भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.37

1.37.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्ग पादे शेषमन्वन्तराश्यानं पृथिवीदोहनं च नाम षट्त्रिंशत्तमो ऽध्यायः
सूत उवाच
आसीदिह समुद्रान्ता वसुधेति यथा श्रुतम् ।
वसु धत्ते यतस्तस्माद्वसुधा सेति गीयते

1.37.2

मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता ।
तेनेयं मेदिनीत्युक्ता निरुक्त्या ब्रह्मवादिभिः

1.37.3

ततो ऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ।
दुहितृत्वमनुप्राप्ता पृथिवी पठ्यते ततः

1.37.4

पृथुना प्रविभागश्चधरायाः साधितः पुरा ।
तस्याकरवती राज्ञः पत्तनाकरमालिनी

1.37.5

चातुर्वर्णमयसमाकीर्णा रक्षिता तेन धीमता ।
एवंप्रभावोराजासीद्वैन्यः सद्विजसत्तमाः

1.37.6

नमस्यश्चैव पूच्यश्च भूतग्रामेण सर्वशः ।
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः

1.37.7

पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः ।
पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः

1.37.8

आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् ।
योधैरपि च संग्रामे प्राप्तुकामैर्जयं युधि

1.37.9

आदिकर्त्तारणानां वै नमस्यः पृथुरेव हि ।
यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम्

1.37.10

स घोररूपात्संग्रामात्क्षेमी तरति कीर्त्तिमान् ।
वैश्यैरपि च राजर्षिर्वेश्यवृत्तिमिहास्थितैः

1.37.11

पृथुरेव नमस्कार्यो वृत्तिदानान्महायशाः ।
एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च

1.37.12

पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् ।
ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना

1.37.13

वायुं कृत्वा तथा वत्सं बीजानि वसुधातले ।
ततः स्वायंभुवे पूर्वं तदा मन्वन्तरे पुनः

1.37.14

वत्सं स्वायंभुवं कृत्वा सर्वसस्यानि चैव हि ।
ततः स्वारोचिषे वापि प्राप्ते मन्वन्तरे ऽधुना

1.37.15

वत्सं स्वारोचिषं कृत्वा दुग्धा सस्यानि मेदिनी ।
उत्तमेन तु तेनापि दुग्धा देवानु जेन तु

1.37.16

मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता ।
पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः

1.37.17

दुग्धेयं तामसं वत्सं कृत्वा वै बलबन्धुना ।
चारिष्टवस्य वै षष्ठे संप्राप्ते चान्तरे मनोः

1.37.18

दुग्धा मही पुराणेन वत्सं चारिष्टवं प्रति ।
चाक्षुषे चापि संप्राप्ते तदा मन्वन्तरे पुनः

1.37.19

दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् ।
चाक्षुषस्यान्तरे ऽतीते प्राप्ते वैवस्वते पुनः

1.37.20

वैन्येनेयं पुरा दुग्धा यथा ते कथितं मया ।
एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै

1.37.21

देवादिभिर्मनुष्यैश्च ततो भूतादिभिश्च ह ।
एवं सर्वेषु विज्ञेया अतीतानागतेष्विह

1.37.22

देवा मन्वन्तरे स्वस्थाः पृथोस्तु शृणुत प्रजाः ।
पृथोस्तु पुत्रौ विक्रान्तौ जज्ञाते ऽन्तर्द्धिपाषनौ

1.37.23

शिखण्डिनी हविर्धानमन्तर्द्धानाव्द्यजायत ।
हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान्

1.37.24

प्राचीनबर्हिषं शुक्लं गयं कृष्णं प्रजाचिनौ ।
प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः

1.37.25

बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ ।
प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्ह्यसौ

1.37.26

समुद्रतनयायां तु कृतदारः स वै प्रभुः ।
महतस्तपसः पारे सवर्णायां प्रजापतिः

1.37.27

सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान्

1.37.28

अपृथग्धर्मचरणास्ते ऽतप्यन्त महात्तपः ।
दशवर्ष सहस्राणि समुद्रसलिलेशयाः

1.37.29

तपश्चतेषु पृथिवीं तप्यत्स्वथ महीरुहाः ।
अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः

1.37.30

प्रत्याहृते तदा तस्मिञ्चाक्षुषस्यान्तरे मनोः ।
नाशकन्मारुतो वातुं वृत्तं खमभवद्द्रुमैः

1.37.31

दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः ।
तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः

1.37.32

मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः ।
उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत्

1.37.33

तानग्निरदहद्धोर एवमासीद्दुमक्षयः ।
द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु

1.37.34

उपगम्याब्रवी देतान्राजा सोमः प्रचेतसः ।
दृष्ट्वा प्रयोजनं सत्यं लोकसंतानकारणात्

1.37.35

कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः ।
वृक्षाः क्षित्यां जनिष्यन्ति शाम्यतामग्निमारुतौ

1.37.36

रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनीः ।
भविष्यज्जनता ह्येषा धृता गर्भेण वै मया

1.37.37

मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता ।
भार्या भवतु वो ह्येषा सोमगर्भा विवर्द्धिता

1.37.38

युष्माकं तेजसार्द्धेन मम चार्धेन तेजसा ।
अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः

1.37.39

स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै ।
अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति

1.37.40

ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संत्दृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम्

1.37.41

मारिषायां ततस्ते वै मनसा गर्भमादधुः ।
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः

1.37.42

दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् ।
असृजन्मनसा त्वादौ प्रजा दक्षो ऽथ मैथुनात्

1.37.43

अचरांश्च चरांश्चैव द्विपदो ऽथ चतुष्पदः ।
विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः

1.37.44

ददौ स दश धर्माय कश्यपाय त्रयां दश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे

1.37.45

एभ्यो दत्त्वा ततो ऽन्या वै चतस्रो ऽरिष्टनेमिने ।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा

1.37.46

कन्यामेकां कृशाश्वाय तेभ्यो ऽपत्यं बभूव ह ।
अन्तरं चाक्षुषस्याथ मनोः षष्ठं तु गीयते

1.37.47

मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः ।
वसुदेवाः खगा गावो नागा दितिजदानवाः

1.37.48

गन्धर्वाप्सरसश्चैव जज्ञिरे ऽन्याश्च जातयः ।
ततः प्रभृति लोके ऽस्मिन्प्रजा मैथुनसंभवाः ।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वासां सृष्टिरुच्यते

1.37.49

ऋषिरुवाच
देवानां दानवानां च देवर्षिणां च ते शुभः ।
संभवः कथितः पूर्वं दक्षस्य च महात्मनः

1.37.50

प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया ।
कथं प्राचे तस्त्वं च पुनर्लेभे महातपाः

1.37.51

एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि ।
दौहित्रश्चैव सोमस्य कथं श्र्वशुरतां गतः

1.37.52

सूत उवाच
उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः ।
ऋषयो ऽत्र न सुह्यन्ति विद्यावन्तश्च ये जनाः

1.37.53

युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः ।
पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति

1.37.54

ज्यैष्ठ्यकानिष्ठ्यमप्येषां पूर्वमासीद्द्विजोत्तमाः ।
तप एव गरीयो ऽभूत्प्रभावश्चैव कारणम्

1.37.55

इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम् ।
प्रजावानायुषस्तीर्णः स्वर्गलोके महीयते

1.37.56

एवं सर्गः समाख्यातश्चाक्षुषस्य समासतः ।
इत्येते षट् निसर्गाश्च क्रान्ता मन्वन्तरात्मकाः

1.37.57

स्वायंभुवाद्याः संक्षेपाच्चाशुषान्ता यथाक्रमम् ।
एते सर्गा यथा प्राज्ञैः प्रोक्ता ये द्विजसत्तमाः

1.37.58

वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः ।
अन्यूनानतिरिक्तास्ते सर्वे सर्गा विवस्वतः

1.37.59

आरोग्यायुः प्रमाणेभ्यो धर्मतः कामतोर्ऽथतः ।
एतानेव गुणानेति यः पठन्ननसूयकः

1.37.60

वैवस्वतस्य वक्ष्यामि सांप्रतस्य महात्मनः ।
समासव्यासतः सर्गं ब्रुवतो मे निबोधत

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc