस् भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः ।
तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते ।
तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते ।
कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता ।
तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ ।
कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता ।
आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् ।
कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते ।
तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः ।
तथा दण्डी भवेत् भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् ।
तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् ।
अस्तेर्भूरादेशात् ।
एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते ।
धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदे ऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् ।
एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे- प्रतिप्रकरणं इति ।
एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः ।
एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति ।
आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः ॥22॥
एन्द् ब्स्र्प्_3,4.3.22
स्तर्त् ब्स्र्प्_3,4.4.23ः
पारिप्लवार्था इति चेन् न विशेषितत्वात्

3.4.24

पारिप्लवार्थाः ।
अश्वमेधे पुत्रादिपरिवृताय राज्ञे पारिप्लवमाचक्षीतेति नानाविधाख्यानकथनात्मकः पारिप्लवप्रयोगो विहितः ।
तथाच वेदान्तस्थकथानामाख्यानत्वसामान्याद्विद्यासंनिधानाच्च संशयमाह- किमिति ।
पूर्वं स्तुत्यपेक्षया विझिर्ज्यायाननुष्ठानलाभादित्युक्तम् ।
तथैव कथानां न विद्यास्तावकत्वं पारिप्लवानुष्ठानलाभादिति पूर्वपक्षः ।
तत्र फलमाह- ततश्चेति ।
यथा देवस्य त्वा सवितुरित्यादिमन्त्रे कस्यचित्पदस्य प्रयोगसमवेतार्थतया शेषस्य प्रयोगाङ्गत्वं तथा वेदान्तस्थकथानां प्रयोगशेषत्वम् ।
तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्याप्राधान्यमित्यर्थः ।
कथानां गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा संनिहितविद्याशेषत्वं सामर्ध्यलिङ्गादतो विद्याप्राधान्यमिति फलं मत्वा सिद्धान्तयति- तन्नेत्यादिना ।
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूयाद्द्वितीये ऽहनि यमो वैवस्वत इति तृतीये ऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशिष्योक्तत्वादुपक्रमस्य संकोचो युक्त इति भावः ॥23॥
एन्द् ब्स्र्प्_3,4.4.23
स्तर्त् ब्स्र्प्_3,4.5.24ः
तथा चैकवाक्यतोपबन्धात्

3.4.25

क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह -तथाचेति ।
प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदत् होमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम् ॥24॥
एन्द् ब्स्र्प्_3,4.5.24
स्तर्त् ब्स्र्प्_3,4.5.25ः
अत एव चाग्नीन्धनाद्यनपेक्षा

3.4.26

एवमाद्याधिकरणप्रमेयं विद्यास्वातन्त्र्यमधिकरणत्रयेण दृढीकृत्याद्याधिकरणस्य फलमाह- अत एव चेति ।
ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादिविवादात्संशये तेनैति ब्रह्मवित्पुण्यकृत्तैजस इत्यादिश्रुत्या ज्ञानकर्मसमुच्चयेन मोक्षप्राप्तिकथनादपेक्षत इति प्राप्ते विद्याया मुक्तिहेतुत्वादविद्यानिवृत्त्याख्यमुक्तौ न कर्मापेक्षेति सिद्धान्तयति- पुरुषार्थ इति ।
अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते ।
पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्मविद्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुतिर्व्याख्येयेति भावः ।
मुक्तावेव कर्मणामसामर्थ्यादनपेक्षा विद्यायां त्वस्ति चित्तशुद्धिद्वारा तेषामपेक्षेत्यधिकं वक्तुमयमुपसंहार इत्युपसंहारसूत्रस्य फलमाह- अधिकेति ॥25॥
एन्द् ब्स्र्प्_3,4.5.25
स्तर्त् ब्स्र्प्_3,4.6.26ः
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत्

3.4.27

अधिकमाह- सर्वापेक्षा ।
यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः ।
तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः ।
फलं सिद्धान्ते तत्सिद्धिरिति भेदः ।
अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते ।
प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् ।
नच पारंपर्ये तृतीयाश्रुतिविरोधः ।
ज्वालाद्वारा पारंपर्ये ऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् ।
नच शुद्धेर्द्वारत्वे मानाभावः ।
ऽज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्ततेऽइति स्मृतेः ।
ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽइत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति- इदमिति ।
नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति ।
तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह- विविदिषासंयोगाच्चेति ।
इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः ।
कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह- अथेत्यादिना ।
कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते ।
कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् ।
स्पष्टमन्यत् ॥26॥
एन्द् ब्स्र्प्_3,4.6.26
स्तर्त् ब्स्र्प्_3,4.6.27ः
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात्

3.4.28

एवं विद्योत्पत्तौ बहिरङ्गानि कर्माण्युक्त्वान्तरङ्गण्याह- शमेति ।
विद्यास्तुत्यर्थत्वेनैकवाक्यत्वसंभवे वर्तमानोक्तिभङ्गेन विधिकल्पनमयुक्तं विद्यावाक्याद्भेदप्रसङ्गात् ।
अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति पराभिप्रायमनूद्याङ्गीकरोति- तथापि त्विति ।
शमादेरावश्यकत्वान्न शब्दमात्रलभ्या विद्येत्यर्थः यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह- नेति ब्रूम इति ।
अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमादिविशिष्टश्रवणमत्र विधीयते ।
यदि तु ऽलोकमिच्छन्तः प्रव्रजन्तिऽ, ऽज्ञानं पुरस्कृत्य संन्यसेत्ऽइत्यादि श्रुतिस्मृतिषु फलवत्त्वेनोत्पन्नसंन्यासस्याङ्गत्वायोगात्, श्रोतव्य इति विहितश्रवणानुवादेनानेकशमादिविधाने वाक्यभेदापातात्, पश्येदिति च प्रकृत्या श्रवणलक्षणादोषाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्रागनुष्ठोयत्वे ऽपि श्रवणवज्ज्ञानार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमादिसमुच्चयविधिरित्यनवद्यम् ।
यः पूर्वं यज्ञादिश्रुतेः स्तुत्यर्थत्वाङ्गीकारः आपाततो गुडजिह्विकान्यायेन शमादिस्वीकारार्थं कृतस्तमिदानीं त्यजति- यज्ञादीन्यपीति ।
यज्ञादीनां विद्यासाधनत्वरूपसंयोगस्यापूर्वत्वादवान्तरवाक्यभेदेन विधिः स्वीक्रियत ।
ब्रह्मविद्यावाक्येन महावाक्यैकवाक्यता चेत्यर्थः ।
परमप्रकरणे ऽप्यवान्तरविधिरित्यत्र पूर्वतन्त्रसंमतिमाह- तस्मात्पूषेति ।
दर्शपूर्णमासप्रकरणे श्रुतं पूषा प्रपिष्टभाग इति ।
तत्र पूषा देवता पिष्टभागो वा दर्शपूर्ममासयोर्नास्ति ।
अतः समासात्प्रतीतस्य कालत्रयानवमृष्टस्य द्रव्यदेवतासंबन्धस्याविनाभावेन यागविध्युपस्थापकत्वात् प्रयोगज्ञानाय विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः ।
पौष्णं पेषणमिति सूत्रे विचारितमित्यर्थः ।
ऽस्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःऽइत्याद्याः स्मृत्यः ।
कर्मणां ज्ञानहेतुत्वे शमादिवद्यावज्ज्ञानोदयमनुवृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह- तत्रापीति ।
दृष्टविक्षेपनिवृत्तिद्वारा शमादीनां शानार्थत्वादनुवृत्तिर्न कर्मणामदृष्टद्वारा ज्ञानार्थत्वादिति भावः ॥27॥
एन्द् ब्स्र्प्_3,4.6.27
स्तर्त् ब्स्र्प्_3,4.7.28-29ः
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात्

3.4.29

अबाधाच् च

3.4.30

सर्वान्नानुमतिः एवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः ।
जग्धं भक्षितम् ।
अपूर्वत्वाद्विध्यश्रुतेश्च संशयः ।
अपूर्वत्वाद्यज्ञादिवद्विधिः कल्प्य इति इति पूर्वपक्षयति- विधिरिति ।
अत्र भक्ष्याभक्ष्यनियमत्यागस्य विद्याङ्गत्वसिद्धिः फलं सिद्धान्ते तु विद्यास्तुतिरिति विवेकः ।
न कलञ्जं भक्ष्येदिति शास्त्रं प्राणविद्व्यतिरिक्तविषयम् ।
यथा ग्राम्यकर्मणि वामदेव्यसामोपासकव्यतिरिक्तविषयं परस्त्रीनिषेधशास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति- नेदमिति ।
प्राणविद्याविधिसंनिधेरशक्यत्वाच्च स्तुतिरेव न विधिः कल्प्यः निषेधशास्त्रविरोधात् कॢप्तो हि विधिः सामान्यशास्त्रबाधको नतु कल्प्य इति भावः ।
स्वस्थस्य प्राणविदो न सर्वान्नानुमतिरित्यत्र लिङ्गं वदन् सूत्रं योजयति- तद्दर्शयतीति ।
मटच्यो रक्तक्षुद्रपक्षिणस्तैर्हतेषु कुरुदेशस्थसस्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छन्निभ्याग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामिखादितानर्धभक्षितान् कुत्सितमाषान् याचयित्वा भक्षितवान् ।
इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच ।
अन्नांशे मम आपदस्ति ।
जलपानं तु स्वेच्छातस्तडागादौ लभ्यत इति माषान् खादित्वावशिष्टाञ्जायायै दत्तवान् ।
सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ ।
स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तोत्रादीनाक्षिप्य प्राणादिकां प्रास्तावादिदेवतामुपदीश्य धनं प्राप्य स्थित इति भावः ।
अत्रोच्छिष्टभक्षणजलत्यागात्मकशिष्टाचारलिङ्गाच्छ्रौतादनापदि विदुषाप्यभक्ष्यं न भक्षणीयमिति सूच्यत इति भावः ॥28 ॥ ॥29॥
एन्द् ब्स्र्प्_3,4.7.28-29
स्तर्त् ब्स्र्प्_3,4.7.30ः
अपि च स्मर्यते

3.4.31

सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह- तथा मद्यं नित्यं ब्रह्मण इति ।
वर्जयोदिति शेषः ।
कुत इत्याशङ्क्य मरणान्तप्रायश्चित्तविधानादित्याह- सुरापस्येति ।
उष्णामतितप्तां सुरामिति शेषः ।
इतश्च सा न पेयेत्याह- सुरापा इति ॥30॥
एन्द् ब्स्र्प्_3,4.7.30
स्तर्त् ब्स्र्प्_3,4.7.31ः
शब्दश् चातो ऽकामकारे

3.4.32

उदाहृतस्मृतीनां मूलश्रुतिमाह- शब्दश्चेति ।
कामकारो यथेष्टप्रवृत्तिः सो ऽपि निषेधो ऽपि उपपन्नतरो भवति ।
न ह वा एवंविदीत्यस्यार्थवादत्वात् ।
यद्ययमपि विधिः स्यात्तर्हि विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्सुरापाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः ॥31॥
एन्द् ब्स्र्प्_3,4.7.31
स्तर्त् ब्स्र्प्_3,4.8.32ः
विहितत्वाच् चाश्रमकर्मापि

3.4.33

विहितत्वाच्चाश्रमकर्मापि ।
नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह- तत्रेति ।
ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् ।
तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे ।
सिद्धान्ते तूभयथानुष्ठानं फलम् ॥32॥
एन्द् ब्स्र्प्_3,4.8.32
स्तर्त् ब्स्र्प्_3,4.8.33ः
सहकारित्वेन च

3.4.34

सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि ।
तेषां भावस्तत्वं तेनेत्यर्थः ।
विद्यया सह फलकारित्वं सहकारिपदात्प्राप्तं निरस्यति- नचेदमिति ।
विद्याया अविहितत्वान्नाङ्गपेक्षास्ति ।
अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्षस्यासाध्यत्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः ।
तुल्यबलश्रुतिद्वयेन विनियोगपृथक्त्वं संयोगभेदस्ततो न विरोधः ।
कामनाया अनित्यत्वे ऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् ।
सत्यां कामनायां काम्यप्रयोगेनैव नित्यत्वसिद्धेर्न कश्चिद्विरोधः ।
इदञ्च ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइति सूत्रे चिन्तितम् ।
यथा ऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति ।
अतः सति वाक्यद्वये विनियुक्तविनियोगो न विरुध्यत इत्यर्थः ॥33॥
एन्द् ब्स्र्प्_3,4.8.33
स्तर्त् ब्स्र्प्_3,4.8.34ः
सर्वथापि त एवोभयलिङ्गात्

3.4.35

ननु नित्याग्निहोत्रादिभ्यो भिन्ना एवापूयर्वज्ञादयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनियुक्तविनियोगस्तत्राह- सर्वथापीति ।
नित्यत्वे काम्यत्वे चेत्यर्थः ।
कुण्डपायिनामयने मासमग्निहोत्रं जुह्वतीत्याख्यातस्य साध्यहोमवाचित्वात्तदेकार्थकाग्निहोत्रपदस्य व्यवहितसिद्धाग्निहोत्रपरामर्शकत्वायोगान्मासगुणविशिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुबन्तानामाख्यातेनैकार्थत्वाभावात्सिद्धव्यवहितकर्मानुवादकत्वात्तेषामेव कर्मणां ज्ञानार्थत्वविधिरिति भावः ।
सिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि शुद्धाख्यसंस्कारद्वारा ज्ञानार्थककर्माभेदे लिङ्गमित्याह- यस्यैत इति ॥34॥
एन्द् ब्स्र्प्_3,4.8.34
स्तर्त् ब्स्र्प्_3,4.8.35ः
अनभिभवं च दर्शयति

3.4.36

ब्रह्मचर्यादिकर्मणां प्रतिबन्धध्वंसद्वारा विद्यार्थत्वे लिङ्गमाह- अनभिभवं चेति ॥35॥
एन्द् ब्स्र्प्_3,4.8.35
स्तर्त् ब्स्र्प्_3,4.9.36-37ः
अन्तरा चापि तु तद्दृष्टेः

3.4.37

अपि च स्मर्यते

3.4.38

अन्तरा चापि तु तद्दृष्टेः ।
अनाश्रमिणां जपादिकर्मसत्त्वान्निन्दितत्वाच्च संशये सति आश्रमकर्मणामेव विद्याहेतुत्वश्रुतेरनाश्रमस्य निन्दितत्वाच्चानधिकार इति पूर्वपक्षः ।
तत्रानाश्रमकर्मणां विद्याहेतुत्वासिद्धिः ।
सिद्धान्ते तत्सिद्धिरिति फलम् ॥36 ॥ ॥37॥
एन्द् ब्स्र्प्_3,4.9.36-37
स्तर्त् ब्स्र्प्_3,4.9.38ः
विशेषानुग्रहश् च

3.4.39

रैक्वादीनां विद्यावत्त्वलिङ्गस्य जन्मान्तराश्रमकर्मणान्यथासिद्धेरनाश्रमकर्मणो विद्यार्थत्वप्रापकं मानान्तरं वाच्यमिति शङ्कते- ननु लिङ्गमिति ।
अनाश्रमित्वाविरुद्धानां वर्णमात्रप्राप्तधर्माणां विद्यार्थत्वे मानमाह- तथाचेति ।
मैत्रो दयावानित्यर्थः ।
नन्वनाश्रमिणां कर्म भवतु विद्याहेतुस्तथापि तेषां न श्रवणादावधिकारः संन्यासाभावादित्यत आह- दृष्टार्था चेति ।
बन्धकाज्ञानध्वस्तिफलकविद्याकामस्य श्रवणे ऽधिकारः ।
संन्यासो ऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्यनङ्गत्वादिति भावः ॥38॥
एन्द् ब्स्र्प्_3,4.9.38
स्तर्त् ब्स्र्प्_3,4.9.39ः
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च

3.4.40

तर्ह्याश्रमित्वं वृथेत्यत आह- अतस्त्विति ।
पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नोतीत्यर्थः ॥
अत्र पुण्यकृत्त्वलिङ्गादाश्रमित्वं ज्यायः पुण्योपचये शीघ्रं विद्यालाभादनाश्रमस्य निन्दितत्वाच्चेति भावः ॥39॥
एन्द् ब्स्र्प्_3,4.9.39
स्तर्त् ब्स्र्प्_3,4.10.40ः
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः

3.4.41

तद्भूतस्य तु ।
उत्तमाश्रमात्पूर्वाश्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्याहेतुरनाश्रमिकर्मवदिति संगतिः, पूर्वपक्षफलं चैतत् ।
सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् ।
रागादिप्राबल्यात्प्रच्युतिनिषेधाच्च प्रच्युतिः प्रामाणिकी न वेति संशयमाहः ।
सिद्धान्तसूत्रे नियमं व्याचष्टे- तथाहीति ।
अत्यन्तमिति नैष्ठिकत्वनियमः ।
अरण्यमित्येकान्तोपलक्षितं पारिव्राज्यं गृह्यते ।
तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मात्पारिव्राज्यान्न पुनरेयान्न प्रच्यवेदिति उनिषद्रहस्यमित्यर्थः ।
अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे- यथाचेति ।
शिष्टाचाराभावमाह- नचैवमिति ।
ऽचण्डालाः प्रत्यवसिताःऽइति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः ॥40॥
एन्द् ब्स्र्प्_3,4.10.40
स्तर्त् ब्स्र्प्_3,4.11.41ः
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात्

3.4.42

नचाधिकारिकम् ।
अवकीर्येत व्यभिचरेदित्यर्थः ।
अवकीर्णं योनौ निषिक्तं रेतो ऽस्यास्तीत्यवकीर्णी ।
अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उपपातकत्वात्पतनस्मृतेश्च संशयः ।
प्रच्युतस्य यज्ञादिकं निष्फलमित्युक्तं तद्वत्प्रायश्चित्तमापि निष्फलमिति पूर्वपक्षयति- नेत्युच्यत इति ।
अत्र कृतप्रायश्चित्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः ।
यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः ।
दारसंबन्धोत्तरकालविहिताधानस्य संप्रत्यप्राप्तकालत्वेनाहवनीयाभावात्तद्वदवकीर्णिनो ब्रह्मचारिणः प्रायश्चित्तपशुर्गर्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्रायश्चित्तमाधिकारिकं तदुपकुर्वाणस्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति ॥41॥
एन्द् ब्स्र्प्_3,4.11.41
स्तर्त् ब्स्र्प्_3,4.11.42ः
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम्

3.4.43

उपपूर्वमिति ।
उपपदं पूर्वं यस्य पातकस्य तदुपपातकमित्यर्थः ।
ऽप्रायश्चित्तं न पश्यामिऽइति दर्शनाभावस्मृतेः प्रायश्चित्ताभावापरत्वं कल्पयित्वा तन्मूलश्रुतिकल्पनात्प्रागेव कॢप्तसाधारणश्रुत्या प्रायश्चित्तसद्भावसिद्धेः ।
कल्पनं नोदेति कॢप्तश्रुतिविरोधादिति भावः ।
प्रायश्चित्तस्य भावाभावसिद्ध्योः समत्वे ऽपि भावप्रसिद्धिः श्रुतिमूलत्वादादर्तव्येत्यत्र संमतिमाह- तदुक्तमिति ।
यवमयश्चरूरित्यत्र यवशब्दङ्केचिद्दीर्घशूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु ।
अतः कस्य चरुः कार्य इति संदेहे वृद्धप्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धान्तः-शास्त्रमूला प्रतिपत्तिर्ग्राह्या शास्त्रनिमित्तत्वाद्धर्मादिज्ञानस्य ।
तथाच ऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोदमानास्तिष्ठन्ति, इति शास्त्रमूलत्वाद्दीर्घशूकप्रयोगस्यैवादर इत्यर्थः ।
स्मृतेर्गतिमाह- प्रायश्चित्तेति ।
ब्रह्मचर्यरक्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भगवदत्रिणेत्यर्थः ।
नैष्ठिकवद्यतिवनस्थयोरपि प्रमादाद्ब्रह्मचर्यभङ्गे प्रायश्चित्तमस्तीत्याह- एवमिति ।
कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत ।
यतिस्तु सोमलतावर्जं वर्धयेत् ।
ऽसर्वपापप्रसक्तो ऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावन एव च ।
उपापातकसङ्घेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥
ऽइत्यादिस्वशास्त्रविहितध्यानप्राणायामादिसंस्कारो ऽपि भिक्षुणा कार्य इत्यर्थः ।
आदिपदात् ऽमनोवाक्कायजान्दोषानज्ञानोत्थान्प्रमादजान् ।
सर्वान्दहति योगाग्निस्तूलराशिमिवानलः ।
नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश ।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ।
ऽइत्यादिवाक्यं ग्राह्यम् ॥42॥
एन्द् ब्स्र्प्_3,4.11.42
स्तर्त् ब्स्र्प्_3,4.12.43ः
बहिस् तूभयथापि स्मृतेर् आचाराच् च

3.4.44

बहिस्तूभयथापि ।
कृतप्रायश्चित्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्धत्वात्साधनमिति प्राप्ते प्रायश्चित्तात्परलोके तेषां शुद्धत्वे ऽप्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति- यद्यूर्ध्वेति ।
सुगमं भाष्यम् ॥43॥
एन्द् ब्स्र्प्_3,4.12.43
स्तर्त् ब्स्र्प्_3,4.13.44ः
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः

3.4.45

स्वामिनः फलश्रुतेः ।
अङ्गाश्रितोपास्तिषूभयकर्तृकत्वसंभवात्संशयः ।
यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयस्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्युत्सर्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह- किमिति ।
अत्र कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यजमानगामिस्वतन्त्रफलाः किमु वाच्यं स्वनिष्ठब्रह्मविद्यायाः स्वातन्त्र्यमिति फलं विवेक्तव्यम् ।
अतः पादसंगतिः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चप्रकारे साम्नि वृष्टिध्यातुर्वर्षसमृद्धिः फलमिति श्रुत्यर्थः ।
श्रुतं फलं ऋत्विग्गतं किं न स्यादित्यत आह- तच्चेति ।
यथासाङ्गक्रत्वधिकृताधिकारत्वाद्गोदोहनस्य फलं क्रत्वधिकारिगतं तद्वदङ्गोपासनस्यापि फलं तद्गतमेवेत्यर्थः ।
अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह- फलं चेति ।
यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते- नन्विति ।
उद्गानेन साधयतीत्यर्थः ।
याजमानं फलमित्युत्सर्गस्यासति बाधकवचने सिद्धिरिति समाध्यर्थः ।
तस्मात्फलभोक्तृत्वादित्यर्थः ॥44॥
एन्द् ब्स्र्प्_3,4.13.44
स्तर्त् ब्स्र्प्_3,4.13.45-46ः
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते

3.4.46

श्रुतेश्च

3.4.47

उपासनमार्त्विज्यं ऋत्विक्कर्तृकमित्यत श्रौतं लिङ्गमाह- तथाचेति ।
तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यातवान्ध्यात्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः ।
यजमानेन स्वगामिफलकसाङ्गप्रयोगकरणायर्त्विजां क्रीतत्वात्कर्तृत्वे ऽपि न तत्फलभाक्त्वमुत्सर्गस्य बाधकाभावादित्युक्तत्वात् ।
क्रयणद्वारा कर्तृत्वभोक्तृत्वसामानाधिकरण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः ॥45 ॥ ॥46॥
एन्द् ब्स्र्प्_3,4.13.45-46
स्तर्त् ब्स्र्प्_3,4.14.47ः
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्

3.4.48

सहकार्यन्तरविधिः ।
यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनो ऽपि ब्राह्मण आपातज्ञानरूपपण्डावान्पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मननेनासंभावनानिरासेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातुमिच्छेदेवं मननश्रवणे कृत्वादानन्तरं मुनिर्निदिध्यासनकृत्स्यादेवममौनं च मौनादन्यद्बाल्यपाण्डित्यद्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञानसामग्रीपौष्कल्यानन्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः ।
मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः ।
यथा तं ह बक इत्यादिवाक्यशेषादुद्गीथाद्युपासनस्यार्त्विज्यत्वनिर्णयस्तद्वदथ ब्राह्मण इति विधिहीनवाक्यशेषान्मौनस्याप्यविधेयत्वनिश्चय इति पूर्वपक्षमाह- न विधीयत इति ।
अत्र ध्यानस्याननुष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् ।
यदि मौनं पारिव्राज्यं तदा वाक्यान्तरप्राप्तमनूद्यते बाल्यविधिप्रशंसार्थम् ।
यदि ज्ञानं तदा पाण्डित्यशब्दात्प्राप्तमिति पूर्वपक्षग्रन्थार्थः ।
मुनिशब्दाद्विज्ञानातिशयः प्रतीयते तस्य ज्ञानमात्रवाचिपाण्डित्यशब्दान्न प्राप्तिः ।
नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयुज्यमानत्वात् ।
तस्मादप्राप्तं मौनमपूर्वत्वाद्विधिं कल्प्यतीति सिद्धान्तयति- एवमित्यादिना ।
आपस्तम्बप्रयोगस्य गतिमाह- इतराश्रमेति ।
किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह- निर्वेदनीयत्वेति ।
नच त्रयाणां विधाने वाक्यभेदो दोषः ।
उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः ।
कस्येदं ध्यानं विधीयत इत्याह- तद्वत इति ।
आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः ।
सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह- नन्वित्यादिना ।
ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्ये ऽङ्गविधिवदित्याह- विध्यादिवदिति ।
प्रधानमारभ्याङ्गपर्यन्तो विधिः ।
तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः ।
एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति ।
विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः ॥47॥
एन्द् ब्स्र्प्_3,4.14.47
स्तर्त् ब्स्र्प्_3,4.14.48ः
कृत्स्नभावात् तु गृहिणोपसंहारः

3.4.49

समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः ।
आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः ॥48॥
एन्द् ब्स्र्प्_3,4.14.48
स्तर्त् ब्स्र्प्_3,4.14.49ः
मौनवद् इतरेषाम् अप्य् उपदेशात्

3.4.50

संन्यासगार्हस्थ्यद्वयमत्र सूत्रकृतोक्तम् ।
ततो ऽन्यदाश्रमद्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति- मौनवदिति ।
आश्रमद्वयवदित्यर्थः ।
इतरयोरपीति वाच्ये बहूक्तिरवान्तरभेदमपेक्ष्य ।
स चास्माभिः प्राग्दर्शितः ॥49॥
एन्द् ब्स्र्प्_3,4.14.49
स्तर्त् ब्स्र्प्_3,4.15.50ः
अनाविष्कुर्वन्न् अन्वयात्

3.4.51

अनाविष्कुर्वन्नन्वयात् ।
तत्र बाल्ये विषये तद्धितस्य भावार्थत्वासंभवात्कर्मार्थत्वं गृहीत्वा तिष्ठन्मूत्रत्वादिकर्मणो ऽप्ररूढेन्द्रियत्वादिरूपभावशुद्धेश्च बालकर्मत्वाविशेषात्संशयमाह- तत्रेति ।
पूर्वपक्षे विद्याङ्गत्वेन तिष्ठन्मूत्रत्वादेरप्यनुष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् ।
पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसिद्धत्वात् ध्यानं विधेयमित्युक्तम्, तद्वद्बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधिग्रहणमित्याह- किं ताविदिति ।
कामतश्चरणवदनभक्षणानि यस्य स कामचारवादभक्षणस्तस्य भावस्तत्तेत्यर्थः ।
यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्यविधिबलात्पातित्यशास्त्रमन्यविषयमिति भावः ।
ऽयस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छतिऽइत्यादि शौचभिक्षादिनियमविधिशास्त्राविरुद्धस्य भावशुद्धाख्यबाल्यस्य विधिसंभवान्न यथेष्टचेष्टाविधिरिति सिद्धान्तयति- एवमिति ।
प्रधानविरोधित्वाच्च न तद्विधिरित्याह- प्रधानेति ।
भावशुद्धेर्विद्योपकारकत्वेनान्वयादनाविष्कुर्वन्भवेदिति बाल्यविध्यर्थ इति सूत्रयोजना ॥50॥
एन्द् ब्स्र्प्_3,4.15.50
स्तर्त् ब्स्र्प्_3,4.16.51ः
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात्

3.4.52

ऐहिकमपि संन्यासादिबाल्यान्तं साधनजातमुक्त्वा तत्साध्यविद्याजन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फलसंभवात्संशयमाह- सर्वेत्यादिना ।
कारीरीष्टिवदैहिकफलत्वनियमः श्रवणादीनामिति पूर्वपक्षमाह- तिन्तावदिति ।
नन्वामुष्मिकफलकयज्ञादिसाध्यविद्यायाः कथमैहिकत्वनियम इत्यत आह- यज्ञादीन्यपीति ।
शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षाद्विद्याहेतुषु घटितेषु विद्याविलम्बो न युक्तः ।
दृश्यते च विलम्बः अतः श्रवणादेर्विद्याहेतुत्वमसिद्धमिति पूर्वपक्षे फलम् ।
प्रतिबन्धकवशाद्विलम्बे ऽपि हेतुत्वसिद्धिरिति सिद्धान्ते फलं मत्वा चित्रादिवदनियतफलं श्रवणादिकमिति सिद्धान्तयति- एवमिति ।
ननु प्रारब्धकर्मविशेषेण श्रवणादिफलप्रतिबन्धः किमिति क्रियते श्रवणादिनैव कर्मविपाकप्रतिबन्धः किं न स्यादित्यत आह- उपस्थितविपाकत्वं चेति ।
देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः ।
तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह- यानि चेति ।
विपाचकत्वं पलौन्मुख्यहेतुत्वम् ।
ननु तर्हि श्रवणादिविपाचकदेशादिकं कीदृशमित्यत आह- शास्त्रमपीति ।
फलबलाद्देशादिज्ञानमिति भावः ।
तथापि कर्मणैव श्रवणादिप्रतिबन्धो न वैपरीत्यमित्यत्र को हेतुस्तमाह- साधनेति ।
प्रतिबन्धकत्वशक्तिरपि फलबलाज्ज्ञातव्येति भावः ।
प्रतिबन्धकसद्भावे श्रौतं स्मार्तं च लिङ्गमाह- तथाचेत्यादिना ।
शृण्वन्तो ऽपि न विद्युरित्युक्तेः प्रतिबन्धसिद्धिः ।
आत्मनो यथावद्वक्ताप्याश्चर्यः अद्भुतवत् कश्चिदेव भवति ।
तिष्ठतु लब्धा साक्षात्कारवान्, परोक्षतो ज्ञाताप्याश्चर्यः ।
कुशलेनाचार्येणानुशिष्टो ऽपीत्यर्थः ॥51॥
एन्द् ब्स्र्प्_3,4.16.51
स्तर्त् ब्स्र्प्_3,4.17.52ः
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc