भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 1.4

1.4.1

वाक्यस्य ब्रह्मात्मैक्यपरत्वे हेत्वन्तरमाह- पत्यादीति ।
सूत्रं व्याचष्टे- इतश्चेति ।
वशी स्वतन्त्रः ।
अपराधीन इति यावत् ।
ईशानो नियमनशक्तिमान् ।
शक्तेः कार्यमाधिपत्यमिति भेदः ।
तस्माच्छोधितत्वमर्थैक्ये षष्ठाध्यायसमन्वय इति सिद्धम् ॥43॥
एन्द् ब्स्र्प्_1,3.13.43
इति श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्याये तृतीयः पादः ॥3॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥
प्रथमाध्याये चतुर्थः पादः ।
अव्यक्तेशमजं पञ्चजनाधारं च कारणम् ।
वेदितन्यं प्रियं वन्दे प्रकृतिं पुरुषं परम् ॥1॥
स्तर्त् ब्स्र्प्_1,4.1.1
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च

1.4.2

अस्मिन्पादे ऽधिकरणत्रयस्येक्षत्यधिकरणेन संगतिं वक्तुं वृत्तमनुवदति- ब्रह्मेति ।
तदशब्दत्वेन ।
प्रधानस्य वैदिकशब्दशून्यत्वेनेत्यर्थः ।
ईक्षत्यधिकरणे गतिसामान्यमशब्दत्वं च प्रतिज्ञातम्, तत्र ब्रह्मणि वेदान्तानां गतिसामान्यं प्रपञ्चितं, अधुना प्रधानस्याशब्दत्वमसिद्धमित्याशङ्क्य निरूप्यत इत्याक्षेपसंगतिः ।
तेनाशब्दत्वनिरूपणेन ब्रह्मणि वेदान्तानां समन्वयो दृढीकृतो भवतीत्यध्यायसंगतिरप्यधिकरणत्रयस्य ज्ञेया ।
अत्राव्यक्तपदं विषयः ।
तत्किं प्रधानपरं पूर्वोक्तशरीरपरं वेति स्मृतिप्रकरणाभ्यां संशये पूर्वमप्रसिद्धब्रह्मपरत्वं यथा षष्ठाध्यायस्य दर्शितं तद्वदव्यक्तपदमप्रिद्धप्रधानपरमिति पूर्वपक्षयति- आनुमानिकमिति ।
अपिशब्दाद्ब्रह्माङ्गीकारेणायमशब्दत्वाक्षेप इति सूचयति ।
तथा च ब्रह्मप्रधानयोर्विकल्पेन कारणत्वात् ब्रह्मण्येव वेदान्तानां समन्वय इति नियमासिद्धिः फलं, सिद्धान्ते नियमसिद्धिरिति विवेकः ।
पदविचारत्वादधिकरणानामेतत्पादसंगतिर्बोध्या ।
स्मार्तक्रमरूढिभ्यामव्यक्तशब्दः प्रधानपरः शब्दस्पर्शादिशून्यत्वेन योगसंभवाच्चेत्याह- शब्दादीति ।
प्रधानस्य वैदिकशब्दवाच्यत्वे का क्षतिरित्यत आह- तदेवेति ।
ऽअजामेकाम्ऽइत्याद्या श्रुतिः ।
ऽहेतुः प्रकृतिरुच्यतेऽइत्याद्या स्मृतिः ।
ऽयदल्पं तज्जडप्रकृतिकम्ऽइति न्यायः ।
ततो ब्रह्मैव कारणमिति मतक्षतिरिति भावः ।
सूत्रे नञर्थं वदन्सिद्धान्तयति- नैतदिति ।
प्रधानं वैदिकं नेत्यत्र तात्पर्याभावं हेतुमाह- नहीति ।
ननु प्रधानस्यात्र प्रत्यभिज्ञानाद्वैदिकत्वमित्यत आह- न ह्यत्रेति ।
ननु शब्दप्रत्यभिज्ञायामर्थो ऽपि प्रत्यभिज्ञायत इत्याशङ्क्य यौगिकाच्छब्दासति नियामके नार्थविशेषधीरित्याह- स चेति ।
रूढ्या तद्धीरित्याशङ्क्य रूढिः किं लौकिकी स्मार्ता वा ।
नाद्य इत्याह- न चेति ।
द्वितीयंप्रत्याह- या त्विति ।
पुरुषसंकेतो नानादिवेदार्थनिर्णयहेतुः, पुंमतेर्विचित्रत्वादित्यर्थः ।
यत्तु स्मार्तक्रमप्रत्यभिज्ञया क्रमिकार्थः स्मार्त एवेति, तत्राह- नच क्रमेति ।
स्थानात्तद्रूपप्रत्यभिज्ञानाशङ्क्यामसतीत्यन्वयान्नञो व्यत्यासेनातद्रूपस्य तद्रूपविरुद्धस्य प्रत्यभिज्ञाने सतीत्यर्थः ।
पूर्वज्ञातरूपार्थस्य स्थाने तद्विरुद्धार्थज्ञाने सति तस्य धीर्नास्तीत्यत्र दृष्टान्तमाह- न हीति ।
प्रकृते नास्ति विरुद्धज्ञानमित्याशङ्क्य प्रकरणाच्छरीरज्ञानमस्तीत्याह- प्रकरणेति ।
शरीरमेव रूपकेण रथसादृश्येन विन्यस्तं शरीररूपकविन्यस्तं, तस्य पूर्ववाक्ये आत्मबुद्ध्योर्मध्यस्थानपठितस्यात्रापि मध्यस्थेनाव्यक्तशब्देन ग्रहणान्न प्रधानस्य वैदिकत्वमिति सूत्रार्थः ।
स्मार्तक्रमः किमिति त्यक्तव्य इत्याशङ्क्य श्रौतक्रमस्य प्रकरणाद्यनुग्रहेण बलवत्त्वादित्याह- कुत इत्यादिना ।
तदुभयं विवृणोति- तथा हीति ।
रूपककॢप्तिः सादृश्यकल्पना ।
प्रग्रहो ऽश्वरशना ।
यदा बुद्धिसारथिर्विवेकी तदा मनसेन्द्रियहयान्विषमविषयमार्गादाकर्षति ।
यद्यविवेकी तदा मनोरशनाबद्धांस्तान् प्रवर्तयतीति मनसः प्रग्रहत्वं युक्तम् ।
तेषु हयेषु ।
गोचरान् मार्गान् ।
ननु स्वतश्चिदात्मनो भोगसंभवात् किं रथादिनेत्यत आह- आत्मेति ।
आत्मा देहः, देहादिसङ्ककल्पनया भोक्तृत्वं न स्वतो ऽसङ्गत्वादित्यर्थः ।
अधुना रथादिभिर्गन्तव्यं वदन्नाकाङ्क्षापूर्वकमुत्तरवाक्यमाह- तैश्चेत्यादिना ।
शरीरस्य प्रकृतत्वे ऽप्यव्यक्तपदेन प्रधानं गृह्यतामित्यत आह- तत्र य एवेति ।
एवं प्रकरणं शोधयित्वा शरीरस्य परिशेषतामानयति- तत्रेन्द्रियेत्यादिना ।
अर्थानां पूर्वमनुक्तिशङ्कां वारयन् परत्वमुपपादयति- अर्था इति ।
गृह्णन्ति पुरुषपशुं बध्नन्तीति ग्रहा इन्द्रियाणि ।
तेषां ग्रहत्वं विषयाधीनम् ।
असति विषये तेषामकिञ्चित्करत्वात् ।
ततो ग्रहेभ्यः श्रेष्ठा अतिग्रहा विषया इति बृहदारण्यके श्रवणात् ।
परत्वं श्रैष्ठ्याभिप्रायं, न त्वान्तरत्वेनेति भावः ।
सविकल्पकं ज्ञानं मनः, निर्विकल्पकं निश्चयात्मिका बुद्धिः, आत्मशब्दात् स एव बुद्धेः परः, प्रत्यभिज्ञायत इति शेषः ।
हिरण्यगर्भाभेदेन ब्रह्मादिपदवेद्या समष्टिबुद्धिर्महानित्याह- अथवेति ।
मननशक्तिः, व्यापिनी, भाविनिश्चयः, ब्रह्मा आत्मा, भोग्यवर्गाश्रयः, तात्कालिकनिश्चयः, कीर्तिशक्तिः, नियमनशक्तिः, त्रैकालनिश्चयः, संविदभिव्यञ्जिका चिदध्यस्तातीतसर्वार्थग्रहिणी समष्टिबुद्धिरित्यर्थः ।
हिरण्यगर्भस्येयं बुद्धिरस्तीत्यत्र श्रुतिमाह- य इति ।
नन्वप्रकृता सा कथमुच्यते, तदुक्तौ च प्रधानेन किमपराद्धमित्यत आह- सा चेति ।
हिरुक्पृथक् ।
पूर्वं व्यष्टिबुद्ध्यभेदेनोक्तात्र ततो भेदेन परत्वमुच्यत इत्यर्थः ।
तर्हि रथरथिनौ द्वौ परिशिष्टौ स्यातां, नेत्याह- एतस्मिंस्त्विति ।
अतो रथ एव परिशिष्ट इत्याह- तदेवमिति ।
तेषु पूर्वोक्तेषु षट्पदार्थेष्वित्यर्थः ।
परिशेषस्य फलमाह- इतराणीति ।
वेदो यमो वेति शेषः ।
दर्शयति चेति सूत्रभागो व्याख्यातः ।
किञ्च ब्रह्मात्मैकत्वपरत्वे ग्रन्थे भेदवादिनां प्रधानस्यावकाशो नास्तीत्याह- शरीरेत्यादिना ।
भोगो वेदना ।
काठकग्रन्थस्यैक्यतात्पर्ये गूढत्वज्ञेयत्वज्ञानहेतुयोगविधये लिङ्गानि सन्तीत्याह- तथा चैष इत्यादिना ।
अग्र्या समाधिपरिपाकजा ।
वागित्यत्र द्वितीयालोपश्छान्दसः, मनसीति दैघ्यं च ॥1॥
एन्द् ब्स्र्प्_1,4.1.1
स्तर्त् ब्स्र्प्_1,4.1.2
सूक्ष्मं तु तदर्हत्वात्

1.4.3

शङ्कोत्तरत्वेन सूत्रं व्याचष्टे- उक्तमेतदित्यादिना ।
कार्यकारणयोरभेदान्मूलप्रकृतिवाचकाव्यक्तशब्देन विकारो लक्ष्यत इत्यर्थः ।
गोभिर्गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत ।
मिश्रितं कुर्यादिति यावत् ।
ऽश्रीञ् पाकेऽइति धातोर्लोटि मध्यमपुरुषबहुवचनमेतत् ।
अव्यक्तात्मना कार्यस्याव्यक्तशब्दयोग्यत्वे मानमाह- श्रुतिश्चेति ।
तर्हि प्रागवस्थायामिदं जगदव्याकृतमासीत् ह किलेत्यर्थः ।
बीजरूपा शक्तिः संस्कारस्तदवस्थम् ॥2॥
एन्द् ब्स्र्प्_1,4.1.2
स्तर्त् ब्स्र्प्_1,4.1.3
तदधीनत्वाद् अर्थवत्

1.4.4

अपसिद्धान्तशङ्कोत्तरत्वेन सूत्रं व्याचष्टे- अत्राहेत्यादिना ।
तर्हि तदा ।
एवं सति सूक्ष्मशब्दितप्रागवस्थाभ्युपगमे सति ।
ईश्वरे कल्पिता तन्नियम्येत्यङ्गीकारान्नापसिद्धान्त इत्याह- अत्रोच्यत इत्यादिना ।
कूटस्थब्रह्मणः स्रष्टृत्वसिद्ध्यर्थमविद्या स्वीकार्येत्युक्तम् ।
बन्धमुक्तिव्यवस्थार्थमपि सा स्वीकार्येत्याह- मुक्तानामिति ।
यन्नाशान्मुक्तिः सा स्वीकार्या, तां विनैव सृष्टौ मुक्तानां पुनर्बन्धापत्तेरित्यर्थः ।
तस्याः परपरिकल्पितसत्यस्वततन्त्रप्रधानाद्वैलक्षण्यमाह- अविद्येत्यादि ना ।
मायामयी प्रसिद्धमायोपमिता ।
लोके मायाविनो मायावत्परतन्त्रेत्यर्थः ।
जीवभेदोपाधित्वेनापि सा स्वीकार्येत्याह- महासुषुप्तिरिति ।
बुद्ध्याद्युपाधिभेदाज्जीवा इति बहूक्तिः ।
अविद्यायां श्रुतिमप्याह- तदेतदिति ।
आकाशहेतुत्वादाकाशः ।
ज्ञानं विनान्ताभावादक्षरम् ।
विचित्रकारित्वान्मायेति भेदः ।
इदानीमविद्याया ब्रह्मभेदान्यत्वाभ्यामनिर्वाच्यत्वेनाव्यक्तशब्दार्हत्वमाह- अव्यक्तेति ।
तस्य महतः परत्वं कथमित्यत आह- तदितमिति ।
यदा बुद्धिर्महांस्तदा तद्धेतुत्वात्परत्वमित्युक्तमित्यन्वयः ।
प्रतिबिम्बस्योपाधिपरतन्त्रत्वादुपाधेः प्रतिबिम्बात्परत्वमाह- यदा त्विति ।
हेतुं स्फुटयति- अविद्येति ।
अव्यक्तस्य परत्वे ऽपि शरीरस्य किं जातं, तदाह- तच्चेति ।
नन्विन्द्रियादीनामप्यव्यक्ताभेदादव्यक्तत्वं परत्वं च किमिति नोच्यते, तत्राह- सत्यपीति ।
सूत्रद्वयस्य वृत्तिकृद्ध्याख्यानमुत्थापयति- अन्ये त्विति ।
पञ्चीकृतभूतानां सूक्ष्मा अवयवाः स्थूलदेहारम्भकाः ।
सूक्ष्मशरीरं प्रतिजीवं लिङ्गस्याश्रयत्वेन नियतमस्तीति वक्ष्यते ।
देहान्तरप्राप्तौ तेन युक्तो गच्छति परलोकमित्यर्थः ।
कथं तस्य महतो जीवात्परत्वमित्याशङ्क्य द्वितीयसूत्रं व्याचष्टे- तदधीनत्वाच्चेति ।
अर्थवदिति ।
सूत्रस्थदृष्टान्तमाह- यथेति ।
तद्ध्याख्यानं दूषयति- तैरिति ।
अव्यक्तपदबलात् प्रकृतमपि स्थूलं त्यज्यत इति शङ्कते- आम्नातस्येति ।
एकार्थबोधकानां शब्दानां मिथ आकाङ्क्षयैकस्यां बुद्धावारूढत्वमेकवाक्यता ।
तव मते तस्या अभावात्कुतोर्ऽथबोध इति समाधत्ते- नेति ।
तां विनाप्यर्थथीः किं न स्यादित्यत आह- नहीति ।
शरीरशब्देन रूढ्या स्थूलं प्रकृतं तस्य हानिरप्रकृतस्य भूतसूक्ष्मस्याव्यक्तपदेन ग्रहणमन्याय्यं स्यादित्यर्थः ।
अस्त्वेकवाक्यतेत्यत आह- न चेति ।
ततः किं तत्राह- तत्रेति ।
आकाङ्क्षया वाक्यैकवाक्यत्वे सति प्रकृतं शरीरद्वयमव्यक्तपदेन ग्राह्यम् ।
आकाङ्क्षायास्तुल्यत्वादिति भावः ।
अनात्मनिश्चयः शुद्धिः, तदर्थं सूक्ष्ममेवाकाङ्क्षितं ग्राह्यम्;तस्य सूक्ष्मत्वेनात्माभेदेन गृहीतस्य दुःशोधत्वात् ।
स्थूलस्य दृष्टदौर्गन्ध्यादिना लशुनादिवदनात्मत्वधीवैराग्ययोः सुलभत्वादिति शङ्कते- न चेति ।
दृष्टा बीभत्सा घृणा यस्मिन् तस्य भावस्तत्ता तयेत्यर्थः ।
दूषयति- यत इति ।
वैराग्यायशुद्धिरत्र न विवक्षिता, विध्यभावात्, किन्तु वैष्णवं परमं पदं विवक्षितमिति तद्दर्शनार्थं प्रकृतं स्थूलमेवाव्यक्तपदेन ग्राह्यमिति भावः ।
किञ्च सूक्ष्मस्य लिङ्गान्तःपातिन इन्द्रियादिग्रहणेनैव ग्रहणान्न पृथगव्यक्तशरीरपदाभ्यां ग्रहः ।
अभ्युपेत्याह- सर्वथेति ।
स्थूलस्य सूक्ष्मस्य वा ग्रहे ऽपीत्यर्थः ।
तथा नामेति ।
सूक्ष्ममेवाव्यक्तमस्त्वित्यर्थः ॥3॥
एन्द् ब्स्र्प्_1,4.1.3
स्तर्त् ब्स्र्प्_1,4.1.4
ज्ञेयत्वावचनाच् च

1.4.5

अत्राव्यक्तं प्रधानं नेत्यत्र हेत्वन्तरार्थं सूत्रम्- ज्ञेयत्वेति ।
सत्त्वादिगुणरूपात्प्रधानात् पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः ।
नहि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यत इति संबन्धः ।
न केवलं भेदप्रतियोगित्वेन प्रधानस्य ज्ञेयत्वं तैरिष्टं किन्तु तस्योपासनयाणिमादिप्राप्तये ऽपीत्याह- क्वचिच्चेति ।
ज्ञानविध्यभावे ऽप्यव्यक्तपदजन्यज्ञानगम्यत्वमार्थिकं ज्ञेयत्वमस्तीत्यत आह- न चानुपदिष्टमिति ।
उपदिष्टं हि ज्ञानं फलवदिति ज्ञातुं शक्यं निष्फलस्योपदेशायोगादव्यक्तस्य च ज्ञानानुपदेशात्फलवज्ज्ञानगम्यत्वासिद्धिरित्यर्थः ।
फलितमाह- तस्मादिति ।
सांख्येष्टसफलज्ञानगम्यत्वावचनाच्चेत्यर्थः ।
ननु शरीरस्यापि ज्ञेयत्वानुक्तेः कथमिह ग्रहणं, तत्राह- अस्माकं त्विति ।
अस्मन्मते विष्णवाख्यपदस्यैकस्यैव ज्ञेयत्वात्तद्दर्शनार्थमव्यक्तपदेन शरीरोपन्यासो युक्त इत्यर्थः ।
साधारणशब्दमात्रान्न प्रधानस्य प्रत्यभिज्ञा स्मार्तलिङ्गस्यानुक्त्या नियामकाभावादिति तात्पर्यम् ॥4॥
एन्द् ब्स्र्प्_1,4.1.4
स्तर्त् ब्स्र्प्_1,4.1.5
वदतीति चेन् न प्राज्ञो हि प्रकरणात्

1.4.6

लिङ्गोक्तिमाशङ्क्य निषेधति- वदतीति चेदिति ।
अत्र हि तादृशमेव निर्दिष्टमित्यन्वयः ।
स्पष्टमन्यत् ॥5॥
एन्द् ब्स्र्प्_1,4.1.5
स्तर्त् ब्स्र्प्_1,4.1.6
त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च

1.4.7

किञ्चात्र कठवल्ल्यां प्रधानस्य प्रश्नोत्तरयोरसत्त्वान्न ग्रहणमित्याह- त्रयाणामिति ।
मृत्युना नचिकेतसं प्रति त्रीन्वरान्वृणीष्वेत्युक्तेः त्रयाणामेव प्रश्नो नचिकेतसा कृतः ।
उपन्यासश्च मृत्युना कृतः ।
नान्यस्येत्यर्थः ।
प्रश्नत्रयं क्रमेण पठति- तत्र तावदिति ।
हे मृत्यो, स मह्यं दत्तवरस्त्वं स्वर्गहेतुमग्नि स्मरसि ।
प्रेते मृते ।
देहादन्यो ऽस्ति न वेति संशयो ऽस्ति ।
अत एतदात्मतत्त्वमसंदिग्धं जानीयामित्यर्थः ।
क्रमेणोत्तरत्रयमाह- प्रतिवचनमपीति ।
लोकहेतुविराडात्मनोपास्यत्वाल्लोकादिश्चित्यो ऽग्निस्तं मृत्युरुवाच नचिकेतसे ।
याः स्वरूपतो यावतीः संख्यातो यथा वा क्रमेणाग्निश्चीयते तत्सर्वमुवाचेत्यर्थः ।
हन्तेदानीं ब्रह्म वक्ष्यामीति ब्रह्मवाक्येन जीवप्रश्नाद्व्यवहितनमपि ऽयथा च मरणं प्राप्यऽइत्यादि वाक्यं जीवविषयमुत्तरं, योग्यत्वादित्यर्थः ।
वाक्यार्थस्तु आत्मा मरणं प्राप्य यथा भवति तथा वक्ष्यामीति ।
प्रतिज्ञातमाह- योनिमिति ।
चराचरदेहप्राप्तौ निमित्तमाह- यथेति ।
श्रुतमुपासनम् ।
सूत्रे आद्यश्चकारो यत इत्यर्थः ।
एवं च त्रयाणामेवोपन्यासः प्रश्नश्च यतः अतो न प्रधानमव्यक्तमिति योजना ।
उक्तार्थे सूत्रमाक्षिपति- अत्राहेति ।
एकः प्रश्नः द्वौ प्रश्नौ वेति पक्षद्वये फलितं पृच्छति- किञ्चात इति ।
सप्तम्यर्थे तसिः ।
अत्र च पक्षद्वये ऽपि किमित्यर्थः ।
प्रश्नैक्ये सूत्रासंगतिः भेदे प्रधानस्य श्रौतत्वसिद्धिरिति पूर्ववाद्याह- स एवेत्यादिना ।
प्रश्नैक्यपक्षमादाय सिद्धान्त्याह- अत्रोच्यत इति ।
येन प्रधानसिद्धिः स्यादिति शेषः ।
चतुर्थप्रश्नकल्पने वरत्रित्वोपक्रमविरोधः स्यादिति विवृणोति- वरेत्यादिना ।
वरप्रदानमुपक्रमो यस्याः सा ।
प्रहिताय यमलोकं प्रति प्रेषिताय ।
इतः पुनः मर्त्यलोकं प्राप्तस्य मम पिता यथापूर्वं सुमनाः स्यादिति प्रथमं वव्रे ।
ननु द्वितीयवरो जीवविद्या तृतीयो ब्रह्मविद्येति प्रश्नभेदः किं न स्यादित्यत आह- येयमिति ।
प्रेते इत्युपक्रम्य तृतीयत्वोक्तिलिङ्गाज्जीवात्मविद्यैव तृतीयो वर इत्यर्थः ।
एवं वाक्योपक्रमे सति प्रश्नान्तरं न युक्तमित्याह- तत्रेति ।
मरणधर्माद्यस्पर्शलिङ्गाभ्यां प्रष्टव्ययोर्जीवेश्वरयोर्भेदात् प्रश्नभेदसिद्धेर्वाक्यबाधो युक्त इति शङ्कते- नन्वित्यादिना ।
गोचरत्वादाश्रयत्वात् ।
न केवलं प्रष्टव्यभेदात् प्रश्नभेदः किन्तु प्रश्नवाक्ययोः सादृश्याभावादपीत्याह- प्रश्नच्छायेति ।
प्रष्टव्यभेदो ऽसिद्ध इति परिहरति- नेत्यादिना ।
किञ्च ब्रह्माप्रश्ने जन्मादिनिषेधेन जीवस्वरूपं वदन् यमस्तयोरैक्यं सूचयतीत्याह- इह चान्यत्रेति ।
तन्निषेधवाक्ये शिवोक्तिरसिद्धेत्यत आह- सतीति ।
भागी युक्तः ।
तस्मादविद्यया जीवस्य प्राप्तजन्मादिनिषेधेन स्वरूपमुक्तमित्यर्थः ।
किञ्च जीवो ब्रह्माभिन्नः, मोक्षहेतुज्ञानविषयत्वात्, ब्रह्मवदित्याह- तथा स्वप्नेति ।
अन्तो ऽवस्था ।
येन साक्षिणा प्रमाता पश्यति तामात्मानमिति संबन्धः ।
हेतोरप्रयोजकत्वमाशङ्कय ऽतमेव विदित्वाऽइति श्रुतिविरोधमाह- प्राज्ञेति ।
किञ्चाभेदमुक्त्वा भेदस्य निन्दितत्वादभेद एव सत्य इत्याह- तथेति ।
इह देहे यच्चैतन्यं तदेवामुत्र सूर्यादौ ।
एवमिहाखण्डैकरसे ब्रह्मणि यो नानेव मिथ्याभेदं पश्यति स भेददर्शी मरणान्मरणं प्राप्नोति संसारभयान्न मुच्यत इत्यर्थः ।
किञ्च जीवप्रश्नानन्तरं ऽतं दुर्दर्शम्ऽइति यदुत्तरमुवाच तेनाप्युत्तरेणाभेदो गम्यत इति संबन्धः ।
प्रष्टृप्रश्नयोः प्रशंसयापि लिङ्गेन पृष्टस्य दौर्लभ्यद्योतनाद्ब्रह्मत्वसिद्धिरित्याह- अन्यं वरमित्यादिना ।
पुत्रादिकं वृणीष्वेत्युक्ते ऽपि विषयांस्तुच्छीकृत्यात्मज्ञानान्न चचाल ऽनान्यं तस्मान्नचिकेता वृणीतेऽइति श्रवणात् ।
तदा संतुष्टो यमः ऽअन्यच्छ्रेयो ऽन्यदुतैव प्रेयःऽइति भोगापवर्गमार्गयोर्वैलक्षण्यं प्रतिज्ञाय ऽदूरमेते विपरीते विषूची अविद्या या च विद्याऽइति दर्शितवानित्यर्थः ।
प्रेयः प्रियतमं स्वर्गादिकं, विषूची विरुद्धफले, अविद्या कर्म, विद्या तत्त्वधीः ।
विद्याभीप्सिनं विद्यार्थिनं त्वामहं मन्ये, यतः त्वा त्वां बहवो ऽपि कामाः पुत्रादयो मया दीयमाना दुर्लभा अपि नालोलुपन्त लोभवन्तं न कृतवन्त इति प्रष्टारं स्तुत्वा प्रश्नमपि ऽत्वादृङ्गो भूयान्नचिकेतः प्रष्टाऽइति स्तुवन्नित्यक्षरार्थः ।
इयं प्रशंसा प्रश्नभेदपक्षे न घटत इत्याह- यत्प्रश्नेति ।
यत्प्रश्नेन स्तुतिं लब्धवांस्तं प्रश्नं विहाय यद्यन्यमेवोत्थापयेत् तर्ह्यनवसरे स्तुतीः कृता स्यादित्यर्थः ।
तस्मादिति ।
प्रष्टव्यभेदाभावादित्यर्थः ।
प्रश्नवाक्यव्यक्त्योः सादृश्याभावात् प्रश्नभेद इत्युक्तं निरस्यति- यत्त्वित्यादिना ।
धर्माद्याश्रयस्य जीवस्य ब्रह्मत्वं कथमित्यत आह- यावदिति ।
अविद्यानाशानन्तरं ब्रह्मत्वं चेदागन्तुकमनित्यं च स्यादित्यत आह- न चाविद्यावत्त्व इति ।
जीवस्य ब्रह्मत्वे स्वाभाविके सति ब्रह्मप्रश्नस्य यदुत्तरं तज्जीवप्रश्नस्यापि भवतीति लाभं दर्शयति- ततश्च न जायत इति ।
जीवब्रह्मैक्ये ऽत्रयाणाम्-ऽइति सूत्रं कथमित्यत आह- सूत्रं त्विति ।
कल्पितभेदात्प्रश्नभेदकल्पनेत्याह- ततश्चेति ।
परमात्मनः सकाशात्प्रधानस्य वैषम्यमनात्मत्वेन तृतीयवरान्तर्भावायोगादिति भावः ॥6॥
एन्द् ब्स्र्प्_1,4.1.6
स्तर्त् ब्स्र्प्_1,4.1.7
महद्वच् च

1.4.8

श्रौतो ऽव्यक्तशब्दो न सांख्यासाधारणतत्त्वगोचरः, वैदिकशब्दत्वात्, महच्छब्दवदित्याह- महद्वच्चेति ।
सूत्रं व्याचष्टे- यथेत्यादिना ।
न चाकाशादिशब्दे व्यभिचारः, आकाशादेर्मतान्तरसाधारणत्वेन सांख्यासाधारणत्वासिद्धेः साध्यस्यापि सत्त्वादिति मन्तव्यम् ।
सत्तामात्रे ।
सत्त्वप्रधानप्रकृतेराद्यपरिणामे ।
निर्विकल्पकबुद्धावित्यर्थः ।
आत्मा महानित्यात्मशब्दप्रयोगात्, तं मत्वा न शोचति, ऽतमसः परस्तादिऽत्यादिना शोकात्ययतमः परत्वादिभ्यश्च महच्छब्दः सांख्यतत्त्वं नाभिधत्त इति संबन्धः ।
अधिकरणार्थमुपसंहरति- अतश्चेति ॥7॥
एन्द् ब्स्र्प्_1,4.1.7
स्तर्त् ब्स्र्प्_1,4.2.8
चमसवदविशेषात्

1.4.9

चमसवदविशेषात् ।
अत्राजापदं विषयः, तत्किं प्रधानपरं मायापरं वेति रूढ्यर्थासंभवात्संशये पूर्वत्राव्यक्तशब्दमात्रेण प्रधानस्याप्रत्यभिज्ञायामप्यत्र त्रिगुणत्वादिलिङ्गोपेतादजापदात्प्रत्यभिज्ञास्तीति प्रत्युदाहरणेन पूर्वपक्षयति- पुनरपीति ।
फलं पूर्वपक्षे ब्रह्मणि समन्वयासिद्धिः, सिद्धान्ते तत्सिद्धिरिति पूर्ववद्द्रष्टव्यम् ।
रागहेतुत्वादिगुणयोगात् लोहितादिशब्दै रजादिगुणलाभे ऽपि कथं प्रधानलाभः, तत्राह- तेषां साम्येति ।
अवयवाः प्रधानस्य रजादयस्तेषां धर्मा रञ्जकत्वादयः तैर्निमित्तैर्लोहितादिशब्दैः प्रधानमुच्यत इत्यर्थः ।
गुणाभेदात्प्रधानलाभ इति भावः ।
तत्राजाशब्दं योजयति- नेति ।
ऽरूढिर्योगमपहरतिऽइति न्यायेन शङ्कते- नन्विति ।
रूढ्यसंभवाद्योग आश्रयणीय इत्याह- बाढमिति ।
अजाशब्दितप्रकृतित्वपुरुषभेदलिङ्गाभ्यामपि प्रधानप्रत्यभिज्ञेत्याह- सा चेत्यादिना ।
प्रजायन्त इति प्रजा महदादयः ।
त्रैगुण्यं सुखदुःखमोहाः ।
अनुशयनं विवृणोति- तामेवाविद्ययेति ।
अविवेकेनेत्यर्थः ।
विषयधीर्भोगः ।
गुणभिन्नात्मख्यातिरपवर्गः ।
सिद्धान्तयति- एवं प्राप्त इति ।
मायादावपि साधारणान्मन्त्राद्विशेषार्थग्रहो न युक्तः, विशेषग्रहहेतोः प्रकरणादेरभावादिति हेतुं व्याख्याय दृष्टान्तं व्याचष्टे- चमसवदिति ।
सर्वत्र गिरिगुहादावपि ॥8॥
एन्द् ब्स्र्प्_1,4.2.8
स्तर्त् ब्स्र्प्_1,4.2.9
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके

1.4.10

उत्तरसूत्रव्यावर्त्यां शङ्कामाह- तत्र त्विदमिति ।
चतुर्विधस्येति ।
जरायुजाण्डजस्वेदजोद्भिज्जरूपस्येत्यर्थ ।
स्मृत्युक्ता कुतो न ग्राह्येति शङ्कते- कस्मादिति ।
श्रुतेः श्रुत्यन्तरादर्थग्रहो युक्तः, साजात्यान्मूलानपेक्षत्वाच्चेत्याह- तथा हीति ।
शाखिनश्चन्दोगाः ।
किञ्च लोहितादिशब्दैरपि द्रव्यलक्षणा न्याय्या अव्यवधानात् न तु रञ्जनीयत्वादिगुणव्यवहिता सत्त्वादिगुणलक्षणेत्याह- लोहितादीनां चेति ।
ननु शाखान्तरेण शाखान्तरस्थमन्त्रस्य निर्णयः कथमित्यत आह- असंदिग्धेनेति ।
सर्वशाखाप्रत्ययन्यादिति भावः ।
यथा शाखान्तरवाक्यान्न प्रधानग्रहस्तथेहापि श्वेताश्वतरोपनिषदि मायाप्रकरणान्न तद्ब्रह्म इत्याह- तथेति ।
सृष्ट्यादौ किंसहायं ब्रह्मेति विमृश्यते ।
ब्रह्मवादिनो ध्यानाख्ययोगेन परमात्मानमनुप्रविष्टाः सन्तः तत्रैव देवस्यात्मभूतामैक्येनाध्यस्तां शक्तिं परतन्त्रां मायां सत्त्वादिगुणवतीं ब्रह्मणः सहायमपश्यन्नित्यन्वयः ।
मायाया एकत्वे ऽपि तदंशानां जीवोपाधीनां तत्तसंघातयोनीनामविद्याख्यानां भेदाद्वीप्सा ।
अव्याकृते अनभिव्यक्ते नामरूपे यस्यां सा ।
अनेन ऽतद्धेदं तर्ह्यव्याकृतमासीत्ऽइति श्रुत्यन्तरप्रसिद्धिरुक्ता ।
तस्यां शक्तौ व्यक्ताव्यक्तकार्यलिङ्गकानुमानं सूययति- नामेति ।
मायाया रोहितादिरूपवत्त्वं कथमित्यत आह- तस्या इति ।
विषय आश्रयः ॥9॥
एन्द् ब्स्र्प्_1,4.2.9
स्तर्त् ब्स्र्प्_1,4.2.10
कल्पनोपदेशाच् च मध्वादिवदविरोधः

1.4.11

एवं प्रकरणबलान्मायैवाजेति भाष्यकृन्मतम् ।
छान्दोग्यश्रुत्या तेजो ऽबन्नलक्षणावान्तरप्रकृतिरजेति सूत्रकृन्मतेनोत्तरसूत्रव्यावर्त्यं शङ्कते- कथमिति ।
किं तेजोबन्नेत्वजाशब्दो रूढो, न जायत इति यौगिको वा ।
नाद्यः, तेष्वजात्वजातेरसत्त्वादित्याह- यावतेति ।
यत इत्यर्थः ।
अतो न रूढ इति शेषः ।
न द्वितीय इत्याह- नचेति ।
जातिर्जन्म ।
अजातिरजन्म ।
लौकिकाजाशब्दसादृश्यकल्पनया तेजो ऽबन्नानामजात्वोपदेशाद्गौणो ऽयं शब्द इति परिहरति- कल्पनेति ।
अनियमो यदृच्छा ।
बर्करो बालपशुः ।
यदुक्तं जीवभेदेन प्रधानवादप्रत्यभिज्ञेति, तन्नेत्याह- न चेदमिति ।
व्यवस्थार्थो भेदो ऽप्यर्थात्प्रतिपाद्यत इत्याह- प्रसिद्धं त्विति ।
सत्य एव प्रसिद्ध इत्यत आह- भेदस्त्विति ।
कल्पनोपदेशे दृष्टान्तं व्याचष्टे- मध्विति ।
नच योगस्य मुख्यवृत्तित्वात्तेन प्रधानग्रहो न्याय्य इति वाच्यं,
रूढार्थानपेक्षाद्योगात्तदाश्रितगुणलक्षणाया बलीयस्त्वात् ।
गुणवृत्तौ हि रूढिराश्रिता भवति ।
तथाच रोहितादिशब्दसमभिव्याहारानुगृहीतया रूढ्याश्रितया गुणवृत्त्या प्रधाने योगं बाधित्वावान्तरप्रकृतिरजाशब्देन ग्राह्य, यथा मध्वादिशब्दैः प्रसिद्धमध्वाद्याश्रितगुणलक्षणय आदित्यादयो गृह्यन्ते तद्वत् ।
तस्मादशब्दं प्रधानमिति सिद्धम् ॥10॥
एन्द् ब्स्र्प्_1,4.2.10
स्तर्त् ब्स्र्प्_1,4.3.11
न संख्योपसंग्रहादपि नानाभावाद् अतिरेकाच् च

1.4.12

न संख्योपसंग्रहात् ।
पञ्चजनशब्दः सांख्यतत्त्वपरो ऽन्यपरो वेति योगरूढ्योरनिश्चयात् संशये यथा तत्त्वविद्याधिकारे छागायां तात्पर्याभावादजापदे रूढित्यागस्तथा पञ्चमनुष्येषु तात्पर्याभावात्पञ्चजनशब्देन रूढिं त्यक्त्वा तत्त्वानि ग्राह्याणीतिदृष्टान्तसंगतिं सूचयन् मन्त्रमुदाहृत्य पूर्वपक्षयति- एवमित्यादिना ।
फलं पूर्ववत् ।
प्राणचक्षुःश्रोत्रान्नमनांसि वाक्यशेषस्थाः पञ्चजनाः पञ्च ।
तत्र चत्वारः सूत्रं अन्नं विराट् तयोः कारणमव्याकृतमाकाशश्च यस्मिन्नध्यस्तास्तमेवात्मानममृतं ब्रह्म मन्ये ।
तस्मान्मननात् विद्वानहममृतो ऽस्मीति मन्त्रदृशो वचनम् ।
नन्वस्तु पञ्चत्वशिष्टेषु पञ्चजनेषु पुनः पञ्चत्वान्वयात् पञ्चविंशतिसंख्याप्रतीतिः, तावता कथं सांख्यतत्त्वग्रह इत्याशङ्क्य संख्याया धर्म्याकाङ्क्षायां तत्त्वानि ग्राह्याणीत्याह- तथेति ।
जगतो मूलभूता प्रकृतिस्त्रिगुणात्मकं प्रधानमनादित्वादविकृतिः ।
कस्यचित्कार्यं न भवतीत्यर्थः ।
महदहङ्कारपञ्चतन्मत्रणीति सप्त प्रकृतयो विकृतयश्च ।
तत्र महान्प्रधानस्य विकृतिरहङ्कारस्य प्रकृतिः ।
अहङ्कारस्तामसः पञ्चतन्मात्राणां शब्दादीनां प्रकृतिः, सात्त्विक एकादशेन्द्रियाणाम् ।
पञ्च तन्मात्राश्च पञ्चानां स्थूलभूतानामाकाशादीनां प्रकृतयः पञ्च स्थूलभूतान्येकादशेन्द्रियाणि चेति षोडशसंख्याको गणो विकार एव न प्रकृतिः, तत्त्वान्तरोपादानत्वाभावात् ।
पुरुषस्तूदासीन इति सांख्यकारिकार्थः ।
संख्यया तत्त्वानामुपसंहग्रहात् शब्दवत्त्वमिति प्राप्ते सिद्धान्तयति- नेति ।
नानात्वमिष्टमित्यत आह- नैषामिति ।
पञ्च्सु पञ्चसु साधारणस्येतरपञ्चकाद्ध्यावृत्तस्य धर्मस्याभावो ऽत्र नानात्वं विवक्षितमित्यर्थः ।
यद्यपि ज्ञानकर्मेन्द्रियेषु दशसु ज्ञानकरणत्वं कर्मकरणत्वं च पञ्चकद्वये ऽस्ति, पञ्चतन्मात्रासु पञ्चसु स्थूलप्रकृतित्वं च, तथापि यस्मिन्नित्यात्मन आकाशस्य च पृथगुक्तेः सत्त्वरजस्तमोमहदहङ्काराः पञ्च कर्तव्याः, मनश्चत्वारि भूतानि च पञ्च ।
अस्मिन् पञ्चकद्वये मिथो ऽनुवृत्तेतरपञ्चकव्यावृत्तधर्मो नास्तीत्यभिप्रायः ।
मास्त्वित्यत आह- येनेति ।
धर्मेणेत्यर्थः ।
तदेत स्फुटयति- नहीति ।
महासांख्यायामवान्तरसंख्याः प्रविशन्ति, यथा द्वावश्विनौ सप्तर्षयो ऽष्टौ वसवश्चेति सप्तदशेत्यत्राश्वित्वादिकमादाय द्वित्वादयः प्रविशन्तिः ।
नान्यथेत्यर्थः ।
पञ्चशब्दद्वयेन स्ववाच्यन्यूनसंख्याद्वारेण तद्व्याप्या महासंख्यैव लक्ष्यत इति सदृष्टान्तं शङ्कते- अथेति ।
मुख्यार्थस्य वक्ष्यमाणत्वाल्लक्षणा न युक्तेति परिहरति- तदपि नेति ।
पञ्चजनशब्दयोरसमासमङ्गीकृत्य पञ्चविंशतिसंख्याप्रतीनिर्निरस्ता ।
संप्रति समासनिश्चयान्न तत्प्रतीरित्याह- परश्चेति ।
समासे हेतुमाह- पारिभाषिकेणेति ।
अयमर्थः-अस्मिन्मन्त्रे प्रथमःपञ्चशब्द आद्युदात्तः ।
द्वितीयः सर्वानुदात्तः ।
जनशब्दश्चान्तोदात्तः ।
तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासं विनान्त्यस्याकारस्योदात्तत्वं पूर्वेषामनुदात्ततत्वं च घटते ऽसमासस्यऽइति सूत्रेण समासस्यान्तोदात्तविधानात् ।
ऽअनुदात्तं पदमेकवर्जम्ऽइति च सूत्रेण यस्मिन्पदे उदात्तः स्वरितो वा यस्य वर्णस्य विधीयते तमेकं वर्जयित्वावशिष्टं तत्पदमनुदात्तं भवतीति विधानादेव मान्त्रिकान्तोदात्तस्वरेणैकपदत्वनिश्चयः भाषिकाख्ये तु शतपथब्रह्मणस्वरविधायकग्रन्थे ऽस्वरितो ऽनुदात्तो वाऽइति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्राह्मणदशायामुदात्तो भवतीत्यपवाद आश्रितः ।
तथा चान्त्यादाकारात्पूर्वेषामनुदात्तानामुदात्तत्वं ब्रह्मणावस्थायां प्राप्तं, ऽउदात्तमनुदात्तमन्त्यम्ऽइति सूत्रेण मन्त्र दशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितं, तथा चान्त्यनकारादुपरितन आकार आकाशश्चेत्यनेन श्लिष्टतया पठ्यमानो ऽनुदात्तो भवति, अयमन्तानुदात्तस्वरः पारिभाषिकस्तेन ब्राह्मणस्वरेणैकपदत्वं निश्चीयत इति ।
प्रकटार्थकारैस्तु पाठकप्रसिद्धो ऽन्तोदात्तस्वरः पारिभाषिक इति व्याख्यातम् ।
तद्व्याख्यानं कल्पतरूकारैर्दूषितम् ।
अन्तानुदात्तं हि समाम्नातारः पञ्चजनशब्दमधीयत इति पाठकप्रसिद्धिरसिद्धेति ।
तथा च पञ्च पञ्चजना इति मान्त्रिकान्तोदात्तः स्वरः, यस्मिन् पञ्च पञ्चजना इत्यन्तानुदात्तो ब्राह्नस्वर इति विभागः ।
उभयथाप्यैकपद्यात् समाससिद्धिरिति ।
तैत्तिरीयकप्रयोगादप्येकपदत्वमित्याह- प्रयोगान्तरे चेति ।
आज्य, त्वा त्वां पञ्चानां पञ्चजनानां देवविशेषाणां यन्त्राय धर्त्राय गृह्णामि इत्याज्यग्रहणमन्त्रशेषः ।
देवतानां कर्मणि यन्त्रदवस्थितं शरीरं तदेव धर्त्रं इहामित्रभोगाधारं, तस्मै तस्यावैकल्यार्थमिति यजमानोक्तिः ।
अस्तु समासस्ततः किमित्यत आह- समत्तत्वाच्चेति ।
आवृतिर्वीप्सा तदभावे पञ्चकद्वयाग्रहणात्पञ्चविंशतिसंख्याप्रतीतिरसिद्धेति भावः ।
जनपञ्चकमेकं पञ्चकानां पञ्चकं द्वितीयमिति पञ्चकद्वयं तस्य पञ्चपञ्चेति ग्रहणं नेत्यक्षरार्थः ।
किञ्चासमासपक्षे ऽपि किं पञ्चशब्दद्वयोक्तयोः पञ्चत्वयोः परस्परान्वयः, किं वा तयोः शुद्धजनैरन्वयः, अथवा पञ्चत्वविशिष्टैर्जनैरपरपञ्चत्वस्यान्वयः ।
नाद्य इत्याह- नच पञ्चसंख्याया इति ।
विशेषणमन्वयः ।
अनन्वये हेतुमाह- उपसर्जनस्येति ।
अप्रधानानां सर्वेषां प्रधानेनैव विशेष्येणैवान्वयो वाच्यः ।
गुणानां परस्परान्वयो वाक्यभेदापातादित्यर्थः ।
द्वितीये दशसंख्याप्रतीतिः स्यान्न पञ्चविंशतिसंख्याप्रतीतिः ।
तृतीयमुत्थापयति- नन्विति ।
पञ्चत्वविशिष्टेषु पञ्चत्वान्तरान्वये विशेषणीभूतपञ्चत्वे ऽपि पञ्चत्वान्वयात् पञ्चविंशतित्वप्रतीतिरित्यर्थः ।
दृष्टान्तवैषम्येण परिहरति- नेति ब्रूम इति ।
पञ्चानां पूलानां समाहारा इत्यत्र ऽसंख्यापूर्वो द्विगुःऽइति समासो विहितः ।
ततो ऽद्विगोःऽइति सूत्रेण ङीपो विधानात् समाहारप्रतीतौ समाहाराः कतीत्याकाङ्क्षायां सत्यां पञ्चेतिपदान्तरान्वयो युक्तः ।
पञ्चजना इत्यत्र तु ङीबन्तत्वाभावेन समाहारस्याप्रतीतेः जनानां चादित एव पञ्चत्वोपादानात्संख्याकाङ्क्षाया असत्त्वात्पञ्चेति पदान्तरं नान्वेति ।
आकाङ्क्षाधीनत्वादन्वयस्येत्यर्थः ।
भेदो विशेषणम् ।
ननु जनानां निराकाङ्क्षत्वे ऽपि तद्विशेषणीभूतपञ्चत्वानि कतीत्याकाङ्क्षायां पञ्चत्वान्तरं विशेषणं भवत्वित्याशङ्कते- भवदपीति ।
नोपसर्जनस्योपसर्जनान्तरेणान्वयः किन्तु प्रधानेनैवेति नोपसर्जन्यायविरोध उक्त इति परिहरति- तत्र चेति ।
एवं नानाभावादिति व्याख्यायातिरेकाच्चेति व्याचष्टे- अतिरेकाच्चेत्यादिना ।
अतिरेक आधिक्यम् ।
जनशब्दितपञ्चविंशतितत्त्वेषु आत्मान्तर्भूतो न वा ।
नाद्य इत्युक्त्वा द्वितीये दोषमाह- अर्थान्तरेति ।
तथाकाशं विकल्प्य दूषयति- तथेति ।
उक्तो दोषः संख्याधिक्यम् ।
पञ्चविंशतिजना आत्माकाशौ चेति सप्तविंशतिसंख्या स्यादित्यर्थः ।

नच सत्त्वरजस्तमसां पृथग्गणनया सेष्टेति वाच्यम्, आकाशस्य पृथगुक्तिवैयर्थ्यात्, यस्मिन्नित्यात्मनि तत्त्वानां प्रतिष्ठोक्तिविरोधात्तव मते स्वतन्त्रप्रधानस्यैवानाधारत्वात्, ऽनेह नानास्तिऽइति वाक्यशेषविरोधाच्च तव सत्यद्वैतवादित्वात् ।
किं च पञ्चविंशतिसंख्याप्रतीतावपि न सांख्यतत्त्वानां ग्रहणमित्याह- कथं चेति ।
किं जनशब्दात्तत्त्वग्रहः उत संख्ययेति कथंशब्दार्थः ।
नाद्य इत्याह- जनेति ।
न द्वितीय इत्याह- अर्थान्तरेति ।
किं तदर्थान्तरं यदर्थकमिदं वाक्यमिति पृच्छति- कथमिति ।
पञ्च च ते जनाश्चेति कर्मधारयादिसमासान्तरात्संज्ञासमासस्याप्तोक्त्या बलवत्त्वं तावदाह- उच्यत इति ।
विग्वाचिनः संख्यावाचिनश्च शब्दाः संज्ञायां गम्यमानायां सुबन्तेतोत्तरपदेन समस्यन्ते ।
यथा दक्षिणाग्निः सप्तर्षय इत्यादि ।
अयं च समासस्तत्पुरुषभेदः ॥11॥
एन्द् ब्स्र्प्_1,4.3.11
स्तर्त् ब्स्र्प्_1,4.3.12
प्राणादयो वाक्यशेषात्

1.4.13

पञ्चजनशब्दस्य संज्ञात्वमुक्त्वा संज्ञिकथनार्थं सूत्रं गृह्णाति- के पुनस्त इति ।
श्रुतौ उतशब्दो ऽप्यर्थः ।
ये प्राणादिप्रेरकं तत्साक्षिणमात्मानं विदुस्ते ब्रह्मविद इत्यर्थः ।
पञ्चजनशब्दस्य प्राणादिषु कया वृत्त्या प्रयोग इति शङ्कते- कथं पुनरिति ।
यथा तव तत्त्वेषु जनशब्दस्य लक्षणय प्रयोगस्तथा मम प्राणादिषु पञ्चजनशब्दस्य लक्षणयेत्याह- तत्त्वेष्विति ।
तर्हि रूढ्यतिक्रमसाम्यात्तत्त्वान्येव ग्राह्याणीत्यत आह- समाने त्विति ।
संनिहितसजातीयानपेक्षश्रुतिस्था एव ग्राह्याः ।
न तु व्यवहितविजातीयसापेक्षस्मृतिस्था इत्यर्थः ।
लक्षणाबीजं संबन्धमाह- जनेति ।
जनः पञ्चजन इति पर्यायः ।
पुरुषमित्रादिशब्दवच्च पञ्चजनशब्दस्य प्राणादिलक्षकत्वं युक्तमित्याह- जनवचनश्चेति ।
ननु जायन्त इति जना महदादयः, जनकत्वाज्जनः प्रधानमिति योगसंभवे किमिति रूढिमाश्रित्य लक्षणाप्रयास इत्यत आह- समासेति ।
यथा अश्वकर्णशब्दस्य वर्णसमुदायस्य वृक्षे रूढिरेवं पञ्चजनशब्दस्य रूढिरेव नावयवशक्त्यात्मको योग इत्यर्थः ।
पूर्वकालिकप्रयोगाभावान्न रूढिरित्याक्षिपति- कथमिति ।
ऽस्युः पुमांसः पञ्चजनाःऽइत्यमरकोशादौ प्रयोगो ऽस्त्येव, तदभावमङ्गीकृत्याप्याह- शक्येति ।
जनसंबन्धाच्चेति पूर्वभाष्ये नरेषु पञ्चजनशब्दस्य रूढिमाश्रित्य प्राणादिषु लक्षणोक्ता ।
इह तु प्रौढिवादेन प्राणादिषु रूढिरुच्यत इति मन्तव्यम् ।
संगृहीतं विवृणोति- प्रसिद्धेत्यादिना ।
ऽउद्भिदा यजेत पशुकामःऽइत्यत्रोद्भित्पदं विधेयगुणार्थकं कर्मनामधेयं वेति संशये खनित्रादावुद्भित्पदस्य प्रसिद्धेर्यागनामत्वे प्रसिद्धिविरोधाज्ज्योतिष्टोमे गुणविधिरिति प्राप्ते राद्धान्तः-यजेत यागेनेष्टं भावयेदित्यर्थः ।
ततश्टोद्भिदेत्यप्रसिद्धस्य तृतीयान्तस्य यागेनेत्यनेन प्रसिद्धार्थकेन सामानाधिकरण्येन तन्नामत्वं निश्चीयते, उद्भिनत्ति पशून्साधयतीति प्रसिद्धेरविरोधादपेरकृतज्योतिष्टोमे गुणविध्ययोगात्, तद्विधौ चोद्भिदाख्यगुणवता यागेनेति मत्वर्थसंबन्धलक्षणाप्रसङ्गाच्चेति कर्मनामैवोद्भित्पदम् ।
तथा छिनत्तीति प्रसिद्धार्थच्छेदनयोग्यार्थकशब्दसमभिव्याहाराद्दारुविशेषो यूपशब्दार्थः करोतीति समभिव्याहाराद्वेदिशब्दार्थः संस्कारयोग्यस्थण्डिलविशेष इति गम्यते ।
तथा प्रसिद्धार्तकप्राणादिशब्दसमभिव्याहारात् पञ्चजनशब्दः प्राणाद्यर्थक इति निश्चीयत इत्यर्थः ।
एकदेशिनां मतद्वयमाह- कैश्चिदित्यादिना ।
शूद्रायां ब्राह्मणाज्जातो निषादः ।
श्रुत्या पञ्चजनशब्दस्यार्थान्तरमाह- क्वचिच्चेति ।
पाञ्चजन्यया प्रजया विशतीति विट् तया विशापुरुषरूपयेन्द्रस्याह्वानार्थं घोषाः सृष्टा इति यत्तद्युक्तं, घोषातिरेकेणेन्द्राह्वानायोगादिति श्रुत्यनुसारेण प्रजामात्रग्रहे ऽपि न विरोध इत्यर्थः ।
सूत्रविरोधमाशङ्क्याह- आचार्यस्त्विति ।
अतः सांख्यतत्त्वातिरिक्तयत्किञ्चित्परतया पञ्चजनशब्दव्याख्यायामविरोध इति भावः ॥12॥
एन्द् ब्स्र्प्_1,4.3.12
स्तर्त् ब्स्र्प्_1,4.3.13
ज्योतिषैकेषाम् असत्यन्ने

1.4.14

शङ्कोत्तरत्वेन सूत्रं गृह्णाति- भवेयुरिति ।
ज्योतिषां सूर्यादीनां ज्योतिस्तद्ब्रह्म देवा उपासत इत्यर्थः ।
नन्विदं षष्ठ्यन्तज्योतिःपदोक्तं सूर्यादिकं ज्योतिः शाखाद्वये ऽप्यस्ति, तत्काण्वानां पञचत्वपूरणाय गृह्यते नान्येषामिति विकल्पो न युक्त इति शङ्कते- कथं पुनरिति ।
आकाङ्क्षाविशेषाद्विकल्पो युक्त इत्याह सिद्धान्ती- अपेक्षेति ।
यथा अतिरात्रे षोडशिनं गृह्णाति न गृह्णाति इति वाक्यभेदाद्विकल्पस्तद्वच्छाखाभेदेनान्नपाठापाठाभ्यां ज्योतिषो विकल्प इत्यर्थः ।
ननु क्रियायां विकल्पो युक्तो न वस्तुनीति चेत् ।
सत्यम् ।
अत्रापि शाखामेदेन सान्ना ज्योतिःसहिता वा पञ्च प्राणादयो यत्र प्रतिष्ठितास्तन्मनसानुद्रष्टव्यमिति ध्यानक्रियायां विकल्पोपपत्तिरित्यनवद्यम् ।
उक्तं प्रधानस्याशब्दत्वमुपसंहरति- तदेवमिति ।
तथापि स्मृतियुक्तिभ्यां प्रधानमेव जगत्कारणमित्यत आह- स्मृतीति ॥13॥
एन्द् ब्स्र्प्_1,4.3.13
स्तर्त् ब्स्र्प्_1,4.4.14
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः

1.4.15

कारणत्वेन चाकाशादिषु तथव्यपदिष्टोक्तेः ।
पूर्वग्रन्थेनास्य संगतिं वक्तुं वृत्तमनुवदति- प्रतिपादितमिति ।
अधिकरणत्रयेण प्रधानस्याश्रौतत्वोक्त्या जगत्कारणत्वलक्षणेन ब्रह्मण एव बुद्धिस्थता, तस्मिन्नेव बुद्धिस्थे निर्विशेषे ब्रह्मणि वेदान्तानां समन्वय इति साधितं पूर्वसूत्रसंदर्भेण ।
तत्र लक्षणसमन्वययोरसिद्धिरेव, श्रुतीनां विरोधदर्शनादित्याक्षेपरूपां तेनास्य संगतिमाह- तत्रेति ।
न चाविरोधचिन्ताया द्वितीयाध्याये संगतिर्नास्मिन्नध्याय इति वाच्यं, सिद्धे समन्वये स्मृत्यादिमानान्तरविरोधनिरासस्य द्वितीयाध्यायार्थत्वात्, तत्पदवाच्यजगत्कारणवादिश्रुतीनां मिथो विरोधाद्वाच्यार्थानिर्णयेन लक्ष्ये समन्वयासिद्धौ प्राप्तायां तत्साधकाविरोधचिन्ताया अत्रैव संगतत्वात् ।
न चैवं सृष्टिश्रुतीनामप्यविरोधो ऽत्रैव चिन्तनीय इति वाच्यम्, स्वप्नवत्कल्पितसृष्टौ विरोधस्यैवाभावात् ।
किमर्थं तर्हि द्वितीये तच्चिन्तनं, स्थूलबुद्धिसमाधानार्थमिति ब्रूमः ।
इह तु सूक्ष्मदृशां वाक्यार्थे समन्वयज्ञानाय तत्पदार्थश्रुतिविरोधः परिह्रियते ।
तद्यपि त्वंपदार्थश्रुतिविरोधो ऽत्र परिहर्तव्यः तथापि प्रथमसूत्रेण बन्धमिथ्यात्वसूचनादविरोधः सिद्धः ।
प्रपञ्चस्तु स्थूलबुद्धिसमाधनप्रसङ्गेन भविष्यतीति मन्यते सूत्रकारः ।
अत्र जगत्कारणश्रुतयो विषयः ।
ताः किं ब्रह्मणि मानं न वेति संशये ऽन्नज्योतिषोः संख्यादृष्टिक्रियायां विकल्पे ऽपि कारणे वस्तुन्यसद्वा सद्वा कारणमित्यादिविकल्पासंभवादप्रामाण्यमिति प्रत्युदाहरणेन पूर्वपक्षयन्नुक्ताक्षेपं विवृणोति- प्रतिवेदान्तमित्यादिना ।
वेदान्तानां समन्वयसाधनाच्छ्रुत्यध्यायसंगतिः ।
असदादिपदानां सत्कारणे समन्वयोक्तेः पादसंगतिः ।
पूर्वपक्षे समन्वयासिद्धिः फलं, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
क्रमाक्रमाभ्यां सृष्टिविरोधं तावद्दर्शयति- तथाहि क्वचिदित्यादिना ।
स परमात्मा लोकानसृजत ।
अंमयशरीरप्रचुरस्वर्गलोको ऽम्भः शब्दार्थः ।
सूर्यरश्मिमव्याप्तो ऽन्तरिक्षलोको मरीचयः ।
मरो मर्त्यलोकः ।
अब्बहुलाः पाताललोका आप इति श्रुत्यर्थः ।
सृष्टिविरोधमुक्त्वा कारणविरोधमाह- तथेति ।
असदनभिव्यक्तनामरूपात्मकं कारणं, ततः कारणात्सदभिव्यक्तम् ।
एतत्तुल्यार्थं छान्दोग्यवाक्यमाह- असदेवेति ।
किं शून्यमेव, नेत्याह- तत्सदिति ।
अबाधितं ब्रह्मैवासीदित्यर्थः ।
तद्ब्रह्मात्मना स्थितं जगत्सृष्टिकाले सम्यगभिव्यक्तमभवत् ।
प्रक्रिया सृष्टिः ।
तत्तत्र कारणे ।
एके बाह्याः ।
तेषां मतं श्रुतिरेव दूषयति- कुत इति ।
कुत एवंपदयोरर्थमाह- कथमिति ।
स्वतमाह- सदिति ।
तदिदं जगद्ध किल तर्हि प्राक्काले ऽव्याकृतं कारणात्मकामासीत् ।
श्रुतीनां विरोधमुपसंहरति- एवमिति ।
किमत्र न्याय्यमित्याशङ्क्य मानान्तरसिद्धप्रधानलक्षकत्वं वेदान्तानां न्याय्यमित्याह- स्मृतीति ।
तत्र सृष्टौ विरोधमङ्गीकृत्य स्रष्टरि विरोधं परिहरति- सत्यपीति ।
आकाशादिषु ब्रह्मणः कारणत्वे विरोधो नैवास्तीति प्रतिज्ञायां हेतुमाह- कुत इति ।
यथाभूतत्वमेवाह- सर्वज्ञ इति ।
कारणस्य सर्वज्ञत्वादिकं प्रतिवेदान्तं दृश्यत इत्याह- तद्यथेत्यादिना ।
तद्विषयेण ब्रह्मविषयेण ।
चेतनं सर्वज्ञम् ।
ऽतदात्मानं स्वयमकुरुतऽइति श्रुतेरपरप्रयोज्यत्वम् ।
ऽतस्माद्वा एतस्मादात्मनःऽइति प्रत्यगात्मत्वम् ।
स्वस्य बहुरूपत्वकामनया स्थितिकाले ऽप्यद्वितीयत्वम् ।
यथा तैत्तिरीयके सर्वज्ञत्वादिकं कारणस्य तथा छान्दोग्यादावपि दृश्यत इत्याह- तदत्र यल्लक्षणमिति ।
मिषत्सव्यापारम् ।
अविगीतार्थत्वादविरुद्धार्थकत्वात् कारणे नास्ति विप्रतिपत्तिरिति शेषः ।
तथापि कार्ये विरोधात्कारणे ऽपि विरोधः स्यादित्याशङ्क्य निषेधति- कार्यविषयं त्वित्यादिना ।
स्वप्नसृष्टीनां प्रत्यहमन्यथात्वेन सो ऽहमिति प्रत्यभिज्ञायमाने द्रष्टर्यपि नानात्वं प्रसज्येतेत्याह- अतिप्रसङ्गादिति ।
सृष्टिविरोधमङ्गीकृत्य स्रष्टरि न विरोध इत्युक्तम् ।
अधुनाङ्गीकारं ज्यजति- समाधास्यति चेति ।
किमर्थं तर्हि श्रुतयः सृष्टिमन्यथान्यथा वदन्तीत्याशङ्क्य सृष्टावतात्पर्यज्ञापनायेत्याह- भवेदित्यादिना ।
अतात्पर्यार्थविरोधो न दोषायेत्यतात्पर्यं साधयति- नहीति ।
फलवद्ब्रह्मवाक्यशेषत्वेन सृष्टिवाक्यानामर्थवत्त्वसंभवान्न स्वार्थे पृथक्फलं कल्प्यं, वाक्यभेदापत्तेरित्याह- नच कल्पयितुमिति ।
न्यायादेकवाक्यत्वं सिद्धं श्रुतिरपि दर्शयतीत्याह- दर्शयति चेति ।
शुङ्गेन कार्येण लिङ्गेन कारणब्रह्मज्ञानार्थत्वं सृष्टिश्रुतीनामुक्त्वा कारणस्याद्वयत्वज्ञानं फलान्तमाह- मृदादीति ।
एवं निष्फलायामन्यार्थायां सृष्टौ तात्पर्याभावाद्विरोधो न दोष इत्यत्र वृद्धसंमतिमाह- तथाचेति ।
अन्यथान्यथेति वीप्सा द्रष्टव्या ।
अवताराय ब्रह्माधिजन्मने ।
अतस्तदन्यथात्वे ऽपि ब्रह्मणि न भेदः ।
ज्ञेये न विगानमित्यर्थः ।
ब्रह्मज्ञानस्य सृष्टिशेषित्वमुक्तं, तन्निर्वाहाय तस्य फलमाह- ब्रह्मेति ।
मृत्युमत्येतीत्यन्वयः ॥14॥
एन्द् ब्स्र्प्_1,4.4.14
स्तर्त् ब्स्र्प्_1,4.4.15
समाकर्षात्

1.4.16

एवं सृष्टिद्वारकं विरोधमुत्सूत्रं समाधाय कारणस्य सदसत्त्वादिना साक्षाच्छ्रुतिविरोधनिरासार्थं सूत्रमादत्ते- यत्पुनरिति ।
यतो ऽस्तित्वलक्षणं ब्रह्म निर्धार्य तस्मिन्नेव श्लोकमुदाहरति, अतो ऽत्र श्लोके निरात्मकमसन्न श्राव्यत इति योजना ।
तत् तत्र सदात्मनि श्लोको मन्त्रो भवति ।
सदात्मसमाकर्षादतीन्द्रियार्थकासत्पदेन ब्रह्म लक्ष्यत इत्याह- तस्मादिति ।
नच प्रधानमेव लक्ष्यतामिति वाच्यम् ।
चेतनार्थकब्रह्मादिशब्दानामनेकेषां लक्षणागौरवादिति भावः ।
तैत्तिरीयकश्रुतौ सूत्रं योजयित्वा छान्दोग्यादौ योजयति- एषैवेति ।
सदेकार्थकतत्पदेन पूर्वोक्तासतः समाकर्षान्न शून्यत्वमित्यर्थः ।
नन्वसत्पदलक्षणा न युक्ता, श्रुतिभिरेव स्वमतभेदेनोदितानुदितहोमवद्विकल्पस्य दर्शितत्वादित्यत आह- तद्धैक इति ।
एके शाखिन इत्यर्थो न भवति, किन्तु अनादिसंसारचक्रस्था वेदबाह्या इत्यर्थः ।
शून्यनिरासेन श्रुतिभिः सद्वादस्यैवेष्टत्वात्तासां विरोधस्फूर्तिनिरासाय लक्षणा युक्तेति भावः ।
यदुक्तं क्वचिदकर्तृका सृष्टिः कथितेति, तन्नेत्याह- तद्धेदमिति ।
अध्यक्षः कर्ता ।
ननु कर्त्रभाव एव परामृश्यत इत्यत आह- चेतनस्य चायमिति ।
चक्षुर्द्रष्टा, श्रोत्रं श्रोता, मनो मन्तेत्युच्यत इत्यर्थः ।
आद्यकार्यं सकर्तृकं, कार्यत्वात्, घटवदित्याह- अपिचेति ।
अद्यत्वे इदानीम् ।
ननु कर्मकारकादन्यस्य कर्तुः सत्त्वे कर्मण एव कर्तृवाचिलकारो विरुद्ध इत्यत आह- व्याक्रियत इति ।
अनायासेन सिद्धिमपेक्ष्य कर्मणः ।
कर्तृत्वमुपचर्यत इत्यर्थः ।
व्याक्रियते जगत्स्वयमेव निष्पन्नमिति व्याख्याय केनचिद्व्याकृतमिति व्याचष्टे- यद्वेति ।
अतः श्रुतीनामविरोधात्कारणद्वारा समन्वय इति सिद्धम् ॥15॥
एन्द् ब्स्र्प्_1,4.4.15
स्तर्त् ब्स्र्प्_1,4.5.16
जगद्वाचित्वात्

1.4.17

जगद्वाचित्वात् ।
विषयमाह- कौषीतकीति ।
बलाकाया अपत्यं बालाकिर्ब्राह्मणस्तं प्रति राजोवाच- यो वा इति ।
न केवलमादित्यादीनां कर्ता किन्तु सर्वस्य जगत इत्याह- यस्येति ।
एतज्जगद्यस्य कर्म ।
क्रियते इति व्युत्पत्त्या कार्यमित्यर्थः ।
कर्मेतिशब्दस्य योगरूढिभ्यां संशयमाह- तत्रेति ।
पूर्वत्रैकवाक्यस्थसदादिशब्दबलादसच्छब्दो नीतः ।
इह तु वाक्यभेदात् ऽब्रह्म ते ब्रवाणिऽइति बालाकिवाक्यस्थब्रह्मशब्देन प्राणादिशब्दो ब्रह्मपरत्वेन नेतुमाशक्य इति प्रत्युदाहरणेन पूर्वपक्षमाह-- किं तावदिति ।
पूर्वपक्षे वाक्यस्य प्राणाद्युपास्तिपरत्वाद्ब्रह्मणि समन्वयासिद्धिः सिद्धान्ते ज्ञेये समन्वयसिद्धिरिति फलम् ।
अथ सुषुप्तौ ।
द्रष्टेति शेषः ।
श्रुतं पुरुषकर्तृत्वं प्राणस्य कथमित्यत आह- ये चैत इति ।
सूत्रात्मकप्राणस्य विकारः सूर्यादय इत्यत्र मानमाह- क्रतम इति ।
यस्य महिमानः सर्वे देवा इति पूर्ववाक्ये दर्शितं, अतः सर्वदेवात्मकत्वात्, स प्राणो ब्रह्म ।
त्यत् परोक्षम् ।
शास्त्रैकवेद्यत्वादित्यर्थः ।
पूर्वपक्षान्तरमाह- जीवो वेति ।
यत्कारणं यस्माज्जीवं बोधयति तस्मादस्ति सुप्तोत्थापनं जीवलिङ्गमिति योजना ।
तौ ह पुरुषं सुप्तमाजग्मतुः ।
तं राजा हे बृहत्पाण्डरवासः सोमराजन्नित्यामन्त्र्य संबोध्य संबोधनानभिज्ञत्वात् प्राणादेरनात्मत्वमुक्त्वा यष्ठ्याघातेनोत्थाप्य जीवं बोधितवानित्यर्थः ।
श्रोष्ठी प्रधानः स्वैर्भृत्यैर्ज्ञातिभिरुपहृतं भुङ्क्ते स्वाः ज्ञातयश्च तमुपजीवन्ति, एवं जीवो ऽपि आदित्यादिभिः प्रकाशादिना भोगोपकरणैर्भुङ्क्ते ते च हविर्ग्रहणादिना जीवमुपजीवन्तीत्युक्तं भोक्तृत्वं जीवलिङ्गम् ।
ननु ऽप्राण एवैकधा भवतिऽइति श्रुतः प्राणशब्दो जीवे कथमित्यत आह- प्राणभृत्त्वाच्चेति ।
सूत्राद्बहिरेव सिद्धान्तयति- एवमिति ।
स च बालाकिर्ब्रह्मत्वभ्रान्त्या व्यष्टिलिङ्गरूपान्पुरुषानुक्त्वा राज्ञा निरस्तस्तूष्णीं स्थितः ।
त्वदुक्तं ब्रह्म मृषेत्युक्त्वा राज्ञोच्यमानं ब्रह्मैवेति वक्तव्यमन्यथाराज्ञो ऽपि मृषावादित्वप्रसङ्गादित्याह- यदि सो ऽपीति ।
वेदितव्यो ऽपीत्यर्थः ।
मुख्यं पुरुषकर्तृत्वं ब्रह्मण एव लिङ्गं, प्राणजीवयोस्तन्नियम्यत्वेनास्वातन्त्र्यादित्याह- कर्तृत्वं चेति ।
यदुक्तं चलनादृष्टयोर्वाचकः कर्मशब्दः प्राणजीवयोरुपस्थापक इति, तन्नेत्याह- यस्येति ।
अनेकार्थकाच्छब्दादन्यतरार्थस्य प्रकरणादुपपदाद्वा ग्रहणं न्याय्यम् ।
अत्र प्रकरणोपपदयोरसत्त्वात्कस्य ग्रहणमिति संशये पुरुषकर्तृपदसांनिध्यात् क्रियत इति योगाज्जगद्ग्रहणमित्यर्थः ।
एतकर्मेतिप्रकृतपरामर्शात्पुरुषाः पूर्वोक्तः कर्मशब्देन निर्दिश्यन्तामित्यत आह- नापीति ।
पौनरुक्त्यातात्पुरुषाणां नपुंसकैकवचनेन परामर्शायोगाचेत्यर्थः ।
ननु पुरुषोत्पादकस्य कर्तुर्व्यापारः करोत्यर्थं उत्पादनं तस्यफलं पुरुषजन्म तदन्यतरवाची कर्मशब्दो ऽस्त्वित्यत आह- नापीति ।
कर्तृशब्देनेति ।
क्रियाफलाभ्यां विना कर्तृत्वायोगात्कर्तृशब्देनैव तयोर्ग्रहणमित्यर्थः ।
जगतो ऽपि प्रकरणोपपदे न स्त इत्युक्तमङ्गीकरोति- सत्यमिति ।
प्रकरणादिकं हि सर्वनाम्नः संकोचकं, तस्मिन्नसति सामान्येन बुद्धिस्थं सर्वमेव गृह्यते ।
अत्र च संकोचकासत्त्वात्सर्वार्थकेन सर्वनाम्ना बुद्धिस्थस्य कार्यमात्रस्य कर्मशब्दो वाचक इत्याह- तथापीति ।
किञ्च जगदेकदेशोक्त्या जगत्प्रकृतमित्याह- पूर्वत्रेति ।
जगद्ग्रहे पुरुषाणामपि ग्रहात्पृथगुक्तिर्व्यर्थेत्यत आह- एतदुक्तमिति ।
स वेदितव्य इति संबन्धः ।
पुरुषमात्रनिरूपितं कर्तृत्वमिति भ्रान्तिनिरासार्थो वाशब्दः ।
ब्राह्मणा भोजयितव्याः परिव्राजकाश्चेत्यत्र यथा ब्रह्मणशब्दः परिव्राजकान्यविषयः तथात्र कर्मशब्दः पुरुषान्यजगद्वाचीत्याह- एवमिति ।
अस्तु जगत्कर्ता वेदितव्यः, परमेश्वरस्य किमायातमित्यत आह- परमेश्वरेति ॥16॥
एन्द् ब्स्र्प्_1,4.5.16
स्तर्त् ब्स्र्प्_1,4.5.17
जीवमुख्यप्राणलिङ्गान् नेति चेत् तद्व्याख्यातम्

1.4.18

सिद्धान्तमुक्त्वा पूर्वपक्षबीजमनूद्य दूषयति- जीवमुख्यप्राणलिङ्गादिति ।
उक्तमेव स्मारयति- त्रिविधमिति ।
श्रैष्ठ्यं गुणाधिक्यम्, आदिपत्यं नियन्तृत्वम् ।
स्वाराज्यमनियम्यत्वमिति भेदः ।
ऽसंभवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यतेऽइत्युक्तं चेत् पुनरुक्तिः स्यादिति शङ्कते- नन्वेवमिति ।
कर्मपदस्य रूढ्या पूर्वपक्षप्राप्तौ तन्निरासार्थमस्यारम्भो युक्त इत्याह- नेत्यादिना ।
प्राणशब्दजीवलिङ्गयोर्गतिमाह- प्राणशब्दो ऽपीति ।
मनो जीवः ॥17॥
एन्द् ब्स्र्प्_1,4.5.17
स्तर्त् ब्स्र्प्_1,4.5.18
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् अपि चैवम् एके

1.4.19

जीवलिङ्गेन ब्रह्मैव लक्ष्यत इत्युक्तम् ।
इदानीं तल्लिङ्गेन जीवोक्तिद्वारा ब्रह्म ग्राह्यमित्याह- अन्यार्थमिति ।
जीवपरामर्शस्य जीवाधिकरणब्रह्मज्ञानार्थत्वे प्रश्नमाह- कैष इति ।
हे बालाके, एतच्छयनं विशेषज्ञानाभावरूपं यथा स्यात्तथैष पुरुषः क्वाशयिष्ट ।
कस्मिन्नधिकरणे शयनं कृतवानित्यर्थः ।
एकीभावाश्रयज्ञानार्थं पृच्छति- क्व वेति ।
एतद्भवनमेकीभावरूपं यथा स्यात्तथा एष पुरुषः क्वाभूत्सुप्तः ।
केनैक्यं प्राप्नोतीति यावत् ।
उत्थानापादानं पृच्छति- कुत इति ।
एतदागमनमैक्यभ्रंशरूपं यथा स्यात्तथा पुरुषः कुत आगत इत्यर्थः ।
प्रश्नमुक्त्वा व्याख्यानमाह- प्रतिवचनमिति ।
शयनभवनयोराधार उत्थानापादनं च प्राणाशब्दितं ब्रह्मैवेत्यर्थः ।
उत्तरे प्राणोक्तेः प्रश्नो ऽपि प्राणविशय इत्यत आह- सुषुप्तिकाले चेति ।
जगद्धेतुत्व जीवैक्याभ्यां प्राणो ऽत्र ब्रह्मेत्यर्थः ।
जीवोक्तेरन्यार्थत्वमुपसंहरति- तस्मादिति ।
निःसंबोधता विशेषधीशून्यता ।
स्वच्छता विक्षेपमलशून्यता ।
भेदभ्रान्तिशून्यता स्वरूपैक्यमाह- उपाधीति ।
प्रश्नव्याख्यानयोर्ब्रह्मविषयत्वे शाखान्तरसंवादमाह- अपि चैवमेके शाखिन इति ।
ननु तत्राकाशः सुषुप्तिस्थानमुक्तं न ब्रह्मेत्यत आह- आकाशेति ।
उपाधिद्वारा प्रमात्रात्मजन्महेतुत्वाच्चाकाशो ब्रह्मेत्याह- सर्व इति ।
एवं जीवनिरासार्थकत्वेन सूत्रं व्याख्याय प्राणनिरासपरत्वेनापि व्याचष्टे- प्राणेति ।
अस्मिन्वाक्ये प्राणोपदेशं ब्रह्मज्ञानार्थं मन्यते जैमिनिः, उक्तप्रश्नव्याख्यानाभ्यां वाक्यस्य ब्रह्मपरत्वागमात् ।
अपि चैके शाखिन एवमेव प्राणातिरिक्तं जीवात्मानमामनन्तः प्राणस्य वाक्यार्थत्वं वारयन्तीति सूत्रयोजना ।
अतिरिक्तजीवोपदेशः प्राणनिराकरणस्याप्यभ्युच्चयो हेत्वन्तरमिति भाष्यार्थः ।
तस्मादिदं वाक्यं ब्रह्मणि समन्वितमिति सिद्धम् ॥18॥
एन्द् ब्स्र्प्_1,4.5.18
स्तर्त् ब्स्र्प्_1,4.6.19
वाक्यान्वयात्

1.4.20

वाक्यान्वयात् ।
विषयवाक्यमाह- बृहदिति ।
प्रत्यादेरात्मशेषत्वेन प्रियत्वादात्मैव सर्विशेषी प्रियतमः, अतो ऽन्यत्परित्यज्यात्मैव द्रष्टव्यः ।
दर्शनार्थं श्रवणादिकं कार्यमित्यर्थः ।
प्रियसंसूचितेनेति ।
पातिजायादिभिः ।
प्रियैर्भोग्यैर्जीवतयानुमितेनेत्यर्थः ।
यथा ऽब्रह्म ते ब्रवाणिऽइत्युपक्रमबलाद्वाक्यस्य ब्रह्मपरत्वं तथात्र जीवोपक्रमादस्य वाक्यस्य जीवपरत्वमिति दृष्टान्तेन पूर्वपक्षयति- किं तावदिति ।
पूर्वपक्षे वाक्यस्य जीवोपास्तिपरत्वं, सिद्धान्ते ज्ञेये प्रत्यग्ब्रह्मणि समन्वय इति फलम् ।
इदं प्रत्यक् ।
महदपरिच्छिन्नम् ।
भूतं सत्यम् ।
अनन्तं नित्यम् ।
अपारं सर्वगतं चिदेकरसम् ।
एतेभ्यः कार्यकारणात्मना जायमानेभ्यो भूतेभयः साम्येनोत्थाय भूतोपाधिकं जन्मानुभूय तान्येव भूतानि नीयमानान्यनुसृत्य विनश्यति ।
औपाधिकमरणानन्तरं विशेषधीर्नास्तीति श्रुत्यर्थः ।
विज्ञातारं विज्ञानकर्तारम् ।
भोक्तरि ज्ञाते भोग्यं ज्ञातमित्युपचारः ।
मोक्षसाधनज्ञानगम्यत्वादिलिङ्गैर्वाक्यस्यान्वयाद्ब्रह्मण्येव तात्पर्यावगमाद्ब्रह्मप्रमापकत्वमिति सिद्धान्तयति- एवमिति ।
न वित्तेन ।
तत्साध्येन कर्मणेत्यर्थः ।
भेदनिन्दापूर्वकमभेदसाधनेनैकविज्ञानात्सर्वविज्ञानस्य समर्थनादौपचारिकत्वं न युक्तमित्याह- न चैतदौपचारिकमित्यादिना ।
पराकरोति ।
श्रेयोमार्गाद्भ्रंशयति ।
यथा दुन्दुभिशङ्खवीणाशब्दसामान्यग्रहणेनैव गृह्यमाणास्तदवान्तरविशेषाः शुक्तिग्रहणग्राह्यरजतवत् सामान्ये कल्पितास्ततो न भिद्यन्ते, एवमात्मभानभास्यं सर्वमात्ममात्रमिति निश्चितमित्याह- दुन्दुभ्यादिति ।
एवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्ब्रह्मनिश्चयः ।
सर्वस्रष्टृत्वलिङ्गादपीत्याह- अस्यमहत इति ।
ऋग्वेदादिकं नाम ।
इष्टं हुतमिति कर्म ।
अयं च लोकः परश्च लोक इति रूपम् ।
किञ्च ऽस यथा सर्वासामपां समुद्र एकायनम्ऽइति कण्डिकया सर्वप्रपञ्चस्य मुख्यलयाधारत्वमात्मनो ब्रह्मत्वे लिङ्गमित्याह- तथैवैकायनेति ॥19॥
एन्द् ब्स्र्प्_1,4.6.19
स्तर्त् ब्स्र्प्_1,4.6.20
प्रतिज्ञासिद्धेर् लिङ्गम् आश्मरथ्यः

1.4.21

जीवब्रह्मणोर्भेदाभेदसत्त्वादभेदाशेनेदं जीवोपक्रमणं प्रतिज्ञासाधकमित्याश्मरथ्यमतम् ॥20॥
एन्द् ब्स्र्प्_1,4.6.20
स्तर्त् ब्स्र्प्_1,4.6.21
उत्क्रमिष्यत एवं भावाद् इत्य् औडुलोमिः

1.4.22

सत्यसंसारदशायां भेद एव, मुक्तावेवाभेद इत्यौडुलोमिमतम् ।
तत्र मानमाह- श्रुतिश्चेति ।
समुत्थानमुत्क्रान्तिः ।
ननु संसारस्यौपाधिकत्वात् सर्वदैवाभेद इत्याशङ्क्य दृष्टान्तबलेन संसारस्य स्वाभाविकत्वमित्याह- क्वचिच्चेति ।
ऽयथा नद्यः स्यन्दमानाः समुद्रेस्तं गच्छन्ति नामरूपे विहायऽइति नदिनिदर्शनं व्याचष्टे-यथा लोके इति ॥21॥
एन्द् ब्स्र्प्_1,4.6.21
स्तर्त् ब्स्र्प्_1,4.6.22
अवस्थितेर् इति काशकृत्स्नः

1.4.23

सिद्धान्तमाह- अवस्थितेरिति ।
अत्यन्ताभेदज्ञापनार्थं जीवमुपक्रम्य द्रष्टव्यत्वादयो ब्रह्मधर्मा उक्ता इत्यर्थः ।
एतेन जीवलिङ्गानां ब्रह्मपरत्वकथनार्थमिदमधिकरणं न भवति, प्रतर्दनाधिकरणे कथितत्वात् ।
नापि जीवानुवादेन ब्रह्मप्रतिपादनार्थं, ऽसुषुप्त्युत्क्रान्त्योःऽइत्यत्र गतत्वात् ।
अतो व्यर्थमिदमधिकरणमिति निरस्तम् ।
जीवोद्देशेन ब्रह्मत्वप्रतिपादने भेदो ऽप्यावश्यक इति भेदाभेदशङ्काप्राप्तौ कल्पितभेदेनोद्देश्यत्वादिकं स्वतो ऽत्यन्ताभेद इति ज्ञापनार्थमस्यारम्भात् ।
ज्ञापने चात्र लिङ्गमात्मशब्देनोपक्रान्तस्य जीवस्य धर्मिणो ब्रह्मणो धर्म्यन्तरस्य ग्रहणं विनैव ब्रह्मधर्मकथनं भेदाभेदे धर्मिद्वयग्रहः स्यादिति मन्तव्यम् ।
धीरः सर्वज्ञः ।
सर्वाणि रूपाणि कार्याणि विचित्य सृष्ट्वा तेषं नामानि च कृत्वा तेषु बुद्ध्यादिषु प्रविश्याभिवदनादिकं कुर्वन् यो वर्तते तद्विद्वानिहैवामृतो भवतीति मन्त्रो ऽपि जीवपरयोरैक्यं दर्शयतीत्याह- मन्त्रेति ।
जीवस्य ब्रह्मविकारत्वान्नैक्यमित्यत आह- नच तेज इति ।
मतत्रयं विभज्य दर्शयति- काशेत्यादिना ।
कियानपीति ।
अभेदवद्भेदो ऽपीत्यर्थः ।
तत्रान्त्यस्य मतस्योपादेयत्वमाह- तत्र काशेति ।
सो ऽयं देवदत्त इतिवत्तत्त्वमस्यादिवाक्येभ्यः परापरयोरत्यन्ताभेदः प्रतिपादयितुमिष्टोर्ऽथः, तदनुसारित्वादित्यर्थः, ज्ञानान्मुक्तिश्रुत्यन्यथानुपपत्त्याप्ययमेव पक्ष आदेय इत्याह- एवं चेति ।
अत्यन्ताभेदे सतीत्यर्थः ।
कल्पितस्य भेदस्य ज्ञानान्निवृत्तिः संभवति न सत्यस्येत्यपि द्रष्टव्यम् ।
यदुक्तं नदीदृष्टान्तात्संसारः स्वाभाविक इति, तन्नेत्याह- अतश्चेति ।
अनामरूपब्रह्मत्वाज्जीवस्येत्यर्थः ।
उत्पत्तिश्रुत्या जीवस्य ब्रह्मणा भेदाभेदावित्यत आह- अत एवेति ।
उत्पत्तेः स्वाभाविकत्वे मुक्त्ययोगादेवेत्यर्थः ।
अत्र पूर्वपक्षे बीजत्रयमुक्तं जीवेनोपक्रमः परस्यैव समुत्थानश्रुत्या जीवाभेदाभिधानं विज्ञातृशब्दश्चेति ।
तत्राद्यं बीजं त्रिसूत्र्या निरस्तम् ।
संप्रति द्वितीयमनूद्य तथैव निराचष्टे- यदप्युक्तमित्यादिना ।
आत्मज्ञानात्सर्वविज्ञानं यत्प्रतिज्ञातं तत्र हेतुः ऽइदं सर्वं यदयमात्माऽइत्यव्यतिरेक उक्तस्तस्य प्रतिपादनात्तदेव प्रतिज्ञातमुपपादितमिति योजना ।
एकस्मात्प्रसवो यस्य, एकस्मिन्प्रलयो यस्य तद्भावादित्यर्थः ।
समुत्थानमभेदाभिधानमिति यावत् ।
जन्मानाशावुक्तौ नाभेद इत्याक्षिप्य परिहरति- नन्वित्यादिना ।
मृतस्य संज्ञा नास्तीति वाक्ये ऽत्रैव मां मोहितवानसि ज्ञानरूपस्यात्मनो ज्ञानाभावे नाशप्रसङ्गादिति मैत्रेय्योक्तो मुनिराह- न वा अरे इति ।
मोहं मोहकरं वाक्यम्, अविनाशी नाशहेतुशून्यः, अत उच्छित्तिधर्मा नाशवान्न भवतीत्यनुच्छित्तिधर्मेत्यर्थः ।
तृतीयं बीजं तृतीयेन मतेनैव निरसनीयमित्याह- यदपीत्यादिना ।
आद्यमयद्वये ऽपि सत्यभेदाङ्गीकारात् केनेत्याक्षेपो न युक्तः ।
काशकृत्स्नस्य मते त्वत्यन्ताभेदाद्विज्ञानस्य कारकाभावात्स युक्त इति श्रुत्यनुसारित्वात्तन्मते मनःकल्पितं विज्ञातृत्वं मुक्ते ब्रह्मात्मनि भूतपूर्वगत्योक्तमिति परिहरणीयमित्यर्थः ।
किञ्च पूर्वापरपर्यालोचनया वाक्यस्य मुक्तात्मपरत्वावगमाद्विज्ञातृत्वं कल्पितमेवानूद्यत इति न तल्लिङ्गेन जीवपरत्वमित्याह- अपि चेति ।
आर्षेषु पक्षेषु काशकृत्स्नपक्षस्यैवादेयत्वे किं बीजं, तदाह- दर्शितमिति ।
अतश्च श्रुतिमत्त्वाच्च ।
पुनरपि श्रुतिस्मृतिमत्त्वमाह- सदेवेत्यादिना ।
हेतूनां भेदो न परमार्थिक इति प्रतिज्ञया संबन्धः ।
भेदाभेदपक्षे जीवस्य जन्मादिविकारवत्त्वात्तन्निषेधो न स्यादित्याह- स वा एष इति ।
भेदस्य सत्यत्वे तत्प्रमया बाधादहं ब्रह्मेति निर्वाधं ज्ञानं न स्यादित्याह- अन्यथाचेति ।
अभेदस्यापि सत्त्वात्प्रमेत्याशङ्क्य भेदाभेदयोर्विरोधात्संशयः स्यादित्याह- सुनिश्चितेति ।
मास्तु निर्बाधज्ञानमित्यत आह- निरपवादमिति ।
अहं ब्रह्मेत्यबाधितनिश्चयस्यैव शोकादिनिवर्तकत्वमित्यत्र स्मृतिमप्याह- स्थितेति ।
आत्यन्तिकैकत्वे हि प्रज्ञा प्रतिष्ठिता भवति न भेदाभेदयोरिति भावः ।
ननु जीवपरमात्मानौ स्वतो भिन्नौ, अपर्यायनामवत्त्वात्, स्तम्भकुम्भवदित्यत आह- स्थिते चेति ।
कथं तर्ह्यपर्यायनामभेद इत्याशङ्क्य जीवत्वेश्वरत्वादिनिमित्तभेदादित्याह- एको हीति ।
किञ्चाविद्यातज्जबुद्धिरूपायां गुहायां स्थितो जीवो भवति, तस्यामेव ब्रह्म निहितमिति श्रुतेः ।
स्थानैक्याज्जीव एव ब्रह्मेत्याह- नहीति ।
काञ्चिदेवैकामिति ।
जीवस्थानादन्यामित्यर्थः ।
नन्वेकस्यां गुहायां द्वौ किं न स्यातामित्यत आह- नचेति ।
स्रष्टुरेव प्रवेशेन जीवत्वान्न भेदः ।
नन्वत्यन्ताभेदे जीवस्य स्पष्टभानाद्ब्रह्मापि स्पष्टं स्यादतः स्पष्टत्वास्पष्टत्वाभ्यां तयोर्भेद इति चेत् ।
न ।
दर्पणे प्रतिबिम्बस्य स्फुटत्वे ऽपि बिम्बस्यास्फुटत्ववत् कल्पितभेदेन विरुद्धधर्मव्यवस्थोपपत्तेः ।
सत्यभेदे येषामाग्रहस्तेषां दोषमाह- ये त्विति ।
सो ऽयमितिवत्तत्त्वमसीत्यकार्यकारणद्रव्यसामानाधिकरण्यादत्यन्ताभेदो वेदान्तार्थस्तद्बोध एव निःश्रेयससाधनं तस्य बाधो न युक्त इत्यर्थः ।
किञ्च भेदाभदवादिनो ज्ञानकर्मभ्यां कृतकं मोक्षं कल्पयन्ति, तत्रानित्यत्वं दोषः ।
यत्तु कृतकमपि नित्यमिति, तच्च ऽयत् क्रियासाध्यं तदनित्यम्ऽइति न्यायबाधितम् ।
अस्माकं त्वनर्थध्वंसस्य ज्ञानसाध्यत्वान्नित्यमुक्तात्ममात्रत्वाच्च नानित्यत्वदोष इति भावः ।
तस्मान्मैत्रेयीब्राह्मणं प्रत्यग्ब्रह्मणि समन्वितमिति सिद्धम् ॥22॥
एन्द् ब्स्र्प्_1,4.6.22
स्तर्त् ब्स्र्प्_1,4.7.23
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्

1.4.24

प्रकृतिश्चेति ।
लक्षणसूत्रेणास्य संगतिं वक्तुं वृत्तं स्मारयति- यथेति ।
तत्र हि ब्रह्मणो बुद्धिस्थत्वार्थं सामान्यतो जगत्कारणत्वं लक्षणमुक्तं, तेन बुद्धिस्थे ब्रह्मणि कृतस्नवेदान्तसमन्वयं प्रतिपाद्य तत्कारणत्वं किं कर्तृत्वमात्रमुत प्रकृतित्वकर्तृत्वोभयरूपमिति ।
विशेषजिज्ञासायमिदमारभ्यते ।
तथाच सामान्यज्ञानस्य विशेषचिन्ताहेतुत्वात्तेनास्य संगतिः ।
यद्यपि तदानन्तर्यमस्य युक्तं तथापि निश्चिततात्पर्यैर्वेदान्तैः कर्तृमात्रेश्वरमतनिरासः सुकर इति समन्वयान्ते इदं लिखितम् ।
लक्षणसूत्रस्याध्यायादिसंगतत्वादस्याप्यध्यादिसंगतिः ।
पूर्वत्र सर्वविज्ञानप्रतिज्ञाया मुख्यत्वाद्वाक्यस्य जीवपरत्वं निरस्तं, तदयुक्तं, कर्त्रुपादनयोर्भेदेन प्रतिज्ञाया गौणत्वादित्याक्षिपति- तत्र निमित्तेत्यादिना ।
पूर्वोत्तरपक्षयोर्द्वैताद्वैतसिद्धिः फलम्- ईक्षापूर्वकेति ।
ईक्षणश्रुत्या कर्तृत्वं निश्चितं, तथा च ब्रह्म न प्रकृतिः, कर्तृत्वात्, यो यत्कर्ता स तत्प्रकृतिर्न, यथा घटकर्ता कुलाल इत्यर्थः ।
जगत् भिन्नकर्त्रुपादानकं, कार्यत्वात् घटवदित्याह- अनेकेति ।
ब्रह्म नोपादानं, ईश्वरत्वात्, राजादिवदित्याह- ईश्वरत्वेति ।
जगन्न ब्रह्मप्रकृतिकं, तद्विलक्षणत्वात्, यदित्थं तत्तथा कुलालविलक्षणघटवदित्याह- कार्यं चेति ।
निष्कलं निरवयवं, निष्क्रियमचलं, शान्तमपरिणामि, निरवद्यं निरस्तसमस्तदोषम् ।
तत्र हेतुः- निरञ्जनमिति ।
अञ्जनतुल्यतमःशून्यमित्यर्थः ।
तर्हि जगतः सदृशोपादानं किमित्यत आह- पारिशेष्यादिति ।
ब्रह्मनिषेधे प्रधानं परिशिष्यत इत्यभिमन्यमानः सिद्धान्तयति- प्रकृतिश्चेति ।
चकारान्निमित्तत्वग्रहः ।
एवमुभयरूपे कारणत्वे तयोरबाधो भवतीत्याह- एवमिति ।
कर्तृज्ञानादपि सर्वकार्यज्ञानं किं न स्यादित्यत आह- निमित्तकारणाव्यतिरेकस्त्विति ।
मृदादीनामुपादानानां दृष्टान्तत्वाद्दार्ष्टान्तिकस्य ब्रह्मण उपादानत्वं वाच्यमित्याह- दृष्टान्तो ऽपीति ।
वागारभ्यं नाममात्रं विकारो न वस्तुतो ऽस्तीति सत्यकारणज्ञानाद्विकारज्ञानं युक्तमित्यर्थः ।
गतिसामान्यार्थं मुण्डके ऽपि प्रतिज्ञादृष्टान्तावाह- तथान्यत्रापीति ।
बृहदारण्यके ऽपि तावाह- तथात्मनीति ।
घटः स्फुरतीत्यनुगतस्फुरणं प्रकृतिस्तदतिरिकेण विकारा न सन्तीति सो ऽयमर्थो यथा स्फुटः तथा दृष्टान्तः स उच्यते ।
हन्यमानदुन्दुभिजन्याच्छब्दसामान्याद्बाह्यान् विशेषशब्दान् सामान्यग्रहणातिरिकेण पृथग्ग्रहीतुं श्रोता न शक्नुयात् ।
सामान्यस्य तु ग्रहणेन दुन्दुभ्याघातजशब्दविशेषो गृहीतो भवति, तस्य वा ग्रहणेन तदवान्तरविशेषशब्दो गृहीतो भवति ।
अतः शब्दसामान्यग्रहणग्रह्या विशेषाः सामान्ये कल्पिताः तद्वदात्मभानभास्या घटादय आत्मनि कल्पिता इत्यर्थः ।
प्रतिज्ञादृष्टान्तानुपरोधाल्लिङ्गाद्ब्रह्मणः प्रकृतित्वमुक्त्वा पञ्चमीश्रुत्याप्याह- यत इति ।
ऽयतो वाऽइत्यत्र श्रुतौ यत इति पञ्चमी प्रकृतौ द्रष्टव्येत्यन्वयः ।
जनिकर्तुर्जायमानस्य कार्यस्य प्रकृतिरपादानसंज्ञिका भवतीति सूत्रार्थः ।
संज्ञायाः फलं ऽअपादाने पञ्चमीऽइति सूत्रात्प्रकृतौ पञ्चमीलाभः ।
एवं ब्रह्मणः प्रकृतित्वं प्रसाध्य कर्तृत्वं साधयति- निमित्तत्वमिति ।
ब्रह्म स्वातिरिक्तकर्त्रधिष्ठेयं, प्रकृतित्वात्, मृदादिवदित्याद्यनुमानानामागमबाधकमाह- प्रागुत्पत्तेरिति ।
जगत्कर्तृ ब्रह्मैवेत्यत्रापि सूत्रं योजयति- अधिष्ठात्रान्तरेति ॥23॥
एन्द् ब्स्र्प्_1,4.7.23
स्तर्त् ब्स्र्प्_1,4.7.24
अभिध्योपदेशाच् च

1.4.25

एकस्योभयरूपं कारणत्वमविरुद्धमिति सूत्रचतुष्टयेन साधयति- कुतश्चेत्यादिना ।
अभिध्या सृष्टिसंकल्पः ॥24॥
एन्द् ब्स्र्प्_1,4.7.24
स्तर्त् ब्स्र्प्_1,4.7.25
साक्षाच् चोभयाम्नानात्

1.4.26

अभ्युच्चयोहेत्वन्तरम् ।
आकाशादेवेत्येवकारसूचितमुपादानान्तरानुपादानमग्रहणं साक्षादितिपदेन सूत्रकारो दर्शयतीति योजना ॥25॥
एन्द् ब्स्र्प्_1,4.7.25
स्तर्त् ब्स्र्प्_1,4.7.26
आत्मकृतेः परिणामात्

1.4.27

आत्मसंबन्धिनी कृतिरात्मकृतिः ।
संबन्धश्चात्मनः कृतिं प्रति विषयत्वमाश्रयत्वं च ।
ननु कृतेराश्रयः सिद्धो भवति विषयस्तु साध्य इत्येकस्योभयं विरुद्धमित्याशङ्कते- कथं पुनरिति ।
यथा मृदः साध्यपरिणामाभेदेन कृतिविषयत्वं तद्वदात्मन इत्याह- परिणामादिति ।
आत्मानमिति ।
अविरोध इति शेषः ।
सिद्धस्यापि साध्यत्वे दृष्टान्तमाह- विकारात्मनेति ।
ननु ब्रह्मण आत्मानमिति द्वितीयया कार्यात्मना साध्यत्वश्रुत्यास्तु प्रकृतित्वं कर्ता त्वन्यो ऽस्त्वित्यत आह- स्वयमिति चेति ।
ब्रह्मणः कृतिकर्मत्वोपपादनार्थं परिणामादिति पदं व्याख्यायान्यथापि व्याचष्टे- पृथक्सूत्रमिति ।
मृद्घट इतिवद्ब्रह्म सच्च त्यच्चेति परिणामसामानाधिकरण्यश्रुतेर्ब्रह्मणः प्रकृतित्वमित्यर्थः ।
सत्प्रत्यक्षं भूतत्रयं, त्यपरोक्षं भूतद्वयं, निरुक्तं वक्तुं शक्यं घटादि, अनिरुक्तं वक्तुमशक्यं कपोतरूपादिकं च ब्रह्मैवाभवदित्यर्थः ।
अत्र सूत्रे परिणामशब्दः कार्यमात्रपरः, नतु सत्यकार्यात्मकपरिणामपरः, ऽतदनन्यत्वम्-ऽइति विवर्तवादस्य वक्ष्यमाणत्वात् ॥26॥
एन्द् ब्स्र्प्_1,4.7.26
स्तर्त् ब्स्र्प्_1,4.7.27
योनिश् च हि गीयते

1.4.28

योनिशब्दाच्च प्रकृतित्वमित्याह- योनिश्चेति ।
कर्तारं क्रियाशक्तिमन्तं, ईशं नियन्तारं, पुरुषं प्रत्यञ्चं, ब्रह्म पूर्णं, योनिं प्रकृतिं, धीरा ध्यानेन पश्यन्तीत्यर्थः ।
नन्वनुपादाने ऽपि स्त्रीयोनौ योनिशब्दो दृष्ट इत्यत आह- स्त्रीयोनेरिति ।
शोणितमवयवशब्दार्थः ।
योनिशब्दस्य स्थानमप्यर्थो भवति सो ऽत्र भूतयोन्यादिशब्दैर्न ग्राह्यः, उर्णनाभ्यादिप्रकृतदृष्टान्तवाक्यशेषविरोधादित्याह- क्वचिदिति ।
हे इन्द्र, ते तव निषदे उपवेशनाय योनिः, स्थानं मया अकारि कृतमित्यर्थः ।
पूर्वपक्षोक्तानुमानानि अनूद्यागमबाधमाह- यत्पुनरित्यादिना ।
नन्वनुमानस्य श्रुत्यनपेक्षत्वान्न तया बाध इत्यत आह- नहीति ।
जगत्कर्ता पक्षः श्रुत्यैव सिद्ध्यति, या कृतिः सा शरीरजन्येति व्याप्तिविरोधेन नित्यकृतिमतो ऽनुमानासंभवात् ।
अतः श्रौतमीश्वरं पक्षीकृत्यानुपादानत्वसाधने भवत्येवोपजीव्यया प्रकृतित्वबोधकश्रुत्या बाध इत्यर्थः ।
यदुक्तं विलक्षणत्वाद्ब्रह्मणो न जगदुपादानत्वमिति, तत्राह- पुनश्चेति ।
ऽन विलक्षणत्वात्-ऽइत्यारभ्येत्यर्थः ।
अत उभयरूपं कारणत्वं ब्रह्मणो लक्षणमिति सिद्धाम् ॥27॥
एन्द् ब्स्र्प्_1,4.7.27
स्तर्त् ब्स्र्प्_1,4.7.28
एतेन सर्वे व्याख्याता व्याख्याताः

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc