भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 2.3

2.3.1

इतश्च जीवोत्पत्तिवाद उपेक्ष्य इत्याह सूत्रकारः-#विप्रतिषेधाच्चेति ।
स्वस्यैव गुणत्वं गुणित्वं च विरुद्धम् ।
आदिपदात् प्रद्युम्नानिरुद्धौ भिन्नावात्मन इत्युक्त्वात्मन एवैते इति विरुद्धोक्तिग्रहः ।
पूर्वापरविरोधादसांगत्यमिति सूत्रार्थमुक्त्वार्थान्तरमाह-#वेदेति ।
एकस्यापि तन्त्राक्षरस्याध्येता चतुर्वेदिभ्यो ऽधिक इति निन्दादिपदार्थः ।
तस्मान्मिथो विरुद्धाभिः पौरुषेयकल्पनाभिर्नापौरुषेयवेदान्तसमन्वयविरोध इति सिद्धम् ॥45॥
एन्द् ब्स्र्प्_2,2.8.45
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयाध्यायस्य द्वितीयः पादः ॥2॥
#इति द्वितीयाध्यायस्य सांख्यादिमतानां दुष्टत्वप्रदर्शनं नाम द्वितीयः पादः
#द्वितीयाध्याये तृतीयः पादः ।
वियदादिविधातारं सीतास्याब्जमधुव्रतम् ।
नित्यचिद्धिवश्वकर्त्रात्माभिन्नं सर्वेश्वरं भजे ॥1॥
स्तर्त् ब्स्र्प्_2,3.1.1ः
न वियदश्रुतेः

2.3.2

जीवस्यानुत्पत्तिप्रसङ्गेनाकाशस्याप्युत्पत्त्यसंभवमाशङ्क्य परिहरन्नादावेकदेशितमाह-#न वियदश्रुतेः ।
वियत्प्राणापादयोरर्थं संक्षिपन् पूर्वपादेन संगतिमाह-#वेदान्तेष्विति ।
भिन्नोपक्रमत्वमेवाह-#केचिदित्यादिना ।
भूतभोक्तृश्रुतीनां मिथोविरोधशङ्कानिरासो वियत्पादार्थः ।
लिङ्गशरीरश्रुतीनां तन्निरासः प्राणपदार्थः ।
यथा मिथोविरोधात् पूर्वापरविरोधाच्च परपक्षा उपेक्ष्यास्तथा श्रुतिपक्षो ऽपि उपेक्ष्य इति शङ्कोत्थाने पादद्वयस्यारम्भात् पूर्वपादेन दृष्टान्तसंगतिरिति समुदायार्थः ।
आकाशवाय्वोरुत्पत्तिमामनन्ति तैत्तिरीयकाः ।
नामनन्ति छन्दोगाः ।
जीवस्य प्राणानां चोत्पत्तिं ऽसर्व एत आत्मनो व्युच्चरन्तिऽइति वाजिनः ।
ऽएतस्माज्जायते प्राणःऽइत्याथर्वणिकाश्चामनन्ति नान्ये ।
एवमाकाशपूर्विका क्वचिच्सृष्टिः, क्वचित्तेज पूर्विकेति क्रमविरोधः ।
आदिपदात् ऽस इमांल्लोकानसृजतऽइत्यक्रमः, क्वचित्सप्त प्राणाः, क्वचिदष्टावित्यादि संख्याद्वारकश्च विरोधो ग्राह्यः ।
प्रपञ्चः पादद्वयम् ।
तथाच पादद्वयस्य श्रुतीनां मिथोविरोधनिरासार्थत्वाच्छ्रुतिशास्त्राध्यायसंगतयः सिद्धाः ।
अत्राकाशस्योत्पत्त्यनुत्पत्तिश्रुत्योर्मिथोविरिधो ऽस्ति न वेति वाक्यभेदैकवाक्यत्वाभ्यां संदेहे यद्युत्पत्तिस्तदा वाक्यभेदेन विरोधादप्रामाण्यमनयोः श्रुत्योरिति पूर्वपक्षयिष्यन्नादावनुत्पत्तिक्षमेकदेशि गृह्णातीत्याह-#तत्र तावदिति ।
उत्पत्तिश्रुतिर्मुख्या नास्तीति गूढाभिसंधिः ॥1॥
एन्द् ब्स्र्प्_2,3.1.1
स्तर्त् ब्स्र्प्_2,3.1.2ः
अस्ति तु

2.3.3

संप्रति पूर्वपक्षयति सूत्रकारः-#अस्ति त्विति ।
एकवाक्यत्वेन प्रामाण्यसंभवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते-#नन्वेकवाक्यतेति ।
एकवाक्यत्वासंभवादप्रामाण्यं युक्तमित्याह-#सत्यमित्यादिना ।
एकस्य युगपत्कार्यद्वयासंबन्धे ऽपि क्रमेण संबन्धसंभवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते-#ननु सकृदिति ।
अप्रामाण्यवादी दूषयति-#नैवमिति ।
क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः ।
एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह-#नचेति ।
वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः ।
छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह-#एतेनेति ।
एतत्पदार्थमाह-#तस्मादिति ।
छान्दोग्ये ऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः ।
किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह-#वायोरिति ॥2॥
एन्द् ब्स्र्प्_2,3.1.2
स्तर्त् ब्स्र्प्_2,3.1.3ः
गौण्यसंभवात्

2.3.4

एवं श्रुत्योर्विरोधादप्रामाण्यमिति पूर्वपक्षे प्राप्ते स एव वियदनुत्पत्तिवादि स्वमतेन प्रामाण्यं ब्रूत इत्याह-#अस्मिन्निति ।
एवमाध्यायसमाप्तेरधिकरणेषु प्रथमं विरोधाच्छ्रुत्यप्रामाण्यमिति पूर्वपक्षफलं तत एकदेशिसिद्धान्तः, पश्चान्मुख्यसिद्धान्ते श्रुतीनामविरोधेनैक वाक्यतया ब्रह्मणि समन्वयसिद्धिरिति फलं क्रमश्चेत्यवगन्तव्यम् ।
तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्ययोगाद्वियदुत्पत्त्यसंभवरूपतक्रानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति-#नास्तीत्यादिना ।
आकाशो नोत्पद्यते सामग्रीशून्यत्वात्, आत्मवत् ।
न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च ।
संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः ।
प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह-#उत्पत्तिमतां चेति ।
प्रकाशश्चाक्षुषानुभवः ।
आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् ।
मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यं, तच्च प्रलये ऽप्यस्ति परमाण्वाश्रयत्वात् ।
अतो न प्रागभाव इत्यर्थः ।
प्रागभावसत्त्वं स्फुटयति-#किं हीति ।
स्थूलाश्रयो ऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः ।
किञ्चात्मवदाकाशो न जायते, विभुत्वात्, अस्पर्शद्रव्यत्वाच्चेत्याह-#पृथिव्यादीति ।
तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः ।
भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह-#वेदे ऽप्यारण्यानिति ।
आकाशेष्विति भेदव्यपदेशो गौण इति संबन्धः ॥3॥
एन्द् ब्स्र्प्_2,3.1.3
स्तर्त् ब्स्र्प्_2,3.1.4ः
शब्दाच्च

2.3.5

न केवलं तर्कादाकाशस्यानुत्पत्तिः, किन्तु श्रुतितो ऽपीत्याह-सूत्रकारः-#शब्दाच्चेति ।
नित्यभावस्यानादित्वादिति ।
भावः ।
आत्मेति च शब्द इहोदाहरणमित्यन्वयः ।
आकाशः शरीरमस्येति बहुव्रीहिणात्यन्तसाम्यभानाद्ब्रह्मवदाकाशस्यानादित्वमित्यर्थः ॥4॥
एन्द् ब्स्र्प्_2,3.1.4
स्तर्त् ब्स्र्प्_2,3.1.5ः
स्याच् चैकस्य ब्रह्मशब्दवत्

2.3.6

#पदोत्तरमिति ।
शङ्कोत्तरमिति यावत् ।
तान्येव शङ्कापदानि पठति-#स्यादेतदिति ।
अधिकारे प्रकरणे ।
यथैकस्मिन्ब्रह्मप्रकरणे ऽअन्नं ब्रह्मऽऽआनन्दो ब्रह्मऽइति वाक्ययोर्ब्रह्मशब्दस्यान्ने गौणत्वमानन्दे मुख्यता तथैकवाक्यस्थस्यैकस्यापि संभूतशब्दस्य गुणमुख्यार्थभेदो योग्यताबलादित्याह-#स्याच्चेति ।
उदाहरणान्तरमाह-#यथा चेति ।
अभेदोपचारो भक्तिः ।
मुख्यसिद्धान्त्याक्षिपति-#कथं पुनरिति ।
स एवाक्षेपद्वयं स्पष्टयति-#नन्विति ।
अद्वितीयत्वश्रुतिबाधः सर्वविज्ञानप्रतिज्ञाबाधश्चेत्यर्थः ।
प्रथमाक्षेपं दृष्टान्तेन परिहरति-#एकमेवेति ।
कार्यरूपद्वितीयशून्यत्वं प्रागवस्थायामवधारणश्रुत्यार्थ इत्यर्थः ।
कुले गृहे ।
अमत्राणि घटादीनि पात्राणि ।
एकमेवेत्यवधारणव्यावर्त्यं कार्यमिति व्याख्यायाद्वितीयपदव्यावर्त्यमाह-#अद्वितीयश्रुतिरिति ।
आकाशस्य द्वितीयत्वमङ्गीकृत्याद्वितीयादिपदसंकोचः कृतः, तदपि नास्तीत्याह-#नच नभसापीति ।
धर्मसाम्ये ब्रह्मनभसोः कथं भेदः, तत्राह-#सर्गकाले त्विति ।
धर्मसाम्यादद्वितीयत्वोपचार इत्यर्थे श्रुतिमाह-#तथा चाकशेति ।
द्वितीयमाक्षेपं परिहरति-#अत एवेति ।
अभेदोपचारादेवेत्यर्थः ।
नभसो ब्रह्मतत्कार्याभ्यासभिन्नदेशकालत्वाच्च तज्ज्ञाने तज्ज्ञानमित्याह-#अपिचेति ॥5॥
एन्द् ब्स्र्प्_2,3.1.5
स्तर्त् ब्स्र्प्_2,3.1.6ः
प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः

2.3.7

एवमाकाशस्यानुत्पत्तौ सर्वश्रुतीनामविरोध इत्येकदेशिसिद्धान्तः प्राप्तस्तं मुख्यसिद्धान्ती दूषयति-#प्रतिज्ञेति ।
अहानिरबाधः ।
सामयजुरथर्वणशाखाभेदज्ञापनार्था इति शब्दाः ।
#न काचनेति ।
आत्मभिन्नं ज्ञेयं नास्तीत्यर्थः ।
ननु सर्वस्य ब्रह्माव्यतिरेकात्प्रतिज्ञाया अहानिरित्यस्तु, तथापि जीवादिवदनुत्पन्नस्यापि नभसो ब्रह्मणि कल्पितत्वेनाव्यतिरेकात्प्रतिज्ञासिद्धिः किं न स्यात्, किमुत्पत्त्येत्यत आह-#शब्देभ्यश्चेति ।
अव्यतिरेक एव न्यायस्तेनेत्यर्थः ।
अयं भावः-जीवस्य तावदात्मत्वाद्ब्रह्माव्यतिरेकः ।
अज्ञानतत्संबन्धयोः कल्पितत्वेनाव्यतिरेकः ।
स्वतन्त्राज्ञानायोगादज्ञानान्यजडद्रव्यस्य तु कार्यत्वेनैवाव्यतिरेकसिद्धिः, तस्याकार्यत्वे प्रधानवत्स्वातन्त्र्यादव्यतिरेकायोगात् ।
तथाहुर्न्यायविदः-ऽनित्यद्रव्याणि स्वतन्त्राणि भिन्नान्यनाश्रितानिऽइति ।
तस्मात्प्रतिज्ञासिद्धये आकाशस्य कार्यत्वेनैवाव्यतिरेको वाच्य इति दृष्टान्तसृष्टिसार्वात्म्यशब्दानाह-#तथा हीति ।
तेन तेन दृष्टान्तेनेति ।
यजुषि दुन्दुभ्यादिदृष्टान्तेनाथर्वणे ऊर्णनाभ्यादिदृष्टान्तेनेत्यर्थः ।
यजुषि प्रतिज्ञासाधका ऽइदं सर्वम्ऽइतिशब्दाः, आथर्वणे ऽब्रह्मैवेदम्ऽइति शब्दा इति भावः ।
एवमाकाशोत्पत्तिकथनादेकदेशिमते दूषिते श्रुत्यप्रामाण्यवादी स्वोक्तं स्मारयति-#सत्यं दर्शितमिति ।
मुख्यसिद्धान्त्याह-#न ।
एकेति ।
ऽतत्तेजो ऽसृजतऽइति सकृच्छ्रुतस्य स्रष्टुराकाशतेजोभ्यां युगपत्संबन्धे तित्तिरिक्रमबाधात्, क्रमेणाकाशं सृष्ट्वा तेजो ऽसृजतेति संबन्धे तेजःप्राथम्यभङ्गप्रसङ्गात्, वस्तुनि विकल्पासंभवेन तयोः शाखाभेदेन प्राथम्यव्यवस्थाया अयोगात्, नैकवाक्यतेति प्राप्ते मुख्य एव दूषयति-#नैष दोष इति ।
अप्रामाण्यकल्पनाद्वरमपौरुषेयश्रुतीनामेकवाक्यत्वेन प्रामाण्यकल्पनं, तच्चैकवाक्यत्वं बलवच्छ्रुत्या दुर्बलश्रुतेः कल्प्यं, बलवती च तित्तिरिश्रुतिः, प्रकृतिपञ्चम्या पौर्वापर्याख्यक्रमस्य श्रुतत्वात् ।
छान्दोग्यश्रुतिस्तु दुर्बला, तेजःप्राथम्यश्रुत्यभावात् ।
तेजःसर्गमात्रं तु श्रुतं तृतीयत्वेन परिणेयमित्येकवाक्यतेत्यर्थः ।
यदुक्तमेकदेशिना छान्दोग्यश्रुत्याकाशोत्पत्तिर्वार्यत इति तन्निरस्तम् ।
किञ्च सा श्रुतिः किं तेजोजन्मपरा, उत तेजोजन्म वियदनुच्पत्तिश्चेत्युभयपरा ।
आद्ये न तद्वारणमित्याह-#नहीति ।
अविरोधादित्यर्थः ।
न द्वितीयः, श्रुत्यन्तरविरोधेनोभयपरत्वकल्पनायोगाद्वाक्यभेदापत्तेश्चेत्याह-#एकस्येति ।
नन्वेकस्य स्रष्टुरनेकार्थसंबन्धवद्वाक्यस्याप्यनेकार्थता किं न स्यादित्यत आ-#स्रष्टा त्विति ।
एकस्य कर्तुरनेकार्थसंबन्धो दृष्टः ।
न त्वेकस्य वाक्यस्य नानार्थत्वं दृष्टम् ।
नानार्थकप्रयोगे तु पय आनयेत्यादावावृत्त्या वाक्यभेद एव ।
आनयनस्य जलक्षीराभ्यां पृथक्संबन्धादित्यर्थः ।
फलितमाह-#इत्येकेति ।
एकस्य शब्दस्यावृत्तिं विनानेकार्थत्वं नास्ति चेदसृजतेति शब्दस्य छान्दोग्य उपसंहृताकाशादिसंबन्धार्थमावृत्तिदोषः स्यादित्यत आह-#नचेति ।
छान्दोग्यस्थतेजोजन्म आकाशादिजन्मपूर्वकं, तेजोजन्मत्वात्, तित्तिरिस्थतेजोजन्मवदित्याकाशादिजन्मोपसंहारे ऽतदाकाशमसृजतऽइति वाक्यान्तरस्यैव कल्पनान्नावृत्तिदोष इत्यर्थः ।
श्रुत्यन्तरस्थः क्रमः श्रुत्यन्तरे ग्राह्य इत्यत्र दृष्टान्तमाह-#यथाचेति ।
सृष्टौ तात्पर्यातात्पर्याभ्यां दृष्टान्तश्रुतिवैषम्यं शङ्कते-#नन्वित्यादिना ।
तेजःप्राथम्यस्वीकारे आकाशसर्गो धर्मि तद्धर्मः प्राथम्यं चेति द्वयं श्रुतं बाधनीयमिति गौरवम्, आकाशप्राथम्ये त्वार्थिकतेजः सर्गप्राथम्यमात्रबाध इति लाघवमिति मत्वाह-#नेत्युच्यत इति ।
किञ्च प्रधानधर्मित्यागाद्वरं गुणभूतस्य तेजःप्राथम्यस्य धर्मस्य त्याग इत्याह-#नहीति ।
किञ्च किं सृष्टिपरश्रुतिसिद्धत्वात्तेजःप्राथम्यं गृह्यत उत प्रथमस्थाने तेजसः सर्गश्रुत्यार्थात्प्राथम्यभानात् ।
नाद्य इत्याह-#अपिचेति ।
द्वितीयमनूद्य दूषयति-#अर्थात्त्विति ।
यदुक्तं वस्तुनि विकल्पासंभवादुभयोः प्राथम्यं शाखाभेदेन व्यवस्थितं न भवति,
नाप्युभयोर्द्विदलाङ्कुरवत्समुच्चित्योत्पत्त्या प्राथम्यं वायोरग्निरिति क्रमबाधापातादिति, तदिष्टमेवेत्याह-#विकल्पेति ।
न केवलं श्रुतिदेव्योरविरोधः सौहार्दं चास्तीत्याह-#अपिचेति ।
वियदुपसंग्राह्यमित्यन्वयः ।
वियदनुत्पत्तिवादिनोक्तमनूद्य प्रतिज्ञाया अद्वितीयश्रुतेश्च मुख्यार्थतात्पर्यावगमान्न गौणार्थतेति दूषयति-#यच्चोक्तमित्यादिना ।
प्रकृतिविकारन्यायस्तदनन्यत्वन्यायः ।
उदकं क्षीरस्थमपि क्षीरज्ञानान्न गृह्यते भेदादिति भावः ।
मास्तु सम्यग्ज्ञानं श्रुतेर्भ्रान्तिमूलत्वसंभवादित्याशङ्क्यापौरुषेयत्वान्मैवमित्याह-#नच वेदस्येति ।
माया भ्रान्तिस्तयालीकं मिथ्याभाषणं तेन वञ्चनमयथार्थबोधनम् ।
आदिपदाद्विप्रलिप्साप्रमादकरणापाटवानि गृह्यन्ते ।
प्रतिज्ञामुख्यत्वमभिधायाद्वितीयश्रुतिमुख्यतामाह-#सावधारणेति ।
सर्वद्वैतनिषेधपरेत्यर्थः ।
उभयगौणत्वे ऽद्भुतवदुपन्यासो मृदादिदृष्टान्तैस्तत्साधनं च न स्यादिति दोषान्तरमाह-#नचेत्यादिना ॥6॥
एन्द् ब्स्र्प्_2,3.1.6
स्तर्त् ब्स्र्प्_2,3.1.7ः
यावद्विकारं तु विभागो लोकवत्

2.3.8

कार्यमेव वस्त्वेकदेश आकाशो नोत्पद्यते सामग्रीशून्यत्वादित्यत्र आकाशो विकारः विभक्तत्वात् घटादिवदिति सत्प्रतिपक्षमाह-#यत्पुनरित्यादिना ।
यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह-#न त्वविकृतमिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह-#एतेनेति ।
विभक्तत्वेनेत्यर्थः ।
आत्मनि व्यभिचारं शङ्कते-#नन्विति ।
धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह-#नेति ।
अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम्, अतो नाज्ञानतत्संबन्धादौ व्यभिचारः ।
नन्वात्मा कार्यः, विभक्तत्वात्, वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वं, नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह-#आत्मन इति ।
इष्टप्रसङ्ग इति वदन्तं प्रत्याह-#आत्मात्वादिति ।
आत्माभावः केनचिज्ज्ञायते न वा ।
आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता ।
द्वितीये ऽपि न शून्यता मानाभावादित्यर्थः ।
किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम्, आत्मा त्वकार्थो निरपेक्षत्वान्न बाधयोग्य इत्याह-#नह्यात्मेत्यादिना ।
कस्यचित्कारणस्यागन्तुकः कार्यो न हि ।
सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः ।
तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति-#नहीति ।
यदुक्तं सुरेश्वराचार्यैः-ऽप्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।
ऽइति ।
यथा श्रुतिराह-ऽपुरुषः स्वयं ज्योतिःऽ, ऽतस्य भासा सर्वमिदं विभातिऽइति च ।
नन्वात्मनः स्वतः सिद्धो प्रमाणवैयर्थ्यं, तत्राह-#तस्येति ।
ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह-#नहीति ।
अतो न प्रमाणवैयर्थ्यमिति भावः ।
आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह-#आत्मा त्विति ।
अयमर्थः-निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकं, गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् ।
ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् ।
नापि ज्ञानान्तरात् अनवस्थानात् ।
अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः ।
तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् ।
अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति ।
स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह-#नचेति ।
जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपं, तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात्, स्वस्य च स्वनिराकर्तृत्वायोगात् ।
नहि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।
एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह-#तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ताव्यभिचारे ऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।
मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह-#तथेति ।
उच्छेदो विनाशः ।
अन्यथास्वभावत्वं मिथ्यात्वं वा संभावयितुमपि न शक्यम्, अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः ।
एवमात्मनः शून्यत्वविरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तं, ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह-#एवमिति ।
अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यदृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह-#कार्यत्वं चेति ।
आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति-#यत्त्वित्यादिना ।
किं कारणमात्रस्य साजात्यनियम उत समवायिनः ।
तत्राद्यं निरस्य द्वितीयं शङ्कते-#स्यादेतदिति ।
किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना ।
नाद्य इत्याह-#तदपीति ।
नच रज्जवादि न द्रव्यान्तरमिति वाच्यं, पटादेरपि तथात्वापातात् ।
द्वितीयो ऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह-#सत्त्वेति ।
उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति-#नापीत्यादिना ।
किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य ।
नाद्य इत्याह-#अण्विति ।
द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म ।
यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह-#एकैको हीति ।
द्रव्यान्तरैः ।
समवायिभिरित्यर्थः ।
द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति-#द्रव्येत्यादिना ।
न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः ।
यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति ।
तन्न ।
क्षीरनाशे मानाभावात्, रसवद्दध्नो ऽप्येकद्रव्यारभ्यत्वसंभवाच्च, द्रव्यगुणसंकेतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः ।
लोके कर्तु- सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह-#तथाचोक्तमिति ।
प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह-#यच्चोक्तमित्यादिना ।
शब्दाश्रयत्वं विशेषः ।
शब्दादिमानाकाशः प्रलये नास्ति, ऽनासीद्रजो नो व्योमऽइति श्रुतेः ।
नन्वाकाशाभावे काठिन्यं स्यादिति चेत् ।
सुशिक्षितो ऽयं नैयायिकतनयः ।
न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तसंयोगविशेषो वा काठिन्यं, तच्च प्रलये नास्तीति भावः ।
ऽआकाशशरीरं ब्रह्मऽइति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह-#यथाचेति ।
विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः ।
विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह-#यदपीत्यादिना ।
धर्मिविकारभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् ।
गुणाश्रयत्वमेव हेतुः ।
तच्च स्वसमानसत्ताकगुणवत्त्वम्, अतो निर्गुणात्मनि न व्यभिचारः ।
भूतत्वमादिशब्दर्थः ।
स्वरूपासिद्धिमप्याह-#विभुत्वादीनां चेति ।
सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति ।
संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च ।
स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समं, ऽज्यायानाकाशात्ऽइति श्रुतेः ।
क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसंबन्धेन व्यपदिश्यते ।
असक्तत्वेन वा ।
पञ्चीकरणादस्पर्शत्वमसिद्धं, कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धं, द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः ।
नित्य इत्यंशेन साम्यं न विवक्षितम् ।
ननु ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्माऽइति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते,
नेत्याह-#एतेनेति ।
आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः ।
श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः ।

न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह-#ज्यायानिति ।
मुख्योपमानासत्त्वे श्रुतिः-ऽन तस्यऽइति ।
तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः ।
अनित्यत्वेनासत्त्वे श्रुतिमाह-#अतो ऽन्यदिति ।
यत्त्वेकस्यैव संभूतशब्दस्य गौणत्वं मुख्यत्वं चेति ।
तन्न ।
आकाशे ऽपि तस्य मुख्यत्वसंभवादित्याह-#तपसीति ।
बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति-#तस्मादिति ॥7॥
एन्द् ब्स्र्प्_2,3.1.7
स्तर्त् ब्स्र्प्_2,3.2.8ः
एतेन मातरिश्वा व्याख्यातः

2.3.9

#एतेन मातरिश्वा व्याख्यातः ।
अतिदेशत्वान्न पृथक्संगत्याद्यपेक्षा ।
ऽतत्तेजो ऽसृजतऽइति श्रुतेः ।
ऽआकाशाद्वायुःऽइति श्रुत्या विरोधो ऽस्ति न वेति एकवाक्यत्वभावाभावभ्यां संशये गौणपक्षपूर्वपक्षसिद्धान्तपक्षानतिदिशति-#तत्रापीत्यादिना ।
पूर्वत्र ह्याकाशानन्तर्यं तेजसः स्थापितं, तत्र वायुतेजसोस्तुल्यवदानन्तर्ये वायोरग्निरिति क्रमश्रुतिबाधात्पौर्वापर्ये तेजःप्राथम्यभङ्गान्नैकवाक्यतेति पूर्वपक्षे गौणवाद्यभिप्रायमाह-#ततश्चेति ।
अस्तमयप्रतिषेधो मुख्योत्पत्त्यसंभवे लिङ्गम् ।
ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽइति तस्यैव लिङ्गस्याभ्यासः ।
ऽवायुरेव व्यष्टिः समष्टिश्चऽइति सर्वात्मत्वलिङ्गान्तरमादिपदार्थः ।
तथा संवर्गविद्यायां ऽवायुर्ह्येवैतान्सर्वानग्न्यादीन्संहरतिऽइति शब्दमात्रेणैश्वर्यश्रवणं लिङ्गान्तरं ग्राह्यम् ।
एतैर्लिङ्गैर्वायुरनाद्यनन्त इति प्रतीतेरुत्पत्तिर्गौणीत्यविरोधः श्रुत्योरिति प्राप्ते प्रतिपिपादयिषितप्रतिज्ञाश्रुतेर्बलीयस्त्वात्तत्साधकानां तत्र तत्र वायूत्पत्तिवाक्यानां भूयस्त्वादुक्तविभक्तत्वादिलिङ्गानुग्रहाच्च मुख्यैव वायोरुत्पत्तिः, तथाचाकाशं वायुं च सृष्ट्वा तेजो ऽसृजतेति श्रुत्योरेकवाक्यतया ब्रह्मणि समन्वयः ।
लिङ्गानि तूपास्यवायुस्तावकत्वादापेक्षिकतया व्याख्येयानीति मुख्यसिद्धान्तमाह-#प्रतिज्ञेत्यादिना ।
कृतं प्रतिविधानमापेक्षिकत्वेन समाधानं यस्य तत्तथा ।
अधिकरणारम्भमाक्षिप्योक्तामधिकाशङ्कमाह-#नन्वित्यादिना ।
ऽवायुर्ह्येवैतान्सवार्न्संवृङ्क्तेऽइत्यादिशब्दमात्रं शङ्कामूलं नार्थ इति द्योतनार्थं मात्रपदम् ।
तामेव शङ्कामाह-#संवर्गेति ।
व्यष्टिसमष्ट्युपास्तिः ऽवायुं दिशां वत्सं वेदऽइत्युपास्तिश्चादिशब्दार्थः ॥8॥
एन्द् ब्स्र्प्_2,3.2.8
स्तर्त् ब्स्र्प्_2,3.3.9ः
असंभवस् तु सतो ऽनुपपत्तेः

2.3.10

असंभवस्तु सतो ऽनुपपत्तेः ।
ऽअनाद्यनन्तं महतः परं ध्रुवम्ऽ, ऽन चास्य कश्चिज्जनिताऽइत्यादि ब्रह्मानादित्वश्रुतीनां ऽत्वं जातो भवसि विश्वतोमुखःऽइत्युत्पत्तिश्रुत्या विरोधो ऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां संदेहे ऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसंगत्या एकदेशिपक्षं प्रापयति-#वियदिति ।
ब्रह्म कुतश्चिज्जायते, कारणत्वात्, आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह-#तथेति ।
न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः ।
तथाच दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह-#तामिति ।
ब्रह्म न च जायते, कारणशून्यत्वात्, नरविषाणवत्, व्यतिरेकेण घटवच्चेत्यनुमानानुग्रहाद्विपक्षेचाकारणककार्यवादप्रसङ्गाद्ब्रह्मानादित्वश्रुतयो बलीयस्य इति कारणत्वलिङ्गबाधाज्जन्मश्रुतिः कार्याभेदेन व्याख्येयेत्यनाद्यनन्तब्रह्मसमन्वयसिद्धिरिति सिद्धान्तफलम् ।
न हेत्वसिद्धिः, कारणस्यानिरूपणात् ।
तथाहि-किं सन्मात्रस्य ब्रह्मणः सन्मात्रमेव सामान्यं कारणं सद्विशेषो वा असद्वा ।
न त्रेधापीत्याह-#सन्मात्रं हीत्यादिना ।
दीपस्तु दीपान्तरे निमित्तमित्यनुदाहरणम् ।
वियत्पवनयोर्ब्रह्मणश्च विभक्तत्वाविभक्तत्वाभ्यां कारणभावाभ्यां च वैषम्यम् ।
कारणत्वलिङ्गस्याप्रामाणिकानवस्था ।
तर्केणापि बाधमाह-#नच विकारेभ्य इत्यादिना ।
कारणस्यानभ्युपगमे यदृच्छावादप्रसङ्गः, अनादिकारणानभ्युपगमे ऽनवस्थाप्रसङ्गः, तदभ्युपगमे ब्रह्मवादप्रसङ्गः, कारणान्तरस्य प्रधानादेर्निरासादिति भावः ॥9॥
एन्द् ब्स्र्प्_2,3.3.9
स्तर्त् ब्स्र्प्_2,3.4.10ः
तेजो ऽतस् तथा ह्य् आह

2.3.11

#तेजो ऽतस्तथाह्याह ।
ऽतत्तेजो ऽसृजतऽइति ऽवायोरग्निःऽइति च श्रुत्योर्विरोधो ऽस्ति न वेति संदेहे सामान्यात्सामान्योत्पत्त्यसंभवे ऽपि ब्रह्मवाय्वोः सामान्योस्तेजोरूपविशेषोपादानत्वसंभवात्तुल्यबलतयास्ति विरोध इति प्रत्युदाहरणेन पूर्वपक्षः ।
सर्वत्राध्यायसमाप्तेरेकवाक्यत्वासंभवासंभवौ संशयबीजम् ।
पूर्वपक्षे श्रुतीनां विरोधादप्रामाण्यं फलं, सिद्धान्ते प्रामाण्यमित्युक्तं न विस्मर्तव्यम् ।
एवं पूर्वपक्षे कार्यमात्रस्य विवर्तत्वात्कल्पितस्य वायोस्तेजःकल्पनाधिष्ठानत्वायोगाद्ब्रह्मैव तेजस उपादानं सर्वकार्याणां ब्रह्मैवोपादानमित्यर्थे श्रुतीनां भूयस्त्वाच्च तदनुरोधाद्वायोरिति क्रमार्था पञ्चमीत्यविरोध इत्येकदेशिसिद्धान्तं प्रापयति-#प्राप्तं तावद्ब्रह्मयोनिकं तेज इत्यादिना ।
श्रुतीनां विरोधमात्रोपन्यासेन पूर्वपक्षः, अपसिद्धान्तेविरोधात्तावदेकदेशिपक्ष इति ज्ञेयम् ।
तदुभयमपि मुख्यसिद्धान्तापेक्षया पूर्वपक्षत्वेन व्यवह्रियते ।
सिद्धान्तयति-#एवं प्राप्त इति ।
कदर्थिता ।
बाधितार्थेति यावत् ।
वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितं, नच कल्पितस्योपादानत्वासंभवः, अधिष्ठानत्वासंभवे ऽपि मृदादिवत्परिणामित्वसंभवात्, स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् ।
नच ऽबहु स्याम्ऽइति कार्याभेदे क्षणिलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् ।
नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः ।
#इहाधिकारादिति ।
वायोरग्निः संभूत इति वाक्ये संबन्धादित्यर्थः ।
तदधिकारे संभूत्यधिकारे ।
निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह-#अपिचेति ।
ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः ।
प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति ।
विशेषतो ऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।
पारम्पर्यजत्वमेवाह-#यदापीति ।
तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः ।
दधिसंसृष्टं कठिनक्षीरमामिक्षा ।
ब्रह्मणे वायुभावे मानमाह-#दर्शयति चेति ।
पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह-#तथाचेति ।
अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह-#यद्यपीत्यादिना ।
प्रनाड्या परंपरयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः ।
एतत्पदार्थमाह-#तासामिति ।
ऽतज्जलान्ऽइत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः ।
अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजः-कारणे ब्रह्मणि इति सिद्धम् ॥10॥
एन्द् ब्स्र्प्_2,3.4.10
स्तर्त् ब्स्र्प्_2,3.5.11ः
आपः

2.3.12

#आपः ।
अतिदेशो ऽयम् ।
तथा ह्याथर्वणे मुण्डकग्रन्थे ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽइति मन्त्रे ऽपां ब्रह्मजत्वं श्रुतम् ।
ऽअग्नेरापःऽइति श्रुत्या तस्य विरोधो ऽस्ति न वेति संदेहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासंभवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्क्यामुक्तेजोन्यायमतिदिश्य व्याचष्टे-#अत इति ।
प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह-#सति वचन इति ।
त्रिवृत्कृतयोरप्तेजसोर्विरोधे ऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः ।
न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूचतोत्पत्तिक्रमनिर्णयार्थं चेत्याह-#तेजसस्त्विति ।
तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ॥11॥
एन्द् ब्स्र्प्_2,3.5.11
स्तर्त् ब्स्र्प्_2,3.6.12ः
पृथिव्य् अधिकाररूपशब्दान्तरेभ्यः

2.3.13

#पृथिव्यधिकाररूपशब्दान्तरेभ्यः ।
विषयमुक्त्वान्नशब्दमहाभूतप्रकरणाभ्यां संशयमाह-#ता इति ।
अभ्यवहार्यं भक्ष्यम् ।
अत्र श्रुतौ यद्यन्नमोदनादिकं तदा ऽअद्भ्यः पृथिवीऽइति श्रुत्या विरोधः, यदि पृथिवी तदा न विरोध इति फलं बोध्यम् ।
अत्पृथिव्योः कार्यकारणभावादधिकरणसंगतिः ।
अन्नश्रुतिवृष्टिभवनत्वलिङ्गाभ्यां पूर्वपक्षः ।
तदेव तत्रैवेति श्रुत्यर्थः ।
तथाच क्वचिदन्नं क्वचिदद्भयः पृथिवी ततो ऽन्नमिति विरोधान्नैकवाक्यतेति प्राप्ते सिद्धान्तयति-#एवं प्राप्त इति ।
अधिकारः प्रकरणम् ।
रूपं लिङ्गम् ।
पयः क्षीरं तद्वत्पाण्डुरं श्वेतम्, अङ्गारवद्रोहितं रक्तम् ।
शब्दान्तरशब्दितं स्थानं व्याचष्टे-#श्रुत्यन्तरमपीति ।
अबानन्तर्यं पृथिव्याः स्थानं श्रुत्यन्तरसिद्धं तेनाप्यन्नस्य पृथिवीत्वमित्यर्थः ।
तत्तत्र सृष्टिकाले यदपां शरः यो मण्डवद्धनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् सापां कठिना परिणतिः पृथिव्यभवदिति श्रुत्यर्थः ।
व्रीह्याद्यन्नसर्गः कस्मिन्स्थान इति विवक्षायामाह-#पृथिव्यास्त्विति ।
पञ्चमीयम् ।
वृष्टिभवत्वलिङ्गसहितान्नश्रुतेः कथं प्रकरणलिङ्गस्थानैर्बाध इत्याशङ्क्याह-#वाक्यशेषो ऽपीति ।
प्रबलदुर्बलप्रमाणसंनिपाते बहूनां दुर्बलानामत्यन्तबाधाद्वरं प्रबलप्रमाणस्याल्पबाधेन कथञ्चिन्नयनमिति न्यायेन श्रुतिलिङ्गयोरन्नमात्रनिष्ठत्वं बाधित्वान्नानन्नात्मकपृथिवीनिष्ठत्वं नीयते ।
ताभ्यामन्नमात्रग्रहे प्रकरणादीनां पृथिवीमात्रविषयाणामत्यन्तबाधापत्तेरिति भावः ।
अन्नस्य वृष्टिजत्वोक्तिद्वारा पृथिव्या अब्जन्यत्वं सूच्यते ।
पृथिव्यब्जा, पृथिवीत्वात्, अन्नवदित्यनुमानादित्यक्षरार्थः ।
एवं तित्तिरिश्रुत्यनुसारेण छन्दोगश्रुतेर्नयनादविरुद्धो भूतसृष्टिश्रुतीनां ब्रह्मणि समन्वय इति सिद्धम् ॥12॥
एन्द् ब्स्र्प्_2,3.6.12
स्तर्त् ब्स्र्प्_2,3.7.13ः
तदभिध्यानाद् एव तु तल्लिङ्गात् सः

2.3.14

संप्रति तानि भूतान्याश्रित्याश्रयाश्रयिभावसंगत्या तेषां स्वातन्त्र्यमाशङ्क्य निषेधति-#तदभिध्यानादेव तु तल्लिङ्गात्सः ।
उक्तभूतान्याश्रित्य संशयपूर्वपक्षौ दर्शयति-#किमिमानीत्यादिना ।
संशयबीजानुक्तौ पूर्वोत्तरपक्षयुक्तयो बीजमिति ज्ञेयम् ।
नन्वत्र भूतानां किं स्वातन्त्र्येणोपादानत्वमाशङ्क्यते कर्तृत्वं वा ।
नाद्यः, ऽरचनानुपपत्तेःऽइत्यादिन्यायविरोधादिति शङ्कते-#नन्विति ।
न द्वितीयः, अचेतनत्वादिति भावः ।
यथा मनुष्यादिशब्दैस्तत्तद्देहाभिमानिनो जीवा उच्यन्ते तथा ऽआकाशाद्वायुःऽइत्यादिश्रुतावाकाशादिशब्दैस्तत्तद्भूताभिमानिदेवता उच्यन्ते, तासां स्वकार्ये वाय्वादौ कर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं पञ्चम्यर्थः ।
एवं ऽतदात्मानं स्वयमकुरुतऽइति श्रुतौ स्वयमिति विशेषणाद्ब्रह्मणो ऽन्यानपेक्षसर्वकर्तृत्वसंभवान्निरपेक्षनिमित्तत्वं श्रुतम् ।
तथाच मिथोनिरपेक्षेश्वरभूतकर्तृश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति सफलं पूर्वपक्षमाह-#नैष दोष इति ।
भूतानां तदभिमानिदेवतानामित्यर्थः ।
यथा आकाशादिभावापन्नब्रह्मणः सर्वोपादानत्वं तथा तदभिमानिदेवताजीवभावमापन्नब्रह्मणः कर्तृत्वमिति परम्परया ईश्वरकर्तृत्वश्रुत्यविरोधः ।
स्वयमिति विशेषणमीश्वरान्तरनिरासार्थं न जीवभावापेक्षानिरासार्थमित्येकदेशिसिद्धान्त ऊहनीयः ।
मुख्यसिद्धान्तमाह-#एवं प्राप्त इति ।
आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात् पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात्, तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् ।
यद्यपि देवतानां कर्तृत्वं संभवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यं, किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम्-#तल्लिङ्गादिति ।
तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वे ऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः ।
प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह-#तथेति ।
पूर्वोक्तमनूद्य निरस्यति-#यत्त्विति ।
परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः ।
अनेन ऽतदभिध्यानात्ऽइति पदं व्याख्यातम् ।
इत्थं सूत्रयोजना-स ईश्वरस्तत्तदात्मना स्थितो ऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् ।
जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति ।
तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह-#नान्य इति ।
तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम् ॥13॥
एन्द् ब्स्र्प्_2,3.7.13
स्तर्त् ब्स्र्प्_2,3.8.14ः
विपर्ययेण तु क्रमो ऽत उपपद्यते च

2.3.15

#विपर्ययेण तु ।
यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसंगतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसंगती इति मत्वाह-#भूतानामिति ।
अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलेम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलं, पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः ।
सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह-#त्रयो ऽपीति ।
अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः ।
सति कारणे कार्यं नश्यतीति लोके दृश्यते ।
तथाच श्रौतो ऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च ।
कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् ।
न हि स्वरूपनाशे कार्यस्य क्षणमपि स्थितिर्युक्ता तस्मादयोग्य उत्पत्तिक्रमो लयस्य न ग्राह्यः लौकिकक्रमावरोधेन निराकाङ्क्षात्वादिति सिद्धान्तयति-#ततो ब्रूम इत्यादिना ।
क्रमेण परम्परया सर्वकार्यलयाधारत्वं ब्रह्मणः किमित्याश्रीयते, साक्षादेव तत्किं न स्यादित्यत आह-#नहि स्वकारणव्यतिक्रमेणेति ।
घटनाशे मृदनुपलब्धिप्रसङ्गादित्यर्थः ।
ऽवायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयतेऽइति स्मृतिशेष आदिपदार्थः ।
ऽयोग्यताधीनः संबन्धःऽइति न्यायादयोग्यक्रबाध इति सिद्धम् ॥14॥
एन्द् ब्स्र्प्_2,3.8.14
स्तर्त् ब्स्र्प्_2,3.9.15ः
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात्

2.3.16

#अन्तराविशेषात् ।
उक्तभूतोत्पत्तिलयक्रममुपजीव्य स किं करणोत्पत्तिक्रमेण विरुध्यते न वेति करणानामभौतिकत्वभौतिकत्वाभ्यां संदेहे वृत्तानुवादपूर्वकं पूर्वपक्षमाह-#भूतानामित्यादिना ।
करणान्येव न सन्तीति वदन्तं प्रत्याह-#सेन्द्रियस्येति ।
ऽमनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सःऽ, ऽश्रोत्रादीनीन्द्रियाण्यन्येऽइति स्मृतिर्द्रष्टव्या ।
अन्यपराः शब्दाः लिङ्गानीत्युच्यन्ते ।
करणानां क्रमाकाङ्क्षामाह-#तयोरिति ।
आकाङ्क्षायांश्रुतिसिद्धः क्रमो ग्राह्य इत्याह-#अपिचेति ।
विज्ञायते ऽनेनेति विज्ञानं सेन्द्रिया बुद्धिः ।
आत्मनो भूतानां चान्तरा मध्ये तल्लिङ्गात्सृष्टिवाक्यात् ऽएतस्माज्जायते प्राणो मनःऽइत्यादिरूपाद्विज्ञानमनसी अनुक्रम्येते ।
तथाच करणक्रमेण पूर्वोक्तक्रमभङ्ग इति शङ्कासूत्रांशार्थः ।
नच करणानां भौतिकत्वाद्भूतानन्तर्यमिति वाच्यं, तेषां भौतिकत्वे मानाभावात् ।
तथा चात्मनः प्रथममाकाशस्य जन्म पश्चाद्वायोरित्युक्तक्रमस्यात्मनः करणानि ततो भूतानीति क्रमेण विरोध इति तित्तिर्यथर्वणश्रुत्योर्विरोधान्न ब्रह्मणि समन्वय इति पूर्वपक्षफलम् ।
सिद्धान्तयति-#नेति ।
ऽआत्मन आकाशःऽइत्यादि तित्तिरिश्रुतौ पञ्चम्याः कार्यकारणभावेनार्थतः क्रमो भाति ।
न तस्याथर्वणपाठेन बाधः अर्थक्रमविरोधिक्रमविशेषस्याश्रुतेः पाठक्रमस्यार्थक्रमधीशेषस्य शेषिबाधकत्वायोगादितः श्रुत्यर्थक्रमाविरोधेन पाठस्य नेयत्वाद्भूतानन्तर्यं करणानामित्यर्थः ।
किञ्च भौतिकत्वात्तेषां तदानन्तर्यमित्याह-#यदीति ।
नच प्राणस्याब्विकारत्वायोगादन्नमयमित्यादिमयटो न विकारार्थतेति वाच्यं, करणानां विभक्तत्वेन कार्यतया कारणाकाङ्क्षायामन्नमयमित्यादिश्रुतेराकाङ्क्षितोक्त्यर्थमसति बाधके मयटो विकारार्थताया युक्तत्वात् ।
प्राचुर्यार्थत्वे त्वनाकाङ्क्षितोक्तिप्रसङ्गाच्छ्रुत्यैव तेजोबन्नप्राशेन वाक्प्राणमनसां वृद्धिस्तदभावे तन्नाश इति विकारत्वस्य दर्शितत्वान्न विवादावसरः ।
यद्वा स्थूलभूताधीना तेषां वृद्धिर्विकारो मयडर्थः श्रूयमाणो भौतिकत्वे लिङ्गं प्राणेन्द्रियमनांसि भौतिकानि भूताधीनवृद्धिमत्त्वाद्देहवदिति भावः ।
ननु तेषां भौतिकत्वे कथमाथर्वणे पृथक् तज्जन्मकथनं भूतजन्मोक्त्यैव तज्जन्मसिद्धेरित्यत आह-#व्यपदेशो ऽपीति ।
प्रौढवादेन तेषामभौतिकत्वमुपेत्यापि श्रुत्यविरोधमाह-#अथ त्विति ।
करणानां भूतानां च पूर्वापरत्वे मानाभावान्नोक्तभूतक्रमभङ्गः ।
न चाथर्वणवाक्यं मानं पाठमात्रत्वादित्यर्थः ।
तर्हि कथं क्रमनिर्णयः, तत्राह-#तथेति ।
इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मासीत् अत्र सूक्ष्मभूतात्मकप्रजापत्तिसर्गः प्रथमस्ततो मनआदिसर्ग इति क्रमो भातीति भावः ।
एवञ्च भूतकरणोत्पत्तिश्रुत्योरविरोधाद्ब्रह्मणि समन्वयसिद्धिरिति सिद्धान्तफलं निगमयति-#तस्मादिति ॥15॥
एन्द् ब्स्र्प्_2,3.9.15
स्तर्त् ब्स्र्प्_2,3.10.16ः
चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात्

2.3.17

#चराचरभावित्वात् ।
एवं तावत्तत्पदवाच्यकारणनिर्णयाय भूतश्रुतीनां विरोधो निरस्तः इदानीमा पादमाप्तेस्त्वंपदार्थशुद्ध्यै जीवश्रुतीनां विरोधो निरस्यते ।
इह जीवो ऽन जायते म्रियतेऽइत्यादिश्रुतेर्जातेष्टिश्राद्धशास्त्रेण विरोधो ऽस्ति न वेति संदेहे विरोधो ऽस्तीति प्राप्ते लौकिकजन्मादिव्यपदेशसहायाज्जातेष्ट्यादिशास्त्रेण जीवाजत्वादिश्रुतिर्बाध्यत इति पूर्वपक्षयति-#स्त इति ।
तथाच करणोत्पत्तिक्रमेण भूतक्रमस्य बाधाभावे ऽपि जीवोत्पत्तिक्रमेण बाधः स्यादिति प्रत्युदाहरणसंगतिः ।
पूर्वपक्षे जीवब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः ।
चेतनजन्माद्युद्देशेन चेतनस्य तस्य जन्मान्तरीयफलसाधनं जातकर्मादिसंस्कारो विधीयते ।
तथा चोद्देश्यविधेययोर्मिथोविरोधे सति ऽविधेयाविरोधेनोद्देश्यं नेयम्ऽइति न्यायाज्जन्मादिकं देहोपाधिकं न स्वत इति सिद्धान्तयति-#तामित्यादिना ।
जीवापेतं जीवेन त्यक्तमिदं शरीरम् ।
जन्मादिव्यपदेशश्चराचरदेहविषयो मुख्यः ।
जीवे तु भाक्तो गौण औपाधिकजन्मादिविषयः स्यादुपाधिजन्मभावे भावादसत्यभावादिति सूत्रार्थः ।
जीवस्यौपाधिकजन्ममृत्यौ श्रुतिमप्याह-#स वा इति ।
जायमानपदार्थमाह-#शरीरमिति ।
म्रियमाणत्वं व्याचष्टे-#उत्क्रामन्निति ।
ननूत्तरत्र जीवस्य जन्मादि निरस्यते, अत्रापि तन्निरासे पुनरुक्तिरित्याशङ्क्याह-#जीवस्येति ।
तदेवं जातेष्ट्यादिशास्त्रस्यौपाधिकजन्मादिविषयत्वान्न जीवाद्यजन्यत्वश्रुतिविरोध इति सिद्धम् ॥16॥
एन्द् ब्स्र्प्_2,3.10.16
स्तर्त् ब्स्र्प्_2,3.11.17ः
नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः

2.3.18

#नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ।
अग्नेर्विस्फुलिङ्गवदेतस्मापरमात्मनः सर्वे जीवात्मानो व्युच्चरन्ति इत्यादिजीवोत्पत्तिश्रुतीनां ऽस एष इह प्रविष्ट आनखाग्रेभ्यःऽ ऽअज आत्माऽइत्याद्यनुत्पत्तिश्रुतीनां च मिथोविरोधात्संशये मा भूतां देहजन्मनाशयोर्जीवजन्मनाशौ, देहान्तरभोग्यस्वर्गादिहेतुविध्याद्यसंभवात्, कल्पाद्यन्तयोर्नभस इव जीवस्य तौ किं न स्यातां तत्संभवादिति प्रत्युदाहरणेन पूर्वपक्षमाह-#तत्र प्राप्तं तावदिति ।
फलं पूर्ववत् ।
उपरोधो बाधः ।
नन्वविकृतं ब्रह्मैवात्र प्रविष्टं जीवो न तत्त्वान्तरमिति प्रतिज्ञासिद्धिः, तत्राह-#नचेति ।
जीवः परस्माद्भिन्नः, विरुद्धधर्मवत्त्वाद्भिन्नस्याविकारत्वे प्रतिज्ञाबाध इति तर्कोपेतविभक्तत्वलिङ्गानुगृहीतोत्पत्तिश्रुतेर्बलीयस्त्वात्प्रवेशश्रुतिर्जीवरूपविकारात्मना प्रविष्ट ईश्वर इति व्याख्येयेति समुदायार्थः ।
#सरूपेति ।
दृष्टान्तश्रुतेर्भावा जीवा इति निश्चीयते ।
ननु ऽआत्मन आकाशः संभूतःऽइत्यादौ जीवस्योत्पत्त्यश्रवणादनुपत्तिः, तत्राह-#न चेति ।
एवं विकारत्वे सति विकारप्रपञ्चात्मना स्वात्मानमकुरुतेतिवद्विकारजीवात्मना प्रवेश इत्यर्थः ।
अजत्वादिश्रुतिः कल्पमध्ये जीवस्यानुत्पत्त्यादिविषया, तत्त्वमसीति श्रुतिश्च मृद, घट इत्यभेदवाक्यवद्व्याख्येयेति प्राप्ते सिद्धान्तयति-#एवमिति ।
धर्मिवत्सत्यो विभागो हेतुरौपाधिको वा ।
नाद्यः, असिद्धेरित्याह-#अत्रोच्यते नास्येति ।
द्वितीये जीवस्य न स्वतो विकारत्वसिद्धिः, अप्रयोजकत्वादित्याह-#बुद्ध्यादीति ।
औपाधिकभेदे मानमाह-#तथाचेति ।
मयटो विकारार्थत्वमाशङ्क्याह-#तन्मयत्वं चेति ।
जाल्मः कामजडः स्त्रीपरतन्त्रः ।
स्त्रीमय इतिवज्जीवस्य स्वरूपाज्ञानाद्बुद्ध्यादिपरतन्त्रत्वेन भेदकर्तृत्वादिभाक्त्वात्प्राचुर्यार्थे मयट्प्रयोग इत्यर्थः ।
लिङ्गं निरस्य तदनुग्राह्यश्रुतेर्गतिमाह-#यदपीति ।
जीवस्यौपाधिकजन्मनाशयोः श्रुतिमाह-#तथेति ।
एतेभ्यो देहात्मन परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति ।
प्रेत्यौपाधिकमरणानन्तरं संज्ञा नास्तीत्यर्थः ।
ननु प्रज्ञानघनः, संज्ञा नास्तीति च विरुद्धमित्यत आह-#तथेति ।
उपाधिलयाद्विशेषज्ञानाभाव एव संज्ञाभावो नात्मस्वरूपविज्ञानाभाव इत्युत्तरं प्रतिपादयति श्रुतिरित्यन्वयः ।
अत्रैवात्मनि विज्ञानघने प्रेत्यसंज्ञा नास्तीत्युक्त्या मा मोहान्तं मोहमध्यं भ्रान्तिमापीपददापादितवानिममर्थं न जानामि ब्रूहि त्वदुक्तेरर्थमिति मैत्रेयीप्रश्नार्थः ।
मुनिराह-#न वा इति ।
मोहं मोहकरं वाक्यमुच्छित्तिः पूर्वावस्थानाशो धर्मो ऽस्येत्युच्छित्तिधर्मा परिणामी स नेत्यनुच्छित्तिधर्मापरिणामी, तस्मादविनाशीत्यर्थः ।
तर्हि न प्रेत्य संज्ञेति कथमुक्तं, तत्राह-#मात्रेति ।
मात्राभिर्विषयैरसंसर्गात्तथोक्तमित्यर्थः ।
बिम्बप्रतिबिम्बयोरिव विरुद्धाधर्मभेदो ऽध्यस्त इत्यत्र हेतुमाह-#अत ऊर्ध्वमिति ।
जीवस्य विकारित्वे मुक्त्ययोगात्तत्त्वमसीति वाक्यमखण्डनार्थमिति च वक्तव्यं, तथाच फलवत्प्रधानवाक्यापेक्षितजीवनित्यत्वश्रुतीनां बलवत्त्वादुत्पत्त्याधिकमध्यस्तमनुवदन्त्युत्पत्त्यादिश्रुतय इत्यविरोध इति सिद्धम् ॥17॥
एन्द् ब्स्र्प्_2,3.11.17
स्तर्त् ब्स्र्प्_2,3.12.18ः
ज्ञो ऽत एव

2.3.19

#ज्ञो ऽत एव ।
ऽआत्मैवास्य ज्योतिःऽइत्याद्यात्मस्वप्रकाशत्वश्रुतीनां ऽपश्यंश्चक्षुः शृण्वञ्च्छ्रोत्रम्ऽइत्यनित्यज्ञानवत्त्वश्रुतिभिर्विरोधो ऽत्र निरस्यते ।
अस्य लोकस्य चक्षुर्द्रष्टा श्रोत्रं श्रोतेत्यर्थः ।
प्रागुक्तजीवानुत्पत्तिहेतुमादाय स्वप्रकाशत्वसाधनाद्धेतुसाध्यभावः संगतिः ।
अनुत्पत्तौ हि स्वप्रकाशं ब्रह्मैवोपहितं जीव इति जीवस्य स्वप्रकाशता सिध्यति ।
न चैवं गतार्थता, अनुत्पन्नस्यापि जीवस्य स्वप्रकाशत्वे ज्ञानसाधनवैयर्थ्यमिति तर्कसहितानित्यज्ञानश्रुतिबलेन स्वप्रकाशत्वश्रुतेर्बाध्यतया ब्रह्मान्यत्वशङ्कायां तदैक्ययोग्यतायै स्वप्रकाशत्वस्यात्र साधनात् ।
तथाच पूर्वपक्षे जीवस्य ब्रह्मैक्यायोग्यता सिद्धान्ते तद्योग्यतेत्यापादसमाप्तेः फलमवगन्तव्यम् ।
इष्टापत्तिं निराचष्टे-#ते पृष्टा इति ।
साधनाधीनज्ञानत्वान्न स्वप्रकाशो जीवो व्यतिरेकेणेश्वरवदित्याह-#अतः कादाचित्केति ।
यथाश्रुते भाष्ये हेतोः साध्याविशेष इति मन्तव्यम् ।
अतो जीवस्य स्वप्रकाशत्वश्रुतिर्बाध्येति प्राप्ते सिद्धान्तयति-#एवमिति ।
चेच्छब्दो निश्चयार्थः ।
न केवल स्वप्रकाशब्रह्माभेदाज्जीवस्य स्वप्रकाशता किन्तु श्रुतितो ऽपीत्याह-#विज्ञानमयेति ।
यो ऽयं विज्ञानमय इति प्रकरण इत्यर्थः ।
असुप्तः स्वयं भासमान एवात्मा सप्तांल्लुप्तव्यापारान्वागादीनभिलक्ष्य चाकशीति ।
सुप्तार्थान्पश्यतीति यावत् ।
अत्र स्वप्ने विज्ञातुर्बुद्धिसत्त्वस्य साक्षिणो विज्ञातेर्विनाशो नास्तीत्यर्थः ।
घ्राणादिजन्यगन्धादिज्ञानानुसंधानसिद्धये आत्मनो ज्ञानरूपत्वं वाच्यमिति श्रुत्यन्तरेणाह-#अथेति ।
आत्मनो नित्यचिद्रूपत्वे ऽपि स्वतो ऽसङ्गतया गन्धाद्यसंबन्धात्तत्संबन्धघटनात्मकवृत्त्यर्थानि ज्ञानसाधनानीति न तेषां वैयर्थ्यमित्याह-#न गन्धेति ।
परिच्छेदो वृत्तिः ।
गन्धाय तद्गोचरान्तः-करणवृत्तये इत्यर्थः ।
सुप्ताद्यवस्थात्मसत्त्वे ऽपि चैतन्याभावान्नात्मा चिद्रूप इत्युक्तं दूषयति-#यत्विति ।
तत्तदासुषुप्तौ न पश्यतीति यत्तत्पश्यन्नेवालुप्तज्ञान एव सन्न पश्यतीत्यत्र हेतुः-#नहीति ।
नाशायोग्यत्वादित्यर्थः ।
किमिति न पश्यतीत्यत आह-#न त्विति ।
वृत्तेः साधनाधीनत्वोक्त्या स्वरूपज्ञानस्यासाधनाधीनत्वं हेतुरसिद्ध इत्युक्तम् ।
साधनवैयर्थ्यतर्को ऽपि निरस्तः ।
शृण्वन्नित्याद्यनित्यज्ञानश्रुतीनां वृत्तिविषयत्वं व्याख्यातम् ।
आत्मा न ज्ञानं, द्रव्यत्वात्, इत्यादितर्काश्चागमबाधिताः ।
फलवत्प्रधानवाक्यापेक्षितस्वप्रकाशत्वागमस्य बलवत्त्वात् ।
किञ्च निरवयवात्मनो मनः-संयोगान्नानित्यज्ञानगुणता समवायाभावाच्च न स्वसमवेतज्ञानवेद्यता कर्मकर्तृत्वविरोधाच्च ।
किञ्च ज्ञानत्वस्यैकवृत्तित्वे लाघवादात्मैव ज्ञानं वृत्तेश्च मनःपरिणामत्वश्रुत्या ऽकामः संकल्पःऽइत्याद्यया जडत्वान्नास्माकं ज्ञानद्वैविध्यगौरवमित्यनवद्यमात्मनः स्वप्रकाशत्वमिति सिद्धम् ॥18॥
एन्द् ब्स्र्प्_2,3.12.18
स्तर्त् ब्स्र्प्_2,3.13.19ः
उत्क्रान्तिगत्यागतीनाम्

2.3.20

स्वप्रकाशत्वादात्मस्वरूपादीषद्बहिष्ठं परिमाणमेवाश्रिताश्रयत्वेनान्तर्बहिर्भावेन वा संगत्या विचारयति-#उत्क्रान्तिगत्यागतीनाम् ।
विषयसंशयौ दर्शयति-#इदानीमिति ।
नात्माश्रुतेरित्यादिना गतार्थत्वमस्याशङ्क्यात्माणुत्वश्रुतीनां महत्त्वश्रुतीनां चाविरोधकथनार्थमस्याधिकरणस्यारम्भ इत्याह-#नन्वित्यादिना ।
न केवलं श्रुतोत्क्रान्त्याद्यनुपपत्त्यात्मनो ऽणुत्वं किन्त्वेषो ऽणुरात्मेति श्रुत्यापीत्याह-#स्वशब्देनेति ।
पूर्वपक्षे जीवस्याणुत्वाद्ब्रह्मैक्यासिद्धिः, सिद्धान्ते तत्सिद्धिरिति मत्वा सूत्रं व्याकुर्वन्पूर्वपक्षमाह-#तत्र प्राप्तमित्यादिना ।
श्रुतेरणुरिति उत्तरसूत्रादाकृष्य सूत्रं पूरितम् ।
उत्क्रान्तिः श्रूयत इति शेषः ।
स मुमूर्षुः जीव एतैर्बुद्ध्यादिभिस्तस्माच्चन्द्रलोकादिमं लोकं प्रति कर्म कर्तुमायातीत्यर्थः ॥19॥
एन्द् ब्स्र्प्_2,3.13.19
स्तर्त् ब्स्र्प्_2,3.13.20ः
स्वात्मना चोत्तरयोः

2.3.21

उत्क्रान्तिरात्मनो देहान्निर्गमो न भवति येनाणुत्वं स्यात् किन्तु स्वामित्वनिवृत्तिरिति केचित् ।
तदङ्गीकृत्याप्यणुत्वमावश्यकमित्याह-#स्वात्मनेति ।
उत्क्रान्तेरुत्तरयोर्गत्यागत्ययोः स्वात्मना कर्त्रा संबन्धादणुत्वमिति सूत्रयोजना ।
पाकानाश्रयस्य पक्तृत्ववद्रत्यनाश्रयस्यापि गन्तृत्वोक्तिः किं न स्यादित्यत आह-#गमेरिति ।
गमनस्य कर्तरि संयोगविभागरूपातिशयहेतुत्वात्क्रर्त्राश्रितत्वं लोकसिद्धमित्यर्थः ।
जीवो ऽणुरमध्यमपरिमाणत्वे सति गतिमत्त्वात्परमाणुवदित्याह-#अमध्यमेति ।
अङ्गीकारं त्यजति-#सत्योश्चेति ।
न स्वाम्यनिवृत्तिमात्रमुत्क्रान्तिरित्यर्थः ।
देहान्निर्गम एवोत्क्रान्तिरित्यत्र लिङ्गान्तरमाह-#देहप्रदेशानामिति ।
अपादानत्वमवधित्वम् ।
अन्येभ्यो वा मुखादिभ्य एष आत्मा निष्क्रामतीति शेषः ।
किञ्च देहमध्ये ऽपि जीवस्य गत्यागतिश्रुतेरणुत्वमित्याह-#स इति ।
इन्द्रियाणि गृह्णन्स्वापादौ हृदयं स जीवो गच्छति शुक्रं प्रकाशकमिन्द्रियग्राममादाय पुनर्जागरितस्थानमागच्छतीत्यर्थः ॥20॥
एन्द् ब्स्र्प्_2,3.13.20
स्तर्त् ब्स्र्प्_2,3.13.21ः
नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात्

2.3.22

#इतराधिकारात् ।
ब्रह्मप्रकरणात् ।
ननु महत्त्वश्रुतेः कथं परप्रकरणस्थत्वमित्यत आह-#परस्येति ।
या वेदान्तश्रुतिः सा परप्रकरणस्थेत्युत्सर्गात्तस्यास्तत्स्थत्वं ब्रह्मारभ्याधीतत्वाच्चेत्याह-#विरज इति ।
निर्देष इत्यर्थः ।
विज्ञानमयश्रुत्या प्रकरणं बाध्यमिति शङ्कते-#नन्विति ।
अणोर्जीवस्य ब्रह्मणा भेदभेदाङ्गीकाराच्छास्त्रीयाभेददृष्ट्या महत्त्वोक्तिः, यथा वामदेवस्याहं मनुरिति सर्वात्मत्वोक्तिरित्यविरोधमाह-#शास्त्रेति ॥21॥
एन्द् ब्स्र्प्_2,3.13.21
स्तर्त् ब्स्र्प्_2,3.13.22ः
स्वशब्दोन्मानाभ्यां च

2.3.23

एवमुत्क्रान्त्यादिश्रुत्याणुत्वमनुमितं, तत्र श्रुतिमप्याह-#स्वशब्देति ।
बालाग्रादुद्धृतः शततमो भागस्तस्मादप्युद्धृतः शततमो भागो जीव इति, उद्धृत्य मानमुन्मानमत्यन्ताल्पत्वमित्यर्थः ।
बालः केशः, तोत्रप्रोतायःशलाकाग्रमाराग्रम् ।
तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा ॥22॥
एन्द् ब्स्र्प्_2,3.13.22
स्तर्त् ब्स्र्प्_2,3.13.23ः
अविरोधश् चन्दनवत्

2.3.24

आत्मसंयुक्तायास्त्वचो देहव्यापिस्पर्शोपलब्धिकरणस्य महिम्नात्मनोव्यापिकार्यकारित्वमविरुद्धम् ।
#त्वगात्मनोरिति ।
संबन्धस्य त्वगवयविनिष्ठत्वादवयविनश्चैकत्वादात्मसंयोगस्य कृत्स्नत्वङ्निष्ठतेत्यर्थः ॥23॥
एन्द् ब्स्र्प्_2,3.13.23
स्तर्त् ब्स्र्प्_2,3.13.24ः
अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि

2.3.25

#सिद्धे हीति ।
नतु सिद्धमित्यतुल्यतेत्यर्थः ।
विशेष एव वैशेष्यम् ।
चन्दनबिन्दोरल्पत्वस्य प्रत्यक्षत्वात्त्वग्व्याप्त्या व्यापिकार्यकारित्वकल्पना युक्ता, जीवस्य त्वणुत्वे संदेहाद्ध्यापिकार्यदृष्ट्या व्यापित्वकल्पनमेव युक्तम् ।
व्यापिकार्याश्रयो व्यापीत्युत्सर्गादिति सूत्रशङ्काभागार्थः ।
आत्माल्पः, व्यापिकार्यकारित्वात्, चन्दनबिन्दुवदित्यनुमानमयुक्तं, त्वगादौ व्यभिचारादित्याह-#न चात्रानुमानमिति ।
पूर्वोक्तश्रुतिभिर्जीवस्याणुत्वनिश्चयाद्धृदिस्थत्वश्रुतिभिरेकदेशस्थत्वनिश्चयाच्च न दृष्टान्तवैषम्यमिति परिहारभागार्थमाह-#अत्रोच्यत इति ॥24॥
एन्द् ब्स्र्प्_2,3.13.24
स्तर्त् ब्स्र्प्_2,3.13.25ः
गुणाद्वा लोकवत्

2.3.26

आत्मवत्तद्धर्मज्ञानस्याप्यणुत्वं स्वतः, कादाचित्कं तु देहपरिमाणत्वमित्युक्त्वा स्वत एव व्यापित्वमिति मतान्तरमाह-#गुणाद्वेति ।
वाशब्देन चन्दनदृष्टान्तापरितेषः सूचितस्तमाह-#स्यादिति ॥25॥
एन्द् ब्स्र्प्_2,3.13.25
स्तर्त् ब्स्र्प्_2,3.13.26ः
व्यतिरेको गन्धवत्

2.3.27

उत्तरसूत्रव्यावर्त्यं शङ्कते-#कथमिति ।
ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि, गुणत्वात्, रूपवत्, नच प्रभायां व्यभिचारस्तस्या अपि द्रव्यत्वादिति प्राप्ते गन्धे व्यभिचारमाह-#अत उत्तरमिति ।
गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।
ननु विश्लिष्टावयवानामल्पत्वाद्रव्यक्षयो न भातीत्यत आह-#अक्षीयामाणमपीति ।
अपिरवधारणे पूर्वावस्थालिङ्गेनाक्षीयमाणमेव तद्रव्यमनुमीयत इत्यर्थः ।
विमतमविश्लिष्टावयवं, पूर्वावस्थातो गुरुत्वाद्यपचयहीनत्वात्, संमतवदिति भावः ।
शङ्कते-#स्यादेतदिति ।
विश्लिष्टानामल्पत्वादित्युपलक्षणं, अवयवान्तराणां प्रवेशादित्यपि द्रष्टव्यम् ।
विशेषो ऽवयवानां विश्लेषप्रवेशरूपः सन्नपि न ज्ञायते, तथाच गुरुत्वापचयो न भवतीति हेतोरन्यथासिद्धिरिति शङ्कार्थः ।
आगच्छन्तो ऽवयवाः परमाणवस्त्रसरेणवो वा, नाद्यः, तद्गतरूपवद्गन्धस्याप्यनुपलब्धिप्रसङ्गादिति परिहरति-#नेति ।
द्वितीयं प्रत्याह-#स्फुटेति ।
त्रसरेणुगन्धश्चेत्स्फुटो न स्यादित्यर्थः ।
अतो गन्धस्य पुष्पादिस्थस्यैव गुणव्यतिरेको वाच्य इति भावः ।
गन्धो न गुणिविश्लिष्टः गुणत्वात्, रूपवदिति शङ्कते-#रूपेति ।
विश्लेषस्य प्रत्यक्षत्वाद्बाध इत्याह-#नेति ॥26॥
एन्द् ब्स्र्प्_2,3.13.25
स्तर्त् ब्स्र्प्_2,3.13.27ः
तथा च दर्शयति

2.3.28

आत्मनश्चैतन्यगुणेनैव देहव्याप्तिरित्यत्र श्रुतिमाह सूत्रकारः-#तथाच दर्शयतीति ।
तद्व्याचष्टे-#हृदयेति ॥27॥
एन्द् ब्स्र्प्_2,3.13.27
स्तर्त् ब्स्र्प्_2,3.13.28ः
पृथगुपदेशात्

2.3.29

तत्रैव श्रुत्यन्तरार्थं सूत्रम्-#पृथगिति ।
विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः ।
एतं चैतन्यगुणव्याप्तिगोचरमभिप्रायम् ॥28॥
एन्द् ब्स्र्प्_2,3.13.28
स्तर्त् ब्स्र्प्_2,3.13.29ः
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत्

2.3.30

तत्रात्माणुत्वविभुत्वश्रुतीनां विरोधादप्रामाण्यप्राप्तावणुत्वं जीवस्य विभुत्वमीश्वरस्येत्यविरोध इत्येकदेशिपक्षो दर्शितः ।
तं दूषयन्सिद्धान्तसूत्रं व्याचष्टे-#तुशब्द इत्यादिना ।
तस्माद्ब्रह्माभिन्नत्वाद्विभुर्जीवः ब्रह्मवदित्यनुमानानुगृहिते श्रुतिस्मृति आह-#तथाच स वा एष इति ।
नित्यः सर्वगतः स्थाणुरित्याद्याः स्मार्तवादाः ।
एतेन जीवस्य ब्रह्मबेदज्ञाने ऽणुत्वाभावधीस्तस्यां तदित्यन्योन्याश्रय इति निरस्तम् ।
प्रधानमहावाक्यानुगुणश्रुतिस्मृतिभिरणुत्वाभावनिश्चयानन्तरमभेदज्ञानात्प्रधानवाक्यविरोधे गुणभूताणुत्वश्रुतीनामौपाधिकाणुत्वविषयत्वकल्पनात् ।
ऽगुणे त्वन्याय्यकल्पनाऽइति न्यायादिति भावः ।
किञ्च सर्वदेहव्यापिशैत्यानुभवान्यथानुपपत्त्याणुत्वश्रुतयो ऽध्यस्ताणुत्ववि षयत्वेन कथञ्चिदर्थवादा नेयाः ।
लौकिकन्यायादपि तेषां दुर्बलत्वादिति मत्वाह-#न चाणोरिति ।
शङ्कते-#त्वगिति ।
यद्यण्वात्मसंबन्धस्य त्वग्व्याप्त्या देहव्यापिनी वेदना स्यात्तर्ह्यतिप्रसङ्ग इति दूषयति-#नेति ।
प्रसङ्गस्येष्ठत्वं निरस्यति-#पादतल एवेति ।
तस्मादल्पमहतोः संयोगो न महद्व्यापी, कण्टकसंयोगस्य देहव्याप्त्यदर्शनात्, तथाचाण्वात्मसंयोगस्त्वगेकदेशस्थ एवेति देहव्यापिवेदनानुपपत्तिः ।
नच सिद्धान्ते त्वगात्मसंबन्धस्य व्यापित्वात्कण्टकसंबन्धे देहव्यापिवेदनाप्रसङ्ग इति वाच्यम् ।
यावती विषयसंबद्धा त्वक् तावद्व्याप्यात्मसंबन्धस्तावद्व्यापिवेदनाहेतुरिति नियमात् ।
न चैवं विषयत्वक्संबन्ध एव तद्धेतुरस्तु किमात्मव्याप्त्येति वाच्यम् ।
वेदना हि सुखं दुःखं तदनुभवश्च, न चैषां व्यापकानां कार्याणामल्पमुपादानं संभवति कार्यस्योपादानाद्विश्लेषानुपपत्तेः ।
न चैषां व्यापकत्वमसिद्धं, सूर्यतप्तस्य गङ्गानिमग्नस्य सर्वाङ्गव्यापिदुःखसुखानुभवस्य दुरपह्नवत्वात् ।
यदुक्तं गुणस्यापि गुणिविश्लेषो गन्धवदिति, तन्नेत्याह-#न चाणोरिति ।
गन्धो नाश्रयाद्विश्लिष्टः, गुणत्वात्, रूपवदित्यत्रागममाह-#तथा चोक्तमिति ।
नच प्रत्यक्षबाधः, गन्धस्य प्रत्यक्षत्वे ऽपि निराश्रयत्वस्याप्रत्यक्षत्वान्महतां त्रसरेणूनामनुद्भूतस्पर्शानामुद्भूतगन्धानामागमनात्स्फुटगन्धोपलम्भसंभवः, अवयवान्तरप्रवेशान्न सहसा मूलद्रव्यक्षय इति भावः ।
पूर्वं चैतन्यस्य गुणत्वमुपेत्य तद्व्याप्त्या गुण्यात्माणुत्वं निरस्तं, संप्रति तस्य गुणत्वमसिद्धमित्याह-#यदि च चैतन्यमिति ।
उत्सूत्रं विभुत्वं प्रसाध्याणुत्वाद्युक्तेर्गतिप्रदर्शनार्थं सूत्रं व्याचष्टे-#कथमित्यादिना ।
ऽअन्तरा विज्ञानमनसी हृदि हिऽइति च प्रकृता बुद्धिर्योग्यत्वात्तच्छब्देन परामृश्यते ।
बुद्धिगुणानामात्मन्यध्यासादणुत्वाद्युक्तिर्न स्वतः, आनन्त्यश्रुतिविरोधादित्याह-#तथाचेति ।
अकार्यकारणद्रव्यसमानाधिकरणतया तत्त्वमसीति वाक्यस्य सो ऽयमिति वाक्यवदखण्डाभेदार्थत्वादानन्त्यं सत्यमणुत्वमध्यस्तमित्यर्थः ।
उक्तं चैतदङ्गुष्ठाधिकरणे ऽप्रतिपाद्यविरुद्धमुद्देश्यगतविशेषणमविवक्षितम्ऽइति ।
बालाग्रवाक्यमाराग्रवाक्यं चेत्युन्मानद्वयमुक्तम् ।
तत्राद्यं निरस्य द्वितीयं निरस्यति-#तथेतरस्मिन्नपीति ।
बुद्धेर्गुणेन निमित्तेनात्मन्यध्यस्तो गुणो भवति तेनात्मगुणेनाध्यस्तेनैवाराग्रपरिमाणो ऽपकृष्टश्च जीवो दृष्टः स्वतस्त्वनन्त एवेत्यर्थः ।
ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानःऽइत्युक्त्वा ऽएषो ऽणुरात्माऽइत्युक्तः पर एव, यदि जीवस्तथाप्यध्यस्ताणुत्वमणुशब्दार्थ इत्याह-#जीवस्यापीति ।
यदुक्तं पृथगुपदेशाच्चैतन्यगुणेनैवात्मनो देहव्याप्तिरिति, तत्राह-#तथा प्रज्ञयेति ।
बुद्धिः प्रज्ञेत्यर्थः ।
यदि चैतन्यं प्रज्ञा तदा भेदोपचार इत्याह-#व्यपदेशमात्रं वेति ।
ननु चैतन्यं गुण इति भेदो मुख्यो ऽस्तु, नेत्याह-#न ह्यत्रेति ।
निर्गुणत्वश्रुतेरित्यर्थः ।
अन्यदपि पूर्वोक्तं बुद्ध्याद्युपाधिकमित्याह-#हृदयेत्यादिना ।
सौत्रं दृष्टान्तं विवृणोति-#यथेति ।
असत्त्वमित्यापाततः ।
असंसारित्वमापाद्यम् ।
शेषं सुबोधम् ॥29॥
एन्द् ब्स्र्प्_2,3.13.29
स्तर्त् ब्स्र्प्_2,3.13.30ः
यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात्

2.3.31

ननु स्वतः संसारित्वमस्तु किं बुद्ध्युपाधिनेत्यत आह-#यावदेव चायमिति ।
समानो बुद्धितादात्म्यापन्नः सन् विज्ञानं ब्रह्म तन्मयो विकारो ऽणुरित्यर्थः ।
किं न स्यादित्यत आह-#प्रदेशान्तर इति ।
विज्ञानमयो बुद्धिप्रचुर इत्यर्थः ।
केन समान इत्याकाङ्क्षायामिति शेषः ।
श्रुतिबलाद्बुद्धेर्यावत्संसार्यात्मभावित्वमुक्तं, सति मूले कार्यस्य वियोगासंभवाच्चेति युक्त्याप्याह-#अपिच मिथ्येति ।
सम्यग्ज्ञानादेव बुद्ध्यादिबन्धध्वंस इत्यत्र श्रुतिमाह-#दर्शयतीति ।
मृत्युमत्येतीत्यन्वयः ।
आदित्यवर्णं स्वप्रकाशम् ।
तमसः परस्तादज्ञानास्पृष्टमित्यर्थः ॥30॥
एन्द् ब्स्र्प्_2,3.13.30
स्तर्त् ब्स्र्प्_2,3.13.31ः
पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात्

2.3.32

यावदात्मभावित्वस्यासिद्धिं शङ्कते-#नन्विति ।
सुषुप्तौ बुद्धिसत्त्वे ब्रह्मसंपत्तिर्न स्यात् ।
प्रलये तत्सत्त्वे प्रलयव्याहतिरित्यर्थः ।
स्थूलसूक्ष्मात्मना बुद्धेर्यावदात्मभावित्वमस्तीत्याह-#पुंस्त्वेति ।
पुंस्त्वं रेतः ।
आदिपदेन श्मश्वादिग्रहः ।
अस्य बुद्धिसंबन्धस्येत्यर्थः ।
स्वापे बीजात्मना सतो बुद्धयादेः प्रबोधे ऽभिव्यक्तिरित्यत्र श्रुतिमाह-#दर्शयतीति ।
न विदुरित्यविद्यात्मकबीजसद्भावोक्तः ।
ते व्याघ्रादयः पुनराविर्भवन्ति इत्यभिव्यक्तिनिर्देशः ॥31॥
एन्द् ब्स्र्प्_2,3.13.31
स्तर्त् ब्स्र्प्_2,3.13.32ः
नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा

2.3.33

बुद्धिसद्भावे मानमाह सूत्रकारः-#नित्येति ।
ऽमनसा ह्येव पश्यति, ऽबुद्धिश्च न विचेष्टति,ऽ
ऽविज्ञानं यज्ञं तनुते,ऽ ऽचेतसा वेदितव्यः,ऽ ऽचित्तं च चेतयितव्यम्ऽइति तत्र तत्र श्रुतिषु मनआदिपदवाच्यं तावद्बुद्धिद्रव्यं प्रसिद्धमित्यर्थः ।
कथमेकस्यानेकधोक्तिः, तत्राह-#क्वचिच्चेति ।
गर्ववृत्तिको ऽहङ्कारो विज्ञानं चित्प्रधानं स्मृतिप्रधानं वा चित्तमित्यपि द्रष्टव्यम् ।
यद्यपि साक्षिप्रत्यक्षसिद्धमन्तःकरणं श्रुत्यनूदितं च तथापि प्रत्यक्षश्रुत्योर्विवदमानं प्रति व्यासङ्गानुपपत्त्या तत्साधयति-#तच्चेत्यादिना ।
सूत्रं योजयति-#अन्यथेति ।
पञ्चेन्द्रियाणां पञ्चविषयसंबन्धे सति नित्यं युगपत्पञ्चोपलब्धयः स्युः, मनो ऽतिरिक्तसामग्र्याः सत्त्वात् ।
यदि सत्यामपि सामग्र्यामुपलब्ध्यभावस्तर्हि सदैवानुपलब्धिप्रसङ्ग इत्यर्थः ।
अतः कादाचित्कोपलब्धिनियामकं मन एष्टव्यमिति भावः ।
ननु सत्यपि कारग्रिसंयोगे दाहकादाचित्कत्ववदुपलब्धिकादाचित्कत्वमस्तु किं मनसेत्याशङ्क्यान्यतरनियमो वेत्येतद्व्याचष्टे-#अथवेति ।
सत्यां सामग्र्यां नित्योपलब्धिर्वाङ्गीकार्या अन्यतरस्य कारणस्य केनपिच्छक्तिप्रतिबन्धनियमो वाङ्गीकार्यः, यथा मणिनाग्निशक्तिप्रतिबन्ध इति वाकारार्थः ।
अस्तु प्रतिबन्ध इत्यत आह-#नचेति ।
न चेन्द्रियस्यैवास्तु शक्तिप्रतिबन्ध इति वाच्यम् ।
प्रतिबन्धकाभावात् ।
नच दृष्टसामग्र्यां सत्यामदृष्टं प्रतिबन्धकमिति युक्तमतिप्रसङ्गात् ।
नच व्यासङ्गः, प्रतिबन्धकमनो ऽसत्त्वे तस्यासंभवात् ।
तथाहि-रसादीनां सहोपलब्धिप्राप्तौ रसबुभुत्सारूपो व्यासङ्गो रूपाद्युपलब्धिप्रतिबन्धको वाच्यः, स च गुणत्वाद्रूपवद्गुण्याश्रयः, तत्रात्मनो ऽसङ्गनिर्गुणकूटस्थस्य गुणित्वायोगान्मन एव गुणित्वेनैष्टव्यमिति व्यासङ्गानुपपत्त्या मनःसिद्धिः ।
एतदभिप्रेत्योपसंहरति-#तस्मादिति ।
अवधानं बुभुत्सा ।
न चानिच्छतो ऽपि दुर्गन्धाद्युपलम्भान्न बुभुत्सोपलब्धिर्नियामिकेति वाच्यम्, अनेकविषयसंनिधौ क्वचिदेव तस्या नियामकत्वाङ्गीकारात् ।
तेषां मते पुनरिच्छादीनामात्मधर्मत्वं तेषां मनो दुर्लभमिति मन्तव्यम् ।
इच्छादिधर्मिणेवात्मना व्यासङ्गोपपत्तेः ।
संप्रति व्यासङ्गस्य मानसत्वे श्रुतिमाह-#तथाचेति ।
न केवलं व्यासङ्गान्मनःसिद्धिः, किन्तु कामाद्याश्रयत्वेनापीत्याह-#कामादयश्चेति ।
बुद्धेः प्रामाणिक्तवोक्तिफलमाह-#तस्मादिति ॥32॥
एन्द् ब्स्र्प्_2,3.13.32
स्तर्त् ब्स्र्प्_2,3.14.33ः
कर्ता शास्त्रार्थवत्त्वात्

2.3.34

एवमात्मन्यणुत्वाध्यासोक्त्या स्वाभाविकं महत्त्वं स्थापितम् ।
संप्रति ततो बहिष्ठं कर्तृत्वं साधयति-#कर्ता शास्त्रार्थवत्त्वात् ।
स नित्यश्चिद्रूपो महानात्मा कर्ता न वेत्यसङ्गत्वश्रुतीनां विध्यादिश्रुतीनां च विप्रतिपत्त्या संशये बुद्धिकर्तृत्वेनैव विध्यादिशास्त्रोपपत्तेरकर्तात्मेति सांख्यपक्षप्राप्तौ सिद्धान्तयन्नैव तद्गुणसारत्वोक्त्यात्मनि कर्तृत्वाध्यासस्यापि सिद्धत्वात्पुनरुक्तिमाशङ्क्य सांख्यपक्षनिरासार्थमात्मनिकर्तृत्वाध्यासप्रपञ्चनान्न पुनरुक्तिरित्याह-#तद्गुणेति ।
अधिकारः प्रसङ्गः ।
वस्तुतो ऽसङ्गत्वम् ।
अविद्यातः कर्तृत्वमित्यसङ्गत्वकर्तृत्वश्रुतीनामविरोधोक्तेः कर्तृत्वविचारात्मकाधिकरणत्रयस्य पादसंगतिः ।
श्रुतीनां मिथो विरोधाविरोधौ पूर्वोत्तरपक्षयोः फलम् ।
यद्वात्र पूर्वपक्षे बन्धाभावाच्छास्त्रवैयर्थ्यं फलं, सिद्धान्ते कर्तृत्वादिसंबन्धसत्त्वाच्छास्त्रार्थवत्तेति भेदः ।
ननु बुद्धिकर्तृत्वेन शास्त्रार्थवत्तास्तु किं जीवकर्तृत्वेन तत्राह-#तद्धि कर्तुः सत इति ।
मयेदं कर्तव्यमिति बोधसमर्थस्य चेतनस्यैव कर्तृत्वं वाच्यं न त्वचेतनाया बुद्धेः ।
किं च भोक्तुरात्मन एव कर्तृता वाच्या ऽशास्त्रफलं प्रयोक्तरिऽइति न्यायादिति भावः ॥33॥
एन्द् ब्स्र्प्_2,3.14.33
स्तर्त् ब्स्र्प्_2,3.14.34ः
विहारोपदेशात्

2.3.35

संध्यं स्थानं स्वप्नः ।
अमृतः स आत्मा यथेष्टमीयते गच्छतीति विहारोपदेशात्, आत्मा कर्ता ॥34॥
एन्द् ब्स्र्प्_2,3.14.34
स्तर्त् ब्स्र्प्_2,3.14.35ः
उपादानात्

2.3.36

प्राणानां मध्ये विज्ञानेन बुद्ध्या विज्ञानसमर्थमिन्द्रियजातमादाय शेते इति प्राणान् गृहीत्वा परिवर्तत इति उपादानकर्तृत्वमात्मनः अकर्तृत्वे उपादानानुपपत्तेरिति भावः ॥35॥
एन्द् ब्स्र्प्_2,3.14.35
स्तर्त् ब्स्र्प्_2,3.14.36ः
व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः

2.3.37

विज्ञानशब्दो जीवस्य निर्देशो न चेत् तदा प्रथमानिर्देशाद्विपर्ययः ।
करणद्योतितृतीयया निर्देशः स्यात् ।
तस्मादिह श्रुतौ तनुत इत्याख्यातेन कर्तृवाचिना विज्ञानपदस्य सामानाधिकरण्यनिर्देशात्क्रियायामात्मनः कर्तृत्वं सूच्यत इति सूत्रभाष्ययोरर्थः ॥36॥
एन्द् ब्स्र्प्_2,3.14.36
स्तर्त् ब्स्र्प्_2,3.14.37ः
उपलब्धिवदनियमः

2.3.38

सूत्रान्तरमवतारयति-#अत्राहेति ।
जीवः स्वतन्त्रश्चेदिष्टमेव कुर्यादस्वतन्त्रश्चेन्न कर्ता, ऽस्वतन्त्रः कर्ताऽइति न्यायादित्यर्थः ।
सत्यपि स्वातन्त्र्ये कारकवैचित्र्यादनियता प्रवृत्तिरिति सूत्रेण परिहरति-#यथेति ।
दृष्टान्तासंप्रतिपत्त्या शङ्कते-#उपलब्धावपीति ।
चक्षुरादीनां चैतन्येन विषयसंबन्धार्थत्वात्स्वसंबन्धोपलब्धौ चात्मनश्चैतन्यस्वभावत्वेन स्वातन्त्र्याद्दृष्टान्तसिद्धिरित्याह-#नेति ।
नन्वात्मा विषयसंबन्धाय करणान्यपेक्षते चेत्कथं स्वतन्त्र इत्याशङ्क्यमाह-#अपिचेति ।
स्वातन्त्र्यं नाम न स्वान्यानपेक्षत्वम्, ईश्वरस्यापि प्राणिकर्मापेक्षत्वेनास्वातन्त्र्यप्रसङ्गात् ।
किं तु स्वेतरकारकप्रयोक्तृत्वे सति कारकाप्रेर्यत्वं स्वातन्त्र्यं तेन स्वतन्त्रो ऽपि जीव इष्टसाधनत्वभ्रान्त्यनिष्टसाधनमप्यनुतिष्ठतीत्यनियता प्रवृत्तिः स्वातन्त्र्यं चेत्यविरुद्धमित्यर्थः ॥37॥
एन्द् ब्स्र्प्_2,3.14.37
स्तर्त् ब्स्र्प्_2,3.14.38ः
शक्तिविपर्ययात्

2.3.39

जीवस्य कर्तृत्वे हेत्वन्तरार्थं सूत्रम्-#शक्तीति ।
बुद्धेः करणशक्तिविपरीता कर्तृशक्तिः स्यादित्यर्थः ।
ततः किं, तत्राह-#सत्यां च बुद्धेरिति ।
यो ऽहन्धीगम्यः ।
स कर्ता स एव जीवो यत्तदपेक्षितं करणं तन्मन इति जीवकर्तृत्वसिद्धिरिति भावः ॥38॥
एन्द् ब्स्र्प्_2,3.14.38
स्तर्त् ब्स्र्प्_2,3.14.39ः
समाध्यभावाच् च

2.3.40

ज्ञानसाधनविध्यन्यथानुपपत्त्याप्यात्मनः कर्तृत्वं वाच्यमित्याह-#समाधीति ।
मुक्तिफलभोक्तुरेव तदुपायसमाधिकर्तृत्वं युक्तम्, अन्यथात्मनो ऽकर्तृत्वे बुद्धेरपि अभोक्त्र्याः कर्तृत्वायोगात्समाध्यभावप्रसङ्ग इत्यर्थः ॥39॥
एन्द् ब्स्र्प्_2,3.14.39
स्तर्त् ब्स्र्प्_2,3.15.40ः
यथा च तक्षोभयथा

2.3.41

#यथा च तक्षोभयथा ।
उक्तमात्मनः कर्तृत्वमुपजीव्य संशयपूर्वपक्षावाह-#एवं तावदित्यादिना ।
सांख्यनिरासेनात्मनः कर्तृत्वे साधिते बाधकाभावात् तत्सत्यमिति मीमांसकादिपक्षः प्राप्तः ।
न चासङ्गत्वागमेन बाधः, अहं कर्तेत्यनुभवसहितकर्तृत्वश्रुतिबलेन तस्यागमस्य स्तावकत्वादिति प्राप्त उत्सूत्रमेव सिद्धान्तयति-#न स्वाभाविकमिति ।
यदुक्तं बाधकाभावादिति तदसिद्धमित्याह-#अनिर्मोक्षेति ।
ननु कर्तृत्वं नाम क्रियाशक्तिर्मुक्तावप्यस्ति तथापि शक्तिकार्यस्य क्रियारूपशक्यस्याभावान्मुक्तेः पुरुषार्थत्वसिद्धिरिति शङ्कते-#ननु स्थितायामिति ।
सत्यां शक्तौ कथं कार्यपरिहारः, तत्राह-#तत्परिहारश्चेति ।
मुक्तौ शक्तिसत्त्वे कार्यमपि स्यात्, शक्याभावे शक्त्ययोगात् ।
अस्ति हि प्रलये ऽपि कार्यं पुनरुद्भवयोग्यं सूक्ष्मं शक्यं, तथाच शक्त्या धर्मादिनिमित्तेः सहितकार्याक्षेपान्मुक्तिलोप इति परिहरति-#न निमित्तानामपीति ।
सनिमित्तस्य कार्यस्य शक्यत्वेन शक्त्या संबन्धान्नमित्तानामपि परम्परया शक्तिसंबन्धित्वमुक्तं मन्तव्यम् ।
संबन्धेन संबन्धिनेत्यर्थः ।
यद्वा शक्तिर्लक्षणमाक्षेपकं यस्य कार्यस्य तेन कार्येण यः संबन्धस्तेनेति व्यधिकरणे तृतीये ।
ननु नरस्य कर्मणा देवत्ववच्छास्त्रबलात्कर्तुरेवाकर्तृतासिद्धिरिति शङ्कते-#नन्विति ।
ज्ञानादकर्तृत्वाख्यमोक्षत्कर्तृत्वमाविद्यकं स्वाद्यतो ज्ञानमज्ञानस्यैव निवर्तकम् ।
यदि कर्मणा मोक्षः. तत्राह-#नेति ।
आत्मनः स्वाभाविकं कर्तृत्वमभयुपगम्यानिर्मोक्ष उक्तः ।
संप्रत्यसङ्गनिर्विकारत्वानेकश्रुतिव्याकोपात्तन्न स्वाभाविकमित्याह-#अपिचेति ।
नचाभ्यस्तानेकश्रुतीनां स्तावकत्वकल्पनं युक्तं, न चाहं कर्तेत्यनुभवो विरुध्यते, तस्य सत्यमिथ्योदासीनकर्तृत्वावगाहिनो ऽध्यासत्वेनाप्युपपत्तेरित्यर्थः ।
कर्तृत्वस्याध्यस्तत्वे श्रुतिमाह-#तथाचेति ।
विद्वदनुभवबाधितं च कर्तृत्वमित्याह-#नहीति ।
बुद्ध्यादिसंघाताद्व्यतिरिक्तो यदि परस्मादन्यश्चेतनो न स्यात्तदा पर एव संसारी प्रसज्येत, तच्चानिष्टं, परस्य नित्यमुक्तत्वव्याघातादिति शङ्कते-#पर एवेति ।
न वयं शुद्धस्य चिद्धातोः परस्य बन्धं वदामः, किन्तु तस्यैवाविद्याबुद्ध्यादिप्रतिविम्बितस्याविद्यया भिन्नस्य जीवत्वं प्राप्तस्य बन्धमोक्षाविति ब्रूमः ।
कल्पितभेदो ऽपि लोके बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थापको दृष्ट इति परिहरति-#नाविद्येति ।
अविद्योपहितो बन्धो न शूद्धात्मनीत्यत्र श्रुतिमाह-#तथाचेति ।
कर्तृत्वस्य बुद्ध्युपाध्यन्वयव्यतिरेकानुविधायित्वाच्छ्रुतेश्च न स्वाभाविकत्वमित्याह-#तथा स्वप्नेति ।
आत्मैव काम्यते आनन्दत्वादित्यात्मकामं स्वरूपं स्वातिरिक्तकाम्यासत्त्वादकामं, आत्मकामत्वादकामत्वाच्चाप्तकामं विशोकत्वाच्चेत्याह-#शोकेति ।
शोकान्तरं दुःखास्पृष्टमित्यर्थः ।
तस्यैव सुषुप्तात्मरूपस्य परमपुरुषार्थतामाह-#एष इति ॥
गतिः प्राप्यं, संपदैश्वर्यं लोको बोग्यं सुखं, चैतस्मादन्यत्रास्तीत्यर्थः ।
आत्मा स्वतो ऽकर्ता बुद्ध्याद्युपाधिना तु कर्तेत्युभयथाभाव उक्तः ।
तत्रार्थे सूत्रं योजयति-#तदेतदाहेत्यादिना ।
संप्रसादः सुषुप्तिः ।
यथा स्फटिकस्य लौहित्यं कुसुमाद्युपाधिकं तथात्मनः कर्तृत्वं बुद्ध्याद्युपाधिकमन्वयव्यतिरेकाभ्यां सिद्धम् ।
नच तौ बुद्धेरात्मकर्तृत्वे करणत्वविषयौ नोपादानत्वविषयाविति युक्तं, करणत्वात् कार्यान्वय्युपादानत्वस्यान्तरङ्गतया चित्संवलितबुद्धेस्ताब्यामुपादानत्वस्यैव सिद्धेः, एवं चिदभेदेनाध्यस्तबुद्ध्याख्याहङ्कारस्य कर्तृत्वोपादानत्वेन महावाक्यसंमतिश्चेति भावः ।
ननु तक्षा स्वहस्तादिना वास्यादिप्रेरणशक्तत्वात्स्वतः कर्ता आत्मा तु निरवयवत्वादशक्त इति दृष्टान्तवैषम्यमाशङ्क्यौपाधिककर्तृत्वांशेन विवक्षितेन साम्यमाह-#तक्षदृष्टान्तश्चेति ।
शास्त्रेणानूद्यमानं कर्तृत्वं स्वाभाविकमेव किं न स्यादित्यत आह-#नच स्वाभाविकमिति ।
उपाध्यभावकाले श्रुतं कर्तृत्वं स्वाभाविकमेवेति शङ्कते-#ननु संध्य इति ।
किञ्च करणैर्विशिष्टस्य कर्तृत्वे तेषां कर्त्रन्तर्भावात्तेष्वपि कर्तृविभक्तिः स्यात् ।
न चैवमस्ति ततः केवलात्मनः कर्तृत्वमित्याह-#तथेति ।
स्वप्नविहारे तावदुपाध्यभावो ऽसिद्ध इत्याह-#न तावत्संध्य इति ।
विहारस्य मिथ्यात्वात्तत्कर्तृत्वमपि मिथ्येत्याह-#विहारो ऽपीति ।
जक्षत् भुञ्जान इव ।
कणत्वविशिष्टस्य कर्तृत्वे करणेषु कर्तृविभक्तिः स्यात्, न करणविभक्तिरित्युक्तं प्रत्याह-#भवति च लोक इति ।
कर्तृष्वपि करणविभक्तिर्न विरुध्यते दृष्टत्वात् ।
अस्ति च कर्तृत्वप्रयोगः, ऽविज्ञानं यज्ञं तनुतेऽइत्यादाविति भावः ।
उपादानस्य सकर्तृकत्वमङ्गीकृत्य केवलात्मनः कर्तृत्वं निरस्तम् ।
इदानीं तस्याक्रियत्वान्न कर्त्रपेक्षेत्याह-#अपिचेति ।
पूर्वं विज्ञानं जीव इत्यङ्गीकृत्य जीवस्य कर्तृत्वे तनुत इति श्रुतिरुक्ता, संप्रति तया श्रुत्यानुपहितात्मनः कर्तृत्वमिति प्राप्तौ विज्ञानं बुद्धिरेव तस्या एवात्र कर्तृत्वमुच्यते ।
तदुपहितात्मनः कर्तृत्वसिद्धय इत्यभिप्रेत्याह-#यस्त्विति ।
ऽयो ऽयं विज्ञानमयःऽइत्यादिश्रुतिषु विज्ञानब्दस्य बुद्धौ प्रसिद्धत्वादत्र च मनोमयकोशानन्तरं पठितत्वाच्छ्रद्धादिलिङ्गाच्च बुद्धिरेव विज्ञानमित्यर्थः ।
तत्रैव लिङ्गान्तरमाह-#विज्ञानं देवा इति ।
ऽमहद्यक्षं प्रथमजम्ऽइत्यादिश्रुतौ हिरण्यगर्भब्रह्मात्मकबुद्धेर्ज्येष्ठत्वोक्तेरत्र देवैरिन्द्रियैरूपास्यमानं ज्येष्ठं ब्रह्म विज्ञानं बुद्धिरेवेत्यर्थः ।
यक्षं पूज्यम् ।
किञ्च श्रुत्यन्तरे यज्ञस्य बुद्धिकार्यत्वोक्तेरत्रापि यज्ञकर्तृविज्ञानं बुद्धिरित्याह-#स एष इति ।
चित्तेन ध्यात्वा वाचा मन्त्रोक्त्या यज्ञो जायते ततश्चित्तस्य वाचः पूर्वोत्तरभावो यज्ञ इत्यर्थः ।
यच्चोक्तं बुद्धेः कर्तृत्वे शक्तिवैपरीत्यप्रसङ्ग इति ।
तन्न विक्लिद्यन्ते तण्डुलाः, ज्वलन्ति काष्ठानि, बिभर्ति स्थालीति स्वस्वव्यापारेषु सर्वकारकाणां कर्तृत्वस्वीकारादित्याह-#नचेति ।
तर्हि बुद्ध्यादीनां कर्तृत्वे करणत्ववार्ता तेषु न स्यादित्यत आह-#उपलब्धीति ।
यथा काष्ठानां स्वव्यापारे कर्तृत्वे ऽपि पाकापेक्षया करणत्वं तथा बुद्ध्यादीनामध्यवसायसंकल्पादिक्रियाकर्तृत्वे ऽप्युपलब्ध्यपेक्षया करणत्वमित्यर्थः ।
ननु तर्ह्युपलब्धिः कस्य व्यापार इत्याह-#सा चेति ।
तर्हि तस्यामात्मा केवलः कर्ता स्यात्, यस्य यो व्यापारः स तस्य कर्तेति स्थितेरित्यत आह-#नचेति ।
उपलब्धेर्नित्यत्वे बुद्ध्यादीनां कथं करणत्वमुक्तमिति चेदुच्यते-अखण्डसाक्षिचैतन्यं बुद्धिवृत्तिभिर्भिन्नं सद्विषयावाच्छिन्नत्वेन जायते, तथाच विषयावच्छिन्नचैतन्याख्योपलब्धौ बुद्ध्यादीनां करणत्वं बुद्ध्याद्युपहितात्मनः कर्तृत्वं न केवलस्य, नच बुद्धेरेव तत्कर्तृत्वं चैतन्यस्य जडव्यापारत्वायोगादिति भावः ।

यच्चोक्तं बुद्धेः कर्तृत्वे स एवाहन्धीगम्यो जीव इति तस्य करणान्तरं कल्पनीयं, तथाच नाममात्रे विवाद इति तत्र केवलात्मनः कर्तृत्वमुक्तमिति भ्रान्तिं निरस्यति-#अहङ्कारेति ।
सांख्यनिरासार्थं बुद्ध्यभेदेनाध्यस्तचिदात्मकाहङ्कारगतं कर्तृत्वं यदुक्तं तदहन्धीगम्यस्य बुद्धिविशिष्टात्मन एव न केवलस्य साक्षिणो भवितुमर्हति, दृश्यधर्मस्य साक्षिस्वभावत्वायोगात् ।
एवं विशिष्टात्मनः कर्तृत्वे विशेषणीभूताया जडबुद्धेरेव करणत्वोपपत्तेर्न करणान्तरकल्पनाप्रसङ्गः ।
अध्यासं विना केवलबुद्धिकर्तृत्ववादिनस्तु करणान्तरप्रसङ्गो दुर्वार इत्यर्थः ।
एवं शास्त्रार्थवत्त्वादिहेतूनामात्मनः कर्तृत्वमात्रसाधकत्वे ऽपि स्वाभाविककर्तृत्वसाधनसामर्थ्याभावादध्यस्तमेव कर्तृत्वं विध्यादिकर्तृत्वश्रुतीनामुपजीव्यम् ।
तस्मादसङ्गत्वविध्यादिकर्तृत्वश्रुतीनामविरोध इति सिद्धम् ॥40॥
एन्द् ब्स्र्प्_2,3.15.40
स्तर्त् ब्स्र्प्_2,3.16.41ः
परात् तु तच्छ्रुतेः

2.3.42

#परात्तु तच्छ्रुतेः ।
यथा स्फटिके लौहित्याध्यासे लोहितद्रव्यं करणं तेनायं स्फटिको लोहित इत्यनुभवात्, तथा कामादिपरिणामिबुद्धिरात्मनि कर्तृत्वाद्यध्यासे करणमित्युक्तम् ।
तदध्यस्तं कर्तृत्वमुपजीव्य जीवस्य कारकसंपन्नत्वादीश्वरस्य कारयितृत्वश्रुतेश्च संशयमाह-#यदिदमिति ।
अत्र ऽएष ह्येवऽइत्यादिश्रुतीनां कर्तृस्वातन्त्र्यद्योतकविध्यादिश्रुतिभिर्विरोधसमाधानात्पादसंगतिः ।
कर्ममीमांसकमतेन पूर्वपक्षयति-#तत्रेत्यादिना ।
बुद्ध्यादिकारकसंपत्तावीश्वरव्यतिरेके कर्तृत्वव्यतिरेकानुपलब्धेर्नेश्वरः प्रयोजकः ।
किञ्च प्रयोजकत्वे नैर्घृण्यादिप्रसङ्ग इत्याह-#क्लेशात्मकेन चेति ।
दत्तोत्तरमिदं चोद्यमिति शङ्कते-#नन्विति ।
पूर्वं जीवस्य धर्माधर्मवत्त्वं सिद्धवत्कृत्य तत्सापेक्षत्वाद्विषमजगत्कर्तृत्वमविरुद्धमित्युक्तं संप्रति ईश्वराधीनत्वे जीवस्य कर्तृत्वे सिद्धे धर्माधर्मवत्त्वसिद्धिः, तद्वत्त्वसिद्धौ तत्सापेक्षकारयितृत्वसिद्धिः, ईश्वरस्य कारयितृत्वे सिद्धे जीवस्य कर्तृत्वसिद्धिरिति चक्रकापत्तेः कर्मसापेक्षत्वं न संभवतीत्युच्यत इत्याह-#सत्यमिति ।
अस्तु कर्मानपेक्षस्य प्रवर्तकत्वं, तत्राह-#अकृतेति ।
अनपेक्षस्य प्रवर्तकत्वे धर्मवतो नरान् दुःखेनाधर्मवतः सुखेन योजयेत्, कारुणिकत्वे वा सर्वे सुखेन एकरूपाः स्युरुति जगद्वैचित्र्यं विध्यादिशास्त्रं च न स्यात् ।
तस्माद्विध्यादिशास्त्रार्थवत्त्वाय रागद्वेषायत्तं स्वत एव जीवस्य कर्तृत्वं वाच्यं, तथाच कारयितृत्वश्रुतिविरोधः ।
ईश्वरस्ताविका वा सा श्रुतिरिति प्राप्ते सिद्धान्तयति-#एतामिति ।
यथा चन्दनादिसामग्र्यां सत्यां धर्मव्यतिरिके सुखव्यतिरेकग्रहाभावे ऽपि ऽपुण्यो वै पुण्येन कर्मणा भवतिऽइत्यादिशास्त्रप्रामाण्यादेव धर्मस्य हेतुत्वसिद्धिः, एवमीश्वरस्यापि शास्त्रबलात्कारयितृत्वसिद्धिरिति भावः ॥41॥
एन्द् ब्स्र्प्_2,3.16.41
स्तर्त् ब्स्र्प्_2,3.16.42ः
कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः

2.3.43

धर्माधर्माभ्यामेव फलवैषम्यसिद्धेरलमीश्वरेणेत्याशङ्क्य बीजैरेवाङ्कुरवैषम्यसिद्धेः पर्जन्यवैयर्थ्यं स्यात् ।
यदि विशेषहेतूनां साधारणहेत्वपेक्षत्वान्न वैयर्थ्यं तर्हि ईश्वरस्यापि साधारणहेतुत्वान्न वैयर्थ्यमित्याह-#पर्जन्यवदिति ।
दृष्टान्तं विवृणोति-#यथेति ।
अतिदीर्घवल्लीग्रन्थयो गुच्छाः पुष्पस्तबका वा, गुल्मास्तु ह्रस्ववल्ल्य इति भेदः ।
किमीश्वरस्य कारयितृत्वे जीवस्य कर्तृत्वं न स्यादित्यापाद्यते उत चक्रकापत्तिर्वा ।
नाद्य इत्याह-#नैष दोष इति ।
अध्यापकाधीनस्य बटोर्मुख्याध्ययनकर्तृत्वदर्शनादिति भावः ।
चक्रकं निरस्यति-#अपिचेति ।
अनवद्यं जीवस्य कर्तृत्वमीश्वरस्य कारयितृत्वं चेति शेषः ।
ईश्वरस्य सापेक्षत्वे विध्यादिशास्त्रप्रामाण्यान्यथानुपपत्तिं प्रमाणयति-#कथमित्यादिना ।
एवं सापेक्षत्वे सत्यवैयर्थ्यं भवति, अन्यथानपेक्षत्वे वैयर्थ्यं प्रपञ्चयति-#ईश्वर इति ।
तयोः स्थाने स एव नियुज्येत अभिषिच्येत ।
तयोः कार्यं स एव कुर्यादिति यावत् ।
तथाच जीवस्य निरपेक्षेश्वरपरतन्त्रत्वाद्विध्यादिशास्त्रमकिञ्चित्करमनर्थकं स्यादिति संबन्धः ।
पुरुषकारः प्रयत्नः ।
आदिशब्दार्थमाह-#तथेति ।
पूर्वोक्तदेषो ऽकृताभ्यागमादिः ।
तस्मात् कर्मसापेक्षेश्वरस्य कारयितृत्वात् ऽएष ह्येवऽइत्यादिश्रुतेर्विध्यादिश्रुत्यविरोध इति सिद्धम् ॥42॥
एन्द् ब्स्र्प्_2,3.16.42
स्तर्त् ब्स्र्प्_2,3.17.43ः
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके

2.3.44

#अंश-एके ।
नित्यः स्वप्रकाशो ऽनणुरकर्ता जीवऽइति शोधितत्वंपदार्थस्यात्र ब्रह्मैक्यसाधनेन भेदाभेदश्रुतीनां विरोधसमाधानात्पादसंगतिः ।
पूर्वपक्षे प्रत्यगभिन्नब्रह्मसिद्धिः, सिद्धान्ते तत्सिद्धिरिति भेदः ।
पूर्वोक्तोपकार्योपकारकभावाक्षिप्तं जीवेशयोः संबन्धं विषयीकृत्य द्विविधदृष्टान्तदर्शनात्संशयमाह-#ततश्चेति ।
प्रसिद्धस्वस्वामित्वसंबन्धसंभवाद्यः कश्चित् संबन्ध इत्यनियमो न युक्त इत्यरुचेराह-#अथवेति ।
अनेन ऽय आत्मनि तिष्ठन्ऽइत्यादिश्रुतिप्रसिद्धभेदकोटिर्दर्शिता ।
एवं तत्त्वमसीत्यादिश्रुतिसिद्धा भेदकोटिर्द्रष्टव्या, तथाच भेदाभेदश्रुतीनां समबलत्वाद्विरोधे सति संबन्धानिश्चयात्संबन्धापेक्षस्य पूर्वोक्तोपकार्यापकारकभावस्यासिद्धिरित्याक्षेपात्संगतिः ।
लोकसिद्धानर्थात्मकभेदानुवादित्वेन भेदश्रुतीनां दुर्बलत्वादज्ञातफलवदभेदश्रुत्यनुसारेण प्रकल्पितभेदनिबन्धनोंऽशांशिभावः संबन्ध इति सिद्धान्तयति-#अत इत्यादिना ।
अग्नेः सांशत्वे ऽपि निष्कलेश्वरस्य कथं सांशत्वमत आह-#अंश इवेति ।
जीव इत्यनुषङ्गः ।
भेद एव चेत्स्वस्वामिभावो युक्तो नांशांशिभाव इति शङ्कते-#ननु चेति ।
अभेदस्यापि सत्त्वादंशांशिभाव इत्याह-#अत इति ।
वञ्चसि गच्छसि यदास्ते यो नामरूपे निर्माय प्रविश्य व्यवहरन्वर्तते तं विद्वानमृतो भवतीति श्रुत्यर्थः ।
श्रुतिसिद्धाभेदे युक्तिमाह-#चैतन्यं चेति ।
जीवो ब्रह्मैव चेतनत्वात् ब्रह्मवदित्यर्थः ॥43॥
एन्द् ब्स्र्प्_2,3.17.43
स्तर्त् ब्स्र्प्_2,3.17.44ः
मन्त्रवर्णाच् च

2.3.45

अस्य सहस्रशीर्षपुरुषस्य तावान्प्रपञ्चो महिमा विभूतिः पुरुषस्तस्मात्प्रपञ्चात् ज्यायान्महत्तरः ।
भूतानि देहिनो जीवा इत्यत्र नियामकमाह-#अहिंसन्निति ।
तीर्थानि शास्त्रोक्तकर्माणि, तेभ्यो ऽन्यत्र सर्वप्राणिहिंसामकुर्वन्ब्रह्मलोकमाप्नोतीत्यर्थः ।
अत्र भूतशब्दस्य प्राणिषु प्रयोगात्सूत्रोक्तमन्त्रे ऽपि तथेति भावः ।
भूतानां पादत्वे ऽप्यंशत्वं कुतः, तत्राह-#अंशः पाद इति ॥44॥
एन्द् ब्स्र्प्_2,3.17.44
स्तर्त् ब्स्र्प्_2,3.17.45ः
अपि च स्मर्यते

2.3.46

जीवस्य पुरुषसूक्तमन्त्रोक्तभगवदंशत्वे भगवद्गीतामुदाहरति सूत्रकारः-#अपिचेति ।
अत्यन्तभिन्नेशित्रीशितव्यभावप्रसिद्धेः ईशितव्यजीवस्य कथमीश्वरांशत्वमित्याशङ्क्य कल्पितभेदेनापीशितव्यत्वोपपत्तेः, अनन्यथासिद्धाभेदशास्त्रबलादंशत्वमित्याह-#यत्त्वित्यादिना ।
औपाधिके ईश्वरस्य नियन्तृत्वे जीव एव तन्नियन्ता किं न स्यादित्यत आह-#निरतिशयेति ।
नितरां हीनः शरीराद्युपाधिः, आज्ञानिकोपाधितारतम्यादीशेशितव्यव्यवस्था, न वस्तुतः ।
तदुक्तं सुरेश्वराचार्यैः-ऽईशेशितव्यसंबन्धः प्रत्यगज्ञानहेतुजः ।
सम्यग्ज्ञाने तमोध्वस्तावीश्वराणामपीश्वरः ॥
ऽइति ॥45॥
एन्द् ब्स्र्प्_2,3.17.45
स्तर्त् ब्स्र्प्_2,3.17.46ः
प्रकाशादिवन् नैवं परः

2.3.47

उत्तरसूत्रमवतारयति-#अत्राहेति ।
ईश्वरः स्वांशदुःखैर्दुःखी, अंशित्वात्, देवदत्तवदित्यर्थः ।
ततः किं, तत्राह-#ततश्चेति ।
ज्ञानात्सर्वांशदुःखसमष्टिप्राप्त्यपेक्षया संसारो वरं तत्र स्वदुःखमात्रानुभवादित्यर्थः ।
नैवंपर इति प्रतिज्ञानं विभजते-#यथा जीव इति ।
देवदत्तदृष्टान्ते भ्रान्तिकामकर्मरूपदुःखसामग्रीमत्त्वमुपाधिः, तदभावान्नेश्वरस्य दुःखित्वप्राप्तिः ।
उक्तं चैतदभेदे ऽपि बिम्बप्रतिबिम्बयोर्धर्मव्यवस्थेति भावः ।
दुःखस्य भ्रान्तिकृतत्वं प्रपञ्चयति-#जीवस्यापीत्यादिना ।
भ्रान्तौ सत्यां दुःखमित्यन्वयमुक्त्वा भ्रान्त्यभावे दुःखाभावदर्शनाच्च भ्रान्तिकृतं दुःखमिति निश्चीयत इत्याह-#व्यतिरेकेति ।
इतरेष्वभिमानशून्येष्वित्यर्थः ।
जीवस्यापि सम्यग्ज्ञाने दुःखाभावो दृष्टः किमु वाच्यं नित्यसर्वज्ञेश्वरस्येत्याह-#अतश्चेति ।
एवमंशित्वे हेतोः सोपाधिकत्वमुक्त्वा योंऽशी स वस्तुतः स्वांशधर्मवानिती व्याप्तिं स्थलत्रये व्यभिचारयति-#प्रकाशादिवदिति ।
वस्तुतः स्वांशदुःखित्वसाध्यस्य देवदत्तदृष्टान्ते वैकल्यमप्याह-#जीवस्येति ।
कल्पितदुःखित्वसाध्यं तु भ्रान्त्याद्यभावादीश्वरे नास्तीत्युक्तम् ।
किञ्च जीवस्येश्वरस्य वा वस्तुतो दुःखित्वानुमानं न युक्तमागमबाधादित्याह-#तथाचेति ।
दुःखित्वे तद्भावोपदेशो न स्यादित्यर्थः ॥46॥
एन्द् ब्स्र्प्_2,3.17.46
स्तर्त् ब्स्र्प्_2,3.17.47ः
स्मरन्ति च

2.3.48

स्मृत्याप्यनुमानं बाध्यमित्याह-#स्मरन्ति चेति ।
सूत्रं व्याचष्टे-#स्मारन्तीति ।
तत्र जीवपरयोर्मध्ये कर्मात्मा कर्माश्रयो जीवः ।
दशेन्द्रियाणि पञ्च प्राणाः मनो बुद्धिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् ।
सूत्रे चशब्दः ।
श्रुतिसमुच्चयार्थ इत्याह-#चशब्दादिति ।
यथादित्यः प्राकाश्यदोषैर्न लिप्यते तथेत्यर्थः ।
यतो बाह्यो ऽसङ्गस्तस्मान्न लिप्यते एवमंशित्वकृतमीश्वरे दोषं निरस्यांश इत्युक्तं जीवस्यांशत्वं देहाद्युपाधिकमिति स्फुटयितुमत्यन्तस्वरूपैक्यमादायाक्षिपति-#अत्राहेत्यादिना ।
कथं तर्हि इत्यन्वयः ।
तद्भेदादंशभेदात् ।
निरवयवब्रह्मणो मुख्यांशो न संभवतीति वदता सिद्धान्तिना भेदो नास्तीत्युक्तं भवति, भेदाभावे चांशांशित्वाभावादनुज्ञादिभेदव्यवहारानुपपत्तिरित्याक्षेपाभिप्रायः ।
न वयं भेदस्यासत्त्वं नरशृङ्गवद्ब्रूमः, किन्तु मिथ्यात्वं वदामः ।
तथा च देहाद्युपाधिभेदेनांशजीवानामाब्रह्मबोधात्कल्पितभेदाद्भेदव्यवहारोपपत्ति रिति सूत्रेण समाधत्ते-#तामित्यादिना ॥47॥
एन्द् ब्स्र्प्_2,3.17.47
स्तर्त् ब्स्र्प्_2,3.17.48ः
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत्

2.3.49

ननु भ्रान्तेः कुतश्चिन्निवृत्तौ व्यवहारविच्छेदः स्यादित्यत आह-#न ह्यस्या इत्यादिना ।
प्रतता संतता, विशेषो भेदः ।
अनियोज्यत्वाद्ब्रह्मविदः शास्त्रानर्थक्यमिष्टमित्याह-#न तस्येति ।
नियोगविषयद्वैताभावादात्मन्यसाध्ये नियोगानुपपत्तेर्न ब्रह्मविन्नियोज्य इत्यर्थः ।
नन्वामुष्मिकफलहेतुके कर्मणि देहभिन्नात्मविवेकिन एवाधिकारो वाच्यः ।
तथाच ब्रह्मविन्नियोज्यः, विवेकित्वात्, कर्माधिकारिवदिति शङ्कते-#शरीरव्यतिरेकेति ।
परोक्षविवेकस्यापरोक्षभ्रमाविरोधित्वात्कर्मि णो देहाभेदभ्रमो ऽस्ति, तथाच भ्रम उपाधिरिति परिहरति-#नेत्यादिना ।
यथा व्योम देहाद्भिन्नं तद्वदहमित्यपश्यतः भ्रान्तस्येत्यर्थः ।
ब्रह्मविन्न नियोज्यः, अभ्रान्तत्वात्, सुषुप्तवदित्याह-#नहीति ।
देहादिष्वसंहतत्वदर्शिनः संहतत्वदर्शनशून्यस्य भेदभ्रान्तिरहितस्य सुषुप्तस्येति यावत् ।
अज्ञस्यापि भ्रान्त्यभावकाले नियोज्यत्वं न दृष्टं किमु वाच्यमात्मविद इत्यर्थः ।
अनियोज्यत्वे बाधकमाशङ्क्य परिहरति-#नचेति ।
विषयवैराग्यस्य ज्ञानार्थमभ्यस्तस्य ज्ञानानन्तरमनुवृत्त्या विषयेषु प्रवर्तकरागनिवृत्तेर्नातिप्रसङ्ग इत्यर्थः ।
तदुक्तं भगवता ऽरसो ऽप्यस्य परं दृष्ट्वा निवर्ततेऽइति ।
एवमनुज्ञादिप्रसङ्गेनानियोज्यं, विदुष उक्त्वा प्रकृतिमुपसंहरति-#तस्मादिति ।
एकस्याप्युपाधिभेदादनुज्ञापरिहारयोर्दृष्टान्तमाह-#ज्योतिरिति ।
क्रव्यं मांसमत्तीति क्रव्यादशुचिः श्मशानाग्निरित्यर्थः ॥48॥
एन्द् ब्स्र्प्_2,3.17.48
स्तर्त् ब्स्र्प्_2,3.17.49ः
असन्ततेश् चाव्यतिकरः

2.3.50

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे-#स्यातामित्यादिना ।
यद्यपि स्थूलदेहसंबन्धादुपादानपरित्यागौ स्यातां तथाप्यन्यकृतकर्मफलमितरेणापि भुज्येतेति कर्मफलव्यतिकरः सांकर्यं स्याद्देहविशिष्टस्य स्वर्गादिभोगायोगेनाविशिष्टात्मन एकस्यैव भोक्तृत्वात् ।
तस्मात्स्वर्गी नरकी चेति व्यवस्थासिद्धये आत्मस्वरूपभेदो वाच्य इति शङ्कार्थः ।
भवेत्तदा सांकर्यं यद्यनुपहितात्मन एव भोक्तृत्वं स्यात् ।
न त्वेतदस्ति ।
ऽतद्गुणसारत्वात्ऽइत्यत्र मोक्षस्यापि, बुद्ध्युपहितस्यैव कर्तृत्वादिस्थापनात्, तथाच बुद्धेः परदेहासंबन्धात्तदुपहितजीवस्य नास्ति परदेहसंबन्ध इति बुद्धिभेदेन भोक्तृभेदान्न कर्मादिसांकर्यमिति समाधानार्थः ॥49॥
एन्द् ब्स्र्प्_2,3.17.49
स्तर्त् ब्स्र्प्_2,3.17.50ः
आभास एव च

2.3.51

अंशेत्याद्यसूत्रे जीवस्यांशत्वं घटाकाशस्येवोपाध्यवच्छेतबुद्ध्योक्तं, संप्रति एवकारेणावच्छेदपक्षारुचिं सूचयन् ऽरूपं रूपं प्रतिरूपो बभूवऽइत्यादिश्रुतिसिद्धंप्रतिबिम्बपक्षमुपन्यस्यति भगवान् सूत्रकारः-#आभास एव चेति ।
परमात्मैवानुपहितो जीवो न भवति, उपाध्यनुभवात् ।
नापि ततो भिन्नः, ऽस एष इह प्रविष्टःऽइत्याद्यभेदश्रुतिस्मृतिविरोधात् ।
तस्मादविद्यातत्कार्यबुद्ध्यादिप्रतिबिम्ब एव जीव इत्यर्थः ।
अस्मिन् पक्षे बुद्धिप्रतिबिम्बभेदात्स्वर्गी नारकीत्यादिव्यवस्था जीवत्वस्याविद्यकत्वाद्विद्यया मोक्षश्चेत्युपपद्यत इत्याह-#अतश्चेत्यादिना ।
यस्त्वयं भास्करस्य प्रलापः प्रतिबिम्बस्य नोपाधिसंसृष्टतया कल्पितत्वं किन्तु स्वरूपेणैव, अतः कल्पितप्रतिबिम्बस्य मुक्तौ स्थित्ययोगान्न जीवत्वमिति स सिद्धान्तरहस्याज्ञानकृत इत्युपेक्षणीयः ।
यदि दर्पणे मुखं शुक्तौ रजतवत्कल्पितं स्यात्तदा नेदं रजतमिति स्वरूपबाधवन्नेदं मुखमिति बाधः स्यात् ।
अतो नास्ति दर्पणे मुखमिति संसर्गमात्रबाधान्मदीयं मुखमेवेदमित्यबाधितमुखाभेदानुभवात्संसृष्टत्वेनैव कल्पितत्वं प्रवेशवाक्यैश्चाविकृतब्रह्मण एव प्रतिबिम्बभावाख्यप्रवेशोक्तेर्न स्वरूपकल्पना, पराक्रान्तं चात्र दर्पणटीकायामाचार्यैरित्युपरम्यते ।
एवं स्वमते स्वरूपैक्ये ऽप्युपहितजीवभेदादसांकर्यमुक्तं, संप्रति सूत्रे चकारसूचितं परेषां, सांकर्यं वक्तुमुपक्रमते-#येषमित्यादिना ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधम्रभावना नवात्मविशेषगुणाः, संनिधानादीत्यादिपदादौदासीन्यमुक्तम् ।
सांख्यः स्वाभिप्रायं शङ्कते-#स्यादेतदिति ।
सर्वेषां पुंसां प्रकृतिसांनिध्याद्यविशेषे ऽपि प्रकृतिरेव प्रतिपुरुषं नियमेन भोगापवर्गार्थं प्रवर्तते, तथा चोद्देश्यपुरुषार्थनियता प्रधानप्रवृत्तिरिति भोगादिव्यवस्था, अन्यथा नियतप्रवृत्त्यनङ्गीकारे स्वमाहात्म्यख्यापनार्था प्रधानस्य प्रवृत्तिरित्युद्देश्यविघातः स्यादित्यर्थः ।
जडप्रधानस्योद्देश्यविवेकाभावात्पुरुषार्थस्याप्यनागतस्याचेतनस्यानियामकत्वान्न व्यवस्था, मानयुक्तिशून्यत्वादित्याह-#नैतदिति ।
यो हि नियामकभावेनोद्देश्यविघातमापादयति तं प्रति तस्यैवापादनमिष्टमिति भावः ।
तार्किकमते ऽपि भोगादिसांकर्यमित्याह-#काणादानामिति ।
हेतुर्मनःसंयोगः, फलं सुखादि, यदात्मादृष्टकृतो यो मनःसंयोगः स तदात्मन एव सुखादिहेतुरिति व्यवस्थां शङ्कते-#स्यादेतदिति ।
सूत्रेण परिहरति-#नेत्याहेति ॥50॥
एन्द् ब्स्र्प्_2,3.17.50
स्तर्त् ब्स्र्प्_2,3.17.51ः
अदृष्टानियमात्

2.3.52

#पूर्ववत्मनःसंयोगवददृष्टस्यापि सर्वात्मसाधरणत्वान्न व्यवस्थेत्यर्थः ।
रागादिनियमात्तज्जादृष्टनियम इत्याशङ्क्योत्तरत्वेन सूत्रं गृह्णाति-#स्यादेतदित्यादिना ॥51॥
एन्द् ब्स्र्प्_2,3.17.51
स्तर्त् ब्स्र्प्_2,3.17.52ः
अभिसन्ध्यादिष्व् अपि चैवम्

2.3.53

अनियम उक्तदोषः ।
आत्मान्तरप्रदेशस्य परदेहे अन्तर्भावाद्व्यवस्थेति शङ्कार्थः ॥52॥
एन्द् ब्स्र्प्_2,3.17.52
स्तर्त् ब्स्र्प्_2,3.17.53ः
प्रदेशाद् इति चेन् नान्तर्भावात्

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc