भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 2.4

2.4.1

किं मनसा संयुक्तात्मैवात्मनः प्रदेशः ।
उत कल्पितः ।
आद्ये सर्वात्मनां सर्वदेहेषु अन्तर्भावादव्यवस्था ।
द्वितीयं दूषयति-#तत्र न वैशेषिकैरिति ।
सर्वात्मसांनिध्ये सति कस्यचिदेव प्रदेशः कल्पयितुमशक्यः ।
नियामकभावादित्यर्थः ।
प्रदेशकल्पनामङ्गीकृत्याप्याह-#कल्प्येति ।
कार्यमभिसंध्यादिकं यस्यात्मनो यच्छरीरं तत्र तस्यैव भोग इति व्यवस्थामाशङ्क्याह-#शरीरमपीति ।
प्रदेशपक्षे दोषान्तरमाह-#प्रदेशेति ।
यस्मिन्नात्मप्रदेशे ऽदृष्टोत्पत्तिः स किं चलः स्थितो वा ।
नाद्यः, अचलेंऽशिन्यंशस्य चलनविभागयोरसंभवादण्वात्मवादापाताच्च ।
द्वितीये तस्मिन्नेव प्रदेशे परस्यापि भोगदर्शनाददृष्टमस्तीत्येकेनापि शरीरेण द्वयोरात्मनोर्भोगप्रसङ्गः ।
यद्यात्मभेदात्प्रदेशयोर्भेदस्तदापि तयोरेकदेहान्तर्भावाद्भोगसांकर्यं तदवस्थं सावयवात्मवादप्रपङ्गश्च ।
किञ्च यत्तु यत्रात्मनः प्रदेशे शरीरादिसंयोगाददृष्टमुत्पन्नं तत्तत्रैवाचलप्रदेशे स्थितमिति स्वर्गादिशरीरावच्छिन्नात्मन्यदृष्टाभावाद्भोगो न स्यादतः प्रदेशभेदो न व्यवस्थापकः ।
यत्त्वत्रोत्पन्नमदृष्टं स्वाश्रये यत्र क्वचिद्भोगहेतुरिति स्वर्गादिभोगसिद्धिरिति ।
तन्न ।
भोगशरीरद्दूरस्थादृष्टे मानाभावादिति भावः ।
यदपि केचिदाहुः-मनस एकत्वे ऽप्यात्मनां भेदेन संयोगव्यक्तीनां भेदात्कयाचित्संयोगव्यक्त्या कस्मिंश्चेदेवात्मन्यदृष्टादिकमित्यसांकर्यमिति ।
तन्न ।
संयोगव्यक्तीनां वैजात्याभावेन सर्वासामेवैकदेहान्तःस्थसर्वात्मस्वदृष्टहेतुत्वापत्तेः ।
तथाच सर्वात्मनामेकस्मिन् देहे भोक्तृत्वं दुर्वारम् ।
किञ्च बहूनां विभुत्वमङ्गीकृत्य सांकर्यमुक्तं, संप्रति कर्तृणां विभुत्वमसिद्धमहमिहैवास्मि इत्यल्पत्वानुभवान्मानाभावाच्चेत्याह-#सर्वगतत्वानुपपत्तिश्चेति ।
किञ्च बहूनां विभुत्वे समानदेशत्वं वाच्यं, तच्चायुक्तमदृष्टत्वादित्याह-#वदेति ।
ननु रूपरसादीनामेकघटस्थत्वं दृष्टमिति चेत्, नायमस्मत्संमतो दृष्टान्तः ।
रूपस्य तेजोमात्रत्वाद्रसस्य जलमात्रत्वाद्गन्धस्य पृथिवीमात्रत्वादित्येवं तत्तद्गुणस्य स्वस्वधर्म्यंशेनाभेदात्तेजआदिधर्म्यतिरिक्तघटाभावात् ।
किञ्चात्मनां बहुत्वमप्यसिद्धं,
आत्मत्वरूपलक्षणस्याभेदात्, तथाच देवदत्तात्मा यज्ञदत्तात्मनो न भिन्नः आत्मत्वात्, यज्ञदत्तात्मवत् ।
अत्र वैशेषिकः शङ्कते-अन्त्यविशेषेति ।
नित्यद्रव्यमात्रवृत्तयो विशेषास्ते च स्वयं स्वाश्रयव्यावर्तका एव न स्वेषां व्यावर्तकमपेक्षन्त इत्यन्त्या उच्यन्ते ।
तथाच विशेषरूपलक्षणभेदाद्भवत्यात्मभेद इत्यर्थः ।
न तावदात्मन्यनात्मनः सकाशाद्भेदज्ञानार्था विशेषकल्पना, आत्मत्वादेवानात्मभेदसिद्धेः ।
नाप्यात्मनां मिथो भेदज्ञानार्थं तत्कल्पना, आत्मभेदस्याद्याप्यसिद्धेः ।
नच विशेषभेदकल्पनादेवात्मभेदकल्पना युक्ता, आत्मभेदज्ञप्तावात्मसु विशेषभेदसिद्धिस्तत्सिद्धौ तज्ज्ञप्तिरित्यन्योन्याश्रयादिति परिहारार्थः ।
यत्तु बहूनां विभुत्वे आकाशदिक्काला दृष्टान्त इति सो ऽप्यसंमत इत्याह-#आकाशादीनामिति ।
विभुत्वस्यैकवृत्तित्वे लाघवान्न विभुभेदः ।
यथैकस्मिन्नाकाशे भेरीवीणादिभेदेन तारमन्द्रादिशब्दव्यवस्था एवमेकस्मिन्नप्यात्मनि बुद्ध्युपाधिभेदेन सुखादिव्यवस्थोपपत्तेरात्मभेदे ऽपि व्यवस्थानुपपत्तेरुक्तत्वान्मुधा भेदकल्पनेत्युपसंहरति-#तस्मादिति ।
एवं भूतभोक्तृश्रुतीनां विरोधाभावाद्ब्रह्मण्यद्वये समन्वय इति सिद्धम् ॥53॥
एन्द् ब्स्र्प्_2,3.17.53
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य तृतीयः पादः ॥3॥
#इति द्वितीयाध्यायस्य पञ्चमहाभूत-जीवश्रुतीनां विरोधपरिहाराख्यस्तृतीयः पादः ॥
#द्वितीयाध्याये चतुर्थः पादः ।
स्तर्त् ब्स्र्प्_2,4.1.1ः
तथा प्राणाः

2.4.2

पूर्वाधिकरणे कर्तुः स्वरूपं विचार्य तदुपकरणानामिन्द्रियाणामुत्पत्ति साधयति-#तथा प्राणाः ।
भूतभोक्तृविचारानन्तरं भौतिकप्राणविचार इति हेतुहेतुमद्भावं पादयोः संगतिमाह-#वियदादीति ।
तमेव विप्रतिषेधमाह-#तत्रेत्यादिना ।
यद्यपि प्राणानामनुत्पत्तौ एकविज्ञानप्रतिज्ञानुपपत्तेर्वियदधिकरणन्यायात्तेषामुत्पत्तिः सिध्यति तथापि प्रलये प्राणसद्भावश्रुतेर्गतिकथनार्थमेतदधिकरणमित्यपौनरुक्त्यम् ।
अत्र प्राणा विषयाः ।
ते किमुत्पद्यन्ते न वेति श्रुतीनां विप्रतिपत्त्या संशये तासां समबलत्वादनिर्णय इत्यप्रामाण्यमिति पूर्वपक्षफलं, तत्र गौणवादी समाधानमाह-#अथवेति ।
प्राणानां प्रलये सद्भावश्रुतेर्निरवकाशत्वेन बलीयस्त्वादुत्पत्तिश्रुतिर्जीवोत्पत्तिश्रुतिवद्गौणीत्यविरोध इत्यर्थः ।
अप्रमाणपक्षवद्गौणपक्षो ऽपि मुख्यसिद्धान्तिनः पूर्वपक्ष एवेति ज्ञापनार्थमथवेत्युक्तम् ।
मुख्यसिद्धान्त्याह-#अत इति ।
तथाशब्दमाक्षिपति-#कथमिति ।
आनुलोम्यमाञ्जस्यमित्यर्थः ।
साम्यं स्फुटयति-#यथादृष्टस्येति ।
दूषणवत्प्राणा इत्यनन्वितम् ।
यद्यप्यदृष्टवत्प्राणा अप्यनियता इति सूत्रमन्वेति तथापि पुनरुक्तम् ।
जीववत्प्राणा नोत्पद्यन्त इति सूत्रार्थश्चेदपसिद्धान्त इत्याक्षेपार्थः ।
समाधत्ते-#न ।
उदाहरणेति ।
दृष्टान्तो दार्ष्टान्तिकसंनिहितो वाच्य इत्यङ्गीकृत्यैकवाक्यस्थत्वेन सांनिध्यमुक्तम् ।
संप्रति नायं नियमः ।
जैमिनिना भगवता व्यवहितदृष्टान्तस्याश्रितत्वादित्याह-#अथवेति ।
अस्ति तृतीयाध्याये ऽश्वप्रतिग्रहेष्ट्यधिकरणं, तस्येदं विषयवाक्यं, ऽयावतो ऽश्वान्प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्ऽइत्येतदुत्तराधिकरणे किमियं वारुणीष्टिर्दातुरुत प्रतिग्रहीतुरिति विशये ऽप्रतिगृह्णीयात्ऽइति श्रुतेः प्रतिग्रहीतुरित्याशङ्क्य ऽप्रजापतिर्वरुणायाश्वमनयत्ऽइत्युपक्रमे दातृकीर्तनाल्लिङ्गादश्वदातुरेवेति स्थास्यति, अतः प्रतिगृह्णीयादित्यस्य पदस्याश्वान् यः प्रतिग्राहयेदित्यर्थः दद्यादिति यावत् ।
ऽयो ऽश्वदाता स वारुणीमिष्टिं कुर्यात्ऽइति वाक्यार्थे स्थिते चिन्ता-अश्वदाननिमित्तेयमिष्टिः किं लौकिके ऽश्वदाने वैदिके वेति ।
तत्र ऽन केसरिणो ददातिऽ, इति निषिद्धलौकिकाश्वदाने दोषसंभवात्तन्निरासार्थेयमिष्टिरिति दोषात्त्विष्टिर्लौकिके स्यादिति सूत्रेण प्राप्ते सिद्धान्तः-ऽअत्र हि वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातिऽइति दातुर्देषं संकीर्त्येष्टिर्विहिता ।
वरुणशब्दो जलोदराख्यरोगे रूढः ।
नच लौकिके ऽश्वदाने ऽयं रोगो भवति इति प्रसिद्धम् ।
नचानेनैव वाक्येन प्रसिद्धिः ।
दाने दोषस्तन्निरासार्था चेष्टिरितिवदतोर्ऽथभेदे वाक्यभेदात् ।
नच वृणोतीति व्युत्पत्त्या वरुणशब्दो निषेधातिक्रमकृतदोषानुवादक इति युक्तं, रूढित्यागापातात् ।
तत्त्यागे च वैदिके ऽपि दाने ऽश्वत्यागजन्यदुःखं प्राप्तमुक्तव्युत्पत्त्या शक्नोत्यनुवदितुं, तस्मात्प्राप्तानुवाद्यर्थवादो ऽयमिति यज्ञसंबन्धिन्यश्वदाने इयमिष्टिरित्येवं विचार्योक्तम्-#पानव्यापच्च तद्वदिति ।
सोमपाने क्रियमाणे व्यापद्वमनं यदि स्यात्तदा ऽएतं सौमेन्द्रं श्यामाकं चरुं निर्वपेत्ऽइति श्रूयते ।
तत्राश्वप्रतिग्रहेष्ट्यधिकरणपूर्वपक्षन्यायो बहुसूत्रव्यवहितस्तद्वदिति परामृश्यते, तद्वल्लौकिके धातुसाम्यार्थं पीतसोमस्य वमने ऽयं चरुः स्याद्वमननिमित्तेन्द्रियशोषाख्यदोषस्य दृष्टस्य ऽइन्द्रियेण वीर्येण व्यृध्यते यः सोमं वमतिऽइत्यनुवादादिति पूर्वपक्षसूत्रार्थः ।
वैदिके तु सोमपाने शेषप्रतिपत्तेर्जातत्वाद्वमने ऽपिन दोष इति सिद्धान्तः ।
लोके वमनकृतेन्द्रियशोषस्य धातुसाम्यकरत्वेन गुणत्वान्न दोषता ।
वेदे तु ऽमा मे वाङ्नाभिमतिगाःऽइति साम्यग्जरणार्थमन्त्रलिङ्गाद्वमने कर्मवैगुण्यात्तस्य दोषता ।
तस्माद्वैदिकसोमवमने सौमेन्द्रश्चरुरिति स्थितमित्येवमादिषु सूत्रेष्वित्यर्थः ॥1॥
एन्द् ब्स्र्प्_2,4.1.1
स्तर्त् ब्स्र्प्_2,4.1.2ः
गौण्यसंभवात्

2.4.3

ननु प्रतिज्ञापि गौणी कं न स्यादित्यत आह-#तथाच प्रतिज्ञातार्थमिति ।
उपक्रमोपसंहाराभ्यां प्रतिपिपादयिषिताद्वितीयत्वप्रतिज्ञानुरोधेन प्राणोत्पत्तिर्मुख्यैवेति भावः ।
मुण्डकवच्छ्रुत्यन्तरे ऽपि प्रतिज्ञादर्शनात्सा मुख्येत्याह-#तथेति ।
एषा प्रतिज्ञा प्राणोत्पत्तिमुख्यत्वे हेतुत्वेन द्रष्टव्येत्यर्थः ।
इदानीं प्रलये प्राणसत्वश्रुतेर्गतिं प्रश्नपूर्वकमाह-#कथमित्यादिना ।
नेदं वाक्यं महाप्रलये परमकारणस्य ब्रह्मणः प्राणवत्त्वपरं किन्त्ववान्तरप्रलये हिरण्यगर्भाख्यावान्तरप्रकृतिरूपप्राणसद्भावपरमित्यर्थः ।
ननु हिरण्यगर्भरूपविकारस्य सत्त्वे कथं तदा विकारासत्त्वकथनं, तत्राह-#स्वविकारेति ।
स्वस्य कार्यब्रह्मणो यत्कार्यं स्थूलं तस्योत्पत्तिरित्यर्थः ।
ननु यथाश्रुति महाप्रलये प्राणसद्भावरूपं लिङ्गं प्राणानुत्पत्तिसाधकं किमित्यवान्तरप्रलयपरतया नीयत इति चेत् ऽएतस्माज्जायते प्राणःऽइत्यादि प्रबलजन्मश्रुतिबलादिति वदामः ।
ननु विकारस्य ब्रह्मणः कथं प्रकृतित्वमित्यत आह-#व्याकृतेति ।
ऽहिरण्यगर्भेः समवर्तताग्रेऽइत्यादिश्रुतौ ऽआदिकर्ता स भूतानांऽइत्यादि स्मृतौ च विकारात्मनामपि मूलकारणावस्थारूपाणां ब्रह्मविराडादीनां प्रकृतिविकारभावेन प्रसिद्धिरस्ति ।
पूर्वापेक्षया ।
विकारस्याप्युत्तरापेक्षया प्रकृतित्वमित्यर्थः ।
केचिद्वियदधिकरणानुरोधेनेदं सूत्रं व्याचक्षते तान्दूषयति-#वियदिति ॥2॥
एन्द् ब्स्र्प्_2,4.1.2
स्तर्त् ब्स्र्प्_2,4.1.3ः
तत्प्राक्श्रुतेश् च

2.4.4

तस्य जायत इति पदस्याकाशादिषु मुख्यस्य पाठापेक्षया प्राचीनेषु प्राणेषु श्रुतेर्मुख्यं जन्मेति सूत्रयोजना-#तत्सामान्यादिति ।
तेनाकाशादिजन्मना सामान्यमेकशब्दोक्तत्वं तस्मादित्यर्थः ।
एकस्मिन्वाक्ये एकस्य शब्दस्य क्वचिन्मुख्यत्वं क्वचिद्गौणत्वमिति वैरूप्यं न युक्तमिति न्यायमन्यत्राप्यतिदिशति-#यत्रापि पश्चाच्छ्रुत इति ॥3॥
एन्द् ब्स्र्प्_2,4.1.3
स्तर्त् ब्स्र्प्_2,4.1.4ः
तत्पूर्वकत्वाद् वाचः

2.4.5

यच्चोक्तं छान्दोग्ये ऽपि प्राणानामुत्पत्तिर्न श्रूयत इति, तत्राह-#तत्पूर्वकत्वाद्वाच इति ।
अत्र सूत्रे वाक्पदं प्राणमनसोरुपलक्षणम् ।
वाक्प्राणमनसां तेजोबत्रपूर्वकत्वोक्तेरश्रवणमसिद्धमिति योजना ।
तैर्वागादिभिश्चक्षुरादीनां सामान्यं करणत्वं तत्सामान्यादित्यर्थः ।
अत्र मयड्विकारे मुख्य इति पक्षे वर्तत एव प्राणानां ब्रह्मकार्यत्वं तेजोबन्नानां ब्रह्मविकारत्वात् ।
यदि प्राणस्य वायोर्जलविकारत्वायोगात्तदधीनस्थितिकत्वमात्रेण भक्तस्तथापि प्राणानां विकारत्वे भूताधीनस्थितिकत्वं लिङ्गं मयटोक्तमिति सिद्धं ब्रह्मकार्यत्वं ऽस प्राणमसृजतऽइत्यादिश्रुत्यन्तरे स्पष्टं ब्रह्मकार्यत्वोक्तेश्च ।
तस्मात्प्राणानामुत्पत्तिश्रुतीनां सद्भावश्रुत्यविरोधात्कारणे ब्रह्मणि समन्वय इति सिद्धम् ।
लिङ्गशरीरविचारात्मकाधिकरणानां लिङ्गात्त्वंपदार्थभेदधीः फलमिति द्रष्टव्यम् ॥4॥
एन्द् ब्स्र्प्_2,4.1.4
स्तर्त् ब्स्र्प्_2,4.2.5ः
सप्त गतेर् विशेषितत्वाच् च

2.4.6

एवं जन्मलब्धसत्ताकानां प्राणानामुपजीव्योपजीवकत्वसंगत्या सांख्यां निर्णेतुं श्रुतीनां विरोधात्संशये पूर्वपक्षयति-#सप्तगतेर्विशेषितत्वाच्च ।
विशयः संशयः ।
इन्द्रियाण्यत्र विषयः ।
पञ्च धीन्द्रियाणि वाङ्मनश्चेति सप्त प्राणा एत एव हस्तेन सहाष्टौ ।
ग्रहत्वं बन्धकत्वं ।
गृह्णन्ति बध्नन्तीति ग्रहा इन्द्रियाणि तेषां बन्धकत्वं विषयाधीनमित्यतिग्रहाः ग्रहानतिक्रान्ता विषया इत्यर्थः ।
द्वे श्रोत्रे द्वे चक्षुषि द्वे घ्राणे वाक्चेति सप्त शीर्ष्णि भवाः प्राणा द्वाववाञ्चौ पायूपस्थौ चेति नव, ज्ञानकर्मेन्द्रियाणि दशेमे पुरुषे देहे प्राणाः आत्मा मन एकादश प्राणा इति सिद्धान्तकोटिरुक्ता ।
एत एव हृदयाख्यया बुद्ध्या सहद्वादश ।
अहङ्कारेण सह त्रयोदश ।
श्रुतितः सप्तत्वावगतेर्ये शीर्षण्याः सप्त ते प्राणा इति शीर्षण्योद्देशेन प्राणत्वविशेषणाद्वा शीर्षण्यानां प्राणत्वशब्दिता, इन्द्रियत्वपरिसंख्यया सप्तैव प्राणा इति सूत्रयोजना ।
सप्तत्वं वीप्साविरुद्धमिति शङ्कते-#नन्विति ।
गुहायां हृदये शेरत इति गुहाशयाः ।
स्वस्थानेषु निहिता निक्षिप्ता इत्यर्थः ।
चित्तेन चतुर्दशत्वं मन्तव्यम् ।
पूर्वपक्षी परिहरति-#नैष दोष इति ॥5॥
एन्द् ब्स्र्प्_2,4.2.5
स्तर्त् ब्स्र्प्_2,4.2.6ः
हस्तादयस् तु स्थिते ऽतो नैवम्

2.4.7

सिद्धान्तिनाप्येकादशसु मनोवृत्तिभेदान्निश्चयात्मिका बुद्धिः, गर्वात्मको ऽहङ्कारः, स्मरणात्मकं चित्तमिति द्वादशादिसंख्यान्तर्भावनीया ।
ततो वरं प्राथमिकसप्तत्वे ऽन्तर्भावः लाघवादिति प्राप्ते सिद्धान्तयति-#अत्रेति ।
आदानेन कर्मणा गृहीत संबद्धः ।
संबन्धमेवाह-#हस्ताभ्यामिति ।
अतो ऽधिकसंख्याया न्यूनायामन्तर्भावायोगात्सप्तैव प्राणाः स्युर्लाघवानुरोधादित्येवं न मन्तव्यमित्यन्वयः ।
तर्हि कतीन्द्रियाणीत्याकाङ्क्षयामाह-#उत्तरेति ।
ऽश्रुतीनां मिथो विरोधे सति मानान्तरानुगृहीता श्रुतिर्बलीयसीऽइति न्यायेन कार्यलिङ्गानुमानानुगृहीतैकादशप्राणश्रुत्यनुसारेणान्याः श्रुतयो नेया इत्यभिसंधायाह-#सत्यमिति ।
एकादशकार्यलिङ्गान्याह-#शब्देति ।
त्रयः कालास्त्रैकाल्यं तद्विषया वृत्तिर्यस्य तत्रैकाल्यवृत्ति ।
इन्द्रियान्तराणां वर्तमानमात्रग्राहित्वादतीतादिज्ञानाय मनो ऽङ्गीकार्यमित्यर्थः ।
विशेषितत्वादित्युक्तं निरस्यति-#अपिच सप्तेति ।
नच तावतामिति ।
आदानादीनां श्रोत्रादिभ्यो ऽत्यन्तवैजात्यादित्यर्थ ।
तेषां तद्वृत्तित्वे बधिरादीनामादानादि न स्यादिति भावः ।
कथं तर्हि छिद्रे प्राणशब्द इत्याशङ्क्य लक्षणयेत्याह-#मुख्यस्य त्विति ।
ऽसप्त प्राणाः प्रभवन्तिऽइत्युपासनार्थम् ।
ऽअष्टौ ग्रहाऽइति श्रुतिस्तूपलक्षणार्था ।
पायूपस्थपादानामपि बन्धकत्वाविशेषादिति विवेक्तव्यम् ।
नन्विदं सूत्रव्याख्यानमसंगतं पञ्चधीन्द्रियावाङ्मनसां सप्तत्वावगतिः शीर्षण्यानां चतुर्णां विशेषितत्वमिति हेतोर्वैयधिकरण्यादुक्तपरिसंख्यादोषाच्चेत्यरुचेराह-#इयमपरेति ।
इन्द्रियाणि कतीति संदेहे पूर्वपक्षसूत्रं योजयति-#सप्तेति ।
तं जीवात्मानं ये प्राणाः सह गच्छन्ति तेषामेव भोगहेतुत्वादिन्द्रियत्वमित्यर्थः ।
विपन्नावस्थायामेव चाक्षुपश्चक्षुषि स्थितो ऽनुग्राहकसूर्यांशरूपः पुरुषः पराङ् पर्यावर्तते बहिर्देशात्स्वांशिनं सुर्ये प्रतिगच्छति ।
अथ तदानीमयं मुमूर्षुररूपज्ञो भवति ।
देवांशे देवं प्रविष्टे लिङ्गांशश्चक्षुर्हृदये मनसैकीभवति तदायं न पश्यतीति पार्श्वस्था आहुरित्यर्थः ।
आदिपदात् ऽन जिघ्रति न वदति न रमयते न शृणोति न मनुते न स्पृशति न विजानातिऽइति गृह्यते ।
सप्तानामेव जीवेन सह गतिरित्यसिद्धं, ग्रहत्वश्रुत्या हस्तादीनामपि गतिप्रतीतेरिति सिद्धान्तयति-#एवमित्यादिना ।
हस्तादिबन्धस्य प्राङ्मोक्षात्सहगतौ स्मृतिमाह-#पुर्यष्टकेनेति ।
प्राणादिपञ्चकं भूतसूक्ष्मपञ्चकं ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकमन्तःकरणचतुष्टयमविद्या कामः कर्म चेति पुर्यष्टकमात्मनो ज्ञापकत्वाल्लिङ्गं सति संभवे सर्वश्रुतिसंकोचो न युक्त इत्याह-#सर्वशब्दो ऽपीति ।
तस्मात्संख्याश्रुतीनामविरोधादेकादशेन्द्रियकारणे ब्रह्मणि समन्वय इति सिद्धम् ॥6॥
एन्द् ब्स्र्प्_2,4.2.6
स्तर्त् ब्स्र्प्_2,4.3.7ः
अणवश् च

2.4.8

#अणवश्च ।
ऽप्राणाः सर्वे ऽनन्ताःऽइति श्रुतेरिन्द्रियाणां विभुत्वात्तेषामुत्क्रान्तिरसिद्धा किन्तु तत्तद्देहे तेषामभिव्यक्तिरूपाः प्रादेशिक्यो वृत्तयः सन्ति न तासामुत्क्रान्त्यादिरिति सांख्यानामाक्षेपः, तत्संगत्या प्राणाः किंपरिमाणा इति संदेहे सिद्धान्तयति-#अधुनेत्यादिना ।
उत्पत्तिसंख्यानिर्णयानन्तरं परिमाणं निरूप्यत इत्यर्थः ।
अनुद्भूतरूपस्पर्शत्वं सूक्ष्मत्वम् ।
परिच्छेदो ऽल्पत्वम् ।
बुद्ध्यादीनां विभुत्वे तदुपाधिकमात्मनो ऽणुत्वादिकं न सिद्ध्येदित्युक्तन्यायविरोधमाह-#तद्गुणसारत्वमिति ।
उक्ताक्षेपमनूद्य निरस्यति-#सर्वगतानामिति ।
आनन्त्यश्रुतेरुपासनार्थत्वान्नोत्क्रान्त्यादिश्रुतीनां तया विरोध इति सिद्धम् ॥7॥
एन्द् ब्स्र्प्_2,4.3.7
स्तर्त् ब्स्र्प्_2,4.4.8ः
श्रेष्ठश् च

2.4.9

#श्रेष्ठश्च ।
अतिदेशत्वान्न संगत्याद्यपेक्षा ।
ऽतथा प्राणाःऽइत्युक्तन्यायो ऽत्रातिदिश्यते ।
ननु प्राणो जायते न वेति संशयाभावादतिदेशो न युक्त इत्याक्षिपति-#किमर्थ इति ।
निश्चितमहाप्रलये प्राणसद्भावश्रुत्याधिकां शङ्कामाह-#नासदासीये हीति ।
ऽनासदासीत्ऽइत्यारभ्याधीत इत्यर्थः ।
तर्हि तदा प्रलयकाले मृत्युर्मारको मृत्युमत्कार्यं वा नासीत्, अमृतं च देवभोग्यं नासीत्, रात्र्याः प्रकेतश्चिह्नरूपश्चन्द्रः अह्नः प्रकेतः सूर्यश्च नास्तां, स्वधया सहेत्यन्वयः ।
पितृभ्यो देयमन्नं स्वधा ।
यद्वा स्वेन धृता माया स्वधा तया सह तदेकं ब्रह्मानीदासीदिति परमार्थः ।
अत्रानीदिति तच्चेष्टां कृतवदिति पूर्वपक्षार्थः ।
तस्माद्ब्रह्मणः परः परमुत्कृष्टमन्यच्च किमपि न बभूवेत्यर्थः ।
परिहारः सुबोधः ननु श्रेष्ठशब्दस्य प्राणे प्रसिद्ध्यभावात्कथं सूत्रमिति, तत्राह-#श्रेष्ठ इति चेति ।
श्रुतिं व्याचष्टे-#ज्येष्ठश्च प्राण इत्यादिना ।
पूयेत पूयं भवेत् ।
न संभवेत्तद्गर्भो न भवेदित्यर्थः ।
वागादिजीवनहेतुत्वं प्राणस्य गुणः ।
एवमानीच्छ्रुत्यविरोधात्प्राणोत्पत्तिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥8॥
एन्द् ब्स्र्प्_2,4.4.8
स्तर्त् ब्स्र्प्_2,4.5.9ः
न वायुक्रिये पृथगुपदेशात्

2.4.10

इन्द्रियाणि विचार्य तद्व्यापारात्प्राणं पृथक्कर्तुमुत्पत्तिरतिदिष्टा ।
संप्रत्युत्पन्नप्राणस्वरूपं पृथक्करोति-#न वायुक्रिये पृथगुपदेशात् ।
मुख्यः प्राणः किं वायुमात्रमुत करणानां साधारणव्यापार आहोस्वित्तत्त्वान्तरमिति वायुप्राणयोर्भेदाभेदश्रुतीनां मिथोविरोधात्संशये पूर्वपक्षमाह-#तत्रेति ।
द्वितीयं सांख्यपूर्वपक्षमाह-#अथवेति ।
सिद्धान्तत्वेन सूत्रमादत्ते-#अत्रोच्यत इति ।
मनोरूपब्रह्मणो वाक्प्राणचक्षुःश्रोत्रैश्चतुष्पात्त्वं श्रुतावुक्तं, तत्र प्राणो वायुनाधिदैविकेन भात्यभिव्यञ्ज्यते अभिव्यक्तः संस्तपति ।
कार्यक्षमो भवतीत्यर्थः ।
श्रुतिषु तत्र तत्र प्राणस्य वागादीनां च मिथः संवादलिङ्गेन पृथगुत्पत्तिलिङ्गेन चेन्द्रियतदभिन्नव्यापारेभ्यो ऽपि भिन्नत्वमित्याह-#तथेति ।
प्राणस्येन्द्रियवृत्तित्वं श्रुत्या निरस्य युक्त्यापि निरस्यति-#नच समस्तानामिति ।
या चक्षुः-साध्या वृत्तिः सैव न श्रोत्रादिसाध्या, करणानां प्रत्येकमेकैकरूपग्रहादिवृत्तावैव हेतुत्वात् ।
नच समुदायस्य वृत्तिः संभवति तस्यासत्त्वादित्यर्थः ।
प्राणाभावादिति ।
श्रोत्रादीनामेकप्राणनाख्यवृत्त्यनुकूलपरिस्पन्देषु मानाभावात्, श्रवणादीनामपरिस्पन्दत्वेन विजातीयानां, परिस्पन्दरूपप्राणनाननुकूलत्वादवान्तरव्यापाराभावान्न समस्तकरणवृत्तिः प्राण इत्यर्थः ।
किञ्च प्राणस्य वृत्तित्वे वागादीनामेव प्राधान्यं वाच्यं, नैतदस्तीत्याह-#तथा प्राणस्येति ।
यथा मृदो घटो न वस्त्वन्तरं नापि मृण्मात्रं तद्विकारत्वात्, तथा वायोर्विकारः प्राण इत्यभेदश्रुतेर्गतिमाह-#उच्यत इति ।
देहं प्राप्तः पञ्चावस्थो विकारात्मना स्थितो वायुरेव प्राण इत्यर्थः ॥9॥
एन्द् ब्स्र्प्_2,4.5.9
स्तर्त् ब्स्र्प्_2,4.5.10ः
चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः

2.4.11

प्राणस्य करणवृत्तित्वाभावे जीववद्भोक्तृत्वं स्यादिति शङ्कते-#स्यादेतदिति ।
प्राणो न भोक्ता, भोगोपकरणत्वात्, चक्षुरादिवदिति सूत्रार्थमाह-#तुशब्द इत्यादिना ।
यथा बृहद्रथन्तरयोः सर्वत्र सहप्रयुज्यमानत्वेन सामत्वेन वा साम्यात्सहपाठस्तथा करणैः सहोपकरणत्वेन साम्यात्प्राणस्य पाठ इति न हेत्वसिद्धिरित्यर्थः ।
किञ्च प्राणो न भोक्ता, सावयवत्वात्, जडत्वाद्भौतिकत्वाच्च, देहवत् ॥10॥
एन्द् ब्स्र्प्_2,4.5.10
स्तर्त् ब्स्र्प्_2,4.5.11ः
अकरणत्वाच् च न दोषस् तथा हि दर्शयति

2.4.12

ननु यद्भोगोपकरणं तत्सविषयं दृष्टं यथा चक्षुरादिकं, प्राणस्य तु निर्विषयत्वादसाधारणकार्यभावाच्च नोपकरणत्वमिति शङ्कते-#स्यादेतदिति ।
उक्तव्याप्तेः शरीरे व्यभिचाराद्देहेन्द्रियधारणोत्क्रान्त्याद्यसाधारणकार्यसत्वाच्च निर्विषयस्यापि प्राणस्य शरीरवद्भोगोपकरणत्वमक्षतं न तु चक्षुरादिवज्ज्ञानकर्मकरणत्वमस्ति येन सविषयत्वं स्यादिति परिहरति-#न तावदित्यादिना ।
अहंश्रेयसि स्वस्य श्रेष्ठतानिमित्तम् ।
व्यूदिरे विवादं चक्रिरे-#तद्वृत्तिमात्रहीनमिति ।
मूकादिभावेन स्थितमित्यर्थः ।
अवरं नीचं, कुलायं देहाख्यं गृहं, प्राणेन रक्षञ्जीवः स्वपितीत्यर्थः-#तदैव तदानीमेव ।
तेन प्राणेन यदश्नाति जीवस्त्वेन प्राणकृताशनेनेति यावत् ।
एवंश्रुतेः प्राणस्यासाधारणं कार्यमस्तीत्युक्तम् ॥11॥
एन्द् ब्स्र्प्_2,4.5.11
स्तर्त् ब्स्र्प्_2,4.5.12ः
पञ्चवृत्तिर् मनोवत् व्यपदिश्यते

2.4.13

तत्रैव हेत्वन्तरार्थे सूत्रं व्याचष्टे-#इतश्चेत्यादिना ।
वृत्तिरवस्था ।
अग्निमन्थनादिकं वीर्यवत्कर्म ।
कामादिवृत्तिवज्ज्ञाने ऽपि पञ्चत्वनियमो नास्तीत्यरुचिं स्वयमेवोद्भाव्य पक्षान्तरं गृह्णाति-#नन्वत्रापीत्यादिना ।
प्रमाणं प्रमितिः विपर्ययो भ्रमः ।
शशविषाणादिज्ञानं विकल्पः ।
तामसी वृत्तिर्निद्रा ।
स्मृतिः प्रसिद्धा ।
भ्रमन्द्रियोरविद्यावृत्तित्वान्न मनोवृत्तित्वमित्यरुच्या स्वमतमाह-#बह्विति ।
सूत्रस्यार्थान्तरमाह-#जीवेति ।
तदेवं प्राणवायोर्भेदाभेदश्रुत्योरविरोध इति सिद्धम् ॥12॥
एन्द् ब्स्र्प्_2,4.5.12
स्तर्त् ब्स्र्प्_2,4.6.13ः
अणुश् च

2.4.14

एवं मुख्यप्राणस्योत्पत्तिं स्वरूपं चोक्त्वा परिमाणसंदेहे ऽणुत्वमुपदिशति-#अणुश्चेति ।
अधिकाशङ्कामाह-#ननु विभुत्वमपीति ।
प्लुषिर्मशकादपि सूक्ष्मो जन्तुः पुत्तिकेत्युच्यते ।
नागो हस्ती ।
प्राण उत्क्रामतीति श्रुत्याल्पत्वं प्राणस्य भाती, समो ऽनेन सर्वेणेति, श्रुत्या विभुत्वमिति विरोधे आध्यात्मिकप्राणस्याल्पत्वमाधिदैविकस्य विभुत्वमिति विषयभेदाच्छ्रुत्योरविरोध इति समाधत्ते-#तदुच्यत इति ।
किञ्चोपक्रमे प्राणस्य प्लुष्यादिसमत्वेनाल्पत्वोक्तेः सम एभिस्त्रिभिर्लोकैरिति विराड्देहसाम्यम् ।
समो ऽनेनेति सूत्रात्मत्वमिति विषयव्यवस्था सुस्थेत्याह-#अपिचेति ।
अणवश्चेत्यत्र सर्वे ऽनन्ता इति इन्द्रियानन्त्यमुपासनार्थमिति समाहितम्, अत्र तु प्राणविभुत्वमाधिदैविकमिति समाधानान्तरोक्तेरपौनरुक्त्यम् ।
अन्ये तु प्रसङ्गात्तत्र सांख्याक्षेपो निरस्तः, अत्र तु श्रुतिविरोधो निरस्त इत्यपौनरुक्त्यमाहुः ॥13॥
एन्द् ब्स्र्प्_2,4.6.13
स्तर्त् ब्स्र्प्_2,4.7.14ः
ज्योतिराद्यधिष्ठानं तु तदामननात्

2.4.15

पूर्वं प्राणस्याध्यात्मिकाधिदैविकविभागेनाप्यणुत्वविभुत्वव्यवस्थोक्ता तत्प्रसङ्गेनाध्यात्मिकानां प्राणानामाधिदैविकाधीनत्वमाह-#ज्योतिराद्यधिष्ठानं तु तदामननात् ।
ऽवाचा हि नामान्यभिवदति चक्षुषा रूपाणि पश्यतिऽइति तृतीयाश्रुत्यान्वयव्यतिरेकवत्या वागादीनां निरपेक्षसाधनत्वोक्तिविरोधात् ऽअग्निर्वाग्भूत्वाऽइत्यादिश्रुतिस्तेषामचेतनाग्न्याद्युपादानकत्वपरा न तु तेषामधिष्ठातृदेवतापरा ।
नच स्वकार्ये शक्तानामपि वागादीनामचेतनत्वादधिष्ठात्रपेक्षा न विरुध्यत इति वाच्यं, जीवस्याधिष्ठातृत्वात् ।
किञ्च देवतानामधिष्ठातृत्वे जीववद्भोक्तृत्वमस्मिन् देहे स्यात्, तथा चैकत्रानेकभोक्तृणां विरोधाद्दुर्बलस्य जीवस्य भोक्तृत्वं न स्यादिति पूर्वपक्षार्थः ।
सिद्धान्तयति-#एवं प्राप्त इत्यादिना ।
अग्निर्वाग्भूत्वादित्यश्चक्षुर्भूत्वेति च तद्भावो ऽत्राग्र्यादिदेवताधिष्ठेयत्वरूप एव संबन्धो न तदुपादानकत्वरूपो दूरस्थादित्यमण्डलादेर्मुखस्थचक्षुराद्युपादानत्वात्संभवादित्याह-#अग्नेश्चायमिति ।
वायुः प्राणाधिष्ठाता भूत्वा नासापुटे प्राविशदिति व्याख्येयमित्याह-#तथेति ।
भाति दीप्यते, तपति स्वकार्यं करोतीत्यर्थः ।
एतस्मिन्नधिष्ठात्रधिष्ठेयत्वरूपार्थे लिङ्गान्तरमाह-#स वै वाचमिति ।
स प्राणो वाचं प्रथमामुद्गीथकर्मणि प्रधानामनृतादिपाप्मरूपं मृत्युमतीत्यावहन्मृत्युना मुक्तां कृत्वा अग्निदेवतात्मत्वं प्रापितवानित्यर्थः ।
किञ्च मृतस्याग्निं वागप्येति वातं प्राणः चक्षुरादित्यमित्यादिश्रुतिरप्यधिष्ठात्रधिष्ठेयत्वसंबन्धं द्योतयतीत्याह-#सर्वत्रेति ।
ननु शकटादीनां बलीवर्दादिप्रेरितानां प्रवृत्तिर्दृष्टा, क्षीरादीनां त्वनधिष्ठितानामपि दध्यादिप्रवृत्तिर्दृश्यते, तथा चोभयथासंभवे कथं निश्चयः, तत्राह-#उभयथोपपत्तौ चेति ।
उक्तदोषान्तरनिरासाय सूत्रमवतारयति-#यदपीति ॥14॥
एन्द् ब्स्र्प्_2,4.7.14
स्तर्त् ब्स्र्प्_2,4.7.15ः
प्राणवता शब्दात्

2.4.16

#शारीरेणैवेति ।
भोक्त्रेति शेषः ।
संबन्धो भोक्तृभोग्यभावः ।
अथ देहे प्राणप्रवेशानन्तरं यत्र गोलके एतच्छिद्रमनुप्रविष्टं चक्षुरिन्द्रियं तत्र चक्षुष्यभिमानी स आत्मा चाक्षुषः तस्य रूपदर्शनाय चक्षुः यद्यप्यात्मा करणान्येपक्षते तथापि ज्ञेयज्ञानतदाश्रयाहङ्कारान्यो वेद स आत्मा चिद्रूप एव, करणानि तु गन्धादिप्रवृत्तये ऽपेक्ष्यन्ते न चैतन्यायेति श्रुत्यर्थः ।
किञ्च यो ऽहं रूपमद्राक्षं स एवाहं शृणोमीति प्रतिसंधानादेकः शारीर एव भोक्ता न बहवो देवा इत्याह-#अपिचेति ॥15॥
एन्द् ब्स्र्प्_2,4.7.15
स्तर्त् ब्स्र्प्_2,4.7.16ः
तस्य च नित्यत्वात्

2.4.17

कदाचिद्देवानामत्रभोक्तृत्वं कदाचिज्जीवस्येत्यनियमो ऽस्त्वित्याशङ्क्य स्वकर्मार्जिते देहे जीवस्य भोक्तृत्वनियमान्मैवमित्याह-सूत्रकारः-#तस्य चेति ।
उत्क्रमाणादिषु जीवस्य प्राणाव्यभिचारात्तस्यैव प्राणस्वामित्वं, देवतानां तु परस्वामिकरथसारथिवदधिष्ठातृत्वमात्रमिति व्याख्यान्तरमाह-#शारीरेणैव च नित्य इति ।
यथा प्रदीपादिः करणोपकारकतया करणपक्षस्यान्तर्गतस्तथा देवाः करणोपकारिण एव न भोक्तार इत्यर्थः ।
जीवस्यादृष्टद्वारा करणाधिष्ठातृत्वाद्रथस्वामिवद्भोक्तृत्वं, देवानां तु करणोपकाराभिज्ञातया सारथिवदधिष्ठातृत्वमिति न जीवेनान्यथासिद्धिः ।
देवानामधिष्ठातृत्वेनास्मिन्देहे भोक्तृत्वानुमानं तु ऽन ह वै देवान् पापं गच्छतिऽइत्युक्तश्रुतिबाधितम् ।
तस्मात् ऽचक्षुषा हि रूपाणि पश्यतिऽइति श्रुतेः साधनत्वमात्रबोधित्वादग्निर्वाग्भूत्वेत्याद्यधिष्ठातृदेवतापेक्षाबोधकश्रुतिभिरविरोध इति सिद्धम् ॥16॥
एन्द् ब्स्र्प्_2,4.7.16
स्तर्त् ब्स्र्प्_2,4.8.17ः
त इन्द्रियाणि तद्व्यपदेशाद् अन्यत्र श्रेष्ठात्

2.4.18

सत्स्विन्द्रियेषु तदधिष्ठातृदेवताचिन्ता, तान्येव प्राणवृत्तिव्यतिरेकेण न सन्तीत्याक्षेपं प्रत्याह-#त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ।
प्राणादिन्द्रियाणां भेदाभेदश्रुतिभ्यां संशयं वदन् पूर्वपक्षयति-#मुख्यश्चेत्यादिना ।
हन्त इदानीमस्यैव मुख्यप्राणस्य सर्वे वयं स्वरूपं भवामेति संकल्प्य ते वागादयस्तथाभवन्नित्यभेदश्रुत्यर्थः ।
ते प्राणादभिन्नाः, प्राणपदवाच्यत्वात्, प्राणवदित्याह-#प्राणेति ।
ते प्राणाः श्रेष्ठादन्यत्र अन्ये इति प्रतिज्ञार्थत्वेन पदत्रयं व्याचष्टे-#तत्त्वान्तराण्येवेति ।
तद्व्यपदेशादित्यत्र तच्चब्दः प्रतिज्ञातान्यत्वं परामृशति ।
प्राणा इन्द्रियाणीत्यपर्यायशब्दाभ्यामन्यत्वोक्तेरिति हेतूपपादनार्थत्वेन पुनस्तानि सूत्रपदानि योजयति-#क इत्यादिना ।
सूत्रस्य विश्वतोमुखत्वादुभयार्थत्वमलङ्कार एव न दूषणम् ।
एतेन प्रतिज्ञाध्याहारः तच्छब्दस्याप्रकृतभेदपरामर्शित्वं चेति दोषद्वयमपास्तम् ।
शब्दभेदाद्वस्तुभेदसाधने ऽतिप्रसङ्गं शङ्कते-#नन्विति ।
प्राणवन्मनसो ऽपि इन्द्रियेभ्यो भेदः स्यादित्यर्थः ।
अपर्यायसंज्ञाभेदात्स्वतन्त्रसंज्ञिवस्तुभेद इत्युत्सर्गः ।
स च ऽमनः षष्ठानीन्द्रियाणिऽइत्यादिस्मृतिबाधान्मनस्यपोद्यते, प्राणे तु बाधकाभावादुत्सर्गसिद्धिरिति समाधत्ते-#सत्यमित्यादिना ।
मन इन्द्रियाणि चेति भेदोक्तिर्गोबलीवर्दन्यायेन नेया ।
सिद्धान्ते मनसः प्रमोपादानत्वादात्मवदनिन्द्रियत्वमिष्टं ततो नोत्सर्गबाध इति केचित् ।
किञ्च ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चऽइति पृथग्जन्मव्यपदेशात्स्वतन्त्रवस्तुभेद इत्याह-#व्यपदेशभेदश्चायमिति ।
एकस्मिन् वाक्ये प्राण इन्द्रियशब्दमैक्याल्लभते पुनरुक्तिभयान्न लभते चेति व्याघात इत्यर्थः ॥17॥
एन्द् ब्स्र्प्_2,4.8.17
स्तर्त् ब्स्र्प्_2,4.8.18ः
भेदश्रुतेः

2.4.19

एवं भेदेनापर्यायसंज्ञाभ्यामुक्तेः पृथग्जनोक्तेश्चेति तद्व्यपदेशादिति हेतुर्व्याख्यातः ।
भेदश्रुतेरिति सूत्रेण प्रकरणभेदो हेतुरुक्त इति न पौनरुक्त्यम् ।
ते ह देवाः शास्त्रीयेन्द्रियमनोवृत्तिरूपा असुराणां पापवृत्तिरूपाणां जयार्थमुद्गीथकर्मणि प्रथमं व्यापृतां वाचमूचुस्तन्न उद्गायासुरनाशार्थमिति तथास्त्वित्यङ्गीकृत्योद्गायन्तीं वाचमनृतादिदोषेण विध्वंसितवन्तोसुरा इत्येवं क्रमेण सर्वेष्विन्द्रियेषु पापग्रस्तेषु पश्चादथेति प्रकरणं विच्छिद्य प्रसिद्धमास्ये भवमासन्यं मुख्यं प्राणमूचुस्तन्न तद्गायेति तेन प्राणेनोदगात्रा निर्विषयतया सङ्गदोषशून्येनासुरा नष्टा इत्यसुराणां विध्वंसिनो मुख्यप्राणस्योक्तेर्भेदसिद्धिरित्याह-#ते हेति ।
तानि त्रीण्यन्यान्यात्मने स्वार्थं प्रजापतिः कृतवानित्यर्थः ॥18॥
एन्द् ब्स्र्प्_2,4.8.18
स्तर्त् ब्स्र्प्_2,4.8.19ः
वैलक्षण्याच् च

2.4.20

विरुद्धधर्मवत्त्वाच्च भेद इत्याह-#वैलक्षण्याच्चेति ।
मृत्युरासङ्गदोषः ।
वाग्दध्रे व्रतं धृतवतीत्यर्थः ।
बहुभिर्भेदलिङ्गैर्विरोधाद्वागादीनां प्राणरूपभवनं प्राणाधीनस्थितिकत्वरूपं व्याख्येयम् ।
एतदेव प्राणशब्दस्येन्द्रियेषु लक्षणाबीजं श्रुतौ ऽतस्मादेत एतेनाख्यायन्तऽइति परामृष्टम्, इति न भेदाभेदश्रुत्योर्विरोध इति सिद्धम् ॥19॥
एन्द् ब्स्र्प्_2,4.8.19
स्तर्त् ब्स्र्प्_2,4.9.20ः
संज्ञामूर्तिकॢप्तिस् तु त्रिवृत्कुर्वत उपदेशात्

2.4.21

उत्पत्तिरुत्पादनेति च कार्यकर्त्रोर्व्यापारौ प्रसिद्धौ तत्र जगदुत्पत्तिश्रुतिविरोधः अतीतेन पादद्वयैन निरस्तः,
संप्रत्युत्पादनश्रुतिविरोधो निरस्यते ।
तत्रापि सूक्ष्मभूतोत्पादनं पारमेश्वरमेवेति श्रुतिष्वविप्रतिपन्नं, स्थूलभूतोत्पादने त्वस्ति श्रुतिविप्रतिपत्तिरिति तन्निरासार्थमाह-#संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ।
नामरूपभेदात्करणभिन्नः प्राण इत्युक्तं, तत्प्रसङ्गेन स्थूलनामरूपकॢप्तिः किङ्कर्तृकेति चिन्त्यत इत्यवान्तरसंगतिः ।
प्रक्रिया प्रकरणं ।
ईक्षणमेवाह-#हन्तेत्यादिना ।
हन्त इदानीं देवताः सूक्ष्मा अनुप्रविश्येति संबन्धः ।
तासां तिसृणां देवतानामेकैकां देवतां तेजोबन्नात्मना त्र्यात्मिकां करिष्यामीति श्रुतिः पञ्चीकरणोपलक्षणार्था ।
छान्दोग्ये ऽप्याकाशवाय्वोरुपसंहारस्योक्तत्वात् ।
एवं स्थूलीकृतेषु भूतेषु प्राणिनां व्यवहारः सेत्स्यतीति परदेवतायास्तात्पर्यम् ।
जीवेनेतिपदस्य व्याकरवाणीत्यनेन संबन्धसंभवासंभवाभ्यां संशयमाह-#तत्रेति ।
पूर्वपक्षे जीवस्यैव भौतिकस्रष्टृत्वाद्ब्रह्मणः सर्वस्रष्टृत्वासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलम् ।
जीवेनेत्यस्य व्याकरवाणीतिप्रधानक्रियापदेन संबन्ध इति पूर्वपक्षमाह-#तत्र प्राप्तमिति ।
परदेवताया अकर्तृत्वे कथमुत्तमपुरुषप्रयोग इत्याशङ्क्य प्रयोजकत्वात्कर्तृत्वोपचार इत्याह-#यथा लोक इति ।
सिद्धान्तयति-#तुशब्देनेत्यादिना ।
प्रत्याकृति ।
प्रतिजातीत्यर्थः ।
अनेन स्थूलसर्वसर्गे जीवस्यासामर्थ्यं द्योतितम् ।
तथाच पदान्वयस्य पदार्थयोग्यताधीनत्वाज्जीवरूपेण प्रविश्याहमेव व्याकरवाणीत्यन्वयः ।
न तु जीवेन व्याकरवाणीति ।
ननु तर्हि प्रवेशक्रिया जीवकर्तृका व्याकरणमीश्वरकर्तृकमिति कर्तृभेदात् कृत्वाप्रत्ययो न स्यादित्यत आह-#नच जीवो नामेति ।
वस्तुतस्तु सूर्यो जले प्रविष्ट इति प्रतिबिम्बभावाख्यप्रवेशे सूर्यस्यैव कर्तृत्वप्रयोगाज्जीवात्मना प्रवेशे ऽपीश्वर एव कर्तेति कृत्वाश्रुतिर्युक्तेति बोध्यम् ।
नन्वभेदश्चेज्जीव एव व्याकर्ता किं न स्यादित्याशङ्क्य कल्पनया भिन्नस्य तस्याशक्तत्वाच्छ्रुतिविरोधाच्च मैवमित्याह-#परमेश्वर इति ।
प्रत्येकं महाभूतसर्गस्य प्रागुक्तत्वादिह व्याकरणवाक्ये यत्नपूर्वकं स्थीलभौतिकसर्ग उच्यत इति पाठव्यत्ययेन सूत्रसूचितं श्रुत्यर्थमाह-#त्रिवृत्करणपूर्वकमिति ।
ईश्वरकृतं त्र्यात्मत्वमिति क्व दृष्टमित्यत आह-#तच्चेति ।
इदानीं नामरूपव्याकरणे क्रममाह-#तत्राग्निरिति ।
यद्यपि ऽअतः प्रभवात्ऽइत्यत्र वेदशब्दपूर्विकार्थसृष्टिरुक्ता तथाप्यव्यक्तात्स्मृताच्छब्दादर्थसृष्टौ सत्यां स्फुटनामसंबन्धाभिव्यक्तिरत्रोक्तेत्यविरोधः ।
नन्वग्न्यादीनां तैजसानामेव श्रुतावुदाहरणद्भूजलयोसत्र्यात्मकत्वं न विवक्षितमित्यत आह-#अनेन चेति ।
उपक्रमे तासां मध्य इति शेषः ।
यत्कपोतरूपादिकं कृष्णत्वादिविशेषाकारेण विज्ञातमिव भवति तद्देवतानां समुदायरूपमित्यर्थः ॥20॥
एन्द् ब्स्र्प्_2,4.9.20
स्तर्त् ब्स्र्प्_2,4.9.21ः
मांसादि भौमं यथाशब्दमितरयोश् च

2.4.22

बाह्यं त्रिवृत्करणमुक्त्वाध्यात्मिकमपरं पूर्वोक्तविलक्षणं तदन्नुत्तरसूत्रमवतारयति-#तासामित्यादिना ।
पुरुषशरीरं प्राप्यैकैका त्रिवृद्भवति कार्यत्रयात्मना भवतीत्यर्थः ।
उत्तरसूत्रेणाशङ्कितं दोषं निरसितुमादौ शङ्काविषयमाध्यात्मिकत्रिवृत्करणं दर्शयतीति भाष्यार्थः ।
नन्वन्नमयं मांसादि कथं भौममित्यत आह-#त्रिवृत्कृता भूमिरेवेति ।
प्राणस्य वायोरप्कार्यत्वमौपचारिकं द्रष्टव्यम् ॥21॥
एन्द् ब्स्र्प्_2,4.9.21
स्तर्त् ब्स्र्प्_2,4.9.22ः
वैशेष्यात् तु तद्वादस् तद्वादः

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc