भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.35

1.35.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे व्यासशिष्योत्पत्तिवर्णनं नाम चतुस्त्रिंशत्तमो ऽध्यायः
सूत उवाच
देवमित्रश्च शाकल्यो महात्मा द्विजपुङ्गवः ।
चकार संहिताः पञ्च बुद्धिमान्वेदवित्तमः

1.35.2

पञ्च तस्याभवञ्छिष्या मुद्गलो गोखलस्तथा ।
खलीयान्सुतपा वत्सः शैशिरेयश्च पञ्चमः

1.35.3

प्रोवाच संहितास्तिस्रः शाको वैणो रथीतरः ।
निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः

1.35.4

तस्य शिष्यास्तु चत्वारः पैलश्चेक्षलकस्तथा ।
धीमाञ्छ तबलाकश्च गजश्चैव द्विजोत्तमाः

1.35.5

बाष्कलिस्तु भरद्वाजस्तिस्रः प्रोवाच संहिताः ।
त्रयस्तस्याभवञ्च्छिष्या महात्मानो गुणान्विताः

1.35.6

धीमांश्च त्वापनापश्च पान्नगारिश्च बुद्धिमान् ।
तृतीयश्चार्जवस्ते च तपसा शंसितव्रताः

1.35.7

वीतरागा महातेजाः संहिताज्ञानपारगाः ।
इत्येते बहूवृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः

1.35.8

वैशंपायनशिष्यो ऽसौ यजुर्वेदमकल्पयत् ।
षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः

1.35.9

शिष्येभ्यः प्रददौ ताश्च जगूहुस्ते विधानतः ।
एकस्तत्र परित्यक्तो या5वल्क्यो महातपाः

1.35.10

षडशीतिस्तथा शिष्याः संहितानां विकल्पकाः ।
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः

1.35.11

त्रिधा भेदास्तु ते वेदभेदे ऽस्मिन्नवमे शुभे ।
उदीच्या मध्यदेश्याश्च प्राच्यश्चैव पृथग्विधाः

1.35.12

श्यामायनिरुदीच्यानां प्रधानः संबभूव ह ।
मध्यदेशप्रतिष्ठाता चासुरिः प्रथमः स्मृतः

1.35.13

आलंबिरादिः प्राच्यानां त्रयोदेश्यादयस्तु ते ।
इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः

1.35.14

ऋषय ऊचुः
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः ।
किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे

1.35.15

सूत उवाच
कार्यमासीदृषीणां च किञ्चिद्ब्राह्मणसत्तमाः ।
मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम्

1.35.16

यो वात्र सप्तरात्रेण नागच्छेद्द्विजसत्तमः ।
स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः

1.35.17

ततस्ते सगणाः सर्वे वैशंपायनवर्जिताः ।
प्रययुः सप्तरात्रेण यत्र संधिः कृतो ऽभवत्

1.35.18

ब्रह्मणानां तु वचनाद्ब्रह्महत्यां चकार सः ।
शिष्यानथ समानीय स वैशंपायनो ऽब्रवीत्

1.35.19

ब्रह्महत्यां चरध्वं वै मत्कृते द्विजसत्तमाः ।
सर्वे यूयं समागम्य ब्रूत कामं हितं वचः

1.35.20

याज्ञवल्क्य उवाच
अहमेकश्चरिष्यामि तिष्ठन्तु मुनयस्त्विमे ।
बलेनोत्थापयिष्यामि तपसा स्वेन भावितः

1.35.21

एव मुक्तस्ततः क्रुद्धो या5वल्क्यम थात्यजत् ।
उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे

1.35.22

एवमुक्तः सरूपाणि यजूंषि गुरवे ददौ ।
रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः

1.35.23

ततः स ध्यानमास्थाय सर्यमाराधयद्द्विजः ।
सूर्ये ब्रह्म यदुत्पन्नं तं गत्वा प्रतितिष्ठति

1.35.24

ततो यानि गतान्यूर्ध्वं यजूष्यादित्यमडलम् ।
तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये

1.35.25

अश्वरूपाय मार्त्तण्डो याज्ञवक्ल्याय धीमते ।
यजूंष्यधीयते तानि ब्राह्मणा येन केनचित्

1.35.26

अश्वरूपाय दत्तानि ततस्ते वाजिनो ऽमवन् ।
ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः

1.35.27

वैशंपायनशिष्यास्ते चरकाः समुदाहृताः ।
इत्येते चरकाः प्रोक्ता वाजिनस्तु निबोधत

1.35.28

या5वल्क्यस्य शिष्यास्ते कण्वो बौधेय एव च ।
मध्यन्दिनस्तु सापत्यो वैधेयश्चाद्धबौद्धकौ

1.35.29

तापनीयश्च वत्साश्च तथा जाबालकेवलौ ।
आवटी च तथा पुण्ड्रो वैणोयः सपराशरः

1.35.30

इत्येते वाजिनः प्रोक्ता दशपञ्च च सत्तमाः ।
शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः

1.35.31

पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः ।
सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्पुनः

1.35.32

सुकर्माणं ततः सुन्वान्पुत्रमध्यापयत्पुनः ।
स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः

1.35.33

प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ।
अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः

1.35.34

प्रायोपवेशमकरोत्ततो ऽसौ शिष्यकारमात् ।
क्रुद्धं दृष्ट्वा ततः शक्रोवरं सो ऽथ पुनर्ददौ

1.35.35

भविष्यतो महावीर्यौं शिष्यौ ते ऽतुलवर्चसौ ।
अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ

1.35.36

एते सुरा महाभागाः संक्रुद्धा द्विजसत्तम ।
इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्

1.35.37

शान्तक्रोधं द्विजं दृष्ट्वा क्षिप्रमन्तर धात्प्रभुः ।
तस्य शिष्यो ऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः

1.35.38

हिरण्यनाभः कौशल्यो द्वितीयो ऽभून्नराधिपः ।
अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः

1.35.39

ते नाम्नोदीच्यसामानः शिष्याः पौष्यञ्जिनः शुभाः ।
सत्त्वानि पञ्च कौशिल्यः संहिताना मधीतवान्

1.35.40

शिष्या हिरण्यनाभस्य स्मृतास्तु प्राच्यसामगाः ।
लौगाक्षिः कुशुमिश्चैव कुशीदिर्लाङ्गलिस्तथा ।
पौष्यञ्जि शिष्याश्चत्वारस्तेषां भेदान्निबोधत

1.35.41

नाडायनीयः सहतण्डिपुत्रस्तस्मादनोवैननामा सुविद्वान् ।
सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु

1.35.42

त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः

1.35.43

नाभिर्वित्तस्तु तेजस्वी त्रिविधा कौशुमाः स्मृताः ।
शौरिषुः शृङ्गिपुत्रश्च द्वावेतौ तु चिरव्रतौ

1.35.44

राणायनीयिः सौमित्रिः सामवेदविशारदौ ।
प्रोवाच संहितास्ति स्रः शृङ्गिपुत्रौ महात्पाः

1.35.45

वैनः प्राजीनयोगश्च सुरालश्च द्विजौत्तमः ।
प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः

1.35.46

आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ।
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः

1.35.47

कौथुमस्य तु भेदाश्च पाराशर्यस्य पट् समृताः ।
लाङ्गलः शालिहोत्रश्च षडुवाचाथ संहिताः

1.35.48

हालिनिर्ज्यामहानिश्च जैमिनिर्लोमगायनिः ।
कण्डुश्च कोहलश्चैव षडे ते लाङ्गलाः स्मृताः

1.35.49

एते लाङ्गलिनः शिष्याः संहिता यैः प्रवर्त्तिताः ।
एको हिरण्यनाभस्य कृतः शिष्यो नृपात्मजः

1.35.50

सो ऽकरोत्तु चतुर्विशसंहिता द्विपदां वरः ।
प्रोवाच चैव शिष्येभ्यो येभ्यस्ताश्च निबोधत

1.35.51

राडिश्च राडवीयश्च पञ्जमौ वाहनस्तथा ।
तलको माण्डुकश्चैव कालिको राजिकंस्तथा

1.35.52

गौतमश्चाजबस्तश्च सोमराजायनस्ततः ।
पुष्टिश्च परिकृष्टश्च उलूखलक एव च

1.35.53

यवीयसस्तु वै शालीरङ्गुलीयश्च कौशिकः ।
शालिमञ्जरिपाकश्च शधीयः कानिनिश्च यः

1.35.54

पाराशर्यस्तु धर्मात्मा इति क्रान्तास्तु सामगाः ।
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ परिकीर्त्तितौ

1.35.55

पौष्यञ्जिश्च कृतश्चैव संहितानां विकल्पकौ ।
अथर्वाणं द्विधा कृत्वा सुमन्तुरददाद्द्विजाः

1.35.56

कबन्धाय पुनः कृष्णं स च विद्वान्यथाश्रुतम् ।
कबन्धस्तु द्विधा कृत्वा पथ्यायैकं पुनर्ददौ

1.35.57

द्वितीयं देवदर्शायस चतुर्धाकरोत्प्रभुः ।
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च

1.35.58

शौल्कायनिश्च धर्मज्ञश्चतुर्थस्तपसि स्थितः ।
देवदर्शस्य चत्वारः शिष्या ह्येते दृढव्रताः

1.35.59

पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् ।
जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः

1.35.60

शौनकस्तु द्विधा कृत्वा ददावेकान्तु बभ्रवे ।
द्द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञि ते

1.35.61

सैन्धवो मुञ्जकेश्यश्च भिन्नामाधाद्द्विधा पुनः ।
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः

1.35.62

चतुर्थोंऽगिरसः कल्पः शान्तिकल्पश्च पञ्चमः ।
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः

1.35.63

खड्गः कृत्वा मया युक्तं पुराणमृषिसत्तमाः ।
आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः

1.35.64

भारद्वाजो ऽग्निवर्चाश्च वासिष्ठा मित्रयुश्च यः ।
सावर्णिः सोमदत्तिश्च सुशर्मा शांशपायनः

1.35.65

एते शिष्या मम प्रोक्ताः पुराणेषु धृतव्रताः ।
त्रिभिस्तत्र कृतास्तिस्रः संहिताः पुनरेव हि

1.35.66

काश्यपः संहिता कर्त्ता सावर्णिः शांशपायनः ।
मामिका तु चतुर्थी स्याच्चतस्रो मूलसंहिताः

1.35.67

सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः ।
पाठान्तरे वृथाभूता वेदशाखा यथा तथा

1.35.68

चतुः साहस्रिकाः सर्वाः शांशपायनिकामृते ।
लौमहर्षणिका मूला ततः काश्यपिका परा

1.35.69

सावर्णिका तृतीयासावृजुवाक्यार्थमण्डिता ।
शांशपायनिका चान्या नोदनार्थविभूषिता

1.35.70

सहस्राणि ऋचां चाष्टौ षट्शतानि तथैव च ।
एताः पञ्चदशान्याश्च दशान्या दशभिस्तथा

1.35.71

सवालखिल्याः सप्तैताः ससुपर्णाः प्रकीर्त्तिताः ।
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश

1.35.72

सारण्यकं सहोहं च एतद्गायन्ति सामगाः ।
द्वादशैव सहस्राणि च्छन्द आध्वर्यवं स्मृतम्

1.35.73

यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् ।
सग्राम्यारण्यकं तस्मात्समन्त्रकरणं तथा

1.35.74

अतः परं कथानं तु पूर्वा इति विशेषणम् ।
ग्राम्यारण्यं समन्त्रं तदृग्ब्राह्मणयजुः स्मृतम्

1.35.75

तथा हारिद्रवीर्याणां खिलान्युपखिलानितु ।
तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम्

1.35.76

द्वे सहस्रे शतन्यूने वेदे वाजसनेयके ।
ऋग्गमः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम्

1.35.77

अष्टौ सहस्राणि शतानि वाष्टावशीतिरन्यान्यधिकानि वा च ।
एतत्प्रमाणं यजुषामृचां च सशुक्रियं सखिलं याज्ञवल्क्यम्

1.35.78

तथा चारणविद्यानां प्रमाणसहितं शृणु ।
षट्सहस्रमृचामुक्तमृचः षड्विंशतिं पुनः

1.35.79

एतावदधिकं तेषां यजुः कि मपि वक्ष्यते ।
एकादशसहस्राणि ऋचश्चान्या दशोत्तराः

1.35.80

ऋचां दशसहस्राणि ह्यशीतिस्त्रिंशदेव तु ।
सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः

1.35.81

एतावानृचि विस्तारो ह्यन्यच्चाथर्विकं बहु ।
ऋचामथर्वणां पञ्चसहस्राणीति निश्चयः

1.35.82

सहस्रमन्यद्विज्ञेयमृषि भिर्विशतिं विना ।
एतदङ्गिरसां प्रोक्तं तेषामारण्यकं पुनः

1.35.83

इति संख्या प्रसंख्याता शाखाभेदास्तथैव तु ।
कर्तारशचैव शाखानां भेदहेतूंस्तथैव च

1.35.84

सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाश्रिताः ।
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः

1.35.85

अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः ।
द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः

1.35.86

एवं वेदं तदाप्यस्य भगवानृषिसत्तमः ।
शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः

1.35.87

तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ।
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः

1.35.88

धर्मशास्त्रं पुराणं च विद्याश्चेमाश्चतुर्दश ।
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः

1.35.89

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव हि ।
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः

1.35.90

राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रिधा ।
काश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरो ऽत्रिषु

1.35.91

पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः ।
यस्मादृषन्ति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः

1.35.92

धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च ।
प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः

1.35.93

देवर्षयः सुतास्तेषां नामतस्तान्निबोधत ।
देवार्षी धर्मपुत्रौ तु नरनारायणवुभौ

1.35.94

वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु ।
कुबेरश्चैव पौलस्त्यः प्रत्यूषस्य दलः सुत

1.35.95

नारदः पर्वतश्चैव कश्यपस्यात्मजावुभौ ।
ऋषन्ति वेदान्यस्मात्ते तस्माद्देवर्षयः स्मृताः

1.35.96

मानवे चैव ये वंशे ऐलवंशे च ये नृपाः ।
ये च ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते

1.35.97

ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः ।
ब्रह्मलोकप्रतिष्ठास्तु समृता ब्रह्मर्षयो ऽमलाः

1.35.98

देवलोकप्रतिष्ठास्तु ज्ञेया देवर्षयः शुभाः ।
इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः

1.35.99

अभिजात्याथ तपसा मन्त्रव्याहरणैस्तथा ।
ये च ब्रह्मर्षयः प्रोक्ता दिव्या देवर्षयश्च ये

1.35.100

राजर्षयस्तथा चैव तेषां वक्ष्यामि लक्षणम् ।
भूतं भव्यं भवज्ज्ञानं सत्याभि व्यात्दृतं तथा

1.35.101

संतुष्टाश्च स्वयं ये तु संबुद्धा ये च वै स्वयम् ।
तपसेह प्रसिद्धा ये गर्भे यैश्च प्रवेदितम्

1.35.102

मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये ।
एते राजर्षयो युक्ता देवाद्विजनृपाश्च ये

1.35.103

एतान्भावानधिगता ये वै त ऋषयो मताः ।
सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः

1.35.104

दीर्घायुषो मन्त्रकृत ईश्वराद्दिव्यचक्षुषः ।
बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते

1.35.105

षट्कर्मनिरता नित्यं शालीना गृहमेधिनः ।
तुल्यैर्व्यवहरन्ति स्म ह्यदुष्टैः कर्महेतुभिः

1.35.106

अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयङ्कृतैः ।
कुटुंबिनो बुद्धिमन्तो वनान्तरनिवासिनः

1.35.107

कृतादिषु युगाख्यासु सर्वैरेव पुनः पुनः ।
वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै

1.35.108

प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह ।
प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः

1.35.109

तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ।
जायमाने पितापुत्रे पुत्रः पितरि चैव हि

1.35.110

एवं संतत्य विच्छेदाद्वर्तयन्त्यायुगक्षयात् ।
अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम्

1.35.111

अर्यम्णो दक्षिणं ये तु पितृयानं समाश्रिताः ।
दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः

1.35.112

गृहमेधिनस्त्वसंख्येयाः श्मशानान्याश्रयन्ति ते ।
अष्टाशीतिसहस्राणि निहिता उत्तरापथे

1.35.113

ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः ।
मन्त्रब्राह्मणकर्त्तारो जायन्ते च युगक्षयात्

1.35.114

एवमावर्त्तमानास्तेद्वापरेषु पुनः पुनः ।
कल्पानामार्षविद्यानां नानाशास्त्रकृतश्च ये

1.35.115

क्रियते यैर्व्यवत्दृतिर्वैदिकानां च कर्मणाम् ।
वैवस्वते ऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः

1.35.116

अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः ।
सप्तमे द्वापरे व्यमताः स्वयं वेदाः स्वयंभुवा

1.35.117

द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ।
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः

1.35.118

सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः ।
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः

1.35.119

सारस्वतस्तु नवमे त्रिधामा दशमे स्मृतः ।
एकादशे तु त्रिवर्षा सनद्वाजस्ततः परम्

1.35.120

त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे ।
त्रैय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः

1.35.121

कृतञ्जयः सप्तदशे ऋजीषो ऽष्टादशे स्मृतः ।
ऋजीषात्तु भरद्वाजो भरद्वाजात्तु गौतमः

1.35.122

गौतमादुत्तमश्चैव ततो हर्यवनः स्मृतः ।
हर्यवनात्परो वेनः स्मृतो वाजश्रवास्ततः

1.35.123

अर्वाक्च वाजश्रवसः सोममुख्यायनस्ततः ।
तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिन्दुतः

1.35.124

ततजाच्च स्मृतः शक्तिः शक्तेश्चापि पराशरः ।
जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः

1.35.125

अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः ।
भविष्ये द्वापरे चैव द्वोणिर्द्वैपायने ऽपि च

1.35.126

वेदव्यासे ह्यतीते ऽस्मिन्भविता सुमहातपाः ।
भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु

1.35.127

तस्यैव ब्रह्मणो ब्रह्म तपसः प्राप्तमव्ययम् ।
तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः

1.35.128

पुनश्च तेजसा सत्यं सत्येनानन्दमव्ययम् ।
व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते

1.35.129

ध्रुवमेकाक्षरमिदमोमित्येव व्यवस्थितम् ।
बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते

1.35.130

प्रमवा वस्थितं भूयो भूर्भुवः स्वरिति स्मृतम् ।
अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः

1.35.131

जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम् ।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः

1.35.132

अगाधापारमक्षय्यं जगत्संबोहसंभवम् ।
संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम्

1.35.133

सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् ।
यत्तदव्यक्तमतं प्रकृतिर्ब्रह्म शाश्वतम्

1.35.134

प्रधानमात्मयोनिश्च गृह्यं सत्त्वं च शस्यते ।
अविभागस्तथा शुक्रमक्षरं बहुधात्मकम्

1.35.135

परमब्रह्मणे तस्मै नित्यमेव नमोनमः ।
कृते पुनः क्रिया नास्ति कुत एवाकृतक्रियाः

1.35.136

सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ।
श्रोतव्यं वा श्रुतं वापि तथैवासाधु साधु वा

1.35.137

ज्ञातव्यं वाप्यमन्तव्यं सप्रष्टव्यं भोज्यमेव च ।
द्रष्टव्यं वाथ श्रोतव्यं घ्रातव्यं वा कथञ्चन

1.35.138

दर्शितं यदनेनैव ज्ञातं तद्वै सुरर्षिभिः ।
यन्न दर्शितवानेष कस्तदन्वेष्टुमर्हति

1.35.139

सर्वाणि सर्वं सर्वांश्च भगवानेव सो ऽब्रवीत् ।
यदा यत्क्रियते येन तदा तस्मो ऽभिमन्यते

1.35.140

यत्रेदं क्रियते पूर्वं न तदन्येन भाषितम् ।
यदा च क्रियते किञ्चित्केनचिद्वा कथं क्वचित्

1.35.141

तनैव तत्कृतं कृत्यं कर्त्तॄणां प्रतिभाति वै ।
विरिक्तं चातिरिक्तं च ज्ञानाज्ञानेप्रियाप्रिये

1.35.142

धर्माधर्मौं सुशं दुःखं मृत्युश्चामृतमेव च ।
ऊर्द्ध्वं तिर्य्यगधोभावस्तस्यैवादृष्टकारिणः

1.35.143

स्वयंभुवो ऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः ।
प्रत्येकवेद्यंभवति त्रेतास्विह पुनः पुनः

1.35.144

व्यस्यते ह्येकवेद्यं तु द्वापरेषु पुनः पुनः ।
ब्रह्मा चैतानुवाचादौ तस्मिन्वैवस्वते ऽन्तरे

1.35.145

आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः ।
कुर्वन्ति संहिता ह्येते जायमानाः परस्परम्

1.35.146

अष्टाशीतिसहस्राणि श्रुतर्षीणां समृतानि वै ।
अतीतेषु व्यतीतानि वर्त्तन्ते पुनः पुनः

1.35.147

श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे ।
युगे युगे तु ताः शाखा व्यस्यन्ते तै पुनः पुनः

1.35.148

द्वापरेष्विह सर्वेषु संहितास्तु श्रुतर्षिभिः ।
तेषां गोत्रेष्विमाः शाखा भवन्ति हि पुनः पुनः

1.35.149

ताः शाखास्ते च कर्त्तारो भवं तीहायुगक्षयात् ।
एवमेव तु विज्ञेया अतीतानागतेष्वपि

1.35.150

मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ।
अतीतेषु व्यतीतानि वर्त्तन्ते सांप्रते ऽन्तरे

1.35.151

भविष्यन्ति च यानि स्युर्वर्त्स्यन्ते ऽनागतेष्वपि ।
पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम्

1.35.152

एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ।
एवं देवाः सपितर ऋषयो मनवश्च वै

1.35.153

मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ।
जनलोकात्सुराः सर्वे दशकल्पान्पुनः पुनः

1.35.154

पर्यायकाले संप्राप्ते संभूता निधनस्य ते ।
अवश्यभाविनार्ऽथेन संभध्यन्ते तदा तु ते

1.35.155

ततस्ते दोषवज्जन्म पश्यन्तो रोगपूर्वकम् ।
निवर्त्तते तदा वृत्तिः सा तेषां दोषदर्शनात्

1.35.156

एवं देवयुगानीह दशकृत्वो विवर्त्य वै ।
जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तकम्

1.35.157

एवं देवयुगानीह व्यती तानि सहस्रशः ।
निधनं ब्रह्मलोके वै गतानि ऋषिभिः सह

1.35.158

न शक्य आनुपूर्व्येण तेषां वक्तुं सुविस्तरः ।
अनादित्वाच्च कालस्य संख्यानां चैव सर्वशः

1.35.159

मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह ।
पितृभिर्मुनिभिर्देवैः सार्द्धं च ऋषिभिः सह

1.35.160

कालेन प्रतिसृष्टानि युगानां च विवर्त्तनम् ।
एतेन क्रमयोगेन कल्पमन्वन्तराणि च

1.35.161

सप्रजानि व्यतीतानि शतशो ऽथ सहस्रशः ।
मन्वन्तरान्ते संहारः संहारान्ते च संभवः

1.35.162

देवतानामृषीणां च मनोः पितृगणस्य च ।
न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि

1.35.163

विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः ।
मन्वन्तरस्य संख्या तु मानुषेण निबोधत

1.35.164

मन्वन्तरास्तु संख्याताः संख्यानार्थविशारदैः ।
त्रिंशत्कोट्यस्तु संपूर्णा संख्याताः संख्याया द्विजैः

1.35.165

सप्तषष्टिस्तन्थान्यानि नियुतानि च संख्याया ।
विंशतिश्च सहस्रामि कालो ऽयं साधिकं विना

1.35.166

मन्वन्तरस्य संख्येयं मानुषेण प्रकीर्त्तिता ।
वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः

1.35.167

अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् ।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु

1.35.168

चतुर्दशगुणो ह्येष कालो ह्याभूतसंप्लवम् ।
पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम्

1.35.169

ततः सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः ।
ब्रह्माणामग्रतः कृत्वा सह देवर्षिदानवैः

1.35.170

प्रविशन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् ।
स स्रष्टा सर्व भूतानां कल्पादिषु पुनः पुनः

1.35.171

इत्येष स्थितिकालो वै मतो देवर्षिभिः सह ।
सर्वमन्वन्तराणां हि प्रतिसंधिं निबोधत

1.35.172

युगख्या या समुद्दिष्टा प्रागेतस्मिन्मयानघाः ।
कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम्

1.35.173

तच्चैकसप्ततिगुणं परिवृत्तं तु साधिकम् ।
मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः

1.35.174

एवं मन्वन्तराणां च सर्वेषामेव लक्षणम् ।
अतीतानागतानां वै वर्त्तिमानेन कीर्त्तितम्

1.35.175

इत्येष कीत्तितः सर्गो मनोः स्वायंभुवस्य ते ।
प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य च

1.35.176

मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह ।
अवश्यभाविनार्थेन यथावद्विनिवर्त्तते

1.35.177

एतस्मिन्नन्तरे पूर्वं त्रैलाक्यस्ये श्वरास्तु ये ।
सप्तर्षयश्च देवाश्च पितरो मनवस्तथा

1.35.178

मन्वन्तरस्य काले तु संपूर्णे साधिके तदा ।
क्षीणे ऽधिकारे संविग्ना बुद्ध्वा पर्ययमात्मनः

1.35.179

महर्लोकाय ते सर्वे उन्मुखा दधिरे मतिम् ।
ततो मन्वन्तरे तस्मिन्प्रक्षीणे देवतास्तु ताः

1.35.180

संपूर्णेस्थितिकाले तु तिष्ठेदेकं कृतं युगम् ।
उत्पद्यन्ते भविष्यन्तो ये वै मन्वन्तरेश्वराः

1.35.181

देवताः पितरश्चैव ऋषयो मनुरेव च ।
मन्वन्तरे तु संपूर्णे तद्वदन्ते कलौ युगे

1.35.182

संपद्यते कृतं तेषु कलिशिष्टेषु वै तदा ।
यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः

1.35.183

तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ।
क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः

1.35.184

मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ।
सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः

1.35.185

मन्वन्तरप्रतीक्षास्ते क्षीयमाणास्तपस्विनः ।
मन्वन्तरोत्सवस्यार्थे संतत्यर्थे च सर्वदा

1.35.186

पूर्ववत्संप्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्जने ।
द्वन्द्वेषु संप्रवृत्तेषु उत्पन्नास्वौषधीषु च

1.35.187

प्रजासु चानिकेतासु संस्थितासु क्वचित्क्वचित् ।
वार्त्तायां संप्रवृत्तायां धर्मे चैवोपसंस्थिते

1.35.188

निरानन्दे चापि लोके नष्टे स्थावरजङ्गमे ।
अग्रामनगरे चैव वर्णाश्रमविवर्जिते

1.35.189

पूर्वमन्वन्तरे शिष्टा ये भवन्तीह धार्मिकाः ।
सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः

1.35.190

प्रजार्थं तपतां तेषां तपः परमदुश्चरम् ।
उत्पद्यन्ते हि पूर्वेषां निधनेष्विह पूर्ववत्

1.35.191

देवासुराः पितृगणा ऋषयो मानुषास्तथा ।
सर्पा भूतपिशाचाश्च गन्धर्वा यक्षराक्षसाः

1.35.192

ततस्तेषां तु ये शिष्टाः शिष्टाचारान्प्रजक्षते ।
सप्तर्षयो मनुश्चव ह्यादौ मन्वन्तरस्य हि

1.35.193

प्रारभन्ते च कर्माणि मनुष्यो दैवतैः सह ।
ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा

1.35.194

पितॄणां प्रजाया चैव देवानामिज्यया तथा ।
शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः

1.35.195

त्रयी वार्त्ता दण्डनीतिर्धर्मान्वर्णाश्रमांस्तथा ।
स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः

1.35.196

पूर्वदेवेषु तेष्वेवं स्वर्गाया भिमुखेषु वै ।
पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः

1.35.197

मन्वन्तरे पुरावृत्ते स्थानान्युत्सृज्य सर्वशः ।
मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम्

1.35.198

विनिवृत्ताधिकारास्ते मानसीं सिद्धिमास्थिताः ।
अवेक्षमाणा वशिनस्तिष्ठन्त्या भूतसंप्लवात्

1.35.199

ततस्तेषु व्यतीतेषु पूर्वदेवेषु वै तदा ।
शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः

1.35.200

उपस्थिता इहान्ये वै ये देवाः स्वर्गवासिनः ।
ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति च

1.35.201

सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः ।
सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह

1.35.202

निधनानीह पूर्वेषामादितां च भविष्यताम् ।
तेषां संतत्यविच्छेद इहामन्वन्तरक्षयात्

1.35.203

एवं पूर्वानुपूर्व्येण स्थितिस्तेषामवस्थिता ।
मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम्

1.35.204

पूर्वमन्वन्तराणां तु प्रतिसंधानलक्षणम् ।
अतीतानागतानां वै प्रोक्तं स्वायंभुवेन तु

1.35.205

मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् ।
एवं संतत्यविच्छेदो भवत्याभूतसंप्लवात्

1.35.206

मन्वन्तराणां परिवर्त्तनानि ह्येकान्ततस्तानि महर्गतानि ।
महाजनं चैव जनान्तपश्च चैकान्तगानि प्रभवन्ति सत्ये

1.35.207

तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन ।
स्त्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रतिसर्ग काले

1.35.208

मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यं तु ततो ऽपरान्त ।
ततो ऽभियोगा विषयप्रहाणाद्विशन्ति नारायणमेव देवम्

1.35.209

मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु विधिस्वभावात् ।
क्षणं न वै तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः

1.35.210

इत्यन्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम् ।
वायुप्रणीतान्युपलभ्य दृश्याद् दिव्यौजसां व्याससमासयोगैः

1.35.211

सर्वाणि राजर्षिसुरर्थिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव ।
सुरेशसप्तर्षिपितृप्रजेशैर्युक्तानि सम्यक् परिवर्त्तनानि

1.35.212

उदारवंशाभिजन श्रुतीनां प्रकृष्टमेधाभिसमेधितानाम् ।
कीर्तिद्युतिख्यातिभिरर्चितानां पुण्यं हि विश्यापनमीश्वराणाम्

1.35.213

स्वर्गीयमेतत्परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम् ।
जप्यं महापर्वसु चैतदग्र्यं दुःखापशान्तिप्रदमायुषीयम्

1.35.214

प्रजशदवर्षिमनुप्रधानां पुण्यां प्रसूतिं प्रथितामजस्य ।
ममापि विख्यापयतः समासात्सिद्धिं प्रजेशाः प्रदिशन्तु युक्ताः

1.35.215

इत्येतदन्तरं प्रोक्तं मनोः स्वायंभुवस्य च ।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम्

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc