ब्राह्मस्फुटसिद्धान्त · अध्याय 19
दृष्ट्वा दिन-%अर्ध-घटिका यस् अर्क-ज्ञस् अक्ष-अंशकान् विजानाति।
उदय-अन्तर-घटिकाभिस् ज्ञातात् ज्ञेयम् सस् तन्त्र-ज्ञस्॥
अस्त-अन्तर-घटिकाभिस् यस् ज्ञातात् ज्ञेयम् आनयति तस्त्मात्।
मध्य-गतिम् युग-भ-गणान् आनयति ततस् सस् तन्त्र-ज्ञस्॥
आनयति यस् तमस्-रवि-शश-अङ्क-मानानि दीपक-शिख-औच्च्यात्।
शङ्कु-तल-अन्तर-भूमि-ज्ञाने छायाम् सस् तन्त्र-ज्ञस्॥
इष्ट-गृह-औच्च्य-ज्ञस् यस् तद्-अन्तर-ज्ञस् निरीक्ष्यते तु जले।
गृह-भित्ति-अग्रम् दर्शयति दर्पणे वा सस् तन्त्र-ज्ञस्॥
छाया-%द्वितीय-भा-अग्र-अन्तर-विज्ञानेन वेत्ति दीप-औच्यम्।
शङ्कु-छाया-ज्ञस् वा भूमेस् छायाम् सस् तन्त्र-ज्ञस्॥
दृष्ट्वा गृह-तल-अन्तर-जालभोस् दृष्ट्वा अग्रम् गृहस्य भूमि-ज्ञस्।
वेत्ति गृह-औच्च्यम् दृष्ट्वा तैल-स्थम् वा सस् तन्त्र-ज्ञस्॥
वीक्ष्य गृह-अग्रम् सलिले प्रसार्य सलिलम् पुनर् स्व-भू-ज्ञाने।
आनयति जलात् भूमिम् गृहस्य वा औच्च्यम् सस् तन्त्र-ज्ञस्॥
ज्ञातैस् छाया-पुरुषैस् विज्ञाते तोय-कुड्ययोस् विवरे।
कुड्ये अर्क-तेजसस् यस् वेत्ति आरूढिम् सस् तन्त्र-ज्ञस्॥
इष्ट-दिवस-%अर्ध-घटिका घटिका-%पञ्चदश-अन्तर-प्राणास्।
तद्-दिवस-चर-प्राणास् तैस् अक्षम् साधयेत् प्राक्-वत्॥
ज्ञात-ज्ञेय-ग्रहयोस् उदय-अन्तर-नाडिकाभिस् अधिक-ऊनस्।
उदयैस् ज्ञातस् ज्ञातात् ज्ञेयस् प्राक्-अपरयोस् ज्ञेयस्॥
ज्ञातस् स-भ-%अर्धस् उदयैस् अस्त-अन्तर-नाडिकाभिस् अधिक-ऊनस्।
ज्ञातात् पूर्व-अपरयोस् ज्ञेयस् भ-%अर्ध-ऊनके ज्ञेयस्॥
ज्ञातम् कृत्वा मध्यम् भूयस् अन्य-दिने तद्-अन्तरम् भुक्तिस्।
त्रैराशिकेन भुक्त्या कल्प-ग्रह-मण्डल-आनयनम्॥
स्थिति-%अर्धात् विपरीतम् तमस्-प्रमाणम् स्फुटम् ग्रहणे।
मान-उदयात् रवि-इन्द्वोस् घटिका-अवयवेन भ-उदय-तस्॥
दीप-तल-शङ्कु-तलयोस् अन्तरम् इष्ट-प्रमाण-शङ्कु-गुणम्।
दीप-शिख-औच्च्यात् शङ्कुम् विशोध्य शेष-उद्धृतम् छाया॥
शङ्कु-अन्तरेण गुणिता छाया छाया-अन्तरेण भक्ता भूस् ।
स-छाया शङ्कु-गुणा दीप-औच्च्यम् छायया भक्ता॥
ज्ञात्वा शङ्कु-छायाम् अनुपातात् साधयेत् समुच्छ्रायान्।
गृह-चैत्य-तरु-नगानाम् औच्च्यम् विज्ञाय वा छायाम्॥
युत-दृष्टि-गृह-औच्च्य-हृता हि अन्तर-भूमिस् दृक्-औच्च्य-सङ्गुणिता॥
फल-भूस् न्यस्ते तोये प्रति-रूप-अग्रम् गृहस्य नरात्॥
गृह-पुरुष-अन्तर-सलिले वीक्ष्य गृह-अग्रम् दृक्-औच्च्य-सङ्गुणितम्।
गृह-तोय-अन्तरम् औच्च्यम् गृहस्य नृ-जल-अन्तरेण हृतम्॥
%प्रथम-%द्वितीय-नृ-जल-अन्तर-अन्तरेण उद्धृता जल-अपसृतिस्।
दृष्टि-औच्च्य-गुणा उच्छ्रायस् तोयात् नृ-जल-अन्तर-गुणा भूस्॥
छाया-पुरुष-छिन्नम् जल-कुड्य-अन्तरम् अवाप्तम् आरूढिस्।
अध्यायस् %विंशति-आर्याणाम् %एकोनविंशस् अयम्॥
मूल पाठ: Brāhmasphuṭasiddhānta · Edition: S. Dvivedin's edition, Benares 1902. · Data entry Takao Hayashi · GRETIL (Göttingen) · CC BY-NC-SA 4.0