भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.28

1.28.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपाद दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमो ऽध्यायः
ऋषिरुवाच
अगात्कथममावस्यां मासि मासि दिवं नृपः ।
ऐलः पुरूरवाः सूत कथं वातर्पयत्पितॄन्

1.28.2

सूत उवाच
तस्य ते ऽहं प्रवक्ष्यामि प्रभावं शांशपायने ।
ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः

1.28.3

अन्तःसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः ।
ह्रासवृद्धी पिदृमतः पित्र्यस्य च विनिर्णयम्

1.28.4

सोमाच्चैवामृतप्राप्तिं पितॄणां तर्वणं तथा ।
काव्याग्निष्वात्तमौम्यानां पितॄणाञ्चैव दर्शनम्

1.28.5

यथा पुरूरवाश्चैव तर्पयामास वै पितॄन् ।
एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम्

1.28.6

यदा तु चन्द्रसूर्यौं वै नक्षत्रेण समागतौ ।
अमावस्यां निवसत एकरात्रैकमण्डलौ

1.28.7

स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ ।
अमावस्याममावास्यां मातामहपितामहौ

1.28.8

अभिवाद्य स तौ तत्र कालापेक्षः प्रतीक्षते ।
प्रस्यन्दमानात्सोमात्तु पित्रर्थं तु परिश्रवान्

1.28.9

ऐलः पुरूरवा विद्वान्मासश्राद्धचिकीर्षया ।
उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः

1.28.10

द्विलवां कुहूमात्रां च ते उभे तु विचार्य सः ।
सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः

1.28.11

कुहूमात्रः कलां चैव ज्ञात्वोपास्ते कुहूं तथा ।
स तदा तामुपासीनः कालापेक्षः प्रपश्यति

1.28.12

सुधामृतं तु तत्सोमात्स्रवद्वै मासतृप्तये ।
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः

1.28.13

कृष्णपक्षे भुजां प्रीत्या दह्यमानां तथांशुभिः ।
सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः

1.28.14

निर्वातेष्त्रथ पक्षेषु पित्र्येण विधिना दिवि ।
सुधामृतेन राजैन्द्रस्तर्प यामास वै पितॄन्

1.28.15

सौम्यान्बर्हिषदः काव्यानग्निष्वात्तांस्तथैव च ।
ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः

1.28.16

जज्ञिरे ह्यृतवस्तस्माद्ध्यृतुभ्यश्चार्त्तवास्तथा ।
आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः

1.28.17

ऋतवः पितामहा मासा अयनाह्यब्दसूनवः ।
प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः

1.28.18

सौम्यास्तु सोमजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः ।
उपहूताः स्मृता देवाः सोमजाः सोमपाः स्मृताः

1.28.19

आज्यपास्तु स्मृताः काव्यास्तिस्रस्ताः पितृजातयः ।
काव्या बर्हिषद श्चैव अग्निष्वात्ताश्च तास्त्रिधा

1.28.20

गृहस्था ये च यज्वान ऋतुर्बर्हिषदो ध्रुवम् ।
गृहस्थाश्चाप्ययज्वान अग्निष्वात्तास्तथार्त्तवाः

1.28.21

अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत ।
तेषां संवत्सरो ह्यग्निः सूयस्तु परिवत्सरः

1.28.22

सोम इड्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः ।
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दास्ते युगात्मकाः

1.28.23

काव्याश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ।
ये ते पिबन्त्यमावस्यां मासिमासि सुधां दिवि

1.28.24

तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ।
यस्मात्प्रस्रवते सोमान्मासि मासि धिनोति च

1.28.25

तस्मात्सुधामृतं तद्वै पितॄणां सोमपायिनाम् ।
एवं तदमृतं सौम्यं सुधा च मदु चैव ह

1.28.26

कृष्णपक्षे यथा वेन्दोः कलाः पञ्चदश क्रमात् ।
पिबन्त्यंबुमयं देवास्त्रयस्त्रिंशत्तु छन्दनाः

1.28.27

पीत्वार्द्धमासं गच्छन्ति चतुर्दश्यां सुधामृतम् ।
इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः

1.28.28

समागच्छत्यमावस्यां भागे पञ्चदशे स्थितः ।
सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम्

1.28.29

पिबन्ति द्विलवं कालं पितरस्ते सुधामृतम् ।
पीतक्षयं ततः सोमं सूर्यो ऽसावेकरश्मिना

1.28.30

आप्याययत्सुषुम्णातः पुनस्तान्सोमपायिनः ।
निः शेषायां कलायां तु सोममाप्याययत्पुनः

1.28.31

सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात् ।
कलाः क्षीयन्ति ताः कृष्णाः शुक्ला चाप्याययन्ति तम्

1.28.32

एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः ।
दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः

1.28.33

संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ।
इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः

1.28.34

क्रान्तः पञ्चदशैः सार्द्धं सुधामृतपरिस्रवैः ।
अतः पर्वाणि वक्ष्यामि वर्वणां संधयश्च ये

1.28.35

ग्रन्थिमन्ति यथा पर्वाणीक्षुवे ण्वोर्भवन्त्युत ।
तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि

1.28.36

पूर्णामावस्ययोर्भेदौ ग्रन्थयः संधयश्च वै ।
अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु

1.28.37

अन्वाधानक्रिया यस्मात्क्रियते पर्वसंधिषु ।
तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसंधिषु

1.28.38

सायाह्ने ऽह्यनुमत्यादौ कालो द्विलव उच्यते ।
लवौ द्वावेव राकायां कालो ज्ञेयो ऽपराह्णकः

1.28.39

प्रतिपत्कृष्णपक्षस्य काले ऽतीते ऽपराह्णके ।
सायाह्ने प्रतिपन्ने च स कालः पौर्णमासिकः

1.28.40

व्यतीपाते स्थिते सूर्ये लेखार्द्धे तु युगान्तरे ।
युगान्तरोदिते चैव लेशार्द्धे शशिनः क्रमात्

1.28.41

पौर्णमासी व्यतीपाते यदीक्षेतां परस्परम् ।
यस्मिन्काले समौ स्यातां तौ व्यतीपात एव सः

1.28.42

तं कालं सूर्यनिर्द्देश्यं दृष्ट्वा संख्यां तु सर्पति ।
स वै वषटाक्रियाकालः सद्यः कालं विधीयते

1.28.43

पूर्णन्दोः पूर्णपक्षे तु रात्रिसंधिश्च पूर्णिमा ।
ततो विरज्यते नक्तं पौर्णमास्यां निशाकरः

1.28.44

यदीक्षेते व्यतीपाते दिवा पूर्णे परस्परम् ।
चन्द्रार्कावपराह्णे तु पूर्णात्मानौ तु पूर्णिमा

1.28.45

यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह ।
तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता

1.28.46

अत्यर्थं भ्राजते यस्माद्व्योम्न्यस्यां वै निशाकरः ।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो ऽब्रुवन्

1.28.47

अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ ।
राका पञ्चदशी रात्रिरमावास्या ततः स्मृता

1.28.48

व्युच्छिद्य तममावस्यां पश्यतस्तौ समागतौ ।
अन्योन्यं चन्द्रसूर्यौं तौ यदा तद्वर्श उच्यते

1.28.49

द्वौ द्वौ लवावमावास्या स कालः पर्वसंधिषु ।
द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः

1.28.50

नष्टचन्द्रा त्वमावस्या या मध्याङ्नात्प्रवर्त्तते ।
दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चन्द्रमाः

1.28.51

सूर्येण सह सामुद्रं गत्वा प्रातस्तनात्स वै ।
द्वौ कालौ संगमं चैव मध्याह्ने नियतं रविः

1.28.52

प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य मण्डलात् ।
विमुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै

1.28.53

स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया ।
एतदृतुमुखं ज्ञेयममा वास्यास्य पर्वणः

1.28.54

दिवापर्व ह्यमावास्या क्षीणेन्दौ बहुले तु वै ।
तस्माद्दिवा ह्यमावास्यां गृह्यते ऽसौ दिवाकरः

1.28.55

गृह्यते तु दिवा तस्मादमावास्यां दिवि क्षयाम् ।
कलानामपि चैतासां वृद्धिहान्या जलात्मनः

1.28.56

तिथीनां नामधेयानि विद्वद्भिः संज्ञितानि वै ।
दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ

1.28.57

निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् ।
द्विलवोनमहोरात्रं भास्करं स्पृशते शशी

1.28.58

स तदा ह्याहुतेः कालोदर्शस्य तु वषट्क्रिया ।
कुहेति कोकिलेनोक्तो यः स कालः समाप्यते

1.28.59

तत्कालसंमिता यस्मादमावास्या कुहूः स्मृता ।
सिनीवालीप्रमाणस्तु क्षीणशेषो निशाकरः

1.28.60

आमावस्यां विशत्यर्कस्सिनी वालीततः स्मृता ।
अनुमत्याश्चराकायाः सिनीवाल्याः कुहूंविना

1.28.61

एतासां द्विलवः कालः कुहूमात्रङ्कुहूःस्मृताः ।
चन्द्रसूर्यव्यतीपाते संगते पूर्णिमान्तरे

1.28.62

प्रतिपत्प्रतिपद्येत पर्वकालो द्विमात्रकः ।
कालः कहूसिनीवाल्योः सामुद्रस्य तु मध्यतः

1.28.63

अर्काग्नि मण्डले सोमे पर्वकालः कलासमः ।
एवं स शुक्लपक्षे वै रजन्यां पर्वसंधिषु

1.28.64

संपूर्ममण्डलः श्रीमांश्चन्द्रमा उपरज्यते ।
यस्मादा दाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा

1.28.65

दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् ।
तस्मात्कलाः पञ्चदश सोमेनास्य तु षोडशी

1.28.66

तस्मात्सोमस्य भवति पञ्चदश्याप्रपां क्षयः ।
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः

1.28.67

आर्तवा ऋतवो ह्यृद्धा देवास्तान्भावयन्ति वै ।
अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये

1.28.68

तेषां गतिं सतत्त्वां च प्राप्तिं श्राद्धस्य चैव हि ।
न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः

1.28.69

तपसापि प्रसिद्धेन किंपुनर्मासचक्षुषा ।
अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः

1.28.70

देवाः सौम्याश्च काव्याश्च अयज्वानो ह्यचोनिजाः ।
देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत

1.28.71

मनुष्यपितरश्चैव तेभ्यो ऽन्ये लौकिकाः स्मृताः ।
पिता पितामहश्चापि तथा यः प्रपितामहः

1.28.72

यज्वानो ये तु सामेन सोमवन्तस्तु ते स्मृताः ।
ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः

1.28.73

अग्निष्वात्ताः स्मृतास्तेषां होमिनो ऽयाज्ययाजिनः ।
तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः

1.28.74

ये चाप्याश्रमधर्माणां प्रस्थानेषु व्यवस्थिताः ।
अन्ते तु नावसीदन्ति श्रद्धायुक्तास्तु कर्मसु

1.28.75

तपसा ब्रह्मचर्येण यज्ञेन प्रजया च वै ।
श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा

1.28.76

कर्मस्वेतेषु ये युक्ता भवन्त्यादेहपातनात् ।
दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः

1.28.77

स्वर्गता दिवि मोदन्ते पितृवत्त उपासते ।
तेषां निवापे दत्ते तु तत्कुलीनैश्च बन्धुभिः

1.28.78

मासश्राद्धभुजस्तृप्तिं लभन्ते सोमलौकिकाः ।
एते मनुष्यपितरो मासश्राद्धभुजस्तु ये

1.28.79

तेभ्यो ऽपरे तु ये ऽप्यन्ये संकीर्णाः कर्मयोनिषु ।
भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः

1.28.80

भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये ।
स्वकर्माण्य नुशोचन्तो यातनास्थानमागताः

1.28.81

दीर्घायुषो ऽतिशुष्काश्च श्मश्रुलाश्च विवाससः ।
क्षुत्पिपासापरीताश्च विद्रवन्तस्ततस्ततः

1.28.82

सरित्सरस्तडागानि वापीश्चाप्युपलिप्सवः ।
परान्नानि च लिप्संतः काल्यमानास्ततस्ततः

1.28.83

स्थानेषु पात्यमानाश्च यातनाश्च पुनः पुनः ।
शाल्मले वैतरण्यां च कुंभीपाके तथैव च

1.28.84

करंभवालुकायां च असिपत्रवने तथा ।
शिला संपेषणे चैव पात्यमानाः स्वकर्मभिः

1.28.85

तत्रस्थानां हि तेषां वै दुः खितानामनाशिनाम् ।
तेषां लोकान्तरस्थानां बान्धवैर्नाम गोत्रतः

1.28.86

भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै ।
यान्ति तास्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठितान्

1.28.87

अप्राप्ता यातनास्थानं प्रभ्रष्टा य च पञ्चधा ।
पश्चाद्ये स्थावरान्ते वै जाता नीचैः स्वकर्मभिः

1.28.88

नानारूपासु जायन्ते तिर्यग्योनिष्वयोनिषु ।
यदाहारा भवन्त्येते तासु तास्विह योनिषु

1.28.89

तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तं प्रतिष्ठते ।
काले न्यायागतं पात्रे विधिना प्रतिपादितम्

1.28.90

प्राप्नोत्यन्नं यथादत्तं जन्तुर्यत्रावतिष्ठते ।
यथा गोषु प्रनष्टामु वत्सो विन्दति मातरम्

1.28.91

तथा श्राद्धेषु दत्तान्नं मन्त्रः प्रापयते पितॄन् ।
एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः

1.28.92

तत्तत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ।
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह

1.28.93

बाह्लीकाश्चोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः ।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी

1.28.94

इत्येते पितरो देवा देवाश्च पितरश्च वै ।
ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः

1.28.95

इत्येत पितरो देवा मनुष्यपितरश्च ये ।
प्रीतेषु तेषु प्रीयन्ते श्राद्धयुक्तेषु कर्मसु

1.28.96

इत्येष विचयः प्रोक्तः पितॄणां सोमपायिनाम् ।
एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम्

1.28.97

इत्यर्कपितृसोमानामैलस्य च समागमः ।
सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम्

1.28.98

पूर्णा मावास्ययोः कालो यातनास्थानमेव च ।
समासात्कीर्तितस्तुभ्यमेष सर्गः मनातनः

1.28.99

वैश्वरूप्यं तु सर्गस्य कथितं ह्येकदैशिकम् ।
न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता

1.28.100

स्वायंभुवस्य हि ह्येष सर्गः क्रान्तो मया तु वै ।
विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम्

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc