भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र · अध्याय 1.3

1.3.1

प्रादेशत्वस्य संपत्तिप्रयुक्तत्वे श्रुत्यन्तरं संवादयति- आमन्तीति ।
य एषो ऽनन्तो ऽपरिच्छिन्नः अतो ऽव्यक्तो दुर्विज्ञेयस्तं कथं जानीयामित्यत्रेः प्रश्ने याज्ञवल्क्यस्योत्तरं, स ईश्वरो ऽविमुक्ते कामादिभिर्बद्धे जीवे भेदकल्पनया प्रतिष्ठित उपास्यः ।
पुनरत्रिप्रश्नः स इति, उत्तरं वरणायामिति ।
एवं प्रश्नोत्तरे अग्रे ऽपि ज्ञेये ।
तत्र च श्रुतौ इमामेव भ्रूसहितां नासिकां निरुच्येति भाष्ययोजना ।
सर्वानिन्द्रयकृतान्दोषान्वारयतीति वरणा भ्रूः, सर्वान्दोषान्नाशयतीति नासी नासिकेति निर्वचनं श्रुतम् ।
नासाभ्रुवोर्जीवद्वारेश्वरस्थानत्वध्यानात्पापवारकत्वमिति मन्तव्यम् ।
तयोर्मध्ये ऽपि विशिष्य जीवस्य स्थानं पृच्छति कतमदिति, भ्रुवोरित्युत्तरम् ।
प्राणस्येति पाठे ऽपि घ्राणस्येत्यर्थः ।
स एष संधिर्द्युलोकस्य स्वर्गस्य परस्य च ब्रह्मलोकस्य संधित्वेन ध्येय इत्याह- स एष इति ।
आभिमुख्येनाहं ब्रह्मेति विमीयते ज्ञायते इत्यभिविमानः प्रत्यगात्मा ।
अभिगतश्चासौ विमानश्च, सर्वस्वरूपत्वे सत्यानन्त्यात् ।
मानमत्र परिमाणम् ।
अभिविमिमीते निर्मिमीते ।
तस्माद्वैश्वानरवाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥32॥
एन्द् ब्स्र्प्_1,2.7.32
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य द्वितीयः पादः ॥2॥
इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः ॥
प्रथमाध्याये तृतीयः पादः ।
द्युभ्वाद्यायतनं स्वशब्दात् ॥1॥
द्युभ्वोतभूमपदमक्षरमीक्षणीयं श्रीराममल्पह्रदि भान्तमधीशितारम् ।
इन्द्रादिवेद्यमखिलस्य च शासितारं ज्योतिर्नभः पदमनिद्रमजं भजे ऽहम् ॥1॥
स्तर्त् ब्स्र्प्_1,3.1.1
द्युभ्वाद्यायतनं स्वशब्दात्

1.3.2

एवं रूढिपदबहुलानां प्रायेण सविशेषवाक्यानां समन्वयो द्वितीयपादे दर्शितः ।
अधुना यौगिकपदबहुलानां निर्विशेषप्रधानानां वाक्यानां समन्वयं वक्तुं तृतीयः पाद आरभ्यते ।
अतो ऽत्राधिकरणानां श्रुत्यध्यायपादसंगतयः ।
तत्र पूर्वमुपक्रमस्थसाधारणशब्दस्य वाक्यशेषस्थद्युमूर्धत्वादिना ब्रह्मपरत्वमुक्तं, तद्वदत्राप्युपक्रमस्थसाधारणायतनत्वस्य वाक्यशेषस्थसेतुश्रुत्या वस्तुतः परिच्छिन्ने प्रधानादौ व्यवस्थेति दृष्टान्तलक्षणाधिकरणसंगतिः ।
पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्विशेषब्रह्मधीरिति फलम् ।
मुण्डकवाक्यमुदाहरति- इदमिति ।
यस्मिन् लोकत्रयात्मा विराट्, प्राणैः सर्वैः सह मनः सूत्रात्मकं, चकारादव्याकृतं कारणमोतं कल्पितं तदपवादेन तमेवाधिष्ठानात्मानं प्रत्यगभिन्नं जानथ श्रवणादिना ।
अन्या अनात्मवाचो विमुञ्चथ विशेषेण निःशेषं त्यजथ ।
एष वाग्विमोकपूर्वकात्मसाक्षात्कारो ऽमृतस्य मोक्षस्यासारापारदुर्वारसंसारवारिधेः परपारस्य सेतुरिव सेतुः प्रापक इति मातृवच्छ्रुतिर्मुमुक्षूनुपदिशति ।
तत्रायतनत्वस्य साधारणधर्मस्य दर्शनात्संशयमाह- तत्किमिति ।
अमृतस्य ब्रह्मणः सेतुरिति षष्ठ्या ब्रह्मणो भिन्नत्वेन सेतोः श्रुतत्वादेषशब्दपरामृष्टं द्युभ्वाद्यायतनमब्रह्मैव सेतुरिव सेतुरित्याह- अमृतस्येति ।
भेदश्रवणात् सेतुरिति श्रवणच्चेत्यर्थः ।
तत्र भेदश्रवणं व्याख्यातम् ।
सेतुश्रवणं स्वयं विवृणोति- पारवानिति ।
अनन्तं कालतः ।
अपारं देशतः ।
जलविधारकमुख्यसेतोर्ग्रहणासंभवाद्गौणसेतुग्रहे कर्तव्ये मुख्यसेत्वविनाभूतपारवत्त्वगुणवानेव कश्चिद्ग्राह्यः ।
नतु मुख्यस्यानियतविधारणगुणवानीश्वर इति भावः ।
यथा लोके मणयः सूत्रेण ग्रथिता एवं हे गौतम, समष्टिलिङ्गात्मकवायुना स्थूलानि सर्वाणि संदृब्धानि ग्रथितानि भवन्तीति श्रुत्यर्थः ।
आत्मशब्दात्पक्षद्वयमयप्युक्तमित्यत आह- शारीरो वेति ।
सद्वितीयत्वेन सेतुशब्दोपपत्तेश्चेत्यर्थः ।
नन्वात्मशब्दो जीवे संभवतीत्यत आह- आत्मशब्दश्चेति ।
उपाधिपरिच्छिन्नस्य जीवस्य सर्ववस्तु प्रत्येकं मुख्यं नास्तीत्यर्थः ।
उपक्रमस्थसाधारणायतनस्य गौणसेतुत्वलिङ्गात्प्रथमश्रुतात्मश्रुत्या ब्रह्मनिश्चय इति भावः ।
स्वशब्दादित्यस्यार्थान्तरमाह- क्वचिच्चेति ।
प्रजानामूत्पत्तौ सदेव मूलं, स्थितावायतनं, लये प्रतिष्ठेति ब्रह्मवाचिसत्पदेन छान्दोग्ये ब्रह्मण आयतनत्वश्रुतेरत्रापि तथेत्यर्थः ।
अर्थान्तरमाह- स्वशब्देनैवेति ।
ऽयस्मिन् द्यौःऽइति वाक्यात्पूर्वोत्तरवाक्ययोः पुरुषब्रह्मादिशब्देन ब्रह्मसंकीर्तनान्मध्ये ऽपि ब्रह्म ग्राह्यमित्यर्थः ।
पुरुष इति पूर्ववाक्यं, ब्रह्मैवेत्युत्तरवाक्यं, सर्वासु दिक्षु स्थितं सर्वं ब्रह्मैवेत्यर्थः ।
उत्तरेणोत्तरस्यां दिशि ।
उदाहृतवाक्यस्य सविशेषब्रह्मपरत्वमाशङ्क्य वाक्यं व्याचष्टे- तत्रेत्यादिना ।
सामानाधिकरण्याद्विचित्र आत्मेति संबन्धः ।
यस्मिन् सर्वमोतं तमेवैकमित्येवकारैकशब्दाभ्यां निर्विशेषं ज्ञेयमित्युक्त्वा हेत्वन्तरमाह- विकारानृतेति ।
विकारे ऽनृते कल्पिते अभिसंधो ऽभिमानो यस्य तस्यानर्थभाक्त्वेन निन्दाश्रुतेश्च कूटस्थसत्यं ज्ञेयमित्यर्थः ।
कथं तर्हि सामानाधिकरण्यं, तत्राह- सर्वं ब्रह्मेति ।
यश्चोरः स स्थाणुरितिवत् यत्सर्वं तद्ब्रह्मेति सर्वोद्देशेन ब्रह्मत्वविधानाद्बाधनार्थं, न तु यद्ब्रह्म तत्सर्वमिति नानारसत्वार्थमित्यर्थः ।
तत्र नियामकमाह- स यथेति ।
लवणपिण्डो ऽन्तर्बहिश्च रसान्तरशून्यः सर्वो लवणैकरसो यथा, एवमरे मैत्रेयि, चिदेकरस आत्मेत्यर्थः ।
यद्यपि पारवत्त्वसावयवत्वादिकं मुख्यसेत्वव्यभिचारि तथापि सेतोर्जलादिबन्धनरूपं यद्विधारणं तदेव व्यभिचारित्वे ऽपि सेतुपदार्थैकदेशत्वादुणत्वेन ग्राह्यं नतु पदार्थबहिर्भूतं पारवत्त्वादिकमित्याह- अत्रोच्यत इति ।
दृष्टत्वात्तद्ग्रहे ऽतिप्रसङ्गमाह- नहीति ।
अत्र श्रुतौ परेणेति शेषः विधारणस्य शब्दार्थत्वं स्फुटयति- षिञ् इति ।
सिनोति बध्नातीति सेतुपदार्थैकदेशो विधारणमित्यर्थः ।
तथा चामृतपदस्य भावप्रधानत्वादमृतत्वस्य सेतुर्विधारकं ब्रह्म ।
अस्यैवामृतत्वं नान्यस्येत्यर्थः ।
यद्वा द्युभ्वाद्याधारो ब्रह्म न सेतुशब्दार्थः किन्त्वव्यवहितं ज्ञानमित्याह- अपर इति ।
फलितमाह- तत्र यदुक्तमिति ।
ज्ञाने सेतौ गृहीते सतीत्यर्थः ॥1॥
एन्द् ब्स्र्प्_1,3.1.1
स्तर्त् ब्स्र्प्_1,3.1.2
मुक्तोपसृप्यव्यपदेशाच् च

1.3.3

मुक्तैरूपसृप्यं प्रत्यक्त्वेन प्राप्यं यद्ब्रह्म तस्यात्रोक्तेरिति सूत्रार्थः ।
मुक्तिप्रतियोगिनं बन्धं दर्शयति- देहादिष्विति ।
तद्विपर्ययेणेति ।
उक्तपञ्चक्लेशात्मकबन्धनिवृत्त्यात्मना स्थितमित्यर्थः ।
यथा नद्यो गङ्गाद्या नामरूपे विहाय समुद्रात्मना तिष्ठन्ति तथा ब्रह्मात्मविदपि संसारं विहाय परात्कारणादव्यक्तात्परं पूर्णं स्वयञ्ज्योतिरानन्दं प्रत्यक्त्वेन प्राप्य तिष्ठतीत्याह- तथा विद्वानिति ।
इदं प्रधानादेः किं न स्यादत आह- ब्रह्मणश्चेति ।
अस्य मुमुक्षोः, हृदीति पदेनात्मधर्मत्वं कामानां निरस्तम् ।
यदा कामनिवृत्तिरथ तदामृतो भवति;मरणहेत्वभावात् ।
न केवलमनर्थनिवृत्तिः किन्त्वत्र देहे तिष्ठन्नेव ब्रह्मानन्दमश्नुत इत्यर्थः ।
लिङ्गान्तरमाह- अपिचेति ।
धीरो विवेकी तमेवात्मानं विज्ञाय विशुद्दं लक्ष्यपदार्थं ज्ञात्वा वाक्यार्थज्ञानं कुर्यात् ।
ज्ञानार्थिनो ज्ञानप्रतिबन्धककर्मकाण्डादेर्वैमुख्यमाह- नेति ।
बहूनित्युक्त्या अल्पान्वेदान्तशब्दानङ्गीकरोति ।
ऽअष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्थता ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥
ऽइत्येतानि वागिन्द्रियस्थानत्वाद्वाक्शब्देनोच्यन्ते ।
तेषां शोषणमात्रमनात्मशब्दोच्चारणफलं तद्वयानान्मनसो ग्लानिमात्रमित्यर्थः ॥2॥
एन्द् ब्स्र्प्_1,3.1.2
स्तर्त् ब्स्र्प्_1,3.1.3
नानुमानम् अतच्छब्दात्

1.3.4

वैशेषिक इति ।
असाधारण आत्मशब्दादिरित्यर्थः ।
अतच्छब्दादित्यस्यार्थान्तरमाह- तद्विपरीतस्येति ।
अत एवातच्छब्दादेव ॥3॥
एन्द् ब्स्र्प्_1,3.1.3
स्तर्त् ब्स्र्प्_1,3.1.4
प्राणभृच् च

1.3.5

प्राणाभृच्चेति ।
सूत्रे चकारः पूर्वसूत्रस्थनञो ऽनुषङ्गार्थः ।
सर्वज्ञपदसमानाधिकरणं आत्मशब्दो न जीववाचीत्यतच्छब्दस्तस्मादित्यर्थः ।
ननु ऽनानुमानप्राणभृतावतच्छब्दात्ऽइत्येकमेव सूत्रं किमर्थं न कृतं उभयनिरासहेतोरेकत्वादित्यत आह- पृथगिति ।
योगः सूत्रम् ।
उत्तरसूत्रस्थहेतूनां जीवमात्रनिरासेनान्वये ऽपि सुबोधार्थं प्राणभृच्चेति पृथक्सूत्रकरणमित्यर्थः ॥4॥
एन्द् ब्स्र्प्_1,3.1.4
स्तर्त् ब्स्र्प्_1,3.1.5-6
भेदव्यपदेशात्

1.3.6

प्रकरणात्

1.3.7

तानेव हेतूनाकाङ्क्षाद्वारा व्याचष्टे-- कुतश्चेत्यादिना ।
यद्यपि विशुद्धः प्रत्यगात्मैवात्र ज्ञेयः तथापि जीवत्वाकारेण ज्ञातुर्ज्ञेयाद्भेदान्न ज्ञेयरूपत्वमित्यर्थः ।
एवं च जीवत्वलिङ्गविशिष्टत्वेन जीवस्य द्युभ्वादिवाक्यर्थत्वं निरस्यते न शुद्धरूपेणेति मन्तव्यम् ॥5 ॥ ॥6॥
एन्द् ब्स्र्प्_1,3.1.5-6
स्तर्त् ब्स्र्प्_1,3.1.7
स्थित्यदनाभ्यां च

1.3.8

ननु स्थित्येश्वरस्यादनाजीवस्य ऽद्वा सुपर्णाऽइत्यत्रोक्तावपि ईश्वर आयतनवाक्येन किमर्थं ग्राह्य इत्यत आह- यदि चेश्वर इति ।
अत्र चेश्वरः शुद्धचिन्मात्रो ग्राह्यः, न सर्वज्ञत्वादिविशिष्टः, तस्यात्राप्रतिपाद्यत्वात् ।
तथा चाप्रतिपाद्यार्थस्याकस्मान्मध्ये वचनासंभवादाद्यवाक्येन ग्रहणं कार्यमित्यभिसंधिः ।
तमज्ञात्वा शङ्कते- ननु तवापीति ।
ब्रह्मस्वरूपप्रतिपादनार्थमकस्मादप्रकृतस्यापि लोकप्रसिद्धस्य जीवस्यानुवादसंभव इति परिहरति- नेति ।
ननु ऽद्वा सुपर्णाऽइत्यत्र बुद्धिजीवयोरुक्तेः कथमिदं सूत्रमित्यत इति- गुहामिति ।
स्थित्यदनाभ्यामीश्वरक्षेत्रज्ञयोरनुवादेनैक्यं दर्शितमित्यर्थः ।
नन्वत्र जीवेशौ नानुवाद्यौ, पैङ्गिव्याख्याविरोधादतः सूत्रासंगतिरित्यत आह- यदापीति ।
तदापि सूत्रस्यासंगतिर्नास्तीत्यर्थः ।
अदनवाक्येन बुद्धिमनूद्य स्थितिवाक्येन बुद्ध्यादिविलक्षणशुद्धप्रत्यग्ब्रह्मणो ज्ञेयस्योक्तेर्द्युभ्वादिवाक्ये तदेव ग्राह्यं, न बुद्ध्युपहितो जीव इति सूत्रसंगतिमाह- कथमित्यादिना ।
नन्वत्रानुपहितो जीव उक्तो न परं ब्रह्मेत्यत आह- यस्त्विति ।
पौनरुक्त्यं शङ्कते- तदेतदिति ।
द्युभ्वादिवाक्यस्य ब्रह्मपरत्वमित्यर्थः ।
समाधत्ते- प्रपञ्चार्थमिति ।
सेतुशब्दव्याख्यानेन भूतयोनेः प्रत्यगात्मत्वस्फुटीकरणार्थमित्यर्थः ।
तस्मान्मुण्डकोपनिषद् ब्रह्मणि समन्वितेति सिद्धम् ॥7॥
एन्द् ब्स्र्प्_1,3.1.7
स्तर्त् ब्स्र्प्_1,3.2.8
भूमा संप्रसादाद् अध्युपदेशात्

1.3.9

भूमा ।
छान्दोग्यमुदाहरति -इदमिति ।
नाल्पे सुखमस्ति भूमैव सुखम्, तस्मान्निरतिशयसुखार्थिना भूमैव विचार्य इति नारदं प्रति सनत्कुमारेणोक्ते सति नारदो ब्रूते- भूमानमिति ।
भूम्नो लक्षणमद्वितीयत्वमाह- यत्रेति ।
भूमलक्षणं परिच्छिन्नलक्षणोक्त्या स्फुटयति- अथेति ।
अत्र संशयबीजं प्रश्नपूर्वकमाह- कुत इत्यादिना ।
बहोर्भाव इति विग्रहे ऽपृथ्वादिभ्या इमनिच्ऽइतीमन्प्रत्यये कृते ऽबहोर्लोपो भू च बहोःऽइति सूत्रेण बहोः परस्येमनिच्प्रत्ययस्यादेरिकारस्य लेपः स्यात्, बहोः स्थाने भूरित्यादेशश्च स्यादित्युक्तेर्भूमन्निति शब्दो निष्पन्नः ।
तस्य भावार्थकेमन्प्रत्ययान्तत्वाद्बहुत्वं वाच्यम् ।
तत्किन्धर्मिकमित्याकाङ्क्षायां संनिहितप्रकरणस्थः प्राणो धर्मो भाति ।
वाक्योपक्रमस्थ आत्मापि स्वप्रतिपादनापेक्षो धर्मित्वेन भातीति संनिहितव्यवहितप्रकरणाभ्यां संशय इत्यर्थः ।
पूर्वमात्मशब्दात् द्युभ्वाद्यायतनं ब्रह्मेत्युक्तं, तदयुक्तं, ऽतरति शोकमात्मवित्ऽइत्यब्रह्मण्यप्यात्मशब्दप्रयोगादित्याक्षेपसंगत्या पूर्वपक्ष्यति- प्राणो भूमेति ।
धर्मधर्मिणोरभेदात्सामानाधिकरण्यं दृष्टव्यम् ।
पूर्वोत्तरपक्षयोः प्राणोपास्तिः ब्रह्मज्ञानं च फलं क्रमेण मन्तव्यम् ।
अत्राध्याये भूयः प्रश्नोत्तरभेदादर्थभेदो दृश्यते ।
भूमा तु प्राणात्परं भूयःप्रक्षं विनैवोक्तलिङ्गेन प्राणादभिन्न इत्याह- कस्मादित्यादिना ।
प्राणाद्भूय इति न दृश्यत इति पूर्वेण संबन्धः ।
ननु ऽएष तु वा अतिवदतिऽइति तुशब्देन प्राणप्रकरणविच्छेदान्न प्राणो भूमेत्यत आह- प्राणमेवेति ।
नामाद्यशान्तानुपास्यानतीत्य प्राणं श्रेष्ठं वदतीत्यतिवादि प्राणविद् तं प्रति अतिवाद्यसीति केनचित्प्रश्ने कृते अस्मीति ब्रूयात्, नाहमतिवादीत्यपह्नवं न कुर्यादित्युक्तम् ।
प्राणविदमेष इति परामृश्य सत्यवचनध्यानमननश्रद्धादिधर्मपरम्परां विधाय भूमोपदेशान्न प्रकरणविच्छेदः ।
तुशब्दो नामाद्युपासकस्यातिवादित्वनिरासार्थ इत्यर्थः ।
भूम्नो लक्षणवचनं सुखत्वममृतत्वं च प्राणे प्रश्नपूर्वकं योजयति कथं पुनरित्यादिना ।
प्राणग्रस्तेषु प्राणे लीनेषु न शृणोति सुषुप्तपुरुष इति शेषः ।
ऽगार्हपत्यो ह वा एषो ऽपानो व्यानो ऽन्वाहार्यपचन आहवनीयः प्राणःऽइति श्रुतेः प्राणा अग्नय इह पुरे शरीरे जाग्रति सव्यापारा एव तिष्ठन्तीत्यर्थः ।
देवो जीवः ।
अथ तदा स्वप्नादर्शनकाले सुखश्रवणात्प्राणस्य सुखत्वमविरुद्धमित्यन्वयः ।
आत्मपदेनोपक्रमविरोधं परिहरति- प्राण एवेति ।
प्राणस्यात्मत्वं कथमित्याशङ्क्य श्रुतत्वादित्याह- तथा हीति ।
सर्वं समर्पितमिति च सर्वाधिष्ठानं प्राणं स्वीकरोति श्रुतिरित्यन्वयः अत आत्मत्वं मुख्यार्थं दर्शयति- संप्रसाद इति ।
स वा एष एतस्मिन्संप्रसादे स्थित्वा पुनराद्रवतीति प्रयोगाच्च ।
तत्पदं सुषुप्तिवाचकमित्याह- बृहदिति ।
वाच्यार्थसंबन्धात्प्राणो लक्ष्य इत्याह- तस्यां चेति ।
अत्र सूत्र इत्यर्थः ।
भूमा प्राणाद्भिन्नो ऽत्राध्याये, तस्मादूर्ध्वमुपदिष्टत्वात्, नामादेरूर्ध्वमुपदिष्टवागादिवदित्यर्थः ।
विपक्षहेतूच्छेदं बाधकमाह- प्राण एव चेदिति ।
स्वस्यैव स्वस्मादूर्ध्वमुपदिष्टत्वमयुक्तं, नामादिष्वदृष्टं चेत्यर्थः ।
हेत्वसिद्धिं शङ्कते- नन्विहेति ।
प्रकृतप्राणवित्परामर्शक एषशब्दो न भवति, तस्य यच्छब्दपरतन्त्रत्वेन सत्यवादजिवाचित्वात् ।
अतः प्राणप्रकरणं विच्छिन्नमिति हेतुसिद्विरित्याह- अत्रोच्यत इति ।
सत्येनातिवादित्वं विशेषः, तद्वतो य एष इत्युक्तेर्न पूर्वानुकर्ष इत्यर्थः ।
य एष प्राणविदतिवदतीत्यनूद्य स सत्यं वदेदिति विधानान्न प्राणप्रकरणविच्छेद इति दृष्टान्तेन शङ्कते- नन्विति ।
सत्यशब्दो ह्यबाधिते रूढो ब्रह्मवाचकः, तदन्यस्य मिथ्यात्वात् ।
सत्यवचने त्वबाधितार्थसंबन्धाल्लाक्षणिक इति नात्र लक्ष्यवचनविधिरित्याह- नेति ब्रूम इति ।
किञ्च सत्येन ब्रह्मणातिवदतीति तृतीयाश्रुत्या ब्रह्मकरणकमतिवादित्वं श्रुतं, तस्य प्रकरणाद्बाधो न युक्त इत्याह- श्रुत्या हीत्यादिना ।
अत्रेति ।
सत्यवाक्य इत्यर्थः ।
एवं सत्येनेति श्रुत्या प्रकरणं बाध्यमित्युक्त्वा तुशब्देनापि बाध्यमाह- प्रकृतेति ।
विजिज्ञास्यत्वलिङ्गाच्च पूर्वोक्ताद्भिन्नमित्याह- सत्यं त्वेवेति ।
प्रकरणविच्छेदे दृष्टान्तमाह- तस्मादिति ।
श्रुतिलिङ्गबलादेतत्सत्यं प्रकृतात्प्राणात्प्राधान्येन भिन्नं दृष्टव्यमित्यर्थः ।
एवमतिवादित्वस्य ब्रह्मसंबन्धोक्त्या प्राणलिङ्गत्वं निरस्तम् ।
यत्तु प्रश्नं विनोक्तत्वलिङ्गाद्भूमा प्राण इति, तन्न, तस्याप्रयोजकत्वादित्याह- न चेति ।
प्रश्नभेदादर्थभेद इति न नियमः, एकस्यात्मनो मैत्रेय्या बहुशः पृष्टत्वात् ।
प्रश्नं विनोक्तचातुर्वेदस्य प्रकृतैकवेदाद्भिन्नत्वदर्शनाच्चेत्यर्थः ।
तत्र यथा चतुर्वेदत्वस्य प्रकृतासंबन्धादर्थभेदः, एवमिहापीति स्फुटयति- तत्रेत्यदिना ।
सत्यपदेन प्राणोक्तिरित्यत आह- तत्र सत्यमिति ।
विज्ञानं निदिध्यासनम् ।
आदिपदान्मननश्रद्धाश्रवणमनःशुद्धिनिष्टातद्धेतुकर्माणि गृह्यन्ते ।
इमान्यति श्रवणादीनि ज्ञेयस्य सत्यस्य ब्रह्मत्वे लिङ्गानि ।
एवं श्रुतिलिङ्गैः प्राणस्यावान्तरप्रकरणं बाधित्वा प्रस्तुतं सत्यं ब्रह्म भूमपदोक्तबहुत्वधर्मीत्याह- तत्र यदिति ।
किञ्च ऽसंनिहितादपि व्यवहितं साकाङ्क्षं बलीयःऽइति न्यायेन संनिहितं निराकाङ्क्षं प्राणं दृष्ट्वा वाक्योपक्रमस्थ आत्मा स्वप्रतिपादनाय भूमवाक्यापेक्ष इह भूमा ग्राह्य इत्याह- एवं चेति ।
किञ्च शोकस्य पारमित्युपक्रम्य तमसः पारमित्युपसंहारात्, शोकस्य मूलोच्छेदं विना तरणायोगाच्च, शोकपदेन मूलतमो गृह्यते ।
तन्निवर्तकज्ञानगम्यत्वलिङ्गादात्मा ब्रह्मेत्याह- न चान्यत्रेति ।
ब्राह्मणमात्मायत्तत्वं प्राणस्य वदतीति संबन्धः ।
नन्विदं चरमं ब्राह्मणं ब्रह्मपरमस्तु, ततः प्रागुक्तो भूमा प्राण इति शङ्कते- प्रकरणान्त इति ।
तच्छब्देन भूमानुकर्षान्मैवमित्याह- नेति ॥8॥
एन्द् ब्स्र्प्_1,3.2.8
स्तर्त् ब्स्र्प्_1,3.2.9
धर्मोपपत्तेश् च

1.3.10

भूम्नो ब्रह्मत्वे लिङ्गान्तरमाह- धर्मेति ।
सूत्रम् ।
यदुक्तं भूम्नो लक्षणं सुखत्वममृतत्वं च प्राणेषु योज्यमिति तदनूद्य विघटयति- यो ऽप्यसावित्यादिना ।
सति बुद्ध्याद्युपाधावात्मनो द्रष्टृत्वादिः, तदभावे सुषुप्तौ तदभाव इत्यसङ्गत्वज्ञानार्थं प्रश्नोपनिषदि ऽन शृणोति न पश्यतिऽइति परमात्मानं प्रकृत्योक्तम् ।
तथा तत्रैवात्मनः सुखत्वमुक्तं न प्राणस्य ।
यतः श्रुत्यन्तरमात्मन एव सुखत्वमाह तस्मादित्यर्थः ।
आमयो नाशादिदोषः तत्सहितं सामयम् ।
आर्तं नश्वरम् ।
ऽस एवाधस्तात् स उपरिष्टात्ऽइति सर्वगतत्वं, ऽस एवेदं सर्वम्ऽइति सर्वात्मत्वं च श्रुतं, तस्माद्भूमाध्यायो निर्गुणे समन्वित इति सिद्धम् ॥9॥
एन्द् ब्स्र्प्_1,3.2.9
स्तर्त् ब्स्र्प्_1,3.3.10
अक्षरम् अम्बरान्तधृतेः

1.3.11

अक्षरमम्बरान्तधृतेः ।
बृहदारण्यकं पठति- कस्मिन्न्विति ।
यद्भूतं भवच्च भविष्यच्च तत्सर्वं कस्मिन्नोतमिति गार्ग्या पृष्ठेन मुनिना याज्ञवल्क्येनाव्याकृताकाशः कार्यमात्राश्रय उक्तः ।
आकाशः कस्मिन्नोत इति द्वितीयप्रश्ने स मुनिरुवाच, तदव्याकृतस्याधिकरणमेतदक्षरमस्थूलादिरूपमित्यर्थः ।
उभयत्राक्षरशब्दप्रयोगात्संशयः ।
यथा सत्यशब्दो ब्रह्मणि रूढ इति ब्रह्म भूमेत्युक्तं तथाक्षरशब्दो वर्णे रूढ इति दृष्टान्तेन पूर्वपक्षः ।
तत्र ओङ्कारोपास्तिः फलं, सिद्धान्ते निर्गुणब्रह्मधीरिति विवेकः ।
ननु न क्षरतीत्यचलत्वानाशित्वयोगाद्ब्रह्मण्यप्यक्षरशब्दो मुख्य इत्यत आह- प्रसिद्ध्यतिक्रमस्येति ।
ऽरूढर्योगमपहरतिऽइति न्यायादित्यर्थः ।
वर्णस्य ओङ्कारस्य सर्वाश्रयत्वं कथमित्याशङ्क्य ध्यानार्थमिदं यथा श्रुत्यन्तरे सर्वात्मत्वमित्याह- ओङ्कार इति ।
प्रश्नप्रतिवचनाभ्यामाकाशान्तजगदाधारत्वे तात्पर्यनिश्चयान्न ध्यानार्थता, अतस्तल्लिङ्गबलाद्रूढिं बाधित्वा योगवृत्तिर्ग्राह्येति सिद्वान्तयति- एवमित्यादिना ॥10॥
एन्द् ब्स्र्प्_1,3.3.10
स्तर्त् ब्स्र्प्_1,3.3.11
सा च प्रशासनात्

1.3.12

आकाशं भूतं कृत्वा शङ्कते -स्यादेतदिति ।
चेतनकर्तृकशिक्षाया अत्र श्रुतेर्मैवमित्याह- सा चेति ।
सूत्रं व्याचष्टे- सा चेति ।
चकार आकाशस्य भूतत्वनिरासार्थः ।
भूताकाशस्य कार्यन्तःपातिनः श्रुतसर्वकार्याश्रयत्वायोगादव्याकृतमज्ञानमेवाकाशः प्रधानशब्दित इति तदाश्रयत्वाच्चाक्षरं न प्रधानमित्यर्थः ।
विधृतौ विषयत्वेन धृतौ ॥11॥
एन्द् ब्स्र्प्_1,3.3.11
स्तर्त् ब्स्र्प्_1,3.3.12
अन्यभावव्यावृत्तेश्च

1.3.13

प्रश्नपूर्वकं सूत्रं व्याकरोति- किमिदमिति ।
घटत्वाद्वयावृत्तिरिति भ्रान्तिं निरस्यति- एतदिति ।
अम्बरान्तस्याधारमक्षरं श्रुतिरचेतनत्वाद्व्यावर्तयतीत्यर्तः ।
जीवनिरासपरत्वेनापि सूत्रं योजयति- तथेति ।
अन्यभावो भेदस्तन्निषेधादिति सूत्रार्थः ।
तर्हि शोधितो जीव एवाक्षरं न पर इत्यत आह- नहीति ।
शोधिते जीवत्वं नास्तीत्यर्थः ।
तस्माद्गार्गिब्राह्मणं निर्गुणाक्षरे समन्वितमिति सिद्धम् ॥12॥
एन्द् ब्स्र्प्_1,3.3.12
स्तर्त् ब्स्र्प्_1,3.4.13
ईक्षतिकर्मव्यपदेशात् सः

1.3.14

ईक्षतिकर्मव्यपदेशात्सः ।
प्रश्नोपनिषदमूदाहरति- एतदिति ।
पिप्पलादो गुरुः सत्यकामेन पृष्टो ब्रूते, हे सत्यकाम, परं निर्गुणमपरं सगुणं ब्रह्मैतदेव यो ऽयं ओङ्कारः ।
स हि प्रतिमेव विष्णोस्तस्य प्रतीकः ।
तस्मात्प्रणवं ब्रह्मात्मना विद्वानेतेनैव ओङ्कारध्यानेनायतनेन प्राप्तिसाधनेन यथाध्यानं परमपरं वान्वेति प्राप्नोतीति प्रकृत्य मध्ये एकमात्रद्विमात्रोङ्कारयोर्ध्यानमुक्त्वा ब्रवीति- यः पुनरिति ।
इत्थंभावे तृतीया, ब्रह्मोङ्कारयोरभेदोपक्रमात् ।
यो ह्यकारादिमात्रात्रये एकस्या मात्राया अकारस्य ऋष्यादिकं जाग्रदादिविभूतिं च जानाति तेन सम्यग्ज्ञाता एका मात्रा यस्योङ्कारस्य स एकमात्रः ।
एवं मात्राद्वयस्य सम्यग्विभूतिज्ञाने द्विमात्रस्तथा त्रिमात्रः ।
तमोङ्कारं पुरुषं यो ऽभिध्यायीत स ओङ्कारविभूतित्वेन ध्यातैः सामभिः सूर्यद्वारा ब्रह्मलोकं गत्वा परमात्मानं पुरुषमीक्षत इत्यर्थः ।
संशयं तद्बीजं चाह- किमित्यादिना ।
अस्मिन् त्रिमात्रवाक्य इत्यर्थः ।
पूर्वत्र पूर्वपक्षत्वेनोक्ते ओङ्कारे बुद्धिस्थं ध्यातव्यं निश्चीयत इति प्रसङ्गसंगतिः ।
यद्वा पूर्वत्र वर्णे रूढस्याक्षरशब्दस्य लिङ्गाद्ब्रह्मणि वृत्तिरुक्ता, तद्वदत्रापि ब्रह्मलोकप्राप्तिलिङ्गत्परशब्दस्य हिरण्यगर्भे वृत्तिरिति दृष्टान्तेन पूर्वपक्षयति- तत्रापरमिति ।
कार्यपरब्रह्मणोरूपास्तिरूभयत्र फलम् ।
स उपासकः ।
सूर्ये संपन्नः प्रविष्टः ननु वसुदान ईश्वर इति ध्यानाद्विन्दते वस्वित्यल्पमपि फलं ब्रह्मोपासकस्य श्रुतमित्यत आह- नहीति ।
अन्यत्र तथात्वे ऽपि अत्र परवित्परमपरविदपरमन्वेतीत्युपक्रमात्परविदो ऽपरप्राप्तिरयुक्ता, उपक्रमविरोधात् ।
न चात्र परप्राप्तिरेवोक्तेति वाच्यं, परस्य सर्वगतत्वादत्रैव प्राप्तिसंभवेन सूर्यद्वारा गतिवैयर्थ्यात् ।
तस्मादुपक्रमानुगृहीतादपरप्राप्तिरूपाल्लिङ्गात्परं पुरुषमिति परश्रुतिर्बाध्येत्यर्थः ।
परश्रुतेर्गतिं पृच्छति- नन्विति ।
पिण्डः स्थूलो विराट् तदपेक्षया सूत्रस्य परत्वमिति समाध्यर्थः ।
सूत्रे सशब्द ईश्वरपर इति प्रतिज्ञतत्वेन तं व्याचष्टे- परमेवेति ।
स उपासक एतस्माद्विरण्यगर्भात्परं पुरुषं ब्रह्माहमितीक्षत इत्यर्थः ।
नन्वीक्षणविषयो ऽप्यपरोस्तु, तत्राह- तत्राभिध्यायतेरिति ।
नन्वीक्षणं प्रमात्वाद्विषयसत्यतामपेक्षत इति भवतु सत्यः पर ईक्षणीयः ।
ध्यातव्यस्त्वसत्यो ऽपरः किं न स्यादित्यत आह- स एवेति ।
श्रुतिभ्यां प्रत्यभिज्ञानात्स एवायमिति सौत्रः सशब्दो व्याख्यातः अत्रैवं सूत्रयोजना-ओङ्कारे यो ध्येयः स पर एवात्मा, वाक्यशेषे ईक्षणीयत्वोक्तेः ।
अत्र च श्रुतिप्रत्यभिज्ञानात्स एवायमिति ।
ननु शब्दभेदान्न प्रत्यभिज्ञेति शङ्कते- नन्विति ।
परात्पर इति शब्दभेदमङ्गीकृत्य श्रुतिभ्यामुक्तप्रत्यभिज्ञाया अविरोधमाह- अत्रेति ।
ननु ऽएतस्माज्जीवधनात्परात्ऽइत्येतत्पदेनोपक्रान्तध्यातव्यपरामर्शादीक्षणीयः ।
परात्मा ध्येयादन्य इत्यत आह- न चात्रेति ।
ध्यानस्य तत्फलेक्षणस्य च लोके समानविषयत्वाद्ध्येय एवेक्षणीयः ।
एवं चोपक्रमोपसंहारयोरेकवाक्यता भवतीति भावः ।
ऽस सामभिरून्नीयते ब्रह्मलोकम्ऽऽस एतस्माज्जीवघनात्ऽइत्येतत्पदेन संनिहिततरो ब्रह्मलोकस्वामी परामृश्यत इति प्रश्नपूर्वकं व्याचष्टे- कस्तर्हीत्यादिना ।
ऽमूर्तौ घनःऽइति सूत्रादिति भावः ।
सैन्धवखिल्यो लवणपिण्डः ।
खिल्यवदल्पो भावः परिच्छेदो यस्य स खिल्यभावः ।
एतत्पदेन ब्रह्मलोको वा परामृश्यत इत्याह- अपर इति ।
जीवघनशब्दस्य ब्रह्मलोके लक्षणां दर्शयति- जीवानां हीति ।
व्यष्टिकरणाभिमानिनां जीवानां घनः संघातो यस्मिन्सर्वकरणाभिमानिनि स जीवघनः तत्स्वामिकत्वात्परंपरासंबन्धेन लोको लक्ष्य इत्यर्थः ।
तस्मात्परः सर्वलोकातीतः शुद्ध इत्यर्थः ।
परपुरुषशब्दस्य परमात्मनि मुख्यत्वाच्च स एव ध्येय इत्याह- परमिति ।
यस्मात्परं नापरमस्ति किञ्चित् स एवं मुख्यः परः न तु पिण्डात्परः सूत्रात्मेत्यर्थः ।
किञ्च परशब्देनोपक्रमे निश्चितं परं ब्रह्मैवात्र वाक्यशेषे ध्यातव्यमित्याह- परं चापरं चेति ।
पापनिवृत्तिलिङ्गाचेत्याह- यथेति ।
पादोदरः सर्पः ।
ओङ्कारे परब्रह्मोपासनया सूर्यद्वारा ब्रह्मलोकं गत्वा परब्रह्मेक्षित्वा तदेव शान्तमभयं परं प्राप्नोतीत्यविरोधमाह- अत्रोच्यत इति ।
एवमेकवाक्यतासमर्थनप्रकरणानुगृहीतपरपुरुषश्रुतिभ्यां परब्रह्मप्रत्यभिज्ञया ब्रह्मलोकप्राप्तिलिङ्गं बाधित्वा वाक्यं प्रणवध्येये ब्रह्मणि समन्वितमिति सिद्धम् ॥13॥
एन्द् ब्स्र्प्_1,3.4.13
स्तर्त् ब्स्र्प्_1,3.5.14
दहर उत्तरेभ्यः

1.3.15

दहर उत्तरेभ्यः ।
छन्दोग्यमुदाहरति- अथेति ।
भूमविद्यानन्तरं दहरविद्याप्रारम्भार्थो ऽथशब्दः ।
ब्रह्मणो ऽभिव्यक्तिस्थानत्वाद्ब्रह्मपुरं शरीरम् ।
अस्मिन् यत्प्रसिद्धं दहरमल्पं हृत्पद्मं तस्मिन्हृदये यदन्तराकाशशब्दितं ब्रह्म तदन्वेष्टव्यं विचार्य ज्ञेयमित्यर्थः ।
अत्राकाशो जिज्ञास्यः, तदन्तःस्थं वेति प्रथमं संशयः कल्प्यः ।
तत्र यद्याकाशस्तदा संशयद्वयम् ।
तत्राकाशशब्दादेकं संशयमुक्त्वा ब्रह्मपुरशब्दात्संशयान्तरमाह- तथा ब्रह्मपुरमितीति ।
अत्र शब्दे ।
जीवस्य ब्रह्मणो वा पुरमिति संशयः ।
तत्र तस्मिन्संशये सतीति योजना ।
परपुरुषशब्दस्य ब्रह्मणि मुख्यत्वाद्ब्रह्म ध्येयमित्युक्तम् ।
तथेहाप्याकाशपदस्य भूताकाशे रूढत्वाद्भूताकाशो ध्येय इति दृष्टान्तेन पूर्वपक्षयति- तत्राकाशेत्यादिना ।
दहरवाक्यस्यानन्तरप्रजापतिवाक्यस्य च सगुणे निर्गुणे च समन्वयोक्तेः श्रुत्यादिसंगतयः ।
पूर्वपक्षे भूताकाशाद्युपास्तिः, सिद्धान्ते सगुणब्रह्मोपास्त्या निर्गुणधीरिति फलभेदः ।
नच ऽआकाशस्तल्लिङ्गात्ऽइत्यनेनास्य पुनरुक्तता शङ्कनीया ।
अत्र तस्मिन् ऽयदन्तस्तदन्वेष्टव्यम्ऽइत्याकाशान्तः स्थस्यान्वेष्टव्यत्वादिलिङ्गन्वयेन दहराकाशस्य ब्रह्मत्वे स्पष्टलिङ्गाभावात् ।
ननु भूताकाशस्याल्पत्वं कथं, एकस्योपमानत्वमुपमेयत्वं च कथं, ऽउभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते ।
उभावग्निश्च वायुश्चऽइत्यादिना श्रुतसर्वाश्रयत्वं च कथमित्याशङ्क्य क्रमेण परिहरति- तस्येत्यादिना ।
हृदयापेक्षया अल्पत्वं, ध्यानार्थं कल्पितभेदात्सादृश्यं, स्वत एकत्वात्सर्वाश्रयत्वमित्यर्थः ।
ननु ऽएष आत्माऽइत्यात्मशब्दो भूते न युक्त इत्यरूचेराह- अथवेति ।
भक्त्येति ।
चैतन्यगुणयोगेनेत्यर्थः ।
मुख्यं ब्रह्म गृह्यतामित्यत आह- न हीति ।
अस्तु पुरस्वामीजीवः, हृदयस्थाकाशस्तु ब्रह्मेत्यत आह- तत्रेति ।
पुरस्वामिन एव तदन्तःस्थत्वसंभवान्नान्यापेक्षेत्यर्थः ।
व्यापिनो ऽन्तःस्थत्वं कथमित्यत आह- मन इति ।
आकाशपदेन दहरमनुकृष्योक्तोपमादिकं ब्रह्माभेदविवक्षया भविष्यतीत्याह- आकाशेति ।
ननु जीवस्याकाशपदार्थत्वमयुक्तमित्याशङ्क्य तर्हि भूताकाश एव दहरो ऽस्तु तस्मिन्नन्तःस्थं किञ्चिद्ध्येयमिति पक्षान्तरमाह- न चात्रेति ।
परमान्तःस्थं वस्तु, तद्विशेषणत्वेनाधारत्वेन दहराकाशस्य तच्छब्देनोपादानादित्यर्थः ।
यद्वा अन्वेष्यत्वादिलिङ्गाद्दहरस्य ब्रह्मत्वनिश्चयात् ऽआकाशस्तल्लिङ्गात्ऽइत्यनेन गतार्थत्वमिति शङ्कात्र निरसनीया ।
अन्वेष्यत्वादेः परविशेणत्वेन ग्रहणाद्दरहस्य ब्रह्मत्वे लिङ्गं नास्तीत्यर्थः ।
अपहतपाप्मत्वादिलिङ्गोपेतात्मकश्रुत्या केवलाकाशश्रुतिर्बाध्येति सिद्धान्तयति- परमेश्वर इत्यादिना ।
आकाशस्याक्षेपपूर्वकमिति संबन्धः ।
तमाचार्यं प्रति यदि ब्रूयुः, हृदयमेव तावदल्पं तत्रत्याकाशो ऽल्पतरः किं तदत्राल्पे विद्यते यद्विचार्या ज्ञेयमिति, तदा स आचार्यो ब्रूयादाकाशस्याल्पतानिवृत्तिमित्यर्थः ।
वाक्यस्य तात्पर्यमाह- तत्रेति ।
निवर्तयति ।
आचार्य इति शेषः ।
नन्वाकाशशब्देन रूढ्या भूताकाशस्य भानात्कथं तन्निवृत्तिरित्याशङ्क्याह- यद्यपीति ।
ननु ऽरामरावणयोर्युद्धं रामरावणयोरिवऽइत्यभेदे ऽप्युपमा दृष्टेतिचेत्, न अभेदे सादृश्यस्यानन्वयेन युद्धस्य निरूपमत्वे तात्पर्यादयमनन्वयालङ्कार इति काव्यविदः ।
पूर्वोक्तमनूद्य निरस्यति- नन्वित्यादिना ।
ऽसीताश्लिष्ट इवाभाति कोदण्डप्रभया युतःऽइत्यादौ प्रभायोगसीताश्लेषरूपविशेषणभेदाद्भेदाश्रयणमेकस्यैव श्रीरामस्योपमानोपमेयभावसिद्ध्यर्थमगत्य कृतमित्यनुदाहरणं द्रष्टव्यम् ।
नैवमत्राश्रयणं युक्तम् ।
वाक्यस्याल्पत्वनिवृत्तिपरत्वेन गतिसद्भावात् ।
किञ्च हार्दाकाशस्यान्तरत्वात्यागे अल्पत्वेन व्यापकबाह्याकाशसादृश्यं न युक्तमित्याह- अपिचेति ।
आन्तरत्वत्यागे तु अत्यन्ताभेदान्न सादृश्यमिति भावः ।
ननु हार्दाकाशस्याल्पत्वनिवृत्तौ तावत्त्वे च तात्पर्यं किं न स्यादित्यत आह- उभयेति ।
अतो ऽल्पावनिवृत्तावेव तात्पर्यमिति भावः ।
एवमाकाशोपमितत्वाद्दहराकाशो न भूतमित्युक्तम् ।
सर्वाश्रयत्वादिलिङ्गेभ्यश्च तथेत्याह- नचेत्यादिना ।
विगता जिघत्सा जग्धुमिच्छा यस्य सो ऽयं विजिघत्सः ।
बुभुक्षाशून्य इत्यर्थः ।
प्रथमश्रुतब्रह्मशब्देन तत्सापेक्षचरमश्रुतषष्ठीविभक्त्यर्थः संबन्धो नेयः, न तु ब्रह्मणः पुरमिति षष्ठ्यर्थः स्वस्वामिभावो ग्राह्यः ऽनिरपेक्षेण तत्सापेक्षं बाध्यम्ऽइति न्यायादित्याह- अत्र ब्रूम इति ।
शरीरस्य ब्रह्मण तदुपलब्धिस्थानत्वरूपे संबन्धे मानमाह- स इति ।
पूर्षु शरीरेषु, पुरि हृदये शय इति पुरुष इत्यन्वयः ।
ननु ब्रह्मशब्दस्य जीवे ऽप्यन्नादिना शरीरवृद्धिहेतौ मुख्यत्वान्न षष्ठ्यर्थः कथञ्चिन्नेय इत्यत आह- अथवेति ।
बृंहयति देहमिति ब्रह्म जीवः तत्स्वामिके पुरे हृदयं ब्रह्मवेश्म भवतु, राजपुरे मैत्रसद्भवदित्यर्थः ।
अनन्तफललिङ्गादपि दहरः परमात्मेत्याह- तद्यथेति ।
अथ कर्मफलाद्वौराग्यानन्तरमिह जीवदशायामात्मानं दहरं तदाश्रितांश्च सत्यकामादिगुणान् आचार्योपदेशमनुविद्य ध्यानेनानुभूय ये परलोकं गच्छन्ति तेषां सर्वलोकेष्वनन्तमैश्वर्यं स्वेच्छया संचलनादिकं भवतीत्यर्थः ।
दहरे उक्तलिङ्गान्यन्यथासिद्धानि तेषां तदन्तःस्थगुणत्वादियुक्तं स्मारयित्वा दूषयति- यदपीत्यादिना ।
उत्तरत्राकाशस्वरूपप्रतिपादनान्यथानुपपत्त्या पूर्वं तस्यान्वेष्यत्वादिकमित्यत्रान्यथोपपत्तिं शङ्कते नन्विति ।
एतत् आकाशस्वरूपम् ।
आक्षेपबीजमाकाशस्याल्पत्वमुपमया निरस्यान्तःस्थवस्तूक्तेस्तदन्तःस्थमेव ध्येयमित्यर्थः ।
तर्हि जगदेव ध्येयं स्यादित्याह- नैतदेवमिति ।
अस्तु को दोषः, तत्राह- तत्रेति ।
सर्वनामभ्यां दहराकाशमाकृष्यात्मत्वादिगुणानुक्त्वा गुणैः सह तस्यैव ध्येयत्वं वाक्यशेषो ब्रूते तद्विरोध इत्यर्थः ।
ऽतस्मिन् यदन्तःऽइति तत्पदेन व्यवहितमपि हृदयं योग्यतया ग्राह्यमित्याह- तस्मादिति ।
यद्वा आकाशस्तस्मिन् यदन्तस्तदुभयमन्वेष्टव्यमिति योजनां सूचयति- सहान्तःस्थैरिति ॥14॥
एन्द् ब्स्र्प्_1,3.5.14
स्तर्त् ब्स्र्प्_1,3.5.15
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च

1.3.16

दहराकाशस्य ब्रह्मत्वे हेत्वान्तरमाह- गतीति ।
प्रजा जीवा एतं हृदयस्थं दहरं ब्रह्मस्वरूपं लोकमहरहः प्रत्यहं स्वापे गच्छन्त्यस्तदात्मना स्थिता अप्यनृताज्ञानेनावृतास्तं न जानन्ति अतः पुनरुत्तिष्ठन्तीत्यर्थः ।
नन्वेतत्पदपरामृष्टदहरस्य स्वापे जीवगम्यत्वे ऽपि ब्रह्मत्वे किमायातमित्यशङ्क्य ऽतथा हि दृष्टम्ऽइति व्याचष्टे- तथा हीति ।
लोके ऽपि दृष्टमित्यर्थान्तरमाह- लोके ऽपीति ।
गतिलिङ्गं व्याख्याय शब्दं व्याचष्टे- तथेति ।
जीवभूताकाशयोर्ब्रह्मलोकशब्दस्याप्रसिद्धेरिति भावः ।
ब्रह्मण्यपि तस्याप्रसिद्धिं शङ्कते- नन्विति ।
निषादस्थपतिन्यायेन समाधत्ते- गमयेदिति ।
षष्ठे चिन्तितम्-स्वपतिर्निषादः, शब्दसामर्थ्यात् ।
रौद्रीमिष्टिं विधाय ऽएतया निषादस्थपतिं याजयेत्ऽइत्याम्नायते ।
तत्र निषादानां स्थपतिः स्वामीति षष्ठीसमासेन त्रैवर्णिको ग्राह्यः, अग्निविद्यादिसामर्थ्यात् ।
न तु निषादश्चासौ स्थपतिरिति कर्मधारयेण निषादो ग्राह्यः, असामर्थ्यादिति प्राप्ते सिद्धान्तः ।
निषाद एव स्थपतिः स्यात्, निषादशब्दस्य निषादे शक्तत्वात्,
तस्याश्रुतषष्ठ्यर्थसंबन्धलक्षकत्वल्पनायोगात् श्रुतद्वितीयाविभक्तेः पूर्वपदसंबन्धकल्पनायां लाघवात्, अतो निषादस्येष्टिसामर्थ्यमात्रं कल्प्यमिति ।
तद्ब्रह्मलोकशब्दे कर्मधारय इत्यर्थः ।
कर्मधारये लिङ्गं चास्तीति व्याचष्टे- एतदेवेति ।
सूत्रे चकार उक्तन्यायसमुच्चयार्थः ॥15॥
एन्द् ब्स्र्प्_1,3.5.15
स्तर्त् ब्स्र्प्_1,3.5.16
धृतेश् च महिम्नो ऽस्यास्मिन्न् उपलब्धेः

1.3.17

सर्वजगद्धारणलिङ्गाच्च दहरः पर इत्याह- धृतेरिति ।
नन्वथशब्दाद्दहरप्रकरणं विच्छिद्य श्रुता धृतिर्न दहरलिङ्गमिति शङ्कते- कथमिति ।
ऽय आत्माऽइति प्रकृताकर्षादथशब्दो दहरस्य धृतिगुणविधिप्रारम्भार्थ इत्याह- दहरो ऽस्मिन्नित्यादिना ।
श्रुतौ विधृतिशब्दः कर्तृवाचित्वात् क्तिजन्तः ।
सूत्रे तु महिमशब्दसामानाधिकरण्याद्धृतिशब्दः क्तिन्नन्तो विधारणं ब्रूते, ऽस्त्रियां क्तिन्ऽइति भावे क्तिनो विधानादिति विभागः ।
सेतुरसंकरहेतुः, विधृतिस्तु स्थितिहेतुरित्यपौनरुक्त्यमाह- यथोदकेति ।
सूत्रं योजयति- एवमिहेति ।
धृतेश्च दहरः परः अस्य धृतिरूपस्य नियमनस्य च महिम्नो ऽस्मिन्परमात्मन्येव श्रुत्यन्तर उपलब्धेरिति सूत्रार्थः ।
धृतेश्चेति चकारात्सेतुपदोक्तनियामकत्वलिङ्गं ग्राह्यम् ।
तत्र नियमने श्रुत्यन्तरोपलब्धिमाह- एतस्येति ।
धृतौ तमाह- तथेति ॥16॥
एन्द् ब्स्र्प्_1,3.5.16
स्तर्त् ब्स्र्प्_1,3.5.17
प्रसिद्धेश् च

1.3.18

आ समन्तात्काशते दीप्यत इति स्वयञ्ज्योतिषि ब्रह्मण्याकाशशब्दस्य विभुत्वगुणतो वा प्रसिद्धिः प्रयोगप्राचुर्यम् ॥17॥
एन्द् ब्स्र्प्_1,3.5.17
स्तर्त् ब्स्र्प्_1,3.5.18
इतरपरामर्शात् स इति चेन् नासंभवात्

1.3.19

यदि ऽएष आत्मापहतपाप्माऽइत्यादिवाक्यशेषबलेन दहरः परस्तर्हि जीवो ऽपीत्याशङ्क्य निषेधति- इतरेति ।
जीवस्यापि वाक्यशेषमाह- अथेति ।
दहरोक्त्यनन्तरं मुक्तोपसृप्यं शुद्धं ब्रह्मोच्यते ।
य एष संप्रसादो जीवो ऽस्मात्कार्यकरणसंघातात्सम्यगुत्थाय आत्मानं तस्माद्विविच्य विविक्तमात्मानं स्वेन ब्रह्मरूपेणाभिनिष्पद्य साक्षात्कृत्य तदेव प्रत्यक्परं ज्योतिरूपसंपद्यते प्राप्नोतीति व्याख्येयम् ।
यथा मुखं व्यादाय स्वपितीति वाक्यं सुप्त्वा मुखं व्यादत्ते इति व्याख्यायते तद्वत् ।
ज्योतिषो ऽनात्मत्वं निरस्यति- एष इति ।
ऽसंप्रसादे रत्वाचरित्वाऽइति श्रुत्यन्तरम् ।
अवस्थावदुत्थानमपि जीवस्य लिङ्गमित्याह- तथेति ।
तदाश्रितस्य तस्मात्समुत्थाने दृष्टान्तः- यथेति ।
ननु क्वाप्याकाशशब्दो जीवे न दृष्ट इत्याशङ्क्योक्तावस्थोत्थानलिङ्गबलात्कल्प्य इत्याह- यथा चेति ।
नियामकाभावाज्जीवो दहरः किं न स्यादिति प्राप्ते नियामकमाह- नैतदित्यादिना ।
दहरे श्रुतधर्माणामसंभवान्न जीवो दहर इत्यर्थः ।
तर्हि पुनरुक्तिः, तत्राह- अतिरेकेति ।
उत्तराच्चेत्याधिकाशङ्कानिरासार्थमित्यर्थः ।
का तर्हि जीवपरामर्शस्य गतिः, तत्राह- पठिष्यतीति ।
जीवस्य स्वापस्थानभूतब्रह्मज्ञानार्थो ऽयं परामर्श इति वक्ष्यते ॥18॥
एन्द् ब्स्र्प्_1,3.5.18
स्तर्त् ब्स्र्प्_1,3.5.19
उत्तराच् चेद् आविर्भूतस्वरूपस् तु

1.3.20

असंभावादिति हेतोरसिद्धिमाशङ्क्य परिहरति- उत्तराच्चेदिति ।
सूत्रनिराकृताया जीवाशङ्कायाः प्रजापतिवाक्यबलात्पुनः समुत्थानं क्रियते ।
तत्र जीवस्यैवापहतपाप्मत्वादिग्रहणेनासंभवासिद्धेरित्यर्थः ।
कथं तत्र जीवोक्तिः, तत्राह- तत्रेत्यादिना ।
यद्यप्युपक्रमे जीवशब्दो नास्ति तथाप्यपहतपाप्मत्वादिगुणकमात्मानमुपक्रम्य तस्य जाग्रदाद्यवस्थात्रयोपन्यासादवस्थालिङ्गेन जीवनिश्चयात्तस्यैव ते गुणाः संभवन्तीति समुदायार्थः ।
इन्द्रं प्रजापतिर्बूते- य एष इति ।
प्राधान्यादक्षिग्रहणं सर्वैरिन्द्रियैर्विषयदर्शनरूपजाग्रदवस्थापन्नमित्याह- द्रष्टारमि ति ।
महीयमानः वासनामयैर्विषयैः पूज्यमान इति स्वप्नपर्याये, यद्यत्रेति सुषुप्तिपर्याये च जीवमेव प्रजापतिर्व्याचष्ट इत्यन्वयः ।
तत्र काले तदेतत्स्वपनं यथा स्यात्तथा सुप्तः, सम्यक् अस्तो निरस्तः करणग्रामो यस्य स समस्तः, अत एवोपहृतकरणत्वात्तत्कृतकालुष्यहीनः संप्रसन्नः, स्वप्नं प्रपञ्चमज्ञानमात्रत्वेन विलापयति अतो ऽज्ञानसत्त्वात् मुक्ताद्विलक्षणः प्राज्ञ एष स्वचैतन्येन कारणशरीरसाक्षी तस्य साक्ष्यस्य सत्तास्फूर्तिप्रदत्वादात्मेत्यर्थः ।
चतुर्थपर्याये ब्रह्मोक्तेस्तस्यैवापहतपाप्मत्वादिगुणा इत्याशङ्क्य तस्यापि पर्यायस्य जीवत्वमाह- नाहेति ।
अहेति निपातः खेदार्थे ।
खिद्यमानो हीन्द्र उवाच, न खलु सुप्तः पुमानयं संप्रति सुषुप्त्यवस्थायामयं देवदत्तो ऽहमित्येवमात्मानं जानाति ।
नो एव नैवेमानि भूतानि जानाति किन्तु विनाशमेव प्राप्तो भवति, नाहमत्र भोग्यं पश्यामीति दोषमुपलभ्य पुनः प्रजापतिमुपससार ।
तं दोषं श्रुत्वा प्रजापतिराह- एतमिति ।
एतस्मात्प्रकृतादात्मनो ऽन्यत्रान्यं न व्याख्यास्यामीत्युपक्रम्य ऽमघवन्मर्त्यं वा इदं शरीरम्ऽइति निन्दापूर्वकं जीवमेव दर्शयतीत्यर्थः ।
तस्मात् प्रजापतिवाक्यात् ।
अतः संभवासिद्धेः ।
सिद्धान्तयति- तं प्रतीति ।
अवस्थात्रयशोधनेनाविर्भूतत्वं शोधितत्वमर्थस्य वाक्योत्थवृत्त्याभिव्यक्तत्वमित्यर्थः ।
तर्हि सूत्रे पुंलिङ्गेन जीवोक्तिः कथं, ज्ञानेन जीवत्वस्य निवृत्तत्वादित्यत आह- भूतपूर्वेति ।
ज्ञानात्पूर्वमविद्यातत्कार्यप्रतिबिम्बितत्वरूपं जीवत्वमभूदिति कृत्वा ज्ञानानन्तरं ब्रह्मरूपो ऽपि जीवनाम्नोच्यत इत्यर्थः ।
विश्वतैजसप्राज्ञतुरीयपर्यायचतुष्टयात्मकप्रजापतिवाक्यस्य तात्पर्यमाह- एतदिति ।
जन्मानाशवत्त्वात् ।
प्रतिबिम्बवद्बिम्बदेहो नात्मेति ज्ञापनार्थं प्रजापतिरिनिन्द्रविरोचनौ प्रत्युवाच, उदशराव आत्मानमवेक्ष्य यदात्मनो रूपं न विजानीथस्तन्मे ब्रूतमित्यादि ब्राह्मणेनेत्याह- उदशरावेति ।
उदकपूर्णे शरावे प्रतिबिम्बात्मानं देहं दृष्ट्वा स्वस्याज्ञातं यत्तन्मह्यं वाच्यमित्युक्तश्रुत्यर्थः ।
व्युत्थाप्य विचार्य ।
अभिनिष्पद्यत इत्यत्रैतदुक्तं भवतीति संबन्धः ।
किमुक्तमित्यत आह- यदस्येति ।
जीवत्वरूपेण जीवं न व्याचष्टे लोकसिद्धत्वात् किन्तु तमनूद्य परस्परव्यभिचारिणीभ्यो ऽवस्थाभ्यो विविच्य ब्रह्मस्वरूपं बोधयति, अतो यद्ब्रह्म तदेवापहतपाप्मत्वादिधर्मकं न जीव इत्युक्तं भवति, शोधितस्य ब्रह्मभेदेन तद्धर्मोक्तेरित्यर्थः ।
एवमवस्थोपन्यासस्य विवेकार्थत्वान्न जीवलिङ्गत्वं, ऽएतदमृतमभयमेतब्रह्मऽइति लिङ्गोपेतश्रुतिविरोधादिति मन्तव्यम् ।
ननु जीवत्वब्रह्मत्वविरुद्धधर्मवतोः कथमभेदः, तत्राह- तदेवेति ।
अन्वयव्यतिरेकाभ्यां जीवत्वस्याविद्याकल्पितत्वादविरोध इति मत्वा दृष्टान्तेनान्वयमाह- यावदिति ।
व्यतिरेकमाह- यदेति ।
अविद्यायां सत्यां जीवत्वं, वाक्योत्थप्रभोधात्तन्निवृत्तौ तन्निवृत्तिरित्याविद्यकं तदित्यर्थः ।
संसारित्वस्य कल्पितत्वे सिद्धं निगमयति- तदेव चास्येति ।
ऽसमुत्थाय स्वेन रूपेणाभिनिष्पद्यतेऽइति श्रुतिं व्याख्यातुमाक्षिपति- कथं पुनरित्यादिना ।
कूटस्थनित्यस्य स्वरूपमित्यन्वयः ।
मनःसङ्गिनो हि क्रियया मलनाशादभिव्यक्तिर्न तु कूटस्थस्यासङ्गिन इत्याह- सुवर्णेति ।
द्रव्यान्तरं पार्थिवो मलः ।
अभिभूतेत्यस्य व्याख्यानमनभिव्यक्तेति ।
असाधारणो भास्वरत्वादिः ।
अभिभावकः सौरालोकः ।
जीवस्वरूपस्याभिभवे बाधकमाह- दृष्टेति ।
ऽविज्ञानघन एवऽइति श्रुत्या चिन्मात्रस्तावदात्मा ।
तच्चैतन्यं चक्षुरादिजन्यवृत्तिव्यक्तं दृष्ट्यादिपदवाच्यं सत् व्यवहाराङ्गं जीवस्य स्वरूपं भवतीति तस्याभिभूतत्वे दृष्टो व्यवहारो विरुध्येत ।
हेत्वभावाद्व्यवहारो न स्यादित्यर्थ ।
अज्ञस्यापि स्वरूपं वृत्तिषु व्यक्तमित्यङ्गीकार्यं, व्यवहारदर्शनादित्याह- तच्चेति ।
अन्यथेत्युक्तं स्फुटयति- तच्चेदिति ।
स्वरूपं चेज्ज्ञानिन एव व्यञ्ज्येत ज्ञानात्पूर्वं व्यवहारोच्छित्तिरित्यर्थः ।
अतः सदैव व्यक्तस्वरूपत्वादित्यर्थः ।
सदा वृत्तिषु व्यक्तस्य वस्तुतो ऽसङ्गस्यात्मन आविद्यकदेहाद्यविवेकरूपस्य मलसङ्गस्य सत्त्वात्तद्विवेकापेक्षया समुत्थानादिश्रुतिरित्युत्तरमाह- अत्रेति ।
वेदना हर्षशोकादिः ।
अविविक्तमिवेति तादात्म्यस्य सङ्गस्य कल्पितत्वमुक्तम् ।
तत्र कल्पितसङ्गे दृष्टान्तः- यथेति ।
श्रुतिकृतमिति ।
त्वंपदार्थश्रुत्या ऽयो ऽयं विज्ञानमयः प्राणेषुऽइत्याद्यया सिद्धमित्यर्थः ।
प्राणादिभिन्नशुद्धत्वंपदार्थज्ञानस्य वाक्यार्थसाक्षात्कारः फलमित्याह- केवलेति ।
सशरीरत्वस्य सत्यत्वात्समुत्थानमुत्क्रान्तिरिति व्याख्येयं न विवेक इत्याशङ्क्याह- तथा विवेकेति ।
उक्तश्रुत्यनुसारेणेत्यर्थः ।
शरीरेष्वशरीरमवस्थितमिति श्रुतेरविवेकमात्रकल्पितं सशरीरत्वम् ।
अतो विवेक एव समुत्थानमित्यर्थः ।
ननु स्वकर्मार्जिते शरीरे भोगस्यापरिहार्यत्वात्कथं जीवत एव स्वरूपाविर्भाव इत्यत आह- शरीरस्थो ऽपीति ।
अशरीरत्ववच्छरीरस्थस्यापि बन्धाभावस्मृतेर्जीवतो मुक्तिर्युक्तेत्यर्थः ।
अविरुद्धे श्रुत्यर्थे सूत्रशेषो युक्त इत्याह- तस्मादिति ।
अन्यादृशौ सत्यावित्यर्थः ।
ज्ञानाज्ञानकृतावाविर्भावतिरोभावाविति स्थिते भेदो ऽप्यंशांशित्वकृतो निरस्त इत्याह- एवमिति ।
अंशादिशून्यत्वमसङ्गत्वम् ।
आत्मा द्रव्यत्वव्याप्यजातिशून्यः विभुत्वात्, व्योमवदित्यात्मैक्यसिद्धेर्भेदो मिथ्येत्यर्थः ।
प्रजापतिवाक्याच्च भेदो मिथ्येत्याकाङ्क्षापूर्वकमाह-- कुतश्चेत्यादिना ।
एतद्भेदस्य सत्यत्वमेव नास्तीति कुत इत्यन्वयः छायायां ब्रह्मदृष्टिपरमिदं वाक्यं नाभेदपरमित्यत आह- नापीति ।
यस्य ज्ञानात्कृतकृत्यता सर्वकामप्राप्तिस्तमात्मानमन्विच्छाव इति प्रवृत्तयोरिन्द्रविरोचनयोर्यद्यनात्मच्छायां प्रजापतिर्ब्रूयात्तदा मृषावादि स्यादित्यर्थः ।
प्रथमवत् द्वितीयादिपर्याये व्यावृत्तास्ववस्थासु उनुस्यूतात्मा ब्रह्मत्वेनोक्त इत्याह- तथेति ।
अवस्थाभेदे ऽपयनुस्यूतौ युक्तिमाह- किञ्चेति ।
सुषुप्तौ ज्ञातुर्व्यावृत्तिमाशङ्क्याह- तथा तृतीय इति ।
सषुप्तौ निर्विकल्पज्ञानरूप आत्मास्तीयत्र बृहदारण्यकश्रुतिमाह- नहीति ।
बुद्धेः साक्षिणो नाशो नास्ति, नाशकाभावादित्यर्थः ।

एतमवस्थाभिरसङ्गत्वेनोक्त आत्मैव तुरीये ऽपि ब्रह्मत्वेनोक्त इत्याह- तथेति ।
श्रुतेरेकदेशिव्याख्यां दूषयति- केचित्त्विति ।
जीवपरयोर्भदादिति भावः ।
श्रुतिबाधान्मैवमित्याह- तेषामिति ।
संनिहितो जीव एव सर्वनामार्थ इत्यर्थः ।
उक्तस्य पुनरुक्तौ भूय इति युज्यते ।
तव तु उपक्रान्तपरमात्मनश्चतुर्थ एवोक्तेस्तद्बाद इत्याह- भूय इति ।
लोकसिद्धजीवानुवादेन ब्रह्मत्वं बोध्यत इति स्वमतमुपसंहरति- तस्मादिति ।
व्याख्यानान्तरसंभवादित्यर्थः ।
विलयनं शोधनम् ।
विद्यया महावाक्येनेति यावत् ।
ये तु संसारं सत्यमिच्छन्ति तेषामिदं शारीरकमेवोत्तरमित्याह- अपरे त्वित्यादिना ।
शारीरकस्यार्थं संक्षेपणोपदिशति- एक एवेति ।
अविद्यामाययोर्भेदं निरसितुं सामानाधिकरण्यं, आवरणविक्षेपशक्तिरूपशब्दप्रवृत्तिनिमित्तभेदात् सहप्रयोगः ।
ब्रह्मैवाविद्यया संसरति न ततो ऽन्यो जीव इति शारीरकार्थ इत्यर्थः ।
तर्हि सूत्रकारः किमिति भेदं ब्रूते, तत्राह- यस्त्त्विति ।
परमात्मनो ऽसंसारित्वसिद्यर्थं जीवाद्भेदं द्रढयति ।
तस्यासंसारित्वनिश्चयाभावे तदभेदोक्तावपि जीवस्य संसारित्वानपायादित्यर्थः ।
अधिष्ठानस्य कल्पिताद्भेदे ऽपि कल्पितस्याधिष्ठानान्न पृथक्सत्त्वमित्याह- जीवस्य त्विति ।
कल्पितभेदानुवादस्य फलमाह- एवं हीति ।
सूत्रेष्वभेदो नोक्त इति भ्रान्तिं निरस्यति- प्रतिपाद्यमिति ।
आत्मेति तूपगच्छन्तीत्यादिसूत्राण्यादिपदार्थः ।
नन्वद्वैतस्य शास्त्रार्थत्वे द्वैतापेक्षविधिविरोधः तत्राह- वर्णितश्चेति ।
अद्वैतमजानतः कल्पितद्वैताश्रया विधयो न विदुष इति सर्वमुपपन्नमित्यर्थः ॥19॥
एन्द् ब्स्र्प्_1,3.5.19
स्तर्त् ब्स्र्प्_1,3.5.20
अन्यार्थश् च परामर्शः

1.3.21

एवं प्रजापतिवाक्ये जीवानुवादेन ब्रह्मण एवापहतपाप्मत्वाद्युक्तेर्जीवे तदसंभवान्न जीवो दहर इत्युक्तम् ।
तर्हि जीवपरामर्शस्य का गतिरित्यत आह- अन्यार्थश्चेति ।
सूत्रं व्याचष्टे- अथेत्यादिना ।
प्रकृते दहरे विशेषो गुणस्तदुपदेशो ऽपि नेत्यर्थः ।
तत्र दहरवाक्यशेषरूपं संप्रसादवाक्यमाशङ्कापूर्वकं दहरब्रह्मपरत्वेन व्याचष्टे- कथमित्यादिना ॥20॥
एन्द् ब्स्र्प्_1,3.5.20
स्तर्त् ब्स्र्प्_1,3.5.21
अल्पश्रुतेर् इति चेत् तद् उक्तम्

1.3.22

उपास्यत्वादल्पत्वमुक्तमिति व्याख्याय श्रुत्या निरस्तमित्यर्थान्तरमाह- श्रुत्यैव चेदमिति ।
एवं दहरवाक्यं प्रजापतिवाक्यं च सगुणे निर्गुणे च समन्वितमिति सिद्धम् ॥21॥
एन्द् ब्स्र्प्_1,3.5.21
स्तर्त् ब्स्र्प्_1,3.6.22
अनुकृतेस् तस्य च

1.3.23

अनुकृतेस्तस्य च ।
मुण्डकवाक्यमुदाहरति- न तत्रेति ।
तस्मिन् ब्रह्मणि विषये न भाति, तं न भासयतीति यावत् ।
यदा चन्द्रभास्करादिर्न भासयति तदा अल्पदीप्तेरग्नेः का कथेत्याह- कुत इति ।
किञ्च सर्वस्य सूर्यादेस्तद्भास्यत्वान्न तद्भासकत्वमित्याह- तमेवेति ।
अनुगमनवदनुमानं स्वगतमिति शङ्कां निरस्यति- तस्येति ।
तत्रेति सप्तम्याः सति विषये च साधारण्यात्संशयमाह- तत्रेति ।
पूर्वत्रात्मश्रुत्यादिबलादाकाशशब्दस्य रूढित्यागादीश्वरे वृत्तिराश्रिता ।
तथेहापि सतिसप्तमीबलाद्वर्तमानार्थत्यागेन यस्मिन्सति सूर्यादयो न भास्यन्ति स तेजोविशेष उपास्य इति भविष्यदर्थे वृत्तिराश्रयणीया ।
अधुना भासमाने सूर्यादौ न भातीति विरोधादिति दृष्टान्तेन पूर्वपक्षयति- तेजोधातुरिति ।
तेजोधानं, निर्गुणस्वयञ्ज्योतिरात्मज्ञानमित्युभयत्र फलम् ।
तेजोधातुत्वे लिङ्गमाह- तेजोधातूनामिति ।
यत्तेजसो ऽभिभावकं तत्तेज इति व्याप्तिमाह- तेजःस्वभावकमिति ।
यस्मिन्सति यन्न भाति तदनु तद्भातीति विरुद्धमित्यत आह- अनुभानमिति ।
ततो निकृष्टभानं विवक्षितमिति भावः ।
मुख्यसंभवे विवक्षानुपपत्तेः मुख्यानुभानलिङ्गात्सर्वभासकः परमात्मा स्वप्रकाशको ऽत्र ग्राह्य इति सिद्धान्तमाह- प्राज्ञ इति ।
प्राज्ञत्वं स्वप्रकाशकत्वं भासकत्वार्थमुक्तम् ।
तत्र श्रुतिमाह- भारूप इति ।
मानाभावाच्च तेजोधातुर्ना ग्राह्य इत्याह- न त्विति ।
किञ्च सूर्यादयस्तेजोन्तरभानमनु न भान्ति, तेजस्त्वात्, प्रदीपवदित्याह- समत्वाच्चेति ।
यो ऽयमनुकरोति स तज्जातीय इति नियमो नास्तीत्याह- नायमेकान्त इति ।
पौनरुक्त्यमाशङ्क्योक्तानुवादपूर्वकं सूत्रोक्तं हेत्वन्तरं व्याचष्टे- अनुकृतेरिति ।
ऽतमेव भान्तम्ऽइत्येवकारोक्तं तद्भानं विना सर्वस्य पृथग्भानाभावरूपमनुभानमनुकृतेरित्यनेनोक्तम्- तस्य चेति ।
सर्वभासकत्वमुक्तमित्यपौनरुक्त्यमित्यर्थः ।
आत्मनः सूर्यादिभासकत्वं श्रुत्यन्तरप्रसिद्धमविरुद्धं चेत्याह- तद्देवा इति ।
सर्वशब्दः प्रकृतसूर्यादिवाचकत्वेन व्याख्यातः ।
संप्रति तस्यासंकुचद्वृत्तितां मत्वार्थान्तरमाह- अथवेति ।
तत्रेति सर्वनामश्रुत्या प्रकृतं ब्रह्म ग्राह्यमित्याह- न तत्र सूर्य इति ।
किञ्च स्पष्टब्रह्मपरपूर्वमन्त्राकाङ्क्षापूरकत्वादयं मन्त्रो ब्रह्मपर इत्याह- अनन्तरं चेति ।
हिरण्मये ज्योतिर्मये अन्नमयाद्यपेक्षया परे कोशे आनन्दमयाख्ये पुच्छशब्दितं ब्रह्म विरजं आगन्तुकमलशून्यं, निष्कलं निरवयवं, शुभ्रं नैसर्गिकमलशून्यं, सूर्यादिसाक्षिभूतं ब्रह्मवित्प्रसिद्धमित्यर्थः ।
सतिसप्तमीपक्षमनुवदति- यदपीति ।
सूर्याद्यभिभावकतेजोधातौ प्रामाणिके तस्येह ग्रहणशङ्का स्यात्, न तत्र प्रमाणमस्तीत्याह- तत्रेति ।
सिद्धान्ते तत्रेति वाक्यार्थः कथमित्याशङ्क्याह- ब्रह्मण्यपीति ।
सतिसप्तमीपक्षे न भातीति श्रुतं वर्तमानत्वं त्यक्त्वा तस्मिन्सति न भास्यन्तीत्यश्रुतभविष्यत्त्वं कल्पनीयं प्रत्यक्षविरोधनिरासाय ।
विषयसप्तमीपक्षे तु न भासयतीत्यश्रुतणिजध्याहारमात्रं कल्प्यं न श्रुतत्याग इति लाघवं, अतो ब्रह्मणि विषये सूर्यादेर्भासकत्वनिषेधेन ब्रह्मभास्यत्वमुच्यत इत्यर्थः ।
येनान्याभास्यत्वेन हेतुना सूर्यादयस्तस्मिन्ब्रह्मणि विषये भासकाः स्युस्तथा तु ब्रह्मान्येन नोपलभ्यते स्वप्रकाशत्वादिति योजना ।
उक्तमेव श्रुत्यन्तरेण द्रढयति- ब्रह्मेति ।
स्वप्रकाशत्वे ऽन्याभास्यत्वे च श्रुतिद्वयम् ।
ग्रहणायोग्यत्वादग्राह्य इत्यर्थः ॥22॥
एन्द् ब्स्र्प्_1,3.6.22
स्तर्त् ब्स्र्प्_1,3.6.23
अपि च स्मर्यते

1.3.24

णिजध्याहारपक्षे स्मृतिबलमप्यस्तीत्याह- अपिचेति ।
सूत्रं व्याचष्टे- अपिचेति ।
अभास्यत्वे सर्वभासकत्वे च श्लोकद्वयं द्रष्टव्यम् ।
तस्मादनुभानमन्त्रो ब्रह्मणि समन्वित इति सिद्धम् ॥23॥
एन्द् ब्स्र्प्_1,3.6.23
स्तर्त् ब्स्र्प्_1,3.7.24
शब्दाद् एव प्रमितः

1.3.25

शब्दादेव प्रमितः ।
काठकवाक्यं पठति- अङ्गुष्ठेति ।
पुरुषः पूर्णो ऽप्यात्मनि देहमध्ये अङ्गुष्ठमात्रे हृदये तिष्ठतीत्यङ्गुष्ठमात्र इत्युच्यते, तस्यैव परमात्मत्ववादिवाक्यान्तरमाह- तथेति ।
अधूमकमिति पठनीयम् ।
यो ऽङ्गुष्ठमात्रो जीवः स वस्तुतो निर्धूमज्योतिर्वन्निर्मलप्रकाशरूप इति तमर्थं संशोध्य तस्य ब्रह्मत्वमाह- ईशान इति ।
तस्याद्वितीयत्वमाह -स एवेति ।
कालत्रये ऽपि स एवास्ति नान्यत्किञ्चित् ।
यन्नचिकेतसा पृष्टं ब्रह्म तदेतदेवेत्यर्थः ।
परिमाणेशानशब्दाभ्यां संशयमाह- तत्रेति ।
यथानुभानादिलिङ्गात् णिजध्याहरेण सूर्याद्यगोचरो ब्रह्मेत्युक्तं तथा प्रथमश्रुतपरिमाणलिङ्गाज्जीवप्रतीतावीशानो ऽस्मीति ध्यायेदिति विध्यध्याहरेण ध्यानपरं वाक्यमिति पूर्वपक्षयति- तत्र परिमाणेति ।
पूर्वपक्षे ब्रह्मदृष्ट्या जीवोपास्तिः, सिद्धान्ते तु प्रत्यग्ब्रह्मैक्यज्ञानं फलमिति मन्तव्यम् ।
आयामो दैध्यं, विस्तारो महत्त्वमिति भेदः ।
कयाचिदिति ।
अङ्गुष्ठमात्रहृदयस्य विज्ञानशब्दितबुद्यभेदाध्यासकल्पनयेत्यर्थः ।
स्मृतिसंवादादप्यङ्गुष्ठमात्रो जीवैत्याह- स्मृतेश्चेति ।
अथ मरणानन्तरं यमपाशौर्बद्धं कर्मवशं प्राप्तमित्यर्थः ।
तत्रापीश्वरः किं न स्यादित्यत आह-- नहीति ।
ऽप्रभवति संयमने ममापि विष्णुःऽइति यमस्येश्वरनियम्यत्वस्मरणादिति भावः ।
भूतभव्यस्वेत्युपपदाद्बाधकाभावाच्च ईशान इतीशत्वशब्दान्निरङ्कुशमीशिता भातीति श्रुत्या लिङ्गं बाध्यामिति सिद्धान्तयति- परमात्मैवेति ।
प्रकरणाच्च ब्रह्मपरमिदं वाक्यमित्याह- एतदिति ।
शब्दो वाक्यं लिङ्गाद्दुर्बलमित्याशङ्क्याह- शब्दादिति ॥24॥
एन्द् ब्स्र्प्_1,3.7.24
स्तर्त् ब्स्र्प्_1,3.7.25
हृद्यपेक्षया तु मनुष्याधिकारत्वात्

1.3.26

करः सकनिष्ठो ऽरत्रिः ।
मुख्याङ्गुष्ठमात्रो जीवो गृह्यतां किं गौणग्रहणेनेत्यत आह- न चान्य इति ।
सति संभवे मुख्यग्रहो न्याय्यः ।
अत्र तु श्रुतिविरोधादसंभव इति गौणग्रह इत्यर्थ ।
मनुष्यानेवेति ।
त्रैवर्णिकानेवेत्यर्थः ।
शक्तत्वादित्यनेन पश्चादीनां देवानामृषीणां चाधिकारो वारितः ।
तत्र पश्वादीनां शास्त्रार्थज्ञानादिसामग्र्यभावात्कर्मण्यशक्तिः ।
इन्द्रादेः स्वदेवताके कर्मणि स्वोद्देशेन द्रव्यत्यागायोगादशक्तिः ।
ऋषीणामार्षेयवरणे ऋष्यन्तराभावादशक्तिः ।
अर्थित्वादित्यनेन निष्कामानां मुमुक्षूणां स्थावराणां चाधिकारो वारितः ।
तत्र मुमुक्षूणां शुद्यर्थित्वे नित्यादिष्वधिकारो न काम्येषु ।
शुद्धचित्तानां मोक्षार्थित्वे श्रवणादिषु व्यञ्जकेष्वधिकारो न कर्मस्विति मन्तव्यम् ।
शूद्रस्याधिकारं निरस्यति- अपर्युदस्तत्वादिति ।
शूद्रो ऽयज्ञे ऽवनकॢप्तःऽइति पर्युदासात्, उपनयीत तमध्यापयीत इति शास्त्राच्च न शूद्रस्य वैदिके कर्मण्यधिकारः ।
तस्यैकजातित्वस्मृतेरूपनयनप्रयुक्तद्विजातित्वाभावेन वेदाध्ययनाभावात् ।
अत्रापेक्षितो न्यायः षष्ठाध्याये वर्णित इत्याह- वर्णितमिति ।
ऽस्वर्गकामो यजेतऽइत्यादिशास्त्रस्याविशेषण सर्वान्फलार्थिनः प्रति प्रवृत्तत्वात्, प्राणिमात्रस्य सुखार्थित्वाच्च फलार्थे कर्मणि पश्वादीनामप्यधिकार इत्याशङ्क्योक्तरित्यातेषां शक्तत्वाद्यभावात्स्वर्गकामपदं मनुष्यपरतया संकोच्य मनुष्याधिकारत्वे स्थापिते चतुर्वर्ण्याधिकारित्वमाशङ्क्य ऽवसन्ते ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यःऽइति त्रयाणामेवाग्निसंबन्धश्चवणात्तेषामेवाधिकार इति वर्णितमित्यर्थः ।
अस्तु, प्रस्तुते किमायातं, तत्राह- मनुष्याणां चेति ।
प्रायेण सप्तवितस्तिपरिमितो मनुष्यदेहैत्यर्थः ।
एवमङ्गुष्ठशब्दो हृत्परिमाणवाचकस्तत्रस्थं ब्रह्म लक्षयतीत्युक्तम् ।
संप्रति तच्छब्देनाङ्गुष्ठमात्रं जीवमनूद्यायमीशान इति ब्रह्माभेदो बोध्य इति वक्तुमनुवदति- यदपीति ।
प्रतिपाद्याभेदविरोधादनुवाद्याङ्गुष्ठमात्रत्वं बाध्यं, तात्पर्यार्थस्य बलवत्त्वादित्याह- तदीति ।
क्वचित् ऽअस्थूलम्ऽइत्यादौ ।
क्वचित् ऽतत्त्वमसिऽइत्यादौ ।
[ननु परमात्मनो ऽङ्गुष्ठपरिमाणत्वं न संभवतीति सूत्रकारेण हृदयापेक्षमङ्गुष्ठमात्रत्वमुक्तं,
द्विविधेत्यादिभाष्यात्तु जीवमुद्दिश्य ब्रह्मत्वबोधनमिति प्रतीयत इति सूत्रार्थास्पर्शित्वाद्भाष्यमनुपपन्नमिति चेत्, न, भाष्यतात्पर्यानभिज्ञानात् ।
कठवल्लीवाक्यस्यावान्तरतात्पर्यमेकं महातात्पर्यं चैकम् ।
तत्रावान्तरतात्पर्यमुपास्ये ब्रह्मणि, महातात्पर्यं च ज्ञेये ब्रह्मणि ।
अत एव भाष्यकारैर्वाक्यद्वयोपन्यासःकृतः ।
अत एवोपासनाफलं कठवल्ल्यामेव-ऽशतं चैका च हृदयस्य नाड्यःऽइत्यादिना बोधितम् ।
अत एव चतुर्थाध्याये द्वितीयचरणे ऽतदोकःऽइति सूत्रे हार्दविद्यां प्रकृत्य समामनन्ति इति भाष्यकारैः प्रथमवाक्यस्य उपास्ये ब्रह्मणि तात्पर्यमिति प्रकटीकृतम् ।
इत्थं चात्रत्यभाष्यं महातात्पर्याभिप्रायकमिति द्रष्टव्यम् ।
रामानुजभाष्यकृता तु पूर्वपक्षो ऽस्मद्भाष्यतात्पर्याज्ञानेनैव कृत इत्यवधेयम् ।
एकत्वार्थे वाक्यशेषमनुकूलयति- एतमिति ।
श्रुतिर्यमो वा द्रष्टव्यः ।
तं जीवं प्रवृहेत्पृथक्कुर्यात्, धैर्येण बलवदिन्द्रियनिग्रहादिना, तं विविक्तमात्मानं शुक्लं स्वप्रकाशममृतं कूटस्थं ब्रह्म जानीयादित्यर्थः ।
तस्मात्कठवाक्यं प्रत्यग्ब्रह्मणि ज्ञेये समन्वितमिति सिद्धम् ॥25॥
एन्द् ब्स्र्प्_1,3.7.25
स्तर्त् ब्स्र्प्_1,3.8.26
तदुपर्य् अपि बादरायणः संभवात्

1.3.27

शास्त्रस्य मनुष्याधिकारत्वे देवादीनां ब्रह्मविद्यायमाप्यनधिकारः स्यादित्याशङ्क्याह- तदुपर्यपि बादरायणः संभवात् ।
ननु समन्वयाध्याये ऽधिकारचिन्ता न संगतेत्यत आह- उङ्गुष्ठेति ।
स्मृतस्योपेक्षानर्हत्वं प्रसङ्गः ।
अत्र मनुष्याधिकारत्वोक्त्या स्मृतानां देवादिनां वेदान्तश्रवणादावधिकारो ऽस्ति न वेति संदेहे भोगासक्तानां वैराग्याद्यसंभवान्नेति प्राप्ते सिद्धान्तमाह- बाढमिति ।
एवमधिकारविचारात्मकाधिकरणद्वयस्य प्रसङ्गिकी संगतिः ।
अत्र पूर्वपक्षे देवादिनां ज्ञानानधिकाराद्देवत्वप्राप्तिद्वारा क्रममुक्तिफलासु दहराद्युपासनासु क्रममुक्त्यर्थिनां मनुष्याणामप्रवृत्तिः फलं, सिद्धान्ते तु प्रवृत्तिः ।
उपासनाभिर्देवत्वं प्राप्तानां श्रवणादिना ज्ञानान्मुक्तिसंभवादिति सफलो ऽयं विचारः ननु भोगासक्तानां तेषां मोक्षार्थित्वाभावान्नाधिकार इत्यत आह- अर्थित्वं तावदिति ।
विकारत्वेनानृतविषयसुखस्य क्षयासूयादिदोषद्दष्ट्या निरतिशयसुखमोक्षार्थित्वं सत्त्वप्रकृतीनां देवानां संभवतीत्यर्थः ।
नन्विन्द्राय स्वाहेत्यादौ चतुर्थ्यन्तशब्दातिरिक्ता विग्रहवती देवता नास्ति, शब्दस्य चासामर्थ्यान्नाधिकार इत्यत आह-- तथेति ।
अर्थित्ववदित्यर्थः ।
अपर्युदस्तत्वमाह- नचतेषामिति ।
ऽशूद्रो यज्ञे ऽनवल्कृप्तःऽइतिवद्देवादीनां विद्याधिकारनिषेधो नास्तीत्यर्थः ।
ननु विग्रहवत्त्वेन दृष्टसामर्थ्ये सत्यप्युपनयनाभावाच्छास्त्रीयं सामर्थ्यं नास्तीत्यत आह -न चेति ।
जन्मान्तराध्ययनबलात्स्वयमेव प्रतिभाताः स्मृता वेदा येषां ते तथा तद्भावादित्यर्थः ।
बालादिषु प्रविष्टपिशाचादीनां वेदोद्घोषदर्शनाद्देवयोनीनां जन्मान्तरस्मरणमस्तीति स्मृतवेदान्तानामर्थविचारो युक्त इत्यर्थः ।
देवानामृषीणां च विद्याधिकारे कारणमर्थित्वादिकमुक्त्वा श्रौतं गुरुकुलवासादिलिङ्गमाह- अपिचेति ।
ननु ब्रह्मविद्या देवादीन्नाधिकरोति, वेदार्थत्वात्, अग्निहोत्रवदित्यत आह- यदपीति ।
देवानां कर्मसु नाधिकारः,
देवतान्तराणामुद्देश्यानामभावादिति प्रथमसूत्रार्थः ।
ऋषीणामनधिकारः, ऋष्यन्तराभावादृषियुक्ते कर्मण्यशक्तेरिति द्वितीयसूत्रार्थः ।
असामर्थ्यमुपाधिरिति परिहरति- न तदिति ।
असामर्थ्यरूपं कारणमित्यर्थः ।
न ह्यस्ति येनासामर्थ्यं स्यादिति शेषः ।
ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणाम्ऽइतिवाक्यबाधो ऽप्यनुमानस्य द्रष्टव्यः ।
ननु देवादीन्प्रत्यङ्कुष्ठमात्रश्रुतिः कथं,
तेषां महादेहत्वेन हृदयस्यास्मदङ्गुष्ठमात्रत्वाभावात् ।
अतः श्रुतिषु तेषां नाधिकार इत्यत आह- देवाद्यधिकारे ऽपीति ॥26॥
एन्द् ब्स्र्प्_1,3.8.26
स्तर्त् ब्स्र्प्_1,3.8.27
विरोधः कर्मणीति चेन् नानेकप्रतिपत्तेर् दर्शनात्

1.3.28

ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति- विरोधःकर्मणीत्यादिना ।
वर्ण्येत, तर्हीति शेषः ।
स्वरूपं विग्रहः ।
अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्संप्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह- तदा चेति ।
विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न संभवतीत्याह -न चेति ।
तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।
परिहरति- नायमिति ।
एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्संभवति ।
अतो न कर्मणि विरोध इति व्याचष्टे- कस्मादित्यादिना ।
वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा ऽत्रयश्चऽइत्यादिरूपयोत्तरं ददौ ।
निविन्नाम शस्यमानदेवसंख्यावाचकः शब्दः ।
षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति संख्योक्तौ संख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतो ऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्ते ऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्ते ऽपि षट्सु देवेष्वन्तर्भवन्ति ।
षट् देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भे ऽन्तर्भवत इति दर्शितमित्यर्थः ।
त्रयस्त्रिंशतो ऽपि देवानामिति संबन्धः ।
दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे- तथा स्मृतिरिति ।
बलं योगसिद्धिम् ।
ऽअणिमा महिमा चैव लघिमा प्राप्तिरीशिता ।
प्राकाम्यं च वशित्वं च यत्रकामावसायिता ॥
ऽइत्यष्टैश्वर्याणि ।
क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी ।
अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः ।
ईशिता सृष्टिशक्तिः ।
प्राकाम्यं इच्छानाभिघातः ।
वशित्वं नियमनशक्तिः ।
संकल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः ।
अजानसिद्धानां जन्मना सिद्धानामित्यर्थः ।
फलितमाह- अनेकेति ।
अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः ।
तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह- क्वचिदेक इति ।
प्रकृतोपयुक्तमन्वयदृष्टान्तमाह- क्वचिच्चेति ॥27॥
एन्द् ब्स्र्प्_1,3.8.27
स्तर्त् ब्स्र्प्_1,3.8.28
शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्

1.3.29

कर्मण्यविरोधमङ्गीकृत्य शब्दप्रामाण्यविरोधमाशङ्क्य परिहरति ।
शब्द इति चेदिति ।
मा प्रसञ्जि प्रसक्तो मा भून्नामेत्यर्थः ।
औत्पत्तिकसूत्रे शब्दार्थयोरनाद्योः संबन्धस्यानादित्वाद्वेदस्य स्वार्थे मानान्तरानपेक्षत्वेन प्रामाण्यमुक्तम् ।
इदानीमनित्यविग्रहव्यक्त्यभ्युपगमे तत्संबन्धस्याप्यनित्यत्वान्मानान्तरेण व्यक्तिं ज्ञात्वा शब्दस्य संकेतः पुंसा कर्तव्य इति मानान्तरापेक्षत्वात्प्रामाण्यस्य विरोधः स्यादित्याह- कथमित्यादिना ।
किं शब्दानामनित्यतया संबन्धस्य कार्यत्वमापद्यते, उतार्थानामनित्यतया ।
नाद्य इत्याह- नायमपीति ।
कर्मण्यविरोधवदित्यपेरर्थः ।
देवादिव्यक्तिहेतुत्वेन प्रागेव शब्दानां सत्त्वान्नानित्यत्वमिति भावः ।
अत्र पूर्वापरविरोधं शङ्कते- नन्विति ।
शब्दस्य निमित्तत्वेन ब्रह्मसहकारित्वादविरोध इत्याशङ्क्य द्वितीयं कल्पमुत्थापयति- अपिचेति ।
अनित्यत्वं सादित्वम् ।
व्यक्तिरूपार्थानामनित्यतया शब्दानां संबन्धस्यानित्यत्वं दुर्वारं, तस्मात्पौरुषेयसंबन्धसापेक्षत्वात्प्रामाण्यविरोध इत्यर्थः ।
नच व्यक्तिनामनित्यत्वे ऽपि घटत्वादिजातिसमवायवच्छब्दसंबन्धो ऽपि नित्यः स्यादिति वाच्यं, उभयाश्रितसंबन्धस्यान्यतराभावे स्थित्ययोगेन दृष्टान्तासिद्वेरिति भावः ।
यथा गोत्वादयो गवादिशब्दवाच्यास्तथा वसुत्वाद्याकृतयो वस्वादिशब्दार्था न व्यक्त्य इति परिहरति- नेत्यादिना ।
शब्दानां तदर्थानां जातीनां च नित्यत्वात्तत्संबन्धो ऽपि नित्य इति प्रतिपादयति- नहीत्यादिना ।
व्यक्तिनामानन्त्यादिति ।
नच गोत्वावच्छेदेन व्यक्तिषु शक्तिः सुग्रहेति वाच्यं,
सामान्यस्याप्रत्यासत्तित्वेन सर्वव्यक्त्युपस्थित्यभावात्, गोत्वं शक्यतावच्छेदकमिति ग्रहापेक्षया गोत्वं शक्यमिति लाघवात्, निरूढाजहल्लक्षणया व्यक्तेर्लाभेनान्यलभ्यत्वाभावाच्चेति भावः ।
यद्वा केवल व्यक्तिषु शक्तिरत्र निरस्यते, अनुपपत्तिज्ञानं, विनैव व्यक्तेः शब्दशक्त्यायत्तजातिज्ञानविषयत्वेनोभयशक्तेरावश्यकत्वात् ।
तथाच नित्यजातितादात्म्येन व्यक्तेरनादित्वात्तत्संबन्धो ऽप्यनादिः, सत्कार्यवादात् ।
अत एव वाक्यवृत्तौ तत्त्वमस्यादिवाक्ये भागलक्षणोक्ता युज्यते, केवलसामान्यस्य वाच्यत्वे ऽखण्डार्थस्य वाच्यैकदेशत्वाभावात् ।
ऽअतःप्रभवात्ऽइति सूत्रस्वारस्याच्च केवलव्यक्तिशक्तिनिरास इति गम्यते ।
केवलव्यक्तिवचनाः खलु डित्थादिशब्दा अर्थानन्तरभाविनः सांकेतिकाः गवादिशब्दास्तु व्यक्तिप्रभवहेतुत्वेन प्रागेवसन्धीति न व्यक्तिमात्रवचनाः सांकेतिकाः किन्तु स्थूलसूक्ष्मभावेनानुस्यूतव्यक्त्यविनाभूतसामान्यवचना इति मन्तव्यम् ।
न चेन्द्रादिव्यक्तेरेकत्वेन जात्यभावादाकाशशब्दवदिन्द्रचन्द्रादिशब्दः केवलव्यक्तिवचना इति सांप्रतम् ।
अतीतानागतव्यक्तिभेदेन जात्युपपत्तेरित्यलं प्रपञ्चेन ।
दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमाह- व्यक्तिष्वित्यादिना आकृतिर्जातिः ।
ननु का सा व्यक्तिः, यदनुगतेन्द्रत्वादिजातिः शब्दार्थः स्यादित्यत आह- आकृतिविशेषस्त्विति ।
ऽवज्रहस्तःपुरन्दरःऽइत्यादिभ्य इत्यर्थः ।
इन्द्रादिशब्दानां जातिरिन्द्रादिषु प्रवृत्तिनिमित्तमित्युक्त्वा उपाधिनिमित्तमाह- स्थानेति ।
व्यक्तिप्रलये ऽपि स्थानस्य स्थायित्वाच्छब्दार्थसंबन्धनित्यतेत्यत आह- ततश्चेति ।
उक्तं पूर्वापरविरोधं परिहरति- नचेति ।
शब्दो निमित्तमित्यविरोधं मत्वा सूत्रशेषमवतारयति- कथं पुनरिति ।
स्मृत्या स्वप्रामाण्यार्थं मूलश्रुतिरनुमीयत इत्यनुमानं स्मृतिः ।
ऽएते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
विश्वान्यस्याभिसौभगा ।
ऽइत्येतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत् ।
तत्रैत इति पदं सर्वनामत्वाद्देवानां स्मारकम् ।
असृग्रुधिरं तत्प्रधाने देहे रमन्त इति असृग्रा मनुष्याः ।
चन्द्रस्थानां पितृणां इन्दुशब्दः स्मारकः ।
पवित्रं सोमं स्वान्तस्तिरस्कुर्वतां ग्रहाणां तिरः पवित्रशब्दः ।
ऋचो ऽश्रुवतां स्तोत्राणां गीतिरूपाणामाशुशब्दः ।
ऽऋच्यध्यूढं सामऽइति श्रुतेः ।
स्तोत्रानन्तरं प्रयोगं विशतां शास्त्राणां विश्वशब्दः ।
सर्वत्र सौभाग्ययुक्तानामभिसौभगशब्दःस्मारक इति छन्दोगब्राह्मणवाक्यार्थः ।
स प्रजापतिर्मनसा वाचं त्रयीं मिथुनं समभवत् मनोवाग्रूपं मिथुनं संभावितवान् ।
मनसा त्रयीप्रकाशितां सृष्टिमालोचितवानित्यर्थः ।
ऽरश्मिरित्येवादित्यमसृजतऽइत्यादिश्रुतिरादिशब्दार्थः ।
संप्रदायो गुरुशिष्यपरम्पराध्ययनम् ।
संस्था अवस्थाः ।
या प्रजापतिसृष्टिः सा शब्दपूर्विका, सृष्टित्वात्, प्रत्यक्षघटादिवदिति प्रत्यक्षानुमानाभ्यामित्यस्यार्तान्तरमाह- अपिचेति ।
अतः प्रभवत्वप्रसङ्गाच्छब्दस्वरूपं वक्तुमुक्तमाक्षिपति- किमात्मकमिति ।
वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः ।
तत्र वर्णानामनित्यत्वात्स्फोटस्य चासत्त्वान्न जगद्धेतुत्वमित्याक्षेपे द्वितीयपक्षं वैयाकरणो गृह्णाति- स्फोटमिति ।
स्फुट्यते वर्णैर्व्यज्यत इति स्फोटोवर्णाभिव्यङ्ग्योर्ऽथस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः ।
स एवाद्यपक्षं दूषयति- वर्णेति ।
सो ऽयं गकार इति प्रत्यभिज्ञया वर्णनित्यत्वसिद्धेर्नानुपपत्तिरित्यत आह- उत्पन्नेति ।
तारत्वमन्द्रत्वादिविरुद्धधर्मवत्त्वेन तारो गकारो मन्द्रो गकार इति प्रतीयमानगकारस्य भेदानुमानात्प्रत्यभिज्ञागत्वजातिविषयेत्यर्थः ।
ननु विरुद्धधर्मज्ञानं ध्वन्युपाधिकं भ्रम इत्यत आह- नचेति ।
तथाच वर्णानामनित्यत्वान्न जगद्धेतुत्वमिति भावः किञ्च तेषामर्थबोधकत्वायोगात्स्फोटो ऽङ्गीकार्य इत्याह- नच वर्णेभ्य इत्यादिना ।
व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात्, वर्णान्तरवैयर्थ्यप्रसङ्गाच्चेत्यर्थः ।
तर्हि वर्णानां समुदायो बोधक इत्याशङ्क्य क्षणिकानां स नास्तीत्याह- नचेति ।
वर्णानां स्वतः साहित्याभावे ऽपि संस्कारलक्षणापूर्वद्वारा साहित्यमाग्नेयादियागानामिवेति शङ्कते- पूर्वेति ।
किमयं संस्कारो वर्णैर्जनितो ऽपूर्वाख्यः कश्चित्, उत वर्णानुभवजनितो भावनाख्यः ।
नाद्यः, मानाभावात् ।
किञ्चायमज्ञातो ज्ञातो वार्थधीहेतुः ।
नाद्य इत्याह- तन्नेति ।
संस्कारसहितः शब्दो ज्ञात एवार्थधीहेतुः, संबन्धग्रहणमपेक्ष्य बोधकत्वात्, धूमादिवदित्यर्थः ।
द्वितीये किं प्रत्यक्षेण ज्ञात उत कार्यलिङ्गेन ।
नाद्य इत्याह- नचेति ।
द्वितीयं शङ्कते- कार्येति ।
कार्यमर्थधीस्तस्यां जातायां संस्कारप्रत्ययः तस्मिञ्जाते सेति परस्पराश्रयेण दूषयति- नेति ।
पदार्थस्मरणस्यापि पदज्ञानान्तरभावित्वात्तेन संस्कारसहितान्त्यवर्णात्मकपदस्य ज्ञानं न युक्तमित्यक्षरार्थः ।
अपिशब्दः परस्पराश्रयद्योतनार्थः ।
एतेन भावानासंस्कारपक्षो ऽपि निरस्तः ।
तस्य वर्णस्मृतिमात्रहेतुत्वेनार्थधीहेतुत्वायोगात् ।
न चान्त्यवर्णसाहित्यादर्थधीहेतुत्वं, केवलसंस्कारस्य तु वर्णस्मृतिहेतुत्वमिति वाच्यं, अर्थधीपूर्वकाले भावनाया ज्ञानाभावेनार्थधीहेतुत्वायोगात् ।

नच वर्णस्मरणेनानुमिता सा अन्त्यवर्णसहितार्थधीहेतुरिति वाच्यं, तत्कार्यस्य क्रमिकस्य वर्णस्मरणस्याप्यन्त्यवर्णानुभवानन्तरभावित्वेन तेनानुमितभावनानामन्त्यवर्णसाहित्याभावादिति भावः ।
वर्णानामर्थबोधकत्वसंभवे फलमाह- तस्मादिति ।
स्फोटे ऽपि किं मानमित्याशङ्क्यैकं पदमिति प्रत्यक्षप्रमाणमित्याह- स चेति ।
यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकारद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाको ऽन्त्यः संस्कारोयस्मिंस्तस्मिन्प्रत्ययिनि चित्ते एकं गौरितिपदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः ।
अनेन वर्णान्वयव्यतिरेकयोः स्फोटज्ञाने ऽन्यथासिद्धिः ।
नचैकस्माद्वर्णात्सम्यक् स्फोटाभिव्यक्तिः, येन वर्णान्तरवैयर्थ्यं किन्तु रत्नवद्बहुप्रत्ययसंस्कृते चित्ते सम्यक्स्फोटाभिव्यक्तिरित्युक्तं भवति ।
नन्वेकपदमेकं वाक्यमिति प्रत्ययः पदवाक्यस्फोटयोर्न प्रमाणं, तस्य वर्णसमूहालम्बनस्मृतित्वादित्याशङ्क्य निषेधति- न चेति ।
स्फोटस्य जगद्धेतुत्वार्थं नित्यत्वमाह- तस्य चेति ।
ननु तदेवेदं पदमिति प्रत्यभिज्ञा भ्रमः, उदात्तादिभेदप्रत्ययादित्यत आह- भेदेति ।
आचार्यसंप्रदायोक्तिपूर्वकं सिद्धान्तयति- वर्णा एवेति ।
वर्णातिरिक्तस्फोटात्मकशब्दस्यानुभवानारोहादित्यर्थः ।
सादृश्यदोषादियं भ्रान्तिरिति शङ्कते- सादृश्यादिति ।
वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तं, भेदधीविरोधात् ।
स एवायं वर्ण इति धीस्तु प्रमैव, बाधकाभावादित्याह- नेति ।
गोत्वादिप्रत्यभिज्ञावद्वर्णेषु प्रत्यभिज्ञा गवादिविषयेति शङ्कते- प्रत्यभिज्ञानमिति ।
व्यक्तिभेदे सिद्धे प्रत्यभिज्ञाया जातिविषयत्वं स्यात्,
यत्त्वया पीतं जलं तदेव मया पीतमित्यादौ ।
न तथेह व्यक्तिभेदः सिद्ध इति परिहरति- न ।
व्यक्तीति ।
न त्वेतदिति ।
व्यक्त्यन्यत्वज्ञानमित्यर्थः ।
उदात्तत्वादिविरुद्धधर्मत्वाद्व्यक्तिभेदो ऽनुमानसिद्ध इत्यनुवदति- नन्विति ।
भेदप्रत्ययस्य कुम्भकूपाकाशभेदप्रत्ययवदौपाधिकभेदविषयत्वादन्यथासिद्धेरनन्यथासिद्धव्यक्त्यैक्यप्रत्यभिज्ञया निरपेक्षस्वरूपालम्बनया बाध इत्युत्तरमाह- अत्रेति ।
ताल्वादिदेशैः कोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः ।
कल्पनागौरवाच्च वर्णेषु स्वतो भेदो नास्तीत्याह- अपिचेति ।
अनन्ता गकारादिव्यक्तयस्तासु प्रत्यभिज्ञानार्थं गत्वादिजातयस्तासु चोदात्तत्वादिभेदस्यौपाधिकत्वमिति कल्पनाद्वरं वर्णव्यक्तिभेदमात्रस्यौपाधिकत्वकल्पनमिति व्यक्त्यानन्त्यस्य जातीनां च कल्पनमयुक्तमित्यर्थः ।
ननु भेदस्य बाधकाभावान्नौपाधिकत्वमित्यत आह- एष इति ।
अस्तु तर्हि प्रत्ययद्वयप्रामाण्याय भेदाभेदयोः सत्यत्वं, तत्राह- कथं हीति ।
उभयोरेकत्वविरोधाद्भेद औपाधिक एवेत्यर्थः ।
ननु वायुसंयोगादेरतीन्द्रियत्वान्न तद्गतवैचित्र्यस्योदात्तत्वादेर्वर्णेषु प्रत्यक्षारोपः संभवतीत्यरुचिं वदिष्यन्स्वमतमाह- अथवेति ।
ध्वनिधर्मा उदात्तत्वादयो ध्वन्यभेदाध्यासाद्वर्णेषु भान्तीत्यर्थः ।
प्रश्नपूर्वकं ध्वनिस्वरूपमाह- क इति ।
अवतरति स ध्वनिरिति शेषः ।
वर्णातिरिक्तः शब्दो ध्वनिरित्यर्थः ।
समीपं गतस्य पुंसस्तारत्वमन्दत्वादिधर्मान्स्वगतान्वर्णेषु स एवारोपयतीत्याह- प्रत्यासीदतश्चेति ।
आदिपदं विवृणोति- तदिति ।
नन्वव्यक्तवर्ण एव ध्वनिर्नातिरिक्त इत्यत आह- वर्णानामिति ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेद इत्यर्थः ।
अन्यथा वाचिके जपे वर्णेष्वव्यक्तेषु ध्वनिबुद्धिः स्यात्,
दुन्दुभ्यादिध्वनौ शब्दत्वमात्रेण गृह्यमाणे अयमव्यक्तो वर्ण इति धीः स्यादिति मन्तव्यम् ।
एवं ध्वन्युपाधिकत्वे स्वमते गुणं वदन्वायूपाधिकत्वे पूर्वोक्तामरुचिं दर्शयति-एवञ् चेत्यादिना ।
अस्तु को दोषः, तत्राह- संयोगेति ।
वायुसंयोगादेरश्रावणत्वादित्यर्थः ।
तस्मात् श्रावणध्वनिरेवोदात्तत्वाद्यारोपोपाधिरिति भावः ।
एवं विरुद्धधर्मकध्वनीनां भेदे ऽपि न तेष्वनुगता वर्णा भिद्यन्त इत्युक्तम् ।
तदेव दृष्टान्तेन द्रढयति- अपिचेति ।
यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः ।
उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना ।
प्रत्यभिज्ञाविरोधादित्यक्षरार्थः ।
यद्वा उदात्तत्वादिभेदविशिष्टतया प्रत्यभिज्ञायमानत्वाद्वर्णानां भेद इत्याशङ्कां दृष्टान्तेन निरस्यति- अपिचेति ।
वर्णानां स्थायित्वं प्रसाध्य तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति- वर्णेभ्यश्चेति ।
कल्पनामसहमान आशङ्कते- नेति ।
चक्षुषा दर्पणयुक्तायां बुद्धौ मुखवच्छ्रोत्रेण वर्णयुक्तायां बुद्धौ विनैव हेत्वन्तरं स्फोटः प्रत्यक्ष इत्याह- झटितीति ।
यस्यां संविदि योर्ऽथो भासते सा तत्र प्रमाणम् ।
एकपदमिति बुद्धौ वर्णा एव स्फुरन्ति नातिरिक्तस्फोट इति न सा स्फोटे प्रमाणमित्याह-- न ।
अस्या अपीत्यादिना ।
ननु गोपदबुद्धेः स्फोटो विषयो गकारादीनां तु व्यञ्जकत्वादनुवृत्तिरित्यत आह-- यदि हीति ।
व्यङ्ग्यवह्निबुद्धौ व्यञ्जकधूमानुवृत्तेरदर्शनादित्यर्थः ।
वर्णसमूहालम्बनत्वोपपत्तैर्न स्फोटः कल्पनीयः, पदार्थान्तरकल्पनागौरवादित्याह- तस्मादिति ।
अनेकस्याप्यौपाधिकमेकत्वं युक्तमित्याह- संभवतीति ।
ननु तत्रैकदेशादिरूपाधिरस्ति, प्रकृते क उपाधिरित्यत आह-- या त्विति ।
एकार्थे शक्तमेकं पदं, प्रधानार्थ एकस्मिन् तात्पर्यवदेकं वाक्यमित्येकार्थसंबन्धादेकत्वोपचार इत्यर्थः ।
न चैकपदत्वे ज्ञाते एकार्थज्ञानं, अस्मिञ्ज्ञाते तदित्यन्योन्याश्रय इति वाच्यम्, उत्तमवृद्धोक्तानाम् वर्णानां क्रमेणान्त्यवर्णश्रवणानन्तरं बालस्यैकस्मृत्यारूढानां मध्यमवृद्धस्य प्रवृत्त्यादिलिङ्गानुमितैकार्थधीहेतुत्वनिश्चये सत्येकपदवाक्यत्वनिश्चयात् ।
वर्णसाम्ये ऽपि पदभेददृष्टेर्वर्णातिरिक्तं पदं स्फोटाख्यमङ्गीकार्यमिति शङ्कते- अत्राहेति ।
कर्मभेदाद्वर्णेष्वेव पदभेददृष्टिरिति परिहरति- अत्रेति ।
ननु नित्यविभूनां वर्णानां कथं क्रमः कथं वा पदत्वज्ञानेनार्थधीहेतुत्वं, तत्राह- वृद्धेति ।
व्युत्पत्तिदशायामुच्चारणक्रमेणोपलब्धिक्रममुपलभ्यमानवर्णेष्वारोप्यैते वर्णा एतत्क्रमैतत्संख्यावन्त एतदर्थशक्ता इति गृहीताः सन्तः श्रोतुः प्रवृत्तिकाले तथैव स्मृत्यारूढाः स्वस्वार्थं बोधयन्तीत्यर्थः ।
स्थायिवर्णवादमुपसंहरति- वर्णेति ।
दृष्टं वर्णानामर्थबोधकत्वम्, अदृष्टः स्फोटः ।
संप्रति वर्णानामस्थिरत्वमङ्गीकृत्य प्रौढिवादेन स्फोटं विघटयति- अथापीति ।

स्थिराणि गत्यादिसामान्यानि क्रमविशेषवन्ति गृहीतसंगतिकान्यर्थबोधकानीति कॢप्तेषु सामान्येषु प्रक्रिया संचारयितव्या न त्वकॢप्तः स्फोटः कल्पनीय इत्यर्थः ।
वर्णानां स्थायित्ववाचकत्वयोः सिद्धौ फलितमाह- ततश्चेति ॥28॥
एन्द् ब्स्र्प्_1,3.8.28
स्तर्त् ब्स्र्प्_1,3.8.29
अत एव च नित्यत्वम्

1.3.30

पूर्वतन्त्रवृत्तानुवादपूर्वकं सूत्रं व्याचष्टे- कर्तुरित्यादिना ।
पूर्वतन्त्रसिद्धमेव वेदस्य नित्यत्वं देवादिव्यक्तिसृष्टौ तद्वाचकशब्दस्यापि सृष्टेरसिद्धमित्याशङ्क्य नित्याकृतिवाचकाच्छब्दाद्व्यक्तिजन्मोक्त्या सांकेतिकत्वं निरस्य वेदो ऽवान्तरप्रलयावस्थायी जागद्धेतुत्वादीश्वरवादित्यनुमानेन द्रढयतीत्यर्थः ।
यज्ञेन पूर्वसुकृतेन वाचो वेदस्य लाभयोग्यतां प्राप्ताः सन्तो याज्ञिकास्तामृषिषु स्थितां लब्धवन्त इति मन्त्रार्थः ।
अनुविन्नामुपलब्धाम् ।
पूर्वमवान्तरकल्पादौ ॥29॥
एन्द् ब्स्र्प्_1,3.8.29
स्तर्त् ब्स्र्प्_1,3.8.30
समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश् च

1.3.31

ननु महाप्रलये जातेरप्यसत्त्वाच्छब्दार्थसंबन्धानित्यत्वमित्याशङ्क्याह- समानेति ।
सूत्रनिरस्यां शङ्कामाह- अथापीति ।
व्यक्तिसंतत्या जातीनामवान्तरप्रलये सत्त्वात्संबन्धस्तिष्ठति, व्यवहाराविच्छेदाज्ज्ञायते चेति वेदस्यानपेक्षत्वेन प्रामाण्ये न कश्चिद्विरोधः स्यात् ।
निर्लेपलये तु संबन्धनाशात् पुनः सृष्टौ केनचित्पुंसा संकेतः कर्तव्य इति पुरुषबुद्धिसापेक्षत्वेन वेदस्याप्रामाण्यं, अध्यापकस्याश्रयस्य नाशादाश्रितस्य तस्यानित्यत्वं च प्राप्तमित्यर्थः ।
महाप्रलये ऽपि निर्लेपलयो ऽसिद्धः, सत्कार्यवादात् ।
तथाच संस्कारात्मना शब्दार्थतत्संबन्धानां सतामेव पुनः सृष्टावभिव्यक्तेर्नानित्यत्वम् ।
अभिव्यक्तानां पूर्वकल्पीयनामरूपसमानत्वान्न संकेतः केनचित्कार्यः ।
विषमसृष्टौ हि संकेतापेक्षा न तुल्यसृष्टाविति परिहरति- तत्रेदमित्यादिना ।
नन्वाद्यसृष्टौ संकेतः केनचित्कार्य इत्यत आह- तदापीति ।
महासर्गप्रलयप्रवृत्तावपीत्यर्थः ।
नन्वस्त्वनादिसंसारे संबन्धस्यानादित्वं तथापि महाप्रलयव्यवधानादस्मरणे कथं वेदार्थव्यवहारः, तत्राह- अनादौ चेति ।
न कश्चिद्विरोधः, शब्दार्थसंबन्धस्मरणादेरिति शेषः ।
स्वापप्रबोधयोर्लयसर्गासिद्धिमाशङ्क्य श्रुतिमाह- स्वापेति ।
अथ तदा सुषुप्तौ प्राणे परमात्मनि जीव एकीभवति एनं प्राणं स जीवः तदैतीति शेषः ।
एतस्मात्प्रात्मनः ।
आयतनं गोलकम् ।
आनन्तर्ये पञ्चमी इत्याद्या द्रष्टव्या ।
स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं सृष्टिः अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भावः ।
दृष्टान्तवैषम्यमाशङ्क्य परिहरति- स्यादित्यादिना ।
अविरुद्धमनुसन्धानादिकमिति शेषः ।
हिरण्यगर्भादयः पूर्वकल्पानुसंधानशून्यः ।
संसारित्वात्, अस्मादादिवादित्याशङ्क्याह- यद्यपीति ।
इति यद्यपि तथापि न प्राकृतवदिति योजना ।
ज्ञानादेर्निकर्षवदुत्कर्षो ऽप्यङ्गीकार्यः, बाधाभावादिति न्यायानुगृहीतश्रुत्यादिभिः सामान्यतो दृष्टानुमानं बाध्यमित्याह- यथा हीत्यादिना ।
ननु तथापि पूर्वकल्पेश्वराणां मुक्तत्वादस्मिन्कल्पे को ऽनुसंधातेत्यत आह- ततश्चेति ।
ज्ञानाद्युत्कर्षादित्यर्थः ।
मुक्तेभ्यो ऽन्ये ऽनुसंधातार इति भावः ।
परमेश्वरानुगृहीतानां ज्ञानातिशये पूर्वोक्तश्रुतिस्मृतिवादानाह- तथा चेति ।
पूर्वं कल्पादौ सृजति तस्मै ब्रह्मणे प्रहिणोति गमयति तस्य बुद्धौ वेदानाविर्भावयति यस्तं देवं स्वात्माकारं महावाक्योत्थबुद्धौ प्रकाशमानं शरणं परममभयस्थानं निःश्रेयसरूपमहं प्रपद्य इत्यर्थः ।
न केवलमेकस्यैव ज्ञानातिशयः किन्तु बहूनां शाखाद्रष्टृणामिति विश्वासार्थमाह- स्मरन्तीति ।
ऋग्वेदो दशमण्डलावयवास्तत्र भवा ऋचो दाशतम्यः ।
वेदान्तरे ऽपि काण्डसूक्तमन्त्राणां द्रष्टारो बौधायनादिभिः स्मृता इत्याह- प्रतीति ।
किञ्च मन्त्राणामृष्यादिज्ञानावश्यकत्वज्ञापिका श्रुतिर्मन्त्रदृगृषीणां ज्ञानातिशयं दर्शयतीत्याह- श्रुतिरपीति ।
आर्षेय ऋषियोगः, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगः, एतान्यविदितानि यस्मिन्मन्त्रे तेनेत्यर्थः ।
स्थाणुं स्थावरं, गर्तं नरकम् ।
तथाच ज्ञानाधिकैः कल्पान्तरितं वेदं स्मृत्वा व्यवहारस्य प्रवर्तितत्वाद्वेदस्यानादित्वमनपेक्षत्वं चाविरूद्धमिति भावः ।
अधुना समाननामरूपत्वं प्रपञ्चयति- प्राणिनां चेति ।
ततः किं, तत्राह-दृष्टेति ।
ऐहिकामुष्मिकविषयसुखरागकृतर्मस्य फलं पश्वादिकं दृष्टपश्वादिसदृश्यमिति युक्तं, विसदृशे कामाभावेन हेत्वभावात् ।
तथा दृष्टदुःखद्वेषकृताधर्मफलं दृष्टसदृशदुःखमेव न सुखं, कृतहान्यादिदोषापत्तेरित्यर्थः ।
तर्कितेर्ऽथे मानमाह- स्मृतिश्चेति ।
उत्तरसृष्टिः पूर्वसृष्टिसजातीया, कर्मफलत्वात्, पूर्वसृष्टिवदित्यनुमानं चशब्दार्थः ।
तेषां प्राणिनां मध्ये तान्येव तज्जातीयान्येव ।
तानि दर्शयन् तत्प्राप्तौ हेतुमाह- हिंस्रेति ।
कर्मणि विहितनिषिद्धत्वाकारेणापूर्वं, क्रियात्वेन संस्कारं च जनयन्ति ।
तत्रापूर्वात्फलं भुङ्क्ते, संस्कारभावितत्वात्पुनस्तज्जातीयानि करोतीत्यर्थः ।
संस्कारे लिङ्गमाह- तस्मादिति ।
संस्कारवशादेव पुण्यं पापं वा रोचते ।
अतो ऽभिरुचिलिङ्गात्पुण्यापुण्यसंस्कारो ऽनुमेयः ।
स एव स्वभावः प्रकृतिर्वासनेति च गीयते ।
एवं कर्मणां सृष्टिसादृश्यमुक्त्वा स्वोपादाने लीनकार्यसंस्काररूपशक्तिबलादपि सादृश्यमाह- प्रलीयमानमिति ।
इतरथा निःसंस्कारप्रलये जगद्वैचित्र्यस्याकस्मिकत्वं स्यादित्यर्थः ।
ननु जगद्वैचित्र्यकारिण्यो ऽन्याः शक्तयः कल्प्यन्तां, तत्राह- नचेति ।
अविद्यायां लीनकार्यात्मकसंस्कारादन्याः शक्तयो न कल्प्याः मनाभावाद्रौरवाच्च ।
स्वोपादाने लीनकार्यरूपा शक्तिस्तु ऽमहान् न्यग्रोधस्तिष्ठतिऽ ऽश्रद्धत्स्व सोम्यऽइतिश्रुतिसिद्धा, अतो ऽविद्यातत्कार्यादन्याः शक्तयो न सन्ति आत्माविद्यैव तच्छक्तिरिति सिद्धान्त इत्यर्थः ।
निमित्तेष्वप्युपादनस्थं कार्यमेवाविद्याघटनया शक्तिरन्या वेत्यनाग्रहः ।
उपादाने कार्यसंस्कारसिद्धेः फलमाह ततश्चेति ।
यथा सुप्तोत्थितस्य पूर्वचक्षुर्जातीयमेव चक्षुर्जायते तच्च पूर्वरूपजातीयमेव रूपं गृह्णाति न रसादिकं, एवं भोग्य लोका भोगाश्रयाः प्राणिनिकाया भोगहेतुकर्माणि संस्कारबलात्पूर्वलोकादितुल्यान्येवेति नियम इत्यर्थः ।
निकायाः समूहाः ।
दृष्टान्तासिद्धिमाशङ्क्यमाह- न हीति ।
यथा षष्ठेन्द्रियस्य मनसो ऽसाधारणविषयो नास्ति, सुकादेः साक्षिवेद्यत्वात्, तथा व्यवहारान्यथात्वमसदित्यर्थः ।
षष्ठमिन्द्रियं तद्विषयश्चासन्निति वार्थः ।
उक्तार्थं संक्षिपति- अतश्चेति ।
व्यवहारसाम्यात्संभवाच्च व्यवह्रियमाणा व्यक्तयः समाना एवेत्यर्थः ।
सूत्रे योजयति- समानेत्यादिना ।
भाविदृष्ट्या यजमानो ऽग्निः अन्नादो ऽरग्निरहं स्यामिति कामयित्वा कृत्तिकानक्षत्राभिमानिदेवायाग्नये अष्टसु कपालेषु पचनीयं हविर्निरुप्तवानित्यर्थः ।
नक्षत्रव्यक्तिवहुत्वाद्बहुवचनम् ।
झ्र्ननु यजमानो ऽग्निर्भावी उद्देश्याग्निना समाननामरूपः कल्पान्तरे भवति ।
एवं ऽरुद्रो वा अकामयतऽऽविष्णुर्वा अकामयतऽइत्यत्रापि तथा वक्तव्यं, तदयुक्तम् ।
न ह्यग्नेरिव विष्णुरुद्रयोरधिकारिपुरुषत्वं, तयोर्जगत्कारणत्वश्रवणात् ।
ऽएक एव रुद्रो नऽइति ।
ऽएको विष्णुःऽइत्यादि श्रुतिस्मृतिविरोधादितिटस्मृतौ वेदेष्विति विषयसप्तमी ।
शर्वर्यन्ते प्रलयान्ते ।
ऋतूनां वसन्तादीनां लिङ्गानि नवपल्लवादिनि ।
पर्यये घटीयन्त्रवदावृत्तौ ।
भावाः पदार्थाः तुल्या इति शेषः ।
तस्माज्जन्मनाशवद्विग्रहाङ्गीकारे ऽपि कर्मणि शब्दे च विरोधाभावाद्देवानामस्ति विद्याधिकार इति स्थितम् ॥30॥
एन्द् ब्स्र्प्_1,3.8.30
स्तर्त् ब्स्र्प्_1,3.8.31
मध्वादिष्व् असंभवाद् अनधिकारं जैमिनिः

1.3.32

आक्षिपति- मध्वादिष्विति ।
ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात्, मध्वादिविद्यावदित्यर्थः ॥
दृष्टान्तं विवृणोति- कथमित्यादिना ।
द्युलोकाख्यवंशदण्डे अन्तरिक्षरूपे मध्वपूपे स्थित आदित्यो देवानां मोदनान्मध्विव मध्वित्यारोप्य ध्यानं कार्यम् ।
तत्रादित्यस्याधिकारो न युक्तः, ध्यातृध्येयभेदाभावादित्याह- देवादिष्विति ।
अस्तु वस्वादीनां तत्राधिकार इत्याशङ्क्य तेषामपि तत्र ध्येयत्वात्प्राप्यत्वाच्च न ध्यातृत्वमित्याह- पुनश्चेति ।
चतुर्वेदोक्तकर्माणि प्रणवश्चेति पञ्च कुसुमानि, तेभ्यः सोमाज्यादिद्रव्याणि हुतानि लोहितशुक्लकृष्णपरः कृष्णगोप्याख्यानि पञ्चामृतानि तत्तन्मन्त्रभागैः प्रागाद्यूर्ध्वान्तरपञ्चादिगवस्थिताभिरादित्यरश्मिनाडीभिर्मध्वपूपस्थितच्छिद्ररूपाभिरादित्यमण्डलमानीतानि यशस्तेजैन्द्रियवीर्यान्नात्मना परिणतानि पञ्चदिक्षु स्थितैर्वस्वादिभिरूपजीव्यानीति ध्यायतो वस्वादिप्राप्तिरुक्तेत्यर्थः ।
सूत्रस्थादिपदार्थमाह- तथाग्निरिति ।
आकाशब्रह्मणश्चत्वारः पादाः, द्वौ कर्णौ, द्वे नेत्रे, द्वे नासिके, एका वागिति सप्तस्विन्द्रियेषु शिरश्चमसतीरस्थेषु सप्तर्षिध्यानं कार्यमित्याह- तथेमावेवेति ।
अथ दक्षिणः कर्णः गौतमः, वामो भारद्वाजः, एवं दक्षिणनेत्रनासिके विश्वामित्रवसिष्ठौ, वामे जमदग्निकश्यपौ, वागत्रिरित्यर्थः ।
अत्र ऋषीणां ध्येयत्वान्नाधिकारः ॥31॥
एन्द् ब्स्र्प्_1,3.8.31
स्तर्त् ब्स्र्प्_1,3.8.32
ज्योतिषि भावाच् च

1.3.33

किञ्च विग्रहाभावाद्देवादीनां न क्वाप्यधिकार इत्याह- ज्योतिषि भावाच्चेति ।
आदित्यः सूर्यश्चन्द्रः शुक्रो ऽङ्गारक इत्यादिशब्दानां ज्योतिःपिण्डेषु प्रयोगस्य भावात्सत्त्वान्न विग्रहवान्देवः कश्चिदस्तीत्यर्थः ।
ऽआदित्यः पुरस्तादुदेता पश्चादस्तमेताऽइति मधुविद्यावाक्यशेषे ज्योतिष्येवादित्यशब्दः प्रसिद्धः ।
तर्हि ज्योतिःपिण्डानामेवाधिकारो ऽस्तु, तत्राह- न चेति ।
अग्न्यादीनामधिकारमाशङ्क्याह- एतेनेति ।
अग्निर्वायुर्भूमिरित्यादिशब्दानामचेतनवाचित्वेनेत्यर्थः ।
सिद्धान्ती शङ्कते- स्यादेतदित्यादिना ।
ऽवज्रहस्तः पुरन्दरःऽइत्यादयो मन्त्राः ।
ऽसो ऽरोदीत्ऽइत्यादयोर्ऽथवादाः ।
ऽइष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः ।
ऽ ऽते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
ऽइत्यादीतिहासपुराणानि ।
लोके ऽपि यमं दण्डहस्तं लिखन्ति, इन्द्रं वज्रहस्तमिति विग्रहादिपञ्चकसद्भावाधनधिकारदोषो नास्तीत्यर्थः ।
विग्रहो हविषां भोग ऐश्वर्यं च प्रसन्नता ।
फलप्रदानमित्येतत्पञ्चकं विग्रहादिकम् ॥
ऽमानाभावादेतन्नास्तीति दूषयति- नेत्यादिना ।
न चात्रेति ।
विग्रहादावित्यर्थः ।
आर्थवादा मन्त्रा वा मूलमित्याशङ्क्याह- अर्थवादा इत्यादिना ।
व्रीह्यादिवद्प्रयोगविधिगृहीता मन्त्राः प्रयोगसंबन्द्धाभिधानार्था नाज्ञातविग्रहादिपरा इति मीमांसका आचक्षत इत्यर्थः ।
तस्मात् विग्रहाभावादित्यर्थः ॥32॥
एन्द् ब्स्र्प्_1,3.8.32
स्तर्त् ब्स्र्प्_1,3.8.33
भावं तु बादरायणो ऽस्ति हि

1.3.34

सूत्राभ्यां प्राप्तं पूर्वपक्षं निरस्यति- तुशब्द इत्यादिना ।
ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात्, मध्वादिविद्यावदिति उक्तहेतुरप्रयोजक इत्याह- यद्यपीति ।
दर्शादिकं, न ब्राह्मणमधिकरोति, कर्मत्वात्, राजसूयादिवदिति आभाससाम्यं विद्यात्वहेतोराह- नचेति ।
यत्र यस्याधिकारः संभवति स तत्राधिकारीति न्यायस्तुल्य इत्यर्थः ।
यतः सर्वेषां सर्वत्राधिकारो न संभवति ततो न चापोद्येतत्यन्वयः ।
तद्ब्रह्म यो यो देवादीनां मध्ये प्रत्यक्त्वेनाबुध्यत स तद्ब्रह्माभवदित्यर्थः ।
ते ह देवा ऊचुरन्योन्यं, तत इन्द्रविरोचनौ सुरासुरराजौ प्रजापतिं ब्रह्मविद्याप्रदं जग्मतुरिति च लिङ्गमस्तीत्यर्थः ।
किमत्र ब्रह्मामृतमिति गन्धर्वप्रश्ने याज्ञवल्क्य उवाच तमिति मोक्षधर्मेषु श्रुतं देवादीनामधिकारलिङ्गमित्याह- स्मार्तमिति ।
यथा बालानां गोलकेषु चक्षुरादिपदप्रयोगे ऽपि शास्त्रज्ञैर्गोलकातिरिक्तेन्द्रियाणि स्वीक्रियन्ते, यथा ज्योतिरादौ सूर्यादिशब्दप्रयोगे ऽपि विग्रहवद्देवता स्वीकार्या इत्याह- ज्योतिरादीति ।
तथा चेतनत्वेन व्यवहारादित्यर्थः ।
एकस्य जडचेतनोभयरूपत्वं कथं, तत्राह- अस्तिहीति ।
तथाहि विग्रहवत्तया देवव्यवहारःश्रूयते ।
सुब्रह्मण्य उद्गातृगणस्थ ऋत्विक् तत्संबन्धी योर्ऽथवादः ऽइन्द्र, अगच्छऽइत्यादिः ।
तत्र मेधातिथेर्मेष, इतीन्द्रसंबोधनं श्रुतं, तद्व्याचष्टे- मेवेति ।
मुनिं मेषो भूत्वा जहारेति ज्ञापनार्थं मेष, इतीन्द्रसंबोधनमित्यर्थः ।
यदुक्तमादित्यादयो मृदादिवदचेतना एवेति, तन्न, सर्वत्र जडजडांशद्वयसत्त्वादित्याह- मृदिति ।
आदित्यादौ को जडभागः कश्चेतनांश इति, तत्राह- ज्योतिरादेस्त्विति ।
मन्त्रादिकं पदशक्त्या भासमानविग्रहादौ स्वार्थे न प्रमाणं, अन्यपरत्वात्, विषं भुङ्क्ष्वेति वाक्यवदित्याह- यदपीति ।
अन्यपरादपि वाक्याद्बाधाभावे स्वार्थो ग्राह्य इत्याह- अत्र ब्रूम इति ।
तात्पर्यशून्ये ऽप्यर्थे प्रत्ययमात्रेणास्तित्वमुदाहरति- तथाहीति ।
तृणादौ प्रत्ययो ऽस्ति विग्रहादौ स नास्तीति वैषम्यं शङ्कते- अत्राहेति ।
विध्युद्देशो विधिवाक्यं, तदेकवाक्यतया प्रशस्तो विधिरित्येवार्थवादेषु प्रत्ययः ।
वृत्तान्तो भूतार्थः ।
विग्रहादिः तद्विषयः प्रत्ययो नास्तीत्यर्थः ।
नन्ववान्तरवाक्येन विग्रहादिप्रत्ययो ऽस्त्वित्यत आह- नहीति ।
सुरापानप्रत्ययो ऽपि स्यादिति भावः ।
पदैकवाक्यत्ववाक्यैकवाक्यत्ववैषम्यान्मैवमित्याह- अत्रोच्यत इति ।
नञ्पदमेकं यदा सुरां पिबेदिति पदाभ्यामन्वेति तदा पदैकवाक्यमेकमेवार्थानुभवं करोति नतु पदद्वयं पृथक्सुरापानं बोधयति, तस्य विधौ निषेधानुपपत्तेर्वाक्यार्थानुभवं प्रत्यद्वारत्वात् ।
अर्थवादस्तु भूतार्थसंसर्गं स्तुतिद्वारं बोधयन्विधिना वाक्यैकवाक्यतां भजत इत्यस्ति विग्रहाद्यनुभव इत्यर्थः ।
नन्वर्थवादस्थपदानामवान्तरसंसर्गबोधकत्वं विना साक्षादेव विध्यन्वयो ऽस्तु तत्राह- यथा हीति ।
साक्षादन्वयायोगं दर्शयति- न हीति ।
अर्थवादात्सर्वत्र स्वार्थग्रहणमाशङ्क्यार्थवादान्विभजते- तद्यत्रेति ।
तत्तत्रार्थवादेषु यत्र ऽअग्निर्हिमस्य भेषजम्ऽइत्यादावित्यर्थः ।
ऽआदित्यो यूपःऽइत्यभेदो बाधित इति तेजस्वित्वादिगुणवादः ।
यत्र ऽवज्रहस्तः पुरन्दरःऽइत्यादौ मानान्तरसंवादविसंवादौ न स्तस्तत्र भूतार्थवाद इत्यर्थः ।
इति विमृश्येत्यध्याहारः ।
विग्रहार्तवादः स्वार्थे ऽपि तात्पर्यवान्ऽअन्यपरत्वे सत्यज्ञाताबाधितार्थकशब्दत्वात्, प्रयाजादिवाक्यवदिति न्यायं मन्त्रेष्वतिदिशति- एतेनेति ।
वेदान्तानुवादगुणवादानां निरासाय हेतौ पदानि ।
न चोभ्यपरत्वे वाक्यभेदः, अवान्तरार्थस्य महावाक्यार्थत्वादिति भावः ।
विध्यनुपपत्त्यापि स्वर्गवद्देवताविग्रहो ऽङ्गीकार्य इत्याह- अपिचेति ।
ननु क्लेशात्मके कर्मणि विधिः फलं विनानुपपन्न इति भवतु ऽयन्न दुःखेन संभिन्नम्ऽइत्यर्थवादसिद्धः स्वर्गो विधिप्रमाणकः ।
विग्रहं विना विधेः कानुपपत्तिः, तामाह- न हीति ।
उद्दिश्य त्यागानुपपत्त्या चेतस्यारोहो ऽङ्गीकार्य इत्यत्र श्रुतिमप्याह- यस्या इति ।
अतश्चेतस्यारोहार्थं विग्रह एष्टव्यः ।
किञ्च कर्मप्रकरणपाठाद्विग्रहप्रमितिः प्रयाजवत्कर्माङ्गत्वेनाङ्गीकार्या, तां विना कर्मापूर्वासिद्धेः ।
किञ्च सुप्रसन्नविग्रहवद्देवतां त्यक्त्वा शब्दमात्रं देवतेति भक्तिरयुक्तेत्याह- नच शब्देति ।
न चाकृतिमात्रं शब्दशक्यमस्तु किं विग्रहेणेति वाच्यं, निर्व्यक्त्याकृत्ययोगात् ।
अतः शब्दस्यार्थाकाङ्क्षायां मन्त्रादिप्रमितविग्रहो ऽङ्गीकार्य इत्याह- तत्रेति ।
एवं मन्त्रार्थवादमूलकमितिहासादिकमपि विग्रहे मानमित्याह- इतिहासेति ।
प्रमाणत्वेन संभवदित्यर्थः ।
व्यासादीनां योगिनां देवतादिप्रत्यक्षमपीतिहासादेर्मूलमित्याह- प्रत्यक्षेति ।
व्यासादयो देवादिप्रत्यक्षशून्याः, प्राणित्वात्, अस्मद्वदित्यनुमानमतिप्रसङ्गेन दूषयति- यस्त्वित्यादिना ।
सर्वं घटाभिन्नं, वस्तुत्वात्, घटवदिति जगद्वैचित्र्यं नास्तीत्यपि स ब्रूयात् ।
तथा क्षत्रियाभावं वर्णाश्रमाभावं वर्णाश्रमाद्यव्यवस्थां च ब्रूयात्, निरङ्कुशबुद्धित्वात् ।
तथाच राजसूयादिशास्त्रस्य कृतादियुगधर्मव्यवस्थाशास्त्रस्य बाध इत्यर्थः ।
योगसूत्रार्थादपि देवादिप्रत्यक्षसिद्धिरित्याह- अपिचेति ।
मन्त्रजपाद्देवतासांनिध्यं तत्संभाषणं चेति सूत्रार्थः ।
योगमहात्म्यस्य श्रुतिस्मृतिसिद्धत्वाद्योगिनामस्ति देवादिप्रत्यक्षमित्याह- योग इति ।
पादतलादाजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चब्रह्मरन्ध्रं पृथिव्यादिपञ्चके समुत्थिते धारणया जिते योगगुणे चाणिमादिके प्रवृत्ते योगाभिव्यक्तं तेजोमयं शरीरं प्राप्तस्य योगिनो न रोगादिस्पर्श इत्यर्थः ।
चित्रकारादिप्रसिद्धिरपि विग्रहे मानमित्याह- लोकेति ।
अधिकरणार्थमुपसंहरति- तस्मादिति ।
चिन्तायाः फलमाह- क्रमेति ।
एकमेव देवादीनां ब्रह्मविद्याधिकारे सत्येव देवत्यप्राप्तिद्वारा क्रममुक्तिफलान्युपासनानि युज्यन्ते ।
देवानामनधिकारे ज्ञानाभावात्क्रममुक्त्यर्थिनामुपासनेषु प्रवृत्तिर्न स्यात्, अतो ऽधिकारनिर्णयात्प्रवृत्तिसिद्धिरिति भावः ॥33॥
एन्द् ब्स्र्प्_1,3.8.33
स्तर्त् ब्स्र्प्_1,3.9.34
शुगस्य तदनादरश्रवणात् तदाद्रवणात् सूच्यते हि

1.3.35

शुगस्य-सूच्यते हि ।
पूर्वेणास्य दृष्टान्तसंगतिमाह- यथेति ।
पूर्वत्र देवादीनामधिकारसिध्यर्यं मन्त्रादीनां भूतार्थे विग्रहादौ समन्वयोक्त्या वेदान्तानामपि भूतार्थे ब्रह्मणि समन्वयो दृढीकृतः ।
अत्रापि शूद्रशब्दस्य श्रौतस्य क्षत्रिये समन्वयोक्त्या स दृढीक्रियत इत्यधिकरणद्वयस्य प्रासङ्गिकस्यास्मिन्समन्वयाध्याये ऽन्तर्भाव इति मन्तव्यम् ।
पूर्वपक्षे शूद्रस्यापि द्विजवद्वेदान्तश्रवणे प्रवृत्तिः, सिद्धान्ते तदभाव इति फलम् ॥
अत्र वेदान्तविचारो विषयः, स किं शूद्रमधिकीरोति न वेति संभवासंभवाभ्यां संदेहे पूर्वपक्षमाह- तत्र शूद्रस्यापीत्यादिना ।
तस्मादनग्नित्वादनवल्कृप्तो ऽसमर्थः ।
विद्यार्थिनि शूद्रशब्दप्रयोगाल्लिङ्गादपि शूद्रस्याधिकार इत्याह-भवति चेति ।
जानश्रुतिः किल षट् शतानि गवां रथं च रैकाय गुरवे निवेद्य मां शिक्षयेत्युवाच ।
ततो रैको विधुरः कन्यार्थी सन्निदमुवाच ।
अहेति निपातः खेदार्थः ।
हारेण निष्केण युक्त इत्वा गन्ता रथो हारेत्वा स च गोभिः सह हे शूद्र, तवैवास्तु किमल्पेनानेन मम गार्हस्थ्यानुपयोगिनेति भावः ।
अर्थित्वादिसंभवे श्रेयःसाधने प्रवृत्तिरुचिता स्वाभाविकत्वादिति न्यायोपेताल्लिङ्गादित्याह- तस्मादिति ।
सूत्राद्बहिरेव सिद्धान्तयति- न शूद्रस्याधिकार इत्यादिना ।
आपाततो विदितो वेदार्थो येन तस्येत्यर्थः ।
अध्ययनविधिना संस्कृतो वेदस्तदुत्थमापातज्ञानं च वेदार्थविचारेषु शास्त्रीयं सामर्थ्यं तदभावाच्छूद्रस्यार्थित्वादिसंभवन्यायासिद्धेर्नास्ति वेदान्तविचाराधिकार इत्यर्थः ।
यद्वाध्ययनसंस्कृतेन वेदेन विदितो निश्चितो वेदार्थो येन तस्य वेदार्थेषु विधिष्वधिकारो नान्यस्य, अनधीतवेदस्यापि वेदार्थानुष्ठानाधिकारे ऽध्ययनविधिवैयर्थ्यापातात् ।
अतः फलपर्यन्तब्रह्मविद्यासाधनेषु श्रवणादिविधिषु शूद्रस्यानधिकार इत्यर्थः ।
अधीतवेदार्थज्ञानवत्त्वरूपस्याध्ययनविधिलभ्यस्य सामर्थ्यस्याभावादिति न्यायस्य तुल्यत्वात्, यज्ञपदं वेदार्थापलक्षणार्थमित्याह- न्यायस्य साधारणत्वादिति ।
तस्माच्छूद्र इति तच्छब्दपरामृष्टन्यायस्य यज्ञब्रह्मविद्ययोस्तुल्यत्वादित्यर्थः ।
पूर्वोक्तं लिङ्गं दूषयति- यदिति ।
असामर्थ्यन्यायेनार्थित्वादिसंभवन्यायस्य निरस्तत्वादित्यर्थः ।
ननु ऽनिषादस्थपतिं याजयेत्ऽइत्यत्राध्ययनाभावो ऽपि निषादशब्दान्निषादस्येष्टाविव शूद्रशब्दाच्छूद्रस्य विद्यायामधिकारो ऽस्त्वित्याशङ्क्य संवर्गविद्यायामधिकारमङ्गीकरोति- काममिति ।
तद्विषयत्वात्तत्र श्रुतत्वादित्यर्थः ।
वस्तुतस्तु विधिवाक्यस्थत्वान्निषादशब्दो ऽप्यधिकारिसमर्पकः, शूद्रशब्दस्तु विद्याविधिपरार्थवादस्थो नाधिकारिणं बोधयति, असामर्थ्यन्यायविरोधेनान्यपरशब्दस्य स्वार्थबोधित्वासंभवादिति मत्वाङ्गीकारं त्यजति- अर्थवादेति ।
तर्हि शूद्रशब्दस्यात्र श्रुतस्य कोर्ऽथ इत्याशङ्क्य सूत्रेणार्थमाह- शक्यते चेत्यादिना ।
जानश्रुतिर्नाम राजा निदाघसमये रात्रौ प्रासादतले सुष्वाप, तदा तदीयान्नदानादिगुणगणतोषिता ऋषयो ऽस्य हितार्थं हंसा भूत्वा मालारूपेण तस्योपर्याजग्मुः, तेषु पाश्चात्यो हंसो ऽग्रेसरं हंसमुवाच, भो भो भद्राक्ष, किं न पश्यसि जानश्रुतेरस्य तेजः स्वर्गं व्याप्य स्थितं, तत्त्वां धक्ष्यति न गच्छेति ।
तमग्रेसर उवाच, कमप्येनं वराकं विद्याहीनं सन्तम्, अरे, सयुग्वानं युग्व गन्त्री शकटी तया सह स्थितं रैक्वमिवैतद्वचनमात्थ ।
रैक्वस्य हि ब्रह्मिष्ठस्य तेजो दुरतिक्रमं नास्यानात्मज्ञस्येत्यर्थः ।
अस्मद्वचनखिन्नो राजा शकटलिङ्गेन रैकं ज्ञात्वा विद्यावान्भविष्यतीति हंसानामभिप्रायः ।
कं उ अरे इति पदच्छेदः ।
उशब्दो ऽप्यर्थः ।
तेषां हंसानामनादरवाक्यश्रवणादस्य राज्ञः शुगुत्पन्ना, सा शूद्रशब्देन रैक्वेण सूच्यते हीति सूत्रान्वयः ।
श्रुतयौगिकार्थलाभे सति अनन्वितरूढ्यर्थस्त्याज्य इति न्यायद्योतनार्थो हिशब्दः ।
तदाद्रवणात् तया शुचा आद्रवणात् ।
शूद्रः शोकं प्राप्तवान् ।
शुचा वा कर्त्र्या राजाभिदुद्रुवे प्राप्तः ।
शुचा वा करणेन रैक्वं गतवानित्यर्थः ॥34॥
एन्द् ब्स्र्प्_1,3.9.34
स्तर्त् ब्स्र्प्_1,3.9.35
क्षत्रियत्वगतेश् चोत्तरत्र चैत्ररथेन लिङ्गात्

1.3.36

शूद्रशब्दस्य यौगिकत्वे लिङ्गमाह- क्षत्रियत्वेति ।
संवर्गविद्याविध्यनन्तरमर्थवाद आरभ्यते ।
शुनकस्यापत्यं कपिगोत्रं पुरोहितमभिप्रतारिनामकं राजानं च कक्षसेनस्यापत्यं सूदेन परिविष्यमाणौ तौ भोक्तुमुपविष्टौ बटुर्भिक्षितवानित्यर्थः ।
नन्वस्य चैत्ररथित्वं न श्रुतमित्यत आह- चैत्ररथित्वं चेति ।
एतेन द्विरात्रेणेति छान्दोग्यश्रुत्यैव पूर्वं चित्ररथस्य कापेययोग उक्तः ।
अभिप्रतारिणो ऽपि तद्योगाच्चित्ररथवंश्यत्वं निश्चीयते ।
राजवंश्यानां हि प्रायेण पुरोहितवंश्या याजका भवन्तीत्यर्थः ।
नन्वस्त्वभिप्रतारिणश्चैत्ररथित्वं, तावता कथं क्षत्रियत्वं, तत्राह- तस्मादिति ।
चित्ररथादित्यर्थः ।
क्षत्ता सूतस्तस्य रैक्वान्वेषणाय प्रेषणं अन्नगोदानादिकं च जानश्रुतेः क्षत्रियत्वे लिङ्गम् ॥35॥
एन्द् ब्स्र्प्_1,3.9.35
स्तर्त् ब्स्र्प्_1,3.9.36
संस्कारपरामर्शात् तदभावाभिलापाच् च

1.3.37

अत्र शूद्रशब्दो यौगिक एवेति न शूद्रस्याधिकार इति स्थितम् ।
तत्र लिङ्गान्तरमाह- संस्कारेति ।
उपनयनं वेदग्रहणाङ्गं शूद्रस्य नास्तीति पूर्वमुक्तम् ।
इह विद्याग्रहणाङ्गस्योपनयनसंस्कारस्य सर्वत्र परामर्शाच्छूद्रस्य तदभावान्न विद्याधिकारः इत्युच्यते ।
भाष्ये आदिपदेनाध्ययनगुरुशुश्रूषादयो गृह्यन्ते ।
तं शिष्यमाचार्य उपनीतवानित्यर्थः ।
नारदो ऽपि विद्यार्थी मन्त्रमुच्चारयन्सनत्कुमारमुपगत इत्याह- अधीति ।
उपदिशेति यावत् ।
ब्रह्मपरा वेदपारगाः सगुणब्रह्मनिष्ठाः परं निर्गुणं ब्रह्मान्वेषमाणा एष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य ते भरद्वाजादयः षड् ऋषयस्तमुपगता इत्यर्थः ।
ननु वैश्वानरविद्यायामृषीन्राजानुपनीयैव विद्यामुवाचेति श्रुतेरनुपनीतस्याप्यस्ति विद्याधिकार इत्यत आह- तान्हेति ।
ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिर इति पूर्ववाक्ये ब्राह्मणा उपनयनार्थमागता इति उपनयनप्राप्तिं दर्शयित्वा निषिध्यते ।
हीनवर्णेनोत्तमवर्णानुपनीयैवोपदेष्टव्या इत्याचारज्ञापनार्थमित्यर्थः ।
एकजातिरनुपनीतः ।
पातकमभक्ष्यभक्षणकृतम् ॥36॥
एन्द् ब्स्र्प्_1,3.9.36
स्तर्त् ब्स्र्प्_1,3.9.37
तदभावनिर्धारणे च प्रवृत्तेः

1.3.38

सत्यकामः किलमृतपितृको जबालां मातरमपृच्छत्, किङ्गोत्रो ऽहमिति ।
तं मातोवाच भर्तृसेवाव्यग्रतयाहमपि तव पितुर्गोत्रं न जानामि, जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति एतावज्जानामीति ।
ततः स जाबालो गौतममागत्य तेन किङ्गोत्रो ऽसीति पृष्ट उवाच, नाहं गोत्रं वेद्मि न माता वेत्ति परन्तु मे मात्रा कथितं, उपनयनार्थमाचार्यं गत्वा सत्यकामो जाबालो ऽस्मीति ब्रूहीति ।
अनेन सत्यवचनेन तस्य शूद्रत्वाभावो निर्धारितः ।
अब्राह्मण एतत्सत्यं विविच्य वक्तुं, नार्हतीति निर्धार्य, हे सोम्य, सत्यात्त्वं नागाः सत्यं न त्यक्तवानसि, अतस्त्वामुपनेष्ये, तदर्थं समिधमाहरेति गौतमस्य प्रवृत्तेश्च लिङ्गान्न शूद्रस्याधिकार इत्याह- तदभावेति ॥37॥
एन्द् ब्स्र्प्_1,3.9.37
स्तर्त् ब्स्र्प्_1,3.9.38
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश् च

1.3.39

स्मृत्या श्रवणादिनिषेधाच्च नाधिकार इत्याह- श्रवणेति ।
अस्य शूद्रस्य द्विजैः पठ्यमानं वेदं प्रमादाच्छृण्वतः सीसलाक्षाभ्यां तप्ताभ्यां श्रोत्रद्वयपूरणं प्रायश्चित्तं कार्यमित्यर्थः ।
पद्यु पादयुक्तं संचरिष्णुरूपमिति यावत् ।
भवति च ।
स्मृतिरिति शेषः ।
मतिर्वेदार्थज्ञानम् ।
दानं नित्यं निषिध्यते शूद्रस्य ।
नैमित्तिकं तु दानमस्त्येव ।
यदुक्तं विदुरादीनां ज्ञानित्वं दृष्टमिति, तत्राह- येषामिति ।
सिद्धानां सिद्धेर्दुरपह्नवत्वे ऽपि साधकैः शूद्रैः कथं ज्ञानं लब्धव्यमित्यत आह- श्रावयेदिति ॥38॥
एन्द् ब्स्र्प्_1,3.9.38
स्तर्त् ब्स्र्प्_1,3.10.39
कम्पनात्

1.3.40

कम्पनात् ।
अस्यापि प्रासङ्गिकत्वमाशङ्क्यमाह- अवसित इति ।
समाप्त इत्यर्थः ।
काठकं पठति- यदिदमिति ।
सर्वं जगत्प्राणान्निःसृतं उत्पन्नं प्राणे चिदात्मनि प्रेरके सति एजति चेष्टते, तच्च प्राणाख्यं कारणं महद्ब्रह्म विभेत्यस्मादिति भयम् ।
तस्मिन् भयहेतुत्वे दृष्टान्तमाह- वज्रमिति ।
यथोद्यतं वज्रं भयं तथेत्यर्थः ।
य एतत्प्राणाख्यं ब्रह्म निर्विशेषं विदुस्ते मुक्ता भवन्तीत्याह- य इति ।
नन्वस्मिन्सूत्रे कथमिदं वाक्यमुदाहृतमित्यत आह- एतदिति ।
एजत्यर्थस्य कम्पनस्य सूत्रितत्वादेजतिपदयुक्तं वाक्यमुदाहृतमित्यर्थः ।
प्रासङ्गिकाधिकारचिन्तयास्य संगतिर्नापेक्षितेति ऽशब्दादेव प्रमितःऽइत्यनेनोच्यते ।
तत्राङ्गुष्ठवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानार्थ इत्युक्तं, न तथेह प्राणानुवाद ऐक्यज्ञानार्थः संभवति, प्राणस्य स्वरूपेण कल्पितस्यैक्यायोगात् ।
अतः प्राणोपास्तिपरं वाक्यमिति प्रत्युदाहरणेन पूर्वपक्षयति- प्रसिद्धेः पञ्चवृत्तिरिति ।
ननु ऽअत एव प्राणःऽइत्यादौ ब्रह्मणि लिङ्गात्प्राणश्रुतिर्नीता, अत्रापि सर्वचेष्टाभयहेतुत्वं ब्रह्मलिङ्गमस्तीति नास्ति पूर्वपक्षावसरो गतार्थत्वादिति, अत आह- वायोश्चेति ।
प्रतिष्ठाय स्थितिं लब्ध्वा प्राणे वायौ निमित्ते जगच्चलतीति प्रसिद्धम् ।
अतः स्पष्टं ब्रह्मलिङ्गं नास्तीति भावः ।
वज्रलिङ्गच्च वायुरित्याह- वाय्विति ।
व्यष्टिर्विशेषः ।
समष्टिः सामान्यम् ।
सूद्बद्वहिरेव सिद्धान्तं प्रतिजानीते- ब्रह्मैवेति ।
पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वाश्रयत्वं लिङ्गं वाक्यभेदकप्राणश्रुतेर्बाधकमित्याह- पूर्वत्रेत्यादिना ।
शुक्रं स्वप्रकाशम् ।
तदु नात्येति ब्रह्मानाश्रितः को ऽपि लोको नास्त्येवेत्युकारार्थः ।
सौत्रं लिङ्गं व्याचष्टे- एजयितृत्वमिति ।
सवायुकस्य सर्वस्य कम्पनश्रवणादपि प्राणः परमात्मैवेत्यर्थः ।
ब्रह्मणि वज्रशब्दः कथमित्याशङ्क्य गौण इत्याह- वज्रशब्द इति ।
बृहदारण्यके ऽवायुरेव व्यष्टिःऽइत्यत्र ऽअपपुनर्मृत्युम्ऽइत्यपमृत्युजयरूपमापेक्षिकममृतत्वमुच्यते न मुख्यामृतत्वम्, तत्रैव वायूपास्तिप्रकरणं समाप्य ऽअथ हैनमुषस्तः पप्रच्छऽइति ज्ञेयात्मानमुक्त्वा वाय्वादेर्नाशित्वोक्तेरित्याह- यत्तु वाय्वित्यादिना ।
तस्मात्काठकवाक्यं ज्ञेये समन्वितविति सिद्धम् ॥39॥
एन्द् ब्स्र्प्_1,3.10.39
स्तर्त् ब्स्र्प्_1,3.11.40
ज्योतिर् दर्शनात्

1.3.41

ज्योतिर्दर्शनात् ।
छान्दोग्ये प्रजापतिविद्यावाक्यमाह- एष इति ।
परञ्ज्योतिः श्रुतिभ्यां संशयमाह- तत्रेति ।
घटादिविषयावरकतमोनाशकं सौरमित्यर्थः पूर्वत्र ब्रह्मप्रकरणस्यानुग्राहकः सर्वशब्दसंकोचाद्ययोगो ऽस्तीति प्राणश्रुतिर्ब्रह्मणि नीता ।
न तथात्र ऽय आत्मापहतपाप्माऽइति प्रकरणस्यानुग्राहकं पश्याम इति प्रत्युदाहरणेन पूर्वपक्षमाह- प्रसिद्धमेवेत्यादिना ।
पूर्वपक्षे सूर्योपास्तिः, सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलम् ।
ननु ज्योतिरधिकरणे ज्योतिःशब्दस्य ब्रह्मणि वृत्तेरुक्तत्वात्कथं पूर्वपक्ष इत्यत आह- ज्योतिरिति ।
तत्र गायत्रीवाक्ये प्रकृतब्रह्मपरामर्शकयच्छब्दसामानाधिकरण्याज्ज्योतिःशब्दस्य स्वार्थत्यागः कृतः, तथात्र स्वार्थत्यागे हेत्वदर्शनात्पूर्वपक्ष इत्यर्थः ।
ज्योतिःश्रुतेरनुग्राहकत्वेनार्चिरादिमार्गस्थत्वं लिङ्गमाह- तथाचेति ।
ऽता वा एता हृदयस्य नाड्यःऽइति कण्डिकया नाडीनां रश्मीनां च मिथः संश्लेषमुक्त्वा अथ संज्ञालोपानन्तरं यत्र काले एतन्मरणं यथा स्यात्तथोत्क्रामति अथ तदा एतैर्नाडीसंश्लिष्टरश्मिभिरूर्ध्वः सन्नुपरि गच्छति, गत्वादित्यं ब्रह्मलोकद्वारभूतं गचछतीत्यभिहितं, तथैवात्रापि शरीरात्समुत्थाय मृत्वा परं ज्योतिरादित्याख्यमुपसंपद्य तद्द्वारा ब्रह्मलोकं गत्वा स्वस्वरूपेणाभिनिष्पद्यत इति वक्तव्यम् ।
समुत्थायोपसंपद्येति क्त्वाश्रुतिभ्यां ज्योतिषो ऽर्चिरादिमार्गस्थत्वभानादित्यर्थः ।
अतो मार्गस्थसूर्योपास्त्या क्रममुक्तिपरं वाक्यमिति प्राप्ते सिद्धान्तयति- एवमिति ।
व्याख्येयत्वेनोपक्रान्त आत्मैवात्र ज्योतिःशब्देन व्याख्येन इति ज्योतिर्वाक्येनैकवाक्यताप्रयोजकप्रकरणानुगृहीतोत्तमरपुरुषश्रुत्या वाक्यभेदकज्योतिःश्रुतिर्बाध्येति भावः ।
अशरीरत्वफललिङ्गाच्च ब्रह्मैव ज्योतिर्न सूर्य इत्याह- अशरीरमिति ।
नच सूर्यप्राप्त्या क्रमेणाशरीरत्वं स्यादिति वाच्यं, परत्वेन विशेषितस्य ज्योतिष एव स उत्तम इति परामर्शेनाशरीरत्वनिश्चयादित्याह- परमिति ।
पूर्वोक्तलिङ्गं दूषयति- यत्त्विति ।
नाडीखण्डे दहरोपासकस्य या सूर्यप्राप्तिरुक्ता स न मोक्ष इति युक्ता सूर्योक्तिः, अत्र तु प्रजापतिवाक्ये निर्गुणविद्यायामर्चिरादिगतिस्थसूर्यस्यानन्वयादनर्थकत्वात् श्रुतिव्यत्यासेन स्वरूपं साक्षात्कृत्य परं ज्योतिस्तदेवोपसंपद्यत इति व्याख्येयमिति भावः ॥40॥
एन्द् ब्स्र्प्_1,3.11.40
स्तर्त् ब्स्र्प्_1,3.12.41
आकाशो ऽर्थान्तरत्वादिव्यपदेशात्

1.3.42

आकाशो व्यपदेशात् ।
छान्दोग्यमुदाहरति आकाश इति ।
यथोपक्रमबलाज्ज्योतिःश्रुतिबाधस्तथाकाशोपक्रमाद्ब्रह्मादिशब्दबाध इति दृष्टान्तेन पूर्वपक्षयति- भूतेति ।
श्रुतैर्गुणैराकाशोपास्तिर्निर्गुणब्रह्मज्ञानं चेत्युभयत्र फलम् ।
ऽआकाशस्तल्लिङ्गात्ऽ
इत्यनेन पौनरुक्त्यमाशङ्क्य तद्वदत्र स्पष्टलिङ्गाश्रवणादिति परिहरति- स्रष्टृत्वादेश्चेति ।
वै नामेति प्रसिद्धिलिङ्गस्याकाशश्रुतेश्च वाक्यशेषगताभ्यां ब्रह्मात्मश्रुतिभ्यामनेकलिङ्गोपेताभ्यां बाधो युक्तः ।
यत्र बहुप्रमाणसंवादस्तत्र वाक्यस्य तात्पर्यमिति निर्णयादिति सिद्धान्तयति- परमेवेत्यादिना ।
नामरूपे शब्दर्थौ तदन्तःपातिनस्तद्भिन्नत्वे तत्कर्तृत्वं चायुक्तमित्यर्थः ।
नामादिकर्तृत्वं न ब्रह्मलिङ्गं, जीवस्थत्वादिति शङ्कते- नन्विति ।
ऽअनेन जीवेनऽइत्यत्र जीवस्य ब्रह्मभेदेन तत्कर्तृत्वमुच्यते साक्षादयोगादिति परिहरति- बाढमिति ।
यच्चोक्तं स्पष्टं लिङ्गं नास्तीति, तत्राह- नामेति ।
तर्हि पुनरुक्तिः, तत्राह- आकाशेति ।
तस्यैव साधको ऽयं विचारः ।
अत्राकाशशब्दस्य ब्रह्मणि वृत्तिं सिद्धवत्कृत्य तत्र संशयादिप्रवृत्तेरुक्तत्वादिति न पौनरुक्त्यमिति भावः ॥41॥
एन्द् ब्स्र्प्_1,3.12.41
स्तर्त् ब्स्र्प्_1,3.13.42
सुषुप्त्युत्क्रान्त्योर् भेदेन

1.3.43

सुषुप्त्युत्क्रान्त्योर्भेदेन ।
अहन्धीगम्येषु कतम आत्मेति जनकप्रश्ने याज्ञवल्क्य आह- यो ऽयमिति ।
विज्ञानं बुद्धिस्तन्मयस्तत्प्रायः ।
सप्तमी व्यतिरेकार्था ।
प्राणबुद्धिभ्यां भिन्न इत्यर्थः ।
वृत्तेरज्ञानाच्च भेदमाह- अन्तर्ज्योतिरिति ।
पुरुषः पूर्ण इत्यर्थः ।
उभयलिङ्गानां दर्शनात्संशयमाह- तत्किमिति ।
पूर्वत्र नामरूपाभ्यां भेदोक्तेराकाशो ब्रह्मेत्युक्तं, तदयुक्तं, ऽप्राज्ञेनात्मना संपरिष्वक्तःऽइत्यभिन्ने ऽपि जीवात्मनि भेदोक्तिवदौपचारिकभेदोक्तिसंभवादित्याक्षेपसंगतिः ।
पूर्वपक्षे कर्मकर्तृजीवस्तुतिः, सिद्धान्ते जीवानुवादेन ततः कल्पितभेदभिन्नस्य प्राज्ञस्य परमात्मनः स्वरूपैक्यप्रमितिरिति फलम् ।
बुद्धान्तो जाग्रदवस्था ।
आदिमध्यावसानेषु जीवोक्तेर्जीवस्तावकमिदं वाक्यमिति प्राप्ते सिद्धान्तयति- परमेश्वरेत्यादिना ।
वाक्यस्य जीवस्तावकत्वे जीवाद्भेदेन प्राज्ञस्याज्ञातस्योत्तरोक्तिरसंगता स्यात्,
अतो ज्ञाताज्ञातसंनिपाते ज्ञातानुवादेनाज्ञातं प्रतिपादनीयं, ऽअपूर्वे वाक्यतात्पर्यम्ऽइति न्यायादिति सिद्धान्ततात्पर्यम् ।
पुरुषः शरीरं प्राज्ञो जीव इति भ्रान्तिं वारयति- तत्र पुरुष इत्यादिना ।
देहस्य वेदनाप्रसक्तेर्निषेधायोगात्पुरुषो जीव एव, प्राज्ञस्तु रूढ्या पर एवेत्यर्थः ।
अन्वारूढो ऽधिष्ठितः ।
उत्सर्जन् घोराञ्शब्दान्मुञ्चन् ।
बुद्धौ ध्यायन्त्यामात्माध्यायतीव चलन्त्यां चलतीव ।
वस्तुतः सर्वविक्रियाशून्य इत्युक्तेर्न संसारिणि तात्पर्यमित्याह- यत इति ।
उपक्रमवदुपसंहारवाक्ये ऽप्यैक्यं विविक्षितमित्याह- तथेति ।
व्याचष्टे- यो ऽयमिति ।
अवस्थोपन्यासस्य त्वमर्थशुद्धिद्वारैक्यपरत्वान्न जीवलिङ्गत्वमित्याह- यतो न बुद्धान्तेति ।
प्रश्नोत्तराभ्यामसंसारित्वं गम्यत इत्याह- यदत ऊर्ध्वमिति ।
कामादिविवेकानन्तरमित्यर्थः ।
भवतीति चेति ।
यद्यस्माद्वक्ति तस्मादवगम्यत इति योजना ।
तेनावस्थाधर्मेणानन्वागतो ऽस्पृष्टो भवति, असङ्गत्वात् ।
सुषुप्तावप्यात्मतत्त्वं पुण्यपापाभ्यामस्पृष्टं भवति ।
हि यस्मादात्मा सुषुप्तौ सर्वशोकातीतः तस्माधृदयस्यैव सर्वे शोका इति श्रुत्यर्थः ॥42॥
एन्द् ब्स्र्प्_1,3.13.42
स्तर्त् ब्स्र्प्_1,3.13.43
पत्यादिशब्देभ्यः

मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc