ब्रह्माण्ड पुराण · अध्याय 1.34
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे ऋषिलक्षणं नाम त्रयस्त्रिन्त्तमो ऽध्यायः
वायुरुवाच
ऋषयस्तद्वचः श्रुत्वा सूतमाहुस्तदुत्तरम् ।
कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामते
सूत उवाच
द्वापरे तु पुरावृत्ते मनोः स्वायंभुवान्तरे ।
ब्रह्मा मनुमुवाचेदं रक्षवेदं महामते
परिवृत्तं युगं तात स्वल्पवीर्या द्विजातयः ।
संवृता युगदोषेण सर्वे चैव यथाक्रमम्
तस्य मानं युगवशादल्पं चैव हि दृश्यते ।
दशसाहस्रभागेन ह्यवशिष्टं कृतोदितम्
वाय तेजो बलं चाल्पं सर्वं चैव प्रणश्यति ।
वेदक्रिया हि कार्याः स्युर्माभूद्वेदविनाशनम्
वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति ।
यज्ञे नष्टे वेदनाशस्ततः सर्वं प्रणश्यति
आद्यो वेदश्च तुष्पादः शतसाहस्रसंमितः ।
पुनर्दशगुणः कृष्णो यज्ञो वै सर्वकामधुक्
एवमुक्तस्तथेत्युक्त्वा मनुर्लौकहिते रतः ।
वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः
ब्रह्मणो वचनात्तात लोकानां हितकाम्यया ।
तदहं वर्त्तमानेन युष्माकं वेदकल्पनम्
मन्वन्तरेण वक्ष्यमि व्यतीतानां प्रकल्पनम् ।
प्रत्यक्षेण वरोक्षंवै तन्निबोधत सत्तमाः
अस्मिन्युगे तदा व्यासः पाराशर्यः परन्तपः ।
द्वैपायन इति ख्यातो विष्णोरंशः सनातनः
ब्रह्मणा चोदितः सो ऽस्मिन् वेदं वक्तुं प्रचक्रमे ।
अथ शिष्यान्सजग्राह चतुरो वेदकारणात्
जैमिनिं च सुमन्तुं च वैशंपायनमेव च ।
चतुर्थं पैलमेतेषां पञ्चमं लोमहर्षणम्
ऋग्वेदश्रावकं पैलमग्रहीद्विधिवद्द्विजाः ।
यजुर्वेदप्रवक्तारं वैशंपायनमेव च
जैमिनिं सामवेदार्थश्रावकं सो ऽन्वपद्यत ।
तथैवाथर् ववेदस्य सुमन्तुमृषिसत्तमम्
इतिहासपुराणस्य कलपवाक्यस्य चैव हि ।
मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः
एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् ।
चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत्
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्हेत्रं तथैव च ।
औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः
ततः स ऋच उद्धृत्य ऋग्वेदं समकल्पयत् ।
होतृकं कल्पयत्तेन यजुर्वेदं जगत्पतिः
सामभिः सामवेदं च तेनौद्गात्रमकल्पयत् ।
रा5स्त्वथर्ववेदेन सर्वकर्माण्यकारयत्
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पजोक्तिभिः ।
पुरामसंहितां चक्रे पुराणार्थविशारदः
यच्छिष्टं तु यजुर्वेदे तेन य5मयुञ्जत ।
यजनात्स यजुर्वेद इति शास्त्रविनिश्चयः
पादानामुद्धतत्वाच्च यजूंषि विषमाणि च ।
शतेनोद्धतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः
प्रयुज्यते ह्यश्वमेधस्तेन वा पुष्यते तु सः ।
ऋचो गृहीत्वा पैलस्तु व्यभजत्तु द्विधा पुनः
द्वे कृत्वा संहिते चैव शिष्याभ्या मददाद्विबुः ।
इन्द्रप्रमत्तये चैकां द्वितीयां बाष्कलाय च
चतस्रः संहिताः कृत्वा बाष्कलो द्विजसत्तमः ।
शिष्यानध्यापया मास शुश्रुषाभिरतान्हितान्
बोध्यां तु प्रथमां शाखां द्वितीयामग्निमातरम् ।
पाराशरीं तृतीयां तु या5वल्क्यामथापराम्
इन्द्रप्रमतिरेकां तु संहितामृषिसत्तमः ।
अध्यापयन्महाभागं माण्डूकेयं यशस्विनम्
स्त्यस्रवसमग्र्यं तु पुत्रं स तु महायशाः ।
सत्यस्रवाः सत्यहितं पुत्रमध्यापयद्विभुः
सो ऽपि सत्यहितः पुत्रं पुनरध्यापयद्द्विजाः ।
सत्यश्रियं महात्मानं सत्य धर्मपरायणम्
अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः ।
सत्यश्रियाश्च विद्वांसः शास्त्रग्रहणतत्पराः
शाकल्यः प्रथमस्तेषां तस्मादन्यो रथीतरः ।
बाष्कलिश्च भरद्वाज इति शाखाप्रवर्त्तकाः
देवमित्रस्तु शाकल्यो ज्ञानाहङ्कारगर्वितः ।
जनकस्य स यज्ञे वै विनाशामगमद्द्विजाः
शांशपायन उवाच
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः ।
जनकस्याश्वमेधे तु कथ वादाभ्यजायत
किमर्थं वाभवद्वादः केन सार्द्धमथापि वा ।
एतत्सर्वं यथा वृत्तमाचक्ष्त्र विदितं तव
सूत उवाच
जनकस्याश्वमेधे तु महानासीत्समागमः ।
ऋषीणां हि सहस्राणि तत्राजग्मुरनेकशः
राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः ।
आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासास्याभवत्ततः
को न्वेषां ब्राह्मणश्रेष्ठः कथं मे निश्चयो भवेत् ।
इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः
गवां सहस्रमादाय सुवर्णमधिकं ततः ।
ग्रामान्रत्नानि दासीस्छ मुनीन्प्राह नराधिपः
सर्वानहं प्रपन्नो वः शिरसा श्रेष्ठभागिनः ।
यदेतदाहृतं वित्तं यो वा श्रेष्ठतमो भवेत्
तस्मै तदुपनीतं मे वित्त वित्तं द्विजोत्तमाः ।
जनकस्य वचः श्रुत्वा ऋषयस्ते श्रुतिक्षमाः
दृष्ट्वा धनं महासारं धनगृध्ना जिघृक्षवः ।
आह्वयाञ्चक्रिरे ऽन्योन्यं वेदज्ञानमदोल्बणान्
मनसा गतवित्तास्ते ममैतद्धनमित्युत ।
ममैतन्न तवेत्यन्यो ब्रूहि वा किं विकत्थसे
इत्येवं धनदोषेण वादांश्चकुरनेकशः ।
अथान्यस्तत्रवै विद्वान्ब्रह्मणस्तु सुतः कविः
याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ।
ब्रह्मणोंऽशसमुत्पन्नो वाक्यं प्रोवाच सुस्वरम्
शिष्यं ब्रह्मविदां श्रेष्ठं धनमेतद्गृहाण वै ।
नयस्व च गृहंवत्स ममैतन्नात्र संशयः
सर्ववादेष्वहं वक्ता नान्यः कश्चित्तु मत्समः ।
यो वा न प्रीयते विद्वान्समाह्वयतु माचिरम्
ततो ब्रह्मार्णवः क्षुब्दः समुद्र इव संप्लवे ।
तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव
क्रोधं मा कार्ष्ट विद्वांसो भवन्तः सत्यवादिनः ।
वदामहे यथाशक्ति जिज्ञासंतः परस्परम्
ततो ऽभ्युपगतास्तेषां वादाः शब्दैरनेकशः ।
सहस्रधा शुभैरर्थैः सुक्ष्मदर्शनसंभवैः
लोके वेदे तथाध्यात्मविद्यास्थानैरलङ्कृतैः ।
संत्युत्तमगुणैर्युक्ता नृपस्यापि परीक्षकाः
वादाः समभवंस्तत्र धनहेतोर्महात्मनाम् ।
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः
सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता ।
एकैकशस्ततः पृष्टा नैवोत्तरमथाब्रुवन्
स विजित्य मुनीन्सर्वान् ब्रह्मराशिर्महामतिः ।
शाकल्यमिति होवाच वादकर्त्तारमञ्जसा
शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे ।
पणस्तु यजमानेन बद्धो नीतो यथा धृतः
एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः ।
प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ
त्वमस्मास्तृणवत्कृत्वा तथैवान्यान्द्विजोत्तमान् ।
विद्याधनं महासारं स्वयङ्ग्राहं जिघृक्षसि
शाकल्येनैवमुक्तस्तु याज्ञवल्क्यस्तमब्रवीत् ।
ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम्
कामस्यार्थेन संबन्धस्तेनार्थं कामयामहे ।
कामप्रर्श्नधना विप्राः कामप्रश्नं वदामहे
पणश्चैवास्य राजर्षेस्तस्मान्नीतं धनं मया ।
एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः
या5वल्क्यमथोवाच कामप्रश्नार्थकृद्वचः ।
ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः
ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ।
साग्रं प्रश्नसहस्रं तु शाकल्यः सो ऽकरोत्तदा
याज्ञवल्क्यो ऽब्रवीत्सर्वमृषीणां शृण्वतां तदा ।
शाकल्यस्त्वास निर्वादो याज्ञवल्क्यस्तमब्रवीत्
प्रश्नमेकं ममापि त्वं शाकल्य वद कामिकम् ।
पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै
सुसूक्ष्मज्ञानसंयुक्तं सांख्यंयोगमथापि वा ।
अध्यात्मस्य गतिं मुख्यां ध्यानमार्गमथापि वा
अथ संचोदितः प्रश्नो याज्ञवल्क्येन धीमता ।
शाकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान्
एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः ।
एवं विवादः सुमहानासीत्तेषां धनार्थिनाम्
ऋषीणामृषिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि ।
याज्ञवल्क्यो धनं गृह्य यशो विख्याय चात्मनः ।
जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0