ब्रह्मसूत्र · अध्याय 2.1
एतेन सर्वे व्याख्याताः ।
अस्यातिदेशाधिकरणस्य तात्पर्यं वक्तुं वृत्तमनुवदति- ईक्षतेरिति ।
प्रधानवादस्य प्राधान्येन निराकरणे हेतूनाह- तस्य हीत्यादिना ।
तर्ह्यण्वादिवादा उपेक्षणीयाः, दुर्बलत्वादित्यत आह- ते ऽपि त्विति ।
निर्मूलास्ते कथं प्रतिपक्षा इत्यत आह- तेषामिति ।
तथा हि छान्दोग्ये जगत्कारणत्वज्ञापनार्थं पिता पुत्रमुवाच, आसां वटधानानां मध्ये एकां भिन्धीति ।
भिन्ना भगव इत्युवाच पुत्रः ।
पुनः पित्रा किमत्र पश्यसीत्युक्ते न किञ्चन भगव इत्याह ।
तत्र पित्राणिमानं न पश्यसीत्युक्तं, तथा च न किञ्चनशब्दाच्छून्यस्वभाववादौ प्रतीयेते, अणुशब्दात्परमाणुवाद इति ।
एवं ऽअसदेवेदमग्र आसीत्ऽ ऽअणोरणीयान्ऽइत्यादिलिङ्गं द्रष्टव्यम् ।
अत्राण्वादिवादाः श्रौता न वेति संशये सत्यसदण्वादिशब्दबलाच्छ्रौता इति प्राप्ते ऽतिदिशति- एतेनेति ।
अस्यातिदेशत्वान्न पृथक् संगत्याद्यपेक्षा ।
न किञ्चनासच्छब्दयोः प्रत्यक्षायोग्यवस्तुपरत्वादाणुशब्दस्य सूक्ष्माभिप्रायत्वादशब्दत्वं, तेषां वादानां प्रधानवादवदश्रौतत्वं, ब्रह्मकारणश्रुतिबाधितत्वं च, तस्माद्ब्रह्मैव परमकारणं, तस्मिन्नैव सर्वेषां वेदान्तानां समन्वय इति सिद्धम् ॥28॥
एन्द् ब्स्र्प्_1,4.7.28
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य यतुर्थः पादः ॥4॥
॥ इति प्रथमाध्याये ऽव्यक्तादिसंदिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥
॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमो ऽध्यायः ॥
अथ द्वितीयो ऽध्यायः ।
सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥1॥
सांख्यादिस्मृतियुक्तिभिर्न चलितो वेदान्तसिद्धान्तगो निर्मूलैर्विविधागमैरविदितो व्योमादिजन्माप्ययः ।
उत्पत्त्यन्तविवर्जितश्चितिवपुर्व्यापि च कर्तांशको लिङ्गेन प्रथितो ऽपि नामतनुकृत्तं जानकीशं भजे ॥2॥
स्तर्त् ब्स्र्प्_2,1.1.1ः
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात्
ऽनामरूपे व्याकरवाणिऽइति श्रुतेर्नामतनुकृदपि संज्ञामूर्तिव्याकर्तापि लिङ्गशरीरोपाधिना कर्तेति अंश इति च प्रथितः प्रसिद्धो यस्तं प्रत्यगभिन्नं परमात्मानं मूलप्रकृतिनियन्तारं भजे इत्यर्थः ।
स्मृतिप्रसङ्गात्पूर्वोत्तराध्याययोर्विषयविषयिभावसंगतिं वक्तुं वृत्तं कीर्तयति-#प्रथमे ऽध्याय इति ।
जन्मादिसूत्रमारभ्य जगदुत्पत्त्यादिकारणं ब्रह्मेति प्रतिपादितं, ऽशास्त्रदृष्ट्या तुऽइत्यादिसूत्रेषु स एवाद्वितीयः सर्वात्मेत्युक्तं, ऽआनुमानिकम्ऽइत्यादिना कारणान्तरस्याश्रौतत्वं दर्शितमित्यर्थः ।
एवं प्रथमाध्यायस्यार्थमनूद्य तस्मिन् विषये विरोधपरिहारविषयिणं द्वितीयाध्यायस्यार्थं पादशः संक्षिप्य कथयति-#इदानीमिति ।
अत्र प्रथमपादे समन्वयस्य सांख्यादिस्मृतियुक्तिभिर्विरोधपरिहारः क्रियते ।
द्वितीयपादे सांख्याद्यागमानां भ्रान्तिमूलत्वमविरोधाय कथ्यते ।
तृतीयपादे प्रतिवेदान्तं सृष्टिश्रुतीनां जीवात्मश्रुतीनां च व्योमादिमहाभूतानां जन्मलयक्रमादिकथनेनाविरोधः प्रतिपाद्यते ।
चतुर्थपादे लिङ्गशरीरश्रुतीनामविरोध इत्यर्थः ।
अयमेवार्थः ।
सुखबोधार्थं श्लोकेन संगृहीतः-ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता ।
भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धता ॥
ऽइति ।
तत्राज्ञाते विषये विरोधशङ्कासमाध्ययोगात्समन्वयाध्यायानन्तर्यमविरोधाध्यायस्य युक्तम् ।
तत्र प्रथमाधिकरणतात्पर्यमाह-#प्रथममिति ।
श्रौते समन्वये विरोधनिरासार्थत्वादस्य पादस्य श्रुतिशास्त्राध्यायसंगतयः स्वमतस्थापनात्मकत्वात्सर्वेषामधिकरणानामेतत्पादसंगतिः ।
अत्र पूर्वपक्षे स्मृतिविरोधादुक्तसमन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
तत्र ब्रह्मण्युक्तवेदान्तसमन्वयो विषयः ।
स किं सांख्यस्मृत्या विरुध्यते न वेति स्मृतिप्रामाण्याप्रामाण्याभ्यां संदेहे पूर्वपक्षमाह-#यदुक्तमिति ।
तन्त्र्यन्ते व्युत्पाद्यन्ते तत्त्वान्यनेनेति तन्त्रं शास्त्रं कपिलोक्तम्, अन्याश्च पञ्चशिखादिभिः प्रोक्ताः, एवं सति वेदान्तानामद्वयब्रह्मसमन्वये निरर्थकाः स्युरित्यर्थः ।
तासामपि ब्रह्मार्थककत्वमस्तीत्यविरोध इत्यत आह-#तासु हीति ।
ननु सांख्यस्मृतिप्रामाण्याय प्रधानवादग्रहे मन्वादिस्मृतीनामप्रामाण्यं स्यादित्याशङ्क्य तासां धर्मे सावकाशत्वात्प्रमाण्यं स्यादित्याह-#मन्वादीति ।
तर्हि सांख्यादिस्मृतीनामपि धर्मे तात्पर्येण प्रामाण्यमस्तु, तत्त्वं तु ब्रह्मैवेत्यविरोध इत्यत आह-#नैवमिति ।
तत्त्वे विकल्पनानुपपत्तेर्निरवकाशस्मृत्यनुसारेण श्रुतिव्याख्यानमुचितं, सावकाशनिरवकाशयोर्निरवकाशं बलीय इति न्यायादित्याह-#तस्मादिति ।
श्रुतिविरोधे स्मृत्यप्रामाण्यस्येष्टत्वात्पूर्वपक्षो न युक्त इति शङ्कते-#कथमिति ।
ये स्वातन्त्र्येण श्रुत्यर्थं ज्ञातुं शक्नुवन्ति तेषामयं पूर्वपक्षो न भवेत्, सांख्यवृद्धेषु श्रद्धालूनां तु भवेदित्याह-#भवेदिति ।
तेषामतीन्द्रियार्थज्ञानवत्त्वाच्च तत्र श्रद्धा स्यादित्याह-#कपिलप्रभृतीनां चेति ।
ऽआदौ यो जायमानं च कपिलं जनयेदृषिम् ।
प्रसूतं बिभृयाज्ज्ञानैस्तं पश्येत्परमेश्वरम् ॥
ऽइति श्रुतियोजना ।
यथा सांख्यस्मृतिविरोधाद्ब्रह्मवादस्त्याज्य इति त्वयोच्यते तथा स्मृत्यन्तरविरोधात्प्रधानवादास्त्याज्य इति मयोच्यत इति सिद्धान्तयति-#तस्य समाधिरिति ।
तस्माद्ब्रह्मणः सकाशादव्यक्तं मायायां लीनम् ।
सूक्ष्मात्मकं जगदिति यावत् ।
इतिहासवाक्यान्युक्त्वा पुराणसंमतिमाह-#अतश्चेति ।
प्रभवत्यस्मादिति प्रभवो जन्महेतुः ।
प्रलीयते तस्मिन्निति प्रलयो लयाधिष्ठानम् ।
तस्मात् कर्तुरीश्वरात् काया ब्रह्मादयः प्रभवन्ति ।
स एव मूलमुपादानम् ।
किं परिणामि, न, शाश्वतिकः कूटस्थः ।
अतः स नित्य इत्यर्थः ।
ननु श्रुतिविरोधः किमिति नोक्त इत्यत आह-#स्मृतिबलेनेति ।
स्मृतीनां मिथो विरोधे कथं तत्त्वनिर्णयः, तत्राह-#दर्शितं त्विति ।
श्रुतिभिरेव तत्त्वनिर्णय इत्यर्थः ।
स्मृतीनां का गतिरित्यत आह-#विप्रतिपत्तौ चेति ।
वस्तुतत्त्वे स्मृतीनां मिथो विरोधे वस्तुनि विकल्पायोगात् कॢप्तश्रुतिमूलाः स्मृतयः प्रमाणं, इतरास्तु कल्प्यश्रुतिमूला न प्रमाणमित्यर्थः ।
कॢप्तश्रुतिविरोधे स्मृतिर्न प्रमाणमित्यत्रः जैमिनीयन्यायमाह-#तदुक्तमिति ।
ऽऔदुम्बरीं स्पृष्ट्वोद्गायेत्ऽइति प्रत्यक्षश्रुतिविरुद्धा ऽसा सर्वा वेष्टयितव्याऽइति स्मृतिर्मानं न वेति संदेहे, मूलश्रुत्यनुमानान्मानमिति प्राप्ते सिद्धान्तः-कॢप्तश्रुतिविरोधे स्मृतिप्रामाण्यमनपेक्षमपेक्षाशून्यम् ।
हेयमिति यावत् ।
हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति, अत्र तु विरोधे सति श्रुत्यनुमानायोगान्मूलाभावात् सर्ववेष्टनस्मृतिरप्रमाणमित्यर्थः ।
अस्तु सांख्यस्मृतिः प्रत्यक्षमूलेत्यत आह-#न चेति ।
योगिनां सिद्धिमहिम्नातीन्द्रियज्ञानं संभावयितुं शक्यमिति शङ्क्यते-#शक्यमिति ।
कपिलादिभिः किलादौ वेदप्रामाण्यं निश्चित्य तदर्थस्य धर्मस्यानुष्ठानेन सिद्धिः संपादिता, तया सिद्ध्या प्रणीतस्मृत्यनुसारेणानादिश्रुतिपीडा न युक्तोपजीव्यविरोधादिति परिहरति-#न ।
सिद्धेरपीति ।
अतिशङ्कितुमिति ।
श्रुतीनां मुख्यार्थमतिक्रम्योपचरितार्थत्वं शङ्कितुं न शक्यत इत्यर्थः ।
स्वतःसिद्धेर्वेदो नोपजीव्य इतिचेत् न ।
अनीश्वरस्य स्वतःसिद्धौ मानाभावात् ।
अङ्गीकृत्याप्याह-#सिद्धेति ।
सिद्धानां वचनमाश्रित्य वेदार्थकल्पनायामपि सिद्धोक्तीनां मिथो विरोधे श्रुत्याश्रितमन्वाद्युक्तिभिरेव वेदार्थनिर्णयो युक्त इत्यर्थः ।
श्रुतिरूपाश्रयं विना सिद्धोक्तिमात्रं न तत्त्वनिर्णयकारणमित्यक्षरार्थः ।
ननु मन्दमतेः सांख्यस्मृतौ श्रद्धा भवति तस्य मतिर्वेदान्तमार्गे कथमानेयेत्यत आह-#परतन्त्रेत्यादिना ।
ननु श्रुत्या कपिलस्य सर्वज्ञत्वोक्तेस्तन्मते श्रद्धा दुर्वारेत्यत आह-#या त्विति ।
कपिलशब्दमात्रेण सांख्यकर्ता श्रौत इति भ्रान्तिरयुक्ता, तस्य द्वैतवादिनः सर्वज्ञत्वायोगात् ।
अत्र च सर्वज्ञानसंभृतत्वेन श्रुतः कपिलो वासुदेवांश एव ।
स हि सर्वात्मत्वज्ञानं वैदिकं सांख्यमुपदिशतीति सर्वज्ञ इति भावः ।
प्रतप्तुः प्रदाहकस्य ।
किञ्च यः कपिलं ज्ञानैर्बिभर्ति तमीश्वरं पश्येदिति विधीयते, तथा चान्यार्थस्य ईश्वरप्रतिपत्तिशेषस्य कपिलसर्वज्ञत्वस्य दर्शनमनुवादस्तस्य मानान्तरेण प्राप्तिशून्यस्य स्वार्थसाधकत्वायोगान्नानुवादमात्रात्सर्वज्ञात्वप्रसिद्धिरित्याह-#अन्यार्थेति ।
द्वैतवादिनः कपिलस्य श्रौतत्वं निरस्य ब्रह्मवादिनो मनोः श्रौतत्वमाह-#भवति चेति ।
इतिहासे ऽपि कापिलमतनिन्दापूर्वकमद्वैतं दर्शितमित्याह-#महाभारते ऽपीति ।
पुरुषा आत्मानः किं वस्तुतो भिन्ना उत सर्वदृश्यानां प्रत्यगात्मः एक इति विमर्शार्थः ।
बहूनां पुरुषाकाराणां देहानां यथैका योनिरुपादानं पृथ्वी तथा तं पुरुषमात्मानं विश्वं सर्वोपादानत्वेन सर्वात्मकं सर्वज्ञात्वादिगुणैः संपन्नं कथयिष्यामि ।
विश्वे सर्वे लोकप्रसिद्धा देवतिर्यङ्मनुष्यादीनां मूर्धानो ऽस्यैवेति विश्वमूर्धा, एकस्यैव सर्वक्षेत्रेषु प्रतिबिम्बभावेन प्रविष्टत्वात् ।
एवं विश्वयुजत्वादियोजना ।
सर्वभूतेष्वेकश्चरत्यवगच्छति ।
सर्वत्र इत्यर्थः ।
स्वैरचारी स्वतन्त्रः ।
नास्य नियन्ता कश्चिदस्ति ।
सर्वेश्वर इत्यर्थः ।
#यथासुखमिति ।
विशोकानन्दस्वरूप इति यावत् ।
कापिलतन्त्रस्य वेदमूलस्मृतिविरोधमुक्त्वा साक्षाद्वेदविरोधमाह-#श्रुतिश्चेति ।
यस्मिञ्ज्ञानकाले केवलं स्वतन्त्रप्रकृतिकल्पनयैव वेदविरुद्धं न किन्त्वात्मभेदकल्पनयापीति सिद्धमिति संबन्धः ।
स्मृतिविरोधे वेदस्यैवाप्रामाण्यं किं न स्यादित्यत आह-#वेदस्य हीति ।
वेदस्य प्रमाण्यं स्वतःसिद्धमपौरुषेयत्वात् ।
पौरुषेयवाक्यानां स्वार्थस्मृतितन्मूलानुभवयोः कल्पनया प्रमाण्यं ज्ञेयमिति व्यवहितं परतःप्रामाण्यमिति विप्रकर्षः ।
श्रुतिस्मृत्योर्विशेष इत्यक्षरार्थः ।
समयोर्विरोधे हि निरवकाशेन सावकाशं बाध्यम् ।
इह स्वतःपरतःप्रमाण्ययोर्वैषम्याज्झटिति निश्चितप्रामाण्येन चानुपसंजातविरोधिना वेदवाक्येन विरुद्धस्मृतेरेव बाध इति भावः ।
#तस्मादिति ।
विशेषादित्यर्थः ।
भ्रान्तिमूलत्वसंभवादिति भावः ॥1॥
एन्द् ब्स्र्प्_2,1.1.1
स्तर्त् ब्स्र्प्_2,1.1.2ः
इतरेषां चानुपलब्धेः
महदहङ्कारौ तावदप्रसिद्धौ, अहङ्कारप्रकृतिकत्वेन तन्मात्राण्यप्यप्रसिद्धानि स्मर्तुं न शक्यन्त इत्याह-#इतरेषां चेति ।
ननु ऽमहतः परमव्यक्तम्ऽइतिश्रुतिप्रसिद्धानि महदादीनीत्यत आह-#यदपीति ।
सूत्रतात्पर्यमाह-#कार्येति ।
सांख्यस्मृतेर्महदादिष्विव प्रधाने ऽपि प्रामाण्यं नेति निश्चीयत इत्यर्थः ।
सांख्यस्मृतेर्बाधे ऽपि तदुक्तयुक्तीनां कथं बाध इत्यत आह-#तर्केति ॥2॥
एन्द् ब्स्र्प्_2,1.1.2
स्तर्त् ब्स्र्प्_2,1.2.3ः
एतेन योगः प्रत्युक्तः
ब्रह्मण्युक्तसमन्वयः प्रधानवादियोगस्मृत्या विरुध्यते न वेति संदेहे पूर्वन्यायमतिदिशति-#एतेन योगः प्रत्युक्तः ।
अतिदेशत्वात्पूर्ववत्संगत्यादिकं द्रष्टव्यम् ।
पूर्वत्रानुक्तनिरासं पूर्वपक्षमाह-#अस्तिह्यत्रेति ।
निदिध्यासनं योगः ।
त्रीणि उरोग्रीवाशिरांस्युन्नतानि यस्मिञ्शरीरे तन्त्र्युन्नतम् त्रिरुन्नतमितिपाठश्चेच्छान्दसः ।
युञ्जीतेति शेषः ।
न केवलं योगे विधिः किन्तु योगस्य ज्ञापकान्यर्थवादवाक्यान्यपि सन्तीत्याह-#लिङ्गानि चेति ।
तां पूर्वोक्तां धारणां योगविदो योगं परमं तप इति मन्यन्ते ।
उक्तामेतां ब्रह्मविद्यां योगिविधिं ध्यानप्रकारं च मृत्युप्रसादान्नचिकेता लब्धा ब्रह्म प्राप्त इति संबन्धः ।
योदस्मृतिः प्रधानादितत्त्वांशे ऽपि प्रमाणत्वेन स्वीकार्यां ।
संप्रतिपन्नः प्रामाणिकोर्ऽथैकदेशो योगरूपो यस्यास्तत्त्वादित्यर्थः ।
ऽअष्टकाः कर्तव्याःऽ ऽगुरुरनुगन्तव्यःऽइत्यादिस्मृतीनां वेदाविरुद्धार्थकत्वान्मूलश्रुत्यनुमानेन प्रामाण्यमुक्तं प्रमाणलक्षणे ।
एवं योगस्मृतेर्योगे प्रामाण्यात्तत्त्वांशे ऽपि प्रामाण्यमिति पूर्वपक्षमनूद्य सिद्धान्तयति-#इयमिति ।
ननु बौद्धादिस्मृतयो ऽत्र किमिति न निराकृता इत्यत आह-#सतीष्वपीति ।
तासां प्रतारकत्वेन प्रसिद्धत्वादशिष्टैः पशुप्रायैर्गृहीतत्वाद्वेदबाह्यत्वाच्चात्रोपेक्षेति भावः ।
#तत्कारणमिति ।
तेषां प्रकृतानां कामानां कारणं सांख्ययोगाभ्यां विवेकध्यानाभ्यामभिपन्नं प्रत्यक्तया प्राप्तं देवं ज्ञात्वा सर्वपाशैरविद्यादिभिर्मुच्यत इत्यर्थः ।
समूलत्वे स्मृतिद्वयस्य निरासः किमिति कृत इत्यत आह-#निराकरणं त्विति ।
इति हेतोः ।
कृतमिति शेषः ।
#प्रत्यासत्तेरिति ।
श्रुतिस्थसांख्ययोगशब्दयोः सजातीयश्रुत्यर्थग्राहित्वादिति यावत् ।
किं सर्वांशेषु स्मृत्यप्रामाण्यं, नेत्याह-#येन त्वंशेनेति ।
ब्रह्मवादस्य कणभक्षादिभिर्विरोधमाशङ्क्यातिदिशति-#एतेनेति ।
श्रुतिविरोधेनेत्यर्थः ।
उपकारकबाधो न युक्त इत्याशङ्क्य योंऽश उपकारकः स न बाध्यः किन्तु तत्त्वांश इत्याह-#तान्यपीति ।
तर्को ऽनुमानं,
तदनुग्राहिको युक्तिरुपपत्तिः ॥3॥
एन्द् ब्स्र्प्_2,1.2.3
स्तर्त् ब्स्र्प्_2,1.3.4ः
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात्
स्मृतीनामप्रामाण्यात्ताभिः समन्वयस्य न विरोध इति सिद्धान्तलक्षणत्वाद्वृत्तानुवादेनास्याधिकरणस्य तात्पर्यमाह-#ब्रह्मास्येति ।
पूर्वपक्षमाक्षिपति-#कुतःपुनरिति ।
अनवकाशे हेतुमाह-#ननु धर्म इवेति ।
मानान्तरानपेक्षे वेदैकसमधिगम्ये ब्रह्मण्यनुमानात्मकतर्कस्याप्रवेशः ।
तेनाक्षेपस्यानवकाशो भिन्नविषयत्वात्तर्कवेदयोरित्यर्थः ।
सिद्धस्य मानान्तरगम्यत्वादेकविषयत्वाद्विरोध इति पूर्वपक्षं समर्थयते-#भवेदयमिति ।
अवष्टम्भो दृष्टान्तः ।
नन्वेकविषयत्वेन विरोधे ऽपि श्रुतिविरोधान्मानान्तरमेव बाध्यतामित्यत आह-#यथा चेति ।
प्रबलश्रुत्या दुर्बलश्रुतिबाधवन्निरवकाशमानान्तरेण लक्षणावृत्त्या सावकाशश्रुतिनयनं युक्तमित्यर्थः ।
किञ्च ब्रह्मसाक्षात्कारस्य मोक्षहेतुत्वे प्रधानस्यान्तरङ्गं तर्कस्तस्यापरोक्षदृष्टान्तगोचरत्वेन प्रधानवदपरोक्षार्थविषयत्वात् ।
शब्दस्तु परोक्षार्थकत्वाद्बहिरङ्गमतस्तर्केण बाध्य इत्याह-#दृष्टेति ।
ऐतिह्यमात्रेण ।
परोक्षतयेति यावत् ।
अनुभवस्य प्राधान्यं दर्शयति-#अनुभवावसानं चेति ।
ऽनैषा तर्केण मतिःऽइत्यर्थवादेन तर्कस्य निषेधमाशङ्क्य विधिविरोधान्मैवमित्याह-#श्रुतिरपीति ।
एवं पूर्वपक्षं संभाव्य चेतनब्रह्मकारणवादिवेदान्तसमन्वयः, क्षित्यादिकं न चेतनप्रकृतिकं, कार्यद्रव्यत्वात्, घटवदिति सांख्ययोगन्यायेन विरुध्यते न वेति संदेहे स्मृतेर्मूलाभावाद्दुर्बलत्वे ऽप्यनुमानस्य व्याप्तिमूलत्वेन प्राबल्यात्तेन विरुध्यत इति प्रत्युदाहरणेन पूर्वपक्षयति-#न विलक्षणत्वादिति ।
पूर्वोत्तरपक्षयोः समन्वयासिद्धि, तत्सिद्धिश्चेति पूर्ववत्फलम् ।
जगन्न ब्रह्मप्रकृतिकं, तद्विलक्षणत्वात्, यद्यद्विलक्षणं तन्न तत्प्रकृतिकं, यथा मृद्विलक्षणा रुचकादय इत्यर्थः ।
सुखदुःखमोहाः सत्त्वरजस्तमांसि ।
तथा च जगत् सुखदुःखमोहात्मकं सामान्यप्रकृतिकं, तदन्वितत्वात्, यदित्थं तत्तथा यथा मृदन्विता घटादय इत्याह-#मृदैवेति ।
विलक्षणत्वं साधयति-#ब्रह्मविलक्षणत्वं चेति ।
यथा हि एक एव स्त्रीपिण्डः पतिसपत्न्युपपतीनां प्रीतिपरितापविषादादीन्करोति, एवमन्ये ऽपि भावा द्रष्टव्याः ।
तत्र प्रीतिः सुखं, परितापः शोकः, विषादो भ्रमः, आदिपदाद्रागादिग्रहः ।
उभयोश्चेतनत्वेन साम्यादुपकार्योपकारकभावो न स्यादित्ययुक्तं, स्वामिभृत्ययोर्व्यभिचारादिति शङ्कते-#ननु चेतनमपीति ।
भृत्यदेहस्यैव स्वामिचेतनोपकारकत्वान्न व्यभिचार इत्याह-#नेत्यादिना ।
उत्कर्षापकर्षशून्यत्वाच्चेतनानां मिथो नोपकारकत्वमित्याह-#निरतिशया इति ।
तस्मादुपकारकत्वात् ।
श्रुतचेतनप्रकृतिकत्वबलेन जगच्चेतनमेवेत्येकदेशिमतमुत्थापयति-#यो ऽपीति ।
घटादेश्चेतनत्वमनुपलब्धिबाधितमित्यत आह-#अविभावनं त्विति ।
अन्तःकरणान्यपरिणामत्वात्सतो ऽपि चैतन्यस्यानुपलब्धिरित्यर्थ ।
अन्तःकरणादन्यस्य वृत्त्युपरागदशायामेव चैतन्याभिव्यक्तिर्नान्यदेति भावः ।
वृत्त्यभावे चैतन्यानभिव्यक्तौ दृष्टान्तः-#यथेति ।
आत्मानात्मनोश्चेतनत्वे स्वस्वामिभावः कुत इत्यत आह-#एतस्मादेवेति ।
साम्ये ऽपि प्रातिस्विकस्वरूपविशेषात् शेषित्वे दृष्टान्तः-#यथा चेति ।
चेतनाचेतनभेदः कथमित्यत आह-#प्रविभागेति ।
चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यामित्यर्थः ।
सर्वस्य चेतनत्वमेकदेश्युक्तमङ्गीकृत्य सांख्यः परिहरति-#तेनापि कथञ्चिदिति ।
अङ्गीकारं त्यक्त्वा सूत्रशेषेण परिहरति-#न चेत्यादिना ।
इतरच्चेतनाचेतनत्वरूपम् ।
वैलक्षण्यं तथात्वशब्दार्थः ।
श्रुतार्थापत्तिः शब्देन बाध्येति भावः ॥4॥
एन्द् ब्स्र्प्_2,1.3.4
स्तर्त् ब्स्र्प्_2,1.3.5ः
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम्
श्रुतिसाहाय्यान्न बाध्येत्युत्तरसूत्रव्यावर्त्यं शङ्कते-#नन्विति ।
मृदादीनां वक्तृत्वादिश्रुतेस्तदभिमानिविषयत्वात्, तथा ऽविज्ञानं चाविज्ञानं चऽइति चेतनाचेतनविभागशब्दस्योपचरितार्थत्वं न युक्तमिति सांख्यः समाधत्ते-#अभिमानीति ।
संवदनं विवादः ।
न भूतमात्रमिन्द्रियमात्रं वा चेतनत्वेन व्यपदिश्यते ।
लोकवेदप्रसिद्धविभागबाधायोगादित्यर्थः ।
विशेषपदस्यार्थान्तरमाह-#अपि चेति ।
अहंश्रेयसे स्वस्वश्रेष्ठत्वाय प्राणा विवदमाना इत्युक्तप्राणानां चेतनवाचिदेवतापदेन विशेषितत्वात् प्राणादिपदैरभिमानिव्यपदेश इत्यर्थः ।
प्राणे निःश्रेयसं श्रैष्ठ्यं विदित्वा प्राणाधीना जाता इत्यर्थः ।
अनुगतिं बहुधा व्याचष्टे-#अनुगताश्चेति ।
तस्मै प्राणाय, बलिहरणं वागादिभिः स्वीयवसिष्ठत्वादिगुणसमर्पणं कृतम् ।
तेजआदिनामीक्षणं त्वयैवेक्षत्यधिकरणे चेतननिष्ठतया व्याख्यातं द्रष्टव्यमित्यर्थः ।
यस्मान्नास्ति जगतश्चेतनत्वं तस्मादिति पूर्वपक्षोपसंहारः ॥5॥
एन्द् ब्स्र्प्_2,1.3.5
स्तर्त् ब्स्र्प्_2,1.3.6ः
दृश्यते तु
किं यत्किञ्चिद्वैलक्षण्यं हेतुः, बहुवैलक्षण्यं वा ।
आद्ये व्यभिचारमाह-#नायमेकान्तः ।
दृश्यते हीति ।
हेतोरसत्त्वान्न व्यभिचार इति शङ्कते-#नन्विति ।
यत्किञ्चिद्वैलक्षण्यमस्तीति व्यभिचार इत्याह-#उच्यत इति ।
शरीरस्य केशादीनां च प्राणित्वाप्राणित्वरूपं वैलक्षण्यमस्तीत्यर्थः ।
द्वितीये ऽपि तत्रैव व्यभिचारमाह-#महानिति ।
परिणामिकः ।
केशादीनां स्वगतपरिणामात्मक इत्यर्थः ।
किञ्च ययोः प्रकृतिविकारभावस्तयोः सादृश्यं वदता वक्तव्यं किमात्यन्तिकं यत्किञ्चिद्वेति ।
आद्ये दोषमाह-#अत्यन्तेति ।
द्वितीयमाशङ्क्य ब्रह्मजगतोरपि तत्सत्त्वात्प्रकृतिविकृतित्वसिद्धिरित्याह-#अथेत्यादिना ।
विलक्षणत्वं विकल्प्य दूषणान्तरमाह-#विलक्षणत्वेनेत्यादिना ।
जगति समस्तस्य ब्रह्मस्वभावस्य चेतनत्वादेरननुवर्तनान्न ब्रह्मकार्यमिति पक्षे सर्वसाम्ये प्रकृतिविकारत्वमित्युक्तं स्यात्, तदसंगतमित्याह-#प्रथम इति ।
तृतीये तु दृष्टान्ताभाव इति ।
नच जगन्न ब्रह्मप्रकृतिकमचेतनत्वादविद्यावदिति दृष्टान्तो ऽस्तीति वाच्यं, अनादित्वस्योपाधित्वात् ।
नच ध्वंसे साध्याव्यापकता, तस्यापि कार्यसंस्कारात्मकस्य भावत्वेन ब्रह्मप्रकृतिकत्वादभावत्वाग्रहे चानादिभावत्वस्योपाधित्वादिति ।
संप्रति कल्पत्रयसाधारणं दोषमाह-#आगमेति ।
पूर्वोक्तमनूद्य ब्रह्मणः शुष्कतर्कविषयत्वासंभवान्न तर्केणाक्षेप इत्याह-#यत्तूक्तमित्यादिना ।
लिङ्गसादृश्यपदप्रवृत्तिनिमित्तानामभावादनुमानोपमानशब्दानामगोचरः ।
ब्रह्म लक्षणया वेदैकवेद्यमित्यर्थः ।
एषा ब्रह्मणि मतिस्तर्केण स्वतन्त्रेण नापनेया न संपादनीया ।
यद्वा कुतर्केण न बाधनीया ।
कुतार्किकादन्येनैव वेदविदाचार्येण प्रोक्ता मतिः सुज्ञानायानुभवाय फलाय भवति ।
हे प्रेष्ठ, प्रियतमेति नचिकेतसं प्रति मृत्योर्वचनम् ।
इयं विविधा सृष्टिर्यतः आ समन्ताद्बभूव तं को अद्धा साक्षाद्वेद ।
तिष्ठतु वेदनं, क इह लोके तं प्रवोचत् प्रावोचत् ।
छान्दसो दीर्घलोपः ।
यथावद्वक्तापि नास्तीत्यर्थः ।
प्रभवं जन्म न विदुः मम सर्वादित्वेन जन्माभावात् ।
मिषेण मननविधिव्याजेन ।
शुष्कः श्रुत्यनपेक्षः ।
श्रुत्या तत्त्वे निश्चिते सत्यनु पश्चात् पुरुषदोषस्यासंभावनादेर्निरासाय गृहीतः श्रुत्यनुगृहीतः ।
तमाह-#स्वप्नान्तेति ।
जीवस्यावस्थावतो देहादिप्रपञ्चयुक्तस्य निष्प्रपञ्चब्रह्मैक्यमसंभवि, द्वैतग्राहिप्रामाणविरोधाद्ब्रह्मणश्चाद्वितीयत्वमयुक्तमित्येवं श्रौतार्थासंभावनायां, तन्निरासाय सर्वस्वास्वस्थास्वात्मनो ऽनुगतस्य व्यभिचारिणीभिरवस्थाभिरनन्वागतत्वमसंस्पृष्टत्वमवस्थानां स्वाभाविकत्वे ब्रह्म्यौष्णावदात्मव्यभिचारायोगात् सुषुप्तौ प्रपञ्चभ्रान्त्यभावे ऽसता सोम्यऽइत्युक्ताभेददर्शनान्निष्प्रपञ्चब्रह्मैक्यसंभवः, यथा घटादयो मृदभिन्नास्तथा जगद्ब्रह्माभिन्नं तज्जत्वादित्यादिस्तर्क आश्रीयत इत्यर्थः ।
इतो ऽन्यादृशतर्कस्यात्र ब्रह्मण्यप्रवेशादस्य चानुकूलत्वान्न तर्केणाक्षेपावकाश इति भावः ।
ब्रह्मणि शुष्कतर्कस्याप्रवेशः ।
सूत्रसंमत इत्याह-#तर्काप्रतिष्ठानादिति ।
विप्रलम्भकत्वमप्रमापकत्वम् ।
यदुक्तं एकदेशिना सर्वस्य जगतश्चेतनत्वोक्तौ विभागश्रुत्यनुपपत्तिरिति दूषणं सांख्येन ।
तन्न ।
तत्र तेनैकदेशिना विभागश्रुतेश्चैतन्याभिव्यक्त्यनभिव्यक्तिभ्यां योजयितुं शक्यत्वात् ।
सांख्यस्य त्विदं दूषणं वज्रलेपायते, प्रधानकार्यत्वे सर्वस्याचेतनत्वेन चेतनाचेतनकार्यविभागासंभवादित्याह-#यो ऽपीत्यादिना ।
सिद्धान्ते चेतनाचेतनवैलक्षण्याङ्गीकारे कथं ब्रह्मणः प्रकृतित्वमित्यत आह-#प्रत्युक्तत्वादिति ।
अप्रयोजकत्वव्यभिचाराभ्यां निरस्तत्वादित्यर्थः ॥6॥
एन्द् ब्स्र्प्_2,1.3.6
स्तर्त् ब्स्र्प्_2,1.3.7ः
असद् इति चेन् न प्रतिषेधमात्रत्वात्
कार्यमुत्पत्तेः प्रागसदेव स्यात्, स्वविरुद्धकारणात्मना सत्त्वायोगादित्यपसिद्धान्तापत्तिमाशङ्क्य मिथ्यात्वात्कार्यस्य कालत्रये ऽपि कारणात्मना सत्त्वमविरुद्धमिति समाधत्ते-#असदितिचेदित्यादिना ।
असत्यादिति सत्त्वप्रतिषेधो निरर्थक इत्यर्थः ।
कार्यसत्यत्वाभावे श्रुतिमाह-#सर्वं तमिति ।
मिथ्यात्वमजानतः शङ्कामनूद्य परिहरति-#नन्वित्यादिना ।
विस्तरेण चैतदिति ।
मिथ्यात्वमित्यर्थः ॥7॥
एन्द् ब्स्र्प्_2,1.3.7
स्तर्त् ब्स्र्प्_2,1.3.8ः
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम्
सत्कार्यवादसिद्ध्यर्थं कार्याभेदे कारणस्यापि कार्यवदशुद्ध्यादिप्रसङ्ग इति शङ्कासूत्रं व्याचष्टे-#अत्राहेति ।
प्रतिसंसृज्यमानपदस्य व्याख्या-#कारणेति ।
यथा जले लीयमानं लवणद्रव्यं जलं दूषयति तद्वदित्यर्थः ।
सूत्रस्य योजनान्तरमाह-#अपिचेति ।
सर्वस्य कार्यस्यापीतौ कारणवदेकरूपत्वप्रसङ्ग इत्यर्थः ।
अर्थान्तरमाह-#अपिचेति ।
कर्मादीनामुत्पत्तिनिमित्तानां प्रलये ऽपि भोक्तृणामुत्पत्तौ तद्वदेव मुक्तानामप्युत्पत्तिप्रसङ्गादित्यर्थः ।
शङ्कापूर्वकं व्याख्यान्तरमाह-#अथेति ।
यदि लयकाले ऽपिकार्यं कारणाद्विभक्तं तर्हि स्थितिकालवल्लयाभावप्रसङ्गात्कार्येण द्वैतापत्तेश्चासमञ्जसमिदं दर्शनमित्यर्थः ॥8॥
एन्द् ब्स्र्प्_2,1.3.8
स्तर्त् ब्स्र्प्_2,1.3.9ः
न तु दृष्टान्तभावात्
अपीतौ जगत् स्वकारणं न दूषयति, कारणे लीनत्वात्, मृदादिषु नीलघटादिवदिति सिद्धान्तसूत्रं व्याचष्टे-#नैवेत्यादिना ।
अपिगच्छत् लीयमानम् ।
विभागावस्था स्थितिकालः ।
#त्वत्पक्षस्येति ।
मधुरजलं लवणस्याकारणमित्यदृष्टान्तः ।
किञ्च दूषकत्वे कार्यस्य स्थितिः स्याल्लवणवदित्याह-#अपीतिरेवेति ।
असति कार्ये तद्धर्मेण कारणस्य योगो न संभवति ।
धर्म्यसत्त्वे धर्माणामप्यसत्त्वादिति भावः ।
ननु सत्कार्यवादे लये ऽपि कार्यस्य कारणाभेदेन सत्त्वाद्दूषकत्वं स्यादित्यत आह-#अनन्यत्वे ऽपीति ।
कल्पितस्याधिष्ठानधर्मवत्त्वमभेदान्न त्वधिष्ठानस्य कल्पितकार्यधर्मवत्त्वं तस्य कार्यात्पृथक्सत्त्वादित्यर्थः ।
किञ्चापीताविति विशेषणं व्यर्थमिति प्रतिबन्द्या समाधत्ते-#अत्यल्पं चेति ।
परिणामदृष्टान्तं व्याख्याय विवर्तदृष्टान्तं व्याचष्टे-#अस्ति चेति ।
मायाव्यनुपादानमित्यरुच्या दृष्टान्तान्तरमाह-#यथेति ।
अस्त्येव स्वप्नकाले दृष्टः संसर्ग इत्यत आह-#प्रबोधेति ।
जाग्रत्सुषुप्त्योः स्वप्नेनात्मनो ऽस्पर्शात् तत्काले ऽप्यस्पर्श इत्यर्थः ।
यद्यज्ञस्य जीवस्यावस्थाभिरसंसर्गस्तदा सर्वज्ञस्य किं वाच्यमिति दार्ष्टान्तिकमाह-#एवमिति ।
यद्वा जागज्जन्मस्थितिलया ईश्वरस्यावस्थात्रयम् ।
तदसङ्गित्वे वृद्धसंमतिमाह-#अत्रोक्तमिति ।
यदा तत्त्वमसीत्युपदेशकाले प्रबुध्यते मायानिद्रां त्यजति तदा जन्मलयस्थित्यवस्थाशून्यमद्वैतमीश्वरमात्मत्वेनानुभवतीत्यर्थः ।
फलितमाह-#तत्रेति ।
द्वितीयमसामञ्जस्यमनूद्य तेनैव सूत्रेण परिहरति-#यत्पुनरिति ।
सुषुप्तावज्ञानसत्त्वे पुनर्विभागोत्पत्तौ च मानमाह-#श्रुतिश्चेति ।
सति ब्रह्मण्येकीभूय न विदुरित्यज्ञानोक्तिः ।
इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।
ननु सुषुप्तौ पुनर्विभागशक्त्यज्ञानसत्त्वे ऽपि सर्वप्रलये तत्सत्त्वं कुत इत्यत आह-#यथा हीति ।
यथा सुषुप्तौ परमात्मनि सर्वकार्याणामविभागे ऽपि पुनर्विभागहेत्वज्ञानशक्तिरस्ति एवमपीतौ महाप्रलये ऽपि मिथ्याभूताज्ञानसंबन्धात्पुनः सृष्टिविभागशक्तिरनुमास्यते ।
यतः स्थिताविदानीं मिथ्याज्ञानकार्यो विभागव्यवहारस्तत्त्वबोधाभावात् स्वप्नवदबाधितो दृश्यते, अतः कार्यदर्शनात्कारणसत्त्वसिद्धिरित्यर्थः ।
अज्ञानां जीवानां महाप्रलये ऽप्यज्ञानशक्तिनियमात्पुनर्जन्मनियम इति भावः ।
#एतेनेति ।
जन्मकारणज्ञानशक्त्यभावेनेत्यर्थः ॥9॥
एन्द् ब्स्र्प्_2,1.3.9
स्तर्त् ब्स्र्प्_2,1.3.10ः
स्वपक्षदोषाच् च
वैलक्षण्यादीनां सांख्यपक्षे ऽपि दोषत्वान्नास्माभिस्तन्निरासप्रयासः कार्य इत्याह-#स्वपक्षेति ।
सूत्रं व्याचष्टे-#स्वेति ।
प्रादुःष्युः प्रादुर्भवेयुः ।
#अत एवेति ।
सत्यकार्यस्य विरुद्धकारणात्मना सत्त्वायोगात् सांख्यस्यैवायं दोषो न कार्यमिथ्यात्ववादिन इति मन्तव्यम् ।
ऽअपीतौऽइति सूत्रोक्तदोषचतुष्टयमाह-#तथापीताविति ।
कार्यवत्प्रधानस्य रूपादिमत्त्वप्रसङ्गः ।
इदं कर्मादिकमस्योपादानं भोग्यमस्य नेत्यनियमः ।
बद्धमुक्तव्यवस्था च ।
यदि व्यवस्थार्थं मुक्तानां भेदाः संघातविशेषाः प्रधाने लीयन्ते बद्धानां भेदास्तु न लीयन्त इत्युच्यते तर्ह्यलीनानां पुरुषवत्कार्यत्वव्याघात इत्यर्थः ॥10॥
एन्द् ब्स्र्प्_2,1.3.10
स्तर्त् ब्स्र्प्_2,1.3.11ः
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः
किञ्च तर्कस्य संभावितदोषत्वात्तेन निर्देषवेदान्तसमन्वयो न बाध्य इत्याह-#तर्काप्रतिष्ठानादपीति ।
पुरुषमतीनां विचित्रत्वे ऽपि कपिलस्य सर्वज्ञत्वात्तदीयतर्के विश्वास इति शङ्कते-#अथेति ।
ऽकपिलो यदि सर्वज्ञः कणादो नेति का प्रमाऽइति न्यायेन परिहरति-#एवमपीति ।
सूत्रमध्यस्थशङ्काभागं व्याचष्टे-#अथोच्येतेति ।
विलक्षणत्वादितर्काणामप्रतिष्ठितत्वे ऽपि व्याप्तिपक्षधर्मतासंपन्नः कश्चित्तर्कः प्रतिष्ठितो भविष्यति तेन प्रधानमनुमेयमित्यर्थः ।
ननु सो ऽप्यप्रतिष्ठितः तर्कजातीयत्वात् विलक्षणत्वादिवदित्यत आह-#नहीति ।
तर्कजातीयत्वादिति तर्कः प्रतिष्ठितो न वा ।
आद्ये ऽत्रैवाप्रतिष्ठितत्वसाध्याभावाद्वयभिचारः ।
द्वितीये ऽपि न सर्वतर्काणामप्रतिष्ठितत्वं हेत्वभावादित्यभिसंधिमानाह-#एतदपीति ।
किञ्चानागतपाक इष्टसाधनं, पाकत्वात्, अतीतपाकवदित्यादिष्टसाधनानुमानात्मकतर्कस्य प्रवृत्तिनिवृत्तिव्यवहारहेतुत्वान्नाप्रतिष्ठेत्याह-#सर्वतर्केति ।
अध्वा विषयः पाकभोजनादिर्विषभक्षणादिश्च, तत्सामान्येन पाकत्वादिनानागतविषये पाकादौ सुखदुःखहेतुत्वानुमित्या प्रवृत्त्यादिरित्यर्थः ।
किञ्च पूर्वोत्तरमीमांसयोस्तर्केणैव वाक्यतात्पर्यनिर्णयस्य क्रियमाणत्वात्तर्कः प्रतिष्ठित इत्याह-#श्रुत्यर्थेति ।
मनुरपि केषाञ्चित्तर्काणां प्रतिष्ठां मन्यत इत्याह-#मनुरिति ।
धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः ।
कस्यचित्तर्कस्याप्रतिष्ठितत्वमङ्गीकरोति-#अयमेवेति ।
सर्वतर्काणां प्रतिष्ठायां पूर्वपक्ष एव न स्यादिति भावः ।
पूर्वपक्षतर्कवत्सिद्धान्ततर्को ऽप्यप्रतिष्ठितः, तर्कत्वाविशेषादिति वदन्तमुपहसति-#नहीति ।
क्वचित्तर्कस्य प्रतिष्ठायामपि जगत्कारणविशेषे तर्कस्य स्वातन्त्र्यं नास्तीति सूत्रशेषं व्याचष्टे-#यद्यपीत्यादिना ।
अतिगम्भीरत्वं ब्रह्मणो वेदान्यमानागम्यत्वम् ।
भावस्य जगत्कारणस्य याथात्म्यमद्वयत्वम् ।
मुक्तिनिबन्धनं मुक्त्यालम्बनम् ।
ब्रह्मणो वेदान्यमानागम्यत्वं दर्शयति-#रूपादिति ।
अविमोक्षो मुक्त्यभाव इत्यर्थान्तरमाह-#अपिचेत्यादिना ।
एकरूपवस्तुज्ञानस्य सम्यग्ज्ञानत्वे ऽपि तर्कजन्यत्वं किं न स्यादित्यत आह-#तत्रैवं सतीति ।
तर्कोत्थज्ञानानां मिथो विप्रतिपत्तेर्न सम्यग्ज्ञानत्वम् ।
सम्यग्ज्ञाने विप्रतिपत्त्ययोगादित्यर्थः ।
एकरूपेणानवस्थितो विषयो यस्य तत्तर्कप्रभवं कथं सम्यग्ज्ञानं भवेदिति योजना ।
ननु सांख्यस्य श्रेष्ठत्वात्तञ्ज्ञानं सम्यगित्याशङ्क्य हेत्वसिद्धिमाह-#नच प्रधानेति ।
ननु सर्वतार्किकैर्मिलित्वा निश्चिततर्कोत्था मतिर्मुक्तिहेतुरित्यत आह-#नच शक्यन्त इति ।
तस्मात् तर्कोत्थज्ञानान्मुक्त्ययोगात् तर्केण वेदान्तसमन्वयबाधो न युक्तः, तद्बाधे सम्यग्ज्ञानालाभेनानिर्मोक्षप्रसङ्गादिति सूत्रांशार्थमुपसंहरति-#अतो ऽन्यत्रेति ।
समन्वयस्य तर्केणाविरोधे फलितमधिकरणार्थमुपसंहरति-#अत आगमेति ॥11॥
एन्द् ब्स्र्प्_2,1.3.11
स्तर्त् ब्स्र्प्_2,1.4.12ः
एतेन शिष्टापरिग्रहा अपि व्याख्याताः
ब्रह्म जगदुपादानमिति ब्रुवन् वेदान्तसमन्वयो विषयः ।
स किं यद्विभु तन्न द्रव्योपादानमिति वैशेषिकादिन्यायेन विरुध्यते न वेति संदेहे सांख्यवृद्धानां तर्काकुशलमतित्वे ऽपि वैशेषिकादीनां तर्कमतिकुशलत्वप्रसिद्धेस्तदीयन्यायस्याबाधितत्वाद्विरुध्यत इति प्रत्युदाहरणेन प्राप्ते ऽतिदिशति-#एतेनेति ।
फलं पूर्ववत् ।
ननु सांख्यमतस्योपदेशस्तार्किकमतस्यातिदेशः किमिति कृतो वैपरीत्यस्यापि संभवादित्याशङ्क्य पूर्वोत्तराधिकरणयोरुपदेशातिदेशभावे कारणमाह-#वैदिकस्येति ।
सत्कार्यत्वात्मासङ्गत्वस्वप्रकाशत्वाद्यंशैर्वेदान्तशास्त्रस्य प्रत्यासन्नः ।
प्रधानवादः शिष्टैर्देबलादिभिः सत्कार्यत्वांशेन स्वीकृत इति प्रबलत्वादुपदेशः ।
अण्वादिवादानां निर्मूलत्वेन दुर्बलत्वेन दुर्बलत्वादतिदेश इति भावः ।
किं निराकरणकारणमिति प्रष्टव्यं नास्तीत्याह-#तुल्यत्वादिति ।
कारणमेवाह-#तुल्यमिति ।
यदुक्तं विभुत्वान्न द्रव्योपादानं ब्रह्मेति, तत्र पक्षसाधकत्वेन श्रुतेरुपजीव्यत्वात्तया बाधः ।
महापरिमाणवत्त्वस्य सर्वसंयोगिकत्वरूपविभुत्वस्य निर्गुणे ब्रह्मण्यसिद्धेश्चेति द्रष्टव्यम् ।
अतः समन्वयस्य तार्किकन्यायेन न विरोध इति सिद्धम् ॥12॥
एन्द् ब्स्र्प्_2,1.4.12
स्तर्त् ब्स्र्प्_2,1.5.13ः
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत्
अद्वितीयाद्ब्रह्मणो जगत्सर्गादिवादी वेदान्तसमन्वयो विषयः ।
स किं यन्मिथो भिन्नं तन्नाद्वितीयकारणाभिन्नं यथा मृत्तन्तुजौ घटपठाविति तर्कसहितभेदप्रत्यक्षादिना विरुध्यते न वेति संदेहे ब्रह्मणि तर्कस्याप्रतिष्ठितत्वे ऽपि जगद्भेदे प्रतिष्ठितत्वाद्विरुध्यत इति पूर्वपक्षयति-#भोक्रापत्तेरिति ।
विरोधादद्वैतासिद्धिः पूर्वपक्षफलं, सिद्धान्ते तत्सिद्धिरिति भेदः ।
अनपेक्षश्रुत्यास्वार्थनिर्णयात्तर्केणाक्षेपो न युक्त इत्युक्तमिति शङ्कते-#यद्यपीति ।
मानान्तरायोग्यश्रुत्यर्थे भवत्यनाक्षेपः ।
यस्त्वद्वितीयब्रह्माभेदाद्भूजलादीनामभेदो ब्रह्मोपादानकत्वश्रुतिविषयः स ऽआदित्यो यूपःऽइत्यर्थवादार्थवन्मानान्तरयोग्य एवेति द्वैतप्रमाणेरपह्रियत इति समाधत्ते-#तथापीति ।
अन्यपरत्वं गौणार्थकत्वम् ।
स्वविषये जगद्भेदे तर्कस्य प्रतिष्ठितत्वात्तेनाक्षेप इत्याह-#तर्को ऽपीति ।
तर्कादेर्द्वैते प्रामाण्ये ऽपि ततः समन्वयविरोधे किमायातमिति शङ्कते-#किमत इति ।
पूर्वपक्षी समाधत्ते-#अत इति ।
तर्कादेः प्रामाण्यात् द्वैतबाधकत्वं श्रुतेरयुक्तमित्यद्वैतसमन्वयबाधो युक्त इत्यर्थः ।
इयमर्थं शङ्कापूर्वकं स्फुटयति-#कथमित्यादिना ।
ननु भोक्तृभोग्ययोर्मिथ एकत्वं केनोक्तमित्याशङ्क्य श्रुतार्थापत्त्येत्याह-#तयोश्चेति ।
तयोरेकब्रह्माभेदश्रवणादेकत्वं कल्प्यते, एकस्मादभिन्नयोर्भेदे एकस्यापि भेदापत्तेः ।
ततश्च भेदो बाध्येतेत्यर्थः ।
इष्टापत्तिं वारयति-#न चास्येति ।
श्रुतेर्गौणार्थत्वेन सावकाशत्वान्निरवकाशद्वैतमानबाधो न युक्त इत्यर्थः ।
ननु विभागस्याधुनिकत्वादनद्याद्वैतश्रुत्या बाध इत्यत आह-#यथेति ।
अतीतानागतकालौ भोक्त्रादिविभागाश्रयौ, कालत्वात्, वर्तमानकालवदित्यनुमानाद्विभागो ऽनाद्यनन्त इत्यर्थः ।
एवं प्राप्ते परिणामदृष्टान्तेनापाततः सिद्धान्तमाह-#स्याल्लोकवदिति ।
दृष्टान्ते ऽपि कथमेकसमुद्राभिन्नानां परिणामानां मिथो भेदः, कथं वा तेषां भेदे सत्येकस्मादभिन्नत्वमित्याशङ्क्य न हि दृष्टेनुपपत्तिरिति न्यायेनाह-#नचेति ।
एवं भोक्तृभोग्ययोर्मिथो भेदो ब्रह्माभेदश्चेत्याह-#एवमिहेति ।
जीवस्य ब्रह्मविकारत्वाभावाद्दृष्टान्तवैषम्यमिति शङ्कते-#यद्यपीति ।
औपाधिकं जन्मास्तीति तरङ्गादिसाम्यमाह-#तथापीति ।
विभागो जन्म ।
यद्वा तथापीतिशब्देनैवोक्तः परिहारः ।
ननु भोक्तुः प्रतिदेहं विभागः कथमित्यत आह-#कार्यमनुप्रविष्टस्येति ।
औपाधिकविभागे फलितमुपसंहरति-#इत्यत इति ।
एकब्रह्मभिन्नत्वे ऽपि भोक्त्रादेस्तरङ्गादिवद्भेदाङ्गीकारान्न द्वैतमानेनाद्वैतसमन्वयस्य विरोध इत्यर्थः ॥13॥
एन्द् ब्स्र्प्_2,1.5.13
स्तर्त् ब्स्र्प्_2,1.6.14ः
तदनन्यत्वम् आरम्भणशब्दादिभ्यः
पूर्वस्मिन्नेव पूर्वपक्षे विवर्तवादेन मुख्यं समाधानमाह-#तदानन्यत्वमिति ।
समानविषयत्वं संगतिं वदन्नुभयोः परिहारयोः परिणामविवर्ताश्रयत्वेनार्थभेदमाह-#अभ्युपगम्येति ।
प्रत्यक्षादीनाम उत्सर्गिकप्रामाण्यमङ्गीकृत्य स्थूलबुद्धिसमाधानार्थं परिणामदृष्टान्तेन भेदाभेदावुक्तौ, संप्रत्यङ्गीकृतं प्रामाण्यं, तत्त्वावेदकत्वात्प्रच्याव्य व्यावहारिकत्वे स्थाप्यते, तथाच मिथ्याद्वैतग्राहिप्रमाणैरद्वैतश्रुतेर्न बाधः, एकस्यां रज्ज्वां दण्डस्रगादिद्वैतदर्शनादित्ययं मुख्यः परिहार इति भावः ।
एवमद्वैतसमन्वयस्याविरोधार्थं द्वैतस्य मिथ्यात्वं साधयति-#यस्मात्तयोरिति ।
स्वरूपैक्ये कार्यकारणत्वव्याघात इत्यत आह-#व्यतिरेकेणेति ।
कारणात्पृथक्सत्त्वशून्यत्वं कार्यस्य साध्यते नैक्यमित्यर्थः ।
वागारभ्यं नाममात्रं विकारो न कारणात्पृथगस्तीत्येवकारार्थ इति श्रुतिं योजयति-#एतदुक्तमिति ।
आरम्भणशब्दार्थान्तरमाह-#पुनश्चेति ।
अपागादग्नित्वमपगतं कारणमात्रत्वात् ।
त्रीणि तेजोबन्नानां रूपाणि रूपतन्मात्रात्मकानि सत्यम् ।
तेषामपि सन्मात्रत्वात्सदेव शिष्यत इत्यभिप्रायः ।
जीवगजतोर्ब्रह्मान्यत्वे प्रतिज्ञाबाध इत्याह-#न चान्यथेति ।
तयोरनन्यत्वे क्रमेण दृष्टान्तावाह-#तस्माद्यथेति ।
प्रतिज्ञाबलादित्यर्थः ।
दृष्टं प्रातीतिकं नष्टमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः ।
शुद्धाद्वैतं स्वमतमुक्त्वा भेदाभेदमतमुत्थापयति-#नन्विति ।
अनेकाभिः शक्तिभिस्तदधीनप्रकृतिभिः परिणामैर्युक्तमित्यर्थः ।
भेदाभेदमते सर्वव्यवस्थासिद्धिरत्यन्ताभेदे द्वैतमानबाध इत्यभिमन्यमानो दूषयति-#नैवं स्यादिति ।
एवकारवाचारम्भणशब्दाभ्यां विकारसत्तानिषेधात्परिणामवादः श्रुतिबाह्य इत्यर्थः ।
किञ्च संसारस्य सत्यत्वे तद्विशिष्टस्य जीवस्य ब्रह्मैक्योपदेशो न स्याद्विरोधादित्याह-#स आत्मेति ।
एकत्वं ज्ञानकर्मसमुच्चयसाध्यमित्युपदेशार्थमित्याशङ्क्या असीतिपदविरोधान्मैवमित्याह-#स्वयमिति ।
अतस्तत्त्वज्ञानबाध्यत्वात्संसारित्वं मिथ्येत्याह-#अतश्चेति ।
स्वतः-सिद्धोपदेशादित्यर्थः ।
यदुक्तं व्यवहारार्थं नानात्वं सत्यमिति, तत्किं ज्ञानादूर्ध्वं व्यवहारार्थं प्राग्वा ।
नाद्य इत्याह-#बाधिते चेति ।
स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः ।
ज्ञानादूर्ध्वं प्रमातृत्वादिव्यवहारस्याभावान्नानात्वं न कल्प्यमित्यर्थः ।
न द्वितीयः, ज्ञानात्प्राक्कल्पितनानात्वेन व्यवहारोपपत्तौ नानात्वस्य सत्यत्वासिद्धेः ।
यत्तु प्रमातृत्वादिव्यवहारः सत्य एव मोक्षावस्थायां निवर्तत इति, तन्नेत्याह-#न चायमिति ।
संसारसत्यत्वे तदवस्थायां जीवस्य ब्रह्मत्वं न स्यात्, भेदाभेदयोरेकदैकत्र विरोधात् ।
अतो ऽसंसारिब्रह्माभेदस्य सदातनत्वावगमात्संसारो ऽपि मिथ्यैवेत्यर्थः ।
किञ्च यथा लोके कश्चित् तस्करबुद्ध्या भटैर्गृहीतो ऽनृतवादी चेत्तप्तपरशुं गृह्णाति स दह्यते बध्यते च, तथा नानात्ववादी दह्यते सत्यवादी चेन्न दह्यते मुच्यते च ।
तथैतदात्म्यमिदं सर्वमित्येकत्वदर्शी मुच्यत इति श्रुतदृष्टान्तेनैकत्वं सत्यं नानात्वं मिथ्येत्याह-#तस्करेति ।
व्यवहारगोचरो नानात्वव्यवहाराश्रयः ।
नानात्वनिन्दयाप्येकत्वमेव सत्यमित्याह-#मृत्योरिति ।
किञ्चास्मिन्भेदाभेदमते जीवस्य ब्रह्माभेदज्ञानाद्भेदज्ञाननिवृत्तेर्मुक्तिरिष्टा सा न युक्ता, भेदज्ञानस्य भ्रमत्वानभ्युपगमात्, प्रमायाः प्रमान्तराबाध्यत्वादित्याह-#न चास्मिन्निति ।
वैपरीत्यस्यापि संभवादिति भावः ।
इदानीं प्रत्यक्षादिप्रामाण्यान्यथानुपपत्त्या नानात्वस्य सत्यत्वमिति पूर्वपक्षबीजमुद्घाटयति-#नन्वित्यादिना ।
एकत्वस्यैकान्तः कैवल्यम् ।
व्याहन्येरन्नप्रमाणानि स्युः ।
उपजीव्यप्रत्यक्षादिप्रामाण्याय वेदान्तानां भेदाभेदपरत्वमुचितमिति भावः ।
ननु कर्मकारकाणां यजमानादीनां विद्याकारकाणां शिष्यादीनां च कल्पितभेदमाश्रित्य कर्मज्ञानकाण्डयोः प्रवृत्तेः स्वप्रमेयस्य धर्मादेरबाधात्प्रामाण्यमव्याहतमित्याशङ्क्याह-#कथं चानृतेनेति ।
धूलिकल्पितधूमेनानुमितस्य वह्नेरिव प्रमेयबाधापत्तेरिति भावः ।
तत्र द्वैतविषये प्रत्यक्षादीनां यावद्बाधं व्यावहारिकं प्रामाण्यमुपपद्यत इत्याह-#अत्रोच्यत इत्यादिना ।
सत्यत्वं बाधाभावः ।
बाधो मिथ्यात्वनिश्चयः ।
वस्तुतो मिथ्यात्वे ऽपि विकारेषु तन्निश्चयाभावेन प्रत्यक्षादिव्यवहारोपपत्तावुक्तदृष्टान्तं विवृणोति-#यथा सुप्तस्य प्राकृतस्येति ।
एवं द्वैतप्रमाणानां व्यवहारकाले बाधशून्यार्थबोधकत्वं व्यावहारिकं प्रामाण्यमुपपाद्य द्वैतप्रमाणानां वेदान्तानां सर्वकालेषु बाधशून्यब्रह्मबोधकत्वं तात्त्विकं प्रामाण्यमुपपादयितुमुक्तशङ्कामनुवदति-#कथं त्वसत्येनेति ।
किमसत्यात्सत्यं न जायते, किमुत सत्यस्य ज्ञानं न ।
आद्य इष्ट एव ।
नहि वयं वाक्योत्थज्ञानं सत्यमित्यङ्गीकुर्मः ।
अङ्गीकृत्यापि दृष्टान्तमाह-#नैष दोष इति ।
सर्पेणादष्टस्यापि दष्टत्वभ्रान्तिकल्पितविषात्सत्यमरणमूर्च्छादिदर्शनादसत्यात् सत्यं न जायत इत्यनियम इत्यर्थः ।
दृष्टान्तान्तरमाह-#स्वप्नेति ।
असत्यात्सर्पोदरादेः सत्यस्य दंशनस्नानादिज्ञानस्य कार्यस्य दर्शनाद्व्यभिचार इत्यर्थः ।
यथाश्रुतमादाय शङ्कते-#तत्कार्यमपीति ।
उक्तमर्थं प्रकटयति-#तत्र ब्रूम इत्यादिना ।
अवगतिर्वृत्तिः घटादिवत्सत्यापि प्रातिभासिकस्वप्नदृष्टवस्तुनः फलं चैतन्यं वा वृत्त्यभिव्यक्तमवगतिशब्दार्थः ।
प्रसङ्गाद्देहात्मवादो ऽपि निरस्त इत्याह-#एतेनेति ।
स्वप्नस्थावगतेः स्वप्नदेहधर्मत्व उत्थितस्य मया तादृशः स्वप्नो ऽवगत इत्यबाधितावगतिप्रतिसंधानं न स्यात् ।
अतो देहभेदे ऽप्यनुसंधानदर्शनाद्देहान्यो ऽनुसंधातेत्यर्थः ।
असत्यात्सत्यस्य ज्ञानं न जायत इति द्वितीयनियमस्य श्रुत्या व्यभिचारमाह-#तथाच श्रुतिरिति ।
नच स्त्रियो मिथ्यात्वे ऽपि तद्दर्शनात्सत्यादेव सत्यायाः समृत्धेर्ज्ञानमिति वाच्यम्, विषयविशिष्टत्वेन दर्शनस्यापि मिथ्यात्वात्प्रकृते ऽपि सत्ये ब्रह्मणि मिथ्यावेदानुगतचैतन्याञ्ज्ञानसंभवाच्चेति भावः ।
असत्यात्सत्यस्येष्टस्य ज्ञानमुक्त्वानिष्टस्य ज्ञानमाह-#तथेति ।
असत्यात्सत्यस्य ज्ञाने दृष्टान्तान्तरमाह-#तथाकारादीति ।
रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धमित्यर्थः ।
एवमसत्यात्सत्यस्य जन्मोक्त्या तदर्थक्रियाकारि तत्सत्यमिति नियमो भग्नः, अनृतात्सत्यस्य ज्ञानोक्त्या यदनृतकरणगम्यं तद्बाध्यं कूटलिङ्गानुमितवह्निवदिति व्याप्तिर्भग्ना ।
तथा च कल्पितानामपि वेदान्तानां सत्यब्रह्मबोधकत्वं संभवतीति तात्त्विकं प्रामाण्यमिति भावः ।
यदुक्तं एकत्वनानात्वव्यवहारसिद्धये उभयं सत्यमिति, तन्न ।
भेदस्य लोकसिद्धस्यापूर्वफलवदभेदविरोधेन सत्यत्वकल्पनायोगात् ।
किञ्च यद्युभयोरेकदा व्यवहारः स्यात् तदा स्यादपि सत्यत्वम् ।
नैवमस्ति ।
एकत्वज्ञानेन चरमेणानपेक्षेण नानात्वस्य निःशेषं बाधात्, शुक्तिज्ञानेनेव रजतस्येत्याह-#अपि चान्त्यमिति ।
ननूपजीव्यद्वैतप्रमाणविरोधादेकत्वावगतिर्नोत्पद्यत इत्यत आह-#न चेयमिति ।
तत् किलात्मतत्त्वमस्य पितुर्वाक्यात् श्वेतकेतुर्विज्ञातवानिति ज्ञानोत्पत्तेः श्रुतत्वात्सामग्रीसत्त्वाच्चेत्यर्थः ।
व्यावहारिकगुरुशिष्यादिभेदमुपजीव्य ज्ञायमानवाक्यार्थावगतेः प्रत्यक्षादिगतं व्यावहारिकं प्रामाण्यमुपजीव्यं, तच्च पारमार्थिकैकत्वावगत्या न विरुध्यते ।
किन्तु तया विरोधादनुपजीव्यं प्रत्यक्षादेस्तात्त्विकं प्रामाण्यं बाध्यत इति भावः ।
किञ्चैकत्वावगतेः फलवत्प्रमात्वान्निष्फलो द्वैतभ्रमो बाध्य इत्याह-#न चेयमिति ।
ननु सर्वस्य द्वैतस्य मिथ्यात्वे स्वप्नो मिथ्या जाग्रत सत्यमित्यादिर्लौकिको व्यवहारः, सत्यं चानृतं च सत्यमभवदिति वैदिकश्च कथमित्याशङ्क्य यथा स्वप्ने इदं सत्यमिदमनृतमिति तात्कालिकबाधाबाधाभ्यां व्यवहारस्तथा दीर्घस्वप्नऽपीत्युक्तस्वप्नदृष्टान्तं स्मारयति-#प्राक्चेति ।
व्यवहारार्थे नानात्वं सत्यमिति कल्पनमसंगतमित्युपसंहरति-#तस्मादिति ।
नेदं कल्पितं, किन्तु श्रुतमिति शङ्कते-#नन्विति ।
कार्यकारणयोरनन्यत्वांशे ऽयं दृष्टान्तः, न परिणामित्वे, ब्रह्मणः कूटस्थत्वश्रुतिविरोधादिति परिहरति-#नेत्युच्यत इति ।
सृष्टौ परिणामित्वं प्रलये तद्राहित्य च क्रमेणाविरुद्धमिति दृष्टान्तेन शङ्कते-#स्थितीति ।
कूटस्थस्य कदाचिदपि विक्रिया न युक्ता कूटस्थत्वव्याघातादित्याह-#नेति ।
कूटस्थत्वासिद्धिमाशङ्क्याह-#कूटस्थस्येति ।
कूटस्थस्य निरवयवस्य पूर्वरूपत्यागेनावस्थान्तरात्मकपरिणामायोगाच्छुक्तिरजतवद्विवर्त एव प्रपञ्च इति भावः ।
किञ्च निष्फलस्य जगतः फलवन्निष्प्रपञ्चब्रह्मधीशेषत्वेनानुवादान्न सत्यतेत्याह-#नच यथेत्यादिना ।
ऽतं यथा यथोपासते तदेव भवतिऽइति श्रुतेर्ब्रह्मणः परिणामित्वविज्ञानात्तत्प्राप्तिर्विदुषः फलमित्याशङ्क्याह-#नहि परिणामवत्त्वेति ।
ऽब्रह्मविदाप्नोति परम्ऽइति श्रुतकूटस्थनित्यमोक्षफलसंभवे दुःखानित्यपरिणामित्वफलकल्पनायोगादिति भावः ।
ननु पूर्वं ऽजन्माद्यस्य यतःऽइति ईश्वरकारणप्रतिज्ञा कृता ।
अधुना तदनन्यत्वमित्यन्ताभेदप्रतिपादने ईशित्रीशितव्यभेदाभावात्तद्विरोधः स्यादिति शङ्कते-#कूटस्थेति ।
कल्पितद्वैतमपेक्ष्येश्वरत्वादिकं परमार्थतो ऽनन्यत्वमित्यविरोधमाह-#नेत्यादिना ।
अविद्यात्मके चिदात्मनि लीने नामरूपे एव बीजं तस्य व्याकरणं स्थूलात्मना सृष्टिस्तदपेक्षत्वादीश्वरत्वादेर्न विरोध इत्यर्थः ।
संगृहीतार्थं विवृणोति-#तस्मादित्यादिना ।
तत्वान्यत्वाभ्यामिति ।
नामरूपयोरीश्वरत्वं वक्युमशक्यं जडत्वात् ।
नापीश्वरादन्यत्वं कल्पितस्य पृथक्सत्तास्फूर्त्योरभावादित्यर्थः ।
संस्कारात्मकनामरूपयोरविद्यैक्यविवक्षया ब्रूते-#मायेति ।
नामरूपे चेदीश्वरस्यात्मभूते तर्हीश्वरो जड इत्यत आह-#ताभ्यामन्य इति ।
अन्यत्वे व्याकरणे च श्रुतिमाह-#आकाश इत्यादिना ।
अविद्याद्युपाधिना कल्पितभेदेन बिम्बस्थानस्येश्वरत्वं, प्रतिबिम्बभूतानां जीवानां नियम्यत्वमित्याह-#स च स्वात्मभूतानिति ।
न चात्र नानाजीवा भाष्योक्ता इति भ्रमितव्यं, बुद्ध्यादिसंघातभेदेन भेदोक्तेः ।
अविद्याप्रतिबिम्बस्त्वेक एव जीव इत्युक्तम् ।
परमार्थत ईश्वरत्वादिद्वैताभावे श्रुतिमाह-#तथा चेति ।
कथं तर्हि कर्तृत्वादिकमित्यत आह-#स्वभावस्त्विति ।
अनाद्यविद्यैव कर्तृत्वादिरूपेण प्रवर्तत इत्यर्थः ।
भक्ताभक्तयोः पापसुकृतनाशकत्वादीश्वरस्य वास्तवमीश्वरत्वमित्यत आह-#नादत्त इति ।
न संहरतीत्यर्थः ।
तेन स्वरूपज्ञानावरणेन कर्ताहमीश्वरो मे नियन्तेत्येवं भ्रमन्ति ।
उक्तार्थः सूत्रकारसंमत इत्याह-#सूत्रकारो ऽपीति ।
न केवलं लौकिकव्यवहारार्थं परिणामप्रक्रियाश्रयणं किन्तूपासनार्थं चेत्याह-#परिणामप्रक्रियां चेति ।
तदुक्तम्-ऽकृपणाधीः परिणाममुदीक्षते क्षयितकल्मषधीस्तु विवर्तताम्ऽइति ॥14॥
एन्द् ब्स्र्प्_2,1.6.14
स्तर्त् ब्स्र्प्_2,1.6.15ः
भावे चोपलब्धेः
एवं तदनन्यत्वे प्रत्यक्षादिविरोधं परिहृत्यानुमानमाह-#भावे चेति ।
कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः ।
घटो मृदनन्यः, मृत्सत्त्वोपलब्धिक्षणनियतसत्त्वोपलब्धिमत्त्वात् मृद्वत् ।
अन्यत्वे ऽप्ययं हेतुः किं न स्यादित्यप्रयोजकत्वमाशङ्क्य निरस्यति-#नचेति ।
मृद्घटयोरन्यत्वे गवाश्वयोरिव हेतूच्छित्तिः स्यादित्यर्थः ।
गवश्वयोर्निमित्तनैमित्तिकत्वाभावाद्धेत्वभावः ।
अतो मृद्घटयोस्तेन हेतुना निमित्तादिभावः सिध्यति नानन्यत्वमित्यर्थान्तरतामाशङ्कायह-#नच कुलालेति ।
न चोपादानोपादेयभावेनार्थान्तरता, मृद्दृष्टान्ते तद्भावाभावे ऽपि हेतुसत्त्वादन्यत्वे गवाश्वत्तद्भावायोगाच्चेति भावः ।
कुलालघटयोर्निमित्तादिभावे सत्यप्यन्यत्वात्, कुलालसत्त्वनियतोपलब्धिर्घटस्य नैवेत्यक्षरार्थः ।
यथाश्रुतसूत्रस्थहेतोर्व्यभिचारं शङ्कते-#नन्विति ।
अग्निभाव एव धूमोपलब्धिरिति नियमात्मको हेतुस्तत्र नास्तीत्याह-#नेति ।
अविच्छिन्नमूलदीर्धरेखावस्थधूमे नियमो ऽस्तीति व्यभिचार इत्याशङ्कते-#अथेति ।
तद्भावनियतभावत्वे सति तद्बुद्ध्यनुरक्तबुद्धिविषयत्वस्य हेतोर्विवक्षितत्वान्न व्यभिचार इत्याह-#नैवमिति ।
आलोकबुद्ध्यनुरक्तबुद्धिग्राह्ये रूपे व्यभिचारनिरासाय सत्यन्तम् ।
आलोकाभावे ऽपि घटादिरूपसत्त्वान्न व्यभिचारः ।
उक्तधूमविशेषस्याग्निबुद्धिं विनाप्युपलम्भान्न तत्र व्यभिचार इत्यर्थः ।
तथा च तयोः कार्यकारणयोर्भावेन सत्तयानुरक्तां सहकृतामिति भाष्यार्थः ।
यद्वा ।
तद्भावः सामानाधिकरण्यं तद्विषयकबुद्धिग्राह्यत्वं हेतुं वदामः ।
मृद्घट इति सामानाधिकरण्यबुद्धिदर्शनादग्निधूर्म इत्यदर्शनादित्यर्थः ।
अनुमानार्थत्वेन सूत्रं व्याख्याय पाठान्तरेण प्रत्यक्षपरतया व्याचष्टे-#भावाच्चेति ।
पूर्वसूत्रोक्तारम्भणशब्दसमुच्चयार्थश्चकारः ।
न चैकः पट इति प्रत्यक्षं पटस्य तन्तुभ्यः पृथक्सत्त्वे प्रमाणं, अपृथक्सत्ताकमिथ्याकार्यविषयत्वेनाप्युपपत्तेः ।
अत आतानवितानसंयोगवन्तस्तन्तव एव पट इति प्रत्यक्षोपलब्धेः सत्त्वादनन्यत्वमित्यर्थः ।
पटन्यायं तन्त्वादावतिदिशति-#तथेत्यादिना ।
प्रत्यक्षोपलब्ध्या तत्तत्कार्ये कारणमात्रं परिशिष्यत इत्यर्थः ।
यत्र प्रत्यक्षं नास्ति तत्र कार्ये विमतकारणादभिन्नं, कार्यत्वात्, पटवदित्यनुमेयमित्याह-#अनयेति ।
कारणपरिशेषे प्रधानादिकं परिशिष्यतां, न ब्रह्मेत्यत आह-त#त्र सर्वेति ।
ब्रह्मणि वेदान्तानां सर्वेषां तात्पर्यस्योक्तत्वात्तदेवाद्वितीयं परिशिष्यते न कारणान्तरमप्रामाणिकत्वादिति भावः ॥15॥
एन्द् ब्स्र्प्_2,1.6.15
स्तर्त् ब्स्र्प्_2,1.6.16ः
सत्वाच् चापरस्य
इदं जगत् सदात्मैवेति सामानाधिकरण्यश्रुत्या सृष्टेः प्राक्कार्यस्य कारणात्मना सत्त्वं श्रुतं, तदन्यथानुपपत्त्योत्पन्नस्यापि जगतः कारणादनन्यत्वमित्याह सूत्रकारः#सत्त्वाच्चेति ।
श्रुत्यर्थे युक्तिमप्याह-#यच्च यदात्मनेति ।
घटादिकं प्राग् मृदाद्यात्मना वर्तते तत उत्पद्यमानत्वात् सामान्यतो व्यतिरेकेण सिकताभ्यस्तैलवदित्यर्थः ।
कारणवत्कार्यस्यापि सत्त्वात् सत्त्वभेदे मानाभावात् कार्यस्य कारणादभिन्नसत्ताकत्वमिति सूत्रस्यार्थान्तरमाह-#यथा चेति ।
इदानीं सतः कार्यस्य प्रागुत्तरकालयोरसत्त्वायोगात् सत्त्वाव्यभिचारः ।
तच्च सत्त्वं सर्वानुस्यूतचिन्मात्रमेकम् ।
तदभेदेन सती मृत् सन् घट इति भासमानयोः कार्यकारणयोरनन्यत्वमित्यर्थः ॥16॥
एन्द् ब्स्र्प्_2,1.6.16
स्तर्त् ब्स्र्प्_2,1.6.16ः
न चैवं घटपटयोरप्यैकसत्त्वाभेदादनन्यत्वं स्यादिति वाच्यं, वस्तुत एकसत्त्वात्मनानन्यत्वस्येष्टत्वात् ।
तर्हि मृद्घटयोः को विशेषः ।
तादात्म्यमिति ब्रूमः ।
वस्तुतः सर्वत्र सत्तैक्ये ऽपि घटपटयोरभेदेन सत्ताया भिन्नत्वान्न तादात्म्यं, कार्यकारणयोर्भेदस्य सत्ताभेदकत्वाभावादभिन्नसत्ताकत्वं तादात्म्यमिति विशेषः ॥16॥
एन्द् ब्स्र्प्_2,1.6.16
स्तर्त् ब्स्र्प्_2,1.6.17ः
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात्
उक्तं कार्यस्य प्राक् कारणात्मना सत्त्वमसिद्धमित्याशङ्क्य समाधत्ते-#असदिति ।
ऽअक्ताः शर्करा उपदध्यात्ऽइत्युपक्रमे केनाक्ता इति संदेहे ऽतेजो वै घृतम्ऽइति वाक्यशेषाद्धृतेनेति यथा निश्चयः एवमत्रापि ऽतत्सत्ऽइति वाक्यशेषात्सन्निश्चय इत्यर्थः ।
आसीदित्यतीतकालसंबन्धोक्तेश्चासदव्याकृतमेव न शून्यमित्याह-#असतश्च पूर्वापरेति ।
उक्तन्यायं वाक्यान्तरे ऽतिदिशति-#असद्वेति ।
क्रियमाणत्वविशेषणं शून्यस्यासंभवीति भावः ॥17॥
एन्द् ब्स्र्प्_2,1.6.17
स्तर्त् ब्स्र्प्_2,1.6.18ः
युक्तेः शब्दान्तराच् च
सत्त्वानन्यत्वयोर्हेत्वन्तरमाह सूत्रकारः-#युक्तेरिति ।
दध्याद्यर्थिनां क्षीरादौ प्रवृत्त्यन्यथानुपपत्तिर्युक्तिस्तया कार्यस्य प्राक्कारणानन्यत्वेन सत्त्वं सिध्यतीत्यर्थः ।
असतो ऽपि कार्यस्य तस्मादुत्पत्तेः कारणत्वधिया तत्र प्रवृत्तिरित्यन्यथोपपत्तिमाशङ्क्याह-#अविशिष्टे हीति ।
असत उत्पत्त्यभावादुत्पत्तौ वा सर्वस्मात्सर्वोत्पत्तिप्रसङ्गात्तत्तदुपादानविशेषे प्रवृत्तिर्न स्यादित्यर्थः ।
तदुक्तं सांख्यवृद्धैः-ऽअसदकरणादुपादानग्रहणात्सर्वसंभवाभावात् ।
शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यम्ऽइति ।
शक्तस्य कारणस्य शक्यकार्यकारित्वाच्छक्तिविषयस्य कार्यस्य सत्त्वमसतो ऽशक्यत्वात् ।
किञ्च सत्कारणाभेदात्कार्यं सदित्युत्तरार्धार्थः ।
कार्यस्यासत्त्वे ऽपि कुतश्चिदतिशयात्प्रवृत्तिनियमोपपत्तिरिति शङ्कते-#अथेति ।
अतिशयः कार्यधर्मः कारणधर्मो वा ।
आद्ये धर्मित्वात्प्रागवस्थारूपस्य कार्यस्य सत्त्वं दुर्वारमित्याह-#तर्ह्यतिशयवत्त्वादिति ।
द्वितीये ऽपि कार्यसत्त्वमायातीत्याह-#शक्तिश्चेति ।
कार्यकारणाभ्यामन्या कार्यवदसति वा शक्तिर्न कार्यनियामिका, यस्य कस्यचिदन्यस्य नरशृङ्गस्य वा नियामकत्वप्रसङ्गादन्यत्वासत्त्वयोः शक्तावन्यत्र चाविशेषात् ।
तस्मात् कारणात्मना लीनं कार्यमेवाभिव्यक्तिनियामकतया शक्तिरित्येष्टव्यं, ततः सत्कार्यसिद्धिरित्यर्थः ।
किञ्च कार्यकारणयोरन्यत्वे मृद्घटौ भिन्नौ सन्ताविति भेदबुद्धिः स्यादित्याह-#अपिचेति ।
तयोरन्यत्वे ऽपि समवायशात्तथा बुद्धिर्नोदेतीत्याशङ्क्य समवायं दूषयति-#समवायेति ।
समवायः समवायिभिः संबद्धोन न वा ।
आद्ये स संबन्धः किं समवायः उत स्वरूपम् ।
आद्ये समवायानवस्था ।
द्वितीये मृद्घटयोरपि स्वरूपसंबन्धादेवोपपत्तेः समवायासिद्धिः ।
असंबद्ध इति पक्षे दोषमाह-#अनभ्युपगम्यमान इति ।
द्रव्यगुणादीनां विशिष्टधीविरहप्रसङ्गः ।
असंबद्धस्य विशिष्टधीनियामकत्वायोगादित्यर्थः ।
विशिष्टधीनियामको हि संबन्धः, न तस्य नियामकान्तरापेक्षा, अनवस्थानात्, अतः स्वपरनिर्वाहकः समवाय इति शङ्कते-#अथेति ।
संबध्यते ।
स्वस्य स्वसंबन्धिनश्च विशिष्टधियं करोतीत्यर्थः ।
प्रतिबन्द्या दूषयति-#संयोगो ऽपीति ।
यत्तु गुणत्वात्संयोगस्य समवायापेक्षा न संबन्धत्वादिति, तन्न, धर्मत्वात्, समवायस्यापि संबन्धान्तरापत्तेरसंबद्धस्याश्वत्वस्य गोधर्मत्वादर्शनात् ।
किञ्च ऽनिष्पापत्वादयो गुणाःऽइति श्रुतिस्मृत्यादिषु ऽव्यवहारादिष्टधर्मो गुणःऽइति परिभाषया समायस्यापि गुणत्वाच्च ।
ऽजातिविशेषो गुणत्वम्ऽइति परिभाषा तु समवायसिध्युत्तरकालीना, नित्यानेकसमवेता जातिरिति ज्ञानस्य समवायज्ञानाधीनत्वात् ।
अतः समवायसिद्धेः प्राक् संयोगस्य गुणत्वमसिद्धमिति दिक् ।
किञ्च प्रतीत्यनुसारेण वस्तु स्वीकार्यमन्यथा गोप्रतितेरश्व आलम्बनमित्यस्यापि सुवचत्वात् ।
तथा च मृद्घट इत्यभेदप्रतीतेरभेद एव स्वीकार्यः, ताभ्यामत्यन्तभिन्नस्य समवायस्य तन्नियामकत्वासंभवादित्याह-#तादात्म्येति ।
एवं प्रतीत्यनुसारेण कार्यस्य कारणात्मना सत्त्वं, स्वरूपेण तु मिथ्यात्मित्युक्तम् ।
वृत्त्यनिरूपणाच्च तस्य मिथ्यात्वमित्याह-#कथं चेति ।
तत्राद्यमनूद्यवयविनः पटादेस्तन्त्वादिष्ववयवेषु त्रित्वादिवत्स्वरूपेण वृत्तिरुतावयवश इति विकल्पाद्यं दूषयति-#यदीत्यादिना ।
व्यासज्यवृत्तिवस्तुप्रत्यक्षस्य यावदाश्रयप्रत्यक्षजन्यत्वात् संवृतपटादेर्यावदवयवानामप्रत्यक्षत्वादप्रत्यक्षत्वं प्रसज्येतेत्यर्थः ।
द्वितीयं शङ्कते-#अथेति ।
यथा हस्ते कोशे चावयवशः खङ्गो वर्तमानो हस्तमात्रग्रहे ऽपि गृह्यते, एवं यत्किञ्चिदवयवग्रहेणावयविनो ग्रहसंभवे ऽप्यवयवानामनवस्था स्यादिति दूषयति-#तदापीति ।
आद्यद्वितीयमुद्भाव्य दूषयति-#अथ प्रत्यवयवमित्यादिना ।
एकस्मिंस्तन्तौ पटवृत्तिकाले तन्त्वन्तरे वृत्तिर्न स्यात्, वृत्तावनेकत्वापत्तेरित्यर्थः ।
यथा युगपदनेकव्यक्तिषु वृत्तावपि जातेरनेकत्वदोषो नास्ति तथावयविन इत्याशङ्कते-#गोत्वेति ।
जातिवदवयविनो वृत्तिरसिद्धा अनुभवाभाविदिति परिहरति-#न ।
तथेति ।
दोषान्तरमाह-#प्रत्येकेति ।
अधिकारात्संबन्धात् ।
यथा देवदत्तः स्वकार्यमध्ययनं ग्रामे ऽरण्ये वा करोति, यथा गौरवयवी स्वकार्यं क्षीरादिकं शृङ्गपुच्छादावपि कुर्यादित्यर्थः ।
एवं वृत्त्यनिरूपणादनिर्वाच्यत्वं कार्यस्य दर्शितम् ।
संप्रत्यसत्कार्यवादे दोषान्तरमाह-#प्रागिति ।
यथा घटश्चलतीत्युक्ते चलनक्रियां प्रत्याश्रयत्वरूपं कर्तृत्वं घटस्य भाति तथा पटो जायत इति जनिक्रियाकर्तृत्वमनुभूयते ।
अतो जनिकर्तुः जनेः प्राक्सत्त्वं वाच्यम् ।
कर्तुरसत्त्वे क्रियाया अप्यसत्त्वापत्तेरित्यर्थः ।
जनेरनुभवसिद्धे ऽपि सकर्तृकत्वे क्रियात्वेनानुमानमाह-#उत्पत्तिश्चेति ।
असतो घटस्योत्पत्तौ कर्तृत्वासंभवे ऽपि कुलालादेः सत्त्वात्कर्तृत्वमित्याशङ्कयाह-#घटस्य चेति ।
घटोत्पत्तिवदसत्कपालाद्युत्पत्तिरित्यतिदिशति-#तथेति ।
शङ्कामनूद्य दोषमाह-#तथा चेति ।
अनुभवविरोधमित्यर्थः ।
उत्पत्तिर्भावस्याद्य विक्रियेति स्वमतेन कार्यसत्त्वमानीतं, संप्रति कार्यस्योत्पत्तिर्नाम स्वकारणे समवायःस्वस्मिन् सत्तासमवायो वेति तार्किकमतमाशङ्कते-#अथेति ।
तन्मतेनापि कार्यस्य सत्त्वमावश्यकं, असतः संबन्धित्वायोगादित्याह-#कथमिति ।
असतोर्वेति दृष्टान्तोक्तिः ।
ननु नरशृङ्गादिवत्कार्यं सर्वदा सर्वत्रासन्न भवति किन्तूत्पत्तेः प्राक् ध्वंसानन्तरं चासत् मध्ये तु सदेवेति वैषम्यात्संबन्धित्वोपपत्तिरित्याशङ्क्याह-#अभावस्येति ।
अत्राभावब्दा असच्छब्दापरपर्याया व्याख्येयाः ।
असतः कालेनासंबन्धात्प्राक्त्वं न युक्तमित्यर्थः ।
ननु कारकव्यापारादूर्ध्वभाविनः कार्यस्य वन्ध्यापुत्रतुल्यत्वं कथमित्यत आह-#यदि चेति ।
कार्याभावो ऽसत्कार्यमित्यर्थ इत्युपापत्स्वत उपपन्नमभविष्यदित्यन्वयः ।
कस्तर्हि निर्णयः, तत्राह-#वयं त्विति ।
ऽनासतो विद्यते भावःऽइति स्मृतेरिति भावः ।
सत्कार्यवादे कारकवैयर्थ्यं शङ्कते-#नन्विति ।
सिद्धकारणानन्यत्वाच्च कार्यस्य सिद्धत्वमित्याह-#तदनन्यत्वाच्चेति ।
अनिर्वाच्यकार्यात्मना कारणस्याभिव्यक्त्यर्थः कारकव्यापार इत्याह-#नैष दोष इति ।
कार्यसत्यत्वमिच्छतां सांख्यानां सत्कार्यवादे कारकवैयर्थ्यं दोष आपतति, अभिव्यक्तेरपि सत्त्वात् ।
अद्वैतवादिनां त्वघटितघठनावभासनचतुरमायामहिम्ना स्वप्नवद्यथादर्शनं सर्वमुपपन्नम् ।
विचार्यमाणे सर्वमयुक्तं, युक्तत्वे द्वैतापत्तेरिति मुख्यं समाधानं समाधानान्तराभावात् ।
ननु कारणाद्भिन्नमसदेवोत्पद्यत इति समाधानं किं न स्यादित्याशङ्क्यासत्पक्षस्य दूषणमुक्तं स्मरेत्याह-#कार्याकारो ऽपीति ।
अतः कारणाद्भेदाभेदाभ्यां दुर्निरूपस्य सदसद्विलक्षणस्यानिर्वाच्याभिव्यक्तिरनिर्वाच्यकारकव्यापाराणां फलमिति पक्ष एव श्रेयानिति भावः ।
ननु मृद्यदृष्टः पृथुबुध्नत्वाद्यवस्थाविशेषो घटे दृश्यते ।
तथाच घटो मृद्भिन्नः, तद्विरुद्धविशेषवत्त्वात्, वृक्षवदित्यत आह-#नचेति ।
वस्तुतो ऽन्यत्वं सत्यो भेदः ।
हेतोर्व्यभिचारस्थलान्तरमाह-#तथा प्रतिदिनमिति ।
प्रत्यहं पित्रादिदेहस्यावस्थाभेदे ऽपि जन्मनाशयोरभावादभेदो युक्तः ।
दार्ष्टान्तिके तु मृदादिनाशे सति घटादिकं जायत इति जन्मविनाशरूपविरुद्धधर्मवत्त्वात्कार्यकारणयोरभेदो न युक्त इति शङ्कते-#जन्मेति ।
कारणस्य नाशाभावाद्धेत्वसिद्धिरिति परिहरति-#नेति ।
दधिघटादिकार्यान्वितत्वेन क्षीरमृदादीनां प्रत्यक्षत्वान्नाशासिद्धिरित्यर्थः ।
ननु यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्राङ्कुरादौ वटबीजादीनामन्वयो न दृश्यते तत्र हेतुसत्त्वाद्वसत्वन्यत्वं स्यादित्यत आह-#अदृश्येति ।
तत्राप्यङ्कुरादौ बीजाद्यवयवानामन्वयान्न स्त एव जन्मविनाशौ किन्त्ववयान्तरोपचयापचयाभ्यां तद्व्यवहार इत्यर्थः ।
अस्तूपचयापचयलिङ्गेन वस्तुभेदानुमानं ततो ऽसत उत्पत्तिः सतो नाश इत्याशङ्क्य व्यभिचारमाह-#तत्रेदृगिति ।
पितृदेहे ऽपि भेदसत्त्वान्न व्यभिचार इत्यत्र बाधकमाह-#पित्रादीति ।
एतेनेति ।
कारणस्य सर्वकार्येष्वन्वयकथनेनेत्यर्थः ।
स्वपक्षे दोषं परिहृत्य परपक्षे प्रसञ्जयति-#यस्य पुनरिति ।
असतः कार्यस्य कारकव्यापाराहितातिशयाश्रयत्वायोगादविषयत्वे ऽपि मृदादेर्विषयत्वं स्यादिति शङ्कते-#समवायीति ।
समवायिकारणात्कार्यं भिन्नमभिन्नं वेति विकल्पाद्यं निरस्यति-#नेत्यादिना ।
द्वितीयमाशङ्क्येष्टापत्तिमाह-#समवायीति ।
कार्याणामवान्तरकारणानन्यत्वमुपसंहरति-#तस्मादिति ।
परमकारणानन्यत्वं फलितमाह-#तथा मूलेति ।
असत्कार्यवादे प्रतिज्ञाबाधः स्यादित्याह-#यदि तु प्रागुत्पत्तेरिति ॥18॥
एन्द् ब्स्र्प्_2,1.6.18
स्तर्त् ब्स्र्प्_2,1.6.19ः
पटवच् च
कार्यमुपादानद्भिन्नं तदुपलब्धावप्यनुपलभ्यमानत्वात् ततो ऽधिकपरिमाणत्वाच्च मशकादिव शशक इत्यत्र व्यभिचारार्थं सूत्रम्-#पटवच्चेति ।
द्वितीयहेतोर्व्यभिचारं स्फुटयति-#यथा च संवेष्टनेति ।
आयामो दैर्घ्यम् ॥19॥
एन्द् ब्स्र्प्_2,1.6.19
स्तर्त् ब्स्र्प्_2,1.6.20ः
यथा च प्राणादिः
तत्रैव विलक्षणकार्यकारित्वं कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात्, संमतवत् इति हेतुमाशङ्क्य व्यभिचारमाह सूत्रकारः-#यथा च प्राणादीति ।
एवं जीवजगतेर्ब्रह्मानन्यत्वात्प्रतिज्ञासिद्धिरित्यधिकरणार्थमुपपसंहरति-#अतश्च कृत्स्नस्येति ॥20॥
एन्द् ब्स्र्प्_2,1.6.20
स्तर्त् ब्स्र्प्_2,1.7.21ः
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः
जीवाभिन्नं ब्रह्म जगत्कारणमितिवदन्वेदान्तसमन्वयो विषयः ।
स यदि तादृग्ब्रह्मजगज्जनयेत्तर्हि स्वानिष्टं नरकादिकं न जनयेत् स्वतन्त्रचेतनत्वादिति न्यायेन विरुध्यते न वेति संदेहे पूर्वोक्तजीवानन्यत्वमुपजीव्य जीवदोषा ब्रह्मणि प्रसज्येरन्निति पूर्वपक्षसूत्रं गृहीत्वा व्याचष्टे-#इतरव्यपदेशादित्यादिना ।
पूर्वपक्षे जीवाभिन्ने समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति फलम् ।
हिताकरणेत्यत्र नञ्व्यत्यासेनाहितकरणं दोषो व्याख्यातः ।
आदिपदोक्तं भ्रान्त्यादिकमापादयति-#नच स्वयमित्यादिना ॥21॥
एन्द् ब्स्र्प्_2,1.7.21
स्तर्त् ब्स्र्प्_2,1.7.22ः
अधिकं तु भेदनिर्देशात्
जीवेशयोरभेदाज्जीवजगतेर्देषा ब्रह्मणि स्युः ब्रह्मगताश्च सृष्टिसंहारशक्तिसर्वस्मर्तृत्वादयो गुणा जीवे स्युः ।
न चेष्टापत्तिः ।
जीवस्य स्वशरीरे ऽपि संहारसामर्थ्यादर्शनादिति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे-#तुशब्द इत्यादिना ।
जीवेश्वरयोर्लोके बिम्बप्रतिबिम्बयोरिव कल्पितभेदाङ्गीकाराद्धर्मव्यवस्थेति सिद्धान्तग्रन्थार्थः ।
यदि वयं जीवं स्रष्टारं ब्रूमस्तदा दोषाः प्रसज्यन्ते नतु तं ब्रूम इत्यन्वयः ।
किञ्चाभेदाज्ञानादूर्ध्वं वा दोषा आपाद्यन्ते, पूर्वं वा ।
नाद्य इत्याह-#अपिचेति ।
उक्तं मिथ्याज्ञानविजृम्भितत्वं स्फुटयति-#अविद्येति ।
कर्तृत्वादिबुद्धिधर्माध्यासे देहधर्माध्यासं दृष्टान्तयति-#जन्मेति ।
द्वितीयं प्रत्याह-#अबाधिते त्विति ।
ज्ञानादूर्ध्वं स्रष्टृत्वादिधर्माणां बाधात् पूर्वं च कल्पितभेदेन व्यवस्थोपपत्तेर्न किञ्चिदवद्यमित्यर्थः ॥22॥
एन्द् ब्स्र्प्_2,1.7.22
स्तर्त् ब्स्र्प्_2,1.7.23ः
अश्मादिवच् च तदनुपपत्तिः
नन्वखण्डैकरूपे ब्रह्मणि कथं जीवेश्वरवैचित्र्यं, कथं च तत्कार्यवैचित्र्यमित्यनुपपत्तिं दृष्टान्तैः परिहरति सूत्रकारः-#अश्मादिवच्चेति ।
किंपाको महातालफलम् ।
तत्तत्कार्यसंस्काररूपानादिशक्तिभेदाद्वैचित्र्यमिति भावः ।
सूत्रस्थचकारार्थमाह-#श्रुतेश्चेति ।
ब्रह्म जीवगतदोषवत्, जीवाभिन्नत्वात्, जीववदित्याद्यनुमानं स्वतःप्रमाणनिरवद्यत्वादिश्रुतिबाधितम् ।
किञ्च कर्तृत्वभोक्तृत्वादिविकारस्य मिथ्यात्वाज्जीवस्यैव तावद्दोषो नास्ति कुतो बिम्बस्थानीयस्याशेषविशेषदर्शिनः परमेश्वरस्य दोषप्रसक्तिः ।
यत्तु ब्रह्म न विचित्रकार्यप्रकृति, एकरूपात्वात्, व्यतिरेकेण मृत्तन्त्वादिवदिति ।
तन्न ।
एकरूपे स्नप्नदृशीव विचित्रदृश्यवस्तुवैचित्र्यदर्शनेन व्यभिचारादित्यर्थः ।
तस्मात् प्रत्यगभिन्ने ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥23॥
एन्द् ब्स्र्प्_2,1.7.23
स्तर्त् ब्स्र्प्_2,1.8.24ः
उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि
#उपसंहारदर्शनात् ।
असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यदसहायं तन्न कारणमिति लौकिकन्यायेन विरुध्यते न वेति संदेहे पूर्वमौपाधिकजीवभेदाद्ब्रह्मणि जीवदोषा न प्रसज्यन्त इत्युक्तम्, संप्रति उपाधितो ऽपि विभक्तं ब्रह्मणः प्रेरकादिकं सहकारि नास्ति ईशनानात्वाभावादिति प्रत्युदाहरणेन पूर्वपक्षसूत्रांशं व्याचष्टे-#चेतनमित्यादिना ।
फलं पूर्ववत् ।
कारकाणामुपसंहारो मेलनम् ।
उक्तन्यायस्य क्षीरादौ व्यभिचार इति सिद्धान्तयति-#नैष दोष इति ।
शुद्धस्य ब्रह्मणो ऽकारणत्वमिष्टमेव ।
विशिष्टस्येश्वरस्य तु मायैव सहाय इति भावेनाह-#बाह्यमिति ।
क्षीरस्याप्यातञ्चनादिसहायो ऽस्तीत्यसहायत्वहेतोर्न व्यभिचार इत्याशङ्क्य सहायाभावे ऽपि यस्य कस्यचित्परिणामस्य क्षीरे दर्शनाद्व्यभिचारतादवस्थ्यमित्याह-#नन्वित्यादिना ।
तर्हि सहायो व्यर्थः, तत्राह-#त्वार्यत इति ।
ननु त्वार्यते क्षीरं दधिभावाय शैघ्र्यं कार्यत इति किमर्थं कल्प्यते, स्वतो ऽशक्तं क्षीरं सहायेन शक्तं क्रियत इति किं न स्यात्, तत्राह-#यदि चेति ।
शक्तस्य सहायसंपदा किं कार्यमित्यत्राह-#साधनेति ।
सहायविशेषाभावे कश्चिद्विकारः क्षीरस्य भवति, तत्र आतञ्चनप्रक्षेपौष्ण्याभ्यां तूत्तमदधिभावसामर्थ्यं व्यज्यत इत्यर्थः ।
तर्हि शक्तिव्यञ्जको ऽपि सहायो ब्रह्मणो वाच्यः, तत्राह-#परिपूर्णोति ।
निरपेक्षमायाशक्तिकमित्यर्थः ।
तादृशशक्तौ मानमाह-#श्रुतिश्चेति ॥24॥
एन्द् ब्स्र्प्_2,1.8.24
स्तर्त् ब्स्र्प्_2,1.8.25ः
देवादिवद् अपि लोके
ननु ब्रह्म न कारणं चेतनत्वे सत्यसहायत्वान्मृदादिशून्यकुलालादिवदिति न क्षीरादौ व्यभिचार इति सूत्रव्यावर्त्यां शङ्कामाह-#स्यदेतदिति ।
तस्यापि हेतोर्देवादौ व्यभिचार इत्याह-#देवादिवदिति ।
लोक्यते ज्ञायतेर्ऽथो ऽनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च ।
अभिध्यानं संकल्पः ।
ननु देवाद्यूर्णनाभान्तदृष्टान्तेषु शरीरेषु चेतनत्वं नास्ति, बलाकापद्मिनीचेतनयोर्गर्भप्रस्थानकर्तृत्वे मेघशब्दः शरीरं च सहायो ऽस्ति, अतो विशिष्टहेतोर्न व्यभिचार इति शङ्कते-#स यदि ब्रूयादित्यादिना ।
व्यभिचारो ऽस्तीति परिहरति-#तं प्रति ब्रूयादिति ।
अयं दोषः दृष्टान्तवैषम्याख्यः ।
अत्र हि हेतौ चेतनत्वमहन्धीविषयत्वरूपं चित्तादात्म्यापन्नदेहसाधारणं ग्राह्यं न तु मुख्यात्मत्वं, तव कुलालदृष्टान्ते साधनवैकल्यापत्तेः ।
असहायत्वं च चेतनस्य स्वातिरिक्तहेतुशून्यत्वं, तदुभयं देवादिष्वस्तीति व्यभिचारः, देहस्य स्वान्तःपातित्वेन स्वातिरिक्तत्वाभावात् ।
तथा च कुलालवैलक्षण्यं देवादीनां घटादिकार्ये स्वातिरिक्तानपेक्षत्वात् ।
देववैलक्षण्यं ब्रह्मणः देहस्याप्यनपेक्षणात् ।
नरदेवादीनां कार्यारम्भे नारस्त्येकरूपा सामग्री ।
श्रूयते हि महाभारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः ।
अतः सिद्धमसहायस्यापि ब्रह्मणः कारणत्वम् ॥25॥
एन्द् ब्स्र्प्_2,1.8.25
स्तर्त् ब्स्र्प्_2,1.9.26ः
कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा
#कृत्स्नप्रसक्तिः ।
क्षीरदृष्टान्तेन ब्रह्म परिणामीति भ्रमोत्पत्त्या पूर्वपक्षे प्राप्ते शास्त्रार्थो विवर्तो न परिणाम इति निर्णयार्थमिदमधिकरणमिति पूर्वाधिकरणेनोत्तराधिकरणस्य कार्यत्वं संगतिमाह-#चेतनमिति ।
निरवयवाद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किं यन्निरवयवं तन्न परिणामीति न्यायेन विरुध्यते न वेति संदेहे विरुध्यत इति पूर्वपक्षसूत्रं व्याचष्टे-#कृत्स्नेति ।
ब्रह्म परिणामीति वदता वक्तव्यं ब्रह्म निरवयवं सावयवं वा ।
आद्ये सर्वस्य ब्रह्मणः परिणामात्मना स्थितिः स्यादित्युक्तं व्यतिरेकदृष्टान्तेन विवृणोति-#यदि ब्रह्मेत्यादिना ।
पर्यणंस्यत् परिणतो ऽभविष्यत् ।
एकदेशश्चावास्थास्यदपरिणतो ऽभविष्यत् ।
उक्तश्रुतिभ्यो निरवयवत्वसिद्धेः फलितं दोषमाह-#ततश्चेति ।
यदा परिणामव्यतिरेकेण मूलब्रह्मात्मा नास्ति तदात्मा द्रष्टव्य इत्युपदेशोर्ऽथशून्यः स्यादिति दोषान्तरमाह-#द्रष्टव्यतेति ।
ब्रह्मणः परिणामात्मना जन्मनाशाङ्गीकारे ऽअजो ऽमरःऽइति श्रुतिविरोधश्चेत्याह-#अजत्वादीति ।
सावयवत्वपक्षमाशङ्क्य सूत्रशेषेण परिहरति-#अथेत्यादिना ॥26॥
एन्द् ब्स्र्प्_2,1.9.26
स्तर्त् ब्स्र्प्_2,1.9.27ः
श्रुतेस् तु शब्दमूलत्वात्
परिणामपक्षो दुर्घट इति यदुक्तं तदस्मादिष्टमेवेति विवर्तवादेन सिद्धान्तयति-#श्रुतेरिति ।
स्वपक्षे पूर्वोक्तदोषद्वयं नास्तीति सूत्रयोजनया दर्शयति-#तुशब्देनेत्यादिना ।
ईक्षितृत्वेन व्याकर्तृत्वेन चेक्षणीयव्याकर्तव्यप्रपञ्चात् पृथगीश्वरसत्त्वश्रुतेर्न कृत्स्नप्रसक्तिरित्याह-#सेयं देवतेति ।
न्यूनाधिकभावेनापि पृथक्सत्त्वं श्रुतमित्याह-#तावानिति ।
इतश्चास्त्यविकृतं ब्रह्मेत्याह-#तथेति ।
ऽस वा एष आत्मा हृदिऽइति श्रुतेरस्ति दृश्यातिरिक्तं ब्रह्म ।
ऽतदा ऽइति सुषुप्तिकालरूपविशेषणाच्चेत्यर्थः ।
लिङ्गान्तरमाह-#तथेन्द्रियेति ।
भ्रूम्यादेर्विकारस्येन्द्रियगोचरत्वात् ऽन चक्षुषा गृह्यतेऽइत्यादिश्रुत्या ब्रह्मणस्तत्प्रतिषेधादवाङ्मनसगोचरत्वश्रुतेश्चास्ति कूटस्थं ब्रह्मेत्यर्थः ।
कृत्स्नप्रसक्तिदोषो नास्तीत्युक्त्वा द्वितीयदोषो ऽपि नास्तीत्याह-#नचेति ।
ननु ब्रह्म कार्यात्मनाप्यस्ति, पृथगप्यस्ति चेत् सावयवत्वं दुर्वारं, निरवयवस्यैकस्य द्विधा सत्त्वायोगात्, अतो यद्द्विधाभूतं तत्सावयमिति तर्कविरुद्धं ब्रह्मणो निरवयवत्वमिति विवर्तमजानतः शङ्कां गूढाशय एव परिहरति-#शब्दमूलं चेति ।
यदा लौकिकानां प्रत्यक्षदृष्टानामपि शक्तिरचिन्त्या तदा शब्दैकसमधिगम्यस्य ब्रह्मणः किमु वक्तव्यम् ।
अतो ब्रह्मणो निरवयवत्वं द्विधाभावश्चेत्युभयं यथाशब्दमभ्युपगन्तव्यम् ।
न तर्केण बाधनीयमित्यर्थः ।
प्रकृतिभ्यः प्रत्यक्षदृष्टवस्तुस्वभावेभ्यो यत्परं विलक्षणं केवलोपदेशगम्यं तदचिन्त्यस्वरूपमिति स्मृत्यर्थः ।
आशयानवबोधेन शङ्कते-#ननु शब्देनापीति ।
यद्वा ब्रह्म परिणामीत्येकदेशिनामियं सिद्धान्तसूत्रव्याख्या दर्शिता तामाक्षिपति-#नन्विति ।
शब्दस्य योग्यताज्ञानसापेक्षत्वादित्यर्थः ।
ननु ब्रह्म सावयवं निरवयवं वेति विकल्पाश्रयणे सर्वश्रुतिसमाधानं स्यादित्यत आह-#क्रियेति ।
निरवयवत्वे ब्रह्मणः प्रकृतित्वश्रुतिविरोधः, सावयवत्वे निरवयवत्वशब्दविरोधः, विकल्पश्च वस्तुन्ययुक्तः, अतः प्रकारान्तरानुपलम्भाच्छ्रुतीनां प्रामाण्यं दुर्घटमिति प्राप्ते स्वाशयमुद्धाटयति-#नैष दोष इति ।
निरवयवस्य वस्तुनः कूटस्थस्याप्यविद्यया कल्पितनामरूपविकाराङ्गीकाराद्दुर्घटत्वदोषो नास्ति ।
वास्तवकौटस्थ्यस्य कल्पितविकारप्रकृतित्वेनाविरोधादित्यर्थः ।
रूपभेदाङ्गीकारे सावयवत्वं स्यादित्याशङ्क्योक्तं विवृणोति-#नहीत्यादिना ।
कृत्स्नप्रसक्तिं निरस्य दोषान्तरं निरस्यति-#वाचारम्भणेति ।
ननु श्रुतिप्रतिपाद्यस्य परिणामस्य कथं मिथ्यात्मत्वं, तत्राह-#न चेयमिति ।
निष्प्रपञ्चब्रह्माधीशेषत्वेन सृष्टिरनूद्यते न प्रतिपाद्यत इत्यसकृदावेदितम्, अतो विवर्तवादे न कश्चिद्दोष इत्युपसंहरति-#तस्मादिति ॥27॥
एन्द् ब्स्र्प्_2,1.9.27
स्तर्त् ब्स्र्प्_2,1.9.28ः
आत्मनि चैवं विचित्राश् च हि
पूर्वावस्थानाशेनावस्थान्तरं परिणामः, यथा दुग्धस्य दधिभावः ।
पूर्वरूपानुपमर्देनावस्थान्तरं विवर्तः, यथा शुक्तेः रजतभावः ।
तत्र ब्रह्मणो विवर्तोपादानत्वं स्वप्नसाक्षिदृष्टान्तेन द्रढयन्मायावादं स्फुटयति सूत्रकारः-#आत्मनि चेति ।
रथयोगाः अश्वाः ॥28॥
एन्द् ब्स्र्प्_2,1.9.28
स्तर्त् ब्स्र्प्_2,1.9.29ः
स्वपक्षदोषाच् च
किञ्च कृत्स्नप्रसक्त्यादीनां सांख्यादिपक्षे ऽपि दोषत्वान्नास्मान् प्रत्युद्भावनीयत्वं, ऽयश्चोभयोः समो दोषःऽइति न्यायादित्याह सूत्रकारः-#स्वपक्षेति ।
प्रधानस्य निरवयवत्वे कृत्स्नप्रसक्तिः सावयवत्वे च निरवयवत्वाभ्युपगमविरोध इत्यत्र शङ्कते-#नन्विति ।
किं साम्यावस्था गुणानां विकारः, समुदायो वा ।
आद्ये तस्या न मूलप्रकृतित्वं, विकारत्वात् ।
द्वितीये प्रपञ्चाभावः, समुदायस्यावस्तुत्वेन मूलाभावात् ।
अथ निरवयवा गुणा एव विविधपरिणामानां प्रकृतिरिति चेत्, तर्हि कृत्स्नप्रसक्तेर्मूलोच्छेदो दुर्वार इत्यभिप्रेत्य परिहरति-#नैवमित्यादिना ।
इति यतो ऽतःसमानत्वान्न वयं पर्यनुयोज्या इत्यन्वयः ।
प्रत्येकं सत्त्वादिकमितरगुणद्वयसचिवं निरवयवं यद्युपादानं तर्हि कृत्स्नस्योपादानस्य कार्यरूपत्वप्रसक्तेर्मूलोच्छेद इत्युक्तेर्निरवयवत्वसाधकतर्कस्याभासत्वाद्गुणानां सावयवत्वमेव परिणामित्वेन मृदादिवदतो न कृत्स्नप्रसक्तिरेकदेशपरिणामसंभवादिति शङ्कते-#तर्केति ।
एतद्दोषाभावे ऽपि दोषान्तरं स्यादिति परिहरति-#एवमपीति ।
ननु गुणानामवयवास्तन्तुवदारम्भका न भवन्ति किन्तु कार्यवैचित्र्यानुमितास्तद्गताः शक्तय इत्याशङ्क्य मायिकशक्तिभिर्ब्रह्मणो ऽपि सावयवत्वं तुल्यमित्याह-#अथेत्यादिना ।
अणुवादे ऽपि दोषसाम्यमाह-#तथेति ।
सांख्यवद्दोषः समान इति संबन्धः ।
निरवयवयोः परमाण्वोः संयोगो व्याप्यवृत्तिरव्याप्यवृत्तिर्वा ।
आद्ये तत्कार्यस्य द्व्यगुणकस्यैकपरमाणुमात्रत्वापत्तिः प्रथिम्नो ऽधिकपरिमाणस्यानुपपत्तेः ।
न ह्यणोरण्वन्तरेणोपर्यधः पार्श्वतश्च व्याप्तौ ततो ऽधिकद्रव्यं संभवतिः द्वितीये परमाण्वोः सावयवत्वापत्तिरित्यर्थः ।
ननु त्वं चोर इत्युक्ते त्वमपि चोर इतिवद्दोषसाम्योक्तिरयुक्तेत्यत आह-#परिहृतस्त्विति ।
उक्तं हि मायावादे स्वप्नवत्सर्वं सामञ्जस्यम्, अतो निरवयवे ब्रह्मणि समन्वयस्याविरोध इति सिद्धम् ॥29॥
एन्द् ब्स्र्प्_2,1.9.29
स्तर्त् ब्स्र्प्_2,1.10.30ः
सर्वोपेता च तद्दर्शनात्
#सर्वोपेता ।
मायाशक्तिमतो ब्रह्मणो जगत्सर्गं वदतः समन्वयस्याशरीरस्य न मायेति न्यायेन विरोधो ऽस्ति न वेति संदेहे न्यायस्यानाभासत्वादस्तीति पूर्वपक्षे पूर्वोक्तशक्तिमत्त्वसमर्थनादेकविषयत्वं संगतिं वदन् सिद्धान्तसूत्रं व्याचष्टे-#एकस्येत्यादिना ।
पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमित्युक्तमेवापादसमाप्तेरवगन्तव्यम् ।
अभ्यात्तः अभितो व्याप्तः ।
अवाकी वागिन्द्रियशून्यः ।
अनादरो निष्कामः ॥30॥
एन्द् ब्स्र्प्_2,1.10.30
स्तर्त् ब्स्र्प्_2,1.10.31ः
विकरणत्वान् नेति चेत् तद् उक्तम्
पूर्वपक्षन्यायमनूद्य दूषयति-#विकरणत्वादिति ।
देवादिचेतनानां शक्तानामपि देहभिमाने सत्येव कर्तृत्वं दृष्टं तदभावे सुषुप्ते तन्न दृष्टं, अतो ब्रह्मणः शक्तत्वे ऽप्यदेहत्वान्न कर्तृत्वम् ।
नाप्यदेहस्य शक्तिः संभवतीति शङ्कार्थः ।
विकरणस्य जीवस्य कर्तृत्वासंभवे ऽपीश्वरस्य संभवतीति, ऽदेवादिवदपि लोकेऽइत्यत्रोक्तम् ।
तत्र शरीरस्य कल्पितस्य मायाश्रयत्वायोगान्निर्विशेषचिन्मात्रस्यैव मायाधिष्ठानत्वं युक्तमिति समाधानार्थः ॥31॥
एन्द् ब्स्र्प्_2,1.10.31
स्तर्त् ब्स्र्प्_2,1.11.32ः
न प्रयोजनवत्त्वात्
#न प्रयोजनवत्त्वात् ।
परिवृप्ताद्ब्रह्मणो जगत्सर्गं वदन् समन्वयो विषयः ।
स किमभ्रान्तश्चेतनो यः स निष्फलं वस्तु न रचयतीति न्यायेन विरुध्यते न वेति संदेहे पूर्वमदेहस्यापि श्रुतिबलात् शक्तत्वोक्त्या कर्तृत्वमुक्तं तदाक्षेपसंगत्या पूर्वपक्षसूत्रं व्याचष्टे-#अन्यथेत्यादिना ।
ईश्वरस्य फलाभावे ऽपि परप्रयोजनाय सृष्टौ प्रवृत्तिरस्त्वित्याशङ्क्य श्रुतिमाह-#भवति चेति ।
या प्रेक्षावत्प्रवृत्तिः सा स्वफलार्थेति लोकप्रसिद्धिः ।
नच दयालुप्रवृत्तौ व्यभिचारः, तस्यापि परदुःखासहनप्रयुक्तस्वचित्तव्याकुलतानिवृत्त्यर्थित्वादिति भावः ।
किञ्च गुरुतरायासस्य फलं वाच्यमित्याह-#गुरुतरेति ।
तर्ह्यस्तीश्वरस्यापि प्रवृत्तिः स्वार्थेत्यत आह-#यदीयमपीति ।
अस्वार्थत्वे प्रवृत्त्यभावः पूर्वोक्तः स्यादित्यर्थः ।
ईश्वरः प्रेक्षावान्न भवतीत्याशङ्क्य श्रुतिविरोधमाह-#अथेत्यादिना ।
बुद्धेरपराधो विवेकाभावः ॥32॥
एन्द् ब्स्र्प्_2,1.11.32
स्तर्त् ब्स्र्प्_2,1.11.33ः
लोकवत् तु लीलाकैवल्यम्
उक्तन्यायस्य राज्ञां लीलायां व्यभिचार इति सिद्धान्तसूत्रं व्याचष्टे-#तुशब्देनेति ।
व्यतिरिक्तं ।
लीलातिरिक्तम् ।
क्रीडारूपा विहारा येषु रम्यदेशेषु तेष्वित्यर्थः ।
कदाचिद्राजादीनां लीलाया अपि किञ्चित् फलं सुखोल्लासादिकं संभाव्येत तथापि निःश्वासादौ प्रेक्षावत्प्रवृत्तित्वमस्ति न तु स्वस्य तत्रोद्देश्यं फलं किञ्चिदस्तीति व्यभिचारस्थलान्तरमाह-#यथा चेति ।
प्राणस्य स्वभावश्चलत्वं प्रारब्धं वोच्छ्वासादिहेतुः, ईश्वरस्य स्वभावः कालकर्मसहितमाया ।
नन्वीश्वरस्य जगद्रचनायाः केवललीलात्वं किमित्युच्यते, फलमेव किञ्चित्, कल्प्यतां, तत्राह-#नहीति ।
आप्तकामत्वव्याघातादित्यर्थः ।
नन्वीश्वरस्तूष्णीं किमिति न तिष्ठति, किमिति स्वस्याफलां परेषां दुःखावहां सृष्टिं करोति, तत्राह-#नच स्वभाव इति ।
कालधर्मादिसामाग्र्यां सत्यां सृष्टेरपरिहार्यत्वादित्यर्थः ।
यदुक्तं गुरुतरायासत्वात् फलं वाच्यमिति, तत्र हेत्वसिद्धिमाह-#यद्यपीत्यादिना ।
अल्पप्रवृत्तेरपि फलं वाच्यं लोके तथादर्शनादित्यादितर्कस्यागमबाधमाह-#यदि नामेति ।
सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः ।
स्वप्नसृष्टिवदस्याः सृष्टेर्मायामात्रत्वान्न फलापेक्षेत्याह-#न चेयमिति ।
नच निष्फलसृष्टिश्रुतीनामानर्थक्यं, सफलब्रह्मधीशेषत्वेनार्थवत्त्वादियुक्तं न विस्मर्तव्यमित्यर्थः ॥33॥
एन्द् ब्स्र्प्_2,1.11.33
स्तर्त् ब्स्र्प्_2,1.12.34ः
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति
#वैषम्यनैर्घृण्ये न ।
निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति संदेहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसंगत्या पूर्वपक्षयति-#पुनश्चेत्यादिना ।
ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोर्ऽथः ।
पृथग्जनः पामरः, ऽनिरवद्यं निरञ्जनम्ऽइति श्रुतिः, ऽन मे द्वेष्यो ऽस्ति न प्रियःऽइति स्मृतिः ।
स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः ।
निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात्, न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति-#एवं प्राप्त इत्यादिना ।
नच सापेक्षत्वे अनीश्वरत्वं, सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् ।
ननु तर्हि धर्माधर्माभ्यामेव विचित्रा सृष्टिरस्तु किमीश्वरेणेत्यत आह-#ईश्वरस्तु पर्जन्यवदिति ।
साधारणहेतुसहितस्यैवासाधारणहेतोः कार्यकारित्वान्नेश्वरवैयर्थ्यं, अन्यथा पर्जन्यवैयर्थ्यप्रसङ्गादिति भावः ।
यं जनमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः ।
नच कञ्चिज्जनं साधु कञ्चिदसाधु कर्म कारयतो वैषम्यं तदवस्थमिति वाच्यं, अनादिपूर्वार्जितसाध्वसाधुवासनया स्वभावेन जनस्य तत्तत्कर्मसु प्रवृत्तावीश्वरस्य साधारणहेतुत्वात् ।
अतो ऽनवद्य ईश्वर इति भावः ॥34॥
एन्द् ब्स्र्प्_2,1.12.34
स्तर्त् ब्स्र्प्_2,1.12.35ः
न कर्माविभागाद् इति चेन् नानादित्वाद्
प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात्, तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः-#न कर्मेति ।
प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह-#सृष्ट्युत्तरेति ।
आद्या सृष्टिरित्युपलक्षणम् ।
आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् ।
परिहारः सुगमः ॥35॥
एन्द् ब्स्र्प्_2,1.12.35
स्तर्त् ब्स्र्प्_2,1.12.36ः
उपपद्यते चाप्य् उपलभ्यते च
प्रथमः सर्गः कश्चिन्नास्तीत्यत्र प्रमाणं पृच्छति-#कथं पुनरिति ।
उपपत्तिसहतश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति-#उपपद्यत इति ।
हेतुं विनैव सार्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः ।
ननु सुखादिवैषम्ये ईश्वरो ऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति-#नचेश्वर इत्यादिना ।
कस्तर्हि हेतुः, तत्राह-#रागादीति ।
रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः ।
तस्मादविद्यासहकारिचत्वेन क्लेशकर्मणामनादिप्रवाहो ऽङ्गीकर्तव्य इति भावः ।
किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न संभवति, हेत्वभावात् ।
नच कर्म हेतुः, शरीरात्प्राक्कर्मासंभवात् ।
तस्मात् कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह-#नचेति ।
सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणो ऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह-#नच धारयिष्यतीति ।
ऽगृहस्थः सदृशीं भार्यामुपेयात्ऽइत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः ।
अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते ।
ज्ञानं विनान्तो ऽपि नास्ति ।
नाप्यादिरुपलभ्यते, असत्त्वादेव ।
नच संप्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः ।
संसारस्यानादित्वे ऽपि मिथ्यात्वात् ऽएकमेवाद्वितीयम्ऽइत्यवधारणमुपपन्नम् ।
तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम् ॥36॥
एन्द् ब्स्र्प्_2,1.12.36
स्तर्त् ब्स्र्प्_2,1.13.37ः
सर्वधर्मोपपत्तेश् च
मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0