भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.32

1.32.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे चतुर्युगाख्यानं नामैकत्रिंशत्तमो ऽध्यायः
सूत उवाच
युगेषु यास्तु जायन्ते प्रजास्ता मे निबोधत ।
आसुरी सर्पगान्धर्वा पैशाची यक्षराक्षसी

1.32.2

यस्मिन्युगे च संभूति स्तासां यावच्च जीवितम् ।
पिशाचासुरगन्धर्वां यक्षराक्षसपन्नगाः

1.32.3

परिणाहोच्छ्रयैस्तुल्या जायन्ते ह कृते युगे ।
षण्णवत्यङ्गुलो त्सेधो ह्यष्टानां देवजन्मनाम्

1.32.4

स्वेनाङ्गुलप्रमाणेन निष्पन्नेन च पौष्टिकात् ।
एतत्स्वाभाविकं तेषां प्रमाणमिति कुर्वते

1.32.5

मनुष्या वर्तमानास्तु युगं संध्याशकेष्विह ।
देवासुरप्रमाणं तु सप्तसप्तङ्गुलादसत्

1.32.6

अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ।
देवासुरप्रमाणं तु उच्छ्रयात्कलिजैः स्मृतम्

1.32.7

चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतः ।
स्वेनाङ्गुलिप्रमाणेन ऊर्द्ध्वमापादमस्तकात्

1.32.8

इत्येष मानुषोत्सेधो ह्रसतीह युगांशके ।
सर्वेषु युगकालेषु अतीतानागतेष्विह

1.32.9

स्वेनाङ्गुलिप्रमाणेन अष्टतालः स्मृतो नरः ।
आपादतलमस्तिष्को नवतालो भवेत्तु यः

1.32.10

संहता जानुबाहुस्तु स सुरैरपि पूज्यते ।
गवाश्वहस्तिनां चैव महिष स्यावरात्मनाम्

1.32.11

कर्मणैतेन विज्ञेये ह्रासवृद्धी युगे युगे ।
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै

1.32.12

अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ।
अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना

1.32.13

पञ्चाशता यवानां च उत्सेधः शाखिनां स्मृतः ।
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः

1.32.14

तल्लक्षणस्तु देवानां दृश्येत तत्त्वदर्शनात् ।
बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते

1.32.15

तथा सातिशयस्छैव मानुषः काय उच्यते ।
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः

1.32.16

पशूनां पक्षिणां चैव स्थावराणां च सर्वशः ।
गावो ह्यजावयो ऽश्वाश्च हस्तिनः पक्षिणो नगाः

1.32.17

उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ।
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः

1.32.18

यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ।
तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजङ्गमैः

1.32.19

मनोज्ञैस्तत्र भावैस्ते सुखिनो ह्युपपेदिरे ।
अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च

1.32.20

सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत ।
साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते

1.32.21

दशात्मके ये विषये कारणे चाष्टलक्षणे ।
न क्रुध्यन्ति न त्दृष्यन्ति जितात्मानस्तु ते स्मृताः

1.32.22

सामान्येषु तु धर्मेषु तथा वैशेषिकेषु च ।
ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः

1.32.23

वर्णाश्रमेषु युक्तस्य स्वर्गतौ सुखचारिमः ।
श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते

1.32.24

विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः ।
गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते

1.32.25

साधनात्तपसो ऽरण्ये साधुर्वैखानसः स्मृतः ।
यतमानो यतिः साधुः स्मृतो योगस्य साधनात्

1.32.26

एवमाश्रमधर्माणां साधनात्साधवः स्मृताः ।
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा

1.32.27

अथ देवा न पितरो मुनयो न च मानुषाः ।
अयं धर्मो ह्ययं नेति विन्दते भिन्नदर्शनाः

1.32.28

धर्माधर्माविहप्रोक्तौ शब्दावेतौ क्रियात्मकौ ।
कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम्

1.32.29

धारणर्थो धृतिश्चैव धातुः शब्दे प्रकीर्त्तितः ।
अधारणामहत्त्वे च अधर्म इति चोच्यते

1.32.30

अथेष्टप्रापको धर्म आचार्यैरुपदिश्यते ।
अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते

1.32.31

वृद्धाश्चालोलुपाश्चैव त्वात्मवन्तो ह्यदांभिकाः ।
सम्यग्विनीता ऋजवस्तानाचार्यान्प्रजक्षते

1.32.32

स्वयमाचरते यस्मादाचारं स्थापयत्यपि ।
आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते

1.32.33

धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्त्तो द्विधा द्विजैः ।
दाराग्निहोत्रसम्बन्धाद्द्विधा श्रौतस्य लक्षणम्

1.32.34

स्मार्त्तो वर्णाश्रमाचारैर्यमैः सनियमैः स्मृतः ।
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्ष यो ऽब्रुवन्

1.32.35

ऋचो यजूंसामानि ब्रह्मणो ऽङ्गानि च श्रुतिः ।
मन्वन्तरस्यातीतस्य स्मृत्वाचारान्मनुर्जगौ

1.32.36

तस्मा त्स्मार्त्तः धर्मो वर्णाश्रमविभाजकः ।
स एष विविधो धर्मः शिष्टाचार इहोच्यते

1.32.37

शेषशब्दः शिष्ट इति शेषं शिष्टं प्रचक्षते ।
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः

1.32.38

मनुः सप्तर्षयश्चैव लोकसंतानकारमात् ।
धर्मार्थं ये च तिष्ठन्ति ताञ्छिष्टान्वै प्रचक्षते

1.32.39

मन्वादयश्च ये ऽशिष्टा ये मया प्रागुदीरिताः ।
तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे

1.32.40

त्रयी वार्त्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा ।
शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः

1.32.41

पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स सात्वतः ।
दानं सत्यं तपो ज्ञानं विद्येज्या व्रजनं दया

1.32.42

अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ।
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयस्तु वै

1.32.43

मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ।
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते

1.32.44

इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः ।
प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम्

1.32.45

दृष्ट्वा तु भूतमर्थं यः पृष्टो वै न निगू हति ।
यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम्

1.32.46

ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च ।
इत्येतत्तपसो रूपं सुघोरं सुदुरा सदम्

1.32.47

पशूनां द्रव्यहविषामृक्सामयजुषां तथा ।
ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते

1.32.48

आत्मवत्सर्वभूतेषु या हितायाहिताय च ।
प्रवर्त्तन्ते समा दृष्टिः कृत्स्नाप्येषा दया स्मृता

1.32.49

आक्रुष्टो निहतो वापि नाक्रोशेद्यो न हन्ति च ।
वाङ्मनःकर्मभिर्वेत्ति तितिक्षैषा क्षमा स्मृता

1.32.50

स्वामिना रक्ष्यमाणानामुत्सृष्टानां च संभ्रमे ।
परस्वानामनादानमलोभ इति कीर्त्यते

1.32.51

मैथुनस्यासमाचारो न चिन्ता नानुजल्पनम् ।
निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते

1.32.52

आत्मार्थं वा परार्थं वा चेन्द्रियाणीह यस्य वै ।
मिथ्या न संप्रवर्त्तन्ते शामस्यैतत्तु लक्षमम्

1.32.53

दशात्मके यो विषये कारणे चाष्टलक्षणे ।
न क्रुद्ध्येत प्रतिहतः स जितात्मा विभाव्यते

1.32.54

यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् ।
तत्तद्गुणवते देयमित्येतद्दानलक्षणम्

1.32.55

दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् ।
तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये

1.32.56

कारुण्यात्सर्वभूतेषु संविभागस्तु मध्यमः ।
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्माश्रमात्मकः

1.32.57

शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसंमतः ।
अप्रद्वेषोह्यनि ष्टेषु तथेष्टस्याभिनन्दनम्

1.32.58

प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ।
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह

1.32.59

कुशलाकुशलानां तु प्रहाणं न्यास उच्यते ।
व्यक्ता ये विशेषास्ते विकारे ऽस्मिन्नचेतने

1.32.60

चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते ।
प्रत्यङ्गानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतम्

1.32.61

ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वं स्वायंभुवे ऽन्तरे ।
अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य यः

1.32.62

तथैव चातुर्हेत्रस्य चातुर्विद्यस्य चैव हि ।
प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते

1.32.63

ऋचो यजूंषि समानि यथा च प्रतिदैवतम् ।
आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम्

1.32.64

विधिर्हैत्रस्तथा स्तोत्रं पूर्ववत्संप्रवर्तते ।
द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च

1.32.65

चतुर्थमाभिजनकं स्तोत्रमेतच्चतुर्विधम् ।
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये

1.32.66

प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् ।
एवं मन्त्रगणानां तु समुत्पत्तिश्चतुर्विधा

1.32.67

अथर्वगर्यजुषां साम्नां वेदेष्विह पृथक्पृथक् ।
ऋषीणां तप्यतामुग्रं तपः परमदुष्करम्

1.32.68

मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह ।
असंतोषाद्भया द्दुःखात्सुखाच्छोकाच्च पञ्चधा

1.32.69

ऋषीणां तारकाख्येन दर्शनेन यदृच्छया ।
ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः

1.32.70

अतीतानागतानां च पञ्चधा त्वृषिरुच्यते ।
अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम्

1.32.71

गुणसाम्ये वर्त्तमाने सर्वसंप्रलये तदा ।
अविभागे तु वेदानामनिर्देश्ये तमोमये

1.32.72

अबुद्धिबूर्वकं तद्वै चेतनार्थे प्रवर्त्तते ।
चेतनाबुद्धिपूर्वं तु चेतनेन प्रवर्त्तते

1.32.73

प्रवर्त्तते तथा द्वौ तु यथा मत्स्योदके उभे ।
चेतनाधिष्ठितं सत्त्वं प्रवर्त्तति गुणात्मकम्

1.32.74

कारणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते ।
विषयो विषयित्वाच्च अर्थेर्ऽथत्वात्तथैव च

1.32.75

कालेन प्रापणीयेन भेदास्तु करणात्मकाः ।
संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः

1.32.76

महतश्चाप्यहङ्कारस्तस्माद्भूतेद्रियाणि च ।
भूतभेदाश्च भूतेभ्यो जज्ञिरे स्म परस्परम्

1.32.77

संसिद्धकार्यकरणः सद्य एव व्यवर्त्तत ।
यथोल्मुकात्तु त्रुटयः एककालाद्भवन्ति हि

1.32.78

तथा विवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् ।
यथान्धकारे खद्योतः सहसा संप्रदृश्यते

1.32.79

तथा विवृत्तो ह्यव्यक्तात्खद्योत इव सञ्ज्वलन् ।
स माहन्सशरीरस्तु यत्रैवायमवर्त्तत

1.32.80

तत्रैव संस्थितो विद्वान्द्वारशालामुखे विभुः ।
महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते

1.32.81

तत्रैव संस्थिते विद्वांस्तमसोंऽत इति श्रुतिः ।
बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा

1.32.82

ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ।
सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै

1.32.83

स महात्मा शरीरस्य वैवर्त्तात्सिद्धिरुच्यते ।
अनुशेते यतः सर्वान्क्षेत्रज्ञानमथापि वा

1.32.84

पुरिषत्वाच्च पुरुषः क्षत्रेज्ञानात्स उच्यते ।
यस्माद्वुद्ध्यानुशेते च तस्माद्वोधात्मकः स वै

1.32.85

संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ।
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः

1.32.86

विवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम् ।
परं ह्यर्षयते यस्मात्परमर्षित्वमस्य तत्

1.32.87

गत्यर्थादृषतेर्धातोर्नाम निर्वृतिरादितः ।
यस्मादेव स्वयं भूतस्तस्माच्चाप्यृषिता स्मृता

1.32.88

ईश्वरात्स्वयमुद्भूता मानसा ब्रह्मणः सुताः ।
यस्मादुत्पद्यमानैस्तैर्महान्परिगतः परः

1.32.89

यस्माद-षन्ति ते धीरा महान्तं सर्वतो गुणैः ।
तस्मान्महर्षयः प्रोक्ता बुद्धेः परम दर्शिना

1.32.90

ईश्वराणां सुतास्तेषां मानसा औरसाश्च वै ।
अहङ्कारं तपश्चैव ऋषन्ति ऋषितां गताः

1.32.91

तस्मात्सप्तर्षयस्ते वै भूतादौ तत्त्वदर्शनात् ।
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः

1.32.92

तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः ।
सप्तषर्यस्त तस्ते च परसत्यस्य दर्शनाः

1.32.93

ऋषीकाणां सुतास्ते स्युर्विज्ञेया ऋषिपुत्रकाः ।
ऋषन्ति ते ऋतं यस्माद्विशेषांश्चैव तत्त्वतः

1.32.94

तस्मात्सप्तर्षयस्तेपि श्रुतेः परमदर्शनात् ।
अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च

1.32.95

भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते ।
इत्येता ऋषिजातीस्ता नामभिः पञ्च वै शृणु

1.32.96

भृगुर्मरीचिरत्रिश्च ह्यङ्गिराः पुलहः क्रतुः ।
मनुर्दक्षो वसिष्टश्च पुलस्त्यश्चेति ते दश

1.32.97

ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः ।
परत्वेनर्षयो यस्मात्स्मृतास्तस्मान्महर्षयः

1.32.98

ईश्वराणां सुता ह्येते ऋषयस्तान्निबोधत ।
काव्यो बृहस्पतिश्चैव कश्यपश्व्यवनस्तथा

1.32.99

उतथ्यो वामदेवश्च अपा स्यश्चोशिजस्तथा ।
कर्दमो विश्रवाः शक्तिर्वालखिल्यास्तथार्वतः

1.32.100

इत्येते ऋषयः प्रोक्तास्तपसा चर्षितां गताः ।
ऋषिपुत्रानृ षीकांस्तु गर्भोत्पन्नान्निबोधत

1.32.101

वत्सरो नगृहूश्चैव भरद्वाजस्तथैव च ।
ऋषिदीर्घतमाश्चैव बृहदुक्थः शरद्वतः

1.32.102

वाजश्रवाः शुचिश्चैव वश्याश्वश्च पराशरः ।
दधीचः शंशपाश्चैव राजा वैश्रवणस्तथा

1.32.103

इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः ।
ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः

1.32.104

एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत ।
भृगुः काव्यः प्रचेताश्च ऋचीको ह्यात्मवानपि

1.32.105

और्वाथ जमदग्निश्च विदः सारस्वतस्तथा ।
आर्ष्टिषेणो युधाजिच्च वीतहव्यसुवर्चसौ

1.32.106

वैन्यः पृथुर्दिवोदासो बाध्यश्वो गृत्सशौनकौ ।
एकोनविशतिर्ह्येतेभृगवो मन्त्रवादितः

1.32.107

अङ्गिरा वैद्यगश्चैव भरद्वाजो ऽथ बाष्कलिः ।
ऋतवाकस्तथा गर्गः शिनिः संकृतिरेव च

1.32.108

पुरुकुत्सश्च मान्धाता ह्यंबरीषस्तथैव च ।
युवनाश्वः पौरकुत्सस्त्रसद्दस्युश्च दस्युमान्

1.32.109

आहार्यो ह्यजमीढश्च तुक्षयः कपिरेव च ।
वृषादर्भो विरूपाश्वः कण्वश्चैवाथ मुद्गलः

1.32.110

उतथ्यश्च सनद्वाजस्तथा वाजश्रवा अपि ।
अयास्यश्चक्रवर्त्ती चवामदेवस्तथैव च

1.32.111

असिजो बृहदुक्थश्च ऋषिर्दीर्घतमास्तथा ।
कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्याङ्गिरसा वराः

1.32.112

एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ।
काश्यपश्चैव वत्सारो नैध्रुवो रैभ्य एव च

1.32.113

असितो देव लश्चैव षडेते ब्रह्मवादिनः ।
अत्रिरर्वसनश्चैव श्यावाश्वश्च गविष्ठिरः

1.32.114

आविहोत्र ऋषिर्द्धीमांस्तथा पूर्वातिथिश्च सः ।
इत्येते चा त्रयः प्रोक्ता मन्त्रकारा महर्षयः

1.32.115

वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः ।
चतुर्थ इन्द्रप्रमतिः पञ्चमश्च भरद्वसुः

1.32.116

षष्ठश्च मैत्रावरुणिः कुण्डिनः सप्तमस्तथा ।
इति सप्त वशिष्ठाश्च विज्ञेया ब्रह्मवादिनः

1.32.117

विश्वामित्रस्तु गाधेयो देवरातस्तथोद्गलः ।
तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः

1.32.118

अष्टको लोहितश्चैव कतः कोलश्च तावुभौ ।
देवश्रवास्तथा रेणुः पूरणो ऽथ धनञ्जयः

1.32.119

त्रयोदशैते धर्मिष्ठा विज्ञेयाः कुशिकावराः ।
अगस्त्यो ऽयो दृढायुश्च विध्मवाहस्तथैव च

1.32.120

ब्रह्मिष्ठागस्तपा ह्येते त्रयः परमकीर्त्तयः ।
मनुर्वैवस्वतश्चैव एलो राजा पुरूखाः

1.32.121

क्षत्र्रियाणां चरावेतौ विज्ञेयौ मन्त्रवादिनौ ।
भलन्दनश्च वत्सश्च संकीलश्चैव ते त्रयः

1.32.122

एते मन्त्रकृतश्चैव वैश्यानां प्रवराः स्मृताः ।
इत्येषा नवतिः प्रोक्ता मन्त्रा यैरृषिभिः कृताः ।
ब्राह्यणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc