भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.38

1.38.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे चाक्षुषसर्गवर्णनं नाम सप्तत्रिंशत्तमो ऽध्यायः
सूत उवाच
सप्तम त्वथ पर्याये मनोर्वैवस्वतस्य ह ।
मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः

1.38.2

आदित्या वसवी रुद्राः साध्या विश्वे मरुद्गणाः ।
भृगवोंऽगिरसश्चैव ते ऽष्ठौ देवगणाः स्मृताः

1.38.3

आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः ।
साध्याश्य वसवो विश्वे धर्मपुत्रास्त्रयो गणाः

1.38.4

भृगोस्तु भृगवो देवा ह्यङ्गिरसोंऽगिरः सुताः ।
वैवस्वतेंऽतरे ह्यस्मिन्नित्ये ते छन्दजा मताः

1.38.5

एते ऽपि च गमिष्यन्ति महान्तं कालपर्ययात् ।
एवं सर्गस्तु मारीचो विज्ञेयः सांप्रतः शुभः

1.38.6

तेजस्वी सांप्रतस्तेषामिन्द्रो नाम्ना महाबलः ।
अतीतानागता ये च वर्त्तन्ते सांप्रतं च ये

1.38.7

सर्वे मन्वन्तरेद्रास्ते विज्ञेयास्तुल्यलक्षणाः ।
भूतभव्यभवन्नाथाः सहस्राक्षाः पुरन्दराः

1.38.8

सघवन्तश्चते सर्वे शृङ्गिणो वज्रपाणयः ।
सर्वैः क्रतुशतेनेष्टं पृथक्छतगुणेन तु

1.38.9

त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ।
अभिभूयावतिष्ठन्ति धर्माद्यैः कारणैरपि

1.38.10

तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः ।
भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः

1.38.11

एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मे निबोधत ।
भूतभव्यभवद्ध्येत त्समृतं लोकत्रयं द्विजैः

1.38.12

भूर्लोको ऽयं स्मृतो भूतमन्तरिक्षं भवत्स्मृतम् ।
भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम्

1.38.13

ध्यायता लोकनामानि ब्रह्मणाग्रे विभाषितम् ।
भूरिति व्याहृतं पूर्वं भूर्लोको ऽयमभूत्तदा

1.38.14

भू सत्तायां स्मृतो धातुस्तथासौ लोकदर्शने ।
भूतत्वाद्दर्शनाच्चैव भूर्लोको ऽयमभूत्ततः

1.38.15

अतो ऽयं प्रथमो लोको भूतत्वाद्भूर्द्वजैः स्मृतः ।
भूते ऽस्मिन्भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः

1.38.16

भवदित्यत्पद्यमाने काले शब्दो ऽयमुच्यते ।
भवनात्तु भुवल्लोको निरुत्तया हि निरुच्यते

1.38.17

अन्तरिक्षं भवत्तस्माद्द्वितीयो लोक उच्यते ।
उत्पन्ने तु तथा लोके द्वितीये ब्रह्मणा पुनः

1.38.18

भव्येति व्याहृतं पश्चाद्भव्यो लोकस्ततो ऽभवत् ।
अनागते भव्य इत शब्द एष विभाव्यते

1.38.19

तस्माद्भव्यो ह्यसौ लोको नामतस्त्रिदिवं स्मृतम् ।
भूरितीयं स्मृता भूमिरन्तरिक्षं भुवः स्मृतम्

1.38.20

दिवं स्मृतं तथा भव्यं त्रलोक्यस्यैष निर्णयः ।
त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयो ऽभवन्

1.38.21

नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः ।
यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तथा

1.38.22

लोकत्रयस्य नाथास्ते तस्मादिन्द्राद्विजैः स्मृताः ।
प्रधानभूता देवेन्द्रा गुणभूतास्तथैव च

1.38.23

मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ।
यज्ञगन्धर्वरक्षांसि पिशाचो रगमानुषाः

1.38.24

महिमानः स्मृता ह्येते देवेन्द्राणां तु सर्वशः ।
देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते

1.38.25

रक्षन्तीमाः प्रजा ह्येते धर्मेणेह सुरोत्तमाः ।
इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः

1.38.26

सप्तर्षीन्संप्रवक्ष्यामि सांप्रतं ये दिवं श्रिताः ।
गाधिजः कौशिको धीमान्विश्वामित्रो महातपाः

1.38.27

भार्गवो जमदग्निश्च ह्यौर्वपुत्रः प्रतापवान् ।
बृहस्पतिसुतश्चापि भरद्वाजो महा यशाः

1.38.28

औतथ्यो गौतमो विद्वाञ्शरद्वान्नाम धार्मिकः ।
स्वायंभुवो ऽत्रिर्भगवान्ब्रह्मकोशः सपञ्चमः

1.38.29

षष्ठो वसिष्ठपुत्रस्तु वसुमांल्लोकविश्रुतः ।
वत्सरः काश्यपश्यैव सप्तैते साधुसंमताः

1.38.30

एते सप्तर्षयश्योक्ता वर्त्तन्ते सांप्रतेंऽतरे ।
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेब च

1.38.31

नरिष्यन्तश्चविख्यातो नाभागो दिष्ट एव च ।
करूषश्च पृषध्रश्च पांशुश्चनवमः स्मृतः

1.38.32

मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ।
कीर्तिता वै तथा ह्येते सप्तमं चैतदन्तरम्

1.38.33

इत्येष ह मया पादो द्वितीयः कथितोद्विजाः ।
विस्तरेणानुपूर्व्या च भूयः किं कथयाम्यहम्

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc