भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.30

1.30.1

इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे संख्यावर्त्तो नामैकोनत्रिशत्तमो ऽध्यायः
शांशापायनिरुवाच
कथं त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्त्तनम् ।
पूर्वं स्वायंभुवे सर्गे यथावत्तच्च ब्रूहि मे

1.30.2

अन्तर्हितायां संध्यायां सार्द्धं कृतयुगेन वै ।
कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा

1.30.3

औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने ।
प्रतिष्ठितायां वार्त्तायां गृहाश्रमपरे पुनः

1.30.4

वर्णाश्रमव्यवस्थानं कृतवन्तश्च संख्यया ।
संभारांस्तांस्तु मंभृत्य कथं यज्ञः प्रवर्त्तितः

1.30.5

एतच्छुत्वाब्रवीत्सूतः श्रूयतां शांशपायने ।
यथा त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्तनम्

1.30.6

पूर्वं स्वायंभुवे सर्गे तद्वक्ष्याम्यानुपूर्व्यतः ।
अन्तर्हितायां संध्यायां सार्द्धं कृतयुगेन तु

1.30.7

कालाख्यायां प्रवृत्तायां प्रप्ते त्रेतायुगे तदा ।
औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने

1.30.8

प्रतिष्ठितायां वार्त्तायां गृहश्रमपरेषु च ।
वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांस्तु संहतान्

1.30.9

मन्त्रांस्तान्योजयित्वाथ इहामुत्र च कर्मसु ।
तदा विश्वभुगिन्द्रश्च यज्ञं प्रावर्त्तयत्प्रभुः

1.30.10

दैवतैः सहितैः सर्वैः सर्वसंभारसंभृतैः ।
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः

1.30.11

यजन्तं पशुभिर्मे ध्यैरूचुः सर्वे समागताः ।
कर्मव्यग्रेषु ऋत्विक्षु संतते यज्ञकर्मणि

1.30.12

संप्रगीथेषु सर्वेषु सामगेष्वथ सुस्वग्म् ।
परिक्रान्तेषु लघुषु ह्यध्वर्युवृषभेषु च

1.30.13

आलब्धेषु च मेध्येषु तथा पशुगणेषु च ।
हविष्यग्नौ हूयमाने ब्राह्मणैश्चाग्निहोत्रिभिः

1.30.14

आहूतेषु च सर्वेषु यज्ञभाक्षु क्रमात्तदा ।
य इन्द्रियात्मका देवास्तदा ते यज्ञभागिनः

1.30.15

तद्यचन्ते तदा देवान्कल्पादिषु भवन्ति ये ।
अध्वर्यवः प्रैषकाले व्यत्थिता वै महर्षयः

1.30.16

महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणांस्तदा ।
प्रपच्छुरिद्रं संभूय को ऽयं यज्ञ विधिस्तव

1.30.17

अधर्मो बलवानेष हिंसाधर्मेप्सया ततः ।
ततः पशुवधश्चैष तव यज्ञे सुरोत्तम

1.30.18

अधर्मो धर्मघाताय प्रारब्धः पशुहिसया ।
नायं धर्मो ह्यधर्मो ऽयं न हिंसा धर्म उच्यते

1.30.19

आगमेन भवान्यज्ञं करोतु यदिहेच्छति ।
विधिदृष्टेन यज्ञेन धर्मेणाव्यपसेतुना

1.30.20

यज्ञबीचैः सुरेश्रष्ठ येषु हिंसा न विद्यते ।
त्रिवर्षं परमं कालमुषितैरप्ररोहिभिः

1.30.21

एष धर्मो महाप्राज्ञ विरञ्चिविहितः पुरा ।
एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः

1.30.22

तदा विवादः सुमहानिन्द्रस्यासीन्महर्षिभिः ।
जङ्गमस्थावरैः कैर्हि यष्टव्यमिति चोच्यते

1.30.23

ते तु खिन्ना विवादेन तत्त्वमुत्त्वा महर्षयः ।
सन्धाय वाक्यमिन्द्रेण पप्रच्छुः खेचरं वसुम्

1.30.24

सहाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप ।
औत्तानपादे प्रब्रूहि संशयं नो नुद प्रभो

1.30.25

श्रुत्वा वाक्यं वसुस्तेषाम विचार्य बलाबलम् ।
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह

1.30.26

यथोपनीर्तैर्यष्टव्यमिति होवाच पार्थिवः ।
यष्टव्यं पशुभिर्मे ध्यैरथ बीजैः फलैरपि

1.30.27

हिंसास्वभावो यज्ञस्य इति मे दर्शनागमौ ।
यथेह देवता मन्त्रा हिंसालिङ्गा महर्षिभिः

1.30.28

दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः ।
तत्प्रामाण्यान्मया चोक्तं तस्मात्स प्राप्तुमर्हथ

1.30.29

यदि प्रमाणं तान्येव मन्त्रवाक्यानि वै द्विजाः ।
तथा प्रवततां यज्ञो ह्यन्यथा वो ऽनृतं वचः

1.30.30

एवं कृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ।
अवश्यभावितं दृष्ट्वा तमथो वाग्यताभवन्

1.30.31

इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् ।
ऊर्ध्वचारी वसुर्भूत्वा रसातलचरो ऽभवत्

1.30.32

वसुधा तलवासी तु तेन वाक्येन सो ऽभवत् ।
धर्माणां संशयच्छेत्ता राजा वसुरधोगतः

1.30.33

तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशये ।
बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः

1.30.34

तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् ।
देवानृषीनुपादाय स्वायंभुवमृते मनुम्

1.30.35

तस्मादहिंसा धर्मस्य द्वारमुक्तं महर्षिभिः ।
ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः

1.30.36

तस्मान्न दानं यज्ञं वा प्रशंसंति महर्षयः ।
उञ्छमूलफलं शाकमुदपात्रं तपोधनाः

1.30.37

एतद्दत्वा विभवतः स्वर्गे लोके प्रतिष्ठिताः ।
अद्रोहश्चाप्य लोभश्च तपो भुतदया दमः

1.30.38

ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः ।
सनातनस्य धर्मस्य मूलमेतद्दुरासदम्

1.30.39

श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयो ऽनघाः ।
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः

1.30.40

सुधामा विरजाश्चैव शङ्खः पाण्ड्यज एव च ।
प्राजीनबर्हिः पर्जन्यो हविर्धानादयो नृपः

1.30.41

एते चान्ये च बहवः स्वैस्तपोभिर्दिवं गताः ।
राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता

1.30.42

तस्माद्विशिष्यते यज्ञात्तपः सर्वैस्तु कारणः ।
ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा

1.30.43

तस्मान्नान्वेति तद्यज्ञस्तपोमूलमिदं स्मृतम् ।
द्रव्यमन्त्रात्मको यज्ञस्तपस्त्वनशनात्मकम्

1.30.44

यज्ञेन देवानाप्नोति वैराजं तपसा पुनः ।
ब्राह्मं तु कर्म संन्यासाद्वैराग्यात्प्रकृतेर्जयम्

1.30.45

ज्ञानात्प्राप्नोति कैवल्यं पञ्चैतागतयः स्मृताः ।
एवं विवादः सुमहान्य ज्ञस्यासीत्प्रवर्त्तने

1.30.46

देवतानामृषीणां च पूर्व स्वायंभुवे ऽन्तरे ।
ततस्तमृषयो दृष्ट्वा हतं धर्मबलेन तु

1.30.47

वसोर्वाक्यमना दृत्य जगमुः सर्वे यथागतम् ।
गतेषु मुनिसंघेषु देवा यज्ञं समाप्नुवन्

1.30.48

यज्ञप्रवर्त्तनं ह्येवमासीत्स्वायंभुवे ऽन्तरे ।
ततः प्रभृति यज्ञो ऽयं युगैः सह विवर्त्तितः

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc