भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्माण्ड पुराण · अध्याय 1.26

1.26.1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्व भागे द्वितीये ऽनुषङ्गपादे नीलकण्ठनामोत्पत्तिकथनं नाम पञ्चविंशतितमो ऽध्यायः
ऋषय ऊचुः
महादेवस्य महात्म्यं प्रभुत्वं च महात्मनः ।
श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम्

1.26.2

सूत उवाच
पूर्वं त्रैलोक्यविजये विष्णुना समुदात्दृ तम् ।
बलिं बद्ध्वा महावीर्यं त्रैलोक्याधिपतिं पुरा

1.26.3

प्रनष्टेषु तु दैत्येषु प्रहृष्टे तु शचीपतौ ।
अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सनातनम्

1.26.4

यत्रास्ते विश्वरूपात्मा क्षीरोदस्य मसीपतः ।
सिद्धा ब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः

1.26.5

नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः ।
अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम्

1.26.6

त्वं धाता त्वं च कर्तासि त्वं लोकान्सृजसि प्रभो ।
त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम्

1.26.7

असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया ।
एवमुक्तः सुरैर्विष्णः सिद्धैश्च परमर्षिभिः

1.26.8

प्रत्युवाच तदा देवान् सर्वांस्तान्पुरुषोत्तमः ।
श्रूयतामभिधास्यामि कारणं सुरसत्तमाः

1.26.9

यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः ।
येनाहं ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया

1.26.10

तस्यैव च प्रसादेन आदौ सिद्धत्वमागतः ।
पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रसिते मया

1.26.11

उदरस्थेषु भूतेषु त्वेको ऽहं शयित स्तदा ।
सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात्

1.26.12

शङ्खचक्रगदापाणिः शयितो विमलेंऽभसि ।
एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम्

1.26.13

शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा ।
चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम्

1.26.14

कृष्णाजिनधरं देवं कमण्डलुविभूषितम् ।
निमेषान्तरमात्रेण प्राप्तो ऽसौ पुरुषोत्तमः

1.26.15

ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः ।
कस्त्वं कुतो वा कि चेह तिष्ठसे वद मे विभो

1.26.16

अहं कर्तास्मि लोकानां स्वयंभूर्विश्वतोमुखः ।
एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच तम्

1.26.17

अहं कर्त्ता हि लोकानां संहर्ता च पुनः पुनः ।
एवं संभाषमाणौ तु परस्परजयैषिणौ

1.26.18

उत्तरां दिशमास्थाय ज्वालामद्राक्ष्व विष्ठिताम् ।
ज्वालां ततस्तामालोक्य विस्मितौ च तदानघाः

1.26.19

तेजसा च बलेनाथ शार्वं ज्योतिः कृताञ्जली ।
वर्द्धमानां तदा ज्वालामत्यन्तपरमाद्भुताम्

1.26.20

अभिदुद्राव तां ज्वालां ब्रह्मा चाहं च सत्वरौ ।
दिवं भूमिं च निर्भिद्य तिष्ठन्तं जवालमण्डलम्

1.26.21

तस्या ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् ।
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीप्तिमत्

1.26.22

न च तत्काञ्चनं मध्ये नशैलं न च राजतम् ।
अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः

1.26.23

ज्वालामालासहस्राढ्यं विस्मयं परमद्भुतम् ।
महता तेजसायुक्तं वर्दभमानंभृशन्तथा

1.26.24

ज्वालामालाततं न्यस्तं सर्वभूतभयङ्करम् ।
घोररूपिणमत्यर्थं भिन्दं तमिव रोदसी

1.26.25

ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वमाशु वै ।
अन्तमस्य विजानीवो लिङ्गस्य तु महात्मनः

1.26.26

अहमूर्ध्वं गमिष्यामि यावदन्तो ऽस्य दृश्यते ।
तदा तु समयं कृत्वा गत उर्द्ध्वमधश्च हि

1.26.27

ततो वर्षसहस्रं तु ह्यहं पुनरधो गतः ।
न पश्यामि च तस्यान्तं भीतश्चाहं ततो ऽभवम्

1.26.28

तथैव ब्रह्मा ह्यूध्व च न चान्तं तस्य लब्धवान् ।
समागतो मया सार्द्ध तत्रैव च महाभसि

1.26.29

ततो विस्मयमापन्नौ भीतौ तस्य महात्मनः ।
मायया मोहितौ तेन नष्टसंज्ञै व्यवस्थितौ

1.26.30

ततो ध्यानरतौ तत्र चेश्वरं सर्वतोमुखम् ।
प्रभवं निधनं चैव लौकानां प्रभुमव्ययम्

1.26.31

प्रह्वाञ्जलिपुटौ भूत्वा तस्मै शर्वाय शूलिने ।
महाभैरवनादाय भीमरूपाय दंष्ट्रिणे ।
अव्यक्तायाथ महते नमस्कारं प्रकुर्वहे

1.26.32

नमो ऽस्तु ते लोकसुरेश देव नमो ऽस्तु ते भूतपते महात्मन् ।
नमो ऽस्तु ते शाश्वतसिद्धयोगिने नमोस्तु ते सर्वजगत्प्रतिष्ठित

1.26.33

परमेष्ठी परं ब्रह्म त्वक्षरं परमं पदम् ।
ज्येष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः

1.26.34

त्वं य5स्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः ।
स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम्

1.26.35

स्वधाकारश्च यज्ञश्च व्रतानि नियमास्तथा ।
वेदा लोकाश्च देवाश्च भगवानेव सर्वशः

1.26.36

आकाशस्य च शब्दस्त्वंभूतानां प्रभवाप्ययः ।
भूमौ गन्धो रसश्चाप्सु तेजोरूपं महेश्वरः

1.26.37

वायोः स्पर्शश्च देवेश वपुश्चन्द्रमसस्तथा

1.26.38

बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च

1.26.39

संहर्त्ता सर्वलोकानां कालो मृत्युमयोंऽतकः ।
त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो

1.26.40

पूर्वेण वदनेन त्वमिन्द्रत्वं प्रकरोषि वै ।
दक्षिणेन तु वक्त्रेण लोकान्संक्षिपसे पुनः

1.26.41

पश्चिमेन तु वक्त्रेण वरुणस्थो न संशयः ।
उत्तरेण तु वक्त्रेण सोमस्त्वं देवसत्तमः

1.26.42

एकधा बहुधा देव लोकानां प्रभवाप्ययः ।
आदित्या वसवो रुद्रा मरुतश्च सहाश्विनः

1.26.43

साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः ।
वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः

1.26.44

त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः ।
उमा सीता सिनीवाली कुहूर्गायत्र्य एव च

1.26.45

लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा कान्तिर्वपुः स्वधा ।
तुष्टिः पुष्टिः क्रिया चैव वाचां देवी सरस्वती ।
त्वत्तः प्रसूता देवेश संध्या रात्रिस्तथैव च

1.26.46

सूर्यायुतानामयुतप्रभाव नमो ऽस्तु ते चन्द्रसहस्रगौर ।
नमो ऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते देव हिरण्यवाससे

1.26.47

नमोस्तु ते भस्मविभूषिताङ्ग नमो ऽस्तु ते कामशरीरनाशन ।
नमो ऽस्तु ते देव हिरण्यरेतसे नमो ऽस्तु ते देव हिरण्यवाससे

1.26.48

नमो ऽस्तु ते देव हिरण्ययोने नमो ऽस्तु ते देव हिरण्यनाभ ।
नमो ऽस्तु ते देव हिरण्यरेतसे नमो ऽस्तु ते नेत्रसहस्रचित्र

1.26.49

नमो ऽस्तु ते देव हिरण्यवर्ण नमो ऽस्तु ते देव हिरण्यकेश ।
नमो ऽस्तु ते देव हिरण्यवीर नमो ऽस्तु ते देव हिरण्यदायिने

1.26.50

नमो ऽस्तु ते देव हिरण्यनाथ नमो ऽश्तुते देव हिरण्यनाद ।
नमो ऽस्तु ते देव पिनाकपाणे नमो ऽश्तुते ते शङ्कर नीलकण्ठ

1.26.51

एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः ।
देवदेवो जगद्योनिः सूर्य कोटिसमप्रभः

1.26.52

आबभाषे कृपाविष्टो महादेवो महाद्युतिः ।
वक्त्रकोटिसहस्रेण ग्रसमान इवांबरम्

1.26.53

कंबुग्रीवः सुज ठरो नानाभूषणभूषितः ।
नानारत्नविचित्राङ्गो नानामाल्यानुलेपनः

1.26.54

पिनाकपाणिर्भगवान्सुरपूज्यस्त्रिशूलधृक् ।
व्यालय ज्ञोपवीती च सुराणामभयङ्करः

1.26.55

दुन्दुभिस्वरनिर्घोषः पर्जन्यनिनदोपमः ।
मुक्तो हासस्तदा तेन सर्वमापूरयञ्जगत्

1.26.56

तेन शब्देन महता चावां भीतौ महात्मनः ।
अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ

1.26.57

पश्यतां च महायोगं भयं सर्व प्रमुच्यताम् ।
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ

1.26.58

यं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः ।
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः

1.26.59

प्रीतो ऽहं युवयोः सम्यग्वरं दद्यां यथैप्सितम् ।
ततः प्रहृष्टमनसौ प्रणतौ पादयोः प्रभोः

1.26.60

अब्रूतां च महादेवं प्रसादाभिमुखं स्थितम् ।
यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च ते ।
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर

1.26.61

देवदेव उवाच
एवमस्तु महाभागौ सृजतां विपुलाः प्रजाः ।
एवमुक्त्वा स भगवांस्तत्रैवातरधाद्विभुः

1.26.62

एष एव मयोक्तो वः प्रभावस्तस्य धीमतः ।
एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम्

1.26.63

एतत्सूक्ष्ममचिन्त्यं च पश्यन्ति ज्ञ3नचक्षुषः ।
तस्मै देवाधिदेवाय नमस्कारं प्रकुर्महे ।
महादेव नमस्ते ऽस्तु महेश्वर नमो ऽस्तु ते

1.26.64

सूत उवाच
एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम् ।
नमस्कारं प्रकुर्वाणाः शङ्कराय महात्मने

1.26.65

इमं स्तवं पठिद्यस्तु चेश्वरस्य महात्मनः ।
कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते

1.26.66

एतत्सर्वं तदा तेन न विष्णुना प्रभविष्णुना ।
महादेवप्रसादेन ह्युक्तं ब्रह्म सनातनम् ।
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम्

मूल पाठ: Brahmāṇḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc