ब्रह्माण्ड पुराण · अध्याय 1.27
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे लिङ्गोत्पत्तिकथनं नाम षड्विंशतितमो ऽध्यायः
ऋषय ऊचुः
भूय षुत महाबुद्धे कथयस्व महात्मनः ।
महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः
कथं दारुवणे देव-ऋषिसंघनिषेविते ।
चकार वेषं विकृतं येन बुद्धा महर्षयः
ज्ञात्वा च ते महादेवं ततो भ्रान्ता ह्यचेतसः ।
आराधयन्प्रसादार्थं नैषां तुष्टः पुनर्भवः
एतत्सर्वं यथावृत्तं देवदेवेन चेष्टितम् ।
तत्सर्वं कथयस्वेह त्वं नो बुद्धिमतां वरः
सूत उवाच
श्रूयतामभिधास्यामि धर्ममेतमतन्द्रिताः ।
निर्म्मितं देवदेवेन भक्तानामनुकंपया
पुरा कृतयुगे विप्राः शृङ्गे हिमवतः शुभे ।
देवदारुवनं रम्यं नानाद्रुमलताकुलम्
बहवो मुनयस्तत्र तपस्यन्तो मुनिव्रताः ।
शैवाल भोजनाः केचित्केचिदन्तर्जलेशयाः
केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः ।
दन्तोलूखलिनश्चान्ये त्वश्मकुट्टास्तथा परे
स्थानवीरासनाश्चान्ये मृगयर्यारतास्तथा ।
कालं नयन्ति तपसा तीव्रेण च महाधियः
ततस्तेषां प्रसादार्थ देवस्तद्वनमागतः ।
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः
विकृतस्रस्तकेशश्च करालदशनस्तथा ।
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
शिश्नं सवृषणं तस्य रक्तगैरिकसन्निभम् ।
मुखमङ्गारवर्णेन शुक्लेन च विभूषितम्
क्वचित्स हसते रौद्रं क्वचिद्गायति विस्मि तः ।
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः
नृत्यन्त रुरुधुस्तूर्णं पत्न्यस्तेषां विमोहिताः ।
आश्रमे ऽभ्यागतो ऽभीक्ष्णं या चते च पुनः पुनः
भार्या कृता तथारूपा तृणाभरणभूषिता ।
वृषनादं प्रगर्जन्वै खरनादं ननाद च
तथा वञ्चितुमा रब्धो हासयन्सर्वदेहिनः ।
ततस्ते मुनयः क्रुद्धाः क्रोधेन कलुषीकृताः
मोहिता मायया सर्वे शपितुं समुपस्थिताः ।
करवद्गायसे यस्मात्खरस्तस्माद्भविष्यसि
राक्षसो वा पिशाचो वा दानवो वाथ वा तथा ।
यथा वैच्छंस्तथा सर्वे क्रुद्धास्ते मुनयः समम्
शेपुः शासैस्तु विविधैस्तं देवं भुवनेश्वरम् ।
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे
यथादित्यप्रकाशेन तारका नभसि स्थिताः ।
न द्योतन्ते प्रकाशेन तद्वत्तेजांसि शङ्करे
श्रूयते ऋषिशापेन ब्रह्मणः सुमहात्मनः ।
समृद्धः श्रेयसां यौनिर्यज्ञो वै नाशमाप्तवान्
भृगोरपि च शापेन विष्णुः परमवियवान् ।
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः
इन्द्रस्यापि हि धर्मज्ञः शिश्नं सवृषणं पुरा ।
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम्
गर्भवासो वसूनां च शापेन विहित स्तथा ।
ऋषीणां चैव शापेन नहुषः सर्पतां गतः
क्षीरोदश्च समुद्रश्च ह्यपेयो ब्राह्मणैः कृतः ।
धर्मश्चात्र प्रशप्तो वै माण्डव्येन महात्मना
एते चान्ये च बहवो यातनां च समागताः ।
वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम्
एवं हि मोहितास्तेन न चाबुद्ध्यन्त शङ्करम् ।
ततस्ते ऋषयः सर्वे परस्परमथाब्रुवन्
न चायं विधिरस्माकं गृहस्थानां विधीयते ।
ब्रह्मचर्य रतानां च वने वा वनवासिनाम्
यतीनां वा तथा धर्मो नायं दृष्टः कथञ्चन ।
अनयस्तु महानेष येनायं मोहितो द्विजाः
लिङ्गं प्रपातयस्वैतन्नायं धर्मस्तपस्विनाम् ।
वदस्व वाचा मधुरं वस्त्रमेकं समाश्रय
त्याजिते च त्वया लिङ्गे ततः पूजामवाप्स्यसि ।
ऋषीणां तद्वचः श्रुत्वा भगवान्भगनेत्रहा
उवाच श्लक्ष्णया वाचा प्रहसन्निव शङ्करः ।
न शक्यमिदमस्मा कं लिङ्गं पातयितुं बलात्
ब्रह्मादिदैवतैः सर्वैः किमुतान्यैस्तपोधनैः ।
पातयेयमहं चैतल्लिङ्गं भो द्विजसत्तमाः
आश्रमे तिष्ठ वा गच्छ वाक्यमित्येव ते ऽब्रुवन् ।
एवमुक्तो महादेवः प्रत्दृष्टेन्द्रियचेष्टितः
सर्वेषां पश्यतामेव तत्रैवान्तर्दधे प्रभुः ।
अन्तर्हिते भगवति तथा लिङ्गे कृते भवे
त्रैलोक्ये सर्वभूतानां प्रादुर्भावो न जायते ।
व्याकुलं च तदा सर्वं न प्रकाशेत किञ्चन
तपते चैव नादित्यो निष्प्रभः पावकस्तथा ।
नक्षत्राणि ग्रहाश्चैव विपरीता विजज्ञिरे
संतानार्थ प्रवृत्तानामृषीणां विभवात्मनाम् ।
क्रतवो न व्यवर्त्तन्त ऋतुकालाभिगामिनाम्
ते चरति पुनर्द्धर्म्मं निर्ममा निरहङ्कृताः ।
नष्टप्रभाववीर्याश्च नष्टतेजस एव च
धर्मे चैव मतिस्तेषां तदा न व्यवतिष्ठते ।
ते तुसर्वे समागम्य ब्रह्मलोकमुपागताः
ब्रह्मणो भवनं गत्वा दृष्ट्वा पुष्पकसंभवम् ।
पादयोः पतिताः सर्वे शिववृत्तान्तमूचिरे
विकटः स्तब्धकेशश्च करालदशनस्तथा ।
उलूकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
शिश्नं सवृषणं तस्य रक्तं गैरिकमण्डितम् ।
स्नुषाणां च दुहितॄणां पुत्रीणां च विशेषतः
वर्तमानस्ततः पार्श्वे विपरीताभिलाषतः ।
उन्मत्त इति विज्ञाय सो ऽस्माभिरवमानितः
आक्रुष्टस्ताडितश्चापि लिङ्गं चाप्यस्य चोद्धृतम् ।
तस्य क्रोधप्रसादार्थं वयं ते शरणं गताः
एतत्कार्यं न जानीमस्तन्नो ब्रूहि पितामह ।
ऋषीणां तद्वचः श्रुत्वा ध्यानाद्विज्ञाय चेश्वरम्
प्रत्युवाच ततो ब्रह्मा वाक्यं च सुसमा हितः ।
एष देवो महादेवो विज्ञेयस्तु महेश्वरः
न तस्य परमं किञ्चित्पदं समधिगम्यते ।
देवानां च ऋषीणां च पितृणां चैव स प्रभुः
सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ।
संहरत्येष भगवान् कालो भूत्वा महेश्वरः
एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ।
एष चिक्री च वक्षोजश्रीवत्सकृतलक्षणः
येगी कृतयुगे चैव त्रेतायां क्रतुरुच्यते ।
द्वापरे चैव कालाग्निर्धर्मकेतुः कलौ स्मृतः
रुद्रस्य मूर्त्तयस्तिस्रो विज्ञेयाश्चापि पण्डितैः ।
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकः
मूर्त्तिरेका स्मृता यस्य दिग्वासाश्च शिवाह्वया ।
यत्र तिष्ठन्ति तद्ब्रह्मयोगेन तु समन्वितम्
तस्माद्देवं देवदेवमी शानं प्रभुमव्ययम् ।
आराधयत विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः
दृष्टं वै यादृशं तस्य लिङ्गमासीन्महात्मनः ।
तादृक्प्रतिकृतिं कृत्वा शूलपाणिं प्रपद्यत
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रमश्यति
ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् ।
आस्थिता वीतशोकास्ते देवदारुवने ततः
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।
स्थण्डिलेषु विचित्रेषु पर्वतेषु गुहासु च
नदीनां च विचित्रेषु पुलिनेषु शुभेषु च ।
एवं संवत्सरे पूर्णे वसंते समुपस्थिते ।
तदेव रूपमास्थाय देवस्तद्वनमागतः
कुसुमितबहुपादपालताकं भ्रमरगणै रुपगीयमानखण्डम् ।
परभृतपरिपूर्णचारुशब्दं प्रविशति तद्वनमाश्रमं महेशः
ततस्तं मुनयः सर्वे तुष्टुवुः सुसमाहिताः
अद्भिर्विवधमाल्यैश्च धूपमन्धैस्तथैव च ।
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः
मृदु भस्ते तदा वाग्भिर्गिरीशमिदमब्रुवन् ।
अज्ञानाद्देवदेवस्य यदस्माभिग्नुष्ठितम्
कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि ।
चरितानि विचित्राणि गुह्यानि गहनानि च
ब्रह्मादीनां च देवानां दुर्विज्ञेयानि शङ्कर ।
स्वागतं ते न जानीमो गतिं नैव च नैव च
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते ।
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम्
नमो भवाय भव्याय भावनायोद्भवाय च ।
अनन्तबलवीर्याय भूतानां पतये नमः
संहर्त्रे कपिशाङ्गाय अव्ययाय व्ययाय च ।
गङ्गा सलिलधाराय चाधाराय गुणात्मने
त्र्यंबकाय त्रिनेत्राय त्रिशूलवरधारिणे ।
कन्दर्पाय नमस्तुभ्यं नमो ऽस्तु परमात्मने
शकराय वृषाङ्काय गणानां पतये नमः ।
दण्डहस्ताय कालाय पाशहस्ताय वै नमः
वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः ।
भूतं भव्यं भविष्यच्च स्थावरं चङ्गमं च यत्
तव देहात्समुत्पन्नं देव सर्वमिदं जगत् ।
शेभो पाहि च भद्रं ते प्रसीद भगवंस्ततः
अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः ।
तत्सर्वं भगवानेव कुरुते योगमायया
एवं स्तुत्वा तु मुनयः प्रहृष्टेनान्तरात्मना ।
याचन्ते तपसा युक्ताः पश्यामस्त्त्वां यथा पुरा
प्रकृतिस्थं च ते लिङ्गं तथैवास्तु यथा पुरा ।
नमो दिग्वाससे नित्यं किङ्किणीजालमालिने
विकटाय करालाय करालवदनाय च ।
अरूपाय सुरूपाय विश्वरूपाय ते नमः
कटङ्कटाय रूद्राय स्वाहाकाराय वै नमः ।
सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः
दुर्ग्गन्धाय सुगन्धाय शूलहस्ताय वै नमः ।
स्वयं नीलशिखण्डाय श्रीकण्ठाय नमो नमः ।
नीलकण्ठाय देवाय चिताभस्माङ्गरागिणे
गुणत्रयात्मने तुभ्यं नमो विश्वाय वेधसे ।
श्मशानवासिने नित्यं प्रेतरूपाय वै नमः
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यते
पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ।
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा
ओङ्करः सर्ववेदानां ज्येष्ठसाम च सामसु ।
आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः
ग्राम्याणामृषभश्चापि भगवांल्लोकपूजितः ।
सर्वथा वर्त्तमानो ऽपि योयो भावो भविष्यति
त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा ।
कामः क्रोधश्च लोभश्च विषादो मद एव च
एतदिच्छाम वै रोद्धुं प्रसीद परमेश्वर ।
महासंहरणे प्राप्ते त्वया देव कृतात्मना
करं ललाटे संपीड्य वह्निरुत्पादितस्त्वया ।
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः
तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ।
यानि चान्यानिभूतानि स्थावराणि चराणि च
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वाह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि ।
महेश्वर महाभाग प्रभो शुभनिरीक्षक
आज्ञापय वयं नाथ कर्त्तारो वचनं तव ।
रूपकोटिसहस्रेषु रूपकोटिशतेषु च
अन्तं गन्तुं न शक्ताः स्म तव देव नमो ऽस्तु ते ।
ततस्तु भगवानीश इदं वचनमब्रवीत्
ये हि मे भस्मनिरता भस्मना दग्धकिल्बिषाः ।
यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः
न तान्परिवदेद्विद्वान् न च तानतिलङ्घयेत् ।
न चेमानप्रियं ब्रूयादमुत्रेह हितार्थवान्
यस्तान्निन्दति मूढात्मा महादेवंस निन्दति ।
यस्त्वेतान्पूजयेन्नित्यं स पूजयति शङ्करम् ।
एवं चरथ भद्रं वो मत्तः सिद्धिमवाप्स्यथ
अतुलमिह महातमः प्रणाशंशिवकथितं परमं विधिं विदित्वा ।
अपगतभयलोभमोहचिन्ताः सह पतिताः महसा शिरोभिरूहुः
ततस्ते मुदिता विप्राः प्रकृतिस्थे महेश्वरे ।
गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः
स्नापयन्ति महाकुम्भैरद्भिर्देवं महेश्वरम् ।
गायन्ति विविधैर्गुह्यैर् हुंकारैश्चापि सुस्वरैः
नमो दिग्वाससे देव किङ्किणीध्राय वै नमः ।
अर्द्ध नारीशरीराय सांख्ययोगप्रवर्त्तिने
घनवाहनकृष्णाय गजचर्मनिवासिने ।
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने
सुरचितचित्रविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् ।
मृगपतिवरचर्मवाससे ते पृथुपरशो च नमोस्तु शङ्कराय
भूयश्च स्थापिते लिङ्गे लोकानां हितकाम्यया ।
वर्णधर्मपराश्चैव चेरुस्ते मुनिसत्तमाः
ततस्तान्स मुनीन्प्रीतः प्रत्युवाच महेश्वरः ।
प्रीतोस्मि युष्मत्तपसा वरं वृणुत मुव्रताः
ततस्ते मुनयस्सर्वे प्रणिपत्य महेश्वरम् ।
भृग्वङ्गिरा वसिष्ठश्च विश्वामित्रस्तथैव च
गौतमो ऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिः कश्यपश्चापि संवर्तश्च महातपाः
ते प्रणम्य महादेवमिदं वचनमब्रुवन् ।
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता ।
सेव्यासेव्यत्वं तु विभो एतदिच्छाम वेदितुम्
भगवानुवाच
एतद्वः संप्रवक्ष्यामि कथासर्वस्वमद्य वै ।
अग्निर्ह्यहं सोमयुतः सोमश्चाग्निमुपश्रितः
कृताकृतं वदन्त्यग्निं भूयो लोकाः समाश्रिताः ।
असकृच्चाग्निना दग्धं जगत्स्थावरजङ्गमम्
भस्मसाध्यं हि तत्सर्वं पवित्रमिद मुत्तमम् ।
भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति
अग्निकार्यं च यत्कृत्वा करिष्यति च त्र्यायुषम् ।
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः
भासयत्येव यद्भस्म शुभं वासयते च यत् ।
तत्क्षणात्सर्वपापानां भस्मेति परिकीर्त्यते
ऊष्मपाः पितरो ज्ञेया देवा वै सोमसंभवाः ।
अग्नीषोमात्मकं सर्वं जगत्स्थावरजं गमम्
अहमग्निर्महातेजाः सोमश्चैषा ममांबिका ।
अहमग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम्
तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते ।
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः
तदा प्रभृति लोकेषु रक्षार्थमशुभेषु च ।
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च
भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः ।
मत्समीपसुपागम्य न भूयो विनिवर्तते
व्रतं पाशुपतं योगं कापालं योगनिर्मितम् ।
पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम्
शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टाः स्वयंभुवा ।
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका
नग्ना एव हि जायन्ते देवता मुनयस्तथा ।
ये चान्येमानवा लोके सर्वे जायन्त्यवाससः
इन्द्रियैरजितैर्नग्ना दुकूलेनापि संवृताः ।
तैरेव संवृतो गुप्तोन वस्त्रं कारणं स्मृतम्
क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः ।
तुल्यौ मानापमानौ च तत्प्रावरणमुत्तमम्
भस्मपाण्डुरदिग्धाङ्गो ध्यायते मनसा भवम् ।
यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् ।
तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा
भस्मना कुरुते स्नानं गाणपत्यं स गच्छति ।
संहृत्य च क्रतून्सर्वान्गृहीत्वामृतमुत्त मम्
ध्यायन्ति ये महादेवं लीनास्तद्भावभाविताः ।
उत्तरेणाथ पन्थानं ते ऽमृतत्वमवाप्नुयुः
दक्षिणेनाथ पन्थानं ये श्मशानानि भेजिरे ।
अणिमा महिमा चैव लघिमा प्राप्तिरेव च
गरिमा पञ्चमी चैव षष्ठं प्राकाम्यमेव च ।
ईशित्वं च वशित्वं च ह्यमरत्वं च ते गताः
इन्द्रादयस्तथा देवाः कामिकं व्रतमास्थिताः ।
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः
व्यपगतमदमोहमुक्तरागास्तमेरहजदोषविवर्जितस्वभावाः ।
परिभवमिदमुत्तमं विदित्वा पशुपतिदयितमिदं व्रतं चरध्वम्
यः पठेद्वै शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0