भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 2.2

2.2.1

#सर्वधर्मोपपत्तेश्च ।
निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति संदेहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात्, नतूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह-#चेतनमिति ।
विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धं, अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात्, सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः ।
यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम्, ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसंधायाह-#सर्वज्ञं सर्वशक्तीति ।
महामायमिति ।
कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् ।
तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम् ॥37॥
एन्द् ब्स्र्प्_2,1.13.37
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयस्याध्यायस्य प्रथमपादः समाप्तः ॥1॥
#॥ इति द्वितीयाध्यायस्य सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः ॥
#द्वितीयाध्याये द्वितीयः पादः ॥
सांख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः ।
यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम् ॥1॥
स्तर्त् ब्स्र्प्_2,2.1.1ः
रचनानुपपत्तेश् च नानुमानं

2.2.2

ब्रह्मणि सर्वधर्मोपपत्तिवत् प्रधाने ऽपि तदुपपत्तिमाशङ्क्य निराचष्टे-#रचनानुपपत्तेश्च नानुमानम् ।
ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितं, ततः परपक्षनिरासात्मको ऽयं पादो ऽस्मिन् शास्त्रे न संगतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति-#यद्यपीति ।
परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह-#तथापीति ।
तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह-#वेदान्तार्थेति ।
वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् ।
ननु रागद्वेषकरणत्वात् परमतनिराकरणं न कार्यमिति शङ्कते-#नन्विति ।
तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,
तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादो ऽस्मिन् शास्त्रे संगतः, संगतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसंधायोक्ताङ्गीकारेण समाधत्ते-#बाढमित्यादिना ।
अपदेशेन व्याजेन ।
मन्दमतीनाम् तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः ।
स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ ।
नाप्ययं द्वेषः ।
परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्तवनिर्णयेच्छया कृत इति मन्तव्यम् ।
पौनरुक्त्यम् शङ्कते-#नन्वीक्षतेरिति ।
पूर्वं सांख्यादीनां श्रुत्यर्थानुग्राहकर्तकनिरासादश्रौतत्वमुक्तम्, संप्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह-#तदुच्यतैति ।
प्रधानमचेतनं जगदुपादानमिति सांख्यसिद्धान्तो ऽत्र विषयः स किं प्रमाणमूलो भ्रान्तिमूलो वेति संदेहे ऽसर्वधर्मोपपत्तेश्चऽइत्युक्तधर्माणां प्रधाने संभवात्तदेवोपादानमित्याक्षेपसंगत्या प्रमाणमूलत्वं दर्शयन् पूरवपक्षमाह-#तत्र साख्याइति ।
स्वसिद्धान्तज्ञानस्य परमतनिरासं प्रत्युपजीव्यत्वात् पादयोःसंगतिः ।
परमतनिरासात्मकत्मात्सर्वेषामधिकरणानामेतत्पादसंगतिः ।
पूर्वपक्षे प्रमाणमूलमतविरोधादुक्तश्रुत्यर्थसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरित्यापादं द्रष्टव्यम् ।
मूलश्रौतसमन्वयदार्ढ्यार्थत्वादस्य पादस्य श्रुतिसंगतिरिति विवेकः ।
भिद्यन्त इति भेदा विकाराः, ये विकारा येनान्वितास्ते तत्प्रकृतिका इति व्याप्तिमाह-#यथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तदन्वितत्वात्, घटादिवदित्यनुमानमाह-#तथेति ।
किमर्थं प्रधानं परिणमते, तत्राह-#चेतनस्येति ।
अर्थो भोगापवर्गरूपः, तदर्थं स्वभावत एव प्रवर्तते न तु केनचिच्चेतनेन प्रेर्यत इत्यर्थः ।
तदुक्तम्-ऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽइति ।
अनुमानान्तराणि तैरुक्तानि स्मारयति-#तथेति ।
उक्तं हि-ऽभेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥
ऽइति ।
अत्र कारिकायां समन्वयादिति लिङ्गं व्याख्यातम् ।
शिष्टानि व्याख्यायन्ते ।
तथा हि-क्षित्यादीनां भेदानां कारणमव्यक्तमस्ति, परिमितत्वात्, घटवत् ।
न च दृष्टान्ते साध्यवैकल्यं, घटोत्पत्तेः प्रागनभिव्यक्तघटादिरूपकार्यविशिष्टत्वेन मृदो ऽप्यव्यक्तत्वात् ।
तथा घटादीनां कारणशक्तितः प्रवृत्तेर्महदादिकार्याणामपि कारणशक्तितः प्रवृत्तिर्वाच्या, तच्छक्तिमत्कारणमव्यक्तम् ।
किञ्च कारणात्कार्यस्य विभागो जन्म दृश्यते क्षितेर्मृत्तिका जायते ततो घट इति ।
एवमविभागः प्रातिलोम्येन प्रलयो दृश्यते घटस्य मृत्तिकायां लयः तस्याः क्षितौ क्षितेरप्सु अपां तेजसीति ।
एतौ विभागाविभागौ वैश्वरूप्यस्य विचित्रस्य भावजातस्य दृश्यमानौ पृथक्पक्षीकृतौ क्वचित्कारणे विश्रान्तौ विभागत्वादविभागत्वाच्च मृदि घटविभागाविभागवदित्यर्थः ।
सिद्धान्तयति-#तत्र वदाम इति ।
किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा ।
आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् ।
द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह-#यदीति ।
स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् ।
ननु दृष्टः क्वचिदित्यन्वयः ।
स्वतन्त्रपदार्थमाह-#चेतनानधिष्टितमिति ।
परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह-#गेहेति ।
इदं जगद्च्चेतनाधिष्चिताचेतनप्रकृतिकं, कार्यत्वात्, गेहवदिति प्रयोगः ।
विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह-#तथेति ।
बाह्यं पृथिव्यादि भोग्यम्, आध्यात्मिकं शरीरादि च भोगाधिष्छानमिति विभागः ।
प्रतिनियतो ऽसाधारणो ऽवयवानां विन्यासो रचना यस्य तदित्यर्थः ।
इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् ।
न कथमपीत्यर्थः ।
यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह-#लोष्टेति ।
चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः ।
किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात्, मृदादिवदित्याह-#मृदिति ।
ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात्, नतु चेतनाधिष्ठितत्वं व्यापकं, तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात्, तथा च परिणामित्वे ऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्टितत्वेनेत्याशङ्क्य निषेधति-#नचेति ।
महानसदृष्टान्ते ऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः ।
किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात् प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह-#न चैवं सतीति ।
सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह-#अन्वयाद्यनुपपत्तेश्चेति ।
नानुमानं युक्तमित्यर्थः ।
आदिशब्दः परिमाणादिग्रहार्थः ।
श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च ।
नहि निमित्तनैमित्तिकयोरभेदेन योगो ऽस्ति, दण्डघटयोरदर्शनादित्यर्थः ।
किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात् तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् ।
न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह-#शब्दादीति ।
विषयस्यैकत्वे ऽपि पुरुषवासनावैचित्र्यात् कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यते ऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः ।

एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति-#तथेति ।
बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमामसि सिद्ध्यन्ति, एकस्मिन् संसर्गासंभवान्न ब्रह्मसिद्धिरिति सांख्यस्य भावः ।
किमिदं परिमितत्वं, न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः ।
नापि कालतः परिच्छेदः, सांख्यैः कालस्यानङ्गीकारात्,
अविद्यागुणसंसर्गेण सिद्धसाधनाच्च ।
नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह-#सत्त्वेति ।
यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति ।
तन्न ।
ब्रह्मणि मायायां वा समाप्तिसंभवात् ।
नच यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्टानदर्शनादित्याह-#कार्येति ।
एतेनाविभागो ऽपि व्याख्यातः ।
यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरं, तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः ।
एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणानचेतनमेव प्रकृतिरिति निरस्तम् ।
चेतनाधिष्ठिताचेतनप्रकृतिकत्वे ऽपि सादृश्योपपत्तेः, ऽन विलक्षणत्वात्ऽइत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च ।
एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसंभवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः ॥1॥
एन्द् ब्स्र्प्_2,2.1.1
स्तर्त् ब्स्र्प्_2,2.1.2ः
प्रवृत्तेश् च

2.2.3

स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यं, तस्य सृष्ट्यर्थं-#प्रवृत्तेःअनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् ।
रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह-#साम्येति ।
गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित् कार्यं भवति प्रलयाभावप्रसङ्गात् ।
किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः ।
गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदित्याह-#सापीति ।
विपक्षे स्वतन्त्रे प्रवृत्यनुपपत्तिरित्यर्थः ।
केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते ।
अस्यापि गुणेषु व्यभिचारः ।
कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति ऽप्रवृत्तेश्चऽइति सूत्रेण ज्ञापितम् ।
ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शने ऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह-#दृष्टाच्चेति ।
अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः ।
ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति सांख्यः शङ्कते-#नन्विति ।
शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति-#सत्यमिति ।
तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् ।
, तत्राह-#तथापीति ।
केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः संबन्धात्सृष्टिप्रवृत्तिरिति भावः ।
इमं वेदान्तसिद्धान्तं सांख्यो दूषयति-#न त्विति ।
सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा ।
न त्वचेतनसंबन्धेनापिचेतनस्य क्वचित्प्रवृत्तिर्दृष्टा ।
तस्मान्न चेतनात्सृष्टिरित्यर्थः ।
मतद्वयं श्रुत्वा मध्यस्थः पृच्छति-#किं #पुनरिति ।
यस्मिन्नचेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं सांख्यमतं साधु उत येन चेतनेनाश्वादिना प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।
सांख्य आह-#नन्विति ।
#उभयोः ।
प्रवृत्तितदाश्रययोरित्यर्थः ।
दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः ।
आत्मनो ऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह-#प्रवृत्तीति ।
जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः ।
जीवद्देहः सात्मकः प्राणादिमत्वात्, व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः ।
देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात्,
रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम्,
सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः ।
अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः ।
आत्मनो ऽप्रत्यक्षत्वे चार्वाकाणां भ्रमो ऽपि लिङ्गमित्याह-#अत एवेति ।
अप्रत्यक्षत्वादेवेत्यर्थः ।
देहान्यात्मनः प्रत्यक्षत्वे भ्रमासंभवादिति भावः ।
#दर्शनात् ।
प्रवृत्तिचैतन्ययोरिति शेषः ।
प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति-#तदभिधीयत इति ।
रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेको स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि संमतमित्याह-#लौकायतिकानामपीति ।
यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते-#नन्विति ।
मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति-#नेति ।
वस्तुत एकत्वे ऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह-#न ।
#अविद्येति ।
अविद्यकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः संबन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः ॥2॥
एन्द् ब्स्र्प्_2,2.1.2
स्तर्त् ब्स्र्प्_2,2.1.3ः
पयो ऽम्बुवच् चेत् तत्रापि

2.2.4

अनादिजडस्य प्रवृत्तिश्चेतनादिना, प्रवृत्तित्वात्, रथादिप्रवृत्तिवदिति स्थितम् ।
तत्र क्षीरादौ व्यभिचारमाशङ्क्य तस्यापि पक्षसमत्वेनोक्तानुमानादागमेन च साध्यसिद्धिर्न व्यभिचार इति सूत्रं व्याचष्टे-#स्यादेतदित्यादिना ।
#साध्यपक्षेति ।
साध्यवता पक्षेणतुल्यत्वादित्यर्थः ।
#अनुपन्यासः ।
न व्यभिचारभूमिरिति यावत् ।
क्षीरे प्रवर्तकत्वेन धेन्वादेः सत्त्वाच्च न व्यभिचार इत्याह-#चेतनायाश्चेति ।
#उपदर्शितम् ।
अनुमानागमाभ्यामिति शेषः ।
सूत्रकारस्य ऽक्षीरवद्धिऽ ऽतत्रापिऽइति च वक्तुः पूर्वापरविरोधमाशङ्क्य लोकदृष्ट्या शास्त्रदृष्ट्या च सूत्रद्वयमित्यविरोधमाह-#उपसंहारेति ॥3॥
एन्द् ब्स्र्प्_2,2.1.3
स्तर्त् ब्स्र्प्_2,2.1.4ः
व्यतिरेकानवस्थितेश् चानपेक्षत्वात्

2.2.5

अस्तु प्रधानस्यापि धर्मादि कर्म पुरुषो वा प्रवर्तक इत्याशङ्क्य सूत्रं प्रवृत्तं, तद्व्याचष्टे-#सांख्यानामित्यादिना ।
प्रधानव्यतिरेकेण कर्मणो ऽनवस्थितेः पुरुषस्योदासीनत्वात् कदाचित्सृष्टिप्रवृत्तिः कदाचित्प्रलय इत्ययुक्तमित्यर्थः ।
कर्मणो ऽपि प्रधानात्मकस्याचेतनत्वात् सदासत्वाच्च न कादाचित्कप्रवृत्तिनियामकत्वमिति भावः ॥4॥
एन्द् ब्स्र्प्_2,2.1.4
स्तर्त् ब्स्र्प्_2,2.1.5ः
अन्यत्राभावाच् च न तृणादिवत्

2.2.6

पुनरपि दृष्टान्तबलात् प्रधानस्य स्वत एव कादाचित्कप्रवृत्तिरित्याशङ्क्य निषेधति सूत्रकारः-#अन्यत्रेत्यादिना ।
पृच्छति-#कथमिति ।
उत्तरम्-#निमित्तान्तरेति ।
धेन्वादिनिमित्तान्तरमस्तीति सिद्धान्तयति-#अत्रोच्यत #इति ।
प्रहीणं नष्टम् ।
यदुक्तं क्षीरस्य स्वेच्छया संपादयितुमशक्यत्वात्स्वाभाविकत्वमिति, तत्राह-#नच यथाकाममिति ॥5॥
एन्द् ब्स्र्प्_2,2.1.5
स्तर्त् ब्स्र्प्_2,2.1.6ः
अभ्युपगमे ऽप्य् अर्थाभावात्

2.2.7

प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रभृत्यभ्युपगमे पुरुषार्थस्यापेक्षाभावप्रसङ्गादित्येकोर्ऽथः ।
तत्रेष्टापत्तिं निरस्यति-#इत्यतः प्रधानमिति ।
उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।
अर्थासंभवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह-#स यदीत्यादिना ।
प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह-#तथापीति ।
कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः ।
किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात् प्रवृत्तिवैयर्थ्यं, भोगाभावप्रसङ्गश्चेत्यर्थः ।
तृतीयं दूषयति-#उभयार्थतेति ।
मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।
औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति-#नचेति ।
औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।
अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात्, अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात्, तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात् प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् ।
न ।
शक्त्योर्नित्यत्वात् सृष्टिनित्यत्वापत्तिरित्याह-#दृक्शक्तीति ॥6॥
एन्द् ब्स्र्प्_2,2.1.6
स्तर्त् ब्स्र्प्_2,2.1.7ः
पुरुषाश्मवद् इति चेत् तथापि

2.2.8

पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति-#पुरुषाश्मवदिति चेत्तथापि ।
प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं सांख्यंप्रत्याह-#कथं चेति ।
पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् ।
प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः संनिधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसंनिधिश्चेति व्यापारो ऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः ।
ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः संबन्ध इत्यत आह-#योग्यतेति ।
चिज्जडत्वरूपाया योग्यताया नित्यत्वात्संबन्धनित्यत्वापत्तिरित्यर्थः ।
यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगो ऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षो ऽपि फलाभावेन दूषणीय इत्याह-#पूर्ववच्चेति ।
सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह-#परमात्मेति ।
सांख्यमते उभयं विरुद्धं सत्यत्वात् ।
अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः ॥7॥
एन्द् ब्स्र्प्_2,2.1.7
स्तर्त् ब्स्र्प्_2,2.1.8ः
अङ्गित्वानुपपत्तेश् च

2.2.9

किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी ।
आद्ये दोषमाह-#तस्यामिति ।
अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात्, ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः ।
द्वितीयं दूषयति-#बाह्यस्येति ।
चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः ॥8॥
एन्द् ब्स्र्प्_2,2.1.8
स्तर्त् ब्स्र्प्_2,2.1.9ः
अन्यथानुमितौ च ज्ञशक्तिवियोगात्

2.2.10

गुणानां मिथो ऽनपेक्षस्वभावत्वान्न स्वतो वैषम्यमित्युक्तम्, तत्र हेत्वसिद्धिमाशङ्क्य सूत्रकारः परिहरति-#अन्यथेति ।
अनपेक्षस्वभावादन्यथा सापेक्षत्वेन गुणानामनुमानात्पूर्वसूत्रोक्तो दोषो न प्रसज्यते ।
न चैवमपसिद्धान्तः, कार्यानुसारेण गुणस्वभावाङ्गीकारादित्याह-#चलं गुणवृत्तमिति ।
पूर्वसूत्रोक्ताङ्गाङ्गित्वानुपपत्तिदोषाभावमङ्गीकृत्य परिहरति-#एवमपीति ।
कार्यार्थं ज्ञानशक्तिकल्पने ब्रह्मवादः स्यादित्यर्थः ।
अङ्गीकारं त्यजति-#वैषम्येति ॥9॥
एन्द् ब्स्र्प्_2,2.1.9
स्तर्त् ब्स्र्प्_2,2.1.10ः
विप्रतिषेधाच् चासमञ्जसम्

2.2.11

सूत्रं व्याचष्टे-#परस्परेति ।
त्वङ्मात्रमेव ज्ञानेन्द्रियमेकमनेकशब्दादिज्ञानकारणं, पञ्च कर्मेन्द्रियाणि मनश्चेति सप्तेन्द्रियाणि, ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्टमनश्चेत्येकादश ।
बुद्धिरहङ्कारो मन इति त्रीणि ।
एकमिति बुद्धिरेव ।
एवं पूर्वापरविरोधादिति व्याख्याय श्रुतिस्मृतिविप्रतिषेधाच्चेत्यर्थान्तरमाह-#प्रसिद्ध इति ।
तस्माद्भ्रान्तिमूलत्वात्सांख्यशास्त्रस्य तेन निर्देषवेदान्तसमन्वयस्य न विरोध इति सिद्धम् ।
स्वमतासामञ्जस्यमसहमानः सांख्यः प्रत्यवतिष्ठते-#अत्राहेति ।
तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः ।
विवृणोति-#एकं हीति ।
तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः ।
ननु तयोरुपादानैक्ये ऽपि मिथो भेदो ऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह-#यदि चेत्यादिना ।
ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह-#यो ऽपीति ।
किञ्च भेदाङ्गीकारे ऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह-#प्रसिद्धश्चेति ।
अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह-#यदीति ।
अर्थिनो ऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनो ऽसत्त्वादर्थत्वाभावःप्रसज्येतेत्याह-#तथार्थस्यापीति ।
प्रसङ्गस्येष्टत्वं निराकरोति-#न चैतदस्तीति ।
अर्थत्वं हि कामनाविषयत्वं, तच्च काम्यादन्यस्य कामयितुरसत्वान्न स्यात् ।
न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् ।
तस्माद्भेदो ऽङ्गीकार्य इत्यर्थः ।
इतश्च भेद इत्याह-#संबन्धीति ।
तथानर्थानर्थिनावपि भिन्नावित्यन्वयः ।
अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति-#अर्थिनो ऽनुकूल इति ।
अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह-#जात्यन्तरेति ।
तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः ।
यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते ।
तदुक्तम्-ऽसैव च बध्यते मुच्यते चऽइति ।
सिद्धान्तयति-#अत्रेति ।
किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा ।
नाद्य इत्याद्याह-#न ।
#एकत्वादेवेति ।
दोषत्वमिति शेषः ।
तस्या अदोषत्वं विवृणोति-#भवेदित्यादिना ।
एतत्त्वात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।
यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते-किं#न #पश्यसीति ।
देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते-#नन्विति ।
अचेतनस्यैव देहस्य तप्तिर्नेति वदता सांख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किंवा देहसंहतस्य, उत तप्तेः, आहोस्वित् सत्त्वस्य ।
नाद्य इत्याह-#उच्यत इति ।
न द्वितीयतृतीयवित्याह-#नापीत्यादिना ।
चतुर्थं शङ्कते-#सत्त्वमिति ।
सत्तवरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति-#न ।
#ताभ्यामिति ।
असङ्गत्वे ऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते-#सत्त्वेति ।
तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह-#परमार्थत इति ।
इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते-इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत् कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति-#न चेदिति ।
पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः ।
मिथ्यासादृश्यमेव दोष इति चेत्, नेत्याह-#नहीति ।
सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः ।
सांख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव संपन्नमित्यर्थः ।
यदि मिथ्यातप्यत्वाङ्गीकारे ऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् ।
अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्तयोगादित्याह-#अथेत्यादिना ।
किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह-#नित्यत्वेति ।
अत्र सांख्यः शङ्कते-#तप्येति ।
सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः ।
मोक्षस्तप्त्यभावः ।
निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति-#नेति ।
तमसो निवृत्त्यभावे ऽपिविवेकेनोपरमान्मोक्ष इत्यत आह-#गुणानां चेति ।
ऽचलं गुणवृत्तम्ऽइत्यङ्गीकारादिति भावः ।
परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति-#औपनिषदस्य त्विति ।
वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः ।
व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः ॥10॥
एन्द् ब्स्र्प्_2,2.1.10
स्तर्त् ब्स्र्प्_2,2.2.11ः
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम्

2.2.12

वृत्तानुवादेन ऽमहद्दीर्घवत्ऽइति स्वमतस्थापनात्मकाधिकरणस्य संगतिमाह-#प्रधानेति ।
यद्यपि सांख्यमतनिरासानन्तरं परमाणुवादो निराकर्तव्यः स्वमतस्थापनस्य स्मृतिपादे संगतत्वात् तथापि पूर्वत्र प्रधानगुणानां सुखादीनां जगत्यनन्वयात्प्रधानस्यानुपादानत्वमुक्तं, तथा ब्रह्मगुणचैतन्यानन्वयाद्ब्रह्मणो ऽपि नोपादानत्वमिति दोषो दृष्टान्तसंगतिलाभादत्र समाधीयत इत्यर्थः ।
चेतनाद्ब्रह्मणो जगत्सर्गवादी वेदान्तसमन्वयो विषयः ।
स किं यः समवायिकारणगुणः स कार्यद्रव्ये स्वसमानजातीयगुणारम्भकस्तन्तुशौक्ल्यवदिति न्यायेन विरुध्यते न वेति संदेहे न्यायस्याव्यभिचाराद्विरुध्यत इति प्राप्ते व्यभिचारान्न तद्विरोध इति सिद्धान्तसूत्रं व्याचष्टे-#एषेत्यादिना ।
यद्यपि ऽन विलक्षणत्वात्ऽइत्यत्र चेतनादचेतनसर्गः साधितस्तथापि वैशेषिकन्यायस्य तदीयप्रक्रियया व्यभिचारोक्त्यर्थत्वादस्य सूत्रस्य न गतार्थता ।
प्रलयकाले परमाणवो निश्चला असंयुक्तास्तिष्ठन्ति सर्गकाले चादृष्टवदात्मसंयोगात्तेषु कर्म भवति, तेन संयोगाद्द्रव्यान्तरसृष्टिर्भवति, कारणगुणाः कार्ये गुणान्तरमानभन्त इति सामान्येन प्रक्रियामुक्त्वा विशेषतस्तामाह-#यदा द्वाविति ।
परमाणुः परिमण्डलः, तद्गतं परिमाणं पारिमाण्डल्यमित्युच्यते, तच्च स्वसमानजातीयगुणारम्भकं न भवतीत्युक्तन्यायस्य व्यभिचार इति भावः ।
व्यभिचारस्थलान्तरमाह-#यदापि द्वे इति ।
द्वे द्वे इति शब्दद्वयं पठितव्यम्, एवं सति चतुर्भिर्द्व्यणुकैश्चतुरणुकारम्भ उपपद्यते, यथाश्रुते तु द्वाभ्यां द्व्यणुकाभ्यां महतश्चतुरणुकस्यारम्भो न युज्यते, कारणगतं महत्वं बहुत्वं वा विना कार्ये महत्वायोगादिति मन्तव्यम् ।
प्रकटार्थकारास्तु यद्द्वाभ्यां द्व्यणुकाभ्यामारब्धं कार्ये महत्वं दृश्यते तस्य हेतुः प्रचयो नाम प्रशिथिलावयवसंयोग इति रावणप्रणीते भाष्ये दृश्यत इति चिरन्तनवैशेषिकदृष्ट्येदं भाष्यमित्याहुः ।
सर्वथापि द्व्यणुकगतह्रस्वत्वाणुत्वपरिमाणयोरनारम्भकत्वाद्व्यभिचरः ।
यद्यपि तार्किका द्वाभ्यामेव परमाणुभ्यां द्व्यणुकं त्रिभिर्द्व्यणुकैस्त्र्यणुकमिति कल्पयन्ति तथापि तर्कस्याप्रतिष्ठानान्न नियम इति मत्वा ब्रूते-#यदापि बहव इति ।
कारकगुणाः शुक्लादयः समानजातीयगुणारम्भकाः, कार्यद्रव्यपरिमाणं तु न कारणपरिमाणारभ्यं किन्तु कारणगतसंख्यारभ्यमिति प्रक्रिया तुल्येत्यर्थः ।
एवं प्रक्रियां दर्शययित्वा सूत्रं योजयन् व्यभिचारमाह-#तदेवमिति ।
परमाणुभ्य एव महद्दीर्घं चेत्यनियतप्रक्रियामाश्रित्योक्तम् ।
नियतप्रक्रियामाश्रित्य व्यभिचारमाह-#यथा वेति ।
अणुह्रस्वेभ्यो द्व्यणुकेभ्यो ऽणुद्रव्यं न जायते ह्रस्वमपि न जायत इति व्यभिचार इत्यर्थः ।
सूत्रे वाशब्दश्चार्थो ऽनुक्ताणुसमुच्चयार्थः ।
तथा च ह्रस्वपरिमण्डलाभ्यां द्व्यणुकपरमाणुभ्यां महद्दीर्घाणुवच्चेतनादचेतनं जायत इति सूत्रयोजना ।
तत्र ह्रस्वान्महद्दीर्घं त्र्यणुकं परिमण्डलादणु द्व्यणुकमिति विभागः ।
दृष्चान्तवैषम्यं शङ्कते-#अथ मन्यस इति ।
अचेतनैव विरोधिगुण इत्यत आह-#न ह्यचेतनेति ।
कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह-#मैवमिति ।
अङ्गीकारं त्यजति-#नचेति ।
उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः ।
ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह-#आरब्धमपीति ।
सहोत्पत्तावपसिद्धान्तः ।
अतो विरोध्यभावः सिद्ध इति भावः ।
अणुत्वाद्यारम्भे व्यग्रत्वात् पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति-#नचेति ।
व्यग्रत्वमन्यथासिद्धम् ।
तत्र हेतुः-#परिमाणन्तरस्येति ।
अन्यहेतुकत्वे सूत्राण्युदाहरति-#कारणेति ।
कारणानां द्व्यणुकानां बहुत्वात् त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वं, द्वितूलपिण्डारब्धे ऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः ।
महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसंख्यया द्व्यणुके भवतीत्याह-#तदिति ।
यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायि कारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति-#एतेनेति ।
अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वसिद्धमिति भावः ।
तेषां संनिधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह-#नचेति ।
पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः ।
तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसंनिधिर्वा न हेतुरित्युक्तिफलमाह-#तस्मादिति ।
यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारे ऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दं, चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषुविजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् ।
तस्माच्चेतनाद्विजातीयारम्भो युक्त इति स्थितम् ।
तत्रोदाहणान्तरमाह-#संयोगाच्चेति ।
ननु चेतनं ब्रह्म कार्योपादानत्वाद्द्रव्यं, तन्न विलक्षणस्योपादानमिति प्रकृते किञ्चिद्द्रव्यमेव विलक्षणकार्यकरमुदाहर्तव्यम्, न संयोगस्य गुणस्योदाहरणमिति शङ्कते-#द्रव्य इति ।
गुणात् द्रव्यवच्चेतनादचेतनारम्भ इति विलक्षणारम्भकत्वांशे ऽयं दृष्टान्त इति परिहरति-#नेति ।
अनियमः कणादसंमत इत्याह-#सूत्रकारो ऽपीति ।
एतावता कथमनियमः, तत्राह-#एतदुक्तमिति ।
नविलक्षणत्वन्यायेन पुनरुक्त्यभावे ऽतिदेशाधिकरणेन पुनरुक्तिरिति शङ्कते-#नन्वतिदेश इति ।
समानगुणारम्भनियमस्य पारिमाण्डल्यादिदृष्टान्तेन भङ्गार्थमस्यारम्भ इत्याह-#सत्यमिति ।
तस्यैवातिदेशस्येत्यर्थः ॥11॥
एन्द् ब्स्र्प्_2,2.2.11
स्तर्त् ब्स्र्प्_2,2.3.12ः
उभयथापि न कर्मातस्तदभावः

2.2.13

वैशेषिकमतपरीक्षामारभते-#उभयथापि न कर्मातस्तदभावः ।
नास्य प्रासङ्गिकेन पूर्वाधिकरणेन संगतिरपेक्षितेति मन्वानः प्रधानस्येश्वरानधिष्ठितस्याकारणत्वे ऽपि परमाणूनां तदधिष्ठितानां कारणत्वमस्त्विति प्रत्युदाहरणसंगत्या सांख्याधिकरणानन्तर्यमस्य वदंस्तात्पर्यमाह-#इतानीमिति ।
द्व्यणुकादिक्रमेण परमाणुभिर्जगदारभ्यत इति वैशेषिकराद्धान्तो ऽत्र विषयः ।
स किं मानमूलो भ्रान्तिमूलो वेति संदेहे पूर्वपक्षयति-#स चेति ।
तैः पटादिभिः सामान्यं क्षित्यादेः कार्यर्द्रव्यत्वं तेनेत्यर्थः ।
विमतं सावयवं क्षित्यादिकं स्वन्यूनपरिमाणसंयोगसचिवानेकद्रव्यारब्धं, कार्यद्रव्यत्वात्, पटादिवदिति प्रयोगः ।
स्वेष्टपरमाणुसिद्ध्यर्थानि साध्यविशेषणानि ।
नन्वेतावता कथं परमाणुसिद्धिः, तत्राह-#स चायमिति ।
विमतं सावयवत्वं पक्षतावच्छेदकं यतो निवर्तते स न्यूनपरिमाणस्यापकर्षस्य पर्यन्तत्वेनावसानभूमित्वेनावगतः परमाणुरित्यर्थः ।
यावत्सावयवमनुमानप्रवृत्तेः द्व्यणुकन्यूनद्र्यं निरवयवं सिद्ध्यतीति भावः ।
जगन्नित्यत्ववादात् कार्यद्रव्यत्वहेत्वसिद्धिरिति वदन्तं प्रत्याह-#सर्वं चेति ।
विमतमाद्यन्तवत्, सावयवत्वात्, पटवदित्यर्थः ।
हेतोरसिद्धिं निरस्याप्रयोजकत्वं निरस्यति-#नचेति ।
ते कतिविधा इत्याकाङ्क्षायांमाह-#तानीति ।
प्रलये चैषामपि नाशान्न जगत्कारणत्वमित्याशङ्क्याह-#तेषां चेति ।
अवयवानां विभागान्नाशान्नावयविनो नाशः ।
परमाणूनां निरवयवत्वेनावयवविभागादेर्नाशहेतोरसंभवान्न नाश इत्यर्थः ।
तेषां नित्यत्वे फलितं सृष्टिक्रममाह-#तत इति ।
एवं काणादमतस्य मानमूलत्वात्तेन वेदान्तसमन्वयस्य विरोधादसिद्धिरिति पूर्वपक्षे फलम् ।
तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति-#तत्रेदमिति ।
प्रलये विभक्तानां परमाणूनामन्यतरकर्मणो ऽभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टं, यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनं, हस्तनोदनादिष्वादिगमनं, तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा ।
द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म संभवति ।
अतः कर्मासंभवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः ।
स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषो ऽभिघातः स एव चलस्य नोदनमिति भेदः ।
दृष्टनिमित्ताभावे ऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते-#अथादृष्टमिति ।
विकल्पपुरःसरं दूषयति-#तत्पुनरिति ।
जडात्मवदणोराश्रयत्वं कि न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् ।
अत्रापि सूत्रं योजयति-#उभयथेति ।
जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह-#आत्मनश्चेति ।
अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः ।
भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते ।
अचेतनत्वमदृष्टस्यकर्मनिमित्तत्वाभावे हेतुरुक्तः ।
हेत्वन्तरमाह-#आत्मसमवायित्वेति ।
गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते-#अदृष्टवदेति ।
विभुसंयोगस्याणुषु सदा सत्त्वात् क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति-#संबन्धेति ।
कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगे ऽपीश्वरान्नियम इत्यत आह-#नियामकान्तरेति ।
यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वे ऽपि सदा सत्त्वान्न नियामकत्वमिति भावः ।
सूत्रार्थं निगमयति-#तदेवमिति ।
संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति-#संयोगश्चाणोरिति ।
संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात् सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः ।
किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह-#दृष्टेति ।
परमाणोः संयोग एकदेशेन चेदिति संबन्धः ।
दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः ।
काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासे ऽपि सूत्रं योजयति-#था चेति ।
परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःकशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः संभवति ।
तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना ॥12॥
एन्द् ब्स्र्प्_2,2.3.12
स्तर्त् ब्स्र्प्_2,2.3.13ः
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः

2.2.14

#समवायाभ्युपगमाच्च तदभावः ।
अणुवादासंभव इति योग्यतया संबध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः ।
नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न संबन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसंबद्धत्वादिति शङ्कते-#नन्विहेति ।
संयोगस्यापि स्वरूपसंबन्धोपपत्तेः समवायो न स्यादिति दूषयति-#नेति ।
संबन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या ।
#गुणपरिभाषायाश्चेति ।
गुणत्वाभावे ऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् ।
नापि व्याप्यं, गुणस्यापि समवायवत्स्वरूपसंबन्धसंभवेन व्याप्त्यनुकूलतर्काभावात् ।
तस्मात् संबन्धिभिन्नत्वमेव संबन्धान्तरापेक्षायां कारणं, तस्य समवाये ऽपि तुल्यत्वादनवस्था दुर्वारा ।
सा च मूलक्षयकारी ।
तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः ॥13॥
एन्द् ब्स्र्प्_2,2.3.13
स्तर्त् ब्स्र्प्_2,2.3.14ः
नित्यम् एव च भावात्

2.2.15

सूत्रं व्याचष्टे-#अपिचेति ।
अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसंनिहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः ॥14॥
एन्द् ब्स्र्प्_2,2.3.14
स्तर्त् ब्स्र्प्_2,2.3.15ः
रूपादिमत्त्वाच् च विपर्ययो दर्शनात्

2.2.16

किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात् स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह-#सावयवानामित्यादिना ।
नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् ।
न ।
वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् ।
न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् ।
नच तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावे ऽपि सिद्धसाधनता स्यादिति वाच्यं, यत्र स्पर्शस्तत्कारणं, यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः ।
परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् ।
आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति-#यच्च नित्यत्व इति ।
सत्त्वं भावत्वं प्रागभावनिरासार्थम् ।
नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात्, घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात् कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति-#यदपीति ।
कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता ।
वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारयोगादित्याह-#नच शब्देति ।
यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः ।
एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति-#यदपीति ।
सतामणूनां दृश्यमानसथूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् ।
तन्न द्व्यणुके व्यभिचारादित्यर्थः ।
यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह-#अथेत्यादिना ।
परमाणवो नित्याः, नाशकानुपलम्भात्, आत्मवदिति सूत्रार्थमाशङ्कते-#अथापीति ।
तन्त्वाद्यवयवानां विभागान्नाशाद्वा पठादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः ।
परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्संभवतीति परिहरति-#नेति ।
अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारंभ इति यदि मतं स्यात्, तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् ।
नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् ।
अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् ।
तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते ।
यथाग्निसंपर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् ।
नच काठिन्यस्य संयोगविशेषणत्वेन गुणत्वाद्रव्यनाशे ऽनुदाहरणत्वमिति शङ्क्यं, गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात्, गुणपरिभाषायाश्चातन्त्रत्वात् ।
वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् ।
नच द्रव्यत्वे ऽप्यवयवविभागादेव तस्य नाश इति वाच्यं, घृतस्य परिणामिन एकत्वेन विभागासंभवात्, परमाणुकाठिन्यनाशे तदसंभवाच्चेति भावः ।
किञ्च प्रलये नासीद्रजो नान्यत् किञ्चनेत्यणूनां नाशसिद्धिः ।
तस्मान्न तेषां परमकारणत्वमित्युपसंहरति-#तस्मादिति ॥15॥
एन्द् ब्स्र्प्_2,2.3.15
स्तर्त् ब्स्र्प्_2,2.3.16ः
उभयथा च दोषात्

2.2.17

यद्यस्मादधिकगुणवत्तत्तस्मात्स्थूलमिति व्याप्तिमुक्त्वा विकल्पयति-#तद्वदिति ।
पार्थिवः परमाणूरधिकगुणस्तत एकैकन्यूनगुणा जलादिपरमाणव इति कल्प्यते, न वा ।
आद्ये दोषमाह-#कल्प्यमान इति ।
मूर्त्युपचयात् स्थौल्यादित्यर्थः ।
पार्थिवो ऽणुराप्यात् स्थूलः, अधिकगुणत्वात्, घटवदित्येवं प्रयोक्तव्यः ।
अप्रयोजकत्वं निरस्यति-#न चान्तरेणेति ।
दृष्टविरोधः स्यादिति भावः ।
नेति पक्षे सर्वेषामाणूनां साम्यार्थमेकैकगुणवत्त्वं वा स्याच्चतुर्गुणवत्वं वा ।
उभयथापि दोषमाह-#अकल्प्यमाने त्वित्यादिना ॥16॥
एन्द् ब्स्र्प्_2,2.3.16
स्तर्त् ब्स्र्प्_2,2.3.17ः
अपरिग्रहाच् चात्यन्तम् अनपेक्षा

2.2.18

न केवलमणुवादस्यायुक्तत्वादुपेक्षा किन्तु शिष्टबहिष्कृतत्वाद्ग्रन्थतोर्ऽथतश्चाग्राह्यत्वमित्याह-#अपरिग्रहाच्चेति ।
चकारार्थं प्रपञ्चयितुमुपक्रमते-#अपि चेति ।
अत्यन्तभेदज्ञापकमाह-#भिन्नलक्षणानिति ।
द्रव्यगुणकर्मणां द्रव्यगुणत्वकर्मत्वजातयो लक्षणानि, गुणाश्रयत्वाद्युपाधयो वा, निर्गुणत्वे सति जातिमदक्रियत्वं गुणलक्षणम्, संयोगविभागयोर्निरपेक्षकारणं कर्म, नित्यमेकमनेकसमवेतं सामान्यम्, नित्यद्रव्यवृत्तयो विशेषाः, नित्यः संबन्धः समवाय इति भिन्नानि लक्षणानि ।
तैर्मिथो ऽत्यन्तभेदसिद्धिरित्यर्थः ।
#तथात्वमत्यन्तभिन्नत्वम् ।
तेन विरुद्धो यो धर्मधर्मिभावः ।
गुणादयो नद्रव्यधर्माः स्युः, ततो ऽत्यन्तभिन्नत्वात्, शशकुशादिवदित्यर्थः ।
भेदाबाधकत्वमुपन्यस्याभेदमाह-#अथ भवतीति ।
गुणादिषु तदधीनत्वं तावदन्वयव्यतिरेकसिद्धं, तथा च गुणादयो द्रव्याभिन्नाः, द्रव्याधीनत्वात्, यद्यस्माद्भिन्नं तन्न तदधीनं, यथा शशभिन्नः कुश इत्यर्थः ।
अभेदे द्रव्यं गुण इति शब्दप्रत्ययभेदः कथं, तत्राह-#द्रव्यमिति ।
कल्पितभेदो ऽप्यस्तीत्याशयः ।
अन्यथात्यन्तभेदवदत्यन्ताभेदे ऽपि धर्मधर्मित्वायोगादिति मन्तव्यम् ।
अस्तु गुणादीनां द्रव्यतादात्म्यमिति वदन्तं तार्किकमन्यं प्रत्याह-#तथा सतीति ।
सांख्यो ऽत्र वेदान्ती ग्राह्यः ।
यद्वा कापिलस्यापि तादात्म्यसिद्धान्त इति सांख्यग्रहणम् ।
यद्यपि तदधीनत्वं तद्धर्मत्वं, तच्च धूमे नास्ति, अग्निं विनापि भावात्, तथापि तत्कार्यत्वं तदधीनत्वं मत्वा व्यभिचारं शङ्कते-#नन्विति ।
कार्यत्वमन्यत्वं चाङ्गीकरोति-#सत्यमिति ।
तथापि तादात्म्येन प्रतीयमानत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याशयः ।
अस्य हेतोरन्यथासिद्धिमाशङ्कते-#गुणादीनामिति ।
गुणादीनां द्रव्येणाभेदाभावे ऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः ।
दूषयितुं विकल्पयति-#तत्पुनरिति ।
शौक्ल्यस्य पटनिष्ठत्वात् पटस्य तन्तुदेशत्वात् पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति-#अपृथग्देशत्व #इति ।
काणादसूत्रद्वयं व्याचष्टे-#तन्तवो हीति ।
स्वभावो हि स्वरूपं तस्यापृथक्त्वे ऽस्मदिष्टाभेदसिद्धिरित्याह-#अपृथक्त्वभावत्व इति ।
अभेदे युक्तिमाह-#तस्येति-गुणस्येत्यर्थः ।
एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तो ऽनुभवविरोधेन दूषितः ।
सिद्धान्तान्तरं दूषयति-#युतेति ।
अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य ।
नाद्य इत्याह-#प्रागिति ।
द्वितीयमाशङ्क्य दूषयति-#अथेत्यादिना ।
कारणस्य पृथक्सिद्धत्वे ऽकार्यमपृथक्सिद्धमित्युक्तमुपेत्य संबन्धो ऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं द्वितीयं शङ्कते-#सिद्धं भूत्वेति ।
सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः ।
सद्योजातपटस्य क्रियाभावात् कथं संयोगः, तत्राह-#यथेति ।
किञ्च संबन्धस्यापि संबन्धे ऽनवस्थानादसंबद्धस्यानियामकत्वात् संबन्धो ऽपि दुर्निरूप इत्याह-#नापीति ।
संबन्धः संबन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात्, वस्त्वन्तरवदिति शङ्कते-#संबन्धीति ।
कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते-#न ।
एकत्वे ऽपीति ।
स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, नच भिद्यत इति व्यभिचार इत्यर्थः ।
फलितमाह-#इत्युपलब्धीति ।
विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन-लक्षणेन सिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः संबन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः ।
न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते ।
समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः ।
संबन्धस्य संबन्ध्यभेदे संबन्धिनः सदा सत्त्वात्सर्वदा संबन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति-#नापीति ।
परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च संबन्धिधीः न स्वत इत्युक्तमित्यर्थः ।
पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, संप्रत्यदृष्टवदात्मनाणूनां संयोगो ऽणुषु क्रियाहेतुः आत्ममनोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते-#तथाण्वात्मेति ।
निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति-#कल्पिता इति ।
कल्पनमूहः ।
ऊहितार्थाः सन्तो ऽसन्तो वा ।
द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् ।
आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् ।
प्रभूतत्वं निरवधित्वं तत्संभवाच्चेत्यर्थः ।
यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह-#न चेत्यादिना ।
संयोगं दूषयित्वा समवायं दूषयति-#किञ्चान्यदिति ।
तन्मते दूषणान्तरमुच्यत इत्यर्थः ।
संश्लेषः संग्रहः ।
यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः ।
द्व्यणुकं निरवयवासमवेतं, सावयवत्वात्, आकाशासमवेतभूमिवदिति भावः ।
ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात्, संबन्धं विना तदयोगात् ।
नच संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते-#कार्येति ।
प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति-#नेति ।
भेदात्तद्भाव इति वदन्तं प्रत्याह-#इतरेतराश्रयत्वादिति ।
कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह-#कारणस्यैवेति ।
परमाणूनां निरवयवत्वमप्ययुक्तमित्याह-#किञ्चेति ।
परमाणवः सावयवाः, अल्पत्वात्, घटवत् ।
विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः ।
ननुपरमाण्वपेक्षया यो ऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन ये ऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्ते ऽपि सावयवाश्चेत् तदवयवा एवेति एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कति-#यांस्त्वमिति ।
परिहरति-#न ।
#स्थूलेति ।
अयमर्थः-यत्सवात्मनाविभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात्, तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् ।
यदि पृथिव्यादिजातीयो ऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वं, विनाशित्वात्, घटवत् ।
नच हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात्, घटवदिति साधनादिति ।
संप्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति-#विनश्यन्त इत्यादिना ।
ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् ।
निमित्तादृष्टादिनाशाद्विनाशः प्रलये संभवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसंभव इति भावः ।

यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह-#तथा कार्यारम्भो ऽपीति ।
कैवल्यं प्रधान्यम् ।
कार्यद्रव्यस्थितावपि हेत्वात्संयोगस्य क्षीरारंभकसंयोगाद्दध्यारम्भकं न संयोगान्तरं, तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः ।
किञ्च यत्कार्यद्रव्यं तद्द्रव्यारम्भमित्येव व्याप्तिरस्तु लाघवात्, न तु संयोगसचिवस्वन्यूनपरिमाणेनेकद्रव्यारम्भमिति, गौरवात्, दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च ।
नच रज्जुर्न द्रव्यान्तरमिति वाच्यम्, अवयविमात्रविप्लवापातात् ।
किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः ।
यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति ।
तन्न ।
त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः ।
नच त एव त्रुटिनामानो जगद्धतेव इति वाच्यम्, पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् ।
न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम्, मायायां ब्रह्मणि वावयवत्वविश्रान्तिसंभवात् ।
अतो न किञ्चिदणुसद्भावे प्रमाणम् ।
निरवयवानां संयोगसमवाययोरसंभवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव ।
संप्रति ऽअपरिग्रहाच्चऽइति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति-#तदेवमिति ।
तस्माद्भ्रान्तिमूलेन वैशेषिकमतेनवेदान्ततात्पर्यस्याविरोध इति सिद्धम् ॥17॥
एन्द् ब्स्र्प्_2,2.3.17
स्तर्त् ब्स्र्प्_2,2.4.18ः
समुदाय उभयहेतुके ऽपि तदप्राप्तिः

2.2.19

वैशेषिकं निरस्य वैनाशिकं निरस्यति-#समुदाय इति ।
परिमाणभेदेन देहादेराशुतरविनाशाङ्गीकारादर्धवैनाशिको वैशेषिकस्तस्य निरासानन्तरं सर्वक्षणिकवादी बुद्धिस्थो निरस्यत इति प्रसङ्गसंगतिमाह-#वैशेषिकेति ।
ऽनाभाव उपलब्धेःऽइति निरसनीयसिद्धान्तादत्र निरस्यसिद्धान्तस्य भेदं वक्तुं तत्सिद्धान्तं विभजते-#स चेति ।
ननु सुगतप्रोक्तागमस्यैक्यात् कुतो बहुप्रकारता, तत्राह-#प्रतिपत्तीति ।
एकस्यैवागमव्याख्यातुः शिष्यस्यावस्थाभेदेन वुद्धिभेदात्, मन्दमध्यमोत्तमधियां शिष्याणां वा भेदाद्बहुप्रकारतेत्यर्थः ।
तानेव प्रकारानाह-#तत्रेति ।
सौत्रान्तिको वैभाषिको योगाचारी माध्यमिकश्चेति चत्वारः शिष्याः ।
तेष्वाद्ययोर्बाह्यार्थानां परोक्षत्वापरोक्षत्वविवादे ऽप्यस्तित्वसंप्रतिपत्तेस्तयोः सिद्धान्तमेकीकृत्य निरस्यत इत्याह-#तत्र ये सर्वास्तित्वेति ।
भूतं भौतिकं बाह्यं, चित्तं चैत्तं च कामाद्यान्तरमिति विभागः ।
तत्र संदिह्यते किं मानमूलो भ्रान्तिमूलो वायं सिद्धान्त इति ।
तत्र प्रमाणमूल इति पूर्वपक्षयन् सिद्धान्तं तदीयं दर्शयति-#तत्र भूतमिति ।
स्थिरः प्रपञ्चो ब्रह्महेतुक इति वेदान्तसिद्धान्तस्य मानमूलक्षणिकसिद्धान्तविरोधादसिद्धिः पूर्वपक्षे फलं, सिद्धान्ते तदविरोध इति ज्ञेयम् ।
पृथिव्यादिभूतचतुष्टयं विषयेन्द्रियात्मकं भौतिकं च परमाणुसमुदाय एव नावयव्यन्तरमिति मत्वा परमाणून् विभजते-#चतुष्टये चेति ।
चतुर्विधा इत्यर्थः ।
खरः कठिनस्तत्स्वभावाः पार्थिवाः परमाणवः, स्निग्धा आप्याः, उष्णास्तैजसाः, ईरणं चलनस्वभावो वायव्यानामिति ।
बाह्यसमुदायमुक्त्वाध्यात्मिकसमुदायमाह-#तथेति ।
सविषयेन्द्रियाणि रूपस्कन्धः विषयाणां बाह्यत्वे ऽपि देहस्थेन्द्रियग्राह्यत्वादाध्यात्मिकत्वम्, अहमहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः, सुखाद्यनुभवो वेदनास्कन्धः, गौरश्व इत्येवं नामविशिष्टसविकल्पकप्रत्ययः संज्ञास्कन्धः, रागद्वेषमोहधर्माधर्माः संस्कारस्कन्धः ।
तत्र विज्ञानस्कन्धश्चित्तमात्मेति गीयते ।
अन्ये चत्वारः स्कन्धाश्चैत्तास्तेषां संघात आध्यात्मिकः ।
सकललोकयात्रानिर्वाहक इत्यर्थः ।
अवयवातिरिक्तावयव्यनुपलब्धेरवयवाः शिष्यन्ते, यत्सत् तत्क्षणिकं, यथा विद्युदिति तेषां क्षणिकत्वमिति मानमूलो ऽयं सिद्धान्त इति प्राप्ते सिद्धान्तसूत्रं योजयति-#यो ऽयमिति ।
सर्गादौ परमाणूनां च स्कन्धानां च स्वतःसंघातस्तावन्न संभवति, अचेतनत्वात् ।
नापि चित्ताख्यमभिज्वलनं विज्ञानं समुदायहेतुः, संघाते देहाकारे जाते विज्ञानं विज्ञाने जाते संघात इत्यन्योन्याश्रयात् ।
नच क्षणिकविज्ञानादन्यः कश्चिज्जीव ईश्वरो वा त्वयाभ्युपगम्यते यः संघातकर्ता भवेत् ।
नच कर्तारमनपेक्ष्याणवः स्कन्धाश्च स्वयमेव संघातार्थं प्रवर्तन्त इति वाच्यम्, अनिर्मोक्षप्रसङ्गात् ।
नन्वालयविज्ञानसंतानः संहन्तास्त्वित्यत आह-#आशयस्येति ।
आशेरते ऽस्मिन् रागादय इत्याशयः संतानः, स किं संतानिभ्यो ऽन्यो विज्ञानिभ्यो ऽन्यो ऽनन्यो वा ।
आद्ये ऽपि स्थिरः क्षणिको वा ।
नाद्यः, अस्मदिष्टनित्यात्मवादप्रसङ्गात् ।
द्वितीये दोषमाह-#क्षणिकत्वेति ।
क्षणिकस्य जन्मातिरिक्तव्यापारो नास्ति, तस्मात्तस्य परमाण्वादिमेलनार्थं प्रवृत्तिरनुपपन्ना ।
क्षणिकत्वव्याघात्दित्यर्थः ।
एतेनानन्यः संतान इति पक्षो निरस्तः, क्षणिकस्य मेलकत्वानुपपत्तेः ।
तस्मात् संहन्तुरसत्त्वात् संघातानुपपत्तिरित्यर्थः ॥18॥
एन्द् ब्स्र्प्_2,2.4.18
स्तर्त् ब्स्र्प्_2,2.4.19ः
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात्

2.2.20

संहन्तुरभावे ऽपि संघातोपपत्तिमाशङ्क्य निषेधति-#इतरेति ।
कार्यं प्रत्ययते गच्छतीति प्रत्ययः कारणम् ।
अविद्यादिभिरेवार्थात् संघातसिद्धौ व्यवहारोपपत्तिरित्यर्थः ।
अविद्यादीनाह-#ते चेति ।
क्षणिकेषु स्थिरत्वबुद्धिरविद्या, ततो रागद्वेषमोहाः संस्कारा भवन्ति, तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते, तस्माच्चालयविज्ञानात् पृथिव्यादिचतुष्टयं नामाश्रयत्वान्नाम भवति ।
ततो रूपं सितासितात्मकं शुक्रशोणितं निष्पद्यते ।
गर्भस्य कलकलबुद्बुदावस्था नामरूपशब्दार्थ इति निष्कर्षः ।
विज्ञानं पृथिव्यादिचतुष्टयं रूपं चेति षडायतनानि यस्येन्द्रियजातस्य तत् षडायतनं, नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः, ततः सुखादिका वेदना, तया पुनर्विषयतृष्णा, तया प्रवृत्तिरूपादानं, तेन भवत्यस्माज्जन्मेति भवो धर्मादिः, ततो जातिर्देहजन्म पञ्चस्कन्धसमुदाय इति यावत् ।
जातानां स्कन्धानां परिपाको जरास्कन्धः, मरणं नाशः, म्रियमाणस्य पुत्रादिस्नेहादन्तर्दाहः शोकः, तेन हा पुत्रेत्यादिविलापः परिदेवना, अनिष्टानुभवो दुःखं, तेनं दुर्मनस्ता मानसी व्यथा, इतिशब्दो मानापमानादिक्लेशसंग्रहार्थः ।
न केवलं सुगतानामेवाविद्यादयः संमताः, किन्तु सर्ववादिनामपीत्याह-#सर्वेषामिति ।
अविद्यादिहेतुका जन्मादयो जन्मादिहेतुकाश्चाविद्यादय इति मिथो हेतुहेतुमद्भावादर्थात्संघातसिद्धिरिति शङ्कामुपसंहरति-#तदेवमिति ।
सिद्धान्तभागं व्याचष्टे-#तन्नेति ।
अविद्यादीनामुत्तरोत्तरहेतुत्वमङ्गीकृत्य संघातहेत्वभावात् संघातो न स्यादित्युक्ते पूर्वोक्तं स्मारयति-#नन्विति ।
किमविद्यादयः संघातस्य गमका उतोत्पादका इति विकल्प्याद्ये संघातस्योत्पादकं किञ्चिद्वाच्यं, तन्नास्तीत्याह-#अत्रोच्यते, यदीति ।
आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् ।
अदृष्टाश्रयेष्वित्यर्थः ।
यदा स्थिरेष्वणुषु संघातयोग्येषु कर्तृषु चादृष्टसहायेषु सत्सु ज्ञानाभावमात्रेण संहतिकर्तृत्वायोगात्संघातापत्तेर्निमित्तं नास्तीत्युक्तं तदा क्षणिकपक्षे तन्नास्तीति किमु वक्तव्यमित्याह-#किमिति ।
आश्रयाश्रयः संघातकर्ता तच्छून्येष्वित्यर्थः ।
ऽआश्रयाश्रयिशून्येषुऽइति पाठे उपकार्योपकारकत्वशून्येष्वित्यर्थः ।
द्वितीयं शङ्कते-#अथायमिति ।
संघातस्याविद्यादीनां चोत्पत्तावन्योन्याश्रयः स्यादिति दूषयति-#कथमिति ।
स्वाभाविकः खल्वयं संघातानां हेतुहेतुमद्भावेन प्रवाहो न संहन्तारमपेक्षते, पूर्वसंघाताश्रया अविद्यादय उत्तरसंघातप्रवर्तका इति नान्योन्याश्रयदोषो ऽपीत्याशङ्कते-#अथ मन्यस इति ।
स्वभावस्य नियमानियमयोरपसिद्धान्तापातः स्यादिति परिहारार्थः ।
पूर्यते गलति चेति पुद्गलो देहः ।
किञ्च भोक्तुः क्षणिकत्वपक्षे भोगापवर्गव्यवहारो ऽपि दुर्घट इत्याह-#अपि चेति ।
यो यदिच्छति स तत्काले नास्ति चेदिच्छाव्यर्था, अस्ति चेत् क्षणिकत्वभङ्ग इत्यर्थः ।
प्रकृतं संघातनिरासमुपसंहरति-#तस्मादिति ॥19॥
एन्द् ब्स्र्प्_2,2.4.19
स्तर्त् ब्स्र्प्_2,2.4.20ः
उत्तरोत्पादे च पूर्वनिरोधात्

2.2.21

द्विविधो हि कार्यसमुत्पादः सुगतसंमतो हेत्वधीनः कारणसमुदायाधीनश्चेति ।
तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः ।
तत्राद्यमङ्गीकृत्य द्वितीयः संघातकर्त्रभावेन दूषितः ।
संप्रत्याद्यं दूषयति सूत्रकारः-#उत्तरेति ।
क्षणिकोर्ऽथः क्षणिक इत्युच्यते ।
निरुध्यमानत्वं विनाशकसांनिध्यं, निरुद्धत्वमतीतत्वम् ।
ननु कार्यकाले विनाशव्याप्तत्वे ऽपि पूर्वक्षणे सत्त्वात् क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते-#अयं भावेति ।
सद्रूप इत्यर्थः ।
किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा ।
नाद्य इत्युक्त्या द्वितीयं शङ्कते-#अथेति ।
भाव उत्पत्तिः ।
उक्तं हि ऽभूतिर्येषां क्रिया सैव कारकं सैव चोच्यतऽइति ।
येषां क्षणिकाभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः ।
नष्टस्यापि निमित्तत्त्वं स्यान्वोपादानत्वं, तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः ।
सत्त्वे च क्षणिकत्वहानिरिति परिहरति-#तथापीत्यादिना ।
प्रथमपक्षेक्तदोषं द्रढयति-#विनैवेति ।
वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह-#अपि चेति ।
तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनो ऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् ।
द्वितीयं शङ्कते-#अथास्तीति ।
विशेषमेवाह-#उत्पादेति ।
दूषयति-#एवमपीति ।
ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् ।
संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति-#अथात्यन्तेति ॥20॥
एन्द् ब्स्र्प्_2,2.4.20
स्तर्त् ब्स्र्प्_2,2.4.21ः
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा

2.2.22

सूत्रं व्याख्यातुं वृत्तं स्मारयति-#क्षणभङ्गेति ।
किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा ।
आद्ये प्रतिज्ञाहानिरित्याह-#अथासत्येवेत्यादिना ।
विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः ।
यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः ।
प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह-#निर्हेतुकायां चेति ।
सहेतुकत्वपक्षे ऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे-#अथोत्तरक्षणेत्यादिना ।
सम्यक् क्रियन्त इति संस्काराः ।
आद्यन्तवन्तो भावा इत्यर्थः ॥21॥
एन्द् ब्स्र्प्_2,2.4.21
स्तर्त् ब्स्र्प्_2,2.4.22ः
प्रतिसंख्याप्रतिसंख्यानिरोधाप्राप्तिर् अविच्छेदात्

2.2.23

एवमाद्यसूत्राभ्यां समुदायो निरस्तः ।
उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते ।
संप्रति तदभिमतं द्विविधं विनाशं दूषयति-#प्रतिसंख्येति ।
संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रं, त्रयात्तुच्छरूपादन्यदित्यर्थः ।
किं तत्रयं, तदाह-#तदपीति ।
निरुपाख्यं निःस्वरूपम् ।
प्रतीपा प्रतिकूला संख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसंख्या, तया निरोधः कस्यचिद्भावस्य भवति ।
अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह-#तद्विपरीत इति ।
परक्रियामुक्त्वा सूत्रं व्याचष्टे-#तेषामिति ।
भावाः संतानिनः ।
संतानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् संताने चरमक्षणः क्षणान्तरं करोति वा न वा ।
आद्ये चरमत्वव्याघातः, संतानाविच्छेदात् ।
द्वितीये चरमस्यासत्त्वप्रसंगः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात्, चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् ।
तस्मात् संतानस्य विच्छेदासंभवान्निरोधाप्राप्तिरित्याह-#न तावदिति ।
न द्वितीय इत्याह-#नापीति ।
घटकपालचूर्णाद्यवस्थासुसेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः ।
बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह-#अस्पष्टेति ।
अङ्कुरादयो ऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात्पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः ।
यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षण(?)निरोधासंभव इत्युपसंहारः ॥22॥
एन्द् ब्स्र्प्_2,2.4.22
स्तर्त् ब्स्र्प्_2,2.4.23ः
उभयथा च दोषात्

2.2.24

अविद्यादीनां प्रतिसंख्यानिरोधं तदभिमतं दूषयति-#उभयथेति ।
यमनियमादयः परिकराः ।
सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ॥23॥
एन्द् ब्स्र्प्_2,2.4.23
स्तर्त् ब्स्र्प्_2,2.4.24ः
आकाशे चाविशेषात्

2.2.25

#आगमप्रामाण्यादिति ।
तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः ।
नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह-#विप्रतिपन्नानिति ।
शब्दो वस्तुनिष्ठः गुणत्वात्, गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति ।
पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः ।
आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति-#अपि चेति ।
यथैकघटसत्त्वे ऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वे ऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसंचारो न स्यादित्यर्थः ।
देशविशेषावच्छेदेनावरणाभावो ऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह-#यत्रेत्यादिना ।
पतिष्यति ।
पक्षी संचरिष्यतीत्यर्थः ।
आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह-#अपि चेति ।
किं सम्यक् निश्रय आश्रयो ऽस्या इति किंसंनिश्रया ।
अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति ।
व्याघातान्तरमाह-#अपिचेति ।
ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति संभवति ।
धर्मिणो ऽसत्त्वव्याघातादित्यर्थः ॥24॥
एन्द् ब्स्र्प्_2,2.4.24
स्तर्त् ब्स्र्प्_2,2.4.25ः
अनुस्मृतेश् च

2.2.26

आत्मनः क्षणिकत्वं दूषयति-#अनुस्मृतेरिति ।
अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः ।
क्षणिकत्वे ज्ञानद्वयानुसंधानं च न स्यादित्याह-#कथं ह्यहमिति ।
पूर्वदर्शनकर्तुरद्राक्षमितिस्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह-#अपि चेति ।
यो ऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः ।
#इदं पश्यामीति ज्ञानान्तरसंबन्धकथनं, यो ऽहमद्राक्षं सो ऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् ।
विपक्षे बाधकमाह-#यदि हीति ।
द्रष्टृस्मर्त्रोर्भेदे ऽहं स्मरामि अन्यो ऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह-#यत्रैवमिति ।
प्रत्ययमाह-#स्मरामीति ।
स्मराम्यहमन्यो ऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोको ऽवगच्छतीत्यविवादमित्यर्थः ।
प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह-#इह त्वहमद इति ।
यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात् प्रत्यभिज्ञा प्रमेत्युक्तं भवति ।
तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह-#तत्रैवं सतीति ।
क्षणद्वयसंबन्धे ऽप्यात्मनस्तृतीयक्षणे भङ्गो ऽस्त्विति वदन्तं प्रत्याह-#तथेति ।
वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्चावर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः#प्रतिसंदधानःसन्निति योजना ।
दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते-#स इति ।
सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात् स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं संभवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति-#तमित्यादिना ।
स्यादेतत् ।
न सादृश्यप्रत्ययः पूर्वोत्तरवस्तूदयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते-#तेनेदमिति ।
अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति ।
नेति वदतः स्वानुभवविरोधः ।
किञ्चार्थभेदाभावात् पदत्रयप्रयोगो न स्यात् ।
तस्मात् पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति-#न तेनेति ।
अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् ।
न ।
त्रयाणामेकप्रत्ययाभेदे मिथो ऽप्यभेदापत्तेः ।
इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह-#यदा हीति ।
वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसंभवात् स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदो ऽङ्गीकार्यः ।
तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः ।
ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति-#एवमेवेति ।
यत् प्रमाणसिद्धं तदेव वक्तव्यम् ।
न हि क्षणिकत्वे किञ्चित् प्रमाणमस्ति ।
न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्वरूपे क्षणिकत्वे मानमिति वाच्यम्, तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः ।
नच यत्सत् तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् ।
नच स्थायिनमनुमातारमन्तरेणानुमानं संभवति ।
तस्मादमानसिद्धार्थवक्ता तथागतो ऽश्रद्धेयवचन इत्यर्थः ।
किञ्च सादृश्यं प्रत्यभिज्ञायां दोषयता निमित्तं विषयतया वा ।
आद्ये ऽपि स्वरूपसत् ज्ञातं वा ।
नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञाने ऽपि रूप्याभेदभ्रमापत्तेः ।
न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासंभवस्योक्तत्वात् ।
नापि विषयतया निमित्तमित्याह-#नचेति ।
सो ऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः ।
सो ऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति-#भवेदिति ।
जडार्थे प्रत्यभिज्ञाते ऽपि बाधसंभावनया संशयः कदाचित् स्यान्नात्मनीत्यर्थः ।
असंदिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासंगतमित्युपसंहरति-#तस्मादिति ॥25॥
एन्द् ब्स्र्प्_2,2.4.25
स्तर्त् ब्स्र्प्_2,2.4.26ः
नासतो ऽदृष्टत्वात्

2.2.27

अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति-#नासत इति ।
न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च ।
द्वौ नञौ प्रकृतार्थं गमयतः ।
मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह-#विनष्टादिति ।
कारणविनाशात् कार्यजन्मेत्यत्र युक्तिमाह-#कूटस्थादिति ।
विनाशशून्यात् ।
नित्यादित्यर्थः ।
नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः ।
नच सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् ।
अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् ।
अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् ।
तस्मान्न स्थायिभवात् कार्यजन्मेत्यर्थः ।
क्षणिकभावस्य हेतुत्वम् ऽउत्तरोत्पादे चऽइत्यत्र निरस्तम् ।
अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे-#तत्रेदमिति ।
यदि बीजाभावस्याभावान्तराद्विशेषः स्यात्, तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोर्ऽथवान्स्यात्, न सो ऽस्तीत्याह-#येनेति ।
सूत्रं योजयति-#निर्विशेषस्येति ।
शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः ।
अस्त्वभावस्यापि विशेष इत्यत आह-#यदीति ।
अभावस्य हेतुत्वे ऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह-#नापीति ।
अभावो न हेतुः, असत्त्वात् ।
संमतवदित्यर्थः ।
अभावो न प्रकृतिः, कार्यानन्वितत्वात्, यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह-#अभावाच्चेति ।
अतो ऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह-#मृदिति ।
स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति-#यत्तूक्तमित्यादिना ।
अनुभवबलात्स्थिरस्वभावानामेव सहकारिसंनिधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् ।
नच शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यं, यतो ऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् ।
ततः स्वर्णादौ स्वतो ऽतिशयशून्ये ऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः ।
न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यं, पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या ।
यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति ।
तन्न ।
अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः ।
न ह्यर्थक्रियाकारित्वमेव सत्त्वम्, असतस्तदयोगेन सत्त्वस्य ततो भेदात् ।
सते ह्यर्थक्रियाकारित्वं नासतः ।
अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव ।
तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः ।
पूर्वापरविरोधमप्याह-#अपिचेति ॥26॥
एन्द् ब्स्र्प्_2,2.4.26
स्तर्त् ब्स्र्प्_2,2.4.27ः
उदासीनानाम् अपि चैवं सिद्धिः

2.2.28

अभावादुत्पत्तौ शशविषाणादप्युत्पत्तिः स्यादित्युक्तम् ।
अतिप्रसङ्गान्तरमाह-#उदासीनानामिति ।
#अनीहमानानां प्रयत्नशून्यानाम् ।
#अमत्रं घटादिपात्रम् ।
#तन्वानस्यव्यापारयतः ।
तस्माद्भ्रान्तिमूलेन क्षणिकबाह्यार्थवादेन कूटस्थनित्यब्रह्मसमन्वयस्य न विरोध इति सिद्धम् ॥27॥
एन्द् ब्स्र्प्_2,2.4.27
स्तर्त् ब्स्र्प्_2,2.5.28ः
नाभाव उपलब्धेः

2.2.29

#नाभाव उपलब्धेः ।
अखण्डनिर्विशेषं ब्रह्म विज्ञानं बाह्यार्थोपादानं वदतां वेदान्तानां भिन्नं साकारं क्षणिकं विज्ञानं न ततो ऽन्योर्ऽथो ऽस्तीति योगाचारमतेन विरुध्यते न वेति तन्मतस्य मानभ्रान्तिमूलत्वाभ्यां संशये पूर्वोक्तबाह्यार्थवादनिरासमुपजीव्य पूर्वपक्षमाह-#एवमित्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलम् ।
नन्वेकस्य सुगतागमस्य कथं बाह्यार्थसत्त्वासत्त्वयोस्तात्पर्यं विरोधादित्याशङ्क्याधिकारिभेदादविरोध इति वदन् विज्ञानवादिनः सुगताभिप्रायज्ञत्वेन मन्दाधिकारिभ्यो बाह्यार्थवादिभ्यः श्रैष्ठ्यमाह-#केषाञ्चिदिति ।
उक्तं च धर्मकीर्तिना-ऽदेशना लोकनाथानां सत्त्वाशयवशानुगाःऽइति ।
सुगतानामुपदेशाः शिष्यमत्यनुसारिण इत्यर्थः ।
नन्वसति बाह्यार्थे मानमेयव्यवहारः कथं, तत्राह-#तस्मिन्निति ।
विज्ञानमेव कल्पितनीलाद्याकारत्वेन प्रमेयम्, अवभासात्मना मानफलं, शक्त्यात्मना मानं, शक्त्याश्रयत्वाकारेण प्रमातेति भेदकल्पनया व्यवहार इत्यर्थः ।
मुख्य एव भेदः किं न स्यादत आह-#सत्यपीति ।
नहि बुद्ध्यनारूढस्य नीलादेः प्रमेयत्वव्यवहारो ऽस्ति ।
अतो बुद्ध्यारूढाकार एव प्रमेयं न बाह्यमित्यर्थः ।
बाह्यार्थासत्त्वे प्रश्नपूर्वकं युक्तीरुपन्यस्यति-#कथमित्यादिना ।
ज्ञेयं ज्ञानातिरेकेणासत्, तदतिरेकेणासंभवात्, नरशृङ्गवदित्याह-#तदसंभवादिति ।
असंभवं विवृणोति-#स हीति ।
परमाणवश्चेदेकस्थूलस्तम्भ इति ज्ञानं न स्यात् ।
समूहस्त्वसन्नित्यर्थः ।
अवयव्यभावे ऽपि जात्यादयो बाह्यार्थाः स्युः, तत्राह-#एवमिति ।
जातिगुणकर्मणां धर्मिणः सकाशादभेदे ऽत्यन्तभेदे वा धर्मिवद्धर्म्यन्तरवच्च न धर्मधर्मिभावः ।
भेदाभेदौ च विरुद्धाविति न सन्ति जात्याद्यर्था इत्यर्थः ।
किञ्च ज्ञानस्य ज्ञेयसारूप्यरूपविशेषसंबन्धाभावे सर्वविषयत्वापत्तेर्विशेषो ऽङ्गीकार्यः, तथाच ज्ञानगतविशेषस्यैव ज्ञानेन विषयीकरणान्न बाह्यार्थसिद्धिर्मानाभावाद्गौरवाच्चेत्याह-#अपिचेति ।
पक्षपातो विषयविशेषवैशिष्ट्यव्यवहारः ।
किञ्च ज्ञेयं ज्ञानाभिन्नं, ज्ञानोपलम्भक्षणनियतोपलम्भग्राह्यत्वात्, ज्ञानवदित्याह-#अपिचेति ।
ज्ञानार्थयोवास्तवभेदे ऽपि सहोपलम्भनं स्यात्, ग्रैह्यग्राहकभावादित्यत आह-#न चैतदिति ।
क्षणिकज्ञानस्यार्थेन संबन्धहेत्वभावान्न ग्राह्यग्राहकभाव इत्यर्थः ।
किञ्च जाग्रद्विज्ञानं न बाह्यालम्बनं, विज्ञानत्वात्, स्वप्नादिज्ञानवदित्याह-#स्वप्नेति ।
विज्ञानानां वैचित्र्यानुपपत्तिबाधितमनुमानमिति शङ्कते-#कथमिति ।
अन्यथोपपत्त्या परिहरति-#वासनेति ।
अनादिसंतानान्तर्गतपूर्वज्ञानमेव वासना, तद्वशादनेकक्षणव्यवधाने ऽपि नीलाद्याकारज्ञानवैचित्र्यं भवति, यथा बीजवासनया कार्पासरक्तत्वं तद्वदित्यर्थः ।
उभयवादिसंमतत्वाच्च वासना एव ज्ञानवैचित्र्यहेतवो न बाह्यार्था इत्याह-#अपिचेति ।
क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-#नाभाव इत्यादिना ।
किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः ।
नाद्य इत्युक्त#मुपलब्धेरिति ।
द्वितीयं शङ्कते-#ननु नाहमिति ।
ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह-#बाढमित्यादिना ।
त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह-#अतश्चेति ।
बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात्, दृष्टान्तत्वात्संभवाच्च बहिर्वच्छब्दो न स्यादित्याह-#इतरथेति ।
अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह-#तस्मादिति ।
ज्ञेयार्थो ज्ञानातिरेकेणासन्नसंभवादित्युक्तबाधाद्वत्करणमिति शङ्कते-#नन्विति ।
को ऽसावसंभवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसंभवस्याभावो वा ।
नाद्यः, साध्याभेदात् ।
न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासंभवासिद्धरित्याह-#नायं साधुरिति ।
संभवः सत्तानिश्चयः प्रमाणाधीनः ।
असंभवो ऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति-#यद्धीति ।
उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः संभवं वदन्नेव तृतीयं दूषयति-#इहेति ।
प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षे ऽप्ययुक्तत्वस्य तुल्यत्वात् ।
न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकप्रसङ्गात् ।
न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः ।
तस्मादयुक्तत्वे ऽपि यथानुभवं व्यवहारयोग्योर्ऽथः स्वीकार्यः ।
न चतुर्थः, निश्चिते तादृशसंभवस्यानुपयोगात् ।
तस्य क्वचित् प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः ।
यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह-#नचेति ।
यत्तु गौरवमुक्तं, तन्न दूषणं, प्रामाणिकत्वादित्याह-#वहिरिति ।
यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमो ऽपि नाभेदसाधक इत्याह-#अत एवेति ।
यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वे ऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदे ऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः ।
नच ज्ञानस्य क्षणिकत्वात् स्वभिन्नग्राह्यसंबन्धायोगः, स्थायित्वादिति भावः ।
विज्ञानमनेकार्थेभ्यो भिन्नम्, एकत्वात्, गोत्ववदिति सत्प्रतिपक्षमाह-#अपि चेति ।
नच हेत्वसिद्धः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् ।
नच सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह-#नविशेष्यस्येति ।
घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह-#तथेति ।
घटो द्वाभ्यां भिन्नः एकत्वात्, क्षीरवदित्यर्थः ।
ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह-#अपि चेति ।
क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च ।
तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् ।
तथाच तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः ।
एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता ।
सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम्, अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेणवा दुर्ज्ञानत्वात् उत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् ।

किचाविद्योपप्लवो ऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् ।
अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या ।
आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशो ऽनेकज्ञानसाध्यो गृहीतः ।
तस्मात् प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदो ऽङ्गीकार्य इत्यर्थः ।
ज्ञानार्थयोभेदे युक्तयन्तरमस्तीत्याह-#किञ्चान्यदिति ।
ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः ।
स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते-#अथ विज्ञानमिति ।
विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह-#अत्यन्तेति ।
ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितं, वस्तुतः स्ववेद्यत्वमयुक्तमित्याह-#नचेति ।
कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः ।
नच स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम्, अभेदे विषयविषयित्वस्याप्यसंभवादिति भावः ।
ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते-#नन्विति ।
अनवस्था च साम्यं चेति दोषद्वयं परिहरति-#तदुभयमपीति ।
अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था ।
नापि साम्यम् ।
चिज्जडत्ववैषम्यादित्यर्थः ।
साक्षी क्वेत्यत आह-#स्वयंसिद्धस्येति ।
निरपेक्षस्य साक्षिणो ऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सो ऽङ्गीकार्य इत्यर्थः ।
अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह-#किञ्चेति ।
विज्ञानं ज्ञानान्तरापेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात्, स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्ता स्यात्, तथाच ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् ।
अतस्तत्साक्ष्येष्टव्य इत्यर्थः ।
विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यं, स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते-#बाढमिति ।
अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति-#नेति ।
विमतं विज्ञानं स्वातिरिक्तवेद्यं, वेद्यत्वात्, देहवदित्यर्थः ।
अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा ।
आद्ये ऽनवस्था ।
द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते-#साक्षिण इति ।
त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते ।
अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितं, कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति-#न ।
#विज्ञानस्येति ॥28॥
एन्द् ब्स्र्प्_2,2.5.28
स्तर्त् ब्स्र्प्_2,2.5.29ः
वैधर्म्याच् च न स्वप्नादिवत्

2.2.30

एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् ।
संप्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति-#वैधर्म्याच्चेति ।
किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम्, अथवा व्यावहारिकविषयशून्यत्वम् ।
नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् ।
न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः ।
तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह-#बाध्यते हीत्यादिना ।
#निद्राग्लानमिति ।
करणदोषोक्तिः ।
साधनव्यापकत्वनिरासायाह-#नचैवमिति ।
किञ्च प्रमाणजानुभव उपलब्धिः पक्षो ऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।
परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह-#अपि चेति ।
स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह-#अर्थविप्रयोरेति ।
असंबन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत्, न संप्रयुक्तवर्यमानार्तमात्रग्राहिण्या उपलब्धेरिति भावः ।
पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह-#तत्रैवंसतीति ।
वैधर्म्ये सतीत्यर्थः ।
अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः ।
वैधर्म्यासिद्धिं निरस्यति-#नचेति ।
बाधमप्याह-#अपिचेति ।
वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो दि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतो ऽपि वक्तुं शक्यत्वात् ।
नहि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् ।
यदि न वस्तुतो धर्मो ऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् ।
अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।
उक्तोपाधिरपि न विस्मर्तव्य इत्याह-#दर्शितं त्विति ॥29॥
एन्द् ब्स्र्प्_2,2.5.29
स्तर्त् ब्स्र्प्_2,2.5.30ः
न भावो ऽनुपलब्धेः

2.2.31

सूत्रव्यावर्त्यं स्मारयित्वा दूषयति-#यदप्युक्तमित्यादिना ।
भाव उत्पत्तिः सत्ता वा ।
ननु बाह्यार्थानुपलब्धावपि पूर्वपूर्ववासनाबलादुत्तरोत्तरविज्ञानवैचित्र्यमस्तु बीजाङ्कुरवदनादित्वादित्यत आह-#अनादित्वे ऽपीति ।
बीजादङ्कुरो दृष्ट इत्यदृष्टे ऽपि तज्जातीययोः कार्यकारणभावकल्पना युक्ता, इह त्वर्थानुभवनिरपेक्षवासनोत्पत्तेरादावेव कल्प्यत्वादनादित्वकल्पना निर्मूलेति नाभिप्रेतधीवैचित्र्यसिद्धिरित्यर्थः ।
ननु निरपेक्षवासनानां सत्त्वे धीवैचित्र्यमसत्त्वे तु नेति स्वप्ने दृष्टमिति समूलानवस्थेत्यत आह-#याविति ।
वासनानां बाह्यार्थानुभवकार्यत्वे सति नैरपेक्ष्यासिद्धेर्नान्वयादिदृष्टिरित्यर्थः ।
कार्यत्वग्राहकं व्यतिरेकमाह-#विनेति ।
अर्थानुभवकार्याणां वासनानां तदनपेक्षत्वायोगान्न त्वदुक्तान्वयादिदृष्टिरित्युक्तम् ।
अभिनवार्थोपलब्धिवैचित्र्यस्य वासनां विनापि भावेन व्यतिरेकव्यभिचाराच्च न क्वापि वासनामात्रकृतं धीवैचित्र्यं किन्त्वर्थानुभवे सति वासनासति नेत्यन्वयव्यतिरेकाभ्यां वासनामूलानुभवावच्छेदकार्थकृतमेवेति बाह्यार्थसद्भावसिद्धिरित्याह-#अपिचेति ।
यः संस्कारः स साश्रयो लोके दृष्टः यथा वेगादिरिष्वाद्याश्रयः, अतो विज्ञानसंस्काराणां न भाव आश्रयानुपलब्धेरित्यर्थान्तरमाह-#अपिचेति ॥30॥
एन्द् ब्स्र्प्_2,2.5.30
स्तर्त् ब्स्र्प्_2,2.5.31ः
क्षणिकत्वाच् च

2.2.32

अस्त्वालयविज्ञानमाश्रय इत्यत आह-#क्षणिकत्वाच्चेति ।
सूत्रं व्याचष्टे-#यदपीति ।
सहोत्पन्नयोः सव्येतरविषाणवदाश्रयाश्रयिभावायोगात्, पौर्वापर्ये चाधेयक्षणे ऽसत आधारत्वायोगात्, सत्त्वे क्षणिकत्वव्याघातान्नाधारत्वमालयविज्ञानस्य क्षणिकत्वान्नीलादिविज्ञानवदित्यर्थः ।
अस्तु तर्ह्यालयविज्ञानसंतानाश्रया वासनेत्यत आह-#नहीति ।
सविकारः कूटस्थो वा स्थाय्यात्मा यदि नास्ति तदा संतानस्यावस्तुत्वाद्देशाद्यपेक्षया यद्वासनानामाधानं निक्षेपो ये च स्मृतिप्रत्यभिज्ञे यश्च तन्मूलो व्यवहारः, तत्सर्वं न संभवतीत्यर्थः ।
यदि व्यवहारार्थमात्मस्थायित्वं तदापसिद्धान्त इत्याह-#स्थिरेति ।
सूत्रमतिदेशार्थत्वेनापि व्याचष्टे-#अपिचेति ।
मतद्वयनिरासमुपसंहरति-#एवमिति ।
ज्ञानज्ञेयात्मकस्य सर्वस्य सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यतावशिष्यत इति माध्यमिकपक्षस्यापि मानमूलत्वमाशङ्कय सूत्रकारः किमिति न निराचकारेत्यत आह-#शून्येति ।
आदरः पृथक्सूत्रारम्भो न क्रियते ।
एतान्येव तन्मतनिरासार्थत्वेनापि योज्यन्त इत्यर्थः ।
तथाहि-ज्ञानार्थयोर्नाभावः, प्रमाणत उपलब्धेः ।
ननु जाग्रत्स्वप्नौ ज्ञानार्थशून्यौ, अवस्थात्वात्, सुषुप्तिवदित्यत आह-ऽवैधर्म्याच्च न स्वप्नादिवत्ऽ ।
स्वप्न आदिर्यस्याः सुषुप्तेस्तदन्नेतरावस्थयोः शून्यत्वम्, उपलब्ध्यनुपलब्धिवैधर्म्यलक्षणाबाधितज्ञानार्थोपलब्धिबाधात् ।
सुषुप्तावप्यात्मज्ञानसत्त्वेन साध्यवैकल्याच्च नानुमानमित्यर्थः ।
किञ्च निरधिष्ठाननिषेधायोगादधिष्ठानमेव तत्त्वं वाच्यं, तस्य त्वन्ते न भावः ।
मानतो ऽनुपलब्धेरित्याह-ऽन भावो ऽनुपलब्धेःऽ ।
तदर्थमाह-#न ह्ययमिति ।
यद्भाति तन्नासदित्युत्सर्गतः प्रपञ्चस्य न शून्यत्वम् ।
बाधाभावादित्यर्थः ।
नच सत्त्वासत्त्वाभ्यां विचारासहत्वाच्छून्यत्वम् ।
मिथ्यात्वसंभवादिति भावः ।
ऽक्षणिकत्वाच्चऽइति सूत्रं ऽक्षणिकत्वोपदेशाच्चऽइति पठनीयम् ।
शून्यत्वविरुद्धक्षणिकत्वोपदेशादसंगतप्रलापी सुगत इत्यर्थः ॥31॥
एन्द् ब्स्र्प्_2,2.5.31
स्तर्त् ब्स्र्प्_2,2.5.32ः
सर्वथानुपपत्तेश् च

2.2.33

सुगतमतासांगत्यमुपसंहरति-#सर्वथेति ।
सर्वज्ञस्य कथं विरुद्धप्रलापः, तत्राह-#प्रद्वेषो वेति ।
वेदबाह्या अत्र प्रजा ग्राह्याः ।
अतो भ्रान्त्येकमूलसुगतसिद्धान्तेन वेदान्तसिद्धान्तस्य न विरोध इति सिद्धम् ॥32॥
एन्द् ब्स्र्प्_2,2.5.32
स्तर्त् ब्स्र्प्_2,2.6.33ः
नैकस्मिन्न् असंभवात्

2.2.34

#नैकस्मिन्नसंभवात् ।
मुक्तकच्छमते निरस्ते मुक्ताम्बराणां मतं बुद्धिस्थं भवति तन्निरस्यत इति प्रसङ्गसङ्गतिमाह-#निरस्त इति ।
एकरूपं ब्रह्मेति वैदिकसिद्धान्तस्यानैकान्तवादेन विरोधो ऽस्ति न वेति तद्वादस्य मानभ्रान्तिमूलत्वाभ्यां संदेहे मानमूलत्वाद्विरोध इति पूर्वपक्षफलमभिसंधायतन्मतमुपन्यस्यति-#सप्त चेति ।
जीवाजीवौ भोक्तृभोग्यौ, विषयाभिमुख्येनेन्द्रियाणां प्रवृत्तिराश्रवः, तां संवृणोति इति संवरो यमनियमादिः, निर्जरयति नाशयति कल्मषमिति निर्जरस्तप्तशिलारोहणादिः, बन्धः कर्म, मोक्षः कर्मपाशनाशे सत्यलोकाकाशप्रविष्टस्य सततोर्ध्वगमनम् ।
नन्वास्त्रवादीनां भोग्यान्तर्भावात्कथं सप्तत्वमित्यत आह-#संक्षेपतस्त्विति ।
संक्षेपविस्तराभ्यामुक्तार्थेषु मध्यमरीत्या विस्तरान्तरमाह-#तयोरिति ।
अस्तिकायशब्दः सांकेतिकः पदार्थवाची ।
जीवश्चासावस्तिकायश्चेत्येवं विग्रहः ।
पूर्यन्ते ग्लन्तीति पुद्गलाः परमाणुसंघाः कायाः, सम्यक्प्रवृत्त्यनुमेयो धर्मः, ऊर्ध्वगमनशीलस्य जीवस्य देहे स्थितिहेतुरधर्मः, आवरणाभाव आकाश इत्यर्थः ।
पञ्चपदार्थानामवान्तरभेदमाह-#सर्वेषामिति ।
अयमर्थः-जीवास्तिकायस्त्रिविधः-कश्चिज्जीवो नित्यसिद्धोर्ऽहन्मुख्यः, केचित्सांप्रतिकमुक्ताः, केचिद्बद्धा इति ।
पुद्गलास्तिकायः षोढा-पृथिव्यादीनि चत्वारि भूतानि, स्थावरं जङ्गमं चेति ।
प्रवृत्तिस्थितिलिङ्गौ धर्माधर्मावुक्तौ ।
आकाशास्तिकायो द्विविधः-लोकाकाशः सांसारिकः, अलोकाकाशो मुक्ताश्रय इति ।
बन्धाख्यं कर्माष्टविधम्-चत्वारि घातिकर्माणि चत्वार्यघातीनि ।
तत्र ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायं चेति घातिकर्माणि ।
तत्त्वज्ञानान्न मुक्तिरिति ज्ञानमाद्यं कर्म, आर्हततन्त्रश्रवणान्न मुक्तिरिति ज्ञानम् द्वितीयं, बहुषु तीर्थकरप्रदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं, मोक्षमार्गप्रवृत्तिविघ्नकरणमन्तरायम्, इमानि चत्वारि श्रेयोहन्तृत्वाघातिकर्माणि ।
अथाघातीनि चत्वारि कर्माणि वेदनीयं नामिकं गोत्रिकमायुष्कमिति ।
मम वेदितव्यं तत्त्वमस्तीत्यभिमानो वेदनीयम्, एतन्नामाहमस्मीत्यभिमानो नामिकम्, अहमत्र भवतो देशिकस्यार्हतः शिष्यवंशे प्रविष्टो ऽस्मीत्यभिमानो गोत्रिकम्, शरीरस्थित्यर्थं कर्म आयुष्कम् ।
अथवा शुक्रशोणितमिश्रितमायुष्कं, तस्य तत्त्वज्ञानानुकूलदेहपरिणामशक्तिर्गोत्रिकं, शक्तस्य तस्य द्रवीभावात्मककललावस्थाया बुद्बुदावस्थायाश्चारम्भकः क्रियाविशेषो नामिकं, सक्रियस्य बीजस्य जाठराग्निवायुभ्यामीषद्घनीभावो वेदनीयं, तत्त्ववेदनानुकूलत्वात् ।
तान्येतानि तत्त्वावेदकशुक्लपुद्गलार्थत्वाघातीनि ।
तदेतत्कर्माष्टकं जन्मार्थत्वाद्बन्ध आस्रवादिद्वारेति ।
इयं प्रक्रिया मान्यशून्येति द्योतयति-#स्वसमयपरिकल्पितानिति ।
स्वीयतन्त्रसंकेतमात्रकल्पितानित्यर्थः पदार्थानामुक्तानामनैकान्तत्वं वदन्तीत्याह-#सर्वत्रेति ।
अस्तित्वनास्तित्वादिविरुद्धधर्मद्वयमादाय वस्तुमात्रे न्यायं योजयन्ति ।
सप्तानामस्तित्वादीनां भङ्गानां समाहारः सप्तभङ्गी, तस्या नयो न्यायः ।
घटादेर्हि सर्वात्मना सदैकरूपत्वे प्राप्यात्मनाप्यस्त्येव स इति तत्प्राप्तये यत्नो न स्यात् ।
अतो घटत्वादिरूपेण कथञ्चिदस्ति, प्राप्यत्वादिरूपेण कथञ्चिन्नास्तीत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयमिति भावः ।
के ते सप्तभङ्गाः, तानाह-#स्यादस्तीति ।
स्यादित्यव्ययं तिङन्तप्रतिरूपकं कथञ्चिदर्थकम् ।
स्यादस्ति ।
कथञ्चिदस्तीत्यर्थः ।
एवमग्ने ऽपि ।
तत्र वस्तुनो ऽस्तित्ववाञ्छायां स्यादस्तीत्याद्यो भङ्गः प्रवर्तते ।
नास्तित्ववाञ्छायां स्यान्नास्तीति द्वितीयो भङ्गः ।
क्रमेणोभयवाञ्छायां स्यादस्ति च नास्ति चेति तृतीयो भङ्गः ।
युगपदुभयवाञ्छायामस्ति नास्तीति शब्दद्वयस्य सकृद्वक्त्तुमशक्यत्वात् स्यादवक्तव्य इति चतुर्थो भङ्गः ।
आद्यचतुर्थभङ्गयोर्वाञ्छायां स्यादस्ति चावक्तव्यश्चेति पञ्चमो भङ्गः ।
द्वितीयचतुर्थेच्छायां स्यान्नास्ति चावक्तव्यश्चेति षष्ठो भङ्गः ।
तृतीयचतुर्थेच्छायां स्यादस्ति चावक्तव्यश्चेति सप्तमो भङ्ग इति विभागः ।
एवमेकत्वमनेकत्वं चेति द्वयमादाय स्यादेकः स्यादेको ऽनेकश्च स्यादवक्तव्यः स्यादेको वक्तव्यः स्यादनेको ऽवक्तव्यः स्यादेको ऽनेकश्चावक्तव्यश्चेति, तथा स्यान्नित्यः स्यादनित्य इत्याद्यूह्यम् ।
एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः संभवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात्, तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति-#अत्रेति ।
यदस्ति तत् सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा ।
न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम्, अप्राप्तिभ्रान्त्या यत्नसंभवात् ।
यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि ।
प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः ।
तथाहि-किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण ।
द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव ।
नहि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामो ऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः ।
अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् ।
नाद्य इत्याह-#नायमिति ।
ननु विमतमनैकात्मकं, वस्तुत्वात्, नारसिंहवदिति चेत् ।
न ।
घट इदानीमस्त्येवेत्यनुभवबाधात् ।
किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् ।
आद्ये व्यभिचार इत्याह-#य इति ।
द्वितीये पदार्थनिश्चयो न स्यादित्याह-#इतरथेति ।
अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते-#नन्विति ।
तस्य निश्चयरूपत्वं नियतमनियतं वा ।
आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः ।
द्वितीये तस्य संशयत्वं स्यादित्याह-#नेति ब्रूम इति ।
प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति-#एवमिति ।
निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः ।
इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह-#एवंसतीति ।
अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह-#तथा पञ्चानामिति ।
यदुक्तमवक्तव्यत्वं तत् किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् ।
नाद्यः, व्याघातादित्याह-#न चैषामिति ।
उच्यन्ते च ।
अवक्तव्यादिपदैरिति शेषः ।
न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात्, शेषस्यापि मुखभेदात् ।
न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यं, तादृशवाञ्छाया एवानुत्पत्तिरिति ।
किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह-#उच्यमानाश्चेत्यादिना ।
इति च प्रलपन्नित्यन्वयः ।
अर्हन्निति शेषः ।
अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः ।
इतश्चासंगतो ऽनैकान्तवाद इत्याह-#स्वर्गेति ।

किञ्चानादिसिद्धोर्ऽहन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमो ऽपि न स्यादित्याह-#अनादीति ।
प्रपञ्चितं सूत्रार्थं निगमयति-#एवमिति ।
#एतेनेति ।
सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः ।
परमाणुसंघाताः पृथिव्यादय इति ।
दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह-#यत्त्विति ॥33॥
एन्द् ब्स्र्प्_2,2.6.35
स्तर्त् ब्स्र्प्_2,2.6.34ः
एवं चात्माकार्त्स्न्यम्

2.2.35

जीवस्य देहपरिमाणतां दूषयति-#एवं चेति ।
अकार्त्स्न्यं मध्यमपरिमाणत्वम् ।
तेनानित्यत्वं स्यादित्यर्थः ।
अर्थान्तरमाह-#शरीराणां चेति ।
विपाकः कर्मणामभिव्यक्तिः ।
जीवस्य कृत्स्नगजशरीरव्यापित्वमकार्त्स्न्यम् ।
शरीरैकदेशो निर्जीवः स्यादित्यर्थः ।
पुत्तिकादेहे कृत्स्नो जीवो न प्रविशेत् ।
देहाद्बहिरपि जीवः स्यादित्यर्थः ।
किञ्च बालदेहमात्र आत्मा ततः स्थूले युवदेहे क्वचित् स्यादिति कृत्स्नदेहः सजीवो न स्यादित्याह-#समान इति ।
यथा दीपावयवानां घटे संकोचो गेहे विकासस्तथा जीवावयवानामिति देहमानत्वनियमं शङ्कते-#स्यादिति ।
दीपांशवज्जीवांशा भिन्नदेशा एकदेशा वेति विकल्प्याद्ये ऽल्पदेहाद्बहिरपि जीवः स्यादिति दूषयति-#तेषामित्यादिना ।
दीपस्य तु न घटाद्बहिः सत्त्वमधिकावयवानां विनाशात् ।
द्वितीयं दूषयति-#अप्रतिघात इति ।
अवयवानां नित्यत्वं चासिद्धमल्पत्वाद्दीपांशवदित्याह-#अपिचेति ॥34॥
एन्द् ब्स्र्प्_2,2.6.34
स्तर्त् ब्स्र्प्_2,2.6.35ः
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः

2.2.36

एवं जीवावयवा नित्या इतिमते देहमानत्वं निरस्तम् ।
संप्रति जीवस्य केचिदेव कूटस्था अवयवा अन्ये त्वागमापायिन इति शङ्कते-#अथेति ।
बृहत्तनुकायाप्तौ जीवस्यावयवागमापायाभ्यां देहमानत्वमित्यर्थः ।
सूत्रेण परिहरति-#नचेति ।
आगमापायौ पर्यायः ।
किमागमापायिनामवयवानामात्मत्वमस्ति न वा ।
आद्ये आह-#विकारादिदोषेति ।
को ऽसौ बन्धमोक्षाभ्युपगम इत्यत आह-#कर्माष्टकेति ।
व्याख्यातमेतत् ।
आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति-#किञ्चेति ।
अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः ।
यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह-#किञ्चेति ।
सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः ।
किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तो ऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह-#किञ्चेति ।
अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम्, अवयवसमूहत्वे चासत्त्वं, आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापाये ऽपि सद्यः शरीरस्याचेतनत्वं, गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति-#अत इति ।
सूत्रस्यार्थान्तरमाह-#अथवेति ।
स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्संतानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः ।
पर्यायेणेत्यस्य व्याख्या#स्रोत इति ।
देहभेदेन परिमाणस्यात्मनश्चानवस्थाने ऽपि नाशे ऽपि ।
स्रोतः प्रवाहः ।
तदात्मकस्यात्मव्यक्तिसंतानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह-#यथेति ।
सिग् वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः ।
पर्यायात् संतानादप्यात्मनित्यत्वस्याविरोध इति न च ।
कुतः ।
विकारादिभ्यः ।
संतानस्यावस्तुनः आत्मत्वे शून्यवादः, संतानस्य वस्तुत्वे संतान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात् संतानात्मपक्षो ऽनुपपन्न इति सूत्रार्थः ॥35॥
एन्द् ब्स्र्प्_2,2.6.35
स्तर्त् ब्स्र्प्_2,2.6.36ः
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः

2.2.37

यं स्थूलं वा सूक्ष्मं वा देहं गृह्णाति तद्देहपरिमाण एव जीव इति नियमं दूषयति-#अन्त्येति ।
अन्त्यशरीरपरिमाणस्यावस्थितेर्नित्यत्वदर्शनादुभयोराद्यमध्यमपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषस्त्रयाणां नित्यपरिमाणानां साम्यं स्याद्विरुद्धपरिमाणानामेकत्रायोगादिति सूत्रयोजना ।
आद्यमध्यमपरिमाणे नित्ये, आत्मपरिमाणत्वात्, अन्त्यपरिमाणवत् ।
न चाप्रयोजकता, परिमाणनाशे सत्यात्मनो ऽपि नाशादन्त्यपरिमाणनित्यत्वायोगादिति भावः ।
परिमाणत्रयसाम्यापादानफलमाह-#एकेति ।
अन्त्यशरीरसामान्येव पूर्वशरीराणि स्युः, विषमशरारप्राप्तावात्मनःस्तत्परिमाणत्वे परिमाणत्रयसाम्यानुमानविरोधादित्यर्थः ।
पूर्वं कालत्रये परिमाणत्रयमङ्गीकृत्यान्त्यदृष्टान्तेन नित्यत्वमनुमाय साम्यमापादितम् ।
संप्रत्यन्त्यस्य मुक्तपरिमाणस्याणुत्वस्थूलत्वयोरन्यतरत्वेनावस्थितेस्तदेवान्त्यमाद्यमध्यमकालयोरपि नित्यत्वात्स्यात् प्रागसतो नित्यत्वायोगात्, तथा चाविशेषः कालत्रये ऽपि जीवपरिमाणाभेद इत्याह-#अथवेति ।
तस्माद्भ्रान्त्येकशरणक्षपणकसिद्धान्तेनाविरोधः समन्वयस्येति सिद्धम् ॥36॥
एन्द् ब्स्र्प्_2,2.6.36
स्तर्त् ब्स्र्प्_2,2.7.37ः
पत्युर् असामञ्जस्यात्

2.2.38

#पत्युरसामञ्जस्यात् ।
लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसंगतिमाह-#इदानीमिति ।
सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते-#तदिति ।
स्वोक्तिविरोधान्मैवमित्याह-#प्रकृतिश्चेत्यादिना ।
प्रतिष्ठापितत्वात् केवलनिमित्तेश्वरप्रतिषेधो ऽवगम्यत इत्यन्वयः ।
व्याहतोविरुद्धो ऽभिव्याहार उक्तिर्यस्य स तथा ।
अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो नप्रकृतिरिति शैवादिमतेन विरोधो ऽस्ति न वेति संदेहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्तद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्वासत्वयोरेकत्रासंभववत् कर्तृत्वोपादानत्वयोरप्येकत्रासंभवात् कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह-#सा चेति ।
सेश्वरः सांख्याः सांख्यशब्दार्थः ।
चत्वारो मादेश्वराः-शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति ।
सर्वो ऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते ।
कार्यं महदादिकं, कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः ।
पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।
पाशुपतागमप्रमाण्यात् पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह-#तथेति ।
विमतं सकर्तृकं, कार्यत्वात्, घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति ।
कर्मफलं सपरिकराभिज्ञदातृकं, कालान्तरभाविफलत्वात्, सेवाफलवदिति गौतमा दिगम्बराश्च ।
ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात्, परिमाणवदिति सांख्यसौगतपातञ्जला इति मत्वोक्तम्-#केचित्कथञ्चिदिति ।
सिद्धान्तयति-#अत इति ।
आगमादिना निर्देषेश्वरसिद्धेः कथं दोषवत्वमित्याह-#किमिति ।
न तावत् स्वस्वागमादीश्वरनिर्णयः, आगमानां निर्मूलत्वेनाप्रामाण्यात् ।
नच सर्वज्ञानं मूलं, तत्र मानाभावात् ।
न चागम एव मानम्, आगममानत्वनिश्चये मूलनिश्चयस्तन्निश्चये तन्निश्चय इत्यन्योन्याश्रयात् ।
नच पुरुषवचसां स्वतोमानत्वं युक्तं, मिथो विरोधेन तत्त्वाव्यवस्थानाच्च ।
नाप्यनुमानादीश्वरः सर्वज्ञः कर्तैवेति निर्णयः संभवति, अनुमानस्य दृष्टानुसारित्वेन दृष्टविपरीतार्थासाधकत्वात् ।
तथाच लोके यादृशाः कर्तारो दृष्टान्तादृशा एव जगत्कर्तारो रागद्वेषादिमन्तः सिध्येयुः ।
यदि लोके विचित्रप्रासादादिकर्तुरेकत्वाद्यदर्शने ऽपि जगत्कर्तरि लाघवादेकत्वं नित्यज्ञानं निर्देषत्वं च कल्प्येत, तर्हि द्रव्योपादानत्वमपि कल्प्यतां, कर्तुरेवोपादानत्वेन लाघवात्, अन्यथा स्वतन्त्रप्रधानपरमाण्वाद्युपादानकल्पनागौरवात् ।
अदृष्टत्वाच्चेत्कर्तुर्द्रव्योपादानत्वासिद्धिरेकत्वादिकमपि न सिध्येत् ।
अस्माकं त्वपौरुषेयतया स्वतःसिद्धप्रमाणभावया श्रुत्या स्वप्रमेयबोधने दृष्टान्तानपेक्षया भवत्येव लौकिककर्तृविपरीताद्वितीयकर्त्रुपादानात्मकसर्वज्ञनिर्देषेश्वरनिर्णयः ।
निर्णीते च तस्मिन् धर्मिग्राहकमानबाधान्न रागादिदोषापादानस्यावकाश इत्यानुमानिकेश्वरवादिभ्यो वैषम्यं, तदभिप्रेत्याश्रौतस्येश्वरस्यासामञ्जस्यमाह-#हीनेति ।
यदि कर्तुरुपादानत्वमदृष्टत्वान्न कल्प्यते तर्हि निर्देषत्वस्याप्यदृष्टत्वाद्यो विषमकारी स दोषवानिति व्याप्तिदृष्टेश्च जगत्कर्ता दोषवान् स्यात् ।
न चात्र धर्मिग्राहकानुमानबाधः, कार्यत्वलिङ्गस्य कर्तृमात्रसाधकत्वेन निर्देषत्वादावुदासीनत्वात् ।
न चोत्कर्षसमा जातिः, व्यापकधर्मापादानात्, दोषाभावे तद्व्याप्यविषमकर्तृत्वायोगाच्च ।
दृष्टान्तस्थाव्यापकधर्माणां पक्षे आपादनं ह्युत्कर्षसमा जातिः ।
यथा शब्दो यदि कृतकत्वेन हेतुना घटवदनित्यः स्यात्तर्हि तेनैव हेतुना सावयवो ऽपि स्यादिति ।
न ह्यनित्यत्वस्य व्यापकं सावयवत्वं गन्धादौ व्यभिचारादिति भावः ।
ननु प्राणिकर्मप्रेरित ईश्वरो विषमफलान् प्राणिनः करोति न स्वेच्छयेति शङ्कते-#प्राणीति ।
जडस्य कर्मणः प्रेरकत्वायोगान्मैवमित्याह-#नेति ।
न चेश्वरप्रेरितं कर्मेश्वरस्य प्रेरकमिति वाच्यमित्याह-#कर्मेति ।
अतीतकर्मणा प्रेरित ईश्वरो वर्तमानं कर्म तत्फलाय प्रेरयतीत्यनादित्वात्प्रेर्यप्रेरकभावस्य नानुपपत्तिरिति शङ्कते-#नानादित्वादिति ।
अतीतकर्मणो ऽपि जडत्वान्नेश्वरप्रेरकता ।
नच तदपीश्वरेण प्रेरितं सदीश्वरं प्रेरयति, उक्तान्योन्याश्रयात् ।
ततो ऽप्यतीतकर्मप्रेरितेश्वरप्रेरितं तदेवेश्वरं वर्तमाने कर्मणि फलदानाय प्रेरयति चेत् ।
न ।
मानहीनाया मूलक्षयावहाया अनवस्थायाः प्रसङ्गात् ।
अतः कर्मनिरपेक्ष एवेश्वरो विषमस्रष्टेत्यसामञ्जस्यं दुर्वारमित्यर्थः ।
यत्तु फलदाने ईश्वरस्य कर्म निमित्तमात्रं न प्रेरकमिति नोक्तदोष इति ।
तन्न ।
विषमकर्मकारयितुरीश्वरस्य दोषवत्त्वानपायात्, पूर्वकर्मापेक्षया कर्मकारयितृत्वे चोक्ताप्रामाणिकानवस्थानात् ।
अस्माकं तु ऽएष ह्येव साध्वसाधु कारयतिऽइति, ऽनिरवद्यम्ऽइति च श्रुतिमूलं पूर्वकर्मापेक्षाकल्पनमिति वैषम्यम् ।
किञ्च परमतानुसारेणापीश्वरस्य रागादिमत्त्वं प्राप्नोतीत्याह-#अपिचेति ।
प्रवर्तकत्वलिङ्गाद्दोषा इति तार्किकाणां स्थितिः, तथाचेश्वरः स्वार्थे रागादिमान्, प्रवर्तकत्वात्, संमतवत् ।
नच कारुणिके व्यभिचारः, परदुःखप्रयुक्तस्वदुःखनिवृत्त्यर्थित्वात्तस्येत्यर्थः ।
उदासीनः प्रवर्तक इति च व्याहृतमिति योगान्प्रत्याह-#पुरुषेति ॥37॥
एन्द् ब्स्र्प्_2,2.7.37
स्तर्त् ब्स्र्प्_2,2.7.38ः
संबन्धानुपपत्तेश् च

2.2.39

प्रधानवादे दोषान्तरमाह सूत्रकारः-#संबन्धेति ।
ईश्वरेणासंबद्धस्य प्रधानादेः प्रेर्यत्वायोगात्संबन्धो वाच्यः ।
स च संयेगः समवायो वा नास्तीत्यर्थः ।
कार्यबलात् प्रेरणयोग्यात्वाख्यः संबन्धः कल्प्यतामित्यत आह-#नाप्यन्य इति ।
ईश्वरप्रेरितप्रधानकार्यं जगदिति सिद्धं चेत् संबन्धकल्पना स्यात् ।
तच्चाद्याप्यसिद्धमित्यर्थः ।
मायाब्रह्मणोस्त्वनिर्वाच्यतादात्म्यसंबन्धः, ऽदेवात्मशक्तिम्ऽइति श्रुतेः ।
किञ्च वेदस्यापूर्वार्थत्वान्न लोकदृष्टमृत्कुलालसंबन्धो वैदिकेनानुसर्तव्यः ।
आनुमानिकेन त्वनुसर्तव्य इति विशेषमाह-#अपिचेति ।
सर्वज्ञस्यागमप्रामाण्यस्य च ज्ञप्तावन्योन्याश्रयः, अनुमानात्सर्वज्ञसिद्धेर्निरस्तत्वात् ।
न ह्यमनस्कस्य ज्ञानं संभवति, ज्ञानं मनोजन्यमिति व्याप्तिविरोधान्नित्यज्ञानकल्पनानवकाशादिति भावः ।
प्रधानवत्परमाणूनामपि निरवयवेश्वरेण संयोगाद्यसत्त्वात्प्रेर्यत्वायोगः , प्रेरकत्वे चेश्वरस्य दोषवत्त्वमित्याह-#एवमन्यास्वपीति ॥38॥
एन्द् ब्स्र्प्_2,2.7.38
स्तर्त् ब्स्र्प्_2,2.7.39ः
अधिष्ठानानुपपत्तेश् च

2.2.40

ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः-#अधिष्ठानेति ।
प्रधानादिकं चेतनस्यानधिष्ठेयं, अप्रत्यक्षत्वात्, ईश्वरवत्, व्यतिरेकेण मृगादिवच्चेत्यर्थः ॥39॥
एन्द् ब्स्र्प्_2,2.7.39
स्तर्त् ब्स्र्प्_2,2.7.40ः
करणवच् चेन् न भोगादिभ्यः

2.2.41

चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति-#करणवदिति ।
रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति-#रूपेति ।
स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह-#तथापीति ।
भोगः सुखदुःखानुभवः ।
आदिपदाद्विषयानुभवग्रहः ।
नच यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यं, भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात्, करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् ।
नच विशेष्यवैयर्थ्यं, परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् ।
नच प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः ।
जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः ।
विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति-#करणेति ।
प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् ।
अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः ।
सूत्रद्वयस्यार्थान्तरमाह-#अन्यथा वेति ।
यः प्रवर्तकश्चेतनः स शरीरीति लोके व्याप्तिदृष्टेरीश्वरस्य च शरीरानुपपत्तेर्न प्रवर्तकत्वमिति सूत्रार्थमाह-#इतश्चेति ।
किमतं सेश्वरं, कार्यत्वात्, राष्ट्रवदिति कल्पयतो राजवत्सशरीर एवेश्वरः स्यादित्युक्तम् ।
तत्रेष्टापत्तिं निरस्यति-#नच तद्वर्णयितुमिति ।
नच नित्यं शरीरं सर्गात्प्रागपि संभवतीति वाच्यं, शरीरस्य भौतिकत्वनियमादित्यर्थः ।
अस्त्वशरीर एवेश्वर इत्यत आह-#निरधिष्ठानत्वे #चेति ।
जीवस्यैव शरीरं भौतिकमीश्वरस्य तु स्वेच्छानिर्मितं प्रागपि स्यादित्याशङ्कां निरस्यति-#करणवदिति ।
करणान्यत्र सन्तीति करणवच्छरीरम् ।
इच्छामयशरीरकल्पनैवानुपपन्ना, मानाभावाद्दृष्टभौतिकत्वनियमविरोधाच्चेति मन्तव्यम् ॥40॥
एन्द् ब्स्र्प्_2,2.7.40
स्तर्त् ब्स्र्प्_2,2.7.41ः
अन्तवत्त्वम् असर्वज्ञता वा

2.2.42

एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयो ऽपि न संभवतीत्याह सूत्रकारः-#अन्तवत्वमिति ।
प्रधानपुरुषेश्वरत्रयमनित्यं, इयत्तापरिच्छिन्नत्वात् घटवदित्याह-#पूर्वस्मिन्निति ।
संख्या वा परिमाणं वेयत्ता ।
तथाच निश्चितसंख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् ।
यद्यपि संख्यावत्वमात्रं हेतुः संभवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् ।
तत्राद्यहेतोरसिद्धिर्नास्तीत्याह-#संख्यापरिमाणमिति ।
संख्यास्वरूपमित्यर्थः ।
द्वितीयहेतुं साधयति-#स्वरूपेति ।
प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात्, घटवदित्यर्थः ।
ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञाते ऽपि जीवानामानन्त्यात्कथं संख्यानिश्चयः, तत्राह-#पुरुषेति ।
जीवसंख्यापीश्वरेण निश्चीयते ।
अनिश्चये सर्वज्ञत्वायोगादित्यर्थः ।
हेतुसिद्धेः फलमाह-#ततश्चेति ।
माषराशिवत्केषाञ्चिज्जीवानां संघस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः ।
नित्यस्यानवशेषादिति भावः ।
ननु ईश्वरः शिष्यतामिति चेत् ।
न ।
तस्यापि भिन्नित्वेनान्तवत्त्वात् ।
किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह-#प्रधानमिति ।
दोषान्तरमाह-#प्रधानेति ।
इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते-#अथेति ।
इयत्ता नास्ति न निश्चीयते चेत्यर्थः ।
प्रदानादयः संख्यापरिमाणवन्तः, द्रव्यत्वात्, माषादिवदित्यनुमानादादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति-#तत इति ।
तस्मात् केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न तर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम् ॥41॥
एन्द् ब्स्र्प्_2,2.7.41
स्तर्त् ब्स्र्प्_2,2.8.42ः
उत्पत्त्यसंभवात्

2.2.43

पञ्चपदार्थवादिमाहेश्वरमतनिरासानन्तरं चतुर्व्यूहवादं बुद्धिस्थं निरस्यति-#उत्पत्त्यसंभवात् ।
अधिकरणतात्पर्यमाह-#येषामिति ।
अधिकरणारम्भमाक्षिपति-#नन्विति ।
वेदाविरुद्धांशमङ्गीकृत्य वेदविरुद्धं जीवोत्पत्त्यंशं निराकर्तुमधिकरणारम्भ इत्याह-#उच्यत इति ।
अत्र भागवतपञ्चरात्रागमो विषयः ।
स किं जीवोत्पत्त्याद्यंशे मानं नवेति संदेहे बाधानुपलम्भान्मानमिति पूर्वपक्षयति-#तत्रेति ।
पूर्वपक्षे तदागमविरोधाज्जीवाभिन्नब्रह्मसमन्वयासिद्धिः, सिद्धान्ते तदंशे तस्यामानत्वादविरोधात्तत्सिद्धिरिति फलभेदः ।
सावयवत्वं निरस्यति-#निरञ्जनेति ।
कथं तर्ह्यद्वितीये वासुदेवे मूर्तिभेदः, तत्राह-#स इति ।
व्यूहो मूर्तिः ।
सविशेषं शास्त्रार्थमुक्त्वा सहेतुं पुरुषार्थमाह-#तमित्थंभूतमिति ।
यथोक्तव्यूहवन्तं सर्वप्रकृतिं निरञ्जनं विज्ञानरूपं परमात्मानमिति यावत् ।
वाक्कायचेतसामवधानपूर्वकं देवतागृहगमनमभिगमनम् ।
पूजाद्रव्याणामर्जनमुपादानम् ।
इज्या पूजा ।
स्वाध्यायो ऽष्टाक्षरादि जपः ।
योगो ध्यानम् ।
तत्राविरुद्धांशमुपादत्ते-#तत्रेति ।
ऽसमाहितः श्रद्धावित्तो भूत्वाऽइति, ऽतं यथा यथोपासतेऽइत्याद्या च श्रुतिः ।
ऽमत्कर्मकृन्मत्परमःऽइत्याद्या स्मृतिः ।
विरुद्धांशमनूद्य दूषयति-#यत्पुनरिति ।
कृतहान्यादिदोष आदिशब्दार्थः ।
न्यायोपेतया ऽअज आत्माऽइत्यादिश्रुत्या पञ्चरात्रागमस्योत्पत्त्यंशे मानत्वाभावनिश्चयाज्जीवाभिन्नब्रह्मसमन्वयस्थैर्यमिति भावः ॥42॥
एन्द् ब्स्र्प्_2,2.8.42
स्तर्त् ब्स्र्प्_2,2.8.43ः
न च कर्तुः करणम्

2.2.44

जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति-#नच कर्तुरिति ।
यस्मात् कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसंगता कल्पनेत्यन्वयः ।
सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः ।
वर्णनं निर्मूलमित्याह-#नवेति ।
ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् ।
सत्यम् ।
शिल्प्नो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तं, जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् ।
विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः ॥43॥
एन्द् ब्स्र्प्_2,2.8.43
स्तर्त् ब्स्र्प्_2,2.8.44ः
विज्ञानादिभावे वा तदप्रतिषेधः

2.2.45

संकर्षणादीनामुत्पत्त्यसंभवे ऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते-#अथापि स्यादिति ।
ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यं, बलं शरीरसामर्थ्यं, वीर्यं शौर्यं, तेजः प्रागल्भ्यमेतैरन्विता यस्मात्संकर्षणादयस्तस्मादीश्वरा एवेत्यर्थः ।
सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह-#वासुदेवा एवेति ।
निर्देषा रागादिशून्याः ।
निरधिष्ठानाः प्रकृत्यजन्याः ।
निरवद्या नाशादिरहिता इत्यर्थः ।
ईश्वरत्वाज्जन्मासंभवो गुण एवेत्याह-#तस्मादिति ।
सूत्रेण सिद्धान्तयति-#अत्रेति ।
एवमपि ।
चतुर्णामीश्वरत्वेन विज्ञानशक्यादिभावे ऽपीत्यर्थः ।
प्रकारान्तरं पृच्छति-#कथमिति ।
किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः ।
आद्यमनूद्य दूषयति-#यदीत्यादिना ।
द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा ।
आद्यमुत्थाप्य निषेधति-#अथेत्यादिना ।
न्यूनत्वपक्षे ऽपसिद्धान्तमाह-#नच पञ्चेति ।
यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह-#नचैत इति ॥44॥
एन्द् ब्स्र्प्_2,2.8.44
स्तर्त् ब्स्र्प्_2,2.8.45ः
विप्रतिषेधाच् च

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc