भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.31

1.31.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे यज्ञप्रवर्त्तनं नाम त्रिशत्तमो ऽध्यायः
सूत उवाच
अत ऊर्द्धं प्रवक्ष्यामि द्वापरस्य विधिं पुनः ।
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते

1.31.2

द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या ।
परिवृत्ते युगे तस्मिंस्ततस्ताभिः प्रणश्यति

1.31.3

ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः ।
संभेदश्चैव वर्णानां कार्याणां च विपर्ययः

1.31.4

यज्ञावधारणं दण्डो मदो दंभः क्षमा बलम् ।
एषा रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता

1.31.5

आद्ये कृते यो धर्मो ऽस्ति स त्रेतायां प्रवर्त्तते ।
द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे

1.31.6

वर्णानां विपरिध्वंसः संकीयत तथाश्रमाः ।
द्वैविध्यं प्रतिपद्येतेयुगे तस्मिञ्छ्रुति स्मृती

1.31.7

द्वैधात्तथा श्रुतिस्मृत्योर्निश्चयो नाधिगम्यते ।
अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते

1.31.8

धर्मासत्त्वेन मित्राणां मतिभेदो भवेन्नृणाम् ।
परस्परविभिन्नैस्तैदृष्टीनां विभ्रमेण च

1.31.9

अयं धर्मो ह्ययं नेति निश्चयो नाधिगम्यते ।
कारणानां च वैकल्प्यात्कार्याणां चाप्यनिश्चयात्

1.31.10

मतिभेदेन तेषां वै दृष्टीनां विभ्रमो भवेत् ।
ततो दृष्टिविभन्नैस्तु कृतं शास्त्राकुलं त्विदम्

1.31.11

एको वेदश्चतुष्पाद्धि त्रेतास्विह विधीयते ।
संक्षयादायुपश्चैव व्यस्यते द्वापरेषु च

1.31.12

ऋषिमन्त्रात्पुनर्भेदाद्भिद्यते दृष्टिविभ्रमैः ।
मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः

1.31.13

संहिता ऋग्यजुःसाम्नां संपठ्यन्ते महर्षिभिः ।
सामान्या वैकृताश्चैव दृष्टिभिन्ने क्वचित्क्वचित्

1.31.14

ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च ।
अन्ये ऽपि प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः

1.31.15

द्वापरेषु प्रवर्त्तन्ते निवर्त्तन्ते कलौ युगे ।
एकमाध्वर्यवं त्वासीत्पुनर्द्वैधमजायत

1.31.16

सामान्यविपरीतार्थैः कृतशास्त्राकुलं त्विदम् ।
आध्वर्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतैः

1.31.17

तथैवाथर्वऋक्साम्नां विकल्पैश्चापि संज्ञया ।
व्याकुलेद्वापरे नित्यं क्रियते भिन्न दर्शनैः

1.31.18

तेषां भेदाः प्रतीभेदा विकल्पाश्चापि संख्याया ।
द्वापरे संप्रवर्त्तते विनश्यन्ति ततः कलौ

1.31.19

तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः ।
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः

1.31.20

वाङ्मनः कर्मर्जेदुःखैर्निर्वेदो जायते पुनः ।
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा

1.31.21

विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् ।
दोषदर्शनतस्चैव द्वापरे ऽज्ञानसंभवः

1.31.22

तेषाम ज्ञानिनां पूर्वमाद्ये स्वायंभुवे ऽन्तरे ।
उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः

1.31.23

आयुर्वेदविकल्पश्च ह्यगानां ज्योतिषस्य च ।
अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम्

1.31.24

प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् ।
स्मृतिशास्त्रप्रभेदश्च प्रस्थानानि पृथक्पृथक्

1.31.25

द्वापरेष्वभिवर्त्तन्ते मतिभेदाश्रयान्नृणाम् ।
मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति

1.31.26

द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ।
लोभो वृत्तिर्वणिक्पूर्वा तत्त्वानामविनिश्चयः

1.31.27

वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा ।
वर्णाश्रमपरिध्वंसः कामक्रोधौ तथैव च

1.31.28

द्वापरेषु प्रवर्त्तन्ते रागो लोभो वधस्तथा ।
वेदं व्यासश्चतुर्द्धा तु व्यस्यते द्वापरादिषु

1.31.29

निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु यादृशी ।
प्रतिष्ठते गुणैर्हीनो धर्मो ऽसौ द्वापरस्य तु

1.31.30

तथैव संध्या पादेन ह्यङ्गः संध्या इतीष्यते ।
द्वापरस्यावशेषेण तिष्यस्य तु निबोधत

1.31.31

द्वापरस्याशसेषण प्रतिपत्तिः कलेरपि ।
हिंसासूयानृतं माया वधश्चैव तपस्विनाम्

1.31.32

एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ।
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते

1.31.33

मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा न वा ।
कलौ प्रमारकी रोगः सततं क्षुद्भयानि च

1.31.34

अनावृष्टिभयं घोरं देशानां च विपर्ययः ।
न प्रमाणं स्मृतेरस्ति तिष्ये लोकेषु वै युगे

1.31.35

गर्भस्थो म्रियते कश्चिद्यौव नस्थस्तथापरः ।
स्थविराः के ऽपि कौमारे म्रियन्ते वै कलौ प्रजाः

1.31.36

दुरिष्टैर्दुरधीतैश्च दुष्कृतैश्च दुरागमैः ।
विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम्

1.31.37

हिंसा माया तथेर्ष्या च क्रोधो ऽसूया क्षमा नृषु ।
तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः

1.31.38

संक्षोभो जायते ऽत्यथै करिमासाद्य वै युगम् ।
पूर्णे वर्षसहस्रे वै परमायुस्तदा नृणाम्

1.31.39

नाधीयते तदा वेदान्न यजं ते द्विजातयः ।
उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात्

1.31.40

शूद्राणामन्त्ययोनेस्तु संबन्धा ब्राह्मणैः सह ।
भवन्तीह कलौ तस्मिञ्छयनासनभोजनैः

1.31.41

राजानः शूद्रभूयिष्ठाः पाखण्डानां प्रवर्त्तकाः ।
गुणहीनाः प्रजाश्चैव तदा वै संप्रवर्त्तते

1.31.42

आयुर्मेधा बलं रूपं कुलं चैव प्रणश्यति ।
शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः

1.31.43

राजवृत्ताः स्थिताश्चोरा श्चोराचाराश्च पार्थिवाः ।
भृत्या एते ह्यसुभृतो युगान्ते समवस्थिते

1.31.44

अशीलिन्यो ऽनृताश्चैव स्त्रियो मद्यामिषप्रियाः ।
मायाविन्यो भविष्यन्ति युगान्ते मुनिसत्तम

1.31.45

एकपत्न्यो न शिष्यन्ति युगान्ते मुनिसत्तम ।
श्वापदप्रबलत्वं च गवां चैव ह्युपक्षयः

1.31.46

साधूनां विनिवृत्तिं च विद्यास्तस्मिन्युगक्षये ।
तदा धर्मो महोदर्के दुर्लभो दानमूलवान्

1.31.47

चातुराश्रमशैथिल्यो धर्मः प्रविचरिष्यति ।
तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला

1.31.48

न रक्षितारो बोक्तारो बलिभागस्य पार्थिवाः ।
युगान्ते च भविष्यन्ति स्वरक्षणपरायणाः

1.31.49

अरक्षितारो राजानो विप्राः शूद्रोपजीविनः ।
शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः

1.31.50

अदृशूला जनपदाः शिवशूला द्विजास्तथा ।
प्रमदाः केशशूलाश्च युगान्ते समुपस्थिते

1.31.51

तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः ।
यतयश्च भविष्यन्ति बहवो ऽस्मिन्कलौ युगे

1.31.52

चित्रवर्षी यदा देवस्तदा प्राहुर्युगक्षयम् ।
सर्वे वाणिजकाश्चा पि भविष्यन्त्यधमे युगे

1.31.53

भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः ।
कुशीलचर्यापाखण्डैर्व्याधरूपैः समावृतम्

1.31.54

पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते ।
बाहुयाचनको लोको भविष्यति परस्परम्

1.31.55

अव्याकर्ता क्रूरवाक्या नार्जवो नानसूयकः ।
न कृते प्रतिकर्त्ता च युगे क्षीणे भविष्यति

1.31.56

अशङ्का चैव पतिते युगान्ते तस्य लक्षणम् ।
ततः शून्य वसुमती भविष्यति वसुन्धरा

1.31.57

गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शासकाः ।
हर्त्तारः पररत्नानां परदारविमर्शकाः

1.31.58

कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः ।
प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः

1.31.59

ऊनषोडशवर्षाश्च प्रजा यन्ते युगक्षये ।
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः

1.31.60

शूद्रा धर्मं चरिष्यति युगान्ते समुपस्थिते ।
सस्यचोरा भविष्यन्ति तथा चैलापहारिणः

1.31.61

चोराच्चोराश्च हर्त्तारो हर्तुर्हर्त्ता तथापरः ।
ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते

1.31.62

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ।
अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा

1.31.63

कौशिकान्प्रतिवत्स्यन्ति देशाः क्षुद्भयपीडिताः ।
दुःखेनाभिप्लुतानां च परमायुः शतं तदा

1.31.64

दृश्यन्ते च न दृश्यन्ते वेदा कलियुगे ऽखिलाः ।
तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः

1.31.65

काषायिणो ऽथ निर्ग्रन्था तथा कापालिकाश्च ह ।
वेदविक्रयिमश्चन्ये तीर्थविक्रयिणो ऽपरे

1.31.66

वर्णाश्रमाणां ये चान्ये पाखण्डाः परिपन्थिनः ।
उत्पद्यन्ते तदा ते वै संप्राप्ते तु कलौ युगे

1.31.67

अधीयते तदा वेदाञ्छूद्रा धर्मार्थ कोविदाः ।
यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः

1.31.68

स्त्रीबालगोवधं कृत्वा हत्वान्ये च परस्परम् ।
अपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः

1.31.69

दुःखप्रवचनाल्पायुर्देहाल्पायुश्च रोगतः ।
अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम्

1.31.70

प्रजासु भ्रूणहत्या च तदा वैरात्प्रवर्त्तते ।
तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते

1.31.71

तदा चाल्पेन कालेन सिद्धिं गच्छन्ति मानवाः ।
धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः

1.31.72

श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः ।
त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः

1.31.73

यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ ।
एषा कलियुगावस्था संध्यांशं तु निबोधत

1.31.74

युगेयुगे तु हीयन्ते त्रित्रिपादास्तु सिद्धयः ।
युगस्वभावात्संध्यासु तिष्ठन्तीह तु यादृशः

1.31.75

संध्यास्वभावाः स्वांशेषु पादशेषाः प्रतिष्ठिताः ।
एवं संध्यांशके काले संप्राप्ते तु युगान्तिके

1.31.76

तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ।
गोत्रेण वै चन्द्र मसो नाम्ना प्रमतिरुच्यते

1.31.77

माधवस्य तु सोंऽशेन पूर्वं स्वायंभुवे ऽन्तरे ।
समाः सविंशतिः पूर्णाः पर्यटन्वै वसुंधराम्

1.31.78

अनुकर्षन्स वै सेनां सवाजिरथकुञ्जराम् ।
प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः

1.31.79

स तदा तैः परिवृतो म्लेच्छान्हन्ति स्मसर्वशः ।
सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान्

1.31.80

पारवण्डास्तु ततः सर्वान् निः शेषं कृतवान्विभुः ।
नात्यर्थ धार्मिका ये च तान्सर्वान्हन्ति सर्वशः

1.31.81

वर्णव्यत्यासजाताश्च ये च ताननुजीविनः ।
उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च

1.31.82

प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठचरानपि ।
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह

1.31.83

गान्धारान्पारदांश्चैव पह्लवान्यव नाञ्शकान् ।
तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान्

1.31.84

लंपाकारान्सकतकान्किरातानां च जातयः ।
प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृत्प्रभुः

1.31.85

अदृष्टः सर्वभूतानां चचाराथ वसुन्धराम् ।
माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान्

1.31.86

पूर्वजन्मनि विख्यातः प्रमतिर्न्नाम वीर्यवान् ।
गोत्रतो वै चन्द्रमसः पूर्वे कलियुगे प्रभुः

1.31.87

द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतीः समाः ।
विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः

1.31.88

कृत्वा बीजावशेषं तु पृथ्व्यां कूरेण कर्मणा ।
परस्पर निमित्तेन कोपेनाकस्मिकेन तु

1.31.89

सुसाधयित्वा वृषलान्प्रायशस्तानधर्मिकान् ।
गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः

1.31.90

ततो व्यतीते कल्पे तु सामान्ये सहसैनिकः ।
उत्साद्य पार्थिवान्सर्वान्मलेच्छांश्चैव सहस्रशः

1.31.91

तत्र संध्यांशके काले संप्राप्ते तु युगान्तके ।
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित्

1.31.92

अपग्रहास्ततस्ता वै लोभाविष्टास्तु वृन्दशः ।
उपहिसंति चान्योन्यं पोथयन्तः परस्परम्

1.31.93

अराजके युगवशात्संक्षये समुपस्थिते ।
प्रजास्ता वै ततः सर्वाः परस्परभयार्द्दिताः

1.31.94

व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान्गृहाणि च ।
स्वान्प्रणाननपेक्षन्तो निष्कारणसुदुःखिताः

1.31.95

नष्टे श्रौते स्मृतौ धर्मे परस्परहतास्तदा ।
निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः

1.31.96

नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशतिम् ।
हित्वा पुत्रांश्च दारांश्च विषादव्याकुलेद्रियाः

1.31.97

अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः ।
प्रत्यन्तांस्ता निषेवन्ते हित्वा जनपदान्स्वकान्

1.31.98

सरितः सागरानूपान्सेवन्ते पर्वतांस्तथा ।
मांसैर्मूलफलैश्चैव वर्तयन्तः सुदुःखिताः

1.31.99

चीरपत्राचिनधरा निष्क्रिया निष्परिग्रहाः ।
वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः ।
एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः

1.31.100

जराव्याधिक्षुधा विष्टा दुःखान्निर्वेदमागमन् ।
विचारणा तु निर्वेदात्साम्यावस्था विचारणात्

1.31.101

साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता ।
तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम्

1.31.102

अहोरात्रं तदा तासां युगान्ते परिवर्त्तिनि ।
चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत्

1.31.103

भाविनोर्ऽथस्य च बलात्ततः कृतमवर्त्तत ।
प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै

1.31.104

उत्पन्नाः कलिशिष्टासु प्रजाः कार्तयुगास्तदा ।
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च

1.31.105

सह सप्तर्षिभिश्चैव तत्र ते च व्यवस्थिताः ।
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह

1.31.106

कलिजैः सह ते संति निर्विशेषास्तदाभवन् ।
तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च

1.31.107

वर्णाश्रमाचारयुक्तः श्रौतः स्मार्त्तो द्विधा तु सः ।
ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते

1.31.108

श्रौतस्मार्त्ते कृतानां च धर्मे सप्तर्षिदर्शिते ।
केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीहायुगक्षयात्

1.31.109

मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ।
यथा दावप्रदग्धेषु तृणेष्विह तपेन तु

1.31.110

वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः ।
तथा कार्तयुगानां तु कलिजष्विह संभवः

1.31.111

एवं युगो युगस्येह संतानस्तु परस्परम् ।
वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः

1.31.112

सुखमायुर्बलं रूपन्धर्मोर्ऽथः काम एव च ।
युगेष्वेतानि हीयन्ते त्रित्रिपादाः क्रमेण च

1.31.113

ससंध्याशेषु हीयन्ते युगानान्धर्मसिद्धयः ।
इत्येष प्रतिसंधिर्यः कीर्त्तितस्तु मया द्विजाः

1.31.114

चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ।
एषा चतुर्युगावृत्तिरासहस्रद्गुणीकृता

1.31.115

ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता ।
अत्रार्जवं जडीभावो भूतानामायुगक्षयात्

1.31.116

एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् ।
एषा चतुर्युगानां च गुणिता ह्येकसप्ततिः

1.31.117

क्रमेण परिवृत्ता तुमनोरन्तरमुच्यते ।
चतुर्युगे यथैकस्मिन्भवतीह यथा तु यत्

1.31.118

तथा चान्येषु भवति पुनस्तद्वद्यथाक्रमम् ।
सर्गे सर्गे तथा भेदा उत्पद्यन्ते तथैव तु

1.31.119

पञ्चत्रिंशत्परिमिता न न्यूना नाधिकाः स्मृताः ।
तथा कल्पा युगैः मार्द्धं भवन्ति सह लक्षणैः ।
मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम्

1.31.120

यथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभावात् ।
तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः

1.31.121

इत्येत ल्लक्षणं प्रोक्तं युगानां वै समासतः

1.31.122

अतीतानागतानां हि सर्वमन्वन्तरोष्विह ।
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै

1.31.123

ख्यातानीह विजानीध्वं कल्पं कल्पेन चैव ह ।
अनागतेषु तद्वच्च तर्कः कार्यो विजानता

1.31.124

मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ।
तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत

1.31.125

देवा ह्यष्टविधा ये वा इह मन्वन्तरेश्वराः ।
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः

1.31.126

एवं वर्णाश्रमाणां तु प्रविभागं पुरा युगे ।
युगस्वभावांश्च तथा विधत्ते वै सदा प्रभुः

1.31.127

वर्णाश्रमविभागाश्च युगानि युगसिद्धयः ।
अनुषङ्गात्समाख्याताः सृष्टिसर्गं निबोधत ।
विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc