भाषा

ENहिગુ
ग्रंथ पाठ

ब्राह्मस्फुटसिद्धान्त · अध्याय 18

18.1

प्रायेण यतस् प्रश्नास् कुट्टाकारात् ऋते न शक्यन्ते।
ज्ञातुम् वक्ष्यामि ततस् कुट्टाकारम् सह प्रश्नैस्॥

18.2

कुट्टक-#ख-ऋण-धन-अव्यक्त-मध्य-हरण-%एक-वर्ण-भावितकैस्।
आचार्यस् तन्त्र-विदाम् ज्ञातैस् वर्ग-प्रकृत्या च॥

18.3

अधिक-अग्र-भाग-हारात् ऊन-अग्र-छेद-भाजितात् शेषम्।
यत् तत् परस्पर-हृतम् लब्धम् अधस् अधस् पृथक् स्थाप्यम्॥

18.4

शेषम् तथा इष्ट-गुणितम् यथा अग्रयोस् अन्तरेण संयुक्तम्।
शुध्यति गुणकस् स्थाप्यस् लब्धम् च अन्त्यात् उपान्त्य-गुणस्॥

18.5

स्व-ऊर्ध्वस् अन्त्य-युतस् अग्र-अन्तस् हीन-अग्र-छेद-भाजितस् शेषम्।
अधिक-अग्र-छेद-हतम् अधिक-अग्र-युतम् भवति अग्रम्॥

18.6

छेद-वधस्य %द्वि-युगम् छेद-वधस् युग-गतम् %द्वयोस् अग्रम्।
कुट्टाकारेण एवम् %त्रि-आदि-ग्रह-युग-गत-आनयनम्॥

18.7

भ-गण-आदि-शेषम् अग्रम् छेद-हृतम् #खम् च दिन-ज-शेष-हृतम्।
अनयोस् अग्रम् भ-गण-आदि-दिन-ज-शेष-उद्धृतम् द्यु-गणस्॥

18.8

दिन-ज-भ-गण-आदि-शेषम् येन गुणम् मण्डल-आदि शेषकयोस्।
स-दृश-छेद-उद्धृतयोस् तद्-घातम् अहर्-गण-आद्यम् अतस्॥

18.9

हृतयोस् परस्परम् यत् छेषम् गुण-कार-भाग-हारकयोस्।
तेन हृतौ निस्-छेदौ तौ एव परस्परम् हृतयोस्॥

18.10

लब्धम् अधस् अधस् स्थाप्यम् तथा इष्ट-गुण-कार-सङ्गुणम् शेषम्।
शुध्यति यथा %एक-हीनम् गुणकस् स्थाप्यस् फलम् च अन्त्यात्॥

18.11

अग्र-अन्तम् उपान्त्येन स्व-ऊर्ध्वस् गुणितस् अन्त्य-संयुतस् भक्तम्।
निस्-शेष-भाग-हारेण एवम् स्थिर-कुट्टकस् शेषम्॥

18.12

इष्ट-भ-गण-आदि-शेषात् स्व-कुट्टक-गुणात् स्व-भाग-हार-गुणात्।
शेषम् द्यु-गणस् गत-निस्-अपवर्त-गुण-भाग-हार-युतस्॥

18.13

एवम् समेषु विषमेषु ऋणम् धनम् धनम् ऋणम् यत् उक्तम् तत्।
ऋण-धनयोस् व्यस्तत्वम् गुण्य-प्रक्षेपयोस् कार्यम्॥

18.14

गुणकस् छेदस् छेदस् गुणकस् धनम् ऋणम् ऋणम् धनम् कार्यम्।
वर्गम् पदम् पदम् कृतिस् अन्त्यात् विपरीतम् आद्यम् तत्॥

18.15

यस् जानाति युग-आदि ग्रह-युग-यातैस् पृथक् पृथक् कथितैस्।
%द्वि-%त्रि-%चतुर्-प्रभृतीनाम् कुट्टाकारम् सस् जानाति॥

18.16

भ-गण-आद्यम् इष्ट-शेषम् कदा इन्दु-दिवसे रवेस् गुरु-दिने वा।
ज्ञ-दिने राशीन् कथयति कुट्टाकारम् सस् जानाति॥

18.17

ज्ञ-दिने यत् अंश-शेषम् विकला-शेषम् कदा तत् इन्दु-दिने।
भानोस् अथ वा शशिनस् यस् कथयति कुट्टक-ज्ञस् सस्॥

18.18

तिथि-मान-दिनेषु इष्टास् ये अर्क-आद्यास् ते पुनर् कदा तेषु।
इष्ट-ग्रह-वारेषु यस् कथयति कुट्टक-ज्ञस् सस्॥

18.19

इष्ट-भ-गण-आदि-शेषात् द्यु-गणस् तत् कुट्टकेन संयुक्तस्।
तद्-छेद-दिनैस् तावत् दिन-वारस् यावत् इष्टस् स्यात्॥

18.20

यस् राशि-आदीन् दृष्ट्वा मध्यस्य इष्टस्य कतह्यति द्यु-गणम्।
%द्वि-आदि-ग्रह-संयोगात् ग्रह-अन्तरात् वा सस् कुट्ट-ज्ञस्॥

18.21

निस्-छेद-भाग-हारात् राशि-आदि-कला-आदिना हतात् भक्तात्।
भ-गण-कलाभिस् लब्धम् मण्डल-शेषम् दिन-गणस् अस्मात्॥

18.22

एवम् राशि-अंश-कला-विकला-शेषात् अहर्-गणस् प्राक्-वत्।
नष्ट-स्थेषु इष्टान् तान् कृत्वा भक्त्वा उक्त-वत् शेषम्॥

18.23

राशि-अंश-कला-विकला-शेषात् कथितात् अभीष्टतस् नष्टान्।
यस् साधयति उपरितनान् स-मध्यमान् कुट्टक-ज्ञस् सस्॥

18.24

येन गुणस् शेष-युतस् छेदस् शुध्यति हृतस् स्व-गुणकेन।
तद्-भुक्तम् शेषम् फलम् एवम् शेषात् ग्रह-द्यु-गणौ॥

18.25

जानाति यस् युग-गतम् कथितात् अधिमास-शेषकात् इष्टात्।
अवम-अवशेषतस् वा तद्-योगात् वा सस् कुट्ट-ज्ञस्॥

18.26

इष्टेषु मान-दिवसेषु अधिमास-न्यून-रात्र-शेषे वा।
भूयस् ते यस् कथयति पृथक् पृथक् वा सस् कुट्ट-ज्ञस्॥

18.27

अंशक-शेषात् %त्रि-ऊनात् %सप्त-हृतात् मूलम् ऊनम् %अष्टाभिस्।
%नवभिस् गुणम् स-#रूपम् कदा %शतम् बुध-दिने सवितुस्॥

18.28

%त्रि-ऊन-अधिमास-शेषात् मूलम् %द्वि-अधिकम् विभाजितम् %षड्भिस्।
%द्वि-ऊनम् वर्गितम् अधिकम् %नवभिस् %नवतिस् कदा भवति॥

18.29

अवम-अवशेष-वर्गस् वि-%एकस् %विंशति-विभाजितस् %द्वि-अधिकस्।
%अष्ट-गुणस् %दश-भक्तस् %द्वि-युतस् %अष्टादश कदा भवति॥

18.30

धनयोस् धनम् ऋणम् ऋणयोस् धन-ऋणयोस् अन्तरम् सम-ऐक्यम् #खम्।
ऋणम् ऐक्यम् च धनम् ऋण-धन-#शून्ययोस् #शून्ययोस् #शून्यम्॥

18.31

ऊनम् अधिकात् विशोध्यम् धनम् धनात् ऋणम् ऋणात् अधिकम् ऊनात्।
व्यस्तम् तद्-अन्तरम् स्यात् ऋणम् धनम् धनम् ऋणम् भवति॥

18.32

#शून्य-विहीनम् ऋणम् ऋणम् धनम् धनम् भवति #शून्यम् #आकाशम्।
शोध्यम् यदा धनम् ऋणात् ऋणम् धनात् वा तदा क्षेप्यम्॥

18.33

ऋणम् ऋण-धनयोस् घातस् धनम् ऋणयोस् धन-वधस् धनम् भवति।
#शून्य-ऋणयोस् #ख-धनयोस् #ख-#शून्ययोस् वा वधस् #शून्यम्॥

18.34

धन-भक्तम् धनम् ऋण-हृतम् ऋणम् धनम् भवति #खम् #ख-भक्तम् #खम्।
भक्तम् ऋणेन धनम् ऋणम् धनेन हृतम् ऋणम् ऋणम् भवति॥

18.35

#ख-उद्धृतम् ऋणम् धनम् वा तद्-छेदम् #खम् ऋण-धन-विभक्तम् वा।
ऋण-धनयोस् वर्गस् स्वम् #खम् #खस्य पदम् कृतिस् यत् तत्॥

18.36

योगस् अन्तर-युत-हीनस् %द्वि-हृतस् सङ्क्रमणम् अन्तर-विभक्तम् वा।
वर्ग-अन्तरम् अन्तर-युत-हीनम् %द्वि-हृतम् विषम-कर्म॥

18.37

करणी लम्बस् तद्-कृतिस् इष्ट-हृता इष्ट-ऊन-संयुता अल्पा भूस्।
अधिकस् %द्वि-हृतस् बाहुस् संक्षेप्यस् यद्-वधस् वर्गस्॥

18.38

इष्ट-उद्धृत-करणी-पद-युति-कृतिस् इष्ट-गुणिता अन्तर-कृतिस् वा।
गुण्यस् तिर्यक् अधस् अधस् गुणक-समस् तद्-गुणस् सहितस्॥

18.39

स्व-इष्ट-ऋण-छेद-गुणौ भाज्य-छेदौ पृथक् युजौ असकृत्।
छेद-%एक-गत-हृतस् वा भाज्यस् वर्गस् सम-%द्वि-वधस्॥

18.40

इष्ट-करणी-ऊनायास् रूप-कृतेस् पद-युत-ऊन-रूप-%अर्धे।
%प्रथमम् रूपाणि अन्यत् ततस् द्वितीयम् करणी असकृत्॥

18.41

अव्यक्त-वर्ग-घन-वर्ग-वर्ग-%पञ्च-गत-%षष्-गत-आदीनाम्।
तुल्यानाम् सङ्कलित-व्यवकलिते पृथक् अतुल्यानाम्॥

18.42

सदृश-%द्वि-वधस् वर्गस् %त्रि-आदि-वधस् तद्-गतस् अन्य-जाति-वधस्।
अन्योन्य-वर्ण-घातस् भावितकस् पूर्व-वत् शेषम्॥

18.43

अव्यक्त-अन्तर-भक्तम् व्यस्तम् रूप-अन्तरम् समे अव्यक्तस्।
वर्ग-अव्यक्तास् शोध्यास् यस्मात् रूपाणि तद्-अधस्तात्॥

18.44

वर्ग-%चतुर्-गुणितानाम् रूपाणाम् मध्य-वर्ग-सहितानाम्।
मूलम् नध्येन ऊनम् वर्ग-%द्वि-गुण-उद्धृतम् मध्यस्॥

18.45

वर्ग-आहत-रूपाणाम् अव्यक्त-%अर्ध-कृति-संयुतानाम् यत्।
पदम् अव्यक्त-%अर्ध-ऊनम् तत् वर्ग-विभक्तम् अव्यक्तस्॥

18.46

स-%एकात् अंशक-शेषात् %द्वादश-भागस् %चतुर्-गुणस् %अष्ट-युतस्।
स-%एक-अंश-शेष-तुल्यस् यदा तदा अहर्-गणम् कथय॥

18.47

%द्वि-ऊनम् अधिक-मास-शेषम् %त्रि-हृतम् %सप्त-अधिकम् %द्वि-सङ्गुणितम्।
अधिमास-शेष-तुल्यम् यदा तदा युग-गतम् कथय॥

18.48

वि-%एकम् अवम-अवशेषम् %षष्-उद्धृतम् %त्रि-युतम् अवम-शेषस्य।
%पञ्च-विभक्तस्य समम् यदा तदा युग-गतम् कथय॥

18.49

मण्डल-शेषात् %द्वि-ऊनात् मूलम् वि-%एकम् %दश-आहतम् %द्वि-युतम्।
मण्डल-शेषम् वि-%एकम् भानोस् ज्ञ-दिने कदा भवति॥

18.50

अधिमास-शेष-#पादात् %त्रि-ऊनात् वर्गस् अधिमास-शेष-समस्।
अवम-अवशेषतस् वा अवम-शेष-समस् कदा भवति॥

18.51

आद्यात् वर्णात् अन्यान् वर्णान् प्रोह्य आद्य-मानम् आड्य-हृतम्।
सदृश-छेदौ असकृत् %द्वौ व्यस्तौ कुट्टकस् बहुषु॥

18.52

गत-भगण-युतात् द्यु-गणात् तद्-शेष-युतात् तद्-ऐक्य-संयुक्तात्।
तद्-योगात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस्॥

18.53

गत-भगण-ऊनात् द्यु-गणात् तद्-शेष-ऊनात् तद्-ऐक्य-हीनात् वा।
तद्-विवरात् द्यु-गणम् वा यस् कथयति कुट्टक-ज्ञस् सस्॥

18.54

राशि-आद्यैस् तद्-शेषैस् च एवम् भुक्त-अधिमास-दिन-हीनैस्।
तद्-शेषैस् च युग-गतम् यस् कथयति कुट्टक-ज्ञस् सस्॥

18.55

अंशक-शेषेण युतात् लिप्ता-शेषात् तद्-अन्तरात् अथ वा।
भानोस् ज्ञ-दिने द्यु-गणम् यस् कथयति कुट्टक-ज्ञस् सस्॥

18.56

अंशक-शेषम् %त्रि-युतम् लिप्ता-शेषम् कदा रवेस् ज्ञ-दिने।
%षट् %सप्त %अष्टौ %नव वा कुर्वन् आ वत्सरात् गणकस्॥

18.57

अंश-समम् अंश-शेषम् कला-समम् वा कला-शेषम्।
दिवस-करस्य इष्ट-दिने कुर्वन् आ वत्सरात् गणकस्॥

18.58

अवम-अवशेषम् अवमैस् अधिमासक-शेषम् अधिमासैस्।
इष्ट-युत-ऊनम् तुल्यम् कुर्वन् आ वत्सरात् गणकस्॥

18.59

निस्-छेद-भाग-हारस् भानोस् %सप्तति-गुणस् अंश-शेष-ऊनस्।
शुध्यति %अयुत-विभक्तस् कुर्वन् आ वत्सरात् गणकस्॥

18.60

भावितक-रूप-गुणना स-अव्यक्त-वधा इष्ट-भाजिता इष्ट-आप्त्योस्।
अल्पे अधिकस् अधिके अल्पस् क्षेप्यस् भावित-हृतौ व्यस्तम्॥

18.61

भानोस् राशि-अंश-वधात् %त्रि-%चतुर्-गुणितान् विशोध्य राशि-अंशान्।
%नवतिम् दृष्ट्वा सूर्यम् कुर्वन् आ वत्सरात् गणकस्॥

18.62

भावितके यद्-घातस् विनष्ट-वर्णेन तद्-प्रमाणानि।
कृत्वा इष्टानि तद्-आहत-वर्ण-ऐक्यम् भवति रूपाणि॥

18.63

वर्ण-प्रमाण-भावित-घातस् भवति इष्ट-वर्ण-सङ्ख्या एवम्।
सिध्यति विना अपि भावित-सम-करणात् किम् कृतम् तत् अतस्॥

18.64

मूलम् द्विधा इष्ट-वर्गात् गुणक-गुणात् इष्ट-युत-विहीनात् च।
आद्य-वधस् गुणक-गुणस् सह अन्त्य-घातेन कृतम् अन्त्यम्॥

18.65

वज्र-वध-ऐक्यम् %प्रथमम् प्रक्षेपस् क्षेप-वध-तुल्यस्।
प्रक्षेप-शोधक-हृते मूले प्रक्षेपके #रूपे॥

18.66

#रूप-प्रक्षेप-पदे पृथक् इष्ट-क्षेप्य-शोध्य-मूलाभ्याम्।
कृत्वा अन्त्य-आद्य-पदे ये प्रक्षेपे शोधने वा इष्टे॥

18.67

%चतुर्-अधिके अन्त्य-पद-कृतिस् %त्रि-ऊना दलिता अन्त्य-पद-गुणा अन्त्य-पदम्।
अन्त्य-पद-कृतिस् वि-%एका %द्वि-हृता आद्य-पद-आहता आद्य-पदम्॥

18.68

%चतुर्-ऊने अन्त्य-पद-कृती %त्रि-%एक-युते वध-#दलम् पृथक् वि-%एकम्।
वि-%एक-आड्य-आहतम् अन्त्यम् पद-वध-गुणम् आद्यम् आन्त्य-पदम्॥

18.69

वर्गे गुणके क्षेपस् केन चित् उद्धृत-युत-ऊनितस् दलितस्।
%प्रथमस् अन्त्य-मूलम् अन्यस् गुण-कार-पद-उद्धृतस् %प्रथमस्॥

18.70

वर्ग-छिन्ने गुणके %प्रथमम् तद्-मूल-भाजितम् भवति।
वर्ग-छिन्ने क्षेपे तद्-पद-गुणिते तदा मूले॥

18.71

गुणक-युतिस् %अष्ट-गुणिता गुणक-अन्तर-वर्ग-भाजिता राशिस्।
गुणकौ %त्रि-गुणौ व्यस्त-अधिकौ हृतौ अन्तरेण पदे॥

18.72

वर्गस् अन्य-कृति-युत-ऊनस् तद्-संयोग-अन्तर-%अर्ध-कृति-भक्तस्।
तद्-गुणितौ युति-वियुतौ वर्गौ घाते च #रूप-युते॥

18.73

यैस् ऊनस् यैस् च युतस् रूपैस् वर्गस् तद्-ऐक्यम् इष्ट-हृतम्।
इष्ट-ऊनम् तद्-#दल-कृतिस् ऊना अभ्यधिका भवति राशिस्॥

18.74

याभ्याम् कृतिस् अधिक-ऊनस् तद्-अन्तरम् हृत-युत-ऊनम् इष्टेन।
तद्-#दल-कृतिस् अधिक-ऊना अधिकयोस् अधिक-ऊनयोस् राशिस्॥

18.75

राशि-कला-शेष-कृतिम् %द्विनवति-गुणिताम् %त्र्यशीति-गुणिताम् वा।
स-%एका ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.76

सूर्य-विलिप्ता-शेषम् %पञ्चभिस् ऊन-आहतम् तथा %दशभिस्।
वर्गे बृहस्पति-दिने कुर्वन् आ वत्सरात् गणकस्॥

18.77

भ-गण-आदि-शेष-वर्गम् %त्रिभिस् गुणम् संयुतम् %शतैस् %नवभिस्।
कृतिम् %अष्ट-%शत-ऊनम् वा कुर्वन् आ वत्सरात् गणकस्॥

18.78

भ-गण-आदि-शेष-वर्गम् %चतुर्-गुणम् %पञ्चषष्टि-संयुक्तम्।
%षष्टि-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.79

इष्ट-भगण-आदि-शेषम् %द्विनवति-ऊनम् %त्र्यशीति-संगुणितम्।
#रूपेण युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.80

अधिमास-शेष-वर्गम् %त्रयोदश-गुणम् %त्रिभिस् %शतैस् युक्तम्।
%त्रि-घन-ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.81

इन्दु-विलिप्ता-शेषम् %सप्तदश-गुणम् %त्रयोदश-गुणम् च अपि।
पृथक् %एक-युतम् वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.82

अवम-अवशेष-वर्गम् %द्वादश-गुणितम् %शतेन संयुक्तम्।
%त्रिभिस् ऊनम् वा वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.83

ज्ञ-दिने अर्क-कला-शेषम् गुरु-दिन-विकला-अवशेष-युक्त-ऊनम्।
वर्गम् वधम् च स-%एकम् कुर्वन् आ वत्सरात् गणकस्॥

18.84

विकला-शेषम् सहितम् %त्रिनवत्या %सप्तषष्टि-हीनम् च।
भानोस् ज्ञ-दिने वर्गम् कुर्वन् आ वत्सरात् गणकस्॥

18.85

ज्ञ-दिने अर्क-कला-शेषम् %द्वादशभिस् संयुतम् %त्रिषष्ट्या च।
%षष्ट्या %अष्टभिस् च ऊनम् कुर्वन् आ वत्सरात् गणकस्॥

18.86

इन्दु-विलिप्ता-शेषात् रवि-लिप्ता-शेषम् अंश-शेषम् वा।
अथ वा मध्यमम् इष्टम् कुर्वन् आ वत्सरात् गणकस्॥

18.87

जीव-विलिप्ता-शेषात् कु-जम् इन्दुम् भौम-लिप्तिका-शेषात्।
रविम् इन्दु-भाग-शेषात् कुर्वन् आ वत्सरात् गणकस्॥

18.88

इष्ट-ग्रह-इष्ट-शेषात् द्यु-गणस् गत-निस्-अपवर्त-संगुणितैस्।
छेद-दिनैस् अधिकस् अस्मात् अन्य-ग्रह-शेषम् इष्टस् वा॥

18.89

निस्-छेद-भाग-हारौ ग्रहयोस् विपरीतौ ग्रहयोस् द्यु-गणात्।
यस्मात् तद्-निस्-छेदेन उद्धृतयोस् लब्ध-संगुणितौ॥

18.90

निस्-छेद-भाग-हारौ विपरीतौ तद्-युतात् पुनर् तस्मात्।
शेषे द्यु-गणात् एवम् %त्रि-आदीनाम् प्राक्-वत् इष्ट-दिने॥

18.91

द्यु-गणम् अवम-अवशेषात् रवि-चन्द्रौ मध्यमौ स्फुटौ अथ वा।
एवम् तिथिम् ग्रहम् वा कुर्वन् आ वत्सरात् गणकस्॥

18.92

%एक-दिनम् अवम-शेषम् यद्-गुणम् %एक-रवि-चन्द्र-भ-गण-ऊनम्।
शुध्यति भू-दिन-भक्तम् वि-%एकम् चान्द्रैस् तद्-उक्तिस् इयम्॥

18.93

#इषु-#शर-#कृत-%अष्ट-3दिग्भिस् 108455 सङ्गुणितात् अवम-शेषकात् भक्तात्।
#रूप-%अष्ट-#वेद-#रस-#शून्य-#शर-#गुणैस् 3506481 दिन-गणस् शेषम्॥

18.94

#जिन-#रस-#गो-#अब्धि-#रद-3249624-गुणात् #शशि-#वसु-#कृत-#रस-#ख-#भूत-#राम-3506481-हृतात्।
इष्ट-अवम-शेषात् यत् शेषम् रवि-भ-गण-शेषम् तत्॥

18.95

#गो-#अग-#इन्दु-#ख-#ईश-110179-गुणितात् भक्तात् #नख-#पक्ष-#यम-#रस-#इषु-#गुणैस् 3562220।
शेषम् अवम-अवशेषात् तिथयस् अवम-शेषकात् विकलम्॥

18.96

भाग-कला-विकला-ऐक्यम् दृष्ट्वा विकला-अन्तरम् च के शेषे।
ऐक्यम् द्विधा अन्तर-अधिक-हीनम् च %द्वि-भाजितम् शेषे॥

18.97

तद्-वर्ग-अन्तरम् आद्ये तद्-अन्तरम् च अनतर-उद्धृत-युत-ऊनम्।
वर्ग-अन्तरम् विभक्तम् %द्वाभ्याम् शेषे ततस् द्यु-गणस्॥

18.98

[कृति-संयोगात् %द्वि-गुणात् युति-वर्गम् प्रोह्य शेष-मूलम् यत्।
तेन युत-ऊनस् योगस् दलितस् शेषे पृथक् अभीष्टे॥ च्ब्.99]

18.99

शेष-वधात् %द्वि-कृति-गुणात् शेष-अन्तर-वर्ग-संयुतात् मूलम्।
शेष-अन्तर-ऊन-युक्तम् दलितम् शेषे पृथक् अभीष्टे॥

18.100

हृदि-घात्रम् अमी प्रश्नास् प्रश्नान् अन्यान् %सहस्र-शस् कुर्यात्।
अन्यैस् दत्तान् प्रश्नान् उक्त्या एवम् साधयेत् करणैस्॥

18.101

जन-संसदि दैव-विदाम् तेजस् नाशयति भानुस् इव भानाम्।
कुट्टाकार-प्रश्नैस् पथितैस् अपि किम् पुनर् %शत-शस्॥

18.102

प्रति-सूत्रम् अमी प्रश्नास् पथितास् स-उद्देशकेषु सूत्रेषु।
आर्या-%त्रि-अधिक-%शतेन च कुट्टस् च %अष्टादशस् अध्यायस्॥
इति श्री-ब्राह्मस्फुटसिद्धान्ते कुट्टक-अध्यायस् %अष्टादशस्॥

मूल पाठ: Brāhmasphuṭasiddhānta · Edition: S. Dvivedin's edition, Benares 1902. · Data entry Takao Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc