ब्रह्मसूत्र · अध्याय 3.2
योनेः शरीरश्रुतेर्न व्रीह्यादिशरीरत्वमनुशयिनामिति सूत्रार्थः ।
एवं कर्मिणां गत्यागतिसंसारो दुर्वार इत्यनुसन्धानात् कर्मफलाद्वैराग्यं तत्त्वज्ञानसाधनं सिद्धमिति पादार्थमुपसंहरति- इति सिद्धमिति ॥27॥
एन्द् ब्स्र्प्_3,1.6.27
इति श्रीमद्परमहंसपरिव्राजकाचार्य श्रीमद्गोविन्दभगवत्पादकृतौ शारीरकमीमांसाख्यायां भाष्यरत्नप्रभायां तृतीयाध्यायस्य प्रथमः पादः ॥
तृतीयाध्याये द्वितीयः पादः ।
स्तर्त् ब्स्र्प्_3,2.1.1ः
सन्ध्ये सृष्टिराह हि
संध्ये सृष्टिराह हि ।
उक्तवैराग्यसाध्यस्तत्त्वंपदार्थविवेको वाक्यार्थज्ञानसाधनमस्मिन् पादे निरूप्यत इति पादयोर्हेतुसाध्यभावसंगतिमाह- अतिक्रान्त इति ।
साधनविचारत्वादेवास्य पादस्यास्मिन्नध्याये संगतिः ।
अस्मिन् पादे ऽन स्थानतो ऽपिऽइत्यतः प्रागुद्देश्यत्वेन प्रथमं जिज्ञासितत्वंपदार्थो ऽवस्थाद्वारा विविच्यते, तदारभ्यापादसमाप्तेर्विधेयतत्पदार्थविवेकः, तत्र पूर्वं गत्यागतिचिन्तया जाग्रदवस्था निरूपिता तदनन्तरभाविनीं स्वप्नावस्थां श्रुत्युक्तां विषयीकृत्य तत्र स्वप्ने रथादिसृष्ट्युक्तेस्तदभावोक्तेश्च संशयं वदन् पूर्वपक्षसूत्रं योजयति- तत्र संशय इत्यादिना ।
स्वप्नरथादयो जाग्रद्रथादिवत् व्यावहारिकसत्ताका उत शुक्तिरजतवत् प्रातीतिका इति संशयार्थः ।
आरम्भणाधिकरणे प्रपञ्चस्य पारमार्थिकत्वनिषेधादिति मन्तव्यम् ।
अत्र पूर्वपक्षे जाग्रद्वत् स्वप्नाज्जीवस्य विवेकासिद्धिः ।
सिद्धान्ते प्रातीतिकदृश्यसाक्षितया विवेकात् स्वयञ्ज्योतिष्ट्वसिद्धिरिति फलम् ।
मुमूर्षोः सर्वेन्द्रियोपसंहारादेतल्लोकाननुभवो सति वासनामात्रेण इमं लोकं स्मरतः कर्मबलाधृदये मनसा परलोकस्फूर्तिरूपः स्वप्नो भवति, सो ऽयं लोकद्वयसन्धौ भवतीति संध्यः स्वप्नः ।
तथाच श्रुतिः-ऽतस्मिन् संध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यति इदं च परलोकस्थानं चऽइति ।
अयं स्वप्नः कादाचित्क इत्यरुच्या नित्यस्वप्नस्य प्रबोधसंप्रसादसंधिभवत्वमुक्तम् ।
अन्येतु मर्त्यचक्षुराद्यजन्यरूपादिसाक्षात्कारवत्त्वं परलोकलक्षणं, दैवचक्षुराद्यजन्यतद्वत्त्वं मर्त्यलोकलक्षणं च स्वप्ने ऽस्तीति लक्षणतो लोकद्वयस्पर्शित्वात् नित्यस्वप्नस्यैव लोकद्वयसंध्यत्वं ग्रामद्वयस्पर्शिमार्गस्य तत्संध्यत्ववदिति व्याचक्षते ।
न केवलं श्रुत्या स्वप्नार्थानां व्यावहारिकसत्यत्वं किन्तु सकर्तृकत्वादपीत्याह- स हि कर्तेति ॥1॥
एन्द् ब्स्र्प्_3,2.1.1
स्तर्त् ब्स्र्प्_3,2.1.2ः
निर्मातारं चैके पुत्रादयश् च
किञ्च स्वप्नार्थाः सत्याः, प्राज्ञनिर्मितत्वात्, आकाशादिवदिति सूत्रार्थमाह- अपिचेत्यादिना ।
रूढिमाशङ्क्य प्रकरणान्निरस्यति- नन्वित्यादिना ।
यः सुप्तेषु निर्व्यापारेषु करणेषु जागर्ति तदेव शुक्रं स्वप्रकाशं ब्रह्मेत्यर्थः ।
स्वप्नस्य जाग्रदर्थैः ।
समानदेशत्वश्रुतेरभेदश्रुतेश्च सत्यत्वे तात्पर्यमित्याह- अथो खल्वाहुरिति ॥2॥
एन्द् ब्स्र्प्_3,2.1.2
स्तर्त् ब्स्र्प्_3,2.1.3ः
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्
स्वप्नरथादयः प्रातीतिका जाग्रद्रथादौ कॢप्तसामग्रीं विना दृष्टत्वाच्छुक्तिरूप्यादिवदिति सिद्धान्तयति- तुशब्द इत्यादिना ।
चिन्मात्रनिष्ठाविद्या चित्त्वावच्छेदेन जीवे ऽपि स्थिता रथाद्याकारा मायेति सूत्रभाष्ययोरुक्ता मायाविद्ययोरभेदज्ञापनाय मात्रपदेन तु सति प्रमातर्यबाध्यत्वरूपस्य व्यावहारिकसत्यत्वस्य निरास उक्तः ।
कार्त्स्न्यमत्र जाग्रति या कॢप्तसामग्री, तज्जन्यत्वं परमार्थवस्तुनो जाग्रदर्थस्य कार्यस्य धर्मः ।
सत्यत्वव्यापकः तदभावं स्वप्ने विवृणोति- न तावादित्यादिना ।
संवृते सङ्कीर्णे, पर्येतुं गन्तुं, विपर्येतुमागन्तुं, श्रावयति प्रबुद्धो जनः,
पार्श्वस्थान्प्रतीति शेषः ।
एतत्स्वप्नं यथा स्यात्तथा ।
यत्र काले स्वप्न्यया वृत्त्या चरति तथा स्वशरीरे यथेष्टं चरतीत्यर्थः ।
बहिरिवेति ।
कुलायाद्देहात् बहिरिवामृत आत्मा चरित्वा यत्र कामं यथेष्टमीयते विहरतीत्यर्थः ।
गुणमाह- यो हीति ।
देहाभिमानहीनत्वगुणेन बहिष्ठवद्देहस्थो ऽपि बहिरित्युक्त इत्यर्थः ।
एवं सति श्रुतियुक्तिभ्यां अन्तरेव स्वप्ने सतीत्यर्थः ।
विप्रलम्भो विभ्रमः योग्यदेशाभावमुक्त्वा कालाभावमाह- कालेति ।
अत्र रात्रिसमये ऽपि केतुमालादिवर्षान्तरे वासरो भवति इति भारत इत्युक्तम् ।
पूर्वक्षानुमानानां जाग्रदर्थदृष्टान्ते कॢप्तमग्रीजन्यत्वमबाधयोग्यत्वं चोपाधिरिति सूत्रतात्पर्यम् ॥3॥
एन्द् ब्स्र्प्_3,2.1.3
स्तर्त् ब्स्र्प्_3,2.1.4ः
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः
स्वप्नस्य भ्रान्तिमात्रत्वे तत्सूचितो ऽप्यर्थः सत्यो न स्यादिति शङ्कोत्तरत्वेन सूत्रान्तरं व्याचष्टे- मायेत्यादिना ।
मन्त्रेण देवतानुग्रहेणौषधिसेवया वा स्वप्नः सत्यसूचकाश्चेत् सत्याः स्युरित्यत आह- तत्रापि भवतु नामेति ।
सत्यहर्षहेतोरपि शुक्तिरूप्यस्य सत्यत्वादर्शनादिति भावः ।
यथा कृषिद्वारा लाङ्गलस्य गवादिजीवननिमित्तत्वं तथा स्वप्नभोक्तुरदृष्टद्वारा स्वप्नसृष्टिनिमित्तत्वं न तु कुम्भं प्रति कुम्भकारस्येव साक्षाद् स्वप्नकर्तृत्वं सामग्र्यभावबाधयोरुक्तत्वादित्याह- यदुक्तमित्यादिना ।
तथाच स्वप्नस्य सकर्तृकत्वं मुख्यं नास्तीति हेत्वसिद्धिरिति भावः ।
श्रुतितात्पर्यविरोधाच्च न स्वप्नसत्यतेत्याह- अपिचेति ।
व्यतिकरः संकरः, श्रुत्यातत्परतयेत्यर्थः ।
जागरितादविशेषादिति भावः ।
फलितमाह- तस्मादिति ।
एतेनेति ।
भाक्तत्वेनेत्यर्थः ।
द्वितीयसूत्रोक्तप्राज्ञकर्तृकत्वहेतुरपि स्वप्नस्य किं श्रुतिसिद्ध उत प्राज्ञस्य सर्वेश्वरत्वात् सिद्धः, नाद्य इत्याह- यदप्युक्तमित्यादिना ।
स्वयं विहत्य जाग्रद्देहं निश्चेष्टं कृत्वा, स्वयं वासनया निर्माय, स्वेन भासा स्वीयबुद्धिवृत्त्या स्वेन ज्योतिषा स्वरूपचैतन्येन च स्वप्नमनुभवतीत्यर्थथः ।
न केवलं बृहदारण्यके जीवस्य स्वप्नकर्तृत्वं श्रुतं किन्तु काठके ऽपीत्याह- इहापीति ।
जीवोक्तौ ब्रह्मप्रकरणविरोध इत्यत आह- तस्य त्विति ।
एवं हेतोः श्रुतिसिद्धत्वं निरस्य द्वितीयमङ्गीकरोति- न चास्माभिरिति ।
तर्हि हेतुसिद्धेः स्वप्नस्य सत्यत्वमित्याशङ्क्य सत्यत्वं व्यावहारिकं पारमार्थिकं वेति विकल्प्य व्यवहारकाले बाधदर्शनात्, नाद्य इत्याह- पारमार्थिकस्त्विति ।
द्वितीये दृष्टान्तस्य साध्यवैकल्यमित्याह- नचेति ।
कस्तर्हि स्वप्नस्य जाग्रतो विशेषो ऽत्र कथ्यत इत्याशङ्क्य प्रातिभासिकत्वमित्याह- प्रागिति ॥4॥
एन्द् ब्स्र्प्_3,2.1.4
स्तर्त् ब्स्र्प्_3,2.2.5ः
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ
पूर्वं कॢप्तसामग्र्यभावात् स्वप्नो मायेत्युक्तमयुक्तं सत्यसङ्कल्पमात्रेणापि सत्यसृष्टिसंभवादिति शङ्कां कृत्वा परिहरन् सूत्रं व्याचष्टे- अथपि स्यादित्यादिना ।
सत्यसंकल्पस्य हि संकल्पात्सृष्टिः सत्या भवति जीवस्य त्वसत्यसंकल्पत्वं प्रत्यक्षमिति परिहारार्थः ।
तर्हि विरुद्धधर्मवत्त्वाज्जीवस्येश्वरत्वं नास्त्येवेति शङ्कते- किमिति ।
नास्तीति न किन्त्वावृतमस्ति तत्पुनरीश्वरप्रसादाकस्यचिद्व्यज्यत इत्याह- न नास्तीति ।
विधूतध्वान्तस्य निष्पापस्य संसिद्धस्याणिमादिविशिष्टस्येत्यर्थः ।
ब्रह्मैवाहमिति देवं ज्ञात्वा साक्षात्कृत्य सर्वपाशानामविद्यादिक्लेशानामपहानिरपक्षयस्तद्रूपो भवति ।
क्षीणैश्च क्लेशैस्तत्कार्यजन्ममरणात्मकबन्धध्वंस इति निर्गुणविद्याफलमुक्तम् ।
सगुणविद्याफलमाह- तस्येति ।
परस्याभिमुख्येनाहङ्ग्रहेण ध्यानाद्बन्धमोक्षापेक्षया मनेत्रोक्तहानिद्वयापेक्षया वा तृतीयं विश्वैश्वर्यमणिमादिरूपं मर्त्यदेहपाते सति सिद्धे देहे भवति तदभोगानन्तरमात्मज्ञानात्केवलो द्वैतशून्य आप्तकामः प्राप्तस्वयञ्ज्योतिरानन्दो भवतीति क्रममुक्तिरित्यर्थः ॥5॥
एन्द् ब्स्र्प्_3,2.2.5
स्तर्त् ब्स्र्प्_3,2.2.6ः
देहयोगाद्वा सो ऽपि
उक्तैश्वर्यतिरोभावे देहाभिमानो हेतुरिति कथनार्थं सूत्रं, तन्निरस्यां शङ्कामाह- कस्मादिति ।
सत्यावरणं नास्तीत्यङ्गीकृत्य कल्पितावरणं साधयति- उच्यत इत्यादिना ।
जीवस्येश्वरत्वमङ्गीकृत्यावरणकल्पनातो वरमन्यत्वकल्पनेत्याशङ्कामुद्भाव्य श्रुत्या निरस्यति- नन्वित्यादिना ।
स्वप्ने ऽप्यालोकादेः सत्यत्वे जाग्रतीवात्मनःस्वप्रकाशत्वमस्फुटं स्यात्, प्रातिभासिकत्वे त्वालोकेन्द्रियाद्यसत्त्वे ऽप्यर्थापरोक्ष्यमात्मज्योतिष एवेति स्फुटं सिध्यति ।
तस्माद्देशादिसाम्यवचनं स्वप्नस्य जाग्रत्तुल्यभानाभिप्रायमित्यर्थः ॥6॥
एन्द् ब्स्र्प्_3,2.2.6
स्तर्त् ब्स्र्प्_3,2.2.7ः
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च
एवं बाह्यकरणोपरमे सति मनोवासनोद्दीपिताविद्याविलासात्मकं स्वप्नमात्मनःसाक्षिणः स्वयञ्ज्योतिष्ट्वार्थं विचार्य प्रतियोग्यनुयोगिभावसङ्गत्या स्वप्नावस्थमनोलयात्मिकां सुषुप्तिं विचारयति- तदभावो नाडीषु तच्छुतेरात्मनि च ।
तदेतत्स्वपनं यथा स्यात्तथा ।
यत्र काले सुप्तः सुषुप्तः समस्तो निरस्तबाह्यकरणो मनोलयात्सम्यक्प्रसङ्ग इत्यर्थः ।
स्वापे नाडीस्थानमुक्त्वा नाडीपुरीततोर्नाडीपरमात्मनोश्च समुच्चयश्रुती आह- अन्यत्रेति ।
परमात्ममात्रश्रुतीराह- तथान्यत्रेत्यादिना ।
नाडीपुरीतब्रह्मसु सप्तमीश्रुतेः समुच्चयश्रुतेश्च संशयमाह- तत्रेति ।
पूर्वपक्षे स्थानविकल्पाज्जीवस्य ब्रह्मैक्यानिर्णयः, सिद्धान्ते नाडीभिः पुरीततं गत्वान्तर्हृदि ब्रह्मण्येव शेत इति समुच्च्यात् तन्निर्णय इति विवेकः ।
एकपुरोडाशार्थत्वं व्रीहियवयोर्दृष्टं नाड्यादीनामेकस्मिन् स्वापरूपार्थे निरपेक्षस्थानत्वं तु कुत इत्यत आह- नाड्यादीनां चेति ।
सति ब्रह्मणि तृतीयश्रुतेर्न सप्तमीति शङ्कार्थः ।
आयतनशब्दात्सप्तम्यर्थ आधारत्वं गम्यत इत्याह- नैष दोष इति ।
अन्यत्रावस्थाद्वये श्रान्तो जीवो विश्रान्तिस्थानं प्राणाख्यं सद्ब्रह्मोपसर्पति सुषुप्तावित्यर्थः ।
सप्तमीश्रुत्या निरपेक्षाधारत्वभानाद्विकल्प आस्थेयः कदाचित्समुच्चित्यापि नाड्यादीनां स्थानत्वमिति न समुच्चयश्रुतिविरोध इति पूर्वपक्षार्थः ।
सिद्धान्तयति- एवं प्राप्त इति ।
सूत्रे चकारः पुरीतत्समुच्चयार्थः ।
यदा नाड्यः सुषुप्तिस्थानं तदा पुरीतत्स्थानं न भवतीति श्रुतस्थानत्वस्य पक्षे बाधः स्यात्, स न युक्त इत्याह- विकल्पे ह्येषामिति ।
व्रीहियवयोस्त्वगत्या विकल्प इति भावः ।
यत्तु सप्तमीश्रुत्या नाड्यादीनामेकफलकत्वमिति, तन्नेत्याह- न ह्येकेति ।
प्रासादस्य पर्यङ्कधारणमर्थः ।
पर्यङ्कस्य तु शयनमिति फलभेदे ऽप्येकविभक्तिर्दृश्यते, व्यवधानाव्यवधानाभ्यां शयनसाधनत्वात् समुच्चयश्च, तथेहापि नाडीपुरीततोर्जीवस्य संचारद्वारा ब्रह्मण्येव सुप्तिरिति समुच्चय इत्यर्थः ।
नाडीनां प्राणस्य च एकेन वाक्येनोपादानान्मिथः समुच्चय इत्याह- एकवाक्येति ।
आधारत्वमात्रं सप्तम्यर्थो न निरपेक्षत्वमतो न समुच्चयस्य सप्तम्या बाध इत्याह- न चैवमपीति ।
समुच्चये ऽपीत्यर्थः ।
अत्र नाडीश्रुतौ नाडीषु भोक्तुः सुप्तिर्न विवक्षिता रश्मिसंबन्धनाडीरूपमार्गस्तुत्यर्थत्वादित्याह- अपिचेति ।
पित्तेन विषयेक्षणाभावे सुखदुःखयोरभावात् तद्धेतुधर्मात्मकपाप्मास्पर्श इत्यर्थः ।
अपहतपाप्मब्रह्मसंपत्त्या वा पाप्मास्पर्श इत्याह- अथवेति ।
अस्मिन् व्याख्याने लाभमाह- एवं च सतीति ।
ऽतासु तदा भवत्यथास्मिन् प्राण एवैकधा भवतिऽइति श्रुतेः समुच्चय आश्रितो भवतीत्यर्थः ।
नाडीब्रह्मणोर्गुणप्रधानभावेन सुप्तौ समुच्चयवत्पुरीतद्ब्रह्मणोरपीत्याह- तथेत्यादिना ।
आकाशे ब्रह्मणि शेत इत्युपक्रम्य ताभिः प्रत्यवसृप्य पुरीतमिति शेत इत्युक्तं, तथाच नाडीद्वारा पुरीततं गत्वा ब्रह्मणि शेत इति समुच्चयः सिद्ध इत्याह- तथा नाडीति ।
सता संपन्नो भवति प्राज्ञेन संपरिष्वक्त इति सत्प्राज्ञयोः श्रुतेः पञ्च सुप्तिस्थानानीत्यत आह- सत्प्राज्ञयोरिति ।
किञ्च प्रकृतदर्शादिसाधनैकपुरोडाशनिष्पत्तौ मिथो ऽनपेक्षतया समर्थत्वाद्युक्तो व्रीहियवयोर्विकल्पः, नाड्यादीनां तु ब्रह्मनिरपेक्षतया सुषुप्तजीवाधारत्वासामर्थ्यान्न विकल्प इत्याह- अपिच नाड्य इति ।
उपाधिलिङ्गाश्रयनाडीपुरीततोरुपहितजीवाश्रयत्वं परम्परया वाच्यं, तदपि सुषुप्तौ न संभवति, उपाधिलयादित्यर्थः ।
ननु ब्रह्मापि जीवस्य न मुख्यं स्थानं अभेदादित्यत आह- ब्रह्माधारत्वमिति ।
जीवस्य ब्रह्मण्यभेदेनावस्थानं नाडीपुरीततोस्तु लीनोपाधेर्जीवस्य स्थितिरेव न संभवतीत्येकार्थसामर्थ्याभावान्न विकल्प इत्यर्थः ।
सुषुप्तौ जीवस्य भेदकोपाधिलयाच्चौत्सर्गिकब्रह्माभेदस्य विकल्पो न युक्त इत्याह- अपिचेति ।
किञ्च नाड्यादीनामन्यतमस्थाने क्वचित्सुप्तिवादिनापि सुषुप्तं न विशिष्यत इति वक्तव्यं, तच्च वक्तुं न शक्यत इत्याह- अपिच स्थानेति ।
भेदाभावो हि भेदज्ञानाभावे हेतुः, नाडीपूरितद्रतस्य तु जीवस्य भेदावस्थत्वाद्भेदाविज्ञाने करणं नास्तीत्यर्थः ।
द्वैतावस्थास्यापि द्वैताज्ञाने हेतुं शङ्कते- ननु भेदेति ।
द्रष्टुर्दृश्याद्दूरस्थत्वं स्वाभाविकमौपाधिकं वा ।
तत्राद्यं सदृष्टान्तमनूद्य प्रत्याह- बाढमित्यादिना ।
द्वितीयमनूद्य दूषयति- उपाधिगतमेवेति ।
उपाधिसंभिन्नस्यैव नाड्यादौ स्वापे कतिपयसंनिकृष्टार्थज्ञानप्रसङ्गात् सुषुप्तिव्याघातः स्यात् ।
उपाधिलये त्वन्यत्र जीवस्य स्थित्ययोगाद्ब्रह्मण्येव स्वाप आस्थेय इत्यर्थः ।
एवं विकल्पं निरस्य नाडीपुरीततोर्ब्रह्मणा सह तुल्यवत्समुच्चयमफलत्वेन दूषयन् गुणप्रधानत्वेन समुच्चयमुपसंहरति- नच वयमित्यादिना ॥7॥
एन्द् ब्स्र्प्_3,2.2.7
स्तर्त् ब्स्र्प्_3,2.2.8ः
अतः प्रबोधो ऽस्मात्
किञ्च ब्रह्मणः सकाशाज्जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्याह-सूत्रकारः- अतः प्रबोध इति ।
नाडीपुरीततोः क्वाप्युत्थानापादानत्वाश्रवणान्न सुषुप्तिस्थानत्वमित्यर्थः, तस्मादुपाधिलये जीवस्य ब्रह्माभेदादौपाधिक एव भेद इति विवेकद्वाक्यार्थाभेदसिद्धिरिति स्थितम् ॥8॥
एन्द् ब्स्र्प्_3,2.2.8
स्तर्त् ब्स्र्प्_3,2.3.9ः
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ।
सुषुप्तौ उपाधिनाशात् कर्मानुस्मृत्यादेर्दर्शनाच्च संशये सत्यस्माद्ब्रह्मणो जीवस्योत्थानश्रुतेर्ब्रह्मैव सुषुप्तिस्थानमित्युक्तमयुक्तम् ।
सुप्तादन्यस्याप्युत्थानसंभवेन सुषुप्तस्य नाड्यादिस्थानत्वसंभवादित्याक्षेपसंगत्या नियमकाभावादनियम इति पूर्वपक्षमाह- तस्याः पुनरित्यादिना ।
पूर्वपक्षे ज्ञानवैयर्थ्यं सुषुप्त्यैवापुनरावृत्तिरूपमुक्तिसिद्धेः, सिद्धान्ते तु अज्ञातब्रह्मात्मना स्थितस्याज्ञानबलेन पुनस्तस्यैवोत्थानावश्यंभावादज्ञाननाशाय ज्ञानापेक्षेति फलम् ।
ईश्वरो वेत्यनियमदार्ढ्यायोक्तम् ।
स वान्यो वेत्येव पूर्वपक्षः ।
ज्ञानं विना बुद्ध्याद्युपाधेरत्यन्तनाशाभावाद्यया बुद्ध्योपहितो जीवः सुषुप्तौ कारणात्मना स्थितस्तस्यैव नानाकर्मानुभवसंस्कारवत्योपहित उत्तिष्ठतीति सिद्धान्तयति- स एव त्वित्यादिना ।
सामिकृतस्यार्धकृतस्य एकस्यैव ज्योतिष्टोमादेरनेकयजमानकत्वापातो ऽतिप्रसङ्गः ।
स्मृतिमुक्त्वानुशब्दसूचितां प्रत्यभिज्ञामाह- सो ऽहमिति ।
अयनं गमनं आयः ।
योनिः तत्तदिन्द्रियस्थानम् ।
प्रतिनियतं गमनं यथा भवति तथा प्रतियोन्यागच्छति जागरणायेति श्रुत्यर्थः ।
न विन्दतीत्यज्ञानसत्त्वात्सुप्तस्योत्थाननियम उक्तः ।
इह पूर्वप्रबोधे ये भवन्ति त एव तदोत्तरप्रबोधे भवन्तीत्यर्थः ।
विधिं व्याचष्टे- कर्मेति ।
स एवोत्तिष्ठतीति निश्चीयते इत्यर्थः अत्रैवोत्सूत्रं युक्त्यन्तरमाह- अपिचेत्यादिना ।
अन्योत्थाने सुखादेर्न पूर्वकर्मकार्यतेत्यकृतसुखाद्यागमः पूर्वसुप्तजीवकृतकर्मनाशश्चेत्यर्थः ।
पूर्वपक्ष्युक्तं दृष्टान्तं वैषम्येण दूषयति- यत्पुनरित्यादिना ।
अस्मदाद्यशक्यमपि विवेचनं प्राण्यदृष्टापेक्ष ईश्वरः करोतीति मत्वा दृष्टान्तमाह- दृश्यते चेति ।
ब्रह्माभेदाच्च जीवस्य जलबिन्दुवैषम्यमित्याह- अपिचेति ।
अभेदे स वान्यो वोत्तिष्ठति इति चिन्तानवकाश इत्याशङ्क्य बुद्धिभेदेन जीवभेदाच्चिन्तेत्याह- एवं सतीति ।
सुषुप्तौ बुद्धिनाशेन प्रत्यहं बुद्ध्युपाधिभेदादेकजीवस्य व्यवहारो न स्यादित्यत आह- स एवायमिति ।
स्थूलसूक्ष्मात्मना तिष्ठत्येकोपाधिरित्यर्थः ॥9॥
एन्द् ब्स्र्प्_3,2.3.9
स्तर्त् ब्स्र्प्_3,2.4.10ः
मुग्धेर्ऽधसंपत्तिः परिशेषात्
अवस्थात्रयादात्मानं विविच्य मूर्च्छातो विवेचयति- मुग्धेर्ऽधसंपत्तिः परिशेषात् ।
मूर्च्छा प्रसिद्धावस्थान्तर्गता वा पञ्चमावस्था वेति ।
अवस्थाचतुष्टयसिद्धेर्मुग्धस्य तद्वैलक्षण्याच्च संशये सो ऽहमिति प्रत्यभिज्ञयोत्थितस्य सुप्ताभेदवद्विशेषज्ञानाभावाविशेषेण लिङ्गेन सुषुप्तिरेव मूर्च्छेति प्रत्यभिज्ञानात्सुषुप्त्यन्तर्गता मूर्च्छेति दृष्टान्तसंगत्या पूर्वपक्षमाह- तिस्रस्तावदिति ।
पूर्वपक्षे प्रसिद्धावस्थातः पृथगात्मनो मूर्च्छातो विवेकार्थं यत्नासिद्धिः फलं, सिद्धान्ते पृथग्यत्नध्रौव्यमिति भेदः परिशेषं दर्शयन् सिद्धान्तयति- न तावदित्यादिना ।
जाग्रदपि जागरावस्थो ऽपीत्यर्थः ।
ऐन्द्रियकमर्थज्ञानं देहधारणं च तस्यास्ति न मुग्धस्येति वैषम्योक्त्या दूषयति- नेत्यादिना ।
मूर्च्छाया जागराद्भेदमुक्त्वा स्वप्नमृतिभ्यां भेदमाह- नापीत्यादिना ।
आलभन्ते स्पृशन्ति ।
दिष्टं मरणम् ।
सुषुप्तिमूर्च्छयोः किञ्चित्सारूप्ये ऽपि बहुवैलक्षण्याद्भेद इत्याह- नेति ।
लक्षणभेदमुक्त्वा निमित्तभेदमाह- निमित्तेति ।
प्रत्यभिज्ञाप्यसिद्धेत्याह- नचेति ।
उक्तसारूप्यवैरूप्याभ्यामर्धसंपत्तिः सर्वैः सुषुप्तिधर्मैरसंपन्नो मुग्धः सुषुप्तो न भवति, सर्वैर्मरणावस्थाधर्मैरसंपत्तेर्मृतो ऽपि न किन्तु अवस्थान्तरं गत इति सूत्रार्थः ।
अत्र सूत्रे जीवस्य ब्रह्मणार्धसंपत्तिरुक्तेति भ्रान्तः शङ्कते- कथमिति ।
यत्सुप्तं प्रति सत्संपन्नत्वं श्रुतं तदुपाध्याभावाभिप्रायम् ।
उपाध्यभावश्च मुग्धस्यापि मम इति यतस्तस्मात् कृत्स्नसंपत्तिरेवेत्यर्थः ।
सुषुप्तिकाले कर्मासंबन्धे पुनरुत्थानं कथमित्याशङ्क्य तत्कार्याभावात्तदसंबन्धोक्तिरित्याह- जीवे हीति ।
ब्रह्मणा कृत्स्नसंपत्तिमङ्गीकृत्य परिहरति- न ब्रूम इति ।
मुग्धत्वं हि सुषुप्तस्यार्धेन निःसंज्ञत्वादिधर्मेण साम्येन संपन्नं भवति, मरणास्यार्धेन कम्पादिना संपन्नमित्यर्धसंपत्तिरित्यर्थः ।
इतो ऽपि सुषुप्तिवैषम्यमित्याह- द्वारं चेति ।
अप्रसिद्धिमङ्गीकृत्योक्तं प्रसिद्धिरप्यस्तीत्याह- प्रसिद्धा चेति ।
नायुर्वेदो वैद्यशास्त्रम् ।
प्रसिद्धौ कथं विवाद इत्याशङ्क्य पञ्चमत्वेनाप्रसिद्धेरित्याह- अर्धेति ।
सुषुप्तिमृतिधर्मार्धसंपत्त्या तदन्तर्भावबुद्धिर्लोकानामित्यर्थः ॥10॥
एन्द् ब्स्र्प्_3,2.4.10
स्तर्त् ब्स्र्प्_3,2.5.11ः
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि
सर्वाभिरवस्थाभिरलिप्तस्त्वमर्थ इति निरूपयितुकामः प्रथमं तस्य निर्विशेषत्वमाह- न स्थानतो ऽपि परस्योभ्यलिङ्गं सर्वत्र हि ।
उद्देशयत्वम्पदार्थजिज्ञासोपरमानन्तरं तत्स्वरूपब्रह्मविचारस्यावसरसंगतिमाह- येनेति ।
निर्विशेषत्वंसव् इशेषत्वं चेत्युभयं लिङ्ग्यते ज्ञाप्यते याभिस्ता उभयलिङ्गः श्रुतयः संशयबीजत्वेन सन्तीत्यर्थः ।
यथा विरुद्धसुषुप्तिमरणोभयरूपं मुग्धत्वं तथा श्रुतिप्रामाण्यादुभयरूपं ब्रह्म ध्येयमिति दृष्टान्तेन पूर्वपक्षः ।
निर्विशेषमेकरूपमेव ज्ञेयमिति सिद्धान्तयति- एवमिति ।
किमुभयरूपत्वं स्वतः, उत स्वतो निर्गुणस्य सर्वगन्धत्वादिविशेष उपाधितः सत्यः, आहोस्वित्स्वतः सविशेषमेव ब्रह्मेति ।
तत्राद्य निरस्य द्वितीयमनूद्य दूषयति- अस्तु तर्हीति ।
स्थानमुपाधिः ।
ब्रह्मणि विशेषः, कल्पितः औपाधिकत्वात्स्फटिकलौहित्यवदित्यर्थः ।
उपाधेः सत्यत्वे ऽपि तत्कृतं मिथ्येति दृष्टं ब्रह्मणि तूपाधीनां मिथ्यात्वात्तत्कृतो विशेषो मिथ्येति किमु वाच्यमित्याह- उपाधीनामिति ।
तृतीयं निरस्यति- अतश्चेति ।
सर्वस्य विशेषस्य कल्पितत्वादेवेत्यर्थः ।
निषेधश्रुतेश्चैवमित्याह- सर्वत्र हीति ॥11॥
एन्द् ब्स्र्प्_3,2.5.11
स्तर्त् ब्स्र्प्_3,2.5.12ः
न भेदाद् इति चेन् न प्रत्येकमतद्वचनात्
भिद्यत इति भेदो विशेषः, निर्विशेषत्वश्रुतावपि विशेषस्यापि श्रुतेरुभयरूपत्वं स्यादिति शङ्कां व्याचष्टे- अथापि स्यादिति ।
पूर्वोक्तं विरोधं स्मारयति- ननूक्तमिति ।
भेदश्रुतिप्रामाण्यार्थमौपाधिकरूपभेदस्वीकारादविरोध इति समाध्यर्थः ।
किमुपाधिगत एव रूपभेदो ब्रह्मण्युपचर्यते ध्यानार्थमुतोपाधियोगात्सत्यविरुद्धरूपवत्तया ब्रह्मणो भेदो भवतीति ।
आद्ये ऽस्मादिष्टसिद्धिः, द्वितीयमभेदश्रुत्या दूषयति- नेति ब्रूम इति ॥12॥
एन्द् ब्स्र्प्_3,2.5.12
स्तर्त् ब्स्र्प्_3,2.5.13ः
अपि चैवम् एके
द्वैतनिन्दापूर्वकमद्वैतोक्तेश्च निर्विशेषं तत्त्वमिति सूत्रार्थमाह- अपिचेति ।
भोक्ता जीवो भोग्यं शब्दादि तयोः प्रेरितारमीश्वरं च मत्वा विचार्य मे मम प्रोक्तं तत्सर्वं त्रिविधं ब्रह्मैवेति जानीयादित्यर्थः ॥13॥
एन्द् ब्स्र्प्_3,2.5.13
स्तर्त् ब्स्र्प्_3,2.5.14ः
अरूपवदेव हि तत्प्रधानत्वात्
द्विविधश्रुतिषु सतीषु निर्विशेषत्वे किं नियामकमिति शङ्कते- कथं पुनरिति ।
तत्परातपरविरोधे तत्परं बलवदिति न्यायो नियामक इत्याह- अरूपवदेवेति ।
उपासनापरवाक्येषु आकारे तात्पर्याभावे ऽपि देवताविग्रहादिवदाकारसिद्धिमाशङ्क्य निष्प्रपञ्चपरश्रुतिविरोधान्मैवमित्याह- तेष्वसतीति ॥14॥
एन्द् ब्स्र्प्_3,2.5.14
स्तर्त् ब्स्र्प्_3,2.5.15ः
प्रकाशवच्चावैयर्थ्यात्
कल्पितद्वैते सावकाशत्वाच्च सप्रपञ्चत्वश्रुतयो दुर्बला इत्याह- प्रकाशवच्चेति ।
नन्वाकारवाक्यानामुपाधिकल्पितसर्वगन्धत्वादिनाथ्रवत्त्वं किमिति वर्ण्यते वैयर्थ्यमेवोच्यताम्, तत्राह- नहि वेदवाक्यानामिति ।
नन्वेवमपीति ।
उक्तरीत्योभयरूपत्वाङ्गीकारेण श्रुतीनां व्यवस्थितत्वे ऽपीत्यर्थः ।
उपाधीनां कल्पितत्वादौपाधिकस्य सत्यत्वादुपपत्तेर्न सत्यमुभयरूपत्वमिति पूर्वमुक्तं, संप्रति सत्यं निर्विशेषत्वं मिथ्या सविशेषत्वमित्युच्यत इत्युभयरूपत्वाङ्गीकारे ऽपि न पूर्वापरविरोध इत्याह- नेति ब्रूम इति ।
द्वैतस्य मिथ्यात्वे ज्ञानेन बाधादुपासनादिव्यवहारो न स्यादित्याशङ्क्य बाधात्प्रागेव स इत्याह- सत्यमिति ॥15॥
एन्द् ब्स्र्प्_3,2.5.15
स्तर्त् ब्स्र्प्_3,2.5.16ः
आह च तन्मात्रम्
यतः श्रुतिश्चिन्मात्रमाहातश्च विशेषो मिथ्येति सूत्रार्थमाह- आह चेति ।
सैन्धवघनो लवणपिण्डः ॥16॥
एन्द् ब्स्र्प्_3,2.5.16
स्तर्त् ब्स्र्प्_3,2.5.17ः
दर्शयति चाथो अपि स्मर्यते
किञ्च श्रुतिस्मृत्योः परनिषेधेन ब्रह्मोपदेशान्निष्प्रपञ्चं ब्रह्मेत्याह- दर्शयति चेति ।
अथ द्वैतोक्त्यनन्तरं ज्ञानहेतुत्वान्नेति नेति उपदेशः क्रियत इत्यर्थः ।
अधि अन्यत् पुनः पुनरधीहि भो इति निर्बन्धकारिणं तं द्वितीयं तृतीयं च प्रश्ने तूष्णीभावं त्यक्त्वोवाच ।
उपशान्तो निरस्तद्वैतः ।
अतस्तस्य तूष्णींभाव एवोत्तरमिति सौत्रश्च अतोशब्दस्तथार्थकः आदिमत्कार्यं तन्न भवतीत्यनादिमत् ।
सत् इन्द्रियवेद्यम् ।
असत् परोक्षं च न स्वप्रकाशत्वादित्यर्थः ।
सर्वभूतगुणैर्दिव्यगन्धादिभिर्युक्तं मां मूर्तिमन्तं पश्यसीति यत्सा माया, अत एव सद्वैतो भगवानिति मां द्रष्टुं नार्हसि वस्तुतो द्वैतातीतत्वादित्यर्थः ॥17॥
एन्द् ब्स्र्प्_3,2.5.17
स्तर्त् ब्स्र्प्_3,2.5.18ः
अत एव चोपमा सूर्यकादिवत्
किञ्च यथा जलाद्युपाधिकल्पितः सूर्यचन्द्रादेर्भेदचलनादिर्धर्म एवमात्मन इति दृष्टान्तश्रुतेश्च निर्विशेषं तत्त्वमित्याह- अत एव चोपमेति ।
जलस्थप्रतिबिम्बत्वाकारेण सूर्यस्याभासत्वद्योतनाय सूर्यकेति कप्रत्ययः ।
यथायं ज्योतिर्मयो विवस्वान्स्वत एको ऽपि घटभेदेन भिन्नाः अपो ऽनुगच्छन् बहुधा क्रियते एवमजो ऽयमात्मा देवः स्वप्रकाश एको ऽप्युपाधिना मायया क्षेत्रेष्वनुगच्छन् भेदरूपः क्रियत इति योजना ॥18॥
एन्द् ब्स्र्प्_3,2.5.18
स्तर्त् ब्स्र्प्_3,2.5.19ः
अम्बुवदग्रहणात् तु न तथात्वम्
इहात्मन्युक्तदृष्टान्तवैषम्यशङ्कासूत्रम्- अम्बुवदिति ।
आत्मनो नीरूपत्वाद्दूरस्थोपाध्यभावाच्च मायया बुद्ध्यादिषु प्रतिबिम्बभेदो न युक्त इत्यर्थः ॥19॥
एन्द् ब्स्र्प्_3,2.5.19
स्तर्त् ब्स्र्प्_3,2.5.20ः
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्
उपाध्यन्तर्भावेन तत्कल्पितधर्मवत्त्वमत्र विवक्षितांशस्तेन साम्येन समाधानसूत्रम्- वृद्धिहासेति ।
दृष्टान्तसाम्ये ऽपि नीरूपात्मनः प्रतिबिम्बं स्वबुद्ध्या कथं कल्प्यत इत्यत आह- न चेदमिति ।
श्रूयते न कल्प्यत इत्यर्थः ।
श्रुतदृष्टान्तस्य ऽसूर्यकादिवत्ऽइत्युपन्यासेन किं फलमित्यत आह- शास्त्रेति ।
आत्मनो निर्विशेषत्वं फलमित्यर्थः ।
अविरोध इति न वैषम्यमित्यर्थः ।
आत्मा प्रतिबिम्बशून्यः, नीरूपद्रव्यत्वात्, वायुवदित्यनुमाने आकाशे व्यभिचारः ।
अल्पजले ऽविदूराकाशप्रतिबिम्बदर्शनादुपाधिदूरस्थत्वमपि क्वचिदनपेक्षतमिति भावः ॥20॥
एन्द् ब्स्र्प्_3,2.5.20
स्तर्त् ब्स्र्प्_3,2.5.21ः
दर्शनाच् च
प्रवेशश्रुतेश्चोक्तानुमानबाध इत्याह सूत्रकारः ।
दर्शनाच्चेति ।
द्विपदः पुरो मनुष्यादिदेहांश्चक्रे चतुष्पदः पुरः पशून्कृत्वा पुरश्चक्षुराद्यभिव्यक्तेः पुरस्तात् स ईश्वरः पक्षी लिङ्गशरीरी भूत्वा पुर उक्तानि शरीराण्याविशत्, स च प्रविष्टो ऽपि पुरुषः पूर्ण एवेत्यर्थः ।
तैत्तिरीयके लिङ्गस्य पक्षाद्युक्तेः पक्षित्वं मन्तव्यम् ।
एवं प्रतिबिम्बभावेन भेदादेः कल्पितत्वात् निर्विशेषं ब्रह्मेति स्वमतमुपसंहरति- तस्मादिति ।
एकदेशिव्याख्यामुत्थापयति- अत्रेति ।
न स्थानतो ऽपीत्याद्येकमधिकरणं, तत्र ब्रह्मणो निष्प्रपञ्चत्वे स्थिते किंलक्षणं ब्रह्मेति संदेहे प्रकाशवच्चेत्यादिद्वितीयमधिकरणं प्रवृत्तं, न सद्रूपमेव ब्रह्म किन्तु प्रकाशवच्च चिद्रूपं च ।
कुतः-अवैयर्थ्यात् ।
सत्यं ज्ञानं सदेव सोम्येत्युभयश्रुतेर्द्विरूपे ब्रह्मण्यर्थवत्त्वादिति पूर्वपक्षे सिद्धान्तः-आह च तन्मात्रम् ।
सन्मात्रं ब्रह्म श्रुतिराह, ऽज्ञानस्य सत्तानतिरेकात्ऽइति ।
इदं द्वितीयाधिकरणं दूषयति- अत्र वयमिति ।
द्वितीयाधिकरणस्य किं ब्रह्मणो ऽनेकरूपत्वनिरासः फलम्, उत बोधरूपत्वनिरास आहोस्वित्सत्तानिरास इति विकल्प्य सर्वथाप्यानर्थक्यं प्रपञ्चयन्नाद्ये गतार्थतामाह- यदि तावदिति ।
नहि द्वितीय इत्याह- नचेति ।
ब्रह्मणो बोधरूपत्वनिरासे जडत्वाज्जीवाभेदश्रुतिबाधश्च स्यादित्याह- कथं वेति ।
न तृतीय इत्याह- नापीति ।
सत्तानिरासे बोधस्य तुच्छत्वं च स्यादित्याह- कथमिति ।
नच बोधस्य सत्तानतिरेकान्न तुच्छतेति वाच्यम् ।
सद्बोधपदयोर्वाच्यानतिरेके पर्यायत्वप्रसङ्गात् ।
एवं सिद्धान्तं फलाभावेन दूषयित्वा पूर्वपक्षं दूषयति- नापीति ।
प्रसङ्गमेवाह- सत्तेति ।
व्यावृत्तत्वं भिन्नत्वम् ।
निष्प्रपञ्चैकरूपत्वसिद्धान्तविरोधात् भिन्नोभयरूपत्वपूर्वपक्षानुत्थानमित्यर्थः ।
उभयश्रुतिबलादुत्थानमिति शङ्कते- श्रुतत्वादिति ।
मेरुविन्ध्यवत्परस्परं भिन्नसत्ताबोधयोरेकब्रह्माभेदशङ्का श्रुतिशतेनापि न युक्तेत्याह- नेति ।
सद्बोधयोर्भेदो ऽस्ति न वा ।
आद्ये श्रुतेरपि विरुद्धार्थत्वानुपपत्तेर्न पूर्वपक्षोत्थानमित्युक्तम् ।
संप्रति द्वितीयं शङ्कते- अथ सत्तैवेति ।
सद्बोधपदयोर्वाच्यभेदे ऽपि लक्ष्यैक्योपपत्तिरखण्डार्थस्वीकारादित्यर्थः ।
अखण्डार्थस्य पूर्वपक्षत्वं न स्यात्सिद्धान्तत्वात् ।
किञ्चात्र संशये ऽप्ययुक्त इत्याह- तथापीति ।
एकाधिकरणपक्षे सूत्राणि कथं नेयानीत्यत आह- सूत्राणीति ।
स्वपक्षे सूत्रसामञ्चस्यं चेत्याह- अपिचेति ।
अवश्यापेक्षितगत्यर्थत्वेनोत्तरसूत्राणां पूर्वैकवाक्यत्वान्नाधिकरणभेद इति भावः ।
आकारश्रुतीनां कल्पिताकारो गतिरिति स्वमतमुक्तं, प्रपञ्चविलयवादिनस्तु ऽमनोमयः प्राणशरीरः सत्यकामःऽइत्याद्याकारश्रुतीनां तदितराकारप्रविलयो गतिरित्याहुः ।
मनोमय इति कोर्ऽथः, मनो ऽतिरिक्तोपाधिशून्य इत्यर्थः ।
एवं प्राणशरीरपदेन प्राणातिरिक्तोपाधिनिषेधान्मनसो ऽप्यभावसिद्धिः, एवं सर्वे शब्दा अनाकारब्रह्मपरा एवेति तन्मतमनूद्य दूषयति- यदपीत्यादिना ।
किं ज्ञेयब्रह्मप्रकरणस्थानामाकारशब्दानां निषेधपरत्वं उतोपासनाप्रकरणस्थानामपि ।
तत्राद्यमङ्गीकरोति- ये हीति ।
अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया हरणाद्दशेन्द्रियाणि प्राणिभेदापेक्षया शतानि सहस्राणि च तेषामीश्वराद्भेदमाशङ्क्याह- अयमिति ।
ईश्वर एव हरय इत्यर्थः ।
द्वितीयं दूषयति- ये पुनरिति ।
मनोमयादिशब्दानां मुख्यवृत्त्या गुणपरत्वसंभवे निषेधलक्षणापि न युक्तेत्याह- श्रुत्या चेति ।
किं चाकारानाकारश्रुतिद्वैविध्ये सति ब्रह्मनाकारमेवेत्यत्र किं विनिगमकमिति शङ्कोत्थानादस्थूलादिश्रुतीनां निराकारतात्पर्यं नियामकमिति कथनार्थमिदं सूत्रमर्थवद्भवति ।
सर्वश्रुतीनां निषेधार्थत्वे तु शङ्कानुत्थानान्नियामकसूत्रं व्यर्थं स्यादित्याह- सर्वेषां चेति ।
ननूपासनार्ऽथकवाक्यानां स्वार्थे फलाभावात् सफलनिषेधवाक्यशेषत्वमित्याशङ्क्य फलस्य श्रुतत्वान्नान्यशेषतेत्याह- फलमपीति ।
अर्थैक्याभावाच्च नैकवाक्यतेत्याह- कथं चेति ।
अर्थैक्यं शङ्कते- एकेति ।
यथा फलवत्परमापूर्वाख्यनियोगैक्यादङ्गप्रधानवाक्यानामेकवाक्यता तथा तत्त्वावबोधकामस्य प्रपञ्चप्रविलयविषयक एको नियोगरूपोर्ऽथो ऽस्तीत्याकारानाकारवाक्यानां सर्वेषामेकवाक्यतेत्यर्थः ।
नियोगासिद्या दूषयति- नेति ।
विषयं शङ्कते- ननु द्वैतेति ।
प्रत्यनीकं प्रतिबन्धकम् ।
ननु प्रपञ्चविलये ब्रह्मलयः स्यादभेदादित्यत आह- ब्रह्मस्वभावो हि प्रपञ्च इति ।
कारणं हि कार्यस्य स्वरूपमतः कार्यनाशे ऽपि कारणस्य न लयः, घटनाशे ऽपि मृद्दर्शनादित्यर्थः ।
प्रपञ्चस्य सत्यस्य कल्पितस्य वा लये विधिरिति विकल्प्याद्यं दूषयति- तत्र यदि तावदिति ।
सत्यस्य ज्ञानादध्वस्तेः मुसलादिना च कृत्स्नद्वैतध्वंसायोगात् नभोग्रसनविधिवदशक्यविषयो ऽयं विधिः, किञ्च शुकादिमुक्त्या सर्वमुक्तिः स्यादित्यर्थः ।
द्वितीयमनूद्य दूषयति- अथेत्यादिना ।
उपदेशजन्यज्ञानादेवाविद्यातज्जप्रपञ्चलयसिद्धेर्नियोगो वृथैवेत्यर्थः ।
किञ्च ब्रह्मज्ञानादौ विधिः किं ब्रह्मण्यज्ञाते ज्ञाते वा ।
नाद्यः, अशक्यत्वादित्याह- अनावेदिते त्विति ।
द्वितीयं शङ्कते- नन्विति ।
उपदेशादेव ज्ञाते ब्रह्मणि साक्षात्कारद्वैतबाधयोः सिद्धेर्विधिवैयर्थ्यं सिद्धस्य विधिना कर्तुमयोगादित्याह- नेति ।
एवंविषयाभावान्नियोगाभावमुक्त्वा नियोज्याभावात्तदभावमाह- नियोज्यो ऽपि चेति ।
प्रपञ्चान्तर्भूतो ब्रह्म वेत्यर्थः ।
आद्ये जीवनाशाद्विध्ययोगः, द्वितीये नियोज्यासिद्धिः,तर्हि ज्ञाने विधिप्रत्ययानां का गतिरित्यत आह- द्रष्टव्यादिशब्दा इति ।
ननु श्रुतं ज्ञानं त्यक्त्वा तत्साधनव्यापारविधिः किमिति कल्प्यत इत्याशङ्क्य ज्ञानस्य पुरुषकृत्यसाध्यत्वादित्याह- ज्ञेयाभिमुखस्यापीति ।
किञ्च ज्ञानविधिवादिना ज्ञेयं ब्रह्मावश्यं वेदान्तैर्ज्ञापनीयं विषयानवबोधे विधिबोधायोगात् ।
तथाच वेदान्तैरेव ज्ञानेत्पत्तेर्विध्यानर्थक्यमित्याह- तस्मादिति ।
तं ज्ञानार्थिनं प्रतीत्यर्थः ।
ननूत्पन्नं ज्ञानमन्यथाकर्तुं विधिरर्थवानिति, नेत्याह- नचेति ।
नन्वनग्निर्योषिदिति प्रत्यक्षप्रमाणादुत्पन्नमपि ज्ञानं तामग्निं ध्यायेदिति ।
विधिनान्यथाकृतं दृश्यत इत्यत आह- यदीति ।
अन्यथाधीः कृतिसाध्या चेत् क्रियैव, कृतिं विनैव चेद्भ्रान्तिरेवातो मानं विना विधितो ज्ञानासिद्धेर्मानवस्तुतन्त्रे ज्ञाने विधिर्मृषेत्यर्थः ।
वेदान्तेषु विधिवादिनो ऽन्यच्च दूषणमस्तीत्याह- किञ्चान्यदिति ।
ब्रह्मात्मैक्येनियोगे च वेदान्तवाक्यस्य प्रामाण्यमाशङ्क्यार्थभेदाद्वाक्यभेदो विरुद्धार्थत्वादप्रामाण्यं चेति दूषयति- अथेत्यादिना ।
किञ्च श्रुतं ब्रह्म न श्रुतो विधिर्वेदान्तेषु तत्कल्पने च कर्मजन्यत्वान्मोक्षस्यानित्यत्वसातिशयत्वादिप्रसङ्ग इत्याह- नियोगपरतायां चेति ।
फलितमाह- अतश्चेति ।
इदानीं प्रौढवादेन नियोगमङ्गीकृत्य तदेकत्वं खण्डयति- अभ्युपगम्यमाने ऽपीति ।
भिन्नक्रियावाचिशब्दः शब्दान्तरं यथा यजति ददातीति तथेहापि वेदोपासीतेति शब्दभेदः ।
निर्गुणसगुणरूपभेदःप्रकरणभेदः मुक्त्यभ्युदयफलभेद इत्येतैः प्रमाणैर्निर्गुणज्ञानसगुणोपासनाविषयकनियोगभेद इत्यर्थः ।
कथं तर्ह्यङ्गाङ्गिवाक्येषु नियोगैक्यं, तत्राह- प्रयाजेति ।
एकस्यैव स्वर्गकामस्य साङ्गप्रधानाधिकारात्तत्साध्यफलापूर्वैक्यादेकवाक्यतेत्यर्थः ।
इहापि निर्गुणसगुणविद्ययोरेकाधिकारात् नियोगैक्यमस्तु, नेत्याह- न त्विहेति ।
मुक्त्यभ्युदयार्थिभेदान्मिथो विरुद्धार्थविद्ययोरङ्गाङ्गित्वायोगाच्च न वियोगैक्यम् ।
नच निर्गुणविद्यानियोग एक एव सगुणविद्यानङ्गीकारादिति वाच्यम् ।
अहो विपरीतं पाण्डित्यमायुष्मतः, विघ्न्ययोग्यविद्यायां विधिर्विधियोग्यायामविधिरिति, तस्मात्साकारवाक्यानामाकारलयद्वारा निर्गुणवाक्यैकवाक्यतागतिरसद्गतिरेव, किन्तु तेषां कल्पिताकारो गतिस्तदुपासनयाभ्युदयसिद्धेः, निर्गुणवाक्यानां तु परमार्थालम्बनत्वमित्यस्मदुक्त एव विभागः साधीयानित्युपसंहरति- तस्मादिति ॥21॥
एन्द् ब्स्र्प्_3,2.5.21
स्तर्त् ब्स्र्प्_3,2.6.22ः
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः
ब्रह्मणो निर्विशेषचिन्मात्रत्वमुक्त्वा सर्वनिषेधावधित्वेन सद्रूपत्वमाह- प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति ।
पृथिव्यप्तेजोभूतत्रयं मूर्तं वाय्वाकाशद्वयममूर्तमिति राशिद्वयमुक्त्वा भूतद्वयस्यामूर्तस्य सारः ऽकरणात्मा हिरण्यगर्भो य एष एतस्मिन् सूर्यमण्डले पुरुषो यश्चायं दक्षिणे ऽक्षिणि पुरुषःऽइत्युक्तः, तस्य वासनामयानि स्वप्नरूपाणि ऽतद्यथा माहारजनं, वासो यथा पाण्ड्वाविकं यथेन्द्रगोपःऽइत्युपमाभिरुक्तानि विचित्राणि, तत्र महारजनं हरिद्रा तया लिप्तं वस्त्रं माहारजनं, पाण्ड्वादिकमिति धवलं कम्बलादि ।
केचित्तु श्रुतिमुपलक्षणं कृत्वा सूक्ष्मपञ्चभूतान्यमूर्तानि पञ्चीकृतानि मूर्तानि ततश्चामूर्तरसत्वोक्त्या करणानां पाञ्चभौतिकत्वसिद्धिरिति व्याचक्षते ।
अथ सत्पदात्मकप्रपञ्चोक्त्यनन्तरं, अत उक्तारोपस्य निषेधार्थत्वान्नेति नेतीति निषेधेनोपदेशः क्रियत इत्यर्थः ।
नेतिशब्दार्थमाह- नहीति ।
एतस्मादात्मनो ऽन्यन्नास्तीति नेतीत्युच्यत इत्यर्थः ।
शून्यतानिरासार्थं परं ब्रह्मास्तीत्युक्तमिति सिद्धान्तरीत्या श्रुत्यर्थः ।
अत्र निषेध्यविशेषानुपलम्भात्संशयमाह- तत्र को ऽस्येत्यादिना ।
नञ्प्रयोगस्य नाकारास्येतिशब्दोपस्थापितवस्तुनिषेधकत्वादित्यर्थः ।
इतिशब्दान्निषेध्यसामान्यसमर्पणे विशेषाकाङ्क्षायां प्रकरणाद्रूपद्वयस्य रूपिब्रह्मणश्च निषैध्यत्वभानात्संशयमुक्त्वा पूर्वोक्तं निर्विशेषं ब्रह्म नास्तीत्याक्षेपसङ्गत्या पूर्वपक्षयति- तत्र प्रकृतत्वेति ।
पूर्वपक्षे तत्पदार्थाभावाद्वाक्यार्थाभेदासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् ।
निरधिष्ठाननिषेधादर्शनात्सर्वनिषेधो न युक्त इत्यरुच्या प्रपञ्चे ब्रह्मनिषेध इत्याह- अथवेति ।
एकब्रह्मण एव निषेधे नकारद्वयस्य पौनरुक्त्यामित्यत आह- अभ्यासस्त्विति ।
उत्सूत्रमेव तावत्सिद्धान्तमुपक्रमते- एवमिति ।
शून्यप्रसङ्ग इष्ट इति वदन्तं प्रत्याह- किञ्चिद्धीति ।
तच्चेति प्रतिषेधनमित्यर्थः ।
अधिष्ठानानवशेषे तत्प्रमारूपहेत्वभावात् निषेधवाक्यार्थः प्रमा न स्यात् ऽइदमत्र नास्तिऽइति लोके निषेधस्य साधिष्ठानस्यैव प्रमितिदर्शनादित्यर्थः ।
किञ्च यद्भाति तत्सदित्युत्सर्गस्य भानार्थाभावाधिष्ठानप्रमितिरपवादस्तया पूर्वभानस्य भ्रमत्वनिश्चयेनार्थसत्त्वापलापात् ।
अपवादानङ्गीकारे तूत्सर्गतः प्रपञ्चस्य सत्यत्वापत्तेर्निषेधानुपपत्तिरित्याह- अपरिशिष्यमाणे चेति ।
अधिष्ठानसत्त्वं विना भ्रान्तिनिषेधयोरयोगाच्छून्यवादो न युक्त इत्युक्त्वा पूर्ववादिनः पक्षान्तरं दूषयति- नापीति ।
देहात्माभिमानवल्लौकिकमानप्राप्तद्वैतस्य निषेधो युक्तो न वेदान्तप्रमितब्रह्मण इति भावः यदुक्तं वाङ्मनसातीत्वात् निषेधार्हं ब्रह्म इति तत्राह- वाङ्मनसेति ।
ब्रह्मणो वागाद्यतीतत्वं निषेधार्थं न चेत् किमर्थं तदुक्तिरित्यत आह- प्रतिपादनेति ।
उक्तार्थे सूत्रं योजयति- तदेतदित्यादिना ।
ऽद्वे वाव ब्रह्मणो रूपेऽइति रूपद्वयस्यैव प्राधान्येन प्रकृतत्वान्नेतीति निषेध इत्यर्थः ।
ननु ऽआदित्यमण्डले पुरुषऽइति ब्रह्माप्यत्र प्राधान्येनोक्तमित्याशङ्क्य पुरुषो लिङ्गात्मा अमूर्तरसत्वश्रुत्या भूतजनितत्वभानात् स्वप्नरूपत्वश्रुतेश्चेत्याह- तज्जनितमेवेति ।
रूपरूपिणोरभेद उक्तः ननु वासनामयं रूपमेव किमित्युपमीयते प्रसिद्धरूपमेव किं न स्यादित्यत आह- अमूर्तरसस्येति ।
रूपद्वयस्यैव प्राधान्येन प्रकृतत्वे फलितमाह- तदिति ।
प्रतियोगित्वेन समर्प्यत इत्यर्थः ।
न चार्थतः प्रधान्यद्ब्रह्मणो निषेधः राज्ञो भृत्यो नास्तीत्यत्र राजनिषेधप्रसङ्गादिति भावः ।
किञ्चैत्र ब्रह्मणः प्रतिपाद्यत्वात् न निषेध इत्याह- प्रपञ्चिते चेति ।
ननु ब्रह्मणि निषिद्धस्याप्यन्यत्र स्थितिसंभवात् कथं कल्पितत्वमित्यत आह- तदास्पदमिति ।
उपादाने निषिद्धस्यान्यत्र न स्थितिरित्यर्थः ।
यत्तु द्वैतनिषेधे प्रत्यक्षादिविरोध इति, तत्राह- युक्तं चेति ।
स्थापितं हि आरम्भणाधिकरणे प्रत्यक्षादेर्व्यावहारिकं प्रामाण्यं न तत्वावेदकमिति, अतस्तत्त्वतो निषेधान्न विरोध इति भावः ।
ननु वस्तुत्वाद्वैतवद्ब्रह्मणो ऽपि निषेधो ऽस्तु, नेत्याह- नत्विति ।
द्वैतभावाभावसाक्षित्वादशक्यो निषेध इत्यर्थः ।
न चेत्यादि स्पष्टार्थम् ।
यच्चोक्तं निषेधाभ्यां रूपं रूपि ब्रह्म च निषिध्यत इति, तत्राह- द्वौ चैताविति ।
उद्देश्यविधेयार्थानां संख्यासाम्ये यथाक्रमं संबन्ध इति न्यायः ऽयथासङ्ख्यमनुदेशः समानाम्ऽइति पाणिनिसूत्रसिद्धस्तेनात्र रूपद्वयोद्देशेन निषेधद्वयविधिरित्यर्थः ।
वीप्सापक्षे सर्वदृश्यनिषेधाज्जिज्ञासाशान्तिरिति विशेषमाह- परिगणितेति ।
मूर्तं नामूर्तं नेत्येवं विशिष्यनिषेधे जिज्ञासा न शाम्यतीत्यर्थः ।
सूत्रशेषं व्याचष्टे- इतश्चेति ।
प्रतिषेधानुपपत्त्या ब्रह्मास्तीत्यवगतं भूयः पुनः परमस्तीति श्रुतिः साक्षादपि ब्रवीतीत्यर्थः ।
तच्चेति ।
अवशिष्टं ब्रह्मेत्यर्थः ।
स्पष्टमन्यत् ॥22॥
एन्द् ब्स्र्प्_3,2.6.22
स्तर्त् ब्स्र्प्_3,2.6.23ः
तदव्यक्तमाह हि
नन्वग्राह्यत्वाद्ब्रह्म नास्तीति शङ्कानिरासार्थं सूत्रं व्याचष्टे- यत्प्रतिषिद्धादिति ।
रूपाद्यभावादव्यक्तमिन्द्रियाग्राह्यं न त्वसत्त्वादित्यर्थः ।
अन्यैर्देवैरिन्द्रियान्तरैर्न गृह्यत इत्यन्वयः ॥23॥
एन्द् ब्स्र्प्_3,2.6.23
स्तर्त् ब्स्र्प्_3,2.6.24ः
अपि च संराधने प्रत्यक्षानुमानाभ्याम्
तर्हि कदा ग्राह्यमिति शङ्कोत्तरं सूत्रं व्याख्याति- अपि चैनमिति ।
चस्त्वर्थः ।
इन्द्रियैर्न गृह्यते अपि तु संराधनेन शास्त्रसंस्कृतमनसेत्यर्थः ।
भक्तिध्यानाभ्यां प्रत्यगात्मनश्चित्ते प्रकर्षेण निधानं स्थापनं प्रणिधानं ।
जपनमस्कारादिरादिशब्दार्थः ।
स्वयंभूरीश्वरः ।
स्वानीन्द्रियाणि ।
पराञ्चयनात्मग्राहकाणि कृत्वा व्यतृणत् नाशितवान् ।
स हि तेषां नाशो यदसदर्थग्राहितया सर्जनं तस्मात्तेषां तया सृष्टत्वात्, सर्वो लोकः परागर्थमेव पश्यति नान्तरात्मानम् ।
कश्चित्तु धीरो धीमानावृत्तचक्षुर्निरुद्धेन्द्रियः शुद्धे चेतसि प्रत्यगात्मनं शास्त्रेण पश्यति मोक्षार्थीत्यर्थः ।
ततः कर्मणा विशुद्धचित्तो ज्ञानाख्यसत्त्वोत्कर्षेण संध्यायंस्तं निष्कलं पश्यतीत्यर्थः ।
विनिद्राः वितमस्काः, तत्र हेतुर्जितश्वासत्वं प्राणायामनिष्ठत्वं,
युञ्चाना ध्यायिनः योगलभ्यः आत्मा योगात्मा ॥24॥
एन्द् ब्स्र्प्_3,2.6.24
स्तर्त् ब्स्र्प्_3,2.6.25ः
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात्
यथा प्रकाशादय उपाधिषु भिद्यन्ते न स्वतः, एवं प्रकाशश्चिदात्मापि ध्यानादिकर्मण्युपाधो भिद्यते स्वतस्तस्यावैशेष्यमेकरसत्वमेव तत्त्वमसीत्यभ्यासादिति सूत्रयोजना ॥25॥
एन्द् ब्स्र्प्_3,2.6.25
स्तर्त् ब्स्र्प्_3,2.6.26ः
अतो ऽनन्तेन तथा हि लिङ्गम्
जीवस्य ब्रह्मात्मत्वफलश्रुतिरूपलिङ्गादपि भेद औपाधिक एवेत्याह सूत्रकारः- अतो ऽनन्तेनेति ॥26॥
एन्द् ब्स्र्प्_3,2.6.26
स्तर्त् ब्स्र्प्_3,2.6.27-28ः
उभयव्यपदेशात्त्वहिकुण्डलवत्
प्रकाशाश्रयवद्वा तेजस्त्वात्
भेदाभेदपूर्वपक्षसूत्रद्वयस्य संगतिमाह- तस्मिन्नेवेति ।
यथाहित्वेनाभेदः ।
कुण्डलाख्यस्य सर्पावस्थाविशेषस्य कुण्डलत्वेन भेदः ।
तथा जीवस्य ब्रह्मत्वेनाभेदो जीवत्वेन भेदः ।
यद्वा सूर्यप्रकाशयोरेकतेजस्त्वधर्मावच्छेदेन भेदाभेदवज्जीवपरयोरपि एकेनैवात्मत्वधर्मेण भेदाभेदौ श्रुतिबलात्स्वीकार्याविति सूत्रद्वयार्थः ।
कुण्डलत्वं वलयाकारत्वं, आभोगत्वं वक्राकारत्वं, प्रांशुत्वं दीर्घदण्डाकारत्वं उद्गतमुखत्वमादिशब्दार्थः ॥27 ॥ ॥28॥
एन्द् ब्स्र्प्_3,2.6.27-28
स्तर्त् ब्स्र्प्_3,2.6.29-30ः
पूर्ववद्वा
प्रतिषेधाच् च
सिद्धान्तसूत्रम्- पूर्ववद्धेति ।
धर्मभेदनैकधर्मेण वा भेदाभेदस्वीकारे भेदस्य सत्यत्वादभेदवदनिवृत्तिः स्यात् एकत्रैव भेदाभेदस्वीकारे लोके विरोधकथोच्छेद इत्यपि द्रष्टव्यं, तस्मात् निष्प्रपञ्चं चिदेकरसं ब्रह्म तत्पदलक्ष्यमस्तीति सिद्धम् ॥29 ॥ ॥30॥
एन्द् ब्स्र्प्_3,2.6.29-30
स्तर्त् ब्स्र्प्_3,2.7.31ः
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः
यदुक्तं नेति नेतीत्यादिश्रुतिभिः ब्रह्मातिरिक्तं वस्तु निषिध्यत इति, तदयुक्तम् ।
सेत्वादिश्रुतिभिर्वस्त्वन्तरास्तित्वभानादित्याक्षिपति- परमत इति ।
यद्यपि द्युभ्वाद्यधिकरणे सेतुशब्दो विधारकत्वेन गौणो व्याख्यातस्तथाप्युन्मानादिश्रुतीनां गतिमजानतो ऽयं पूर्वपक्षः, तत्रोन्मानादिश्रुतीनां मुख्यत्वात्, सद्वयं ब्रह्मेति फलं सिद्धान्ते तूक्ताद्वितीयतत्पदलक्ष्यसिद्धिरिति विवेकः ।
ब्रह्म सद्वयं, सेतुत्वात्, लौकिकसेतुवत् ।
तीर्णत्वश्रुतेश्चेत्याह- सेतुं तीर्त्वेति ।
जाङ्गलं वातभूयिष्ठमिति वैद्योक्तेः वातप्रचुरो देशो जाङ्गलं, इह तु देशमात्रं ग्राह्यम् ।
दिशश्चतस्रः कलाः प्रकाशवान्नाम पादः, पृथिव्यन्तरिक्षं द्यौः समुद्र इत्यनन्तवान्नाम पादः, अग्निः सूर्यश्चन्द्रो विद्युदिति ज्योतिष्मान्नाम पादः, चक्षुः श्रोत्रं वाङ्मन इत्यायतनवान्नाम पाद इति चतुष्पाद्ब्रह्मेति पादानामर्धानि अष्टौ शफा अस्येत्यष्टाशफं, पादेषु चतुर्षु प्रत्येकं चतस्रः कला इति षोडशकलमित्यर्थः ।
षोडशपणपरिमितं ताम्रं कार्षापणसंज्ञं भवति तद्वत्सद्वयं ब्रह्म, परिमितत्वादित्यर्थः ।
संबन्धित्वाच्च नगरवदित्याह- तथा संबन्धेति ।
अन्यदमितमिति असङ्ख्यातमित्यर्थः ।
अन्यस्पर्शे अल्पत्वेन मितत्वनियमादिति मन्तव्यम् ।
भेदेनोक्तत्वाच्च घटवदित्याह- भेदव्यपदेशश्चेति ।
अस्याक्षिस्थस्यामुनादित्यस्थेन सहेति यावत् ।
आधारतो ऽतिदेशतश्च भेदमुक्त्वावधितो ऽपि तमाह- सावधिकं चेति ॥31॥
एन्द् ब्स्र्प्_3,2.7.31
स्तर्त् ब्स्र्प्_3,2.7.32ः
सामान्यात् तु
सिद्धान्तसूत्रं व्याचष्टे- तुशब्देनेत्यादिना ।
यदन्यत्तत्किं साद्यनादि वा, नाद्यः मानाभावात् कार्यस्य ब्रह्मनन्यत्वनिर्गुणयाच्चेत्युक्त्वा न द्वितीयः प्रागुत्पत्तेरद्वयत्वावधारणादित्याह- नच ब्रह्मव्यतिरिक्तमिति ।
उक्तानुमानानामागमबाध इति भावः ।
उक्तं स्मारयित्वा हेतुनामसिद्धिमाह- ननु सेत्वित्यादिना ।
किं सेतुश्रुत्या परसिद्धिरर्थाद्वा, नाद्य इत्युक्त्वा द्वितीयं शङ्कते- तत्र परस्मिन्निति ।
सेतुत्वलिङ्गेनाद्वितीयत्वश्रुतिबाधनमन्याय्यमित्याह- नचेत् इ ।
लिङ्गं चासिद्धमित्याह- अपिचेति ।
विधारकत्वं तु कल्पितद्वितीयापेक्षयापि युज्यत इति भावः ।
तीर्णत्वहेतुरप्यसिद्ध इत्याह- सेतुं तीर्त्वेति ॥32॥
एन्द् ब्स्र्प्_3,2.7.32
स्तर्त् ब्स्र्प्_3,2.7.33ः
बुद्ध्यर्थः पादवत्
परिमितत्वमप्यसिद्धमित्याह- बुद्ध्यर्थ इति ।
वाक्प्राणचक्षुःश्रोत्राणि मनसः पादा अग्निवाय्वादित्यदिश आकाशस्य पादा ध्यानार्थं कल्पितास्तद्वद्ब्रह्मण उन्मानमित्यर्थः ।
लौकिकं दृष्टान्तमाह- अथवेति ।
पादकल्पनां विनापि व्यवहारः किं न स्यादित्यत आह- नहीति ।
कार्षापणस्य व्यवहाराय पादकल्पनावत् मन्दधियां ध्यानव्यवहाराय ब्रह्मण उन्मानकल्पनेत्यर्थः ॥33॥
एन्द् ब्स्र्प्_3,2.7.33
स्तर्त् ब्स्र्प्_3,2.7.34ः
स्थानविशेषात्प्रकाशादिवत्
संबन्धभेदौ कल्पितौ न सत्यद्वितीयसाधकावित्याह- स्थानेति ।
स्थानमुपाधिबुद्ध्यादिः एकस्यैवोपाधिना भिन्नस्योपाधिशान्तौ सत्यां संबन्ध उपचर्यते ।
यथा सौरालोकादेरङ्गुल्याद्युपाधिना भिन्नस्योपाधिवियोगे महालोकाद्यात्मना संबन्धोपचारस्तद्वत् तथादित्य चक्षुषोः स्थानयोर्भेदाद्धिरण्मयपुरुषभेदकल्पनेत्यर्थः ॥34॥
एन्द् ब्स्र्प्_3,2.7.34
स्तर्त् ब्स्र्प्_3,2.7.35ः
उपपत्तेश् च
मुख्यावेव संबन्धभेदौ किं न स्यातमित्यत्र सूत्रम्- उपपत्तेश्चेति ॥35॥
एन्द् ब्स्र्प्_3,2.7.35
स्तर्त् ब्स्र्प्_3,2.7.36ः
तथान्यप्रतिषेधात्
स्वरूपेण ब्रह्मणा जीवस्य संबन्धो भेदनिवृत्तिरूपो युज्यते न मुख्यः संयोगादिः वस्तुद्वयासत्त्वात् तथा भेदो ऽपि न स्वत एकत्वश्रुतेरित्यर्थः ॥36॥
एन्द् ब्स्र्प्_3,2.7.36
स्तर्त् ब्स्र्प्_3,2.7.37ः
अनेन सर्वगतत्वमायामशब्दादिभ्यः
ननु द्वितीयाभावे सर्वगतत्वश्रुतिविरोध इत्यत आह- अनेन सर्वगतत्वमिति ।
द्वितीयं सत्यं चेत्सेत्वादिवद्ब्रह्मणो ऽल्पतास्यात् ऽयत्रान्यत्पश्यति तदल्पम्ऽइति श्रुतेः किञ्च निरवयवासंगब्रह्मणः सत्यप्रपञ्चसंबन्धायोगात्तवैव सर्वगतत्वश्रुतिविरोध इति भावः अधिष्ठानेनाध्यस्तं जगद्व्याप्तमध्यस्तत्वात् रज्ज्वा व्याप्तसर्पवत्, इति न्यायः ॥37॥
एन्द् ब्स्र्प्_3,2.7.37
स्तर्त् ब्स्र्प्_3,2.8.38ः
फलमत उपपत्तेः
एवं तत्पदलक्ष्यं संशोध्य वाच्यार्थमाह- फलमत उपपत्तेः ।
निर्विशेषत्वादन्यः स्वभावः फलहेतुत्वाख्यः इष्टं सुखं देवादीनां, अनिष्टं दुःखं नारकिणां, व्यामिश्रं मनुष्याणां, संसारो जन्ममृतिप्रवाहः गोचरः आश्रयो यस्य तत्संसारगोचरम् ।
अत्र कर्मेश्वरयोः फलहेतुत्वश्रुतेः संशयमाह- किमिति ।
अत्र पूर्वपक्षे फलदातुरीश्वरस्य तत्पदवाच्यस्यासिद्धेर्लक्ष्यासिद्धिः सिद्धान्ते तत्सिद्धिरिति फलभेदः ।
पूर्वोक्तनिर्विशेषत्वमुपजीव्य फलदातृत्वमपीश्वरस्य नास्तीति पूर्वपक्षोत्थानात्संगतिः ।
यद्यपि सर्वगतत्ववत्फलदातृत्वं व्यवहारदशायां सिध्यति यथापि कर्मण एव फलदातृत्वमिति शङ्कानिरासेनोक्तलक्ष्यार्थनिर्वाहकवाच्यार्थनिर्णयार्थमस्याधिकरणस्यारम्भ इति मत्वा सिद्धान्तं तावदाह- तत्र तावदिति ।
स्वर्गादिकं विशिष्टदेशकालकर्माभिज्ञदातृकं, कर्मफलत्वात्, सेवाफलवदित्युपपत्तिः ।
यागादिक्रियाख्यं कर्म तावत् क्षणिकं तत्किं स्वनाशात् फलं जनयत्युत फलमुत्पाद्य नश्यति, आहोस्विदपूर्वात्फलसिद्धिः, नाद्य इत्याह- अभावादिति ।
द्वितीयं शङ्कते- स्यादिति ।
कर्मनाशक्षणमारभ्यामभिव्यक्तस्वर्गसुखादिसत्त्वे मानं नास्तीति-दूषयति- तदपीत्यादिना ।
तृतीयं शङ्कते- अथेति ।
अपूर्वं किं स्वतन्त्रमेव फलदानाय प्रवर्तते, चेतनाधिष्ठितं वा, नाद्य इत्याह- तदपीति ।
द्वितीये त्वदृष्टानभिज्ञजीवस्याधिष्ठातृत्वायोगादीश्वरस्याधिष्ठातृत्वसिद्धिरिति भावः ।
प्रौढवादेनापूर्वं नास्तीत्याह- तदस्तित्व इति ।
क्षणिकयागादेः श्रुतस्वर्गादिहेतुत्वानुपपत्त्या स्थाय्यपूर्वसिद्धिरिति चेत् ।
न ।
कर्मभिराराधितादीश्वरादेव स्थायिनः फलसिद्धेरित्यर्थः ।
न केवलतर्केणापूर्वं सिध्यतीति भावः ॥38॥
एन्द् ब्स्र्प्_3,2.8.38
स्तर्त् ब्स्र्प्_3,2.8.39ः
श्रुतत्वाच् च
ऽकृतात्यये ऽनुशयवान्ऽइत्यत्रोदाहृताभिः ऽय इह रमणीयचरणाःऽइत्यादिश्रुतिस्मृतिभिरपूर्वसिद्धिश्चेत्ताभिरीश्वरस्यापि फलदातृत्वं स्वीकार्यमित्याह- श्रुतत्वाच्चेति सूत्रकारः ।
अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः, वसुदानो धनदाता, कर्मणो ऽपूर्वस्य वा जडत्वेनोपकरणमात्रत्वात्स्वतन्त्र ईश्वर एव फलदातेति सिद्धान्तो दर्शितः ॥39॥
एन्द् ब्स्र्प्_3,2.8.39
स्तर्त् ब्स्र्प्_3,2.8.40ः
धर्मं जैमिनिरत एव
इदानीं पूर्वपक्षयति- धर्ममिति ।
विधिश्रुतिर्विध्यर्थः, तस्य लिङर्थस्य प्रेरणात्मनो यागो विषयस्तद्भावावगमाद्यागः स्वर्गसाधनमिति गम्यते ।
यागस्येष्टसाधनत्वाभावे प्रेरणानुपपत्तेरित्यर्थः ।
अपूर्वद्वारा कर्मणः फलमुपपद्यत इत्युक्त्वा सिद्धान्तं दूषयति- ईश्वरस्त्विति ।
ईश्वरः किं कर्मानपेक्षः फलं ददाति तत्सापेक्षो वा, आद्य आह- अविचित्रस्येत्यादिना ।
द्वितीये संवेष्टनसंस्कारमात्रात्कटादौ वेष्टनवत्कर्मापूर्वादेव फलसिद्धेः किमीश्वरेणेति भावः ।
अत्र वयं वदामः-चन्दनकण्डकादिदृष्टसंपत्त्यैव सुखादिसंभवे कृतं धर्माधर्माभ्यामिति श्रुतिस्मृतिबलात्तदपेक्षायामीश्वरेण किमपराद्धम् ।
अतः ईश्वरानपेक्षात्केवलात्कर्मणः फलमित्ययुक्तमिति ॥40॥
एन्द् ब्स्र्प्_3,2.8.40
स्तर्त् ब्स्र्प्_3,2.8.41ः
पूर्वं तु बादरायणो हेतुव्यपदेशात्
मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0