भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 3.1

3.1.1

एवं विषयमुक्त्वा दोषं शङ्कते-#अत्राहेति ।
तदुत्तरत्वेन सूत्रं व्याचष्टे-#तुशब्देनेति ।
स्वभावाधिक्यं वैशेष्यं किमर्थे कृतमित्यत आह-#व्यवहारप्रसिद्ध्यर्थमिति ।
एवं स्मृतिन्यायमतान्तरश्रुतिभिरविरोधो ब्रह्मणि वेदान्ततात्पर्यस्येति सिद्धम् ॥22॥
एन्द् ब्स्र्प्_2,4.9.22
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य चतुर्थः पादः ॥4॥
#इति लिङ्गशरीरश्रुतीनां विरोधपरिहाराख्यश्चतुर्थः पादः ॥
#इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये ऽविरोधाख्यो द्वितीयो ऽध्यायः ॥
अथ तृतीयो ऽध्यायः ।
यं हि वैराग्यसंपन्नास्तत्त्वमर्थविवेकिनः ।
लभन्ते साधनैर्दान्तास्तं सीतानायकं भजे ॥1॥
स्तर्त् ब्स्र्प्_3,1.1.1ः
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्

3.1.2

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ।
वृत्तमनूद्य तृतीयाध्यायार्थमाह- द्वितीय इत्यादिना ।
अविरुद्धे वेदान्तार्थे तज्ज्ञानसाधनचिन्तावसर इत्यनयोर्हेतुहेतुमद्भावः ।
लिङ्गोपाधिसिद्धौ तदुपहितजीवसंसारचिन्तेति पादयोरपि तद्भावसङ्गतिः ।
अत्र प्रथमपादे वैराग्यम् ।
द्वितीये स्वप्नाद्यवस्थोक्त्या त्वंपदार्थो ब्रह्मतत्त्वं चोच्ये ।
तृतीये वाक्यार्थस्तदर्थमुपासनाश्च विचार्यन्ते ।
चतुर्थपादार्थमाह- सम्यग्दर्शनादिति ।
दर्शनोपायाः संन्यासादयः ।
मुक्तिरूपफलस्य स्वर्गवत्तारतम्यनियमाभावः एकरूपत्वमिति यावत् ।
प्रसङ्गागतं देहात्मदूषणम् ।
पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्नित्वध्यानं पञ्चाग्निविद्या ।
यस्मात् कर्मणा गत्यागतिरूपो ऽनर्थस्तस्मात् कर्मफले जुगुप्सां घृणां विरक्तिं कुर्वीतेति पञ्चाग्निविद्योपसंहारे श्रवणाद्वैराग्यार्थं प्रदर्श्यते इत्यन्वयः ।
शास्त्रादिसूत्रे नित्यानित्यविवेककृतं वैराग्यमुक्तम्, इह तद्दार्ढ्याय गत्यागतिक्लेशभावनाकृतं तदुच्यत इत्यपौनरुक्त्यम् ।
अधिकरणविषयमाह- जीव इति ।
अविद्या प्रसिद्ध ।
विद्येति पाठे उपासना ग्राह्या ।
कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः ।
अथ मरणकाले प्राणा हृदये जीवेनैकीभवन्तीत्यर्थः ।
रूपं शरीरं, पञ्चीकृतभूतभागाः उत्तरदेहपरिणामिनो भूतसूक्ष्माः ।
वेदान्तार्थज्ञानसाधनविचारत्वात् सर्वाधिकरणानां, श्रुतिशास्त्राध्यायसङ्गतयः वैराग्यफलकत्वादेतत्पादसङ्गतिः ।
पूर्वाधिकरणे व्यवहारार्थं पञ्चीकरणमुक्तं स व्यवहारो ऽत्र निरूप्यत इति फलफलिभावो ऽवान्तरसङ्गतिः ।
अत्र पूर्वपक्षे निराश्रयप्राणगत्यभावात्, न वैराग्यं, सिद्धान्ते भूताश्रयप्राणगतेर्वैराग्यमिति फलभेदः ।
तेजोमात्राश्चक्षुरादयः, पश्यति जिघ्रतीति वाक्यशेषात् ।
आपः पञ्चस्वग्निषु हुताः पञ्चम्यामाहुतौ हुतायां यथा पुरुषशब्दवाच्याः पुरुषात्मना परिणमन्ते तथा किं त्वं वेत्थेति श्वेतकेतुं प्रति राज्ञः प्रवाहणस्य प्रश्नः, तस्य चोत्तराज्ञाने तत्पितरं प्रति राजोवाच ऽअसौ वाव लोके गौतमाग्निस्तत्र श्रद्धाख्या आपः आहुतिः पर्जन्याग्नौ सोमरूपा इह ख्ल्वग्निहोत्रे श्रद्धया हुता दध्यादिरूपा आपो यजमानसंलग्नाः स्वर्गं लोकं प्रप्य सोमाख्यदिव्यदेहात्मना स्थिताः कर्मान्ते द्रुताः पर्जन्ये हूयन्ते ततो वृष्टिरूपाः पृथिव्या अन्नरूपाः पुरुषे रेतोरूपाः योषिति हुताः आपः पुरुषशब्दवाच्याः पुमात्मका भवन्तिऽइति निरूपणं कृतम् ।
नन्वेतद्देहं त्यक्त्वाद्भिः सह गतस्य पश्चाद्देहान्तरप्राप्तिरित्ययुक्तम् ।
यथा तृणजलायुका तृणान्तरं गृहीत्वा पूर्वतृणं त्यजति तथा जीवो देहान्तरं गृहीत्वा पूर्वदेहं त्यजतीति श्रुतिविरोधादिति शङ्कते- नन्वन्येति ।
इहैव कर्मायत्तभाविदेहं देवो ऽहमित्यादिभावनया गृहीत्वा पूर्वदेहं त्यजतीति श्रुत्यर्थः, अतो न विरोध इति समाधत्ते- तत्रापीति ।
भावनाया दीर्घीभावो भाविदेहविषयत्वम् ।
घटाकाशवदुपहितो जीवः सूक्ष्मोपाधिगत्या लोकान्तरं गच्छतीति पञ्चाग्निश्रुत्युक्तः प्रकारस्तद्विरोधादन्याः कल्पनाः सर्वा अनादर्तव्या इत्यन्वयः ।
साङ्ख्यकल्पनामाह- व्यापिनामिति ।
सुगतकल्पनामाह- केवललस्येति ।
निर्विकल्पकज्ञानसन्तानरूपस्यात्मनो देहान्तरे शब्दादिसविकल्पकज्ञानाख्यवृत्तिलाभो भवतीत्यर्थः ।
काणादकल्पनामाह- मन इति ।
देहान्तरं प्रति मनोमात्रं गच्छति, इन्द्रियाणि तु नूतनान्येवारभ्यन्ते ।
दिगम्बरकल्पनामाह- जीव इति ॥1॥
एन्द् ब्स्र्प्_3,1.1.1
स्तर्त् ब्स्र्प्_3,1.1.2ः
त्र्यात्मकत्वात् तु भूयस्त्वात्

3.1.3

ननु पाकस्वेदगन्धरूपकार्यत्रयोपलब्धेस्त्र्यात्मको देह इत्ययुक्तम् ।
प्राणावकाशयोरप्युपलब्ध्या देहस्य पञ्चभूतात्मत्वादित्यरुच्या व्याख्यान्तरमाह- पुनश्चेति ।
देहधारकत्वाद्धातवस्तैस्त्रिधातुत्वात्र्यायात्मक इत्यन्वयः ।
देहस्य केवलाब्जत्वे वातं पित्तं च वायव्यं तैजसं न स्यातामिति भावः ।
पृथिवीतरभूतापेक्षयापां बाहुल्यम् ।
किञ्च देहनिमित्तानां कर्मणामब्बाहुल्यात्ताभिर्भूतान्तराण्युपलक्ष्यन्त इत्याह- कर्म चेत्यादिना ॥2॥
एन्द् ब्स्र्प्_3,1.1.2
स्तर्त् ब्स्र्प्_3,1.1.3ः
प्राणगतेश् च

3.1.4

उत्क्रान्तौ प्राणा देहबीजपञ्चभूताश्रयाः प्राणत्वज्जीवद्देहस्थप्राणवदित्याह- प्राणगतेश्चेति ॥3॥
एन्द् ब्स्र्प्_3,1.1.3
स्तर्त् ब्स्र्प्_3,1.1.4ः
अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात्

3.1.5

प्राणानां गतिरसिद्धेत्याशङ्क्य निषेधति- अग्न्यादीति ।
अदर्शनादोषधिवनस्पतिगमनस्येति शेषः ।
लोमान्यपियन्तीत्यर्थः ॥
प्राणानामग्न्यादिषु लयस्य मुख्यत्वे जीवस्य गतिभोगयोरयोगात्सर्वे प्राणा अनूत्क्रामन्तीति विस्पष्टश्रुतेर्लोमादिगौणलयपाठाच्च गौणत्वमित्यर्थः ॥4॥
एन्द् ब्स्र्प्_3,1.1.4
स्तर्त् ब्स्र्प्_3,1.1.5ः
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः

3.1.6

भूतान्तरयुक्तानामपां गतिमुक्त्वा पुरुषवचस्त्वं तासामाक्षिप्य समाधत्ते- प्रथम इति ।
ननु प्रथमपदं व्यर्थमुत्तराग्निष्वप्यपामश्रवणादित्याशङ्क्य सोमवृष्ट्यन्नरेतसामब्रूपत्वादुत्तरत्र तासां श्रवणमस्ति, न प्रथम इत्याह- यदिनामेति ।
पञ्चाग्निष्वपामाहुतित्वे सिद्धे तासां पञ्चम्यामाहुतौ पुरुषवचस्त्वं भवेन्न तत्सिद्धं प्रथमाग्नौ तासामनाहुतित्वादिति शङ्कार्थः एवं हि श्रद्धाशब्देनापां ग्रहे सति प्रश्नोत्तरोपसंहाराणां संगानादेकार्थत्वादेकवाक्यतोपपद्यते, अग्रहे तु चतुर्ष्वग्निष्वेवापामाहुतित्वाच्चतुर्थ्यामाहुताविति वाच्यं, अतः प्रश्नोपसंहारयोः पञ्चम्यामिति श्रवणात्, प्रथमाग्नावप्याप एव ग्राह्या इति समाधानार्थः ।
अनपः अद्भ्यो ऽन्यतः ।
एतदेवेति ।
श्रद्धाशब्दस्याबर्थकत्वं दर्शयतीत्यर्थः ।
उपपत्तेरित्यस्यार्थान्तरमाह- श्रद्धाकार्यमिति ।
तस्याः श्रद्धाहुतेः सोमः संभवतीत्यादिना श्रद्धासोमादीनां पूर्वपूर्वपरिणामत्वं श्रुतं ततो द्रवपरिणामत्वात् श्रद्धाया अप्त्वं प्रत्ययात्मकमुख्यश्रद्धाया आहुतित्वायोगाच्चेत्यर्थः ।
श्रद्धाशब्दस्याप्सु सूक्ष्मत्वगुणेन वृत्तिमुक्त्वा लक्षणां वक्तुं श्रद्धाया अद्भिरेककर्मयोगित्वं हेतुत्वं वा संबन्धमाह- श्रद्धापूर्वकेति ।
अस्मै यजमानाय ।
स्नानाद्यर्थमापः श्रद्धां संनमन्ते जनयन्तीति श्रुत्यर्थः ॥5॥
एन्द् ब्स्र्प्_3,1.1.5
स्तर्त् ब्स्र्प्_3,1.1.6ः
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः

3.1.7

अपां गतिमुपेत्याद्भिः सह जीवानां गतिमाक्षिप्य समाधत्ते- अथापीत्यादिना ।
द्युलोकाग्नौ श्रद्धाहुतेः सोमो राजा संभवतीत्युक्त्वा वाक्यशेषे धूमादिमार्गेण आकाशाच्चन्द्रमसं प्राप्ता इष्ट्यादिकारिण एष सोमो राजेत्युक्ताः, अतः सोमराजाशब्दसामान्यादिष्ट्यादिकारिणां जीवानां श्रद्धाशब्दिताद्भिः सह गतिरिह श्रद्धाहुतिवाक्ये प्रतीयत इत्यर्थः ।
तेषां सूक्ष्माभिर्द्रव्यापूर्वरूपाभिः पञ्चीकृताभिरद्भिः संबन्धं वदन् सहगतिं विवृणोति- तेषां चाग्निहोत्रेति ।
निधनं मरणं तन्निमित्तकमन्त्येष्टिविधानं, असौ यजमानः, स्वर्गाय गच्छत्विति मन्त्रार्थः ।
हुतद्रव्यरूपाणामपां गमने श्रुत्यन्तरमाह- तथाचेति ।
अग्निहोत्रप्रकरणे जनकेन याज्ञवल्क्यं प्रति ऽनत्वेवैनयोः सायंप्रातराहुत्योस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनं वेत्थऽइति षट् प्रश्नाः कृतास्तेषां निर्वचनमपि राज्ञैव ऽते वा एते आहुती हुते उत्क्रामतः ते ऽन्तरिक्षद्वारा दिवं गच्छतस्ते दिवमेवाहवनीयं प्रतिष्ठां कुर्वाते दिवं तर्पयतस्ते ततः पुनरावर्तेते ततः पृथिव्यां पुरुषे योषिति च हुते पुरुषरूपेणोत्तिष्ठतःऽइति वाक्यशेषेण कृतम् ॥6॥
एन्द् ब्स्र्प्_3,1.1.6
स्तर्त् ब्स्र्प्_3,1.1.7ः
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति

3.1.8

संप्रत्युत्तरसूत्रव्यावर्त्यं शङ्कते- कथमित्यादिना ।
अत्र सोमाख्यचन्द्रस्यान्नत्वमुक्तं नेष्टादिकारिणामिति भ्रान्तिनिरासार्थं श्रुत्यन्तरमाह- ते चन्द्रमिति ।
यथा यज्ञे चमसस्थं सोममृत्विज आप्यायस्वेति क्रियावृत्तौ लोट् पुनः पुनराप्याय्य पुनः पुनरपक्षय्य भक्षयन्ति ।
एवमेनानिष्टादिकारिणो ऽन्नरूपान् भक्षयन्ति देवा इत्यर्थः ।
अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना ।
शास्त्रानर्थक्यवारणाय अन्नत्वं गोणमिति भावः ।
केन दोषेण तेषां देवभोग्यतेत्यत आह- अनात्मवित्त्वाच्चेति ।
यथा पशुर्भोग्य एवमज्ञः स भेदधीमान् देवानां भोग्य इत्यर्थः ।
आत्मशब्दस्य मुख्यत्वबलेन सूत्रांशं व्याख्याय प्रकृतपञ्चाग्नयः सूत्रकृतात्मत्वेनोपचरिता इति व्याख्यान्तरमाह- अनात्मेत्यादिना ।
विद्यास्तुत्यर्थमन्नत्वं न मुख्यमित्यत्र श्रुत्यन्तरार्थं सूत्रशेषं व्याचष्टे- तथाहीति ।
एवं गतिपर्यालोचनया वैराग्यमिति सिद्धम् ॥7॥
एन्द् ब्स्र्प्_3,1.1.7
स्तर्त् ब्स्र्प्_3,1.2.8ः
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च

3.1.9

इदानीं गत्यन्तरभाविनीमागतिं निरूपपयति- कृतात्यय इति ।
भोक्तव्यकर्मसमाप्त्यानन्तर्यमथशब्दार्थः ।
यथेतमित्यारभ्य श्वादियोनिमित्यन्तं वाक्यं यावत्तावदाम्नायत इति योजना ।
अत्र यावत्संपातमिति विशेषणाद्रमणीयचरणा इति वाक्याच्च संशयमाह- तत्रेति ।
अनुशयः कर्म, अत्र पूर्वपक्षे कर्माभावेनागतेरनियमाद्वैराग्यादार्ढ्यं, सिद्धान्ते कर्मसत्त्वेनागतिनियमाद्वैराग्यदार्ढ्यमिति भेदः ।
तेषामिष्टादिकारिणां यदा तत्कर्म पर्यवैति विपरिक्षीणं भवति तदा पुनरावर्तन्त इति श्रुत्यन्तरेणापि कृत्स्रकर्मणश्चन्द्रलोके भुक्तत्वमुच्यत इत्यर्थः ।
यावत्पदसङ्कोचो न युक्तः श्रुत्यन्तरविरोधादित्याह- नैवमिति ।
अयं नरो यत्किञ्चिदिह लोके कर्म करोति तस्यान्तं फलं परलोके प्राप्य कर्मार्थं पुनरायातीति श्रुत्यर्थः ।
कर्माभावे श्रुतिमुक्त्वा युक्तिमाह- अपिचेति ।
अभिव्यक्तिः फलोन्मुखता, मरणेनाभिव्यक्तस्य सर्वस्य कर्मणः परलोकभोगस्यावश्यंभावात्कर्माभाव इत्यर्थः ।
चरणाख्यसीलमात्रादवरोह इति प्राप्ते सिद्धान्तप्रतिज्ञां व्याचष्टे- येनेत्यादिना ।
तत् तत्रावरोहतां जीवानां मध्ये ये केचिदिह कर्मभूमौ रमणीयचरणाः पुण्यकर्माणः पुण्ययोनिभाज इति यत् तत् अभ्याशो ह अवश्यं हीत्यर्थः ।
कपूयं पापम् ।
दृष्टशब्दस्य श्रुत्यर्थमुक्त्वार्थान्तरमाह- दृष्टश्चेति ।
ऽपुण्यो वै पुण्येन कर्म भवति पापः पापेनऽइत्यादिशास्त्रेण सुखदुःखयोर्धर्मार्धर्महेतुकत्वमवगतम् ।
ततश्च जन्मारब्य दृष्टो भोगः कर्महेतुकः भोगत्वात्, स्वर्गभोगवदित्यानुशयसिद्धिः, विपक्षे च हेत्वभावात् भोगस्याकस्मिकत्वप्रसङ्ग इत्यर्थः ।
स्मृतवाश्रमाः आश्रमिणः प्रेत्य मृत्वा लोकान्तरे कर्मफलं भुक्त्वा ततः शेषेण भुक्तादन्येन कर्मणा अनुशयाख्येन पुनर्जन्म प्रतिपद्यन्ते इति संबन्धः ।
विशिष्टा देशादयो मेधान्ता दश गुणा येषु ते तथोक्ताः ।
श्रुतं ज्ञानं, वृत्तं आचारः ।
स्वाभिमतानुशयं वक्तुं पृच्छति- कः पुनरिति ।
कृतस्य कर्मणः स्वर्गे भोगे सति भुक्तस्य कर्मणो लेशो ऽनुशयस्तद्वानवरोहति भाण्डे स्नेहलेशस्य दृष्टत्वात्, ततः शेषेणेति स्मृतेश्चेत्येकदेशिव्याख्यामाह- केचिदित्यादिना ।
रिच्यमानं स्नेहेन वियुज्यमानम् ।
ननु भोगनाश्यत्वात् कर्मणो लेशो न युक्तः इति शङ्कते- नन्विति ।
कृत्स्नकर्मणो भोगे जाते नाशः स्यात्, नतु भोगो जात इति परिहारार्थः ।
भोगो न जायत इत्ययुक्तमिति शङ्कते- नन्विति ।
भोगः सावशेषो जात इति समाधत्ते- बाढमित्यादिना ।
इदमेकदेशिव्याख्यानं दूषयति- नचेति ।
ऽस्वर्गकामो यजेतऽइत्यादिशास्त्रेण स्वर्गभोगार्थं कर्म चोदितं, तच्छेषस्य मर्त्यभोगहेतुत्वे शास्त्रविरोध इत्यर्थः ।
किञ्च स्वर्गहेतुकर्मशेषादवरोहे कपूययोन्यापत्तिश्रुतिविरोध इत्याह- अवश्यं चेति ।
स्वाभिमतमनुशयमाह- तस्मादिति ।
पूर्वपक्षबीजमनूद्य दूषयति- यदित्यादिना ।
क्षपयित्वा पुनरागच्छन्तीति प्राप्यन्तमिति वाक्येन गम्यत इति योजना ।
जन्मारभ्य दृष्टभोगलिङ्गानुगृहीतया रमणीयकपूयचरणश्रुत्यैहिकानुशयाक्यकर्मविशेषणपरया विरोधात्, यत्किञ्चेति यावत्संपातमिति च सामान्यशब्दयोरामुष्मिकविषयत्वेन सङ्कोचो न्याय्य इति भावः ।
मरणं कृत्स्नकर्माभिव्यञ्जकमित्ययुक्तम्, उक्तानुशयश्रुतिविरोधादित्याह- तदपीति ॥
बलवदनारब्धकर्मप्रतिबन्धाच्च न कृत्स्नकर्माभिव्यक्तिरित्याह- अपिचेत्यादिना ।
तस्य कृतस्नकर्मव्यञ्जकत्वे हेतुर्नास्तीति भावः ।
प्रश्नं मत्वोत्तरं शङ्कते- आरब्धेति ।
आरब्धवदनारब्धस्यापि बलवतः प्रतिबन्धकत्वान्न सर्वकर्मणः फलदानायाभिव्यक्तिरिति समाधत्ते- यथेति ।
अनारशब्धफलत्वाविशेषात्सर्वकर्मणामभिव्यक्तिमाशङ्क्य मिथोविरुद्धस्वर्गनरकादिदेहफलानामेकदेहारम्भकत्वासंभव उक्तस्तं विवृणोति- नहीति ।
अस्तु तर्हि दुर्बलस्य कर्मणो नाश इत्यत आह -नापीति ।
नाभुक्तं क्षीयते कर्मेत्येकान्त उत्सर्गः स च प्रायश्चितब्रह्मज्ञानध्यानैर्बाध्यते न मरणमात्रणेत्यर्थः ।
मरणेन दुर्बलकर्माविनाशे मानमाह- स्मृतिरिति ।
कर्मनाशपक्षं निरस्य प्रकृतकृत्स्नकर्माभिव्यक्तिपक्षे दोषान्तरमाह- यदि चेति ।
ऽकृत्स्नकर्मणामेकस्मिन् देवादिजन्मनि भोगेन क्षयान्न जन्मान्तरं स्यात्, ज्ञानाभावान्न मुक्तिरित्यज्ञदेवस्य कष्टान्तरालदशा स्यादित्यर्थः ।
ऽश्वसूकरखरोष्ट्राणां गो ऽजाविमृगपक्षिणाम् ।
चण्डालपुल्कसानां च ब्रह्महा योनिमृच्छति ।
ऽइत्यादिस्मृतिविरोधाच्च न सर्वकर्मणामेकजन्मारम्भकत्वमित्याह- ब्रह्मेति ।
नन्वेकस्य कर्मणः कथमनेकजन्मफलकत्वम्, अदृष्टत्वादित्याह- नचेति ।
किञ्च व्यञ्जकत्वे ऽपि मरणस्य किं सर्वकर्मव्यञ्जकत्वं कल्प्यते उत यत्किञ्चित्कर्मव्यञ्जकत्वम् ।
नाद्यः, इह कृतकारीर्यादेरत्रैव फलहेतोर्मरणव्यज्यत्वासंभवादित्याह- नचेति ।
द्वितीयं निरस्यन् परोक्तं दृष्टान्तं विघटयति- प्रदीपेति ।
रूपाणां प्रदीपवत्, मरणं न कस्यचिदपि कर्मणो वयञ्जकं किन्तु प्रबलकर्मप्रतिबन्धाभावे दुर्बलं व्यज्यत इत्यर्थः ।
एवं मरणस्य व्यञ्जकत्वानङ्गीकारेण प्रदीपदृष्टान्तो निरस्तः,
अङ्गीकारे ऽप्यनुकूलो दृष्टान्त इत्याह- स्थूलेति ।
सूक्ष्ममनुद्भूतरूपमिति मरणे सर्वकर्माभिव्यक्त्यसिद्धिरिति शेषः ।
एवं सर्वकर्मसङ्घ एकजन्मारम्भक इत्यैकभविकः कर्माशय इति मतनिरासमुपसंहरति- तस्मादिति ।
चरणश्रुत्या ऽततः शेषेणऽइत्यादिस्मृत्या ऽप्रबलप्रतिबन्धात्ऽइतिन्यायेन चानभिव्यक्तकर्मसद्भावादित्यर्थः ।
ननु मुक्त्यनुपपत्त्याङ्गीकार्य ऐकभविक इत्यत आह- शेषेति ।
सूत्रशेषं व्याचष्टे- ते चेत्यादिना ।
अवरोहमार्ग इत्थं श्रूयते-ऽतस्मिन् यावत्संपातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भूत्वा मेघो भवति भूत्वा प्रवर्षति त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति तद्य इह रमणीयचरणा रमणीयां योनिमापद्यन्तेऽइति ।
धूमाद्यध्वना यथेतं यथागतं तथेतमध्वानं पुनरायन्तीत्युक्त्वा धूमादिरूपपितृमार्गस्थरात्र्यादिकं नोक्तमधिकं चाभ्रादिकमुक्तमिति मत्वा सूत्रकृतोक्तं यथेतमनेवं चेति ।
अवशिष्टश्रुत्यर्थो ऽग्ने स्फुटीभविष्यति ॥8॥
एन्द् ब्स्र्प्_3,1.2.8
स्तर्त् ब्स्र्प्_3,1.2.9ः
चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः

3.1.10

संप्रति श्रुतिस्थचरणशब्दमाक्षेपपूर्वकं सूत्रकृद्व्याचष्टे- चरणादिति चेदिति ।
ऽअद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च ज्ञानं च शीलमेतद्विदुर्बुधाःऽइति स्मृतावुक्तावद्रोहादयः शास्त्रार्थज्ञानरूपं शीलं सर्वकर्माङ्गमुक्तं तद्बोधकं चरणपदमङ्गिनः श्रौतादिकर्मणो लक्षकं, कर्मण एवोत्तरावस्था धर्माधर्माख्यापूर्वमिति कर्मलक्षणयैव तदभिन्नापूर्वाख्यानुशयसिद्धिरिति कार्ष्णाजिनिमतम् ॥9॥
एन्द् ब्स्र्प्_3,1.2.9
स्तर्त् ब्स्र्प्_3,1.2.10ः
आनर्थक्यम् इति चेन् न तदपेक्षत्वात्

3.1.11

तदेव शङ्कासमाधानाभ्यमाह- आनर्थक्यमिति चेदित्यादिना सूत्रेण ।
चरणशब्दवाच्यस्यैव ग्रहणसंभवान्न लक्षणा युक्तेति शङ्कित्वैव ब्रूते- नन्विति ।
प्रतिषिद्धं शीलं क्रोधानृतादिरूपम् ।
किञ्च शीलस्य निष्फलत्वायोगाच्छ्रुतयोन्यापत्तिस्तस्यैव फलं नानुशयस्येत्याह- अवश्यं चेति ।
वेदास्तदर्थकर्माण्याचारं विना न फलन्तीति स्मृत्या शीलस्य कर्माङ्गत्वान्न पृथक्फलापेक्षा, अङ्गिफलेनार्थवत्त्वात् ।
न चाङ्गमात्राद्योन्यापत्तिः फलमिति वाच्यम् ।
अङ्गस्य फलासंभवेन मुख्यार्थस्याचारस्य ग्रहणायोगाल्लक्षणा युक्तेति समाधानार्थः ।
यद्याचारस्य स्नानादिवत् पुरुषसंस्कारतया पुरुषार्थत्वं तदाप्यविरोध इत्याह- पुरुषार्थत्वे ऽपीति ।
अङ्गावबद्धोपास्तिवदाचारोर्ऽथवानित्यर्थः ।
अस्तु तर्हि शीलख्याचारादेव योन्यापत्तिरित्याशङ्क्य ऽपुण्यो वै पुण्येन कर्मणाऽइत्यादि श्रुत्या विरोधान्नैवमित्याह- कर्म चेति ।
पारयमाणः शक्तः ॥10॥
एन्द् ब्स्र्प्_3,1.2.10
स्तर्त् ब्स्र्प्_3,1.3.11ः
सुकृतदुष्कृते एवेति तु बादरिः

3.1.12

यद्यप्यक्रोधादिरूपं शीलं साधारणधर्मात्मकं विशेषरूपात् कर्मणो ऽभिन्नं तथापि चरणाचारशब्दौ कर्मवाचिनावेव न शीलवाचकाविति न लक्षणावसर इति बादरिमतं मुख्यसिद्धान्तमाह- सुकृतेति ।
चरणशब्दार्थमुपसंहरति- आचारो ऽपीति ।
कर्मण एवाचारत्वे यथाकारीत्यादिभेदोक्तिः कथमित्यत आह- भेदव्यपदेश इति ।
निरूपपदाचारशब्दात् सदाचाररूपो विशेषो भाति ।
अतस्तत्समभिव्याहृतः कर्मसामान्यवाचको यथाकारीति शब्दस्तदितरविशेषपरः एवमनवद्यानि कर्माणीति सामान्यतः, अस्माकं सुचरितानीति विशेष इति विवेकः ।
तस्मादनुशयबलादागत्यवश्यंभावानुसन्धानाद्वैराग्यमिति सिद्धम् ॥11॥
एन्द् ब्स्र्प्_3,1.3.11
स्तर्त् ब्स्र्प्_3,1.3.12ः
अनिष्टादिकारिणाम् अपि च श्रुतम्

3.1.13

एवं पुण्यात्मनां गत्यागतिचिन्तया वैराग्यं निरूप्य पापिनां तच्चिन्तया तन्निरूपयति- अनिष्टादिकारिणामपीति ।
ऽये वै के चऽइत्यविशेषश्रुतेः, ऽवैवस्वतं संगमनं जनानाम्ऽइति श्रुतेश्च संशये प्रथमाधिकरणेन सिद्धनियमाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे- तत्रेत्यादिना ।
यमराजं पापिजनानां सम्यग्गम्यं, हविषा प्रीणयतेति श्रुत्यर्थः ।
पूर्वपक्षे पुण्यवतामेव चन्द्रगतिरिति नियमाभावात् पुण्यवैयर्थ्यं पापाद्वैराग्यादार्ढ्यं चेति फलं, सिद्धान्ते पापिनां चन्द्रलोकदर्शनमपि नास्तीति पुण्यार्थवत्त्वं वैराग्यदार्ढ्यं चेति फलम् ।
पञ्चमाग्नौ देहारम्भ इति नियमात्पापिनामपि प्रथमद्युलोकाग्निप्राप्तिर्वाच्येत्याह- देहारम्भ इति ।
पापिनां स्वर्गभोगाभावे ऽपि मार्गान्तराभावा चन्द्रगतिरिति भावः ॥12॥
एन्द् ब्स्र्प्_3,1.3.12
स्तर्त् ब्स्र्प्_3,1.3.13ः
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्

3.1.14

सिद्धान्तसूत्रं व्याचष्टे- तुशब्द इत्यादिना ।
संयमने यमलोके यमकृता यातना अनुभूयावरोहन्तीत्येवमारोहावरोहाविति योजना सूत्रस्य ज्ञेया ।
प्रयतां मृत्वा गच्छताम् ।
सम्यक् परस्तात्प्राप्यत इति संपरायः परलोकः तदुपायः सांपरायः, बालमज्ञं, विशेषतो वित्तरागेण मूढं मोहात्प्रमादं कुर्वन्तं प्रति न भाति ।
स च बालो ऽयं स्त्रीवित्तादिलोको ऽस्ति न परलोको ऽस्तीति मानी ।
स मे मम यमस्य वशमाप्नोतीत्यर्थः ।
पापिनां यमवश्यतावादिविशेषश्रुतिस्मृतिबलात्ऽये वै के चऽइत्यविशेषश्रुतिरिष्टादिकारिविषयत्वेन व्याख्येयेति भावः ॥13॥
एन्द् ब्स्र्प्_3,1.3.13
स्तर्त् ब्स्र्प्_3,1.3.14ः
स्मरन्ति च

3.1.15

सूत्रत्रयस्य भाष्यं सुबोधम् ॥14 ॥ ॥15 ॥ ॥16॥
एन्द् ब्स्र्प्_3,1.3.14
स्तर्त् ब्स्र्प्_3,1.3.15ः
अपि च सप्त

3.1.16

एन्द् ब्स्र्प्_3,1.3.15
स्तर्त् ब्स्र्प्_3,1.3.16ः
तत्रापि च तद्व्यापारादविरोधः

3.1.17

एन्द् ब्स्र्प्_3,1.3.16
स्तर्त् ब्स्र्प्_3,1.3.17ः
विद्याकर्मणोर् इति तु प्रकृतत्वात्

3.1.18

यदुक्तं मार्गान्तराभावात् पापिनामपि चन्द्रगतिरिति ।
तन्न ।
तृतीयमार्गश्रुतेरित्याह- विद्याकर्मणोरिति ।
मार्गद्वितयोक्त्यनन्तरं तृतीयमार्गोक्तिप्रारम्भार्थः श्रुतावथशब्दः ।
एतयोर्विद्याकर्मणोः पथिद्वयसाधनयोरन्यतरेणापि साधनेन ये नरा न युक्तास्ते जन्ममरणावृत्तिरूपतृतीयमार्गस्थानि भूतानि भवन्ति, क्रियावृत्तौ लोट्, तेन पापिनां चन्द्रगत्यभावाच्चन्द्रलोको न संपूर्यत इति श्रुत्यर्थः ।
प्रतिपत्ताविति ।
प्राप्तिसाधने इत्यर्थः ।
अपिच पापिनां चन्द्रगतौ असौ लोकः संपूर्येत ऽअतश्च न संपूर्यतेऽइत्येतत्प्रतिवचनं विरुद्धं प्रसज्येतेत्यन्वयः ।
अवरोहादसंपूरणमश्रुतं न कल्प्यं श्रुतहान्यापत्तेरित्याह- न अश्रुतत्वादिति ।
अवरोह एव तृतीयं स्थानं श्रुत्युक्तमित्यत आह- अवरोहस्येति ।
इममध्वानं पुनर्निवर्तन्त इति इष्टादिकारिणामवरोहोक्तेरनिष्टादिकारिणामपि अवरोहस्यार्थसिद्धत्वात् पुनरुक्तिर्व्यर्थेत्यर्थः ।
अथैतयोरिति मार्गान्तरोपक्रमबाधस्तृतीयशब्दबाधश्चेत्यतः स्थानशब्दो मार्गलक्षक इति द्रष्टव्यम् ॥17॥
एन्द् ब्स्र्प्_3,1.3.17
स्तर्त् ब्स्र्प्_3,1.3.18ः
न तृतीये तथोपलब्धेः

3.1.19

एवमविशेषश्रुतेर्मार्गान्तराभावाच्चेति पूर्वपक्षबीजद्वयं निरस्य तृतीयबीजनिरासार्थं सूत्रमादत्ते- यत्पुनरित्यादिना ।
विद्याकर्मशून्यानां कृमिकीटादिभावेन जायस्वेत्यादिश्रुत्या निरन्तरजन्ममरणोपलब्धेर्नाहुतिसंख्यादर इत्यर्थः ।
पुरुषशब्दाच्चैवमित्याह- अपिचेति ।
मनुष्यदेहस्यापि नाहुतिसङ्ख्यानियम इत्याह- अपिचेत्यादिना ।
विधिनिषेधरूपार्थद्वये वाक्यभेदः स्यादित्यर्थः ॥18॥
एन्द् ब्स्र्प्_3,1.3.18
स्तर्त् ब्स्र्प्_3,1.3.19ः
स्मर्यते ऽपि च लोके

3.1.20

अनियमे स्मृतिसंवादार्थं सूत्रम्- स्मर्यते ऽपीति ।
लोक्यते ऽनेनेति लोको भारतादिरुक्तः मुख्यार्थमप्याह- बलाकेति ॥19॥
एन्द् ब्स्र्प्_3,1.3.19
स्तर्त् ब्स्र्प्_3,1.3.20ः
दर्शनाच् च

3.1.21

ऽअण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि च ऽइतिश्रुत्यवष्टम्भेन सूत्रं व्याचष्टे- अपिचेति ।
अन्यत्राप्यनिष्टादिकारिष्वित्यर्थः ॥20॥
एन्द् ब्स्र्प्_3,1.3.20
स्तर्त् ब्स्र्प्_3,1.3.21ः
तृतीयशब्दावरोधः संशोकजस्य

3.1.22

अनया श्रुत्या चातुर्विध्यं कथमुक्तं श्रुत्यन्तरे त्रीण्येवेत्यवधारणविरोधादिति शङ्कोत्तरत्वेन सूत्रमादत्ते- नन्वित्यादिना ।
जीवजं जरायुजं मनुष्यादि, भूमिमुद्भिद्य जायते वृक्षादिकं, उदकं भित्त्वा जायते यूकादि जङ्गममिति भेदः ।
संशोकः स्वेदः ॥21॥
एन्द् ब्स्र्प्_3,1.3.21
स्तर्त् ब्स्र्प्_3,1.4.22ः
साभाव्यापत्तिरुपपत्तेः

3.1.23

एवं पापिनां गत्यागती विचार्य संप्रतीष्टादिकारिणामवरोहे विशेषमाह- साभाव्यापत्तिरूपपत्तेः ।
यथेतमनेवं चेत्युक्तरीत्या यथागतं धूमाद्यध्वानं पुनर्निवर्तन्ते, निवृत्ताश्चानुशयिनः कर्मान्ते द्रुतदेहा आकाशं गता आकाशसदृशा भवन्ति ।
आकाशसादृश्यानन्तरं पिण्डीकृता अतिसूक्ष्मलिङ्गोपहिताः वायुनेतस्ततश्च नीयमाना वायुसमा भवन्ति ।
सो ऽनुशयी संघो वायुसमो भूत्वा धूमसंगतस्तत्समो भवति, धूमसमो भूत्वाभ्रसमो भवति ।
अपो बिभर्तीत्यभ्रं, मेहति सिञ्चतीति वृष्टिकर्ता मेघस्तत्समो भूत्वा वर्षधाराद्वारा पृथिवीं प्रविश्य व्रीहियवादिरूपो भवतीति सिद्धान्तगत्या श्रुत्यर्थः ।
पूर्वोत्तरयुक्तिद्वयं संश्यबीजं मन्तव्यं, पूर्वत्र मार्गद्वयमुक्त्वा तृतीयत्वोक्तेर्युक्तं स्थानशब्दस्य मार्गलक्षकत्वमिह तु दुग्धं दधि भवतीत्यादिप्रयोगे भवतिश्रुतेर्विकारस्वरूपापत्तौ मुख्यत्वात् सादृश्यापत्तिलक्षणाबीजं नास्तीति प्रत्युदाहरणसङ्गतिः ।
श्रुतिमुख्यत्वं फलमिति पूर्वपक्षः ।
अनुशयिनां पूर्वसिद्धाकाशादिस्वरूपापत्त्ययोगाल्लक्षणेति सिद्धान्तयति- एवमित्यादिना ।
समानो भावो धर्मो यस्य तद्भावः साभाव्यं साम्यमिति सूत्रपदार्थः ।
एवं ह्येतदिति ।
एतद्भवनमेवं सादृश्यरूपमेवोपपद्यत इत्यर्थः ।
अनुशयिनामाकाशादिभ्यो निर्गमनान्यथानुपपत्त्यापि सादृश्यलक्षणेत्याह- आकाशस्वरूपेति ।
संयोगलक्षणामाशङ्क्याह- विभुत्वादि ति ।
भवतिश्रुत्या संयोगलक्षणायामनुवादः स्यादित्यर्थः ।
विविधभूतसाम्यमवरोहे भवतीत्यनुसंधानाद्वैराग्यमुपसंहरति- अत इति ॥22॥
एन्द् ब्स्र्प्_3,1.4.22
स्तर्त् ब्स्र्प्_3,1.5.23ः
नातिचिरेण विशेषात्

3.1.24

नातिचिरेण ।
उक्तं सादृश्यमुपजीव्य लोके गन्तृणां चिराचिरगतिदर्शनात्संशयं वदन् पूर्वपक्षयति- तत्रेत्यादिना ।
अनियमात् कदाचिद्विलम्बेन योन्यापत्तिरिति पूर्वपक्षफलं, सिद्धान्ते तु व्रीहीयवादिभावादनुशयिनां विलम्बेन निर्गमनमिति विशेषादाकाशादिभावाच्छीघ्रं निर्गम इत्यविलम्बेन योन्यापत्तिरित्यनुसंधानाद्वैराग्यदार्ढ्यमिति विवेकः ।
नन्वाकाशादिष्वनुशयिनां सुखं व्रीहियवादिषु दुःखमिति दुःशब्दाद्भाति न चिराचिरनिर्गमनमित्यत आह- सुखदुःखताविशेषश्चायमिति ।
अवधिः कालः ॥23॥
एन्द् ब्स्र्प्_3,1.5.23
स्तर्त् ब्स्र्प्_3,1.6.24ः
अन्याधिष्ठितेषु पूर्ववदभिलापात्

3.1.25

अन्याभिलापात् ।
श्रुतिक्रमात् अर्थक्रमाच्चाधिकरणानां क्रमो बोध्यः ।
इह भूमौ वर्षधाराद्वारा पतितास्ते ऽनुशयिनो व्रीह्यादिसाम्येन जायन्त इति श्रुत्यर्थः ।
अत्र जायन्त इति श्रुतेः पूर्वत्राकाशादिवर्षान्तसादृश्योक्तेश्च संशयमाह- तत्रेति ।
अस्मिन्नवधौ वर्षसादृश्यानन्तरमित्यर्थः ।
दुर्निष्प्रपतरशब्देन चिरनिर्गलनलक्षणोक्ता न युक्ता, दुःखेन निर्गमनमिति मुख्यसंभवादित्याक्षेपसङ्गत्या पूर्वपक्षयति- किं तावदित्यादिना ।
अत्र पूर्वपक्षे स्थावरत्वनिवृत्तये ऽधिकारिणां यत्नगौरवं, सिद्धान्ते व्रीह्यादिसंश्लेषमात्रं परिहर्तुं यत्नलाघवं वैराग्यदार्ढ्यं चेति विवेकः ।
ननु देहोत्पत्त्या जीवानां जन्म स्यान्न स्वतः, व्रीह्यदेस्तु न देहत्वमित्यत आह- स्थावरभावस्येति ।
ऽस्थाणुमन्ये ऽनुसंयन्तिऽइत्याद्या श्रुतिः ।
ऽशरीरजैः कर्मदोषैर्याति स्थावरतां नरःऽइत्याद्या स्मृतिः ।
ननु स्वर्गिणां पापाभावात्कथं स्थावरत्वं, तत्राह- पश्विति ।
सोमाद्युच्छिष्टभक्षणसुराग्रहावादिशब्दार्थः ।
क्रत्वर्थहिंसादेरपि हिंसात्वादिसामान्येन प्रवृत्तेर्न हिंस्यादित्यादिशास्त्रनिषिद्धत्वाकारेण दुरितापूर्वकारित्वमविरुद्धमिति साङ्ख्या आहुः ।
श्रुतो ऽत्र व्रीह्यादिभावो ऽनुशयिनां न जन्यरूपः कर्मविशेषपरामर्शं विनात्रोक्तत्वात्, पूर्वोक्ताकाशादिभाववदिति सिद्धान्तयति- एवं प्राप्त इत्यादिना ।
पूर्ववदिति पदं दृष्टान्तत्वेन हेत्वंशत्वेन च व्याख्यातं यदत्र प्रकरणे कर्मविशेषपरामर्शकमुच्यते तज्जन्मेति व्यतिरेकदृष्टान्तमप्याह- यत्र त्विति ।
अपिच ऽयो यो ह्यन्नमत्ति यो रेतः स्त्रियां सिञ्चति तद्भूय एव भवतिऽइति वाक्यशेषे व्रीह्यादिषु प्रविष्टस्यानुशयिसंघस्यान्नद्वारा रेतःसिक्पुरुषयोगः श्रुतस्तदन्यथानुपपत्त्यापि जन्मश्रुतिर्न मुख्येत्याह- अपिचेत्यादिना ।
व्रीह्यादिरूपदेहनाशे देहिनामुक्तान्तेरवश्यंभावाद्रेतः सिग्योगो न स्यादित्यर्थः ।
एतेनेति ।
उक्तानुमानार्थापत्तिभ्याम् ।
जायत इति श्रुतेर्मुख्यार्थत्वमनुशयिभोगायतनत्वं च व्रीह्यादेः प्रतिब्रूयादित्यर्थः ।
ननु व्रीह्यादेर्भोगायतनत्वानङ्गीकारे पूर्वोक्तश्रुतिस्मृतिप्रसिद्धिबाध इत्यत आह- नचेति ॥24॥
एन्द् ब्स्र्प्_3,1.6.24
स्तर्त् ब्स्र्प्_3,1.6.25ः
अशुद्धम् इति चेन् न शब्दात्

3.1.26

वैदिकं कर्माशुद्धं न भवति शास्त्रविहितत्वादिति सूत्रार्थं प्रपञ्चयति- अयं धर्म इत्यादिना ।
शुचौ देशे प्रातः सायङ्काले जीवनादिनिमित्ते कृतमग्निहोत्रं धर्मो भवति स एवाशुचिदेशे मध्यरात्रे मरणादिनिमित्ते कृतः सन्नधर्मो भवतीति निर्णयः शास्त्रैकसाध्य इत्यर्थः ।
ततः किं तत्राह- शास्त्राच्चेति ।
ननु या हिंसा सो ऽधर्म इत्युत्सर्गस्य विशेषविधिना बाधो ऽत्र न युक्तः ।
नाभिचरेदिति निषिद्धश्येनस्य पुरुषार्थत्ववत् निषिद्धहिंसादेरपि क्रतूपकारकत्वाविरोधादिति, तत्राह- उत्सर्गापवादयोरिति ।
अयमर्थः-काम्ये कर्मणि सर्वत्र करणांशे रागतः प्रवृत्तिः, अङ्गेषु विधित इति स्थितिः ।
तथाच श्येनाख्ये कर्मणि निषेधे ऽपि रागप्राबल्यात् प्रवृत्तिः स्यात् क्रत्वङ्गहिंसादौ तु विधित एव प्रवृत्तिर्वाच्या ।
स च विधिर्यद्युत्सर्गप्राप्तमनर्थहेतुत्वं न बाधेत तर्हि प्रवर्तको न स्यात्, प्रवर्तकत्वे वा विधिरनर्थाय स्यात्, अतो निरवकाशो विधिः सावकाशमुत्सर्गमविहितहिंसादिषु स्थापयतीति ।
इदं च निषेधशास्त्रस्य हिंसात्वादिसामान्येन प्रवृत्तिमङ्गीकृत्योक्तम् ।
वस्तुतस्तस्य रागप्राप्तहिंसाविषयत्वाद्वैधहिंसायामप्रवृत्तेर्नाशुद्धत्वशङ्कावसर इति द्रष्टव्यम् ।
प्रतिरूपं दुःखरूपं तस्य फलं नेति योजना ।
इह व्रीह्यादिभावे कश्चिदधिकारः कर्मपरामर्शो नास्तीत्युक्तम् ॥25॥
एन्द् ब्स्र्प्_3,1.6.25
स्तर्त् ब्स्र्प्_3,1.6.26ः
रेतःसिग्योगो ऽथ

3.1.27

अथ व्रीह्यादिभावानन्तरं रेतः सिग्भावः श्रुतः ।
तत्रान्नस्थानुशयिनो रेतः सेककर्तृत्वायोगाद्योगमात्रं वाच्यं तद्वदुपक्रमे ऽपि योग एवास्थेयः, अन्यथोपक्रमोपसंहारयोर्विरोधः स्यादिति मत्वोक्तम्- इत्यविरोध इति ॥26॥
एन्द् ब्स्र्प्_3,1.6.26
स्तर्त् ब्स्र्प्_3,1.6.27ः
योनेः शरीरम्

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc