ब्रह्माण्ड पुराण · अध्याय 1.29
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे अमावस्याश्राद्धे पितृविचयोनामाष्टाविंशति तमो ऽध्यायः
ऋषिरुवाच
चतुर्युगानि यान्यासन्पूर्वं स्वायंभुवे ऽन्तरे ।
तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात्
सूत उवाच
पृथिव्यादिप्रसंगेन यन्मया प्रागुदीरितम् ।
तेषां चतुर्युगं ह्येतत्तद्वक्ष्यामि निबोधत
संख्ययेह प्रसंख्याय विस्तराच्चैव सर्वशः ।
युगं च युगभेदश्च युगधर्मस्तथैव च
युगसंध्यांशकश्चैव युगसंधानमेव च ।
षट्प्रकाशयुगाख्यैषा ता प्रवक्ष्यामि तत्त्वतः
लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् ।
तेनाब्देन प्रसंख्यायै वक्ष्यामीह वतुर्युगम् ।
निमेषकाल तुल्यं हि विद्याल्लघ्वक्षरं च यत्
काष्ठा निमेषा दश पञ्च चैव त्रिशच्च काष्ठा गणयेत्कलां तु ।
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तै स्त्रिंशता रात्र्यहनी समे ते
अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ
तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्पते ।
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ।
त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः
शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै ।
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते
मानुषे णैव मानेन वर्षाणां यच्छतं भवेत् ।
पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै
दश चैवाधिका मासाः पितृसंख्येह संज्ञिताः ।
लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः
एतद्दिव्यमहोरात्रं शास्त्रे स्यान्निश्चयो गतः ।
दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।
ये ते रात्र्यहनी दिव्ये प्रसंख्यानं तयोः पुनः
त्रिंशद्यानि तु वर्षाणि दिप्यो मासस्तु स स्मृतः ।
यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ।
त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु ।
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः
त्रीणि वर्ष सहस्राणि मानुषाणि प्रमाणतः ।
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः
नव यानि सहस्राणि वर्षाणां मानुषाणि तु ।
अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः
षड्विंशतिसहस्राणि वर्षाणि मानुषाणि तु ।
वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः
त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु
षष्टिश्चैव सहस्राणि संख्यातानि तु संख्याया ।
दिव्यवर्षसहस्र तु प्राहुः संख्याविदो जनाः
इत्येवमृषिभिर्गीतं दिव्यया संख्याया त्विह ।
दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम्
चत्वारि भारते वर्षे युगानि कवयो ऽबुवन् ।
कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम्
पूर्व कृतयुकं नाम ततस्त्रेती विधीयते ।
द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत्
चत्वार्याहुः सहस्राणि वर्षाणां च कृत युगम् ।
तस्य तावच्छती संध्या संध्यांशः संध्याया समः
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकन्यायेन वर्तन्ते सहस्राणि शतानि च
त्रीणि द्वे च सहस्राणि त्रेताद्वापरयोः क्रमात् ।
त्रिशती द्विशती संध्ये संध्यांशौ चापि तत्समौ
कलिं वर्षसरस्रं तु युगमाहुर्द्विजोत्तमाः ।
तस्यैकशतिका संध्या संध्यांशः संध्यया समः
तेषां द्वादशसाहस्री युगसंख्या प्रकीर्त्तिता ।
कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम्
अत्र संवत्सरा दृष्टा मानुषेण प्रमाणतः ।
कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत
सहस्राणां शतान्याहुश्चतुर्दश हि संख्याया ।
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम्
तथा शतसहस्राणि वर्षाणि दशसंख्याया ।
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः
सप्तैव नियुतान्याहुर्वर्षाणां मानुषेण तु ।
विंशतिश्च सहस्रामि कालः स द्वापरस्य च
तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया ।
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु
एवं चतुर्युगे काल ऋतैः संध्यांशकैः स्मृतः ।
नियुतान्येव षडिंशान्निरसानि युगानि वै
चत्वारिंशत्तथा त्रीणि नियुता नीह संख्यया ।
विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः
एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ।
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते
मन्वन्तरस्य संख्यां तु वर्षाग्रेण निबोधत ।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः
सप्त षष्टिस्तथान्यानि नियुतान्यधिकानि तु ।
विशतिश्च सहस्राणि कालो ऽयं साधिकं विना
मन्वन्तरस्य संख्यैषा संख्या विद्भिर्द्विजैः स्मृता ।
मन्वन्तरस्य कालो ऽयं युगैः सार्द्धं च कीर्त्तितः
चतुः साहस्रयुक्तं वै प्राकृतं तत्कृतं युगम् ।
त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च
युगपत्समयेनार्थो द्विधा वक्तुं न शक्यते ।
क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम्
ऋषिवंशप्रसंगेन व्याकुलत्वात्तथैव च ।
अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये
श्रौत स्मार्त्त च ते धर्म ब्रह्मणानुप्रचौदितम् ।
दाराग्निहोत्रसंबन्धमृग्यजुः सामसंहितम्
इत्यादिलक्षणं श्रौतं धर्म सप्तर्षयो ऽब्रुवन् ।
परंपरागतं धर्म स्मार्त्तं चाचारलक्षणम्
वर्णाश्रमाचारयुतं मनुः स्वायंभुवो ऽब्रवीत् ।
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै
तेषां तु तप्ततपसा आर्षेणोपक्रमेण तु ।
सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा
अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ।
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः
आदिकल्पे तु देवानां प्रादुर्भूतास्तु याः स्वयम् ।
प्राणाशेष्वथ सिद्धीनामन्यासां च प्रवर्त्तनम्
आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः ।
ते मन्त्रा वै पुनस्तेषां प्रतिभायामुपस्थिताः
ऋचो यजूंषि सामानि मन्त्रश्चाथर्वणानि तु ।
सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्त्तं धर्मं मनुर्जगौ
त्रेतादौ संहिता वेदाः केवला धर्मसेतवः ।
संरोधादायुषश्चैव वर्त्स्यन्ते द्वापरेषु वै
ऋषयस्तपसा वेदान्द्वापरादिष्वधीयते ।
अनादिनिधिना दिव्याः पूर्वं सृष्टाः स्वयंभुवा
सधर्माः सव्रताः सांगा यथाधर्मं युगेयुगे ।
विक्रियन्ते समानार्था वेदवादा यथायुगम्
आरंभयज्ञाः क्षत्राश्च हविर्यज्ञा विशस्तथा ।
परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः
तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः ।
क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा
ब्राह्मणाननुर्त्तन्ते क्षत्रियाः क्षत्रियान्विशः ।
वैश्यानुवर्त्तिनः शुद्राः परस्परमनुव्रताः
शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा ।
संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा
त्रेतायुगे च विफलः कर्मारंभः प्रसिद्ध्यति ।
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता
सर्वसाधारणा ह्येते त्रेतायां वै भवं त्युत ।
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तदाकरोत्
पुनः प्रजास्तु ता मोहाद्धर्मा स्तानप्यपालयन् ।
परस्परविरोधेन मनुं ताः पुनरभ्ययुः
पुनः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः ।
ध्यात्वा तु शतरूपायां पुत्रौ स उदपादयत्
प्रियव्रतो त्तानपादौ प्रथमौ तौ मोहीक्षितौ ।
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः
प्रजानां रञ्जनाच्चैव राजानस्ते ऽभवन्नृपाः ।
प्रच्छन्न पापास्तैर्ये च न शक्यास्तु नराधिपैः
धर्मराजः स्मृतस्तेषां शास्ता वैवस्वतो यमः ।
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्त्तिताः
संभृताच्च तदा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः ।
यज्ञाः प्रवर्त्तिताश्चैव तदा ह्येव तु दैवतैः
यामशुक्रार्जितैश्चैव सर्वसाधन संभृतैः ।
सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा
स्वायंभुवेंऽतरे देवैर्यज्ञस्तैः प्राक्प्रवर्त्तितः ।
सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते
तदा धर्म्मसहस्रान्ते ऽहिंसाधर्मः प्रवर्त्तते ।
जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः
व्यस्तदण्डा महाभागा धर्मिष्ठा ब्रह्मवादिनः ।
पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः
सिंहातङ्का महासत्त्वा मत्तमातङ्गगमिनः ।
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः
सर्वलक्षणसम्पूर्मा न्यग्रोधपरिमण्डलाः ।
न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते
व्यामे नैवोछ्रयो यस्य सम ऊर्द्धं तु देहिनः ।
समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमण्डलः
चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।
सप्तैतानि च रत्नानि सर्वेषां चक्रवर्तिनाम
चक्रं रथो मणिः खड्गश्चर्मरत्नं च पञ्चमम् ।
केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते
भार्या पुरोहितश्चैव सेनानी रथकृच्च यः ।
मन्त्र्यश्वः कलभश्चैव प्राणिनः सप्त कीर्त्तिताः
रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम् ।
चतुर्दश विधेयानि सर्वेषां चक्रवर्त्तिनाम्
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्त्तिनः ।
मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह
भूतभव्यानि यानीह वर्त्तमानानि यानि च ।
त्रेतायुगे च तान्यत्र जायन्ते चक्रवर्त्तिनः
भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम् ।
अत्यद्भुतानि चत्वारि बलं धर्मः सुखं धनम्
अन्योन्यस्याविरोधेन प्राप्यन्ते तु नृपैः समम् ।
अर्थो धर्मश्च कामश्च यशो विजय एव च
ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च ।
श्रुतेन तपसा चैव मुनीनभिभवन्ति वै
बलेन तपसा चैव देवदानवमानवान् ।
लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः
केशाःस्निग्धा ललाटोच्चा जिह्वा चास्य प्रमार्जिनी ।
ताम्रप्रभोष्टनेत्राश्च श्रीवत्साश्चैद्ध्वरोमशाः
आजानुबाहवस्छैव तदाम्रहस्ताः कटौ कृशाः ।
न्यग्रोधपरिणाहाश्च सिंहस्कन्धास्तु मेहनाः
गजेद्रगतयश्चैव महाहनव एव च ।
पादयोश्चक्रमत्स्योन्तु शङ्खपद्मौ तुहस्तयोः
पञ्चाशीतिसहस्राणि ते राजन्त्यजरा नृपाः ।
असंगगतयस्तेषां चतस्रश्चक्रवर्त्तिनाम्
अन्तरिक्षे समुद्रि च पाताले पर्वतेषु च ।
इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते
तदा प्रवर्त्तते धर्मो वर्णाश्रमविभागशः ।
मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्त्तते
त्दृष्टपुष्टाः प्रजाः सर्वा अरोगाः पूर्णमानसाः ।
एको वेदश्चतुष्पादस्त्रेतायुगविधौस्मृतः
त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः ।
पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु
एष त्रेतायुगे धर्मस्त्रेतासंध्यां निबोधत ।
त्रेतायुगस्वभावानां संध्या पादेन वर्त्तते ।
संध्यापादः स्वभावस्तु सोंऽशपदेन तिष्ठति
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0