ब्रह्मसूत्र · अध्याय 1.2
देहोत्थापनं जीवलिङ्गं किं न स्यात्, तत्राह- शरीरधारणं चेति ।
सर्वे वागादयः प्राणा अहमहं श्रेष्ठ इति विवदमानाः प्रजापतिमुपजग्मुः ।
स च तानुवाच, यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरं पतिष्यति स वः श्रेष्ठ इति तथाक्रमेण वागादिपूत्क्रान्तेष्वपि मूकादिभावेन शरीरं स्वस्थमस्थात् ।
मुख्यप्राणस्य तु उच्चिक्रमिषायां सर्वेषां व्याकुलत्वाप्तौ तान्वागादीन्वरिष्ठः प्राण उवाच, यूयं मोहं मापद्यथ यतो ऽहमेवैतत्करोमि ।
किं तत्, पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्वाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्य धारयामीत्यर्थः ।
द्विवचनसहवासोत्क्रान्तिश्रुतेश्च न ब्रह्म ग्राह्यमित्याह- जीवमुख्येति ।
अभेदनिर्देशमाह- यो वा इति ।
भेदमाह- सहेति ।
यदि जीवमुख्यप्राणयोर्लिङ्गादुपास्तत्वं तर्हि ब्रह्मणो ऽपि लिङ्गानामुक्तत्वादुपासनं स्यात् ।
न चेष्टापत्तिः. उपक्रमादिन निश्चितैकवाक्यताभङ्गप्रसङ्गादित्याह- नैतदेवमित्यादिना ।
नच स्वतन्त्रपदार्थभेदाद्वाक्यभेदः किं न स्यादिति वाच्यं, जीवमुख्यप्राणयोरुक्तलिङ्गानां ब्रह्मणिनेतं शक्यतया स्वातन्त्र्यासिद्धेः, अफलपदार्थस्य फलवद्वाक्यार्थशेषत्वेन प्रधानवाक्यार्थानुसारेण तल्लिङ्गनयस्योचितत्वाच्च ।
नहि प्रधानवाक्यार्थब्रह्मलिङ्गमन्यथा नेतुं शक्यं, न वा तदुचितमित्याह- नच ब्रह्मलिङ्गमिति ।
सूत्रशेषं व्याचष्टे- आश्रितत्वाच्चेति ।
अन्यत्र ऽअत एव प्राणःऽइत्यादौ वृत्तेराश्रित्वादिहापि तस्य ब्रह्मलिङ्गस्य योगाद्ब्रह्मपर एव प्राणशब्द इत्यर्थः ।
प्राणादिलिङ्गानि सर्वात्मके ब्रह्मण्यनायासेन नेतुं शक्यनीत्याह- यत्त्वित्यादिना ।
यस्मिन्नेतौ प्रेर्यत्वेन स्थितौ तेनेतरेण ब्रह्मणा सर्वे प्राणादिव्यापारं कुर्वन्तीत्यर्थः ।
विशेषं परिच्छेदाभिमानमित्यर्थः ।
ऽवत्कारं विद्यात्ऽइति न वक्तुर्ज्ञेयत्वमुच्यते, तस्य लोकसिद्धत्वात्, किन्तु तस्य ब्रह्मत्वं बोध्यते ।
तद्बोधाभिमुख्याय लिङ्गादय इत्यत्र श्रुत्यन्तरमाह- यद्वाचेति ।
येन चैतन्येन वागभ्युद्यते स्वकार्याभिमुख्येन प्रेर्यते तदेव वागादिरगम्यं ब्रह्मेत्यर्थः ।
तत्त्वंपदवाच्ययोः स्वरूपतो भेदस्थाभ्यामुपलक्ष्यात्मस्वरूपाभेदादेकत्वं निर्दिश्यत इत्याह- नैष दोष इति ।
स्वमतेन सूत्रं व्याख्याय वृत्तिकृन्मतेन व्याचष्टे- अथवेति ।
उपासनात्रित्वप्रसङ्गादिति पूर्वमुक्तम् ।
अत्र त्रिप्रकारकस्यैकब्रह्मविशेषेकस्यैकस्योपासनस्य विवक्षितत्वादित्यर्थः ।
अतो न वाक्योभेद इति भावः ।
देहचेष्टात्मकजीवनहेतुत्वं प्राणस्यायुष्ट्वं देहापेक्षया तस्य आमुक्तेरवस्थानादमृतत्वं, उत्थापयतीत्युक्थत्वमिति प्राणधर्मः ।
जीवधर्मानाह- अथेति ।
बुद्धिप्राणयोः सहस्थित्युत्क्रान्त्युक्त्यनन्तरमित्यर्थः ।
अत्र प्रज्ञापदेन साभासा जीवाख्या बुद्धिरुच्यते ।
तस्याः संभन्धीनि दृश्यानि सर्वाणि भूतानि यथैकं भवन्त्यधिष्ठानचिदात्मना तथा व्याख्यास्याम इत्युपक्रम्योक्तम्-ऽवागेवऽइत्यादि ।
चक्षुरेवास्या एकमङ्गमदूदुहदित्यादिपर्यायाणां संक्षिप्तार्थं उच्यते ।
उत्पन्नाया असत्कल्पनायाः साभासबुद्धेर्नामप्रपञ्चविषयित्वमर्धं शरीरम्, अर्थात्मकरूपप्रपञ्चविषयित्वमर्धं शरीरमिति मिलित्वा विषयित्वाख्यं पूर्णं शरीरमिन्द्रियसाध्यम् ।
तत्र कर्मेन्द्रियेषु वागेवास्याः प्रज्ञाया एकमङ्गं देहार्धमदूदुहत् पूरयामास ।
वागिन्द्रियद्वारा नामप्रपञ्चविषयित्वं बुद्धिर्लभत इत्यर्थः ।
चतुर्थी षष्ठ्यर्था ।
तस्याः पुनर्नाम किल चक्षुरादिना प्रतिविहिता ज्ञापिताभूतमात्रा रूपाद्यर्थरूपा परस्तादपरार्धे कारणं भवति ।
ज्ञानकारणद्वरार्थप्रपञ्चविषयित्वं बुद्धिः प्राप्नोतीत्यर्थः ।
एवं बुद्धेः सर्वार्थद्रष्टृत्वमुपपाद्य तन्निष्ठचित्प्रतिबिम्बद्वारा साक्षिणि द्रष्टृत्वाध्यासमाह- प्रज्ञयेति ।
बुद्धिद्वारा चिदात्मा वाचमिन्द्रियंसमारुह्य तस्याः प्रेरको भूत्वा वाचा करणेन सर्वाणि नामानि वक्तव्यत्वेनाप्नोति, चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवं द्रष्टा भवतीत्यर्थः ।
तथाच सर्वद्रष्टृत्वं चिदात्मनि द्रष्टृत्वाध्यासनिमित्तत्वं च बुद्धेर्धर्म इत्युक्तं भवति सर्वाधारत्वान्दत्वादिः ब्रह्मधर्म इत्याह- ता वा इति ।
दशत्वं व्याख्यातम् ।
प्रज्ञा इन्द्रियजात्या अधिकृत्य ग्राह्या भूतमात्रा वर्तन्ते, प्रज्ञामात्रा इन्द्रियाणि ग्राह्यं भूतजातमधिकृत्य वर्तन्त इति ग्राह्य ग्राहकयोर्मिथः सापेक्षत्वमुक्तं साधयति- यदिति ।
तदेव स्फुटयति- न हीति ।
ग्राह्येण ग्राह्यस्वरूपं न सिध्यति किन्तु ग्राहकेण ।
एवं ग्राहकमपि ग्राह्यमनपेक्ष्या न सिध्यति ।
तस्मात्सापेक्षत्वादेतद्ग्राह्यग्राहकद्वयं वस्तुतो न भिन्नं किन्तु चिदात्मन्यरोपितमित्याह-
नो इति ।
तद्यथेत्यादि कृतव्याख्यानम् ।
सूत्रार्थमुपसंहरति- तस्मादिति ।
अन्यधर्मेणान्यस्योपासनं कथमित्याशङ्क्याश्रितत्वादित्याह- अन्यत्रापीति ।
उपाधिर्जीवः ।
तत् अन्यधर्मेणोपासनम् ।
इयमसंगता व्याख्या ।
तथाहि-न तावदारुण्याद्यनेकगुणविशिष्टप्राप्तक्रयणवदुपासात्रयविशिष्टस्य ब्रह्मणो विधिः संभवति, सिद्धस्य विध्यनर्हत्वात् ।
नापि ब्रह्मानुवादेनोपासात्रयविधिः, वाक्यभेदात् ।
नच नानाधर्मविशिष्टमेकमुपासनं विधीयत इति वाच्यं, तादृशविधिवाक्यस्यात्राश्रवणात् ।
नच ऽतं मामायुरमृतमित्युपाःस्वऽइत्यत्र मामिति जीवेन, आयुरिति प्राणेन, अमृतमिति ब्रह्मणा स्वस्वधर्मवता विशिष्टोपासनाविधिरिति वाच्यं, सर्वेषां धर्माणामश्रवणात्, ब्रह्माश्रुतेश्च ।
ऽप्राणो वा अमृतम्ऽइति प्राणस्यैवामृतत्वश्रुतेः ।
अत उपासनाविधिलुब्धेन ऽवक्तारं विद्यात्ऽ ऽएतदेवोक्थमुपासीतऽ ऽस म आत्मेति विद्यात्ऽइति जीवप्राणब्रह्मोपासनविधयः, अन्ये गुणविधय इति स्वीकृत्यैकवाक्यत्वं त्याज्यं, तच्चायुक्तं, उपक्रमादिनैकवाक्यतानिर्णयादिति ।
तस्माज्ज्ञेयप्रत्यग्ब्रह्मपरमिदं वाक्यमित्युपसंहरति- तस्मादिति ॥ 31॥
एन्द् ब्स्र्प्_1,1.11.31
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाव्याखायायां भाष्यरत्नप्रभायां प्रथमाध्यायस्य प्रथमः पादः ॥1॥
॥ इति प्रथमस्याध्यायस्य स्पष्टब्रह्मलिङ्गश्रुतिसमन्वयाख्यः प्रथमः पादः ॥
प्रथमाध्याये द्वितीयः पादः ।
श्रीरामं सिद्धमत्तारं गुहाशायिनमान्तरम् ।
अन्तर्यामिणमज्ञेयं वैश्वानरमहं भजे ॥1॥
स्तर्त् ब्स्र्प्_1,2.1.1
सर्वत्र प्रसिद्धोपदेशात्
पूर्वपादेनोत्तरपादयोः संगतिं वक्तुं वृत्तमनुवदति- प्रथम इति ।
जगत्कारणत्वोक्तया व्यापित्वादिकमर्थात्सिद्वम् ।
तदुपजीव्योत्तरं पादद्वयं प्रवर्तत इति हेतुहेतुमद्वावः संगतिः ।
कथं पादभेद इत्याशङ्क्य पादानां प्रमेयभेदमाह- अर्थान्तरेति ।
आकाशादिशब्दानां स्पष्टब्रह्मलिङ्गैर्ब्रह्मणि समन्वयो दर्शितः ।
अस्पष्टब्रह्मलिङ्गवाक्यसमन्वयः पादद्वये वक्ष्यते ।
प्रायेणोपास्यज्ञेयब्रह्मभेदात्पादयोरवान्तरभेद इति भावः ।
छान्दोग्यवाक्यमुदाहरति- इदमिति ।
तस्माज्जायत इति तज्जं, तस्मिंल्लीयत इति तल्लं, तस्मिन्ननिति चेष्टत इति तदनं, तज्जं च तल्लं च तदनं चेति तज्जलान् ।
कर्मधारये ऽस्मिन् शाकपार्थिवन्यायेन मध्यमपदस्य तच्छब्दस्य लोपः ।
तज्जलानमिति वाच्ये छान्दसो ऽवयवलोपः ।
इतिशब्दो हेतौ ।
सर्वमिदं जगद्ब्रह्मैव, तद्विवर्तत्वादित्यर्थः ।
ब्रह्मणि मित्रामित्रभेदाभावाच्छान्तो रागादिरहितो भवेदिति गुणविधिः ।
सक्रतुमुपासनं कुर्वीतेति विहितोपासनस्य ऽउपासीतऽइत्यनुवादात्फलमाह- अथेति ।
क्रतुमयः संकल्पविकार इत्यर्थः ।
पुरुषस्य ध्यानविकारत्वं स्फुटयति- यथेति ।
इह यध्यायति, मृत्वा ध्यानमहिम्ना तध्येयरूपेण जायत इत्यर्थः ।
क्रतुमयः संकल्पप्रधान इति वार्थः ।
क्रतोर्विषयमाहमन इति ।
ब्रह्मोत्युपक्रमान्मनोमयं प्राणशरीरं भारूपं सत्यसंकल्पमन्तर्ह्रदये ध्येयमित्यर्थः ।
पूर्वत्र ब्रह्मलिङ्गैरब्रह्मलिङ्गबाध उक्तः, न तथेहोपक्रमे ब्रह्मणो लिङ्गमस्ति, किन्तु प्रकरणम् ।
तच्च शान्तिगुणविधानार्थमन्यथासिद्वम् ।
अतो जीवलिङ्गं बलीय इति प्रत्युदाहरणेन पूर्वपक्षयति- शारीर इत्यादिना ।
श्रुतिमाशङ्क्यान्यथासिद्या परिहरति- नैष दोष इति ।
शमविधिपरत्वे हेतुमाह- यत्कारणमिति ।
यत एवमाह तस्माच्छमविधिपरमित्यन्वयः ।
[अत्रेदंशब्दः प्रकृतब्रह्मपरामर्शार्थो नतु जगत्परामर्शार्थः, जगद्विशेषणे प्रयोजनाभावात् ।
अत्र प्रयोजनाभावे ऽपि यत्र प्रयोजनं तत्र भवत्येव जगद्विशेषणं, यथा ऽआत्मैवेदं सर्वम्ऽ ।
अत्र बाधायां समानाधिकरणदार्ढ्यार्थं विशेषणमावश्यकं, तद्वाक्यस्य ज्ञेयब्रह्मविषयत्वात् ।
अत्र तूपासनायां बाधानावश्यकत्वद्विषयाभेदेन ब्रह्मण उपास्यत्वात् ।
ट नच शमेति ।
शमध्यानयोर्विधौ वाक्यभेदापत्तेरित्यर्थः ।
जन्मपरम्परया जीवस्यापि सर्वकर्मत्वादिसंभवमाह- सर्वकर्मेति ।
सर्वाणि कर्माणि यस्य ।
सर्वे कामा भोग्य यस्य ।
सर्वगन्धः सर्वरस इत्यादिरादिशब्दार्थः ।
आराग्रमात्रस्येति ।
तोत्रप्रोतायः-शलाकाग्रपरिमाणस्येत्यर्थः ।
सर्वत्र प्रसिद्वब्रह्मण एवात्रोपास्यत्वोपदेशान्न जीव उपास्य इति सूत्रार्थमाह- सर्वत्रेति ।
यत्र फलं नोच्यते तत्र पूर्वोत्तरपक्षसिद्विः फलमिति मन्तव्यम् ।
तद्यपि निराकाङ्क्षं ब्रह्म तथापि मनःप्रचुरमुपधिरस्य, प्राणः शरीरमस्येति समासान्तर्गतसर्वनाम्नः संनिहितविशेष्याकाङ्क्षत्वाद्ब्रह्म संबध्यते ।
ऽस्योनं ते सदनं करोमिऽइति संस्कारार्थसदनस्य निराकाङ्क्षस्यापि ऽतस्मिन्सीदऽइति साकाङ्क्षतच्छब्देन परामर्शदर्शनादित्याह- अत्रोच्यत इति ।
स्योनं पात्रं ते पुरोडाशस्येति श्रुत्यर्थः ।
जीवो ऽपि लिङ्गात्संनिहित इत्यत आह- जीवस्त्विति ।
इदं हि लिङ्गद्वयं लोकसिद्वं जीवं न संनिधापयति,
दुःखिन उपास्त्ययोग्यत्वात्फलाभावाच्च ।
अतो विश्वजिन्न्यायेन सर्वाभिलषितमानन्दरूपं ब्रह्मैवोपासनाक्रियानुबन्धीति भावः ।
किञ्च ब्रह्मपदश्रुत्या लिङ्गबाध इत्याह- नचेति ।
अन्यतराकाङ्क्षानुगृहीतं फलवत्प्रकरणं विफलिङ्गाद्वलीय इति समुदायार्थः ॥1॥
एन्द् ब्स्र्प्_1,2.1.1
स्तर्त् ब्स्र्प्_1,2.1.2
विवक्षितगुणोपपत्तेश् च
वस्तुनो विवक्षायाः फलमुपादानं स्वीकारः, स च प्रकृतेषु गुणेष्वस्तीति विवक्षोपचार इत्याह- तथाप्युपादानेनेति ।
नन्विदं ग्राह्यमिदं त्याज्यमिति धीर्विवक्षादीना वेदे कुतः स्यादित्यत आह- उपादानानुपादाने त्विति ।
तात्पर्यं नाम फलवदर्थप्रतित्यनुकूलत्वं शब्दधर्मः ।
उपक्रमादिना तस्य ज्ञानात्तयोरवगम इत्यर्थः ।
तदिहेति ।
तत् तस्मात् ।
तात्पर्यवत्त्वादित्यर्थः ।
सर्वात्मत्वे प्रमाणमाह- तथाचेति ।
जीर्णः स्थविरो यो दण्डेन वञ्चति गच्छति सो ऽपि त्वमेव ।
यो जातो बालः स त्वमेव ।
सर्वतः सर्वासु दिक्षु श्रुतयः श्रोत्राण्यस्येति सर्वतः श्रुतिमत् ।
सर्वजन्तूनां प्रसिद्वाः पाण्यादयस्तस्येति सर्वात्मत्वोक्तिः ॥2॥
एन्द् ब्स्र्प्_1,2.1.2
स्तर्त् ब्स्र्प्_1,2.1.3
अनुपपत्तेस् तु न शारीरः
ननु जीवधर्मश्चेब्रह्मणि योज्यन्ते तर्हि ब्रह्मधर्मा एव जीवे किमिति न योज्यन्ते, तत्राह- अनुपपत्तेरिति ।
सूत्रं व्याचष्टे- पूर्वेणेति ।
सर्वात्मत्वादिरूक्तन्यायः ।
कल्पितस्य धर्मा अधिष्ठाने संबध्यन्ते, नाधिष्ठानधर्माः कल्पित इति भावः ।
झ्रधिष्ठानज्ञानकाले कल्पितधर्माभावात् ।
टवागेव वाकः सो ऽस्यास्तीति वाकी, न वाकी अवाकी ।
अनिन्द्रिय इत्यर्थः ।
कुत्राप्यादरः कामो ऽस्य नास्तीत्यनादरः ।
नित्यतृप्त इत्यर्थः ।
ज्यायस्त्वाद्यनुपपत्तौ शारीर इति परिच्छेदो हेतुः सूत्रोक्तः ।
स तु जीवस्यैव नोश्वरस्येत्याह- सत्यमित्यादिना ॥ 3 ॥
एन्द् ब्स्र्प्_1,2.1.3
स्तर्त् ब्स्र्प्_1,2.1.4
कर्मकर्तृव्यपदेशाच् च
प्रापकत्वेन व्यपदिशतीति संबन्धः ।
कर्मकर्तृव्यपदेशपदस्यार्थान्तरमाह- तथोपास्येति ॥ 4 ॥
एन्द् ब्स्र्प्_1,2.1.4
स्तर्त् ब्स्र्प्_1,2.1.5
शब्दविशेषात्
एकार्थत्वं प्रकरणस्य समानत्वम् ।
अन्तरात्मन्निति विभक्तिलोपश्छान्दसः ।
शब्दयोर्विशेषो विभक्तिभेदः ।
तस्मात्तदर्थयोर्भेद इति सूत्रार्थः ॥5॥
एन्द् ब्स्र्प्_1,2.1.5
स्तर्त् ब्स्र्प्_1,2.1.6
स्मृतेश् च
स्मृतौ हृदिस्थस्य जीवाद्भेदोक्तेरन्नापि हृदिस्थो मनोमय ईश्वर इत्याह- स्मृतेश्चेति ।
भूतानि जीवान् ।
यन्त्रं शरीरम् ।
अत्र सूत्रकृता सत्यभेद उक्त इति भ्रान्तिनिरासायेक्षत्यधिकरणे निरस्तमपि चोद्यमुद्भाव्य निरस्यति- अत्राहेत्यादिना ।
त्वदुक्तरीत्या वस्तुत एकत्वमेव, भेदस्तु कल्पितः सूत्रेष्वनूद्यत इत्याह- सत्यमिति ॥6॥
एन्द् ब्स्र्प्_1,2.1.6
स्तर्त् ब्स्र्प्_1,2.1.7
अर्भकौस्त्वात् तद्व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च
अर्भकमोको यस्य सोर्ऽभकौकाः तस्य भावस्तत्त्वं तस्मादार्थिकमल्पत्वम् ।
अणीयानित्यल्पत्ववाचकशब्देनापि श्रुतमित्याह- स्वशब्देनेति ।
नायं दोष इत्युक्तं विवृणोति- न तावदिति ।
कथमपि ।
ब्रह्मभावपेक्षयापीत्यर्थः ।
परिचेछेदत्यागं विना ब्रह्मत्वासंभवात् तत्त्यागे च ब्रह्मण एवोपास्यत्वमायातीति भावः ।
विभोः परिच्छेदोक्तौ दृष्टान्तमाह- यथा समस्येति ।
सर्वेश्वरस्यायोध्यायां स्थित्यपेक्षया परिच्छेदोक्तिवदल्पहृदि ध्येयत्वेन तथोक्तिरित्यर्थः ।
ननु किमिति हृदयभेव प्रायेणोच्यते, तत्राह- तत्रेति ।
हृदये परमात्मनो बुद्विवृत्तिर्ग्रहिका भवति ।
अत ईश्वराभिव्यक्तिस्थानत्वात्तदुक्तिरित्यर्थः ।
व्योमदृष्टान्तासिना शङ्कालतापि काचिच्छिन्नेत्याह- तत्र यदाशङ्क्यत इत्यादिना ।
भिन्नायतनत्वे ऽपि व्योम्नः सत्यभेदाद्यभावादिति भावः ॥7॥
एन्द् ब्स्र्प्_1,2.1.7
स्तर्त् ब्स्र्प्_1,2.1.8
संभोगप्राप्तिर् इति चेन् न वैशेष्यात्
ब्रह्मणो हार्दत्वे ऽनिष्टसंभोगापत्तेर्जीव एव हार्द उपास्य इति शङ्कां व्याचष्टे- व्योमवदिति ।
ब्रह्म भोक्तृ स्यात, हार्दत्वे सति चेतनत्वात्, जीवाभिन्नत्वाच्च जीववदित्युक्तं निरस्यति- न ।
वैशेष्यादिति ।
धर्माधर्मवत्त्वमुपाधिरित्यर्थः ।
अयमेव विशेषो वैशेष्यं ।
स्वार्थे ष्यञ्प्रत्ययः ।
विशेषस्यातिशयार्थो वा ।
धर्मादेः स्वाश्रये फलहेतुत्वमतिशयः, तस्मादिति सूत्रार्थः ।
किञ्च विभवो बहव आत्मान इति वादिनामेकस्मिन्देहे सर्वात्मनां भोक्तृत्वप्रसङ्गः, स्वकर्मार्जित एव देहे भोग इति परिहारश्च तुल्य इति न वयं पर्यनुयोज्या इत्याह- सर्वगतेति ।
वस्तुतस्तेषामेव भोगसांकर्यमित्यग्रे वक्ष्यते ।
ब्रह्मणो जीवाभिन्नत्वं श्रुत्या निश्चित्य तेन भोक्तृत्वानुमाने उपजीव्यश्रुतिबाधमाह- यथाशास्त्रमिति ।
अर्थं मुखमात्रं जरत्या वृद्धायाः कामयते नाङ्गानीति सो ऽयमर्धजरतीयन्यायः ।
स चात्र न युक्तः ।
न ह्यभेदमङ्गीकृत्याभोक्तृत्वं त्यक्तुं युक्तं, श्रुत्यैवाभेद सिद्ध्यर्थं भोक्तृत्ववारणादित्याह- शास्त्रं चेति ।
नन्वेकत्वं मया श्रुत्या न गृहीतं, योनोपजीव्यबाधः स्यात् ।
किन्तु त्वदुक्त्या गृहीतमित्याशङ्क्य बिम्बप्रतिबिम्बयोः कल्पितभेदेन भोक्तृत्वाभोक्तृत्वव्यवस्थोपपत्तेरप्रयोजको हेतुरित्याह- अथागृहीतमित्यादिना ।
कल्पितासङ्गित्वमधिष्ठानस्य वैशेष्यमित्यस्मिन्नर्थे ऽपि सूत्रं पातयति- तदाहेति ।
ब्रह्मणो हार्दत्वे बाधकाभावच्छाण्डिल्यविद्यावाक्यं ब्रह्मण्युपास्ये समन्वितमिति सिद्वम् ॥8॥
एन्द् ब्स्र्प्_1,2.1.8
स्तर्त् ब्स्र्प्_1,2.2.9-10
अत्ता चराचरग्रहणात्
प्रकरणाच् च
अत्ताचराचरग्रहणात् ।
ऽयस्य ब्रह्मक्षत्रादिजगदोदनः, मृत्युः सर्वप्राणिमारको ऽपि यस्योपसेचनमोदनसंस्कारकघृतप्रायः, सो ऽत्ता यत्र शुद्धे चिन्मात्रे ऽभेदकल्पनया वर्तते तच्छुद्वं ब्रह्म इत्था इत्थं ईश्वरस्याप्यधिष्ठानभूतं को वेद ।
चित्तशुद्धाद्युपायं विना को ऽपि न जानातीत्यर्थः ।
संशयबीजमाह- विशेषेति ।
ऽस त्वमग्नि प्रब्रूहिऽइत्यग्नेः, ऽयेयं प्रेते विचिकित्साऽइति जीवस्य, ऽअन्यत्र धर्मात्ऽइति ब्रह्मणः प्रश्नः ।
ऽलोकादिमग्निं तमुवाचऽइत्यग्नेः ।
ऽहन्त त इदं प्रवक्ष्यामिऽइतीतरयोः प्रतिवचनमुपलभ्यत इत्यर्थः ।
पूर्वत्र ब्रह्मणो भोक्तृत्वं नास्तीत्युक्तं, तदुपजीव्य पूर्वपक्षयति- किं तावदिति ।
अग्निप्रकरणमतीतमित्यरुचेराह- जीवो वेति ।
पूर्वपक्षे जीवोपास्ति:,सिद्वान्ते निर्विशेषब्रह्मज्ञानमिति फलभेदः ।
ओदनशब्दो भोग्यवाचीति पूर्वपक्षः ।
सिद्वान्तस्तु ब्रह्मक्षत्रशबेदैरूपस्थापितकार्यमात्रे गौण ओदनशब्दः ।
गुणश्चात्र मृत्यूपसेचनपदेन संनिधापितं प्रसिद्वौदनगतं विनाश्यत्वं गृह्यते, गौणशब्दस्य संनिहितगुणग्राहित्वात् ।
तथाच सर्वस्य विनाश्यत्वेन भानाल्लिङ्गादीश्वरो ऽत्तेत्याह नैष दोष इति ।
तस्य संनिहितत्वादिति ।
ऽपिप्पलं स्वाद्वत्तिऽइति भोगस्य पूर्वोक्तत्वादित्यर्थः ॥9 ॥ ॥10॥
एन्द् ब्स्र्प्_1,2.2.9-10
स्तर्त् ब्स्र्प्_1,2.3.11
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्
अत्तृवाक्यानन्तरवाक्यस्यापि ज्ञेयात्मनि समन्वयमाह- गुहामिति ।
ऋतमवश्यंभावि कर्मफलं पिबन्तौ भुञ्जानौ, सुकृतस्य कर्मणो लोके कार्ये देहे परस्य ब्रह्मणोर्ऽधं स्थानमर्हतीति परार्धं हृदयं परमं श्रेष्ठं तस्मिन्या गुहा नभोरूपा वुद्विरूपा वा तां प्रविश्य स्थितौ छायातपवत् मिथो विरुद्वौ तौ ब्रह्मविदः कर्मिणश्च वदन्ति ।
त्रिर्नाचिकेतो ऽग्निश्चितो यैस्ते त्रिणाचिकेताः ते ऽपि वदन्तीत्यर्थः ।
नाचिकेतवाक्यानामध्ययनं, तदर्थज्ञानं, तदनुष्ठानं चेति त्रित्वं बोध्यम् ।
बुद्ध्यवच्छिन्नजीवस्य परमात्मनश्च प्रकृतत्वात्संशयमाह- तत्रेति ।
पूर्वोत्तरपक्षयोः फलं स्वयमेवाह- यदीत्यादिना ।
तदपि जीवस्य बुद्विवैलक्षण्यमपीत्यर्थः ।
मनुष्ये प्रेते मृते सति येयं विचिकित्सा संशयः परलोके भोक्तास्तीत्येके, नास्तीत्यन्ये ।
अतस्त्वयोपदिष्टो ऽहमेतदात्मतत्त्वं जानीयामित्यर्थः ।
तदपि परमात्मस्वरूपमपीत्यर्थः ।
उभयोर्भोक्तृत्वायोगेन संशयमाक्षिपति- अत्राहेति ।
छत्रिपदेन गन्तार इव पिबत्पदेनाजहल्लक्षणया प्रविष्टावुच्येते इत्याह- अत्रोच्यत इति ।
पानकर्तृवाचिपदेन पानानुकूलौ वा लक्ष्यावित्याह- यद्वेति ।
नियतपूर्वभाविकृतिमत्त्वरूपमनुकूलत्वं कर्तृकारयित्रोः साधारणम् ।
यः कारयति स करोत्येवेति न्यायादिति भावः ।
अत्र प्रकृतिर्मुख्यार्था शतृप्रत्यये लक्षणा ।
मिश्रास्तु कृतिः, प्रत्ययार्थो मुख्यः ।
प्रकृत्या त्वजहल्लक्षणया पायनं लक्ष्यमित्याहुः ।
पूर्वपक्षे ऽपिबन्तौऽइति कर्तृवाचिशतृप्रत्ययेन बुद्धिजीवसाधारणं कारकत्वं लक्ष्यमित्याह- बुद्वीति ।
एधांसि काष्ठानि पचन्तीत्याख्यातेन कारकत्वं लक्ष्यं, प्रकृतिस्तु मुख्यैवेति भावः ।
मुख्यपातारौ प्रसिद्वपक्षिणौ ग्राह्यावित्यत आह- न चेति ।
ब्रह्मक्षत्रपदस्य संनिहितमृत्युपदादनित्यवस्तुपरत्ववदिहापि पिबत्पदस्य संनिहितगुहापदाहुद्विजीवपरतेति दृष्टान्तेन पूर्वपक्षयति- किं तावदिति ।
गोचरः फलम् ।
एकस्मिञ्जातिमति कॢप्ते सजातीयमेव द्वितीयं ग्राह्यं, व्यक्तिमात्रग्रहे लाघवात् ।
न विजातीयं, जातिव्यक्त्युभयकल्पनागौरवात् ।
न चास्तु कारकत्वेन सजातीया बुद्विरेव जीवस्य द्वितीयेति वाच्यं, चेतनत्वस्य जीवस्वभावस्य कारकत्वादन्तरङ्गत्वात् ।
तथाच लोके द्वितीयस्यान्तरङ्गजातिमत्त्वदर्शनाज्जीवस्य द्वितीयश्चेतन एवेति सूत्रार्थमाह- संख्याश्रवणे चेति ।
गुहायां बुद्वौ स्थितं, गह्वरे ऽनेकानर्थसंकुले देहे स्थितं पुराणमनादिपुरुषं विदित्वा हर्षशोकौ जहाति ।
परमे श्रेष्ठे, व्योमन् हार्दाकाशे या गुहा बुद्धिः तस्यां निहितं ब्रह्म यो वेद सो ऽश्नुते सर्वान्कामानित्यन्वयः ।
अन्विच्छ विचारयेत्यर्थः ॥11॥
एन्द् ब्स्र्प्_1,2.3.11
स्तर्त् ब्स्र्प्_1,2.3.12
विशेषणाच् च
विशेषणं गन्तृगन्तव्यत्वादिकं लिङ्गमाह- विशेषणाच्चेति ।
स जीवो ऽध्वनः संसारमार्गस्य परमं पारं, किं तत्, विष्णोर्व्यापनशीलस्य परमात्मनः पदं स्वरूपमाप्नोतीत्यर्थः ।
दुर्दर्शं दुर्ज्ञानं, तत्र हेतुर्गूढं मायावृतं मायानुप्रविष्टं पश्चाद्गुहाहितं गुहाद्वारा गह्वरेष्ठं, एवं बहिरागतमात्मानं,
अध्यात्मयोगः स्थूलसूक्ष्मकारणदेहलयक्रमेण प्रत्यगात्मनि चित्तसमाधानं तेनाधिगमो महावाक्यजा वृत्तिस्तया विदित्वेत्यर्थः ।
ऋतपानमत्रे जीवानुवादेन वाक्यार्थज्ञानाय तत्पदार्थो ब्रह्म प्रतिपाद्यत इत्युपसंहरति- तस्मादिहेति ।
उक्तन्यायमतिदिशति- एष इति ।
द्वा द्वौ ।
छान्दसो द्विवचनस्याकारः ।
सुपर्णाविव सहैव युज्येते नियम्यनियामकभावेनेति सयुजौ ।
सखायौ चेतनत्वेन तुल्यस्वभावौ ।
समानमेकं वृक्षं छेदनयोग्यं शरीरमाश्रित्य स्थितावित्यर्थः ।
गुहां प्रविष्टाविति यावत् ।
एतावात्मनौ, तल्लिङ्गदर्शनादित्याह- तयोरन्य इति ।
विशेषणाच्चेत्याह- अनन्तरे चेति ।
अनीशया स्वस्येश्वरत्वाप्रतीत्या देहे निमग्नः पुरुषो जीवः शोचति ।
निमग्नपदार्थमाह- मुह्यमान इति ।
नरो ऽहमिति भ्रान्त इत्यर्थः ।
जुष्टं ध्यानादिना सेवितं यदा ध्यानपरिपाकदशायामीशमन्यं विशिष्टरूपाद्भिन्नं शोधितचिन्मात्रं प्रत्यक्त्वेन पश्यति तदास्य महिमानं स्वरूपमेति प्राप्नोतीव ।
ततो वीतशोको भवतीत्यर्थः ।
ऽद्वा सुपर्णाऽइति वाक्यं जीवेश्वरपरं कृत्वा चिन्तितम् ।
अधुनाकृत्वाचिन्तामुद्धाटयति- अपर इति ।
अन्यथा बुद्धिविलक्षणत्वं पदलक्ष्यपरत्वेनेत्यर्थः ।
सत्त्वं बुद्धिरिति शङ्कते- सत्त्वशब्द इति ।
बुद्धिजीवौ चेत्पूर्वपक्षार्थः स्यादित्यत आह नापीति ।
पूर्वपक्षार्थस्तदा स्यात्, यद्यत्र बुद्धिभिन्नः संसारी प्रतिपद्येत ।
नह्यत्र संसारी विविक्ष्यते किन्तु शोधितस्त्वमर्थो ब्रह्मेत्यर्थः ।
श्रुतिस्मृतिभ्यश्चायमर्थो युक्त इति शेषः ।
तावता मत्रव्याख्यामात्रेण ।
एवमेव जीवस्य ब्रह्मात्वोक्तावेव ।
नाहि जीवो बुद्धिभिन्न इति विवेकमात्रेणोपसंहारो युक्तः ।
भेदज्ञानस्य भ्रन्तित्वाद्वैफल्याच्चेति भावः ।
अविद्या विदुषि किमपि स्वकार्यं नाध्वंसते न संपादयति, ज्ञानाग्निना स्वस्या एव दग्धत्वादित्यर्थः ।
अविद्या नागच्छतीति वार्थः ।
जीवस्य ब्रह्मत्वपरमिदं वाक्यमिति पक्षे शङ्कते- कथमिति ।
बुद्धोर्भौक्तृत्वोक्तावतात्पर्यान्नात्र युक्तिचिन्तया मनः खेदनीयमित्याह- उच्यत इति ।
तदर्थं ब्रह्मत्वभोधनार्थं भोक्तृत्वमुपाधिमस्तके निक्षिपतीत्यर्थः ।
वस्तुतो जीवस्याभोक्तृत्वे भोक्तृत्वधीः कथमित्यत आह- इदं हीति ।
चित्तादात्म्येन कल्पिता बुद्धिः सुखादिरूपेण परिणमते ।
बुद्ध्यविवेकाचिदात्मनः सुखादिरूपवृत्तिव्यक्तचैतन्यवत्त्वं भोक्तृत्वं भातीत्यर्थः ।
भोक्तृत्वमाविद्यकं, न वस्तुत इत्यत्र मानमाह- तथाचेति ।
यत्राविद्याकाले चैतन्यं भिन्नमिव भवति तदा ।
द्रष्टृत्वादिकं न वस्तुनि ज्ञात इत्यर्थः ।
तस्मात् ऽऋतं पिबन्तौऽइति वाक्यमेव गुहाधिकरणविषय इति स्थितम् ॥12॥
एन्द् ब्स्र्प्_1,2.3.12
स्तर्त् ब्स्र्प्_1,2.4.13
अन्तर उपपत्तेः
अन्तर उपपत्तेः ।
उपकोसलविद्यावाक्यमुदाहरति- य इति ।
तदक्षिस्थानमसङ्गत्वेन ब्रह्मणो ऽनुरूपं यतो ऽस्मिन्क्षिप्तं वर्त्मनी पक्ष्मणी एव गच्छतीत्यर्थः ।
दर्शनस्य लौकिकत्वशास्त्रीयत्वाभ्यां संशयमाह- तत्रेति ।
पूर्वं ऽपिबन्तौऽइति प्रथमश्रुतचेतनत्वानुसारेण चरमश्रुता गुहाप्रवेशादयो नीताः, तद्वदिहापि दृश्यत इति चाक्षुषत्वानुसारेणमृतत्वादयो ध्यानार्थं कल्पितत्वेन नेया इति दृष्टान्तेन पूर्वपक्षयति- छायात्मेति ।
पूर्वपक्षे प्रतिबिम्बोपास्तिः, सिद्वान्ते ब्रह्मोपास्तिरिति फलम् ।
प्रसिद्ववदिति ।
चाक्षुषत्वेनेत्यर्थः ।
संभावनामात्रेण पक्षन्तरमाह- विज्ञानात्मन इत्यादिना ।
ऽमनो ब्रह्मऽइतिवत्, ऽएतद्ब्रह्मेतिऽइति वाक्यस्येतिपदशिरस्कत्वान्न स्वार्थपरत्वमिति पूर्वपक्षः ।
ऽमनो ब्रह्मेत्युपासीतऽइत्यत्र इतिपदस्य प्रत्ययपरत्वात्, इह च ब्रह्मेत्युवाचेत्यन्वयेन इतिपदस्योक्तिसंबन्धिनोर्ऽथपरत्वाद्वैषम्यमिति सिद्वान्तयति- परमेश्वर एवेति ।
बहुप्रमाणसंवादस्तात्पर्यानुग्राहक इति न्यायानुगृहीताभ्यामात्मब्रह्मश्रुतिभ्यां दृश्यलिङ्गं बाध्यमित्याह- संयद्वामेति ।
वामानि कर्मफलान्येतमक्षिपुरुषमभिलक्ष्य संयन्ति उत्पद्यन्ते ।
सर्वफलोदयहेतुरित्यर्थः ।
लोकानां फलदाताप्ययमेवेत्याह- वामनीरिति ।
नयति फलानि लोकान्प्रापयतीत्यर्थः ।
भामानि भानानि नयत्ययमित्याह- भामनीरिति ।
सर्वार्थप्रकाशक इत्यर्थः ॥13॥
एन्द् ब्स्र्प्_1,2.4.13
स्तर्त् ब्स्र्प्_1,2.4.14
स्थानादिव्यपदेशाच् च
स्थाननामरूपाणां ध्यानार्थं श्रुत्यन्तरे ऽप्युपदेशादक्षिस्थानत्वोक्तिरत्र न दोष इति सूत्रयोजना ।
अनवकॢप्तिः अकॢप्तकल्पना तदा भवेत्, यद्यत्रैव निर्दिष्टं भवेदित्यन्वयः ।
नन्वनुचितबाहुल्योक्तिरसमाधानमित्याशङ्क्य युक्तिमाह- निर्गुणमपीति ॥14॥
एन्द् ब्स्र्प्_1,2.4.14
स्तर्त् ब्स्र्प्_1,2.4.15
सुखविशिष्टाभिधानाद् एव च
प्रकरणादपि ब्रह्म ग्राह्यमित्याह- सुखविशिष्टेति ।
ध्यानार्थं भेदकल्पनया सुखगुणविशिष्टस्य ब्रह्मणः प्रकृतस्य य एष इति सर्वनाम्नाभिधानादन्तरः परमात्मा स्यादिति सूत्रार्थः ।
ननु प्रकरणात्प्रबलेन दृश्यत्वलिङ्गेनोपस्थापितश्छायात्मा सर्वनामार्थ इत्यत आह- आचार्यस्त्विति ।
उपकोसलो नाम कश्चिद्ब्रह्मचारि जाबालस्याचार्यस्याग्नीन्द्वादशवत्सरान्परिचचार ।
तमनुपदिशय देशान्तरगते जाबाले गार्हपत्याद्यग्निभिर्दयया ऽप्राणो ब्रह्मऽइत्यात्मविद्यामुपदिश्योक्तम्- आचार्यस्त्विति ।
तवात्मविद्याफलावाप्तये मार्गमर्चिरादिकं वदिष्यतीत्यर्थः ।
पश्चादाचार्येणागत्य ऽय एषो ऽक्षिणिऽइत्युक्तार्चिरादिका गतिरुक्ता ।
तथा चाग्निभिरुक्तात्मविद्यावाक्यस्य गतिवाक्येनैकवाक्यता वाच्या, सा च सर्वनाम्ना प्रकृतात्मग्रहे निर्वहतीत्येकवाक्यतानिर्वाहकं प्रकरणं वाक्यभेदकाल्लिङ्गद्बलवदिति भावः ।
श्रुतिं व्यचष्टे- उच्यत इति ।
प्राणश्च सूत्रात्मा बृहत्त्वाद्ब्रह्मेति यत्तज्जानामि, कं विषयसुखं खं च भूताकाशं ब्रह्मत्वेन ज्ञातुं न शक्नोमीत्यर्थः ।
खं कथंभूतं, यत्कं तदेव खमिति सुखेन विशेषितस्य खस्य भूतत्वनिरासः ।
तथा कं कथंभूतं, यत्खं तदेव कमिति विभुत्वेन विशेषितस्य कस्य जन्यत्वनिरास इति व्यतिरेकमुखेनाह- तत्र खमित्यादिना ।
ऽआत्मविद्याऽइति श्रुतिविरोधात्प्रतीकध्यानमत्रानिष्टमिति भावः ।
सामय इति ।
आमयो दोषः साधनपारतन्त्रयानित्यत्वादिः, तत्सहित इत्यर्थः ।
प्रत्येकग्रहणे दोषमुक्त्वा द्वयोर्ग्रहणे फलितमाह- इतरेतरेति ।
विशेषितार्थकावित्यर्थः ।
नन्वेकं ब्रह्मैवात्र ध्येयं चेद्ब्रह्मपदान्तरं किमर्थमित्यत आह- तत्रेति ।
विशेषणत्वेन खस्य भूतत्वव्यावर्तकत्वेनेत्यर्थः ।
ब्रह्मशब्दः शिरो ययोस्तत्त्वमिति विग्रहः ।
अध्येयत्वे को दोषः, तत्राह- इष्टं हीति ।
मार्गोक्त्या सुगुणविद्यात्वावगमादिति भावः ।
आत्मविद्यापदेनोपसंहारादपि प्रकृतं ब्रह्मेत्याह- प्रत्येकं चेति ।
पृथिव्यग्निरन्नमादित्य इति मम चतस्रस्तनवो विभूतिरिति गार्हपत्य उपदिदेश ।
आपो दिशो नक्षत्राणि चन्द्रमा इत्यन्वाहार्यपचन उवाच ।
प्राण आकाशो द्यौर्विद्युदिति स्वमहिमानमाहवनीयो जगादेति विभागः ।
इयमस्माकमग्नीनां विद्या प्रत्येकमुक्ता ।
आत्मविद्या तु पूर्वमस्माभिर्मिलित्वा ऽप्राणो ब्रह्मऽइत्युक्तेत्यर्थः ।
उच्यतामग्निभिर्ब्रह्म, छायात्मा गुरुणोच्यतां वक्तृभेदादिति तत्राह- आचार्यस्त्विति ।
एकवाक्यतानिश्चयाद्वक्तृभेदे ऽपि नार्थभेद इत्यर्थः ॥15॥
एन्द् ब्स्र्प्_1,2.4.15
स्तर्त् ब्स्र्प्_1,2.4.16
श्रुतोपनिषत्कगत्यभिधानाच् च
श्रुता अनुष्ठिता उपनिषत् रहस्यं सगुणब्रह्मोपासनं येन तस्य या गतिः श्रुतौ स्मृतौ च प्रसिद्वा तस्या अत्राभिधानाल्लिङ्गदिति सूत्रार्थमाह- इतश्चेति ।
यस्मादृश्यते तत्तस्मादिहेत्यन्वयः ।
श्रुतिमाह- अथेति ।
देहपातानन्तरमित्यर्थः ।
स्वधर्मस्तपः तपोब्रह्मचर्यश्रद्धाविद्याभिरात्मानं ध्यात्वा तया ध्यानविद्ययोत्तरं देवयानमार्गं प्राप्यते नोत्तरेण पथा ।
आदित्यद्वारा सगुणब्रह्मस्थानं गच्छन्ति, एतद्वै ब्रह्म प्राणानां व्यष्टिसमष्टिरूपाणामायतनं लिङ्गात्मकं हिरण्यगर्भरूपं, वस्तुतस्त्वेतदमृतादिरूपं निर्गुणं सर्वाधिष्ठानम् ।
अतः कार्यं ब्रह्म प्राप्य तत्स्वरूपं निर्गुणं ज्ञात्वा मुच्यन्त इत्यर्थः ।
अग्निरेव ज्योतिर्देवता एवमहराद्या देवता एव स्मृतावुक्ताः ।
अस्मिन्नुपासके मृते सति यदि पुत्रादयः शव्यं शवसंस्कारादिकं कुर्वन्ति यदि च न कुर्वन्ति उभयथाप्युपास्तिमहिम्ना अर्चिरादिदेवान्क्रमेण गच्छन्ति ।
आर्चिषमग्निं, ततो ऽहः, अह्नः शुक्लपक्षं, तत्र उत्तरायणं, तस्मात्संवत्सरं, ततो देवलोकं, ततो वायुं, वायोरादित्यं, ततश्चन्द्रं, चन्द्राद्विद्युतं गत्वा तत्र विद्युल्लोके स्थितानुपासकानमानवः पुरुषो ब्रह्मलोकादागत्य कार्यं ब्रह्मलोकं प्रापयति ।
एषो ऽर्चिरादिभिर्देवैर्विशिष्टो देवपथो गन्तव्येन ब्रह्मणा योगाद्ब्रह्मपथश्च ।
त एतत्कार्यं ब्रह्म प्रतिपद्यमाना उपासका इमं मानवं मनोः सर्गं आवर्तं जन्ममरणावृत्तियुक्तं नावर्तन्ते नागच्छन्तीत्यर्थः ॥16॥
एन्द् ब्स्र्प्_1,2.4.16
स्तर्त् ब्स्र्प्_1,2.4.17
अनवस्थितेर् असंभवाच् च नेतरः
चक्षुरासीदतीति ।
उपगच्छतीत्यर्थः ।
अनवस्थितस्योपास्यत्वं सदा न सिद्यतीति भावः ।
किञ्चाव्यवधानात्स्वाक्षिस्थ उपास्यः ।
नच तस्य स्वचक्षुषा दर्शनं संभवतीत्याह- य एष इति ।
अस्तु तर्हि परेण दृश्यमानस्योपास्तिरित्यत आह- नचेति ।
कल्पनागौरवादित्यर्थः ।
युक्तिसिद्धानवस्थितत्वे श्रुतिमाह- अस्येति ।
छायाकरस्य बिम्बस्य नाशमदर्शनमनुसृत्यैष छायात्मा नश्यतीत्यर्थः ।
जीवं निरस्यति- तथेति ।
जात्यन्धस्याप्यहमित्यविशेषण जीवस्याभिव्यक्तेश्चक्षुरेव स्थानमित्ययुक्तमित्यर्थः ।
दृष्ट इति ।
श्रुताविति शेषः ।
ननु ऽचक्षोः सूर्यो अजायतऽऽसूर्यो ऽस्तमेतिऽइति वाक्यं अमरा देवा इति प्रसिद्धिबाधितमित्याशङ्क्याह- अमरत्वमपीति ।
भीषा भयेनास्मादीश्वराद्वायुश्चलति ।
अग्निश्चेन्द्रश्च स्वस्वकार्यं कुरुतः ।
उक्तापेक्षया पञ्चमो मृत्युः समाप्तायुषां निकटे धावतीत्यर्थः ।
ईश्वरपक्षे दृश्यत इत्युक्तं, तत्राह- अस्मिन्निति ।
दर्शनमनुभवः ।
तस्यशास्त्रे श्रुतस्य शास्त्रमेव करणं कल्प्यं, संनिधानात् ।
तथाच शास्त्रकरणको विद्वदनुभव उपासनास्तुत्यर्थ उच्यत इत्यर्थः ।
तस्मादुपकोसलविद्यावाक्यमुपास्ये ब्रह्मणि समन्वितमिति सिद्धम् ॥17॥
एन्द् ब्स्र्प्_1,2.4.17
स्तर्त् ब्स्र्प्_1,2.5.18
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ।
बृहदारण्यकवाक्यमुदाहरति- य इति ।
अन्तर्यामिब्रह्मणे प्रतीयमानार्थमाह- अत्रेति ।
ऽयः पृथिव्याम्ऽइत्यादिना देवताः पृथिव्याद्या अधिकृत्य यमयिता श्रूयते ।
तथा ऽयः सर्वेषु लोकेषुऽइत्यधिलोकं, ऽयः सर्वेषु वेदेषुऽइत्यधिवेदं, ऽयः सर्वेषु यज्ञेषुऽइत्यधियज्ञं, ऽयः सर्वेषु भूतेषुऽइत्यधिभूतं, ऽयः प्राणे तिष्ठन्ऽइत्यादि ऽय आत्मानिऽइत्यन्तमध्यात्मं चेति विभागः ।
अशरीरस्य नियन्तृत्वसंभवासंभवाभ्यां संशयः ।
पूर्वत्रेश्वरस्याक्षिस्थानत्वसिद्धये पृथिव्यादिस्थाननिर्देशो दृष्टान्त उक्तः, तस्य दृष्टान्तवाक्यस्येश्वरपरत्वमत्राक्षिप्य समाधीयत इत्याक्षेपसंगतिः ।
अतः पूर्वफलेनास्य पलवत्त्वम् ।
अवान्तरफलं तु पूर्वपक्षे अनीश्वरोपास्तिः, सिद्वान्ते प्रत्यग्ब्रह्मज्ञानमिति मन्तव्यम् ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह- अथवेति ।
अनिश्चितार्थे फलाभावेनाफलस्य वेदार्थत्वायोगादिति भावः ।
तथाच श्रूयते वेदे ।
पृथिवी यस्य देवस्यायतनं शरीरं, लोक्यते ऽनेनेति लोकश्चक्षुः, ज्योतिः सर्वार्थप्रकाशकं मन इत्यर्थः ।
उपक्रमादिनान्तर्याम्यैक्यनिश्चयादनेकदेवपक्षो न युक्त इत्यरुचेराह- योगिनो वेति ।
आगन्तुकसिद्धस्यान्तर्यामित्वे ऽप्रसिद्धसाधनकल्पनागौरवान्नित्यसिद्ध एवान्तर्यामीति सिद्धान्तयति- एवं प्राप्त इति ।
देवतानिरासे हेत्वन्तरमाह- यं पृथिवीति ।
ईश्वरो न नियन्ता, अशरीरत्वात्, घटवदियुक्तं निरस्यति- नैष दोष इति ।
नियम्यातिरिक्तशरीरशून्यत्वं वा हेतुः, शरीरासंबन्धित्वं वा ।
आध्ये, स्वदेहनियन्तरि जीवे व्यभिचारः ।
द्वितीयस्त्वसिद्धः, ईश्वरस्य स्वाविद्योपार्जितसर्वसंबन्धित्वादित्याह- यान्नियच्छतीति ।
सशरीरो नियन्तेतिलोकदृष्टिमनुसृत्यैतदुक्तम् ।
वस्तुतस्तु चेतनसांनिध्याज्जडस्य व्यापारो नियमनं तच्छक्तिमत्त्वं नियन्तृत्वं ।
तच्चाचिन्त्यमायाशक्तेश्चिदात्मनः शरीरं विनैवोपपन्नं ।
ननु देहनियन्तुर्जीवस्यान्यो नियन्ता चेत्तस्याप्यन्य इत्यनवस्थेत्यत आह- तस्यापीति ।
निरङ्कुशं सर्वनियन्तृत्वमीश्वरस्य श्रुतं, तस्य नियन्त्रन्तरानुमाने श्रुतिबाध दति नानवस्थेत्यर्थः ।
यद्वा ईश्वराद्भेदकल्पनया जीवस्य नियन्तृत्वोक्तेः सत्यभेदाभावान्नानवस्थेत्यर्थः ॥18॥
एन्द् ब्स्र्प्_1,2.5.18
स्तर्त् ब्स्र्प्_1,2.5.19
न च स्मार्तम् अतद्धर्माभिलापात्
प्रधानं महदादिक्रमेण कथं प्रवर्तत इति तर्कस्याविषय इत्याह- अप्रतर्क्यमिति ।
रूपादिहीनत्वादविज्ञेयं, सर्वतो दिक्षु प्रसुप्तमिव तिष्ठति जडत्वादित्यर्थः ।
अतत् अप्रधानं चेतनं, तस्य धर्माणामभिधानादिति हेत्वर्थः ॥19॥
एन्द् ब्स्र्प्_1,2.5.19
स्तर्त् ब्स्र्प्_1,2.5.20
शरीरश् चोभये ऽपि हि भेदेनैनम् अधीयते
अत्तरसूत्रनिरस्याशङ्कामाह- यदि प्रधानमित्यादिना ।
अमृतश्चेति ।
विनाशिनो देहान्तरभोगानुपपत्तेरित्यर्थः ।
यथा देवदत्तकर्तृकगमनक्रियाया ग्रामः कर्म न देवदत्तः, तथात्मकर्तृकदर्शनादिक्रियाया अनात्मा विषयः न त्वात्मा, क्रियायाः कर्तृविषयत्वायोगादित्याह- कर्तरीति ।
क्रियायां गुणः कर्ता, प्रधानं कर्म, तत्रैकस्यां क्रियायामेकस्य गुणत्वप्रधानत्वयोर्विरोधान्न कर्तुः कर्मत्वमित्यर्थः ।
दृष्टेर्द्रष्टारमात्मानं तया दृश्यया दृष्ट्या न विषयीकुर्या इत्यादिश्रुतेश्चादृष्टत्वादिधर्माः शारीरस्येत्याह- नेति ।
अपिशब्दसूचितं हेतुमुक्त्वा कण्ठोक्तं हेतुमाह- अपि चोभये ऽपीति ।
भेदेनेति सूत्रात्तात्त्विकभेदभ्रान्तिं निरसितुं शङ्कते- कथमिति ।
नन्वत्रैको भोक्ता जीवः, ईश्वरस्त्वभोक्तेति न विरोध इति शङ्कते- का पुनरिति ।
तयोर्भेदः श्रुतिविरुद्ध इति पूर्ववाद्याह- नान्य इति ।
स एव श्रुत्यर्थमाह- अत्रेति ।
श्रुतेरर्थान्तरमाशङ्क्य निषेधति- नियन्त्रन्तरेत्यादिना ।
न केवलमप्रसक्तप्रतिषेधः, किन्त्वविशेषेण द्रष्ट्रन्तरनिषेधश्रुतेरन्तर्याम्यन्तरनिषेधार्थत्वे बाधश्चेत्याह- अविशेषेति ।
तस्मात्सूत्रे, ऽय आत्मानि तिष्ठन्ऽइति श्रुतौ च द्रष्टृभेदोक्तिरयुक्ता, ऽनान्यःऽइति वाक्यशेषे भेदनिरासादिति प्राप्ते, भेद उपाधिकल्पितः श्रुतिसूत्राभ्यामनूद्यत इति समाधत्ते- अत्रोच्यत इति ।
भेदः सत्यः किं न स्यादत आह- एको हीति ।
गौरवेण द्वयोरहन्धीगोचरत्वासंभावदेक एव तद्गोचरः ।
तद्गोचरस्य घटवदनात्मत्वान्नात्मभेदः सत्य इत्यर्थः ।
ततश्चेति ।
कल्पितभेदाङ्गीकाराद्भेदापेक्षं सर्वं युज्यत इत्यर्थः ।
तस्मादन्तर्यामिब्राह्मणं ज्ञेये ब्रह्मणि समन्वितमिति सिद्धम् ॥20॥
एन्द् ब्स्र्प्_1,2.5.20
स्तर्त् ब्स्र्प्_1,2.6.21
अदृश्यत्वादिगुणको धर्मोक्तेः
अदृश्यत्वादिगुणको धर्मोक्तेः ।
मुण्डकवाक्यमुदाहरति- अथेति ।
कर्म विद्यारूपापरविद्योक्त्यनन्तरं यया निर्गुणं ज्ञायते परा सोच्यते ।
तामैव विषयोक्त्या निर्दिशति- यत्तदिति ।
अद्रेश्यं अदृश्यं ज्ञानेन्द्रियैः, अग्राह्यं कर्मेन्द्रियैः, गोत्रं वंशः, वर्णो ब्राह्मणत्वादिजातिः, चक्षुःश्रोत्रशून्यमचक्षुःश्रोत्रं, पाणिपादशून्यमपाणिपादं, ज्ञानकर्मेन्द्रियविकलमित्यर्थः ।
विभुं प्रभुं, सुसूक्ष्मं दुर्ज्ञेयत्वात् ।
नित्याव्ययपदाभ्यां नाशापक्षययोर्निरासः ।
भूतानां योनिं प्रकृतिं यत्पश्यन्ति धीराः पण्डितास्तदक्षरं तद्विद्या परेत्यन्वयः ।
अद्रेश्यत्वादिगुणानां ब्रह्मप्रधानसाधारणत्वात्संशयः ।
पूर्ववद्रष्टृत्वादीनां चेतनधर्माणामत्राश्रुतेरस्तु प्रधानमिति प्रत्युदाहरणेन पूर्वपक्षयति- तत्रेति ।
पूर्वपक्षे प्रधानाद्युपास्तिः, सिद्वान्ते निर्गुणधीरिति फलम् ।
ऊर्णनाभिर्लूताकीटः तन्तून्स्वदेहात्सृजति, उपसंहरति चेत्यर्थः ।
सतो जीवतः ।
ननु पूर्वं निरस्तं प्रधानं कथमुत्थाप्यते, तत्राह- अपिचेति ।
अत्र प्रधाने विरुध्यमानो ऽसंभावितो वाक्यशेषः श्रुत इति शङ्कते- ननु य इति ।
पञ्चम्यन्ताक्षरश्रुत्या भूतप्रकृतेः प्रत्यभिज्ञानात्प्रथमान्तपरशब्दोक्तस्य जगन्निमित्तेश्वरस्य सर्वज्ञत्वादिकमित्याह- अत्रोच्यत इति ।
ऽसंदिग्धे तु वाक्यशेषात्ऽइति न्यायेन सिद्धान्तयति- एवं प्राप्त इति ।
चेतनाचेतनत्वेन संदिग्धे भूतयोनौ ऽयः सर्वज्ञःऽइति वाक्यशेषादीश्वरत्वनिर्णय इत्ययुक्तं, वाक्यशेषे भूतयोनेः प्रत्यभिज्ञापकाभावादिति शङ्कते- नन्विति ।
ऽजनिकर्तृः प्रकृतिःऽइति सूत्रेण प्रकृतेरपादानसंज्ञायां पञ्चमीस्मरणादक्षरात्संभवतीति प्रकृतित्वेनोक्ताक्षरस्य भूतयोनिर्वाक्यशेषे तस्मादिति प्रकृतित्वलिङ्गेन प्रत्यभिज्ञानमस्तीति समाधत्ते- अत्रोच्यत इति ।
एतत्कार्यं ब्रह्म सूक्ष्मात्मकं नाम रूपं, स्थूलं ततो ऽन्नं व्रीह्यादीत्यर्थः ।
यदुक्तं पञ्चम्यन्ताक्षरश्रुत्या भूतयोनेः प्रत्यभिज्ञानदचेतनत्वमिति, तत्राह- अक्षरात्परत इति ।
नायमक्षरशब्दो भूतयोनिं परामृशति, परविद्याधिगम्यत्वेनोक्तस्याक्षरस्य भूतयोनेः ऽअक्षरं पुरुषं वेदाऽइत्यक्षरश्रुत्या वेद्यत्वलिङ्गवत्या पूर्वमेव ब्रह्मत्वेन परामर्शादित्याह- येनेति ।
येन ज्ञानेनाक्षरं भूतयोनिं सर्वज्ञं पुरुषं वेद तां ब्रह्मविद्यां योग्याय शिष्याय प्रब्रूयादित्युपक्रम्य ऽअप्राणो ह्यमनाः शुभ्रःऽ ऽअक्षरात्परतः परःऽइत्युच्यमानः परो भूतयोनिरिति गम्यत इत्यर्थः ।
तर्हि पञ्चम्यन्ताक्षरशब्दार्थः क इत्याशङ्क्याज्ञानमिति वक्ष्यत इत्याह- कथमिति ।
परविद्येति समाख्ययापि तद्विषयस्य ब्रह्मत्वमित्याह- अपिचेति ।
ननु प्रधानविद्यापि कारणविषयत्वात्परेत्यत आह- परापरविभागो इति ।
अनित्यफलत्वेनापरविद्यां निन्दित्वा मुक्त्यर्थिने ब्रह्मविद्यां प्रोवाचेति वाक्यशेषोक्तेरित्यर्थः ।
अस्तु प्रधानविद्यापि मुक्तिफलत्वेन परेत्यत आह- नचेति ।
ननु ऽयः सर्वज्ञःऽइत्यग्रे परविद्याविषय उच्यते, अद्रेश्यवाक्येन तु प्रधानविद्योच्यत इत्यत आह- तिस्रश्चेति ।
इतश्च भूतयोनेर्ब्रह्मत्वमित्याह- कस्मिन्निति ।
अचेतनमात्रस्यैकायतनमुपादानं तज्ज्ञानात्कार्यज्ञाने ऽपि तदकार्याणामात्मनां ज्ञानं न भवति ।
एवं जीवे ज्ञाते तदकार्यस्य भोग्यस्य ज्ञानं न भवतीत्यर्थः ।
ब्रह्मविद्याशब्दाच्च भूतयोनिर्ब्रह्मेत्याह- अपिचेति ।
स ब्रह्मविद्यां सर्वविद्यानां प्रतिष्ठां समाप्तिभूमिं ब्रह्मविद्यामुवाच ।
ब्रह्मणि सर्वविद्यानां विद्याफलानां चान्तर्भावाद्ब्रह्मविद्या सर्वविद्याप्रतिष्ठा ।
नन्वपरविद्या परप्रकरणे किमर्थमुक्तेत्यत आह- अपरेति ।
प्लवन्ते गच्छन्तीति प्लवा विनाशिनः, अदृढानित्यफलसंपादनाशक्ताः, षोडशर्त्विजः पत्नीयजमानश्चेत्यष्टादश ।
यज्ञेन नामनिमित्तेन निरूप्यन्त इति यज्ञरूपाः ।
तथाहि ऋतुषु याचयन्ति यज्ञं कारयन्तीत्यृत्विजः, यजत इति यजमानः, ऽपत्युर्नो यज्ञसंयोगेऽइति सूत्रेण पतिशब्दस्य नकारो ऽन्तादेशो यज्ञसंबन्धे विहित इति पत्नी, एवमृत्विगादिनामप्रवृत्तिनिमित्तं यज्ञ इति यज्ञरूपाः ।
येष्ववरमनित्यफलकं कर्म श्रुत्युक्तं, एतदेव कर्म श्रेयो नान्यदात्मज्ञानमिति ये मूढास्तुष्यन्ति ते पुनः पुनर्जन्ममरणमाप्नुवन्तीत्यर्थः ।
तद्विज्ञानार्थं ब्रह्मविज्ञानार्थं गुरुमभिगच्छेदेवेति नियमः ।
ब्रह्मनिष्ठस्याप्यनधीतवेदस्य गुरुत्वं वारयति- श्रोत्रियमिति ।
कार्यमुपादानाभिन्नमित्यंशे दृष्टान्तः ।
सर्वसाम्ये तथाप्यनिष्टापत्तेरित्याह-अपिच स्थूला इति ॥21॥
एन्द् ब्स्र्प्_1,2.6.21
स्तर्त् ब्स्र्प्_1,2.6.22
विशेषणभेदव्यपदेशाभ्यां च नेतरौ
विशेषणान्न जीवो भेदोक्तेर्न प्रधानमिति हेतुद्वयं विभज्य व्याचष्टे- विशिनष्टि हीत्यादिना ।
दिव्यो द्योतनात्मकः स्वयञ्ज्योतिः, अमूर्तः पूर्णः, पुरुषः पुरिशयः प्रत्यगात्मा, बाह्यं स्थूलमाभ्यन्तरं कारणं सूक्ष्मं ताभ्यां सहाधिष्ठानत्वेन तिष्ठतीति सबाह्याभ्यन्तरः, हि तथा श्रुतिषु प्रसिद्ध इत्यर्थः ।
अविद्याकृतं नामरूपात्मकं शरीरं तेन परिच्छेदो ऽल्पत्वम् ।
तस्य शरीरस्य धर्माज्जाड्यमूर्तत्वादीनित्यर्थः ।
नन्वक्षरशब्देन प्रधानोक्तावशब्दत्वं प्रधानस्य प्रतिज्ञातं बाध्येत, तत्राह- अक्षरमव्याकृतमिति ।
अश्नोति व्याप्नोति स्वविकारजातमित्यक्षरम् ।
अव्याकृतमव्यक्तम् ।
अनादीति यावत् ।
नामरापयोर्बीजमीश्वरः तस्य शक्तिरूपम् ।
परतन्त्रत्वादुपादानमपि शक्तिरित्युक्तम् ।
भूतानां सूक्ष्माः संस्कारा यत्र तद्भूतसूक्ष्मं ईश्वरश्चिन्मात्र आश्रयो यस्य तत्तथा ।
तस्यैव चिन्मात्रस्य जीवेश्वरभेदोपाधिभूतम् ।
यत्तु ईश्वर आश्रयो विषयो यस्येति नानाजीववादिनां व्याख्यानं तद्बाष्यबहिर्भूतं, ऽएतस्मिन्खल्वक्षरे गार्गि आकाश ओतश्च प्रोतश्चऽइत्योतप्रोतभावेनाव्याकृतस्य चिदाश्रयत्वश्रुतेराश्रयपदलक्षणाया निर्मूलत्वात् ।
नहि मूलप्रकृतेर्भेदे किञ्चिन्मानमस्ति ।
नच ऽइन्द्रो मायाभिःऽइति श्रुतिर्मानं, ऽअजामेकाम्ऽइत्याद्यनेकश्रुतिबलेन लाघवतर्कसहायेन तस्याः श्रुतेर्बुद्धिभेदेन मायाभेदानुवादित्वात् ।
तदुक्तं सुरेश्वराचार्यैः-ऽस्वतस्त्वविद्याभेदो ऽत्र मनागपि न विद्यतेऽइति ।
सांख्ययोगाचार्याः पुराणेतिहासकर्तारश्च मूलप्रकृत्यैक्यं वदन्ति ।
नन्वविद्यैक्ये बन्धमुक्तिव्यवस्था कथम् ।
नच व्यवस्था नास्तीति वाच्यं, श्रवणे प्रवृत्त्यादिबाधापतादिति चेत्, उच्यते-ये ह्यविद्यानानात्वमिच्छन्ति तैरपि परिणामित्वेन सांशत्वमविद्याया अङ्गीकार्यं, तथा चानर्थात्मकस्वीयसंघातात्मना परिणताविद्यांशोपहितजीवभेदाद्व्यवस्था सिध्यति ।
यस्य ज्ञानमन्तःकरणे जायते तस्यान्तः करणपरिणाम्यज्ञानांशनशो मुक्तिरिति ।
एवं च श्रोतुः स्वरूपानन्दप्राप्तिः, श्रवणादो प्रवृत्तिः, विद्वदनुभवः, जीवन्मुक्तिशास्त्रं चेति सर्वमबाधितं भवति ।
नचैवं नानाजीवपक्षादविशेषः, मूलप्रकृतिनानात्वाभावादित्यलम् ।
परत्वेहेतुः- अविकार इति ।
ननु सूत्रकृता श्रुतौ प्रधानाद्भेदव्यपदेश उक्तस्तत्र कथमज्ञानाद्भेदोक्तिर्व्याख्यायते, तत्राह- नात्रेति ।
कार्यात्मना प्रधीयत इति प्रधानमज्ञानमेव ।
ततो ऽन्यस्याप्रमाणिकत्वादित्यर्थः ।
अतो ऽत्राज्ञानमेव भूतयोनिरिति पूर्वपक्षं कृत्वा निरस्यते ।
तन्निरासेनार्थात्सांख्याकल्पितप्रधाननिरास इति मन्तव्यम् ॥22॥
एन्द् ब्स्र्प्_1,2.6.22
स्तर्त् ब्स्र्प्_1,2.6.23
रूपोपन्यासाच् च
वृत्तिकृन्मतेनादौ सूत्रं व्याचष्टे- अपिचेत्यादिना ।
ऽप्राणो मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवीऽइति श्रुतिः ।
अग्निर्धुलोकः, ऽअसौ वाव लोको गौतमाग्निःऽइति श्रुतेः ।
विवृता वेदाः वागित्यन्वयः ।
पद्भ्यां पादावित्यर्थः ।
यस्येदं रूपं स एष सर्वप्राणिनामन्तरात्मेत्यर्थ ।
तनुमहिम्न इति ।
अल्पशक्तेरित्यर्थः ।
यथा कश्चिब्रह्मवित्स्वस्य सर्वात्मत्वप्रकटनार्थमहमन्नमिति साम गायति न त्वन्नत्वादिकमात्मनो विवक्षति, अफलत्वात्, तथेहापीत्याह- अहमन्नमिति ।
वृत्तिकृद्व्याख्यां दूषयति- अन्ये पुनरिति ।
एष सर्वभूतान्तरात्मा सूत्रात्मा एतस्माद्भूतयोनेर्जायत इति श्रुत्यन्वयेन हिरण्यगर्भस्यात्र जायमानत्वेनोपन्यासादित्यर्थः ।
निरदिक्षदवोचदित्यर्थः ।
अग्निर्द्युलोको यस्य, यस्य समिद्रूपः सूर्यः सो ऽपिद्युलोकाग्निस्तस्मादजायतेत्यर्थः ।
ऽतस्मादित्य एव समित्ऽइति श्रुत्यन्तरात् ।
अतो मध्ये ऽपि सृष्टिरेव वाच्या न रूपमिति भावः ।
यदुक्तम् ऽअग्निर्मूर्धाऽइत्यत्र भूतयोनेः सर्वात्मत्वं विवक्षितमिति, तत्रेत्याह- सर्वात्मत्वमपीति ।
ननु हिरण्यगर्भस्य जन्मान्यत्रानुक्तं कथमत्र वक्तव्यं, तत्राह- श्रुतीति ।
अग्रे समवर्तत जातः सन्भूतग्रामस्यैकः पतिरीश्वरप्रसादादभवत् ।
स सूत्रात्मा द्यामिमां पृथिवीं च स्थूलं सर्वमधारयत् ।
कशब्दस्य प्रजापतिसंज्ञात्वे सर्वनामत्वाभावेन स्मा इत्ययोगादेकारलोपेनैकस्मै देवाय प्राणात्मने हविषा विधेम परिचरेमेति व्याख्येयं, ऽकतम एको देव इति प्राणःऽइति श्रुतेः ।
यद्वा यस्मादयं जातस्तस्मा एकस्मै देवायेत्यर्थः, ऽएको देवः सर्वभूतेषु गूढःऽइति श्रुत्यन्तरात् ।
ननु तस्य भूतान्तरात्मत्वं कथं, तत्राह- विकारेति ।
पूर्वकल्पे प्रकृष्टोपासनाकर्मसमुच्चयानुष्ठानदस्मिन्कल्पे सर्वप्राणिव्यष्टिलिङ्गानां व्यापकं सर्वप्राण्यन्तर्गतं ज्ञानकर्मेन्द्रियप्राणात्मकं समष्टिलिङ्गशरीरं जायते तद्रूपस्य सूत्रात्मनः सर्वभूतान्तरात्मत्वं युक्तमित्यर्थः ।
स्वपक्षे सूत्रार्थमाह- अस्मिन्पक्ष इति ।
कर्म सफलं सर्वं श्रौतस्मार्तादिकं तपश्च पुरुष एवेति सर्वान्तरत्वरूपोपन्यासाच्च भूतयोनौ ज्ञेये वाक्यं समन्वितमित्यर्थः ॥23॥
एन्द् ब्स्र्प्_1,2.6.23
स्तर्त् ब्स्र्प्_1,2.7.24
वैश्वानरः साधारणशब्दविशेषात्
वैश्वानरः ।
छान्दोग्यमुदाहरति- को न इति ।
प्राचीनशालसत्ययज्ञेन्द्रद्युम्नजनबुडिला मिलित्वा मीमांसां चक्रुः-ऽको न आत्मा किं ब्रह्मऽइति ।
आत्मैव ब्रह्मेति ज्ञापनार्थं पदद्वयम् ।
ते पञ्चापि निश्चयार्थमुद्दालकमाजग्मुः ।
सो ऽपि सम्यङ्न वेदेति तेनोद्दालकेन सह षडप्यश्वपतिं कैकेयं राजानमागत्योचुः- आत्मानमिति ।
अध्येषि स्मरसि तमेव नो ब्रूहीति ।
राजा तु तेषां भ्रान्तिनिरासार्थं तान्प्रत्येकमपृच्छत्-ऽकं त्वमात्मानमुपाःसेऽइति ।
ते च प्राचीनशालादयः क्रमेण प्रत्येकमूचुः-दिवमेवाहं वैश्वानरं वेद्मि ।
आदित्यमेवाहं वेद्मि ।
वायुमेव ।
आकाशमेव ।
अप एव ।
पृथिवीमेवाहं वेद्मीति ।
ततो राजा द्युसूर्यादीनां षण्णां यथाक्रमेण सुतेजस्त्वविश्वरूपत्वपृथग्वर्त्मात्मत्वबहुलत्वरयित्वप्रतिष्ठात्वगुणान्विधाय भवन्तो यदि मामपृष्ट्वा द्युसूर्यादिषु भगवतो वैश्वानरस्याङ्गेष्वेव प्रत्येकं वैश्वानरत्वदृष्टयो भवेयुस्तदा क्रमेण मूर्धपातान्धत्वप्रमाणोत्क्रमणदेहविशीर्णत्वबस्तिभेदपादशोषा भवतां स्युरिति प्रत्येकोपासनं निन्दित्वा,
सुतेजस्त्वगुणको द्युलोको ऽस्यात्मनो वैश्वानरस्य मूर्धा, विश्वरूपत्वगुणकः सूर्यो ऽस्य चक्षुरित्येवं द्युसूर्यादीनां मूर्धादिभावमुपदिश्य समस्तवैश्वानरध्यानविधिराम्नायते- यस्त्वेतमिति ।
आभिमुख्येनापरोक्षतया विश्वं मिमीते जानातीत्यभिविमानः ।
तं सर्वज्ञं स तदुपासकः सर्वत्र भोगं भुङ्क्त इत्यर्थः ।
लोका भूरादयः, भूतानि शरीराणि, आत्मानो जीवा इति भेदः ।
सुष्ठु तेजः कान्तिर्यस्य द्युलोकस्य स सुतेजाः ।
विश्वानि रूपाण्यस्य सूर्यस्य, ऽएष शुक्ल एष नीलःऽइति श्रुतेः ।
पृथक् नानाविधं वर्त्म गमनं आत्मा स्वभावो यस्य वायोः स नानागतित्वगुणको ऽस्य प्राणः ।
बहुलत्वं व्यापित्वं तद्गुण आकाशो ऽस्य संदेहो देहमध्यम् ।
रयित्वं धनत्वं तद्गुणा आपो यस्य बस्तिर्मूत्रस्थानम् ।
प्रतिष्ठात्वगुणा पृथिवी तस्य पादौ ।
तस्य होमाधारत्वं संपादयति- उर एवेत्यादिना ।
पूर्वमुपक्रमस्थादृश्यत्वादिसाधारणधर्मस्य वाक्यशेषस्थसर्वज्ञात्वादिलिङ्गेन ब्रह्मनिष्ठत्वमुक्तं, तद्वदत्राप्युपक्रमस्थसाधारणवैश्वानरशब्दस्य वाक्यशेषस्थहोमाधारत्वलिङ्गेन जाठरनिष्ठत्वमिति दृष्टान्तेन पूर्वपक्षयति-किन् तावदित्यादिना ।
पूर्वोत्तरपक्षयोर्जाठरब्रह्मणोर्ध्यानं फलम् ।
यदद्यते तदन्नं, येन पच्यते सो ऽयं पुरुषशरीरे ऽन्तरस्तीत्यर्थः ।
पक्षान्तरमाह- अग्निमात्रं वेति ।
विश्वस्मै भुवनाय वैश्वानरमग्निमह्नां केतुं चिह्नं सूर्यं देवा अकृण्वन् कृतवन्तः ।
सूर्योदये दिनव्यवहारादित्यर्थः ।
स्याद्वैश्वानर इत्यनुषङ्गः ।
हि यस्मात्कं सुखप्रदो भुवनानां राजा वैश्वानरो ऽभिमुखा श्रीरस्येत्यभिश्रीरीश्वरः, तस्मात्तस्य वैश्वानरस्य सुमतौ वयं स्याम तस्यास्मद्विषया शुभमतिर्भवत्वित्यर्थः ।
पक्षत्रये ऽप्यरुचिं वदन्कल्पान्तरमाह- अथेत्यादिना ।
ऽआत्मा वैश्वानरःऽइति श्रुतेरित्यर्थः ।
केवलत्वं वैश्वानरशब्दशून्यत्वम् ।
अत्र जाठरो वैश्वानर इति मुख्यः पूर्वपक्षः, प्राणाग्निहोत्रहोमाधारत्वलिङ्गत् ।
तस्य देहव्यापित्वादात्मत्वं श्रुत्या द्युमूर्धत्वादिकल्पनया बृहत्त्वाद्ब्रह्मत्वमिति ध्येयम् ।
सिद्वान्तयति- तत इदमिति ।
साधारणश्रुत्योरूपक्रमस्थयोर्विशेषात्प्रथमश्रुतमुख्यत्रैलोक्यशरीरलिङ्गात्सर्वात्मकेश्वरपरत्वं युक्तं, न चरमश्रुतकल्पितहोमाधारत्वलिङ्गेन जाठरत्वमित्यर्थः ।
ननु निर्विशेषस्य कुतो विशेष इत्यत आह- अत्र हीति ।
अवस्थान्तरगतः त्रैलोक्यात्मना स्थित इत्यर्थः ।
जाठरस्यापि ध्यानार्थं विशेषकल्पनेति चेत्, न, असत्कल्पनापत्तेः ।
ईश्वरस्य तु उपादानत्वाद्विशेषः सन्नेव ध्यानार्थमुच्यतामित्याह- कारणत्वादिति ।
लिङ्गान्तराण्याह- स सर्वेष्वित्यादिना ।
यथाग्नौ निक्षिप्तमिषीकातूलं दह्यते एवं हास्य विदुष इत्यर्थः ॥24॥
एन्द् ब्स्र्प्_1,2.7.24
स्तर्त् ब्स्र्प्_1,2.7.25
स्मर्यमाणम् अनुमानं स्याद् इति
नन्वसदारोपेणापि स्तुतिसंभवान्न मूलश्रुत्यपेक्षेत्याशङ्क्याह- यद्यपि स्तुतिरिति ।
तथापीतिपदमर्थतः पठति- स्तुतित्वमपीति ।
द्युमूर्धत्वादिरूपेण स्तुतिर्नरमात्रेण कर्तुमशक्या विना श्रुतिमित्यर्थः ।
सता रूपेण स्तुति संभवान्नासदारोप इति भावः ॥25॥
एन्द् ब्स्र्प्_1,2.7.25
स्तर्त् ब्स्र्प्_1,2.7.26
शब्दादिभ्यो ऽन्तःप्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्युपदेशाद् असम्भवात् पुरुषमपि चैनम् अधीयते
शब्दादीनां गतिं वक्तुमुक्तसिद्वान्तमाक्षिप्य समाधत्ते- शब्दादिभ्य इति ।
ऽस एषो ऽग्निर्वैश्वानरःऽइत्यग्निरहस्ये वैश्वानरविद्यायां श्रुतो ऽग्निशब्द ईश्वरे न संभवतीत्यन्वयः ।
सूत्रस्थादिशब्दार्थमाह- आदिशब्दादिति ।
भक्तमन्नं, होमीयं होमसाधनं, तेन प्राणाग्निहोत्रं कार्यमित्यर्थः ।
वाजसनेयिनामग्निरहस्ये सप्रपञ्चां वैश्वानरविद्यामुक्त्वा ऽस यो हैतमग्निं वैश्वानरं पुरुषविधं पुरुषे ऽन्तःप्रतिष्ठितं वेद स सर्वत्रान्नमत्तिऽइत्युक्तं देहान्तःस्थत्वं जाठरे संभवति, प्रसिद्धेरित्याह- तथेति ।
अत्र सूत्रे आदिपदेनैवान्तःप्रतिष्ठानस्य ग्रहे संभवति पृथगुक्तिः साधारणलिङ्गत्वद्योतनार्था ।
शब्दादिबलादिदमपि जाठरं गमयतीत्यभ्युच्चयः ।
यद्यपि द्युमूर्धत्वादिविशेष ईश्वरपक्षपाती होमाधारत्वादिर्जाठरपक्षपातीति प्रतिभानं समं तथापि पारमेश्वरो विशेषो जाठरे न संभवतीति बलवानित्यत आह- अथवेति ।
एष द्युमूर्धत्वादिनिर्देश इत्यर्थः ।
इमां पृथिवीं द्यामपि ते एव द्यावापृथिव्यौ रोदसी तथोर्मध्यमन्तरिक्षं च यो भूताग्निर्भानुरूपेणाततान व्याप्तवान् स ध्यातव्य इत्यर्थः ।
जडमात्रस्य न ध्येयत्वमित्यत आह- अथवेति ।
सिद्धान्तयति- न तथादृष्ट्युपदेशादितीति ।
परमेश्वरदृष्ट्योपास्यजाठराग्निप्रतीकवाचकाभ्यामग्निवैश्वानरशब्दाभ्यां द्युमूर्धत्वादिमानीश्वरो लक्ष्य इत्युक्त्वा कल्पान्तरमाह- अथवा जाठरेति ।
अस्मिन्पक्षे प्राधान्येनेश्वरोपास्यता पूर्वत्र गुणतयेति भेदः ।
उपाधिवाचिभ्यां पदाभ्यामुपहितो लक्ष्य इत्यर्थः ।
लक्षणाबीजमसंभवं व्याचष्टे- यदि चेति ।
पुरुषमपीत्यादिसूत्रशेषं व्याचष्टे- यदि च केवल इति ।
ईश्वरप्रतीकत्वोपाधित्वशून्यैत्यर्थो विवक्ष्येत तदेति शेषः ।
यत् यः, पुरुषः, स एषो ऽग्निर्वैश्वानरशब्दितजाठरोपाधिक इति श्रुत्यर्थः ।
यो वेद स सर्वत्र भुङ्क्त इत्यर्थः ।
पुरुषत्वं पूर्णत्वमचेतनस्य जाठरस्य नेत्युक्त्वा पाठान्तरे पुरुषविधत्वं देहाकारत्वं तस्य नेत्याह- ये त्विति ।
ननु जाठरस्यापि देहव्यापित्वात्तद्विधत्वं स्यादित्यत आह- पुरुषविधत्वं च प्रकरणादिति ।
न देहव्यापित्वं पुरुषविधत्वं किन्तु विराड्देहाकारत्वं, अधिदैवं पुरुषविधत्वमध्यात्मं चोपासकमूर्धादिचुबुकान्तेष्वङ्गेषु संपन्नत्वमीश्वरस्य पुरुषविधत्वमित्यर्थः ॥26॥
एन्द् ब्स्र्प्_1,2.7.26
स्तर्त् ब्स्र्प्_1,2.7.27
अत एव न देवता भूतं च
ईश्वरस्याङ्गेषु संपत्तिर्वक्ष्यते ।
एवं जाठरं निरस्य पक्षद्वयं निरस्यति- अत एवेति ।
सूत्रं व्याचष्टे- यत्पुनरित्यादिना ।
द्युमूर्धत्वादिः, सर्वलोकफलभाक्त्वं, सर्वपाप्मप्रदाहः, आत्मब्रह्मशब्दोपक्रम उक्तहेतवः ।
तानेव स्मारयति- न हि भूताग्नेरित्यादिना ।
ऽयो भानुनाऽइति मन्त्रेणेश्वरदृष्ट्या महिमोक्त इति भावः ॥27॥
एन्द् ब्स्र्प्_1,2.7.27
स्तर्त् ब्स्र्प्_1,2.7.28
साक्षाद् अप्य् अविरोधं जैमिनिः
पूर्वमग्निवैश्वानरशब्दावीश्वरलक्षकावित्युक्तम् ।
अधुना प्रतीकोपाधिपरीत्यागेन विराट्पुरुषाकारस्य भगवतो वैश्वानरस्याध्यात्मं मूर्धादिचुबुकान्तेषु संपाद्योपास्यत्वाङ्गीकारे ऽपि न शब्दादिविरोधः शब्दयोरीश्वरे योगवृत्त्या मुख्यत्वात्, अन्तःस्थत्वादीनां च तत्र संभवादित्याह- साक्षादपीति ।
साक्षात्पदस्यार्थमाह- विनैवेति ।
जाठराग्निसंबन्धं विनेश्वरस्योपास्यत्वे ऽपि शब्दाद्यविरोधं जैमिनिर्मन्यत इत्यर्थः ।
इदमन्तस्थत्वमुदरस्थत्वरूपं नोच्यते किन्तु नखादिशिखान्तावयवसमुदायात्मकपुरुषशरीरे मूर्धादिचिबुकान्ताङ्गानि वृक्षे शाखावत्प्रतिष्ठितानि, तेषु संपन्नो वैश्वानरः पुरुषे ऽन्तःप्रतिष्ठित इत्युच्यते ।
अतो यथा शाखास्थस्य पक्षिणो वृक्षान्तःस्थत्वं तथा वैश्वानरस्य पुरुषान्तःस्थत्वमित्याह- न हीह पुरुषविधमित्यादिना ।
अग्न्यादिशब्दस्येश्वरवाचित्वाज्जाठराग्नेरसंशब्दितत्वम् ।
अत्रेश्वरस्य पुरुषावयवेषु संपादनात्पुरुषविधत्वमन्तःस्थत्वं चेत्यर्थः ।
पक्षान्तरमाह- अथवेति ।
पुरुषविधत्वं पूर्ववत् ।
अन्तः स्थत्वं माध्यस्थ्यं साक्षित्वमित्यर्थः ।
एवमन्तःस्थत्वमीश्वरे व्याख्याय शब्दादीनि व्याचष्टे- निश्चिते चेति ।
विश्वश्चायं नरो जीवश्च सर्वात्मत्वात् ।
विश्वेषां विकाराणां वा नरः कर्ता ।
विश्वे सर्वे नरा जीवा अस्यात्मत्वेन नियम्यत्वेन वा सन्तीति विश्वानरः ।
रक्ष एव राक्षस इतिवत्स्वार्थे तद्धितप्रत्ययः ।
ऽनरे संज्ञायांऽइति पूर्वपदस्य दीर्घता ।
अगिधातोर्गत्यर्थस्य निप्रत्ययान्तस्य रूपमग्निरिति ।
अङ्गयति गमयत्यग्रं कर्मणः फलं प्रापयतीति अग्निरग्रणीरुक्तः ।
अभितो ऽग इति वा अग्निः ।
वैश्वानरोपासकस्यातिथिभोजनात्पूर्वं प्राणाग्निहोत्रं विद्याङ्गत्वेन विहितं, तदर्थमग्नित्रेतादिकल्पनं प्रधानाविरोधेन नेतव्यमित्याह- गार्हपत्येति ॥28॥
एन्द् ब्स्र्प्_1,2.7.28
स्तर्त् ब्स्र्प्_1,2.7.29
अभिव्यक्तेर् इत्य् आश्मरथ्यः
मात्रां परिमाणमतिक्रान्तो ऽतिमात्रः तस्य विभोरित्यर्थः ।
उपासकानां कृते ऽनुग्रहाय प्रादेशमात्रो ऽभिव्यज्यते, प्रदेशेषु वा मीयते ऽभिव्यज्यत इति प्रादेशमात्रः ॥29॥
एन्द् ब्स्र्प्_1,2.7.29
स्तर्त् ब्स्र्प्_1,2.7.30
अनुस्मृतेर् बादरिः
मतान्तरमाह- अनुस्मृतेरिति ।
प्रादेशेन मनसा मितः प्रादेशमात्र इत्यर्थः ।
यथाकथञ्चिदिति ।
मनःस्थं प्रादेशमात्रत्वं स्मृतिद्वारा स्मर्यमाणे कल्पितं श्रुतेरालम्बनमित्यर्थः ।
सूत्रस्यार्थन्तरमाह- प्रादेशेति ॥30॥
एन्द् ब्स्र्प्_1,2.7.30
स्तर्त् ब्स्र्प्_1,2.7.31
संपत्तेर् इति जैमिनिस् तथा हि दर्शयति
संप्रति श्रुत्युक्तां प्रादेशमात्रश्रुतेर्गतिमाह- संपत्तेरिति ।
ब्राह्मणं पठति- प्रादेशमात्रमिवेति ।
अपरिच्छिन्नमपीश्वरं प्रादेशमात्रत्वेन संपत्त्या कल्पितं सम्यग्विदितवन्तो देवास्तमेवेश्वरमभि प्रत्यक्त्वेन संपन्नाः प्राप्तवन्तः, ह वै पूर्वकाले, ततो वो युष्मभ्यं, तथा द्युप्रभृतीनवयवान्वक्ष्यामि यथा प्रादेशमात्रं प्रादेशपरिमाणमनतिक्रम्य मूर्धाद्यध्यात्माङ्गेषु वैश्वानरं संपादयिष्यामीति प्राचीनशालदीन्प्रति राजा प्रतिज्ञाय स्वकीयमूर्धानमुपदिशन् करेण दर्शयन्नुवाच-एष वै मे मूर्धा भूरादींल्लोकानतीत्य उपरि तिष्ठतीत्यतिष्टासौ द्युलोको वैश्वानरः ।
तस्य मूर्धेति यावत् ।
अध्यात्ममूर्धाभेदेनाधिदैवमूर्धा संपाद्य ध्येय इत्यर्थः ।
एवं चक्षुरादिषूहनीयम् ।
स्वकीयचक्षुषी दर्शयन् ऽएष वै सुतेजाः सूर्यो वैश्वानरस्य चक्षुरित्युवाचऽ ।
नासिकापदेन तन्निष्ठः प्राणे लक्ष्यते तस्मिन्नाध्यात्मिकप्राणे ऽधिदैवप्राणस्य वायोर्दृष्टिमाह- नासिक इति ।
अत्र सर्वत्र वैश्वानरशब्दस्तदङ्गपरः ।
मुखस्थं मुख्यं तस्मिन्नधिदैवं बहुलाकशदृष्टिः मुखस्थलालारूपास्वप्सु रैशब्दिततदीयबस्तिस्थोदकदृष्टिः चिबुके प्रतिष्ठा पादरूपा पृथिवी द्रष्टव्या ।
ननु गुणावैषम्येण विद्ययोर्भेदादग्निरहस्ये श्रुत्यनुसारेण छान्दोग्यस्थप्रादेशमात्रक्षुतिः कथं व्याख्येयेत्याशङ्क्याह- यद्यपीत्यादिना ।
एतावताल्पवैषम्येण बहुतरप्रत्यभिज्ञासिद्धं विद्यैक्यं न हीयते ।
शाखाभेदे ऽपि सर्वशाखासु प्रतीयमानं वैश्वानराद्युपासनमेकमिति न्यायस्य वक्ष्यमाणत्वाच्च ।
अतिष्ठात्वगुणश्छान्दोग्य उपसंहर्तव्यः ।
विश्वरूपत्वगुणश्च वाजिभिर्ग्राह्यः ।
तथाच द्युसूर्ययोः सुतेजस्त्वं सममतिष्ठात्वविश्वरूपत्वयोर्व्यवस्था ।
यद्वा शाखाभेदेन गुणव्यवस्थास्तु न विद्याभेद इति भावः ॥31॥
एन्द् ब्स्र्प्_1,2.7.31
स्तर्त् ब्स्र्प्_1,2.7.32
आमनन्ति चैनम् अस्मिन्
मूल पाठ: Brahmasūtra with Govindānanda's Ratnaprabhāvyākhyā, a subcommentary on Śaṃkara's Śārīrakamīmāṃsābhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0