ब्रह्माण्ड पुराण · अध्याय 1.33
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे युगप्रजालक्षणमृषिप्रवरवर्णनं च नाम द्वात्रिंशत्तमो ऽध्यायः
सूत उवाच
ऋषिकाणां सुताश्चापि विज्ञेया ऋषिपुत्रकाः ।
ब्राह्यणानां प्रवक्तारो नामतश्च निबोधत
सप्रधानाः प्रवक्ष्यन्ते समासाच्च श्रुतर्षयः ।
बह्वृचो भार्गवः पैलः सांकृत्यो जाजलिस्तथा
संध्यास्तिर्माठरश्चैव याज्ञवल्क्यः पराशरः ।
उपमन्युरिन्द्रप्रमतिर्माडूकिः शाकलिश्च सः
बाष्कलिः शोकपाणिश्च नैलः पैलो ऽलकस्तथा ।
पन्नगाः पक्षगन्ताश्च षडशीतिः श्रुतर्षयः
एते द्विजातयो मुख्या बह्वृचानां श्रुतर्षयः ।
वैशंपायनलौहित्यौ कण्ठकालावशावधः
श्यामापतिः पलाडुश्च आलंबिः कमलापतिः ।
तेषां शिष्याः प्रशिष्याश्च षडशीति श्रुतर्षयः
एते द्विजर्षयः प्रोक्ताश्चरकाध्वर्यवो द्विजाः ।
चैमिनिः सभरद्वाजः काव्यः पौष्यञ्जिरेव च
हिरण्यनाभः कौशिल्यो लौगाक्षिः कुसुमिस्तथा ।
लङ्गली शालिहोत्रश्च शक्तिराजश्च भार्गवः
सामगानामथाचार्य ऐलो राजा पुरूरवाः ।
षट्चत्वारिंशदन्ये वै तेषां शिष्याः श्रुतर्षयः
कौशीतिः कङ्कमुद्गश्च कुण्डकः सपराशरः ।
लोभालोभश्च धर्मात्मा तथा ब्रह्म बलश्च सः
क्रन्थलो ऽथो मदगलो मार्कण्डेयो ऽथ धर्मवित् ।
इत्येते नवतिर्ज्ञेया होत्रवद्ब्रह्मचारिणः
चरकाध्वर्यवश्चापि ह्यनुमंन्त्रं तु ब्राह्मणम् ।
चलूभिः सुमतिश्चैव तथा देववरश्च यः
अनुकृष्णस्तथायुश्च अनुभूमिस्तथैव च ।
तथाप्रीतः कृशाश्वश्व सुमूलिर्बाष्कलिस्तथा
चरकाध्वर्यकाध्वर्युनमस्युर्ब्रह्मचारिणः ।
वैयासकिः शुको विद्वांल्लौकिर्भूरिश्रवास्तथा
सोमाविरतुनान्तक्यस्तथा धौम्यश्च काश्यपः ।
आरण्या इलकश्चैव उपमन्युर्विदस्तथा
भार्गवो मधुकः पिङ्गः श्वेत केतुस्तथैव च ।
प्रजादर्पः कहोडश्च याज्ञवल्क्यो ऽथ शौनकः
अनङ्गो निरतालश्च मध्यमाध्वर्यवस्तुते ।
अदितिर्देवमाता च जलापा चैव मानवी
उर्वशी विश्वयोषा च ह्यप्सरःप्रवरे शुभे ।
मुद्गला चातुजीवैव तारा चैव यशस्विनी
प्रातिमेधी च मार्गा च सुजाता च महातपा ।
लोपामुद्रा च धर्मज्ञा या च कोशीतिका स्मृता
एताश्च ब्रह्मवादिन्य अप्सरो रूपंसमताः ।
इत्येता मुख्यशः प्रोक्ता मया च ऋषिपुत्रकाः
वैदशाखाप्रणयनास्ततस्ते ऋषयः स्मृताः ।
ईश्वरा मन्त्रवक्तार ऋषयो ह्यृषिकास्तथा
ऋषिपुत्राः प्रवक्तरः कल्पानां ब्राह्मणस्य तु ।
ईश्वराणामृषीणां च ऋषिकाणां सहात्मजैः
तथा वाक्यानि जनीष्व यथैषां मन्त्रदृष्टयः ।
तत्राज्ञायुक्तमद्वैतं दीप्तं गंभीरशब्दवत्
अत्यन्तमपरोक्षं च लिङ्गं नाम तथैव च ।
सर्वभूतान्यभूतं च परिदानं च यद्भवेत्
क्वचिन्निरुक्तप्रोक्तार्थं वाक्यं स्वायंभुवं विदुः ।
यत्किञ्चिन्मन्त्रसंयुक्तं तत्र नामविभक्तिभिः
प्रत्यक्षाभिहितं चैवमृषीणां वचनं मतम् ।
नैगमैर्विविधैः शब्दैर्निपातैर्बहुलं च यत्
यच्चाप्यस्ति महद्वाक्यमृषीकाणां वचः स्मृतम् ।
अविस्पष्टपदं यच्च यच्च स्याद्बहुसंशयम्
ऋषिपुत्रवचस्तद्वै सर्वाश्च परिदेवताः ।
हेतुदृष्टान्त बहुलं चित्रशब्दमपार्थकम्
सर्वास्तु तमशक्तं च वाक्यमेतत्तु मानुषम् ।
मिश्रा इति समाख्याताः प्रभावादृषितां गाताः
समुत्कर्षाय कर्षाभ्यां जातिव्यत्याससंभवाः ।
भूतभव्यभवज्ज्ञान जन्मदुःखचिकित्सनम्
मिश्राणां तद्भवेद्वाक्यं गुरोर्बलप्रवर्त्तनम् ।
धर्मशास्त्रप्रणेतारो महिम्ना सर्वगाश्च वै
तपःप्रकर्षः सुमहान्येषां ते ऋषयः स्मृताः ।
बृहस्पतिश्च शुक्रश्च व्यासः सारस्वतस्तथा
व्यासाः शास्त्रप्रणयना वेदव्यास इति स्मृताः ।
यस्मादवारजाः संतः पूर्वेभ्यो मेधयाधिकाः
ऐश्वर्येण च संपन्नास्ततस्ते ऋषयः स्मृताः ।
यस्मिन्कालो न चं वयः प्रमाणमृषिभावने
दृश्यते हि पुमान्कश्चित्कश्चिज्ज्येष्ठतमो धिया ।
यस्माद्बुद्ध्या च वर्षीयान्बलो ऽपि श्रुतवानृषिः
यः कश्चित्पादवान्मध्ये प्रयुक्तो ऽक्षर संपदा ।
विनियुक्तावसानां तु तामृचं परिचक्षते
यः कश्चित्करणैर्मन्त्रो न च पादक्षरैर्मितः ।
अतियुक्तावसानं च तद्यजुर्वै प्रचक्षते
ह्रीङ्कारः प्रणवो गीतः प्रस्तावश्च चतुर्थकम् ।
पञ्चमः प्रतिहोत्रश्च षष्ठमाहुरुपद्रवम्
निधनं सप्तमं साम्नः सप्तविन्ध्य मिदं स्मृतम् ।
पञ्चविन्ध्य इति प्रोक्तं ह्रीङ्कारः प्रणवादृते
ब्रह्मणे धर्ममत्युक्तौ यत्तदा ज्ञाप्यतेर्ऽथतः ।
आशास्तिस्तु प्रसंख्याता विलापः परिदेवना
क्रोधाद्वा द्वेषणाच्चैव प्रश्राख्यानं तथैव च ।
एतत्तु सर्वविद्यानां विहितं मन्त्रलक्षणम्
मन्त्रा नवविधाः प्रोक्ता ऋग्यजुः सामलक्षणाः ।
मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च
प्रश्रानुज्ञास्तथाख्यानमाशास्मतिविधयो मताः ।
मन्त्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान्
प्रशंसा स्तुतिराक्रोशो निन्दा च परिदेवना ।
अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा
आशीर्यज्ञस्तथाक्षेप अर्थाख्यानं च संकथा ।
वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै
प्रतिषेधोप देशौ च नमस्कारः स्पृहा तथा ।
विलापश्चेति मन्त्राणां चतुर्विंशतिरुद्धृताः
ऋषिभिर्यज्ञतत्त्वज्ञैर्विहितं ब्रह्मणं पुरा ।
हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः
पुराकृतिपुराकल्पौ व्यवधारणकल्पना ।
उपमा च दशैते वै विधयो ब्राह्मणस्य तु
लक्षणं ब्राह्मणस्यैनद्विहितं सर्वशाखिनाम ।
हेतुर्हन्तेः स्मृतो धातोर्यन्निहन्त्युदितं परैः
अथवार्थे परिप्राप्ते हिनो तेर्गतिकर्मणा ।
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम्
निन्दां तामाहुरायार्या यद्दोषे निन्दनं वचः ।
प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया
इदं त्विदमिदं नैदमित्यनिश्चित्य संशयम् ।
इदमेवं विधातव्यमित्ययं विधिरुच्यते
अन्यस्यान्यस्य चौक्तिर्या बुधैः सोक्ता पुराकृतिः ।
यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते
पुरातिक्रान्तवाचित्वात्पुराकल्पस्य कल्प नाम् ।
मन्त्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः
अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ।
यथा हीदं तथा तद्वै इदं चैव तथैव तत्
इत्येवमेषा ह्युपमा दशमो ब्राह्मणस्य तु ।
इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः
तस्य तद्विद्भिरुद्दिष्टा व्याख्याम्यनुपदं द्विजैः ।
मन्त्राणां कल्पना चैव विधिदृष्टिषु कर्मसु
मन्त्रो मन्त्रयतेर्द्धातोर्ब्राह्मणो ब्राह्मणेन तु ।
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0