भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.36

1.36.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुष्गपादे वेदव्यसनाख्यानं स्वायंभुवमन्वन्तरवर्णनं च नाम पञ्चत्रिंशत्तमो ऽध्यायः
शांशपायन उवाच
मन्वन्तराणि शेषाणि श्रोतुमिच्छाम्यनुक्रमात् ।
मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान्

1.36.2

सूत उवाच
मन्वन्तराणि यानि स्युरतीतानागतानि ह ।
समासा द्विस्तराच्चैव ब्रुवतो मे निबोधत

1.36.3

स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा

1.36.4

षडेते मनवो ऽतीता वक्ष्याम्यष्टावनागतान् ।
सावर्णिश्चैव रौच्यश्च भौत्यो वैवस्वतस्तथा

1.36.5

वक्ष्याम्येतान्पुरस्तात्तु मनोर्वेवस्वतस्य च ।
मनवः पञ्च ये ऽतीता मानसांस्तान्निबोधत

1.36.6

मन्वन्तरं मया वो ऽध्य क्रान्तं स्वायंभुवस्य ह ।
अत ऊर्ध्वं प्रवक्ष्यामि मनाः स्वारोचिषस्य ह

1.36.7

प्रजासर्गं समासेन द्वितीयस्य महात्मनः ।
आसन्वै तुषिता देवा मनोः स्वारोचिषे ऽन्तरे

1.36.8

पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ ।
तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः

1.36.9

पारावताश्च वासिष्ठा द्वादश द्वौ गणौ स्मृतौ ।
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः

1.36.10

दिवस्पर्शो ऽथ जामित्रो गोपदो भासुरस्तथा ।
अजश्च भगवाश्चैव द्रविणश्य महा बलः

1.36.11

आयश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् ।
चिकित्वान्विश्रुतो यस्तु चांशो यश्चैव पठ्यते

1.36.12

ऋतश्चद्वादशस्तेषां तुषिताः परिकीर्त्तिताः ।
इत्येते क्रतुपुत्रास्तु तदासन्सोमपायिनः

1.36.13

प्रचेताश्चैव यो देवो विश्वदेवस्तथैव च ।
समञ्जो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्द्दनः

1.36.14

आयुर्दानो महामानो दिव्यमानस्तथैव च ।
अजेयश्च महाभागो यवीयांश्च महाबलः

1.36.15

होता यज्वा तथा ह्येते परिक्रान्ताः परावताः ।
इत्येता देवता ह्यासन्मनोः स्वारोचिषान्तरे

1.36.16

सोमपास्तु तदा ह्येताश्चतुर्विशति देवताः ।
तेषामिन्द्रस्तदा ह्यासीद्विपश्चिल्लोकविश्रुतः

1.36.17

ऊर्जा वसिष्ठपुत्रश्च स्तंबः काश्यप एव च ।
भार्गवश्च तधा प्राम ऋषभोंऽङ्गिरसस्तथा

1.36.18

पौलस्त्यश्चैव दत्तो ऽत्रिरात्रेयो निश्चलस्तथा ।
पौलहो ऽथार्वरीवांश्च एते सप्तर्षयस्तथा

1.36.19

चैत्रः किंपुरुष श्चैव कृतान्तो विभृतो रविः ।
बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः

1.36.20

मनोः स्वारोचिषस्यैते पुत्रा वंशकराः प्रभो ।
पुराणे परिसंख्याता द्वितीयं वै तदन्तरम्

1.36.21

सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् ।
मूलं मन्वन्तरस्यैते तेषां चैवान्वयाः प्रजाः

1.36.22

ऋषीणां देवताः पुत्राः पितरो देवसूनवः ।
ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः

1.36.23

मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजा तयः ।
एतन्मन्वन्तरं प्रोक्तं समासाच्च न विस्तरात्

1.36.24

स्वायंभुवे न विस्तारो ज्ञेयः स्वारोचिषस्य च ।
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि

1.36.25

पुनरुक्तबहुत्वात्तु प्रजानां वै कुलेकुले ।
तृतीये त्वथ पर्याये उत्तमस्यान्तरे मनोः

1.36.26

पञ्च देवगणा प्रोक्तास्तान्वक्ष्यामि निबोधत ।
सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः

1.36.27

प्रतर्दनाः शिवाः सत्यागणा द्वादशकाः स्मृताः ।
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो ध्वनिः शुचिः

1.36.28

इषोर्ज्जश्च तथा श्रेष्ठः सुपर्णो द्वादशस्तथा ।
इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः

1.36.29

सहस्रधारो विश्वायुः समितारो वृहद्वसुः ।
विश्वधा विश्वकर्मा च मानसस्तु विराजसः

1.36.30

ज्योतिश्चैव विभासश्च कीर्त्तिता वंशवर्तिनः ।
अवध्यो ऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः

1.36.31

वित्तः क्रतुः सुधर्मा च धृतधर्मा यशस्विजः ।
रथोर्मिः केतुमाञ्छ्चैव कीर्त्तितास्तु प्रतर्दनाः

1.36.32

हंसस्वारौ वदान्यौ च प्रतर्दनयशस्करौ ।
सुदानो वसुदानश्च सुमञ्जसविषावुभौ

1.36.33

यमो वह्निर् यतिश्चैव सुचित्रः सुतपास्तथा ।
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः

1.36.34

सत्यानामपि नामानि निबोधत यथातथम् ।
दिक्पतिर्वाक्पतिश्चैव विश्वः शंभुस्तथैव च

1.36.35

स्वमृडीको दिविश्चैव वर्चोधामा बृहद्वपुः ।
अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च

1.36.36

सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः ।
इत्येता देवता ह्यासन्नौत्तमस्यान्तरे मनोः

1.36.37

तेषामिन्द्रस्तु देवानां सुशान्तिर्नाम विश्रुतः ।
पुत्रास्त्तवङ्गिरसस्ते वै उत्तमस्य प्रजापतेः

1.36.38

वशिष्ठपुत्राः सप्तासन्वाशिष्ठा इति विश्रुताः ।
सप्तर्षयस्तु ते सर्व उत्तमस्यान्तरे मनोः

1.36.39

आचश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः ।
देवाम्वुजश्चाप्रतिमौ महोत्साहो गजस्तथा

1.36.40

विनीतश्च सुकेतुश्च सुमित्रः सुमतिः श्रुतिः ।
उत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः

1.36.41

एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् ।
औत्तमः परिसंख्यातः सर्गः स्वारोचिषेण तु

1.36.42

विस्तरेणानुपूर्व्या च तामसस्य निबोधत ।
चतुर्थे त्वथ पर्याये तामसस्यातरे मनोः

1.36.43

सत्याः सुरूपाः सुधियो हरयश्च गणाः स्मृताः ।
पुलस्त्यपुत्रास्ते देवास्तामसस्यान्तरे मनोः

1.36.44

गणस्तु तेषां देवानामेकैकः पञ्चविंशकः ।
इन्द्रियाणां प्रतीयेत ऋषयः प्रतिजानते

1.36.45

सप्रमाणास्तु शीर्षण्यं मनश्चैवाष्टमं तथा ।
इन्द्रियाणि तथा देवा मनोस्तस्यान्तरे स्मृताः

1.36.46

तेषां बभूव देवानां शिबिरिन्द्रः प्रतापवान् ।
सप्तर्षयोंऽतरे ये च तान्निबोधत सत्तमाः

1.36.47

काव्य आङ्गिरसश्चैव काश्यपः पृथुरेव च ।
अत्रेयस्त्वग्निरित्येव ज्योतिर्धामा च भार्गवः

1.36.48

पौलहश्चरकश्चात्र वाशिष्ठः पीवरस्तथा ।
चैत्रस्तथैव पौलस्त्य ऋषयस्तामसेंऽतरे

1.36.49

जानुजङ्घस्तथा शान्तिर्नरः ख्यातिः शुभस्तथा ।
प्रियभृत्यो परीक्षिच्च प्रस्थलो ऽथ दृढेषुधिः

1.36.50

कृशाश्वः कृतबन्धुश्च तामसस्य मनोः सुताः ।
पञ्चमेत्वथ पर्याये मनोः स्वारोचिषेंऽतरे

1.36.51

गुणास्तु ये समाख्याता देवानां तान्निबोधत ।
अमिताभा भूतरयो वैकुण्ठाः ससुमेधसः

1.36.52

वरिष्ठाश्च शुभाः पुत्रा वसिष्ठस्य प्रजापतेः ।
चतुर्दश तु चत्वारो गणास्तेषां सुभास्वराः

1.36.53

उग्रः प्रज्ञो ऽग्निभावश्च प्रज्योतिश्चामृतस्तथा ।
सुमतिर्वा विरावश्च धामा नादः श्रवास्तथा

1.36.54

वृत्तिराशी च वादश्च शबरश्च चतुर्दश ।
अमिताभाः स्मृता ह्येते देवाः स्वारोचिषेंऽतरे

1.36.55

मतिश्च सुमतिश्चैव ऋतसत्यौ तथैधनः ।
अधृतिर्विधृतिश्चैव दमो नियम एव च

1.36.56

व्रतो विष्णुः सहश्चैव द्युतिमान्सुश्रवास्तथा ।
इत्येतानीह नामानि आभूतयसां विदुः

1.36.57

वृषो भेत्ता जयो भीमः शुचिर्दान्तो यशो दमः ।
नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा

1.36.58

कीर्त्तितास्तु विकुण्ठा वै सुमेधांस्तु निबोधत ।
मेधा मेधा तिथिश्चैव सत्यमेधास्तथैव च

1.36.59

पृश्निमेधाल्पमेधाश्च भूयोमेधाश्च यः प्रभुः ।
दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च

1.36.60

सर्वमेधा सुमेधाश्च प्रतिमेधाश्च यः स्मृतः ।
मेधजा मेधहन्ता च कीर्त्तितास्ते सुमेधसः

1.36.61

विभुरिन्द्रस्तथा तेषामासीद्वि क्रान्तपौरुषः ।
पौलस्त्यो दवबाहुश्च सुधामा नाम काश्यपः

1.36.62

हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः ।
ऊर्ध्वबाहुश्च वाशिष्ठः पर्जन्यः पौलहस्तथा

1.36.63

सत्यनेत्रस्तथात्रेय ऋषयो रैवतेंऽतरे ।
महावीर्यः सुसंभाव्यः सत्यको हरहा शुचिः

1.36.64

बलबन्धुर्निरामित्रः कंबुः शृगो धृतव्रतः ।
रैवतस्य च पुत्रास्ते पञ्चमं वै तदन्तरम्

1.36.65

स्वारोचिषश्चोत्तमो ऽपि तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः

1.36.66

षष्ठे खल्वपि पर्याये देवा ये चाक्षुषेंऽतरे ।
आद्याः प्रसूता भाव्यश्च पृथुकाश्च दिवौकसः

1.36.67

महानुभावा लेखास्छ पञ्च देवगणाः स्मृताः ।
दिवौकसः सर्व एव प्रोच्यन्ते मातृनामभिः

1.36.68

अत्रेः पुत्रस्य नप्तारो ह्यारण्यस्य प्रजापतेः ।
गणस्तु तेषां देवानामेकैको ह्यष्टकः स्मृतः

1.36.69

अन्तरिक्षो वसुर्हव्यो ह्यतिथिश्च प्रियव्रतः ।
श्रोता मन्तानुमन्ता च त्वाद्या ह्येते प्रकीर्त्तिताः

1.36.70

श्येनभद्रस्तथा चैव श्वेतचक्षुर्महायशाः ।
सुमनाश्च प्रचेताश्च वनेनः सुप्रचेत्सौ

1.36.71

मुनिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः ।
विजयः सुजयश्चैव मनस्योदौ तथैव च

1.36.72

मतिः परिमतिश्चैव विचेताः प्रियनिश्चयः ।
भव्या ह्येते स्मृता देवाः पृथुकांश्च निबोधत

1.36.73

ओजिष्ठः शकुनो देवो वानत्दृष्टस्तथैव च ।
सत्कृतः सत्यदृष्टिश्च जिगीषुर्विजयस्तथा

1.36.74

अजितश्च महाभागः पृथुकास्ते दिवौकसः ।
लेशास्तथा प्रवक्ष्यामि नामतस्तान्निबोधत

1.36.75

मनोजवः प्रघासश्च प्रचेताश्च महायशाः ।
ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान्

1.36.76

युवना बृहस्पतिश्चैव लेखाः संपरिकीर्त्तिताः ।
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत्

1.36.77

उत्तमो भार्गवश्चैव हविष्मानङ्गिरःसुतः ।
सुधामा काश्यपश्चैव वशिष्ठो विरजास्तथा

1.36.78

अतिनामा च पौलस्त्यः सहिष्णुः पौलहस्तथा ।
मधुरात्रेय इत्येते सप्त वै चाक्षुषेंऽतरे

1.36.79

ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नशचेति ते नव

1.36.80

अभिमन्युश्च दशमो नाड्वलेया मनोः सुताः ।
चाक्षुषस्य सुताः ह्येते षष्ठं चैव तदन्तरम्

1.36.81

वैवस्वतेन संख्यातस्तत्सर्गः सांप्रतेन तु ।
विस्तरेणानुपूर्व्या च चाक्षुषस्यान्तरे मनोः

1.36.82

ऋषय ऊचुः
चाक्षुषः कस्य दायादः संभूतः सक्य वान्वये ।
तस्यान्ववाये ये ऽप्यन्येतान्नो ब्रूहि यथातथम्

1.36.83

सूत उवाच
चाक्षुषस्य विसर्गं तु समासाच्छृणुत द्विजाः ।
यस्यान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान्

1.36.84

प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा ।
उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः

1.36.85

दत्तकः स तु पुत्रो ऽस्य राजा ह्यासीत्प्रजापतिः ।
स्वायंभुवेन मनुना दत्तो ऽत्रेः कारणं प्रति

1.36.86

मन्वन्तरमथासाद्य भविष्यच्चाक्षुषस्य ह ।
षष्ठं तदनु वक्ष्यामि उपोद्धातेन वै द्विजाः

1.36.87

उत्तानपादाच्चतुरः सूनृतासूत भामिनी ।
धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता

1.36.88

उत्पन्ना जापि धर्मेम ध्रुवस्य जननी शुभा ।
धर्मस्य पत्न्यां लक्ष्मयां वै उत्पन्ना सा शुचिस्मिता

1.36.89

ध्रुवं च कीर्त्तिमन्तं च त्वायुष्मन्तं वसुं तथा ।
उत्तानपादो ऽजनयत्कन्ये द्वे च शुचिस्मिते

1.36.90

स्वरामनस्विनी चैव तयोः पुत्राः प्रकीर्त्तिताः ।
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान्

1.36.91

तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः ।
त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य तु

1.36.92

आत्मानं धारयन्योगान्प्रार्थयन्सुमहद्यशः ।
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम्

1.36.93

आभूतसंप्लवाद्दिव्यमस्तोदयविवार्जितम् ।
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य तु

1.36.94

दैत्या सुराणामाचार्यः श्लोकमप्युशाना जगौ ।
अहो ऽस्य तपसो वीर्यमहो श्रुतमहो व्रतम्

1.36.95

कृत्वा यदेनमुपरि ध्रुवं सप्तर्षयः स्थिताः ।
द्रुवे त्रिदिवमासक्तमीश्वरः स दिवस्पतिः

1.36.96

ध्रुवात्सृष्टिं च भव्यं च भूमिस्तौ सुषुवे नृपौ ।
स्वां छायामाह वै सृष्टिर्भवनारीति तां प्रभुः

1.36.97

सत्याभिव्यहृतेस्तस्य सद्यः स्त्री साभवत्तदा ।
दिव्यसंहनना छाया दिव्याभरणभूषिता

1.36.98

छायायां सृष्टिराधत्त पञ्च पुत्रानकल्मषान् ।
प्राजीनगर्भं वृषभं वृकञ्च वृकलं धृतिम्

1.36.99

पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नुपम् ।
नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि

1.36.100

संवत्सरसहस्रान्ते सकृदाहारमाहरन् ।
एवं मन्वन्तरं युक्त इन्द्रत्वं प्राप्तवान्प्रभुः

1.36.101

उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् ।
रिपुं रिपुञ्जयाज्जज्ञे वराङ्गी तु दिवञ्जयात्

1.36.102

रिपोराधत्त बृहती वक्षुषं सर्वतेजसम् ।
तस्य पुत्रो मनुर्विद्वान् ब्रह्मक्षत्त्रप्रवत्तकः ।
व्यजीजनत्पुष्करिणी वारुणी चाक्षुषं मनुम्

1.36.103

ऋषय ऊचुः
प्रजापतेः सुता कस्माद्वारुणी प्रोच्यते ऽनघ ।
एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे

1.36.104

सूत उवाच
अरण्यस्योदकः पुत्रो वरुणत्वमुपागतः ।
तेन सा वारुणी ज्ञेया भ्रात्रा ख्यातिमुपागता

1.36.105

मनोरजायन्त दश नड्वलायां सुताः शुभाः ।
कन्यायां सुमहावीर्या विरजस्य प्रजापतेः

1.36.106

ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति वै नव

1.36.107

अभिमन्युश्च दशमो नड्वलायां मनोः सुताः ।
ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान्

1.36.108

अङ्गं सुमनसं ख्यातिङ्गयं शुक्रं व्रजाजिनौ ।
अङ्गात्सुनीथापत्यंवै वेनमेकं व्यजायत

1.36.109

तस्यापराधाद्वेनस्य प्रकोपस्तु महानभूत् ।
प्रजार्थमृषयो यस्यममन्थुर्दक्षिणां करम्

1.36.110

जनितस्तस्य पाणौ तु मथिते रूपवान्पृथुः ।
जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम्

1.36.111

अब्रु वंस्त्वेष वो राजा ऋषयो मुदिताः प्रजाः ।
स धन्वी कवची जज्ञे तेजसा निर्दहन्निव

1.36.112

वृत्तीनामेष वो दाता भविष्यति नराधिपः ।
पृथुर्वैन्यस्तदा लोकान्ररक्ष क्षत्रपूर्वजः

1.36.113

राजसूयाभिषिक्तानामाद्यस्स वसुधाधिपः ।
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ

1.36.114

तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता ।
प्रजानां वृत्तिकामानां देवैश्चर्षिगणैः सह

1.36.115

पितृभिर् दानवैश्चैव गन्धर्वैश्चाप्सरोगणैः ।
सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षवीरुधैः

1.36.116

तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा ।
प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन्

1.36.117

शांशपायन उवाच
विस्तरेण पृथोर्जन्म कीर्त्तयस्व महाव्रत ।
यथा महात्मना तेन पूर्वं दुग्धा वसुंधरा

1.36.118

यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह ।
यक्षै राक्षसगन्धर्वैरप्सरोभिर्यथा पुरा

1.36.119

यथा यथा च वै सूत विधिना येन येन च ।
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च

1.36.120

तथा वत्सविशेषांश्च त्वंनः प्रब्रूहि पृच्छताम् ।
यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः

1.36.121

यस्मिंश्च कारणे पाणिर्वनस्य मथितः पुरा ।
कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः

1.36.122

सूत उवाच
कथयिष्यामि वो विप्राः पृथोर्वैन्यस्य संभवम् ।
एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः

1.36.123

नाशुद्धाय न पापाय नाशिष्यायाहिताय च ।
वर्त्तनीयमिदं ब्रह्म नाव्रताय कथञ्चन

1.36.124

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् ।
रहस्यमृषिभिः प्रोक्तं शृणुयाद्यो ऽनसूयकः

1.36.125

यश्चैवं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य संभवम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम्

1.36.126

गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः ।
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः

1.36.127

तस्य पुत्रो ऽभवद्वेनो नात्यर्थं धार्मिकस्तथा ।
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः

1.36.128

स मातामहदोषेण वेनः कालात्म जात्मजः ।
स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत

1.36.129

स्थापनां स्थापयामास धर्मायेतां स पार्थिवः ।
वेदशास्त्राण्यतिक्रम्य सो ऽधर्मे निरतो ऽभवत्

1.36.130

निःस्वाध्यायवष्ट्कारे तस्मिन्राज्यं प्रशासति ।
न पिबन्ति तदा सोमं महायज्ञेषु देवताः

1.36.131

न यष्टव्यं न दातव्यमिति तस्य प्रजापतेः ।
आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते

1.36.132

अहमीज्यश्च पूज्यश्च यज्ञे देवद्विजातिभिः ।
मयि यज्ञा विधातव्या मयि होतव्यमित्यपि

1.36.133

तमतिक्रान्तमर्यादमवदानसुसंवृतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा

1.36.134

वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतं नृप ।
त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः

1.36.135

निधने संप्रसूतस्त्वं प्रजापतिरसंशयः ।
पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः

1.36.136

तां स्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ।
वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः

1.36.137

स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ।
वीर्यण तपसा सत्यैर्मया वा कः समो भुवि

1.36.138

मन्दात्मानो न नूनं मां यूयं जानीत तत्त्वतः ।
प्रभवं सर्वलोकानां धर्माणां च विशेषतः

1.36.139

इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा ।
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा

1.36.140

यदा न शक्यते स्तंभादानार्य्यभृशसंहितः ।
अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः

1.36.141

निगृह्य तं च बाहुभ्यां विस्फुरन्तं महा बलम् ।
ततो ऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः

1.36.142

तस्मात्प्रमथ्यमानाद्वै जज्ञ पूर्वमिति श्रुतिः ।
ह्रस्वो ऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह

1.36.143

स भीतः प्राञ्जलिश्चैव तस्थिवानाकुलेन्द्रियः ।
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल

1.36.144

निषादवंशकर्तासौ बभूवानन्तविक्रमः ।
धीवरानसृजच्चापि वेनकल्मषसंभवान्

1.36.145

ये चान्ये विन्ध्यनिलयास्तंबुरास्तुबुराः खशाः ।
अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान्

1.36.146

पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरब्धा ममन्थुर्जातमन्यवः

1.36.147

पृथुस्तस्मात्समुत्पन्नः कराज्जलजसन्निभात् ।
पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः

1.36.148

दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् ।
आद्यमाजगवं नाम धनुर्गृह्य महारवम्

1.36.149

शारांश्च बिभ्रद्रक्षार्थ कवचं च महाप्रभम् ।
तस्मिञ्जा ते ऽथ भूतानि संप्रहृष्टानि सर्वशः

1.36.150

समापेतुर्महाराजं वेनश्च त्रिदिवं गतः ।
समुत्पन्नेन राजर्षिः सत्पुत्रेण महात्मना

1.36.151

त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ।
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः

1.36.152

अभिषेकाय तोयं च सर्व एवोपत स्थिरे ।
पितामहश्च भगवानङ्गिरोभिः सहामरैः

1.36.153

स्थावराणि च भूतानि जङ्गमानि च सर्वशः ।
समागम्य तदा वैन्यमभ्य षिञ्चन्नराधिपम्

1.36.154

महता राजराजेन प्रजापालं महाद्युतिम् ।
सो ऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः

1.36.155

आदि राजो महाभागः पृथुर्वैन्यः प्रतापवान् ।
पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः

1.36.156

ततो राजेति नामास्य ह्यनुरागादजायत ।
आपस्तस्तंभिरे तस्य समुद्रमभियास्यतः

1.36.157

पर्वताश्चावदीर्यन्त ध्वजभङ्गश्च नाभवत् ।
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया

1.36.158

सर्वकामदुघा गावः पृटके पुटके मधु ।
एतस्मिन्नेव काले तु यजतस्तस्य वै मखे

1.36.159

सोमे सुते समु त्पन्नः सूतः सौत्ये तदाहनि ।
तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञे ऽथ मागधः

1.36.160

सामगेषु च गायत्सु शुभाण्डे वैश्वदेविके ।
समागते समुत्पन्नस्तस्मान्मागध उच्यते

1.36.161

ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः ।
जुहावेन्द्राय दैवेन ततः सूतो व्यजायत

1.36.162

प्रमादस्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु ।
शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः

1.36.163

अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ।
यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः

1.36.164

सूतः पूर्वेण साधर्म्यात्तुल्यधर्मः प्रकीर्त्तितः ।
मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम्

1.36.165

रथनागाश्वचरितं जघन्यं च चिकित्सितम् ।
पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः

1.36.166

तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैतदनुरूपं च पात्रं चायं नराधिपः

1.36.167

तावूचतुस्ततः सर्वांस्तानृषीन्सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः

1.36.168

न चास्य विद्वो वै कर्म न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्याव प्रोचुस्तेजस्विनो द्विजाः

1.36.169

एष कर्मरतो नित्यं सत्यवाक्संयतेन्द्रियः ।
ज्ञानशीलो वदान्यश्च संग्रामेष्वपरजितः

1.36.170

ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ।
यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः

1.36.171

तानि गीतनिबद्धानि ह्यस्तुतां सूतमागधौ ।
ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः

1.36.172

अनूपदेशं सूताय मगधं मागधाय च ।
तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः

1.36.173

आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः ।
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः

1.36.174

एष वृत्तिप्रदो वैन्यो भविष्यति नराधिपः ।
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः

1.36.175

त्वं नो वृत्तिं विधत्स्वेति महार्षिवच नात्तदा ।
सो ऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया

1.36.176

धनुर्गृहीत्वा बाणांश्च वसुधामाद्रवद्बली ।
ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही

1.36.177

तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ।
सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा

1.36.178

संददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् ।
ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम्

1.36.179

महायोगं महात्मानं दुर्द्धर्षममरैरपि ।
अलबन्ती तु सा त्राणं वैन्यमेवान्वपद्यत

1.36.180

कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सादा ।
उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति

1.36.181

कथं धारयिता चासि प्रजा या वर्द्धिता मया ।
मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत्

1.36.182

मत्कृते न विनश्येयुः प्रजाः पार्थिव वर्द्धिताः ।
स मां नर्हसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि

1.36.183

प्रजानां पृथिवीपाल शृणु चेदं वचो मम ।
उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः

1.36.184

हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप ।
अन्तर्भूता भविष्यामि जहि कोपं महाद्युते

1.36.185

अवध्यश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि ।
सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि

1.36.186

एवं बहुविधं वाक्यं श्रुत्वा तस्या महामनाः ।
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्

1.36.187

एकस्यार्थाय यो हन्यादात्मनो वा परस्य च ।
एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम्

1.36.188

यस्मिंस्तु निहते भद्रे जीवन्ते बहवः सुखम् ।
तस्मिन्हते नास्ति शुभे पातकं चोपपातकम्

1.36.189

सो ऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम्

1.36.190

त्वां निहत्याशु बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयम्

1.36.191

सा त्वं वचनमास्थाय मम धर्मभृतां वरे ।
संजीवय प्रजा नित्यं शक्ता ह्यसि न संशयः

1.36.192

दुहितृत्वं च मे गच्छ चैवमेतमहं शरम् ।
नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम्

1.36.193

प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही ।
सर्वमेतदहं राजन्विधास्यामि न संशयः

1.36.194

वत्सं तु मम तं पश्य क्षरेयं येन वत्सला ।
समां च कुरु सर्वत्र मां त्वं धर्म्मभृतां वर ।
यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेत्

1.36.195

सूत उवाच
तत उत्सारयामास शिलाजालनि सर्वशः ।
धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः

1.36.196

मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा ।
स्वभावेना भवत्तस्याः समानि विषमाणि च

1.36.197

न हि पूर्वनिसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते

1.36.198

न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः ।
चाक्षुषस्यान्तरे पूर्वमासीदेतत्पुरा किल

1.36.199

वैवस्वतेंऽतरे तस्मिन्सर्व स्यैतस्य संभवः ।
समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि

1.36.200

तत्र तत्र प्रजास्ता वै निवसंति च सर्वशः ।
आहारः फल मूले तु प्रजानामभवत्किल

1.36.201

कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ।
वैन्यात्प्रभृति लोके ऽस्मिन्सर्वस्यैतस्य संभवः

1.36.202

स कल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः ।
पृथुर्दुदोह सस्यानि स्वे तले पृथिवीं ततः

1.36.203

तेनान्नेन ततस्ता वै वर्त्तयन्ति शुभाः प्रजाः ।
ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा

1.36.204

वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः ।
छन्दासिपात्रमासीत्तु गायत्र्यादीनि सर्वशः

1.36.205

क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ।
पुनस्ततो देवगणैः पुरन्दरपुरोगमैः

1.36.206

सौवर्णं पात्रमादाय दुग्धा संश्रूयते मही ।
वत्सस्तु मघवानासीद्दोग्धा च सविता विभुः

1.36.207

क्षीरमूर्जं च मधु च वर्त्तन्ते तेन देवताः ।
पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा

1.36.208

राजतं पात्रमादाय स्वधामाशु वितृप्तये ।
वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान्

1.36.209

अन्तकश्चाभवद्दोग्धा पितॄणां बलवान्प्रभुः ।
असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा

1.36.210

आयसं पात्रमादाय किल मायश्च सर्वशः ।
विरोचनस्तु प्राह्रादिर्वत्सस्तेषां महायशाः

1.36.211

त्रत्विग्द्विमूर्द्धा दैत्यानां दोग्धाभूद्दितिनन्दनः ।
पायसा ते च मायाभिः सर्वे मायाविनो ऽसुराः

1.36.212

वर्त्तयन्ति महावीर्यास्तदेषां परमं बलम् ।
नागैस्तु श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम्

1.36.213

अलाब5पात्रमादाय विषं क्षीरं तदा मही ।
तेषां वै वासुकिर्देग्धा काद्रवेयः प्रतापवान्

1.36.214

नागानां वै द्विजश्रेष्ठ सर्पाणां चैव सर्वशः ।
तेनैव वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः

1.36.215

तदाहारास्तदाचारास्त द्वीर्यास्तदुपाश्रयाः ।
आमपात्रे पुनर्दुग्धा त्वन्तर्धानप्रियं मही

1.36.216

वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ।
दोग्धा रजतनाभस्तु पिता मणिधरस्य यः

1.36.217

यज्ञात्मजो महातेजा वशी च सुमहायशाः ।
तेन ते वर्त्तयन्तीति परमर्थतया च ह

1.36.218

राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ।
ब्रह्मा ब्राह्यास्तु वै दोगधा तेषामासीत्कुबेरकः

1.36.219

वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च ।
कपालपात्रे निर्दुग्धा ह्यन्तर्द्धनं च राक्षसैः

1.36.220

तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ।
पद्मपात्रे पुनर्दुग्धा गन्धर्वैश्चाप्स रोगणैः

1.36.221

वत्सं चित्ररथं कृत्वा शुचीन्गन्धामही तदा ।
तेषां वसुरुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः

1.36.222

गन्धर्वराजो ऽतिबलो महात्मा सूर्यसन्निभः ।
शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा

1.36.223

तदौषधीर्मूर्तिमती रत्नानि विविधानि च ।
वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः

1.36.224

पात्रं तु शैलमेवासीत्तेन शैलाः प्रतिष्ठिताः ।
श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा

1.36.225

पालाशं पात्रमादाय छिन्नदग्धप्ररोहणम् ।
कामधुक् पुष्पितः शालः प्लक्षो वत्सो यशस्विनाम्

1.36.226

सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी ।
सैव धात्री विधात्री च धारणी च वसुन्धरा

1.36.227

दुग्धा हितार्थं लोकानां पृथुनेति हि नः श्रुतम् ।
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc